श्रीमद्भगवद्गीता – अष्टादशोऽध्यायः – मोक्षसंन्यासयोगः
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
पदच्छेदः
ईश्वरः सर्वभूतानां हृद्देशे अर्जुन तिष्ठति भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥ ६१ ॥
अन्वयः
अर्जुन ! ईश्वरः सर्वभूतानि यन्त्रारूढानि मायया भ्रामयन् सर्वभूतानां हृद्देशे तिष्ठति ।
पदपरिचयः
- प्रथमवाक्यम्
- सम्बोधनपदम् = अर्जुन!
- प्रथमवाक्यम्
- क्रियापदम् = तिष्ठति
- वाक्यांश:
- अधिकरणपदम् = हृद्देशे
- सम्बन्ध-पदम् = सर्वभूतानाम्
- वाक्यांश:
- कर्तृविशेषणम् = भ्रामयन्
- करणवाचकपदम् = मायया
- वाक्यांश:
- कर्मपदम् = सर्वभूतानि
- कर्मविशेषणम् = यन्त्रारूढानि
- कर्तृपदम् = ईश्वरः
तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
पदच्छेदः
तम् एव शरणं गच्छ सर्वभावेन भारत तत् प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥
अन्वयः
भारत ! सर्वभावेन तम् एव शरणं गच्छ । तत्प्रसादात् परां शान्तिं शाश्वतं स्थानं प्राप्स्यसि ।
पदपरिचयः
- सम्बोधनपदम् = भारत!
- प्रथमवाक्यम्
- क्रियापदम् = गच्छ
- कर्मपदम् = शरणम्
- कर्मविशेषणम् = तम्
- अवधारणम् = एव
- करणवाचकपदम् = सर्वभावेन
- कर्तृपदम् = (त्वम्)
- द्वितीयवाक्यम्
- क्रियापदम् = प्राप्स्यसि
- कर्मपदम् = स्थानम्
- कर्मविशेषणम् = पराम्
- कर्मविशेषणम् = शान्तिम्
- कर्मविशेषणम् = शाश्वतम्
- कारणवाचकपदम् = तत्प्रसादात्
- कर्तृपदम् = (त्वम्)
इति ते ज्ञानमाख्यातं गुह्याद् गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
पदच्छेदः
इति ते ज्ञानम् आख्यातं गुह्यात् गुह्यतरं मया विमृश्य एतत् अशेषेण यथा इछसि तथा कुरु ॥
अन्वयः
इति मया गुह्यात् गुह्यतरम् एतत् ज्ञानम् ते आख्यातम् । एतत् अशेषेण विमृश्य यथा इच्छसि तथा कुरु।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-वाक्यांश:
- (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= आख्यातम्
- सम्प्रदानपदम् = ते
- (कर्मणि) कर्मपदम् = ज्ञानम्
- (कर्मणि) कर्मविशेषणम् = इति
- वाक्यांश:
- (कर्मणि) कर्मविशेषणम् = गुह्यतरम्
- अपादानपदम् = गुह्यात्
- (कर्मणि) कर्मविशेषणम् = एतत्
- (कर्मणि) कर्तृपदम् = मया
- द्वितीयवाक्यम्
- “यथा” वाक्यांश:
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = विमृश्य
- करणवाचकपदम् = अशेषेण
- कर्मपदम् = एतत्
- क्रियापदम् = इच्छसि
- संयोजकपदम् = यथा
- कर्तृपदम् = (त्वम्)
- ल्यबन्त-वाक्यांश:
- “तथा” वाक्यांश:
- क्रियापदम् = कुरु
- संयोजकपदम् = तथा
- कर्तृपदम् = (त्वम्)
- “यथा” वाक्यांश:
सर्वगुह्यतमं भूयः शृणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ ६४ ॥
पदच्छेदः
सर्वगुह्यतमं भूयः शृणु मे परमं वचः इष्ट असि मे दृढम् इति ततः वक्ष्यामि ते हितम् ॥
अन्वयः
मे सर्वगुह्यतमं परमं वचः भूयः शृणु । मे दृढं इष्टः असि इति ततः ते हितं वक्ष्यामि ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = शृणु
- कर्मपदम् = वचः
- कर्मविशेषणम् = परमम्
- कर्मविशेषणम् = सर्वगुह्यतमम्
- सम्बन्ध-पदम् = मे
- कर्तृपदम् = (त्वम्)
- द्वितीयवाक्यम्
- वाक्यांश:
- क्रियापदम् = असि
- कर्तृपदम् = (त्वम्)
- वाक्यांश:
- कर्तृ-विशेषण-सूचक-पदम् = इष्टः
- क्रियाविशेषणम् = दृढम्
- सम्बन्ध-पदम् = मे
- संयोजकपदम् = इति
- वाक्यांश:
- क्रियापदम् = वक्ष्यामि
- कर्तृपदम् = (अहम्)
- कर्मपदम् = हितम्
- सम्प्रदानपदम् = ते
- संयोजकपदम् = ततः
- वाक्यांश:
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥
पदच्छेदः
मन्मना भव मद्भक्तः मद्याजी मां नमस्कुरु माम् एव एष्यसि सत्यं ते प्रतिजाने प्रियः असि मे ॥
अन्वयः
मन्मना भव । मद्भक्तः मद्याजी मां नमस्कुरु । माम् एव एष्यसि । ते सत्यं प्रतिजाने । मे प्रियः असि ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = भव
- कर्तृ-विशेषण-सूचक-पदम् = मन्मना
- कर्तृपदम् = (त्वम्)
- द्वितीयवाक्यम्
- क्रियापदम् = नमस्कुरु
- कर्मपदम् = माम्
- कर्तृपदम् = (त्वम्)
- कर्तृविशेषणम् = मद्भक्तः
- कर्तृविशेषणम् = मद्याजी
- तृतीयवाक्यम्
- क्रियापदम् = एष्यसि
- कर्मपदम् = माम्
- अवधारणम् = एव
- कर्तृपदम् = (त्वम्)
- चतुर्थवाक्यम्
- क्रियापदम् = प्रतिजाने
- कर्तृपदम् = (अहम्)
- कर्मपदम् = सत्यम्
- सम्प्रदानपदम् = ते
- पञ्चमवाक्यम्
- क्रियापदम् = असि
- कर्तृपदम् = (त्वम्)
- कर्तृ-विशेषण-सूचक-पदम् = प्रियः
- सम्बन्ध-पदम् = मे
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
पदच्छेदः
सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ॥१८.६६॥
अन्वयः
सर्वधर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यः मोक्षयिष्यामि मा शुचः ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = व्रज
- कर्तृपदम् = (त्वम्)
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = परित्यज्य
- कर्मपदम् = सर्वधर्मान्
- कर्मपदम् = माम्
- कर्मविशेषणम् = एकम्
- कर्मविशेषणम् = शरणम्
- द्वितीयवाक्यम्
- क्रियापदम् = मोक्षयिष्यामि
- अपादानपदम् = सर्वपापेभ्यः
- कर्मपदम् = त्वा
- कर्तृपदम् = अहम्
- तृतीयवाक्यम्
- क्रियापदम् = (भव)
- प्रतिषेधपदम् = मा
- कर्तृ-विशेषण-सूचक-पदम् = शुचः
- कर्तृपदम् = (त्वम्)
इदं ते नातपस्काय नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ ६७ ॥
पदच्छेदः
इदं ते न अतपस्काय न अभक्ताय कदाचन न च अशुश्रूषवे वाच्यं न च मां यः अभ्यसूयति ॥
अन्वयः
इदं ते (उक्तं) कदाचन अतपस्काय न वाच्यम् । न अभक्ताय, न च अशुश्रूषवे, मां यः अभ्यसूयति तस्मै न ।
पदपरिचयः
- प्रथमवाक्यम
- क्रियापदम् = (भवति)
- कर्तृ-विशेषण-सूचक-पदम् = वाच्यम्
- प्रतिषेधपदम् = न
- सम्प्रदानपदम् = अतपस्काय
- कालवाचकपदम् = कदाचन
- कर्तृपदम् = इदम्
- वाक्यांश:
- कर्तृविशेषणम् = (उक्तम्)
- सम्प्रदानपदम् = ते
- समुच्चय-वाक्यम्
- सम्प्रदानपदम् = अभक्ताय
- प्रतिषेधपदम् = न
- समुच्चय-वाक्यम्
- सम्प्रदानपदम् = अशुश्रूषवे
- प्रतिषेधपदम् = न
- संयोजकपदम् = च
- समुच्चय-वाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = अभ्यसूयति
- कर्तृपदम् = यः
- कर्मपदम् = माम्
- “तस्मै” वाक्यांश:
- सम्प्रदानपदम् = तस्मै
- प्रतिषेधपदम् = न
- “यः” वाक्यांश:
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥
पदच्छेदः
य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥
अन्वयः
यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।
पदपरिचयः
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = अभिधास्यति
- अधिकरणपदम् = मद्भक्तेषु
- कर्मपदम् = इदम्
- कर्मविशेषणम् = परमम्
- कर्मविशेषणम् = गुह्यम्
- कर्तृपदम् = यः
- “सः” वाक्यांश:
- क्रियापदम् = एष्यति
- क्त्वान्त-वाक्यांश:
- क्त्वान्तपदम् = कृत्वा
- कर्मपदम् = भक्तिम्
- कर्मविशेषणम् = पराम्
- कर्तृपदम् = सः
- कर्मपदम् = माम्
- अवधारणम् = एव
- द्वितीयवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = असंशयः
- कर्तृपदम् = (एतद्)
- “यः” वाक्यांश:
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ ६९ ॥
पदच्छेदः
न च तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः भविता न च मे तस्मात् अन्यः प्रियतरः भुवि ॥
अन्वयः
मनुष्येषु च तस्मात् कश्चित् मे न प्रियकृत्तमः । तस्मात् अन्यः प्रियतरः भुवि न च भविता ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- प्रतिषेधपदम् = न
- वाक्यांश:
- कर्तृ-विशेषण-सूचक-पदम् = प्रियकृत्तमः
- अपादानपदम् = तस्मात्
- अधिकरणपदम् = मनुष्येषु
- अवधारणम् = च
- सम्बन्ध-पदम् = मे
- कर्तृपदम् = कश्चित्
- द्वितीयवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = भविता
- प्रतिषेधपदम् = न
- संयोजकपदम् = च
- अधिकरणपदम् = भुवि
- कर्तृपदम् = अन्यः
- कर्तृविशेषणम् = प्रियतरः
- अपादानपदम् = तस्मात्
अध्येष्यते च ये इमं धर्म्यं संवादमावयोः ।
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ ७० ॥
पदच्छेदः
अध्येष्यते च ये इमं धर्म्यं संवादम् आवयोः ज्ञानयज्ञेन तेनाहम् इष्टः स्याम् इति मे मतिः ॥
अन्वयः
यः च आवयोः इमं धर्म्यं संवादम् अध्येष्यते तेन ज्ञानयज्ञेन अहम् इष्टः स्याम् इति मे मतिः ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = मतिः
- सम्बन्ध-पदम् = मे
- वाक्यांश:
- “यः” वाक्यांश:
- क्रियापदम् = अध्येष्यते
- कर्मपदम् = संवादम्
- कर्मविशेषणम् = धर्म्यम्
- कर्मविशेषणम् = इमम्
- सम्बन्ध-पदम् = आवयोः
- कर्तृपदम् = यः
- संयोजकपदम् = च
- “तेन” वाक्यांश:
- क्रियापदम् = स्याम्
- कर्तृपदम् = अहम्
- करणवाचकपदम् = ज्ञानयज्ञेन
- करणविशेषणम् = तेन
- कर्तृ-विशेषण-सूचक-पदम् = इष्टः
- संयोजकपदम् = इति
- “यः” वाक्यांश:
श्रद्धावाननसूयश्च शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम्॥ ७१ ॥
पदच्छेदः
श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्यकर्मणाम् ॥
अन्वयः
श्रद्धावान् अनसूयः च यः नरः शृणुयात् अपि सः अपि मुक्तः पुण्यकर्मणां शुभान् लोकान् प्राप्नुयात् ।
पदपरिचयः
- प्रथमवाक्यम्
- “यः” वाक्यांश:
- क्रियापदम् = शृणुयात्
- अवधारणम् = अपि
- कर्तृपदम् = नरः
- कर्तृविशेषणम् = यः
- कर्तृविशेषणम् = श्रद्धावान्
- कर्तृविशेषणम् = अनसूयः
- अवधारणम् = च
- “सः” वाक्यांश:
- क्रियापदम् = प्राप्नुयात्
- कर्मपदम् = लोकान्
- कर्मविशेषणम् = शुभान्
- सम्बन्ध-पदम् = पुण्यकर्मणाम्
- कर्तृपदम् = सः
- अवधारणम् = अपि
- कर्तृविशेषणम् = मुक्तः
- “यः” वाक्यांश:
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय ॥ ७२ ॥
पदच्छेदः
कच्चिदेतत् शृतं पार्थ त्वया एकाग्रेण चेतसा कच्चित् अज्ञानसम्मोहः प्रणष्टः ते धनञ्जय ॥
अन्वयः
पार्थ ! त्वया एकाग्रेण चेतसा एतत् श्रुतं कच्चित् । धनञ्जय ! ते अज्ञानसम्मोहः प्रणष्टः कच्चित् ।
पदपरिचयः
- सम्बोधनपदम् = पार्थ!
- प्रथमवाक्यम्
- प्रश्नवाचकपदम् = कच्चित्
- (कर्मणि) क्रिया-गर्भ-कर्मपदम्= श्रुतम्
- (कर्मणि) कर्मविशेषणम् = एतत्
- करणवाचकपदम् = चेतसा
- करणविशेषणम् = एकाग्रेण
- (कर्मणि) कर्तृपदम् = त्वया
- सम्बोधनपदम् = धनञ्जय!
- द्वितीयवाक्यम्
- प्रश्नवाचकपदम् = कच्चित्
- कर्तृ-विशेषण-सूचक-पदम् = प्रणष्टः
- कर्तृपदम् = अज्ञानसम्मोहः
- सम्बन्ध-पदम् = ते
अर्जुन उवाच –
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाच्युत ।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ ७३ ॥
पदच्छेदः
नष्टः मोहः स्मृतिः लब्धा त्वत्प्रसादात् मया अच्युत स्थितः अस्मि गतसन्देहः करिष्ये वचनं तव ॥
अन्वयः
अच्युत ! तव प्रसादात् मोहः नष्टः । स्मृतिः मया लब्धा । गतसन्देहः स्थितः अस्मि । तव वचनं करिष्ये ।
पदपरिचयः
- सम्बोधनपदम् = अच्युत!
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृ-विशेषण-सूचक-पदम् = नष्टः
- कर्तृपदम् = मोहः
- वाक्यांश:
- कारणवाचकपदम् = प्रसादात्
- सम्बन्ध-पदम् = तव
- द्वितीयवाक्यम्
- क्रियापदम् = (अस्ति)
- वाक्यांश:
- (कर्मणि) कर्मविशेषण-सूचक-पदम् = लब्धा
- (कर्मणि) कर्तृपदम् = मया
- (कर्मणि) कर्मपदम् = स्मृतिः
- तृतीयवाक्यम्
- क्रियापदम् = अस्मि
- कर्तृ-विशेषण-सूचक-पदम् = स्थितः
- कर्तृविशेषणम् = गतसन्देहः
- कर्तृपदम् = (अहम्)
- चतुर्थवाक्यम्
- क्रियापदम् = करिष्ये
- वाक्यांश:
- कर्मपदम् = वचनम्
- सम्बन्ध-पदम् = तव
- कर्तृपदम् = (अहम्)
सञ्जय उवाच –
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिमश्रौषमद्भुतं रोमहर्षणम् ॥ ७४ ॥
पदच्छेदः
इति अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमम् अश्रौषम् अद्भुतं रोमहर्षणम् ॥
अन्वयः
महात्मनः वासुदेवस्य पार्थस्य च रोमहर्षणम् अद्भुतम् इमं संवादम् इति अहम् अश्रौषम् ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = अश्रौषम्
- कर्मपदम् = संवादम्
- कर्मविशेषणम् = इमम्
- कर्मविशेषणम् = अद्भुतम्
- कर्मविशेषणम् = रोमहर्षणम्
- संयोजकपदम् = इति
- वाक्यांश:
- सम्बन्ध-पदम् = वासुदेवस्य
- सम्बन्ध-विशेषण-पदम् = महात्मनः
- सम्बन्ध-पदम् = पार्थस्य
- संयोजकपदम् = च
- कर्तृपदम् = अहम्
व्यासप्रसादाच्छ्रुतवानेतद् गुह्यमहं परम् ।
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ ७५ ॥
पदच्छेदः
व्यासप्रसादात् शृतवान् एतत् गुह्यम् अहं परम् योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥
अन्वयः
साक्षात् योगेश्वरात् कृष्णात् कथयतः स्वयं, गुह्यं परम् एतत् योगं व्यासप्रसादात् अहं श्रुतवान् ।
पदपरिचयः
- प्रथमवाक्यम्
- कर्तृ-विशेषण-सूचक-पदम् = श्रुतवान्
- कारणवाचकपदम् = व्यासप्रसादात्
- कर्मपदम् = योगम्
- कर्मविशेषणम् = एतत्
- कर्मविशेषणम् = परम्
- कर्मविशेषणम् = गुह्यम्
- वाक्यांश:
- अपादानपदम् = कृष्णात्
- अवधारणम् = स्वयम्
- वाक्यांश:
- अपादानविशेषणम् = योगेश्वरात्
- अपादानविशेषणम् = साक्षात्
- अपादानविशेषणम् = कथयतः
- कर्तृपदम् = अहम्
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ ७६ ॥
पदच्छेदः
राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुम् केशवार्जुनयोः पुण्यं हृष्यामि च मुहुः मुहुः ॥
अन्वयः
राजन् ! अद्भुतं पुण्यं केशवार्जुनयोः इमं संवादं संस्मृत्य संस्मृत्य मुहुः मुहुः च हृष्यामि ।
पदपरिचयः
- सम्बोधनपदम् = राजन्!
- प्रथमवाक्यम्
- क्रियापदम् = हृष्यामि
- क्रियाविशेषणम् = मुहुः
- अवधारणम् = मुहुः
- संयोजकपदम् = च
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = संस्मृत्य
- अवधारणम् = संस्मृत्य
- कर्मपदम् = संवादम्
- कर्मविशेषणम् = इमम्
- सम्बन्ध-पदम् = केशवार्जुनयोः
- कर्मविशेषणम् = पुण्यम्
- कर्मविशेषणम् = अद्भुतम्
- कर्तृपदम् = (अहम्)
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ॥ ७७ ॥
पदच्छेदः
तत् च संस्मृत्य संस्मृत्य रूपम् अति अद्भुतं हरेः विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः ॥
अन्वयः
राजन् ! हरेः अत्यद्भुतं च तत् रूपं संस्मृत्य संस्मृत्य (स्थितस्य) मे महान् विस्मयः । पुनः पुनः च हृष्यामि।
पदपरिचयः
- सम्बोधनपदम् = राजन्!
- प्रथमवाक्यम्
- क्रियापदम् = (भवति)
- कर्तृपदम् = विस्मयः
- कर्तृविशेषणम् = महान्
- सम्बन्ध-पदम् = मे
- ल्यबन्त-वाक्यांश:
- ल्यबन्तपदम् = संस्मृत्य
- अवधारणम् = संस्मृत्य
- कर्मपदम् = रूपम्
- सम्बन्ध-पदम् = हरेः
- कर्मविशेषणम् = तत्
- कर्मविशेषणम् = अत्यद्भुतम्
- संयोजकपदम् = च
- द्वितीयवाक्यम्
- क्रियापदम् = हृष्यामि
- क्रियाविशेषणम् = पुनः
- अवधारणम् = पुनः
- संयोजकपदम् = च
- कर्तृपदम् = (अहम्)
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
पदच्छेदः
यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम ॥
अन्वयः
यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः (इति) मम मतिः ।
पदपरिचयः
- प्रथमवाक्यम्
- क्रियापदम् = (अस्ति)
- कर्तृपदम् = मतिः
- सम्बन्ध-पदम् = मम
- वाक्यांश:
- “यत्र” वाक्यांश:
- क्रियापदम् = (अस्ति)
- कर्तृपदम् = कृष्णः
- कर्तृविशेषणम् = योगेश्वरः
- स्थानवाचकपदम् = यत्र
- “यत्र” वाक्यांश:
- क्रियापदम् = (अस्ति)
- कर्तृपदम् = पार्थः
- कर्तृविशेषणम् = धनुर्धरः
- स्थानवाचकपदम् = यत्र
- “तत्र” वाक्यांश:
- क्रियापदम् = (भवन्ति)
- कर्तृपदम् = श्रीः
- कर्तृपदम् = विजयः
- कर्तृपदम् = भूतिः
- कर्तृपदम् = ध्रुवा
- कर्तृपदम् = नीतिः
- स्थानवाचकपदम् = तत्र
- संयोजकपदम् = (इति)
- “यत्र” वाक्यांश:
References –
- 5 Mar 2016 दिनाङ्कयोः नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे अन्तिम कक्षायां पाठिता: श्लोका:
- https://sa.wikipedia.org/s/7q4 मोक्षसंन्यासयोगः
- Gita Praveshah course books by Samskrita Bharati [Sanskrit]
- https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site