(Video) #4 – Kalidasa’s Raghuvamsam – 2nd Sarga – Smt. Vidhya – Shloka 5

रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै

(Raghuvamsa Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

 

(Video) #3 – Kalidasa’s Raghuvamsam – 2nd Sarga – Smt. Vidhya – Shloka 4

रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै

(Raghuvamsa Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

 

6 Types of Negation

Words prefixed with अ indicating negation (नञ्) can mean one of the six types of negation.

https://sa.wikisource.org/wiki/शब्दकल्पद्रुमः/अ 

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ।।

तत्+सादृश्यम् अभावः च तत्+अन्यत्वं तत्+अल्पता ।
अप्राशस्त्यं विरोधः च  नञ् अर्थाः षट् प्रकीर्त्तिताः ।।

सादृश्ये यथा — अब्राह्मणः ब्राह्मणसदृश- इत्यर्थः ।
अभावे यथा — अभोजनं भोजनाभावः ।
अन्यत्वे यथा, — पटः अघटः, पटः घटभिन्न- इत्यर्थः ।
अल्पत्वे यथा — अनुदरी कन्या अल्पोदरी इत्यर्थः ।
अप्राशस्त्ये यथा, — अधनं चर्म्मधनं, चर्म्मधनम् अप्रशस्तधनम् इत्यर्थः ।
विरोधे यथा — अधर्म्मः परापकारः, परापकारः धर्म्मविरोधी इत्यर्थः ।

*****

The following is from https://simplesanskrit.wordpress.com/2014/01/19/simple-sanskrit-lesson-33/

  1. तत्सादृश्यम् = Looks like that, but it is not that
  2. अभावः = Absent, non-existent
  3. तदन्यत्वम् = Different
  4. तदल्पता = Incomplete, inadequate, too little
  5. अप्राशस्त्यम् = Inappropriate
  6. विरोधः = Opposite

(Video) #2 – Kalidasa’s Raghuvamsam – 2nd Sarga – Smt. Vidhya – Shlokas 2-3

रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै

(Raghuvamsa Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

 

Random Sanskrit Verses

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
(श्रीरामः  वदति | हनुमन्नाटकम् by unknown author)
स होवाच 
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस्तु कामाय पतिः प्रियो भवति । ...
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस्तु कामाय सर्वं प्रियं भवति । (
मन्त्र ५ [II.iv.5] - https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_2p 
न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ॥ 
(राजा रंतिदेवः वदति |महाभारतम्) 

*****

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति

अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।  
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ।।
समानार्थकम् पद्यम् —
अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः। 
सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात्।। (पञ्चतन्त्रम्)

असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते |
निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् || २-२२-२४ (वा.रा.)
अन्वयः – आरब्दम् आरब्भं निवर्त्य, असङ्कल्पितम् एव इह अकस्मात् यत् प्रवर्तते,  तत् दैवस्य कर्म 
ननु | 

मोदकैः ताडय
*More details given below

खादन् न गच्छामि,हसन् न जल्पे
गतं न शोचामि, कृतं न मन्ये ।
द्वाभ्यां तृतीयो न भवामि राजन्
किं कारणं भोज भवामि मूर्ख ?
*More details given below

काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम्  
वरदः संशयापन्नो वक्षःस्थलमवैक्षत |
*More details given below

गायन्ति देवा: किल गीतकानि धन्‍यास्‍तु ते भारतभूमिभागे
स्‍वर्गापवर्गास्‍पदमार्गभूते भवन्‍तु भूया: पुरुषा: सुरत्‍वात् ।।

वाच्यतां समयोsतीत: स्पष्टमग्रे भविष्यति
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते?
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता
त्रय: शिष्यगुणाह्येते  मुर्खाचार्यस्य भाग्यजा:    

More details for some shlokas….

अनेकशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।  
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ।।

पदविभागः
अनेकशास्त्रम्, बहु, वेदितव्यम्, अल्पः, च, कालः, बहवः, च, विघ्नाः, यत्, सारभूतम्, तत्, उपासितव्यम्, हंसः, यथा, क्षीरम्, इव अम्बुमध्यात् ।
अन्वयः।
अनेकशास्त्रम् । बहु वेदितव्यम् । कालश्च अल्पः । विघ्नाः च बहवः । यत् सारभूतं तत् उपासितव्यम्, यथा अम्बुमध्यात् क्षीरम् इव ।
अन्वयार्थः
अनेकशास्त्रं = शास्त्राणि सन्ति बहूनि, बहु = अधिकम्, वेदितव्यं = ज्ञातव्यम् । कालः च = समयः च, अल्पः = न अधिकः, विघ्नाः बहवः = विघ्नकारकाः अंशाः अधिकाः, यत् सारभूतं = यत् सारयुक्तं भवति, तत् उपासितव्यम् = तदेव सेवनीयम् । यथा, हंसः = हंसपक्षी, अम्बुमध्यात् = जलमध्यात्, क्षीरम् इव = क्षीरं स्वीकरोति तथा ।
तात्पर्यम्
जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः। अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं – ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः।
-*-

एकदा एकः राजा पत्न्या सह स्वभवनस्य तरणकुण्डे क्रीडनासीत् | तदा राज्ञ्या प्रीत्या “मोदकैः ताडय” इत्युक्तम् | राजा राज्ञ्यै मोदकानि अपेक्षते इति विचिन्त्य तानि आनयत् | वस्तुतः राज्ञ्याः आकाङ्क्षा “उदकैः मा ताडय” इत्येवासीत् |
-*-

एकदा भोजराजस्य राज्ञी स्वस्याः सख्या सह वार्तालापे मग्ना आसीत् | राजा तत्र गत्वा स्वस्य अभिप्रायम् उक्तवान् | राज्ञी राजानं “हे मूर्खराज” इति आहूतवती  |किमर्थं राज्ञ्या तथा उक्तमिति राज्ञा न ज्ञातम्  | सः राज्यसभां गत्वा कालिदासं दृष्ट्वा “हे मूर्ख” इति अवदत्| तस्मिन् समये कालिदासः इमं श्लोकं अवदत् |
खादन् न गच्छामि,हसन् न जल्पे
गतं न शोचामि, कृतं न मन्ये ।
द्वाभ्यां तृतीयो न भवामि राजन्
किं कारणं भोज भवामि मूर्ख ?
तदानीमेव तेन कृतः दोषः कः इति राजा ज्ञातवान् | 
-*-

काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् वरदः संशयापन्नो वक्षःस्थलमवैक्षत |
Extract from my class notes — H.V. Nagaraja Rao Sir’s class on Dhyvanyaaloka!
In Dhvani, the suggested meaning is one which is not explicitly stated, yet it is understood by the Sahrudayaas. In Chitra Meemaamsaa, Appaiya Deekshita quotes this example अन्वयः — साक्षात् श्रियम् इव काञ्चित् काञ्चनगौराङ्गी वीक्ष्य संशयापन्नः वरदः वक्षःस्थलम् अवैक्षत | In Kanchi, there is Varadaraaja Swamy Temple. In the Vasanthostava, Varadaraajaa himself came to play with the devotees. At that time, he notices a woman. She is काञ्चन–गौराङ्गी i.e., she has a golden yellowish body; साक्षात् श्रियम् इव – She resembled Goddess Lakshmi Herself. वरद: संशयम् आपन्न: – Lord Varada was confused and he looked at his heart वक्षःस्थलम् अवैक्षत. The poet has not stated why he looked at his heart. His heart is the seat of Lakshmi as she is vakshassthala vaasini. Some readers will assume that Varada wants to check if Lakshmi has left that place and has come here in person. Another reader interprets it this way – Since Lakshmi has the arrogance that she is only the most beautiful woman, Varada wants to see her reaction when this lady with golden complexion is in front of him. A third person says that Varada looked at his heart to compare Lakshmi with the lady. Thus the suggested meaning is different and it cannot be classified as any other earlier defined entity. The great poets have included this Dhvani in their poems. The readers enjoy this suggestion which is different from the other alamkaaras.
-*-

Nilakanthadikshita, who lived in 16th century, was a great poet and also a well versed scholar. He wrote a satirical work, Kalividambanam. In this work, he wonderfully depicts the characteristics of some pseudo teachers and students.
वाच्यतां समयोsतीत: स्पष्टमग्रे भविष्यति
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते?
 “Read quickly. There is no time. If you don’t understand now it will be understood to you in course of time” Thus teach some teachers. They can teach every subject and find no difficulty in teaching any subject because they will not explain any thing.  It is their methodology of teaching.
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता
त्रय: शिष्यगुणाह्येते  मुर्खाचार्यस्य भाग्यजा:    
Of the good fortune, the teacher of the above kind gets a student who has no other go except accepting him to be his teacher as there is no any other teacher in and around; over politeness and who is satisfied  with the wrong knowledge he possesses. Such disciples are available to pseudo teachers by their good fortune alone. Source: http://saraswatam.blogspot.com/2015/09/the-pseudo-student-of-pseudo-teacher.html 
-*-

औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।

सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता” ॥ इति सङ्गीतरत्नाकरः ॥

सम्पूर्णा = All 7 musical notes; षाडवः = 6 notes; औडवः =  5 notes; स्वरान्तरा = 4 notes

“वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥ ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः । ते संजाता यत्र गीते तदौडवितमुच्यते ॥ तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः”

Because the stars (udava) travel, the space is called (udavam). It is the fifth element among the five basic elements. So it is used synonymous with number five. The collection of five swaras is called Odavee. The song or raga related to Odavee is called Audavam. 

[My guess – Not validated: As there is antara or gap between the swaras, the ragams with 4 swaras are called Swaraantara].

Importance of Mathematics

यथा शिखा मयूराणां , नागानां मणयो यथा ।
तद् वेदांगशास्त्राणां , गणितं मूर्ध्नि वर्तते ॥ — वेदाङ्गज्योतिषम् (लगधस्य) – shloka #35

On finding fault with others and ignoring one’s own faults

सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ – शिशुपालवध

असाधवः सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः स्वगुणोच्चगिरः परवर्णग्रहणेषु मुनिव्रताः ।

असाधवः Wicked people are सहजान्धदृशः naturally blind to स्वदुर्नये their own mistakes. परदोषेक्षणदिव्यचक्षुषः But they have divine (i.e., microscopic) eyes when it comes to finding faults with others. स्वगुणोच्चगिरः They shout on top of their voices when they are talking about their qualities. मुनिव्रताः However, they take to mouna vratam – adherence of silence, परवर्णग्रहणेषु in describing other people’s virtues. – Shishupalavadham – शिशुपालवधम् 

 

 

Praarthanaa – Saraswati Namasthubyam, Pataami Samskrutam Nityam

प्रार्थना

सरस्वति नमस्तुभ्यम् …

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

पठामि संस्कृतं नित्यम् …

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा ।
ध्‍यायामि संस्‍कृतं सम्‍यक् वन्‍दे संस्‍कृतमातरम् ॥

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् ।
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥

संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये वन्दे संस्कृतमातरम् ॥

रघुवंश-महा-काव्यम् – प्रथमः श्लोकः 

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १.१ ॥

—–

सरस्वति नमस्तुभ्यम् …

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

सन्धिः

  • नमस्तुभ्यम् = नमः तुभ्यम्, विसर्गसन्धिः, सकारादेशः
  • सिद्धिर्भवतु = सिद्धिः भवतु, विसर्गसन्धिः, रेफादेशः

आकाङ्क्षा

  • (हे) सरस्वति [ सरस्वती, सरो नीरं तद्वत् रसो वास्त्यस्या इति । सरस् + मतुप् । मस्य वः । संभोधनम् ]
  • नमः (अस्तु)
    • कस्यै नमः (अस्तु) ? तुभ्यम् [ त्वम् शब्दः, त्रि.लिङ्., च.वि., ए.व., ]
  • (हे) वरदे [ वरद + टाप्, वरान् ददाति इति वरदा, संभोधनम् ]
  • (हे) कामरूपिणि [ कामरूप + इनि + ङीप्| कामं मनोज्ञं रूपं अस्त्यस्याः इति, संभोधनम् ]
  • करिष्यामि
    • कः / का करिष्यामि ? (अहम्)
    • किं करिष्यामि ? विद्यारम्भम् [ विद्यायाः आरम्भम् ]
  • भवतु
    • का भवतु ? सिद्धिः [ परिपूर्णता / सफलता, सिध + क्तिन् ]
    • कस्यै / कस्मै भवतु ? मे [ मह्यम्, अस्मद् शब्दः, च.वि., ए.व. ]
    • कदा भवतु ? सदा[ सर्वदा, अव्ययम् ]

पठामि संस्कृतं नित्यम् …

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा ।
ध्‍यायामि संस्‍कृतं सम्‍यक् वन्‍दे संस्‍कृतमातरम् ॥
संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् ।
संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरम् ॥

संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये वन्दे संस्कृतमातरम् ॥

अन्वयः

(अहं) नित्‍यं संस्‍कृतं पठामि | (अहं) सदा संस्‍कृतं वदामि । (अहं) संस्‍कृतं सम्‍यक् ध्‍यायामि | (अहं) संस्‍कृतमातरं वन्‍दे |

संस्कृतस्य प्रसाराय नैजं सर्वम् अहम् ददामि । संस्कृतस्य सदा भक्तः (अहं) संस्कृतमातरं वन्दे |

संस्कृतस्य कृते जीवन् (अस्मि) | संस्कृतस्य कृते यजन् (अस्मि) | (अहम्) आत्मानं आहुतं मन्ये | (अहं) संस्कृतमातरं वन्दे |

पदविवरणम्

  • प्रसाराय = व्यापकत्वम् / प्रसरणम्| पुं, प्र + सृ + घञ् | तस्मै |
  • नैजम् = निजसम्बन्धि / स्वीयम् । निजस्येदमिति । निज + अण् । त्रि.लिङ्.
  • यजन्= यागकर्ता | यज + शतृ |
  • आत्मानम् = स्वयमेव, स्वदेहः इत्यादि | आत्मन् शब्दः | द्वि.वि., ए.व. | आत्मा, आत्मौ, आत्मानः | आत्मानम्, आत्मानौ, आत्मनः|
  • आहुतम् = आहुतिरूपेण अर्पितः | आङ् + हु + क्त| पु. लि., द्वि. वि., ए.व.|
  • मन्ये= जानामि | मन् | लट्., उ.पु., ए.व. | मन्यते, मन्येते, मन्यन्ते | मन्यसे, मन्येथे, मन्यध्वे | मन्ये, मन्यावहे, मन्यामहे |

रघुवंश-महा-काव्यम् – प्रथमः श्लोकः 

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥ १.१ ॥

अन्वयः

अहं वागर्थौ इव सम्पृक्तौ जगतः पितरौ पार्वतीपरमेश्वरौ वागर्थप्रतिपत्तये वन्दे |

पदविवरणम्

  • सम्पृक्तौ = युक्तौ
  • प्रतिपत्तये = ज्ञानाय
  • पार्वतीपरमेश्वरौ
    • पार्वतीपरमेश्वरौ = पार्वती+परमेश्वर
    • पार्वतीपरमेश्वरौ = पार्वतीप+रमेश्वर (e., पार्वती+प, रमा+ईश्वर)

References:

  1. https://sa.wiktionary.org/
  2. https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-first-sarga-vidhya-ramesh/
  3. Pataami Samskrutam

https://www.youtube.com/watch?v=E2Ll1mNxh8w

 

Garland of Praises – Stava-maalaa – Caylor

Downloadable pdf file is available here –>  Garland of Praises – Caylor – for Yogi blog

Please see this post for the detailed notes on this work. https://yogiramsuratkumarblog.wordpress.com/2018/11/07/book-garland-of-praises-stava-maalaa-caylor/

भगवद्योगि-राम-सुरत-कुमार-स्तव-माला

योनय:

Verse 1.

ॐ हत-ध्वान्त-दीपित-सर्वातिशायि-ख-तेजोमय-सूर्यावतारामर-योगिने ते नमः

भवद्भक्ति-परिप्लुत-हृदयस्त इमां स्तव-मालां नम्रतयार्पयामि

Verse 2.

ॐ भवद्दिव्यास्पदतः सर्व-पावकाग्नि-पर्वतारुणाचलं प्रेषित-सनातनर्षये ते नमः

भवत्स्पृहा-भाव-वशानुगो जन्मनि जन्मनीमं दूरस्थ-प्रदेशमनुचरामि

Verse 3.

ॐ प्रभु-राम-नाम-ब्रह्मानन्द-जीवन्मुक्त-विजात-रामदासात्मजाय ते नमः

ध्रुव-श्रद्धो भवत्कमल-पाद-रेणुना मद्देहं लेपयामि

आयुधानि

Verse 4.

ॐ पाप-भ्रंशार्थ-प्राण-प्रभासनार्थ-ताल-वृन्त-श्रीपरशुराम-धर्म-फल-धराय ते नमः

सदा जीवन-पथे चीयमानाशा-सौजन्यो मार्गं दर्शयस्यभय-गतिं दृढी-करोषि

Verse 5.

ॐ उद्वृत्त-करुणामृत-भिक्षा-भाण्ड-पिण्डाराधिराजाय ते नमः

निरहंकृतस्ते भूर्युपायनैरनुगृहीतोऽस्मि

Verse 6.

ॐ भस्मीकृत-कर्म-दोषाग्नि-धूम-गर्भ-हवनी-पाणि-जिष्णु-योगिने ते नमः

अनवरत-काम-भयाकर्षण-पाश-बद्धस्ते गूढाग्निना पवित्री-क्रिये

Verse 7.

ॐ स्मयाहंकारादि-सर्वाधि-व्याधि-घ्नामलक-पूर्ण-कोष-परम-भिषजे ते नमः

भवद्भेषजोप-शान्तोऽघावमर्द-तप्तस्य मम क्लेशः

Verse 8.

ॐ हत-ध्वान्त-जिताधम-राक्षसोर्ध्व-भिक्षु-दण्ड-श्रीराम-महा-धनुर्धराय ते नमः

माया-स्वप्न-मूढ-मर्त्य-दृष्टिर्भवदनुग्रह-प्रबोधितोऽहम्

गुणाः

Verse 9.

ॐ संसार-क्षुब्धार्णवं तारित-जीव-कृपा-पोत-नामधेयाय ते नमः

नित्य-संभव-वेलाक्षमो भवत्पुण्य-नामधेयाभय-शरणं प्रपद्ये

Verse 10.

ॐ होमानल-धौत-चीर-वसनाच्छन्न-वज्र-तेजसे ते नमः

तमो-ग्रस्तर्ते म आविष्कृतान्तर्ज्योतिर्भवता

Verse 11.

ॐ नित्य-घुष्ट-ख-गोल-मन्त्र-मूल-कल-कण्ठाय ते नमः

भवद्गीत-हर्ष-कीलित-प्रफुल्ल-प्रमोद-शमोऽहम्

Verse 12.

ॐ नटराजानन्दाशिस्सर्वभुगनल-ज्वलन्नटनाय ते नमः

भवत्तेजो-विस्मय-पूर्णस्ते पुरतो नमस्करोमि

Verse 13.

ॐ छिन्न-शोकार्ति-ग्रन्थ्यबद्ध-हासोल्लासाय ते नमः

मदनुग्रहार्थाहूतौ भवद्रक्षि-परिरम्भ-गुण्ठितोपशान्त-विह्वल-हृदयोऽहम्

योगः

Verse 14.

ॐ निर्मल-प्रज्ञानेश-सनातन-धर्म-गोप्तृ-वेदपाय ते नमः

विराजित-मल्लोक-भवत्परज्ञानं चन्द्रार्का इव

Verse 15.

ॐ पुंनागाध उपविष्टेभ्यो भवत्संनिधौ समवेतेभ्यो दत्त-संमुख-मन्त्राय ते नमः

मन्त्र-यन्त्र-हीनो भवद्दत्त-भक्ति-समर्पण-भृतोऽहम्

Verse 16.

ॐ ऋषि-मुनि-प्रज्ञोन्मत्त-भिक्ष्वाक्रीड-भारत-वर्ष-गोप्त्रे ते नमः

मत्प्रतिकूलावस्थिताभय-योधे कुरुक्षेत्र इव मद्रण-क्लान्त-रथ-रश्मि-धृतो भवान्

Verse 17.

ॐ लोक-चषक-यात्रादेशिने ते नमः

भवदनवरताद्भुत-प्रतिहतेन्द्रियो भवत्पराक्रमं द्रष्टुमाहूतोऽहम्

Verse 18.

ॐ आनन्द-मूर्ति-हृदिस्थ-शुभ्रार्क-नित्य-प्रियाय ते नमः

भवन्नामाक्ष-सूत्रे निमग्न-मना भवत्सर्व-व्यापि-संनिधौ प्लुतोऽहम्