Bhoja’s ChampuRamayanam – Balakandam 2

भोजचम्पूरामायणम् – बालकाण्डम् – श्रीमती. सौम्या कृष्णपुर् – व्योमा संस्कृतपाठशाला
King Bhoja’s Champu-Ramayanam – Balakandam – (File #2) Weekly online classes conducted by Smt. Sowmya Krishnapur, Vyoma Labs.

View the playlist “Champuramayana – Baalakaanda” in YouTube Channel “vyoma-samskrta-pathasala

Downloadable files are available here

Word Document files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

PDF files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

चम्पूरामायणे बालकाण्डम्

कक्ष्या २३ – २८.०५.२०१८

गद्यम्

मूलपाठः

तत्र कञ्चन विरिञ्चिलोकप्रत्यादेशं प्रदेशं प्रदर्शयन्नवोचत् ।

पदच्छेदः

तत्र, कञ्चन, विरिञ्चि-लोक-प्रत्यादेशम्, प्रदेशम्, प्रदर्शयन्, अवोचत् ।

सन्धिः

  • प्रदर्शयन् + अवोचत् = ङमुडागमसन्धिः [ न् + अ = न्न ]

अन्वयार्थः

  • तत्र = वने
  • कञ्चन प्रदेशम् = कञ्चन स्थलम्
  • विरिञ्चि-लोक-प्रत्यादेशम् = ब्रह्मलोकादपि विशिष्टम्
  • प्रदर्शयन् = दर्शयन् (विश्वामित्रः)
  • अवोचत् = उक्तवान्

अन्वयः

तत्र कञ्चन विरिञ्चिलोकप्रत्यादेशं प्रदेशं प्रदर्शयन् अवोचत् ।

आकाङ्क्षा

  • अवोचत्
    • कः अवोचत् ? विश्वामित्रः
    • किं कुर्वन् अवोचत् ? प्रदर्शयन्
      • किं प्रदर्शयन् ? प्रदेशम्
        • कीदृशं प्रदेशम् ? तत्र कञ्चन विरिञ्चिलोकप्रत्यादेशम्

तात्पर्यम्

तस्मिन् वने ब्रह्मलोकतुल्यं स्थानमेकं प्रदर्श्य विश्वामित्रः उक्तवान् ।

पदविवरणम्

  • विरिञ्चिलोकप्रत्यादेशम्
    • विरिञ्चिः = “विरिञ्चिः कमलासनः” (अमरः)
    • प्रत्यादेशः = “प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः” (अमरः)
    • विरिञ्चिलोकः = विरिञ्चेः लोकः
    • विरिञ्चिलोकप्रत्यादेशः = विरिञ्चिलोकस्य प्रत्यादेशः ।
  • अवोचत् = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लुङ् लकारः, उभयपादि, अत्र परस्मैपदे प्र.पु., ए.व. । लिट् परस्मैपदे उवाच, ऊचतुः, ऊचुः ।

Word-Meaning

  • तत्र = there (in that forest)
  • प्रदर्शयन् = showing
    • कञ्चन = some
    • प्रदेशम् = place
    • विरिञ्चि-लोक-प्रत्यादेशम् = that which exceeds (literally, negates) the Brahma’s (विरिञ्चि) world (लोक)
  • अवोचत् = (Vishwamitra) spoke
  1. श्लोकः

मूलपाठः

प्रतिदिनमवदातैर्ब्रह्मभिर्ब्रह्मनिष्ठैः
प्रशमितभवखेदैः सादरं सेव्यमाने ।
बलिनियमनहेतोर्वामनः काननेऽस्मिन्
बलिनियमपरस्सन् ब्रह्मचारी चचार ॥ ४५ ॥

पदच्छेदः

प्रति-दिनम्, अवदातैः, ब्रह्मभिः, ब्रह्मनिष्ठैः, प्रशमित-भव-खेदैः, सादरम्, सेव्यमाने, बलि-नियमन-हेतोः, वामनः, कानने, अस्मिन्, बलि-नियम-परः, सन्, ब्रह्मचारी, चचार

अन्वयार्थः

  • चचार = सञ्चरितवान्
  • वामनः = वामनरूपधारी महाविष्णुः
  • ब्रह्मचारी = मायावटुः
  • बलिनियमपरः = ब्रह्मचर्यविधिनिष्ठः
    • बलिः – इष्टदेवतापूजोपहारः,
    • नियमाः – शौच-सन्तोष-तपस्-स्वाध्याय-ईश्वरप्रणिधानानि
  • बलिनियमनहेतोः = महाबलेः मर्दनार्थम्
  • अस्मिन् कानने = वने, पुण्यारण्ये
  • प्रतिदिनम् = प्रत्यहम्
  • सादरम् = सस्नेहम्
  • सेव्यमाने = अधिष्ठीयमाने
  • ब्रह्मभिः = ब्रह्मर्षिभिः
  • अवदातैः = निर्मलान्तःकरणैः,
  • ब्रह्मनिष्ठैः = निदिध्यासनतत्परैः,
  • प्रशमितभवखेदैः = तापत्रयविनिर्मुक्तैः

अन्वयः

अवदातैः, ब्रह्मनिष्ठैः, प्रशमितभवखेदैः ब्रह्मभिः प्रतिदिनं सादरं सेव्यमाने अस्मिन् कानने ब्रह्मचारी वामनः बलिनियमपरः सन् बलिनियमनहेतोः चचार ।

आकाङ्क्षा

  • चचार
    • कः चचार ? वामनः
      • कीदृशः वामनः ? ब्रह्मचारी
      • कीदृशः सन् वामनः ? बलिनियमपरः सन्
    • कस्मात् हेतोः चचार ? बलिनियमनहेतोः
    • कुत्र चचार ? अस्मिन् कानने
      • कीदृशे कानने ? सेव्यमाने
        • कथं सेव्यमाने ? सादरम्
        • कदा सेव्यमाने ? प्रतिदिनम्
        • कैः सेव्यमाने ? ब्रह्मभिः
          • कीदृशैः ब्रह्मभिः ? अवदातैः
          • पुनः कीदृशैः ब्रह्मभिः ? ब्रह्मनिष्ठैः
          • पुनः कीदृशैः ब्रह्मभिः ? प्रशमितभवखेदैः

तात्पर्यम्

इदं पुण्यारण्यं निर्मलान्तःकरणैः, ब्रह्मणि तत्परैः, तापत्रयविनिर्मुक्तैः ब्रह्मर्षिभिः प्रत्यहं सस्नेहं सेव्यते । अस्मिन्नेव कानने मायावटुः वामनः महाबलेः मर्दनार्थं बलिनियमादिकं ब्रह्मचर्यविधिं पालयन् सञ्चरितवान् ।

पदविवरणम्

  • प्रतिदिनम् = दिनं दिनं प्रति । अव्ययीभावसमासः ।
  • अवदातैः = “अवदातः सिते पीते शुद्धे” (अमरः)
  • ब्रह्मभिः = ब्रह्मन् शब्दः, नकारान्तः, पुं, तृ.वि., ब.व. । “वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः” (अमरः)
  • ब्रह्मनिष्ठैः = ब्रह्मणि निष्ठा येषां ते, तैः । अत्र निष्ठा = स्त्री, नितरां तिष्ठतीति । नि + स्था + कः with षत्वम् ।
  • प्रशमितभवखेदैः = प्रशमितः भवखेदः येषां तैः ।
  • सादरम् = आदरेण सह । अव्ययीभावः ।
  • सेव्यमाने = कर्मणि शानच् ।
  • ब्रह्मचारी = नकारान्तः पुं., प्र.वि, ए.व. ।
  • चचार = चर “चर गतौ”, लिट्., प्र.पु., ए.व. ।

अलङ्कारः

  • यमकम् on बलिनियम in बलिनियमपरः सन् बलिनियमनहेतोः

छन्दः

मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु
प्र ति दि दा तै र्ब्र ह्म भि र्ब्र ह्म नि ष्ठैः
प्र मि खे दैः सा रं से व्य मा ने
लि नि हे तो र्वा नः का ने स्मिन्
लि नि स्सन् ब्र ह्म चा री चा

Word-Meaning

  • वामनः = Vamana, i.e., Vishnu
    • ब्रह्मचारी = one who was a Brahmachari, i.e., a young spiritual aspirant
    • बलिनियमपरः = one who adheres (पर) to
      • बलि = the regulations like eating the food offered to his chosen deity
      • नियम = adhering to the five regulations namely cleanliness, contentment, penance, study, meditation on the lord
    • चचार = wandered (i.e,. stayed)
    • अस्मिन् कानने = in this forest
      • प्रतिदिनं सादरं सेव्यमाने = in a place, which was resorted (सेव्यमान) to, with great regard (सादरम्), every day (प्रतिदिन)
        • ब्रह्मभिः = by the Brahma Rishis
        • अवदातैः = by those who were extremely pure at heart
        • ब्रह्मनिष्ठैः = by those who were fixed in the Brahman
        • प्रशमितभवखेदैः = by those for whom the worldly (भव) sufferings (खेद) (namely Aadhibhautika, Adhyaatmika, and Aadidaivika) have been removed (literally calmed down) (प्रशमित)
      • बलिनियमनहेतोः = for (हेतु) controlling (नियमन) Mahabali (बलि)
  1. श्लोकः

मूलपाठः

अपहृतविबुधार्तेर्वामनस्याजमूर्ते-
रखिलभुवनभिक्षोराश्रमानोकहानाम् ।
ततिरियमतिनीला व्याप्तदिग्व्योमसीमा
स्वयमपि परिमातुं लोकमभ्युद्यतेव ॥ ४६ ॥

पदच्छेदः

अपहृत-विबुध-आर्तेः, वामनस्य, अज-मूर्तेः, अखिल-भुवन-भिक्षोः, आश्रम-अनोकहानाम्, ततिः, इयम्, अति-नीला, व्याप्त-दिग्-व्योम-सीमा, स्वयम्, अपि, परिमातुम्, लोकम्, अभि-उद्यता, इव

अन्वयार्थः

  • अभ्युद्यता इव = समुद्युक्ता इव (दृश्यते)
  • इयं ततिः = श्रेणिः
  • आश्रमानोकहानाम् = आश्रमवृक्षाणाम्
  • अतिनीला = अत्यन्तश्यामला
  • व्याप्तदिग्व्योमसीमा = आक्रान्तगगनतला
  • अपहृतविबुधार्तेः वामनस्य = परिहृतदेवसन्तापस्य वामनस्य
  • अजमूर्तेः = विष्णोः अवतारभूतस्य,
  • अखिलभुवनभिक्षोः = त्रिभुवनमेव भिक्षारूपेण प्राप्तवतः
  • लोकं = भुवनम्,
  • स्वयमपि परिमातुम् = स्वयमपि परिच्छेत्तुम्

अन्वयः

अपहृतविबुधार्तेः अजमूर्तेः अखिलभुवनभिक्षोः वामनस्य आश्रमानोकहानाम् इयं ततिः अतिनीला व्याप्तदिग्व्योमसीमा स्वयमपि लोकं परिमातुम् अभ्युद्यता इव (दृश्यते) ।

आकाङ्क्षा

  • अभ्युद्यता इव (दृश्यते)
    • का अभ्युद्यता ? इयं ततिः
      • केषां ततिः ? आश्रमानोकहानाम्
      • कीदृशी ततिः ? अतिनीला
        • कीदृशी अतिनीला ? व्याप्तदिग्व्योमसीमा
      • कस्य आश्रमानोकहानां ततिः ? वामनस्य
        • कीदृशस्य वामनस्य ? अपहृतविबुधार्तेः
          • कीदृशस्य वामनस्य ? अजमूर्तेः
          • पुनः कीदृशस्य वामनस्य ? अखिलभुवनभिक्षोः
        • किमर्थम् अभ्युद्यता ? स्वयमपि लोकम् परिमातुम्

तात्पर्यम्

महाविष्णुः देवानां सन्तापनाशनाय वामनरूपेण अवतीर्य त्रिभुवनमेव भिक्षारूपेण प्राप्तवान् । तस्य आश्रमवृक्षाणाम् इयं श्रेणिः अत्यन्तश्यामला, दिगन्तान् व्याप्य स्वयमपि लोकान् परिच्छेत्तुं समुद्युक्ता इव भासते ।

पदविवरणम्

  • अपहृतविबुधार्तेः
    • विबुधाः = “अमरा निर्जरा देवाः त्रिदशा विबुधाः सुराः” (अमरः)
    • विबुधार्तिः = विबुधानाम् आर्तिः
    • अपहृतविबुधार्तेः = अपहृता विबुधार्तिः येन सः, तस्य ।
  • अजमूर्तिः
    • अजः = न जायते इति अजः, अत्र विष्णुः
    • अजमूर्तेः = अजस्य मूर्तिः, तस्य
  • अखिलभुवनभिक्षोः
    • अखिलभुवनम् = अखिलं भुवनम्
    • भिक्षुः = भिक्ष् “भिक्षँ भिक्षायामलाभे लाभे च” + कृत्प्रत्ययः
    • अखिलभुवनभिक्षोः = अखिलभुवनस्य भिक्षुः, तस्य
  • आश्रमानोकहानाम्
    • अनोकहः = “वृक्षो महीरुहः शाखी… अनोकहः कुटः सालः” (अमरः)
    • आश्रमानोकहानाम् = आश्रमस्य अनोकहाः, तेषाम् ।
  • ततिः = इकारान्तः, स्त्री, प्र.वि., ए.व.
  • व्याप्तदिग्व्योमसीमा
    • दिग्व्योमनी = दिशश्च व्योम च दिग्व्योमनी
    • दिग्व्योमसीमा = दिग्व्योम्नोः सीमा
    • व्याप्तदिग्व्योमसीमा = व्याप्ता दिग्व्योमसीमा यया सा
  • परिमातुम् = परि + मा “मा माने” + तुमुन्
  • अभ्युद्यता = अभि + उत् + यम् “यमँ उपरमे” + क्त, आकारान्तः, स्त्री., प्र.वि., ए.व.

अलङ्कारः

  • उत्प्रेक्षालङ्कारः Note: उत्प्रेक्ष and अतिशयोक्ति are both exaggeration. In utpreksha, it is a poetical guess. It includes the term “As if” differentiating it from the direct comparisons.

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • अभ्युद्यता इव (दृश्यते) = (It seems) as if is raising up
  • इयं ततिः आश्रमानोकहानाम् = this series (तति) of the trees (अनोकह) in the ashram (आश्रम)
    • अतिनीला = which is extremely (अति) dark (नील) in colour [applies to Vamana also]
    • व्याप्तदिग्व्योमसीमा = which cover (व्याप्त) the boundary (सीमा) of the sky (व्योम) in all the directions (दिक्) [applies to Vamana also]
  • वामनस्य = of Vamana
  • अपहृतविबुधार्तेः = of him, who resolved (अपहृत) the afflictions (आर्ति) of the Devas (विबुध)
  • अजमूर्तेः = of him, who is the incarnation (मूर्ति) of the unborn supreme being (अज)
  • अखिलभुवनभिक्षोः = of him, who is the beggar (भिक्षु) of all (अखिल) the worlds (भुवन), i.e., one for whom the entire world becomes the alms
  • स्वयमपि लोकं परिमातुम् = to measure (परि+मा) the worlds (लोक) also (अपि) by itself (स्वयम्)
  1. श्लोकः

मूलपाठः

इति विविधरसाभिः कौशिकव्याहृताभिः
श्रुतिपथमधुराभिः पावनीभिः कथाभिः ।
गलितगहनकृच्छ्रं गच्छतोर्दाशरथ्योः
समकुचदिव सद्यस्तादृशं मार्गदैर्घ्यम् ॥ ४७ ॥

पदच्छेदः

इति, विविध-रसाभिः, कौशिक-व्याहृताभिः, श्रुति-पथ-मधुराभिः, पावनीभिः, कथाभिः, गलित-गहन-कृच्छ्रम्, गच्छतोः, दाशरथ्योः, समकुचत्, इव, सद्यः, तादृशम्, मार्ग-दैर्घ्यम्

अन्वयार्थः

  • समकुचत् इव = ह्रस्वीभूतः इव (आसीत्)
  • तादृशम् = तथाविधम् अत्यधिकम्
  • मार्गदैर्घ्यम् = मार्गस्य आयामः
  • सद्यः = तत्क्षणम्
  • दाशरथ्योः = रामलक्ष्मणयोः
  • गलितगहनकृच्छ्रम् = काननसञ्चारस्य कष्टं विना
  • गच्छतोः = चलतोः
  • कथाभिः = उपाख्यानैः
  • इति = पूर्वोक्तप्रकारेण
  • विविधरसाभिः = बहुप्रकारकरसयुक्तैः
  • कौशिकव्याहृताभिः = विश्वामित्रकथिताभिः
  • श्रुतिपथमधुराभिः = कर्णानन्दकरीभिः
  • पावनीभिः = पवित्राभिः

अन्वयः

इति विविधरसाभिः, श्रुतिपथमधुराभिः, पावनीभिः, कौशिकव्याहृताभिः कथाभिः गलितगहनकृच्छ्रं गच्छतोः दाशरथ्योः तादृशं मार्गदैर्घ्यं सद्यः समकुचत् इव ।

आकाङ्क्षा

  • समकुचत् इव (आसीत्)
    • कदा समकुचत् ? सद्यः
    • किं समकुचत् ? तादृशम् मार्गदैर्घ्यम्
      • कयोः मार्गदैर्घ्यम् ? दाशरथ्योः
        • कीदृशयोः दाशरथ्योः ? गच्छतोः
          • कथं गच्छतोः ? गलितगहनकृच्छ्रम्
        • केन हेतुना समकुचत् ? कथाभिः
          • कीदृशीभिः कथाभिः ? इति विविधरसाभिः
          • पुनः कीदृशीभिः कथाभिः ? कौशिकव्याहृताभिः
          • पुनः कीदृशीभिः कथाभिः ? श्रुतिपथमधुराभिः
          • पुनः कीदृशीभिः कथाभिः ? पावनीभिः

तात्पर्यम्

एवंप्रकारेण बहुप्रकारकरसयुक्तानि कर्णानन्दकराणि पवित्राणि विश्वामित्रकथितानि उपाख्यानानि शृण्वतोः रामलक्ष्मणयोः वनसञ्चारस्य कष्टस्य अनुभवः एव नाभूत् । किञ्च, तादृशः दीर्घः मार्गः अपि तत्क्षणादेव ह्रस्वीभूतः इव आसीत् ।

पदविवरणम्

  • विविधरसाभिः = विविधाः रसाः यासाम्, ताभिः
  • कौशिकव्याहृताभिः = कौशिकेन व्याहृताः, ताभिः
  • श्रुतिपथमधुराभिः
    • श्रुतिपथः = श्रुतेः पन्थाः
    • श्रुतिपथमधुराभिः = श्रुतिपथस्य मधुराः, ताभिः
  • गलितगहनकृच्छ्रम्
    • गहनकृच्छ्रम् = गहनस्य कृच्छ्रम्
    • गलितगहनकृच्छ्रम् = गलितं गहनकृच्छ्रं यस्मिन् कर्मणि
    • गहनम् = “गहनं काननं वनम्” (अमरः)
    • कृच्छ्रम् = “स्यात् कष्टं कृच्छ्रमाभीलम्” (अमरः)
  • गच्छतोः = गम् “गमॢ गतौ” + शतृ, तकारान्तः, पुं., ष.वि., द्वि.व.
  • दाशरथ्योः = दशरथस्य अपत्ये पुमांसौ, इकारान्तः, पुं., ष.वि., द्वि.व.
  • समकुचत् = सम् + कुच् “कुचँ सङ्कोचने”, लङ्., प्र.पु., ए.व.
  • मार्गदैर्घ्यम्
    • दैर्घ्यम् = दीर्घस्य भावः ।
    • मार्गदैर्घ्यम् = मार्गस्य दैर्घ्यम् ।

अलङ्कारः

  • उत्प्रेक्षालङ्कारः

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • समकुचत् इव (आसीत्) = It was as though shrunk
    • सद्यः = immediately
    • तादृशम् = in such a way
    • मार्गदैर्घ्यम् = the length of the path
      • दाशरथ्योः = of the sons of Dasharatha, Rama and Lakshmana
      • गच्छतोः = of those who were walking
        • गलितगहनकृच्छ्रम् = in such a way that the difficulties of the forests were not felt
      • कथाभिः = due to the stories
        • इति = due to those (stories) like these
        • विविधरसाभिः = due to those that were filled with different emotions
        • कौशिकव्याहृताभिः = due to those that were told by Vishvamitra
        • श्रुतिपथमधुराभिः = due to those that bring delight to the ears
        • पावनीभिः = due to those that purify

गद्यम्

मूलपाठः

ततः सिद्धाश्रमं प्रविश्य विश्वामित्रः सत्रमारभत ।

पदच्छेदः

ततः, सिद्धाश्रमम्, प्रविश्य, विश्वामित्रः, सत्रम्, आरभत ।

अन्वयार्थः

  • ततः = तदनन्तरम्
  • सिद्धाश्रमम् प्रविश्य = तन्नामकं स्वतपोवनं प्रविश्य
  • विश्वामित्रः = कौशिकः
  • सत्रम् = यज्ञम्
  • आरभत = प्रारब्धवान्

अन्वयः

ततः सिद्धाश्रमं प्रविश्य विश्वामित्रः सत्रम् आरभत ।

आकाङ्क्षा

  • आरभत
    • कः आरभत ? विश्वामित्रः
    • किम् आरभत ? सत्रम्
    • किं कृत्वा आरभत ? प्रविश्य
      • कुत्र प्रविश्य ? सिद्धाश्रमम्
    • कदा ? ततः

तात्पर्यम्

  • तदनन्तरं विश्वामित्रः सिद्धाश्रमम् नामकं स्वतपोवनं प्रविश्य यज्ञं प्रारब्धवान्

पदविवरणम्

  • सत्रम् = “सत्रमाच्छादने यज्ञे” (अमरः)

Word-Meaning

  • ततः = Afterwards
  • विश्वामित्रः = Vishvamitra
  • सिद्धाश्रमम् प्रविश्य = having entered his ashram named Siddhaashrama
  • आरभत = started
  • सत्रम् = the Yajna or the fire sacrifice

कक्ष्या २४ – ०४.०६.२०१८

गद्यम्

मूलपाठः

तदनन्तरमन्तरिक्षान्तरालादापतन्तमन्तकानीकभयानकं तं पलाशगणमवलोक्य पलायमानाः करगलितसमित्कुशाः कुशिकनन्दनान्तेवासिनः ससम्भ्रममभिलषिताहवाय राघवाय न्यवेदयन् ।

पदच्छेदः

तद्-अनन्तरम्, अन्तरिक्ष-अन्तरालात्, आपतन्तम्, अन्तक-अनीक-भयानकम्, तम्, पलाश-गणम्, अवलोक्य, पलायमानाः, कर-गलित-समित्-कुशाः, कुशिक-नन्दन-अन्तेवासिनः, स-सम्भ्रमम्, अभिलषित-आहवाय, राघवाय, न्यवेदयन्

अन्वयार्थः

  • तदनन्तरम् = विश्वामित्रस्य सत्रे आरब्धे सति
  • अन्तरिक्षान्तरालात् = आकाशमध्यात्
  • आपतन्तम् = आक्रमणं कुर्वन्तम्
  • अन्तकानीकभयानकम् = यमसैन्यम् इव भयङ्करम्
  • तं पलाशगणम् = राक्षससमूहम्
  • अवलोक्य = दृष्ट्वा
  • पलायमानाः = प्रद्रुताः
  • करगलितसमित्कुशाः = हस्तच्युतदर्भाः
  • कुशिकनन्दनान्तेवासिनः = विश्वामित्रशिष्याः
  • ससम्भ्रमम् = सोद्वेगम्
  • अभिलषिताहवाय = समरोत्सुकाय
  • राघवाय = रामाय
  • न्यवेदयन् = विज्ञापितवन्तः

अन्वयः

तदनन्तरम् अन्तरिक्षान्तरालात् आपतन्तम् अन्तकानीकभयानकं तं पलाशगणम् अवलोक्य पलायमानाः करगलितसमित्कुशाः कुशिकनन्दनान्तेवासिनः ससम्भ्रमम् अभिलषिताहवाय राघवाय न्यवेदयन्

आकाङ्क्षा

  • न्यवेदयन्
    • कस्मै न्यवेदयन् ? राघवाय
      • कीदृशाय राघवाय ? अभिलषिताहवाय
    • कथं न्यवेदयन् ? ससम्भ्रमम्
    • के न्यवेदयन् ? कुशिकनन्दनान्तेवासिनः
      • कीदृशाः कुशिकनन्दनान्तेवासिनः ? करगलितसमित्कुशाः
      • पुनः कीदृशाः कुशिकनन्दनान्तेवासिनः ? पलायमानाः
        • किमर्थं पलायमानाः ? अवलोक्य
          • कम् अवलोक्य ? तं पलाशगणम्
            • कीदृशं पलाशगणम् ? अन्तकानीकभयानकम्
              • कथं भूतं सन्तम् अन्तकानीकभयानकम् ? आपतन्तम्
                • कस्मात् आपतन्तम् ? अन्तरिक्षान्तरालात्
              • कदा न्यवेदयन् ? तदनन्तरम्

तात्पर्यम्

आकाशमध्यात् आक्रमणं कुर्वन्तं यमकिङ्करवद् भयङ्करं राक्षससमूहं दृष्ट्वा विश्वामित्रशिष्याः प्रद्रुताः । तेषां हस्तेभ्यः दर्भादयः पतिताः । तादृशाः ते उद्वेगेन समरोत्सुकं रामम् उपसर्प्य उक्तवन्तः ।

पदविवरणम्

  • अन्तरिक्षान्तरालात् = अन्तरिक्षस्य अन्तरालम्, तस्मात् । “नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्” (अमरः)
  • अन्तकानीकभयानकम् = अन्तकस्य अनीकम्, अन्तकानीकम् इव भयङ्करम् । “कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः” (अमरः), “वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्”
  • पलाशगणम् – पलम् अश्नन्ति इति पलाशाः, पलाशानां गणः, तम् ।
  • करगलितसमित्कुशाः = करात् गलिताः, समिधश्च कुशाश्च, करगलिताः समित्कुशाः येषां ते
  • कुशिकनन्दनान्तेवासिनः = कुशिकस्य नन्दनः, कुशिकनन्दनस्य अन्तेवासिनः । नकारान्तः, पुं., प्र.वि., ब.व. । “छात्रान्तेवासिनौ शिष्ये” (अमरः)
  • ससम्भ्रमम् = सम्भ्रमेण सह – अव्ययीभावः
  • अभिलषिताहवाय = अभिलषितः आहवः येन सः, तस्मै । “सङ्ग्राम-अभ्यागम-आहवाः” (अमरः)
  • राघवाय = रघोः अपत्यं पुमान्, तस्मै । रघु + अण् (तद्धितः)
  • न्यवेदयन् = नि + विद् “विद ज्ञाने” + णिच् । लङ्., प्र.पु., ब.व.

Word-Meaning

  • तदनन्तरम् = After (अनन्तरम्) that (तत्)
  • कुशिकनन्दनान्तेवासिनः = the disciples (अन्तेवासिन) of Vishvamitra (कुशिकनन्दन), (i.e., the son नन्दन of Kushika कुशिक)
    • करगलितसमित्कुशाः = those from whom the homa sticks (समित्) and darbha grass (कुश) were falling down (गलित) from hands (कर)
    • पलायमानाः = those who were fleeing (पलाय)
      • अवलोक्य = upon seeing
        • तं पलाशगणम् = that hordes (गण) of Rakshasas (पलाश), (i.e., those who eat (अश्) meat (पल)
        • आपतन्तम् = that which was falling (i.e., attacking) (आ + पत्) upon them
          • अन्तरिक्षान्तरालात् = from the middle (अन्तराल) of the sky (अन्तरिक्ष)
        • अन्तकानीकभयानकम् = that which was fearful (भयानक) like the army (आनीक) of Yama (अन्तक)
      • न्यवेदयन् = apprised
        • ससम्भ्रमम् = with agitation (सम्भ्रम)
        • राघवाय = to Rama
          • अभिलषिताहवाय = to him who was eager (अभिलषित) to fight (आहव)
  1. श्लोकः

मूलपाठः

हृत्वाद्रेः शिखराणि तानि परितः क्षिप्त्वा हसित्वा क्रुधा
कृत्वा हस्तविघट्टनं तत इतः स्थित्वा नटित्वा मुहुः ।
सिक्त्वा क्ष्मामसृजा स्रजान्त्रकृतया बद्ध्वा कचान् खेचरान्
दग्ध्वाग्नेः सदृशा दृशा निशिचरा रुन्धन्ति रन्ध्रं दिवः ॥ ४८ ॥

पदच्छेदः

हृत्वा, अद्रेः, शिखराणि, तानि, परितः, क्षिप्त्वा, हसित्वा, क्रुधा, कृत्वा, हस्त-विघट्टनम्, ततः, इतः, स्थित्वा, नटित्वा, मुहुः, सिक्त्वा, क्ष्माम्, असृजा, स्रजा, अन्त्रकृतया, बद्ध्वा, कचान्, खेचरान्, दग्ध्वा, अग्नेः, सदृशा, दृशा, निशाचराः, रुन्धन्ति, रन्ध्रम्, दिवः

अन्वयार्थः

  • रुन्धन्ति = आवृणन्ति
  • निशिचराः = राक्षसाः
  • दिवः रन्ध्रम् = आकाशविवरम्
  • अद्रेः शिखराणि हृत्वा = पर्वतशृङ्गाणि आनीय
  • तानि परितः क्षिप्त्वा = आनीतानि पर्वतशृङ्गाणि समन्तात् विकीर्य
  • हसित्वा = अट्टहासं कृत्वा
  • क्रुधा हस्तविघट्टनं कृत्वा = कोपेन करताडनं कृत्वा
  • तत इतः स्थित्वा = सर्वतः सञ्चर्य
  • मुहुः नटित्वा = पुनः नाट्यं कृत्वा
  • क्ष्माम् असृजा सिक्त्वा = भूमिं रक्तेन आप्लाव्य
  • अन्त्रकृतया स्रजा कचान् बद्ध्वा = आन्त्रमालिकया केशान् आबध्य
  • खेचरान् अग्नेः सदृशा दृशा दग्ध्वा = अन्तरिक्षचारिणः वह्निसमानदृष्ट्या सन्ताप्य

अन्वयः

अद्रेः शिखराणि हृत्वा, तानि परितः क्षिप्त्वा, हसित्वा, क्रुधा हस्तविघट्टनं कृत्वा, तत इतः स्थित्वा, मुहुः नटित्वा, क्ष्माम् असृजा सिक्त्वा, अन्त्रकृतया स्रजा कचान् बद्ध्वा, खेचरान् अग्नेः सदृशा दृशा दग्ध्वा, निशिचराः दिवः रन्ध्रं रुन्धन्ति ।

आकाङ्क्षा

  • रुन्धन्ति
    • के रुन्धन्ति ? निशिचराः
    • किं रुन्धन्ति ? रन्ध्रम्
      • कस्याः रन्ध्रम् ? दिवः
    • किं कृत्वा रुन्धन्ति ? हृत्वा
      • किं हृत्वा ? शिखराणि
      • कस्य शिखराणि ? अद्रेः
    • पुनः किं कृत्वा रुन्धन्ति ? क्षिप्त्वा
      • कानि क्षिप्त्वा ? तानि
      • कुत्र क्षिप्त्वा ? परितः
    • पुनः किं कृत्वा रुन्धन्ति ? हसित्वा
    • पुनः किं कृत्वा रुन्धन्ति ? हस्तविघट्टनं कृत्वा
      • कथं हस्तविघट्टनं कृत्वा ? क्रुधा
    • पुनः किं कृत्वा रुन्धन्ति ? स्थित्वा
      • कुत्र स्थित्वा ? ततः इतः
    • पुनः किं कृत्वा रुन्धन्ति ? नटित्वा
      • कथं नटित्वा ? मुहुः
    • पुनः किं कृत्वा रुन्धन्ति ? सिक्त्वा
      • कां सिक्त्वा ? क्ष्माम्
      • कया सिक्त्वा ? असृजा
    • पुनः किं कृत्वा रुन्धन्ति ? बद्ध्वा
      • कान् बद्ध्वा ? कचान्
      • कया बद्ध्वा ? स्रजा
        • कीदृशया स्रजा ? अन्त्रकृतया
      • पुनः किं कृत्वा रुन्धन्ति ? दग्ध्वा
        • कान् दग्ध्वा ? खेचरान्
        • कया दग्ध्वा ? दृशा
          • कीदृशया दृशा ? अग्नेः सदृशा

तात्पर्यम्

पर्वतशृङ्गाणि आनीय, तानि समन्ततो विकीत्य, अट्टहासं कृत्वा, कोपेन करताडनं कृत्वा, सर्वतः सञ्चर्य, पुनः नाट्यं कृत्वा, भूमिं रक्तेन आप्लाव्य, आन्त्रमालिकया केशान् आबध्य, अन्तरिक्षचारिणः वह्निसमानदृष्ट्या सन्ताप्य राक्षसाः आकाशविवरम् आवृणन्ति ।

पदविवरणम्

  • हृत्वा, क्षिप्त्वा, हसित्वा, कृत्वा, स्थित्वा, नटित्वा, सिक्त्वा, बद्ध्वा, दग्ध्वा = क्त्वान्तरूपाणि – हृ “हृञ् हरणे”, क्षिप् “क्षिपँ प्रेरणे”, हस् “हसेँ हसने”, कृ “डुकृञ् करणे”, स्था “ष्ठा गतिनिवृत्तौ”, नट् “णटँ नृतौ”, सिच् “षिचँ क्षरणे”, बन्ध् “बन्धँ बन्धने”, दह् “दहँ भस्मीकरणे”
  • अद्रेः = इकारान्तः, पुं., ष.वि., ए.व. । “अद्रि-गोत्र-गिरि-ग्रावा-अचल-शैल-शिलोच्चयाः” (अमरः)
  • शिखराणि = “कूटोऽस्त्री शिखरं शृङ्गम्” (अमरः)
  • क्रुधा = क्रुध् धकारान्तः, स्त्री., तृ.वि., ए.व. । प्रथमा क्रुत् क्रुधौ क्रुधः । द्वितीया क्रुधम् क्रुधौ क्रुधः ।
  • क्ष्माम् = आकारान्तः, स्त्री., द्वि.वि., ए.व. । “क्ष्मा-अवनिः मेदिनी मही” (अमरः)
  • असृजा = जकारान्तः, नपुं., तृ.वि., ए.व. । “रुधिरे असृक्-लोहित-अस्र-रक्त-क्षतज-शोणितम्” (अमरः)
  • स्रजा = जकारान्तः, स्त्री., तृ.वि., ए.व. । “माल्यं माला-स्रजौ मूर्ध्नि” (अमरः)
  • अन्त्रकृतया = अन्त्रेण कृता, तया ।
  • कचान् = अकारान्तः, पुं., द्वि.वि., ब.व. । “कचः केशः शिरोरुहः” (अमरः)
  • खेचरान् = खे चरन्ति – अलुक् समासः ।
  • सदृशा = शकारान्तः, स्त्री., तृ.वि., ए.व. । सदृक् सदृशौ सदृशः ।
  • दृशा = शकारान्तः, स्त्री., तृ.वि., ए.व. । दृक् दृशौ दृशः । “लोचनं नयनं नेत्रम् ईक्षणं चक्षुर्-अक्षिणी । दृग्-दृष्टी” (अमरः)
  • निशिचराः = निशि चरन्ति । अलुक्-समासः ।
  • रुन्धन्ति = रुध् “रुधिँर् आवरणे” लट्., प्र.वि., ब.व.
  • दिवः = वकारान्तः, स्त्री., ष.वि., ए.व. । “द्यो-दिवौ द्वे स्त्रियाम् अभ्रं व्योम पुष्करम् अम्बरम्” (अमरः) । प्रथमा – द्यौः दिवौ दिवः । द्वितीया – दिवम् दिवौ दिवः ।

अलङ्कारः

  • अनुप्रासः (some letters are repeating)

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु   गु गु गु गु गु
हृ त्वा द्रेः शि रा णि ता नि रि तः क्षि प्त्वा सि त्वा क्रु धा
कृ त्वा स्त वि ट्ट नं तः स्थि त्वा टि त्वा मु हुः
सि क्त्वा क्ष्मा सृ जा स्र जा न्त्र कृ या द्ध्वा चान् खे रान्
ग्ध्वा ग्नेः दृ शा दृ शा नि शि रा रु न्ध न्ति न्ध्रं दि वः

Word-Meaning

  • निशिचराः = Rakshasas
    • रुन्धन्ति = cover
      • दिवः रन्ध्रम् = the space in the sky
    • अद्रेः शिखराणि हृत्वा = after bringing the peaks of the mountains
    • तानि परितः क्षिप्त्वा = after throwing them all around
    • हसित्वा = after laughing loudly
    • क्रुधा हस्तविघट्टनं कृत्वा = after angrily making sounds with their hands
    • तत इतः स्थित्वा = after standing or moving here and there
    • मुहुः नटित्वा = after dancing repeatedly
    • क्ष्माम् असृजा सिक्त्वा = after sprinkling blood on the land
    • अन्त्रकृतया स्रजा कचान् बद्ध्वा = after having tied up their hairs with the garlands made of intestines
    • खेचरान् दग्ध्वा = after burning the demi-gods, who move around in the sky
      • अग्नेः सदृशा दृशा = with their (Rakshasaas’) eyes that are equal to fire
  1. श्लोकः

मूलपाठः

सङ्क्रान्तवर्णान्तरगाधिसूनोः सम्पर्कपुण्यादिव रामभद्रः ।
क्षात्रक्रमात् पिप्पलदण्डयोग्यः पलाशदण्डादृतपाणिरासीत् ॥ ४९ ॥

पदच्छेदः

सङ्क्रान्त-वर्णान्तर-गाधि-सूनोः, सम्पर्क-पुण्याद्, इव, रामभद्रः, क्षात्र-क्रमात्, पिप्पल-दण्ड-योग्यः, पलाश-दण्ड-आदृत-पाणिः, आसीत् ।

अन्वयार्थः

  • आसीत् = बभूव
  • रामभद्रः = श्रीरामः
  • पिप्पलदण्डयोग्यः = अश्वत्थदण्डधारणार्हः
  • क्षात्रक्रमात् = क्षत्त्रिय-कुलाचारात्
  • पलाशदण्डादृतपाणिः = किंशुकदण्डधारी । “पालाश-बिल्वयोः दण्डौ ब्राह्मणस्य, न्यग्रोध-चलदलयोः क्षत्त्रियस्य, पीलु-उदुम्बरयोः विशः” (स्मृतिः)
  • सम्पर्कपुण्यात् = सहवाससुकृतात्
  • सङ्क्रान्त-वर्णान्तर-गाधिसूनोः = तपोबलेन ब्राह्मण्यरूपं वर्णान्तरं प्राप्तस्य विश्वामित्रस्य । श्रीरामः क्षत्त्रियः, पिप्पलदण्डग्रहणे अर्हः । विश्वामित्रस्य सहवासेन ब्राह्मणयोग्यं पलाशदण्डं धृतवान् इति स्थूलः अर्थः ।
  • पलाशदण्डादृतपाणिः
    • पलाशानाम् = राक्षसानाम्
    • दण्डे = नियमने
    • आदृतपाणिः = व्यग्रहस्तः

अन्वयः

सङ्क्रान्तवर्णान्तरगाधिसूनोः सम्पर्कपुण्याद् इव, क्षात्रक्रमात् पिप्पलदण्डयोग्यः रामभद्रः पलाशदण्डादृतपाणिः आसीत् ।

आकाङ्क्षा

  • आसीत्
    • कः आसीत् ? रामभद्रः
    • कीदृशः रामभद्रः ? पिप्पलदण्डयोग्यः
      • केन हेतुना पिप्पलदण्डयोग्यः ? क्षात्रक्रमात्
    • कीदृशः आसीत् ? पलाशदण्डादृतपाणिः
      • कस्माद् हेतोः पलाशदण्डादृतपाणिः ? सम्पर्कपुण्यात्
        • कस्य सम्पर्कपुण्यात् ? सङ्क्रान्त-वर्णान्तर-गाधिसूनोः

तात्पर्यम्

तपोबलेन क्षात्रवर्णात् ब्राह्मण्यं प्राप्तस्य विश्वामित्रस्य सहवाससुकृताद् इव, क्षत्त्रियकुलाचारानुगुणं अश्वत्थदण्डधारणयोग्यः श्रीरामः किंशुकदण्डधारी बभूव (राक्षसानां नियमने व्यग्रहस्तः अभूत्) ।

पदविवरणम्

  • सङ्क्रान्तवर्णान्तरगाधिसूनोः = उकारान्तः, पुं., ष.वि., ए.व. । अन्यो वर्णः वर्णान्तरम् । सङ्क्रान्तं वर्णान्तरं येन सः । सङ्क्रान्तवर्णान्तरश्चासौ गाधिसूनुश्च, तस्य
  • सम्पर्कपुण्यात् = सम्पर्कस्य पुण्यम्, तस्मात्
  • पलाशदण्डादृतपाणिः = पलाशस्य दण्डः/ पलाशानां दण्डः, पलाशदण्डे आदृतः, पलाशदण्डादृतः पाणिः यस्य सः ।
  • विरोधाभासः = “आभासत्वे विरोधस्य विरोधाभास इष्यते”

अलङ्कारः

  • श्लेषेण विरोधस्य परिहारः – Apparent contradiction is clarified through pun
  • हेतूत्प्रेक्षा – In utpreksha alankara, the similarity is imagined. Here the simile is associated with the reason.

छन्दः

  • उपजातिः – इन्द्रवज्रा (१,२,३) + उपेन्द्रवज्रा (४)
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु गु गु
ङ्क्रा न्त र्णा न्त गा धि सू नोः
म्प र्क पु ण्या दि रा द्रः
क्षा त्र क्र मात् पि प्प ण्ड यो ग्यः
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु गु
ला ण्डा दृ पा णि रा सीत्

Word-Meaning

  • रामभद्रः = The gentleman (भद्र) Sriram (राम)
  • पिप्पलदण्डयोग्यः = One who is entitled to hold the stick of the Pippala tree (during the Upanayana ceremony)
  • क्षात्रक्रमात् = according to his Kshatriya class
    • पलाशदण्डादृतपाणिः आसीत् = became one who has the stick of the Palaasha tree (which is entitled for the Brahmanas) in his hand; Alternative meaning – became one who was completely engaged (आदृतपाणि) in punishing (दण्ड) the Rakshasas (पलाश)
  • सम्पर्कपुण्यात् = due to the virtue of being in the association
  • सङ्क्रान्त-वर्णान्तर-गाधिसूनोः = of the son of Gaadhi, Vishwamitra, who had attained another Varna (Vishwamitra had become a Brahmana from a Kshatriya due to rigorous austerities).
  1. श्लोकः

मूलपाठः

मारीचनीचमतिराहवमारचय्य क्षिप्तः क्षणेन रघुनायकसायकेन ।
मध्येपयोनिधि भयेन निमग्नमूर्तिर्वेषं पुपोष जलमानुषनिर्विशेषम् ॥ ५० ॥

पदच्छेदः

मारीच-नीच-मतिः, आहवम्, आरचय्य, क्षिप्तः, क्षणेन, रघु-नायक-सायकेन, मध्ये-पयोनिधि, भयेन, निमग्न-मूर्तिः, वेषम्, पुपोष, जल-मानुष-निर्विशेषम्

अन्वयार्थः

  • पुपोष = धृतवान्
  • मारीचनीचमतिः = दुष्टबुद्धिः मारीचनामा राक्षसः
  • वेषम् = भूमिकाम्
  • जलमानुषनिर्विशेषम् = सलिलमनुष्येभ्यः अभिन्नम्
  • निमग्नमूर्तिः = अन्तर्हितशरीरः
  • मध्येपयोनिधि = समुद्रान्तः
  • भयेन = भीत्या
  • क्षिप्तः = अपसारितः
  • रघुनायकसायकेन = रामबाणेन
  • क्षणेन = झटिति
  • आहवम् आरचय्य = युद्धं कृत्वा

अन्वयः

मारीचनीचमतिः आहवम् आरचय्य रघुनायकसायकेन क्षणेन क्षिप्तः मध्येपयोनिधि भयेन निमग्नमूर्तिः जलमानुषनिर्विशेषं वेषं पुपोष ।

आकाङ्क्षा

  • पुपोष
    • कः पुपोष ? मारीचनीचमतिः
    • किं पुपोष ? वेषम्
      • कीदृशं वेषं पुपोष ? जलमानुषनिर्विशेषम्
    • कथम्भूतः सन् पुपोष ? निमग्नमूर्तिः
      • कुत्र निमग्नमूर्तिः ? मध्येपयोनिधि
      • केन हेतुना निमग्नमूर्तिः ? भयेन
    • पुनः कथम्भूतः सन् पुपोष ? क्षिप्तः
      • केन क्षिप्तः ? रघुनायकसायकेन
      • कथं क्षिप्तः ? क्षणेन
      • किंकृत्वा क्षिप्तः ? आरचय्य
        • किम् आरचय्य ? आहवम्

तात्पर्यम्

दुष्टबुद्धिः मारीचः युद्धं कृत्वा रामबाणेन झटिति क्षिप्तः सागरमध्ये पतितः, भीत्या जलान्तर्हितशरीरः सलिलमनुष्यसदृशं वेषं धृतवान् ।

पदविवरणम्

  • मारीचनीचमतिः = नीचा मतिः यस्य सः, मारीचः इति नीचमतिः ।
  • आरचय्य = रच “रच प्रतियत्ने” – ल्यबन्ताव्ययम्
  • रघुनायकसायकेन = रघूणां नायकः, रघुनायकस्य सायकः, तेन । “शरे खड्गे च सायकः” (अमरः)
  • मध्येपयोनिधि = पयसां निधिः । पयोनिधेः मध्यम् । अव्ययीभावसमासः ।
  • निमग्नमूर्तिः = निमग्ना मूर्तिः यस्य सः
  • पुपोष = पुष् “पुषँ पुष्टौ”, लिट्., प्र.पु., ए.व.
  • जलमानुषनिर्विशेषम् = जलस्य मानुषः, निर्गतः विशेषात्, जलमानुषात् निर्विशेषः, तम् ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु
मा री नी ति रा मा य्य
क्षि प्तः क्ष णे घु ना सा के
ध्ये यो नि धि ये नि ग्न मू र्ति
र्वे षं पु पो मा नु नि र्वि शे षम्

Word-Meaning

  • मारीचनीचमतिः = The low minded Maareecha
    • क्षिप्तः = the one who was thrown
      • क्षणेन = instantaneously
      • रघुनायकसायकेन = by the arrow of Rama
      • आहवम् आरचय्य = after having a battle
    • निमग्नमूर्तिः = the one whose body was completely engulfed
      • मध्येपयोनिधि = in the middle of the ocean
      • भयेन = due to fear
    • पुपोष = adorned
      • वेषम् = the appearance
      • जलमानुषनिर्विशेषम् = which could not be indistinguishable from that of the beings living in the water

कक्ष्या २५ – ११.०६.२०१८

  1. श्लोकः

मूलपाठः

सुबाहुराहवोन्मत्तः कृत्तः काकुत्स्थपत्रिणा ।
मुनीनामनभिप्रेतः प्रेतनाथातिथिः कृतः ॥ ५१ ॥

पदच्छेदः

सुबाहुः, आहव-उन्मत्तः, कृत्तः, काकुत्स्थ-पत्रिणा, मुनीनाम्, अनभिप्रेतः, प्रेतनाथ-अतिथिः, कृतः ।

अन्वयार्थः

  • सुबाहुः कृतः = सुबाहुः विहितः
  • प्रेतनाथातिथिः = यमस्य आगन्तुः
  • आहवोन्मत्तः = युद्धव्यग्रः
  • काकुत्स्थपत्रिणा = रामबाणेन
  • कृत्तः = छिन्नः
  • मुनीनाम् = ऋषीणाम्
  • अनभिप्रेतः = असंमतः, लोकपीडकत्वात्

अन्वयः

मुनीनाम् अनभिप्रेतः, आहवोन्मत्तः सुबाहुः काकुत्स्थपत्रिणा कृत्तः प्रेतनाथातिथिः कृतः ।

आकाङ्क्षा

  • कृतः
    • कः कृतः ? सुबाहुः
    • कीदृशः सुबाहुः ? प्रेतनाथातिथिः
    • पुनः कीदृशः सुबाहुः ? आहवोन्मत्तः
    • पुनः कीदृशः सुबाहुः ? काकुत्स्थपत्रिणा कृत्तः
    • पुनः कीदृशः सुबाहुः ? मुनीनाम् अनभिप्रेतः

तात्पर्यम्

लोकपीडकत्वात् ऋषीणाम् असंमतः सुबाहुः युद्धव्यग्रः रामबाणेन च्छिन्नः यमलोकं प्रेषितः ।

पदविवरणम्

  • आहवोन्मत्तः = आहवेन उन्मत्तः
  • कृत्तः = कृत् “कृतीँ छेदने” + क्त । लट्लकारे कृन्तति कृन्ततः कृतन्ति ।
  • काकुत्स्थपत्रिणा = काकुत्स्थस्य पत्री, तेन । नकारान्तः, पुं., तृ.वि., ए.व. । “कलम्ब-मार्गण-शराः पत्री रोप इषुः द्वयोः” (अमरः)
  • अनभिप्रेतः = न अभिप्रेतः । अभि + प्र + इ “इण् गतौ” + क्त ।
  • प्रेतनाथातिथिः = प्रेतानां नाथः । प्रेतनाथस्य अतिथिः ।

छन्दः

  • अनुष्टुप् (श्लोकः)
    ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
    गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’
1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8
लघु गुरु लघु गुरु लघु
सु बा हु रा वो न्म त्तः कृ त्तः का कु त्स्थ त्रि णा
मु नी ना भि प्रे तः प्रे ना था ति थिः कृ तः

Word-Meaning

  • सुबाहुः = Subaahu
    • आहवोन्मत्तः = one who was intoxicated (उन्मत्त) by battle (आहु)
    • काकुत्स्थपत्रिणा कृत्तः = one who was cut into pieces by Rama’s arrow
    • मुनीनाम् अनभिप्रेतः = one who was disliked by the munis (because he was tormenting the world)
  • कृतः प्रेतनाथातिथिः = was made to become (कृत) the guest of Yama, the lord of the dead
  1. श्लोकः

मूलपाठः

वंशस्पृशा हृदयहारिफलान्वितेन
रामेरितेन सहसा सह सायकेन ।

स्नेहार्दितेन निरगादनुरागिणीव
प्राणावलिर्हृदयतः पिशिताशनानाम् ॥ ५२ ॥

पदच्छेदः

वंश-स्पृशा, हृदय-हारि-फल-अन्वितेन, राम-ईरितेन, सहसा, सह, सायकेन, स्नेह-आर्दितेन, निरगात्, अनुरागिणी, इव, प्राण-आवलिः, हृदयतः, पिशिताशनानाम् ।

अन्वयार्थः

  • निरगात् = निर्गता
  • प्राणावलिः = पञ्चप्राणश्रेणिः
  • हृदयतः = हृत्प्रदेशात्
  • पिशिताशनानाम् = राक्षसानाम्
  • सहसा = शीघ्रम्
  • सायकेन सह = बाणेन सह
  • वंशस्पृशा = वेणुसम्भवेन
  • हृदयहारिफलान्वितेन = हृदयविदलनसमर्थ-बाणाग्र-युतेन
  • रामेरितेन = श्रीरामप्रयुक्तेन
  • स्नेहार्दितेन = तैलादिपरिशोधितेन
  • अनुरागिणी = अनुरागवती युवतिः
  • नायकेन सह = प्रियकरेण सह
  • वंशस्पृशा = उत्तमवंशजातेन,
  • हृदयहारिफलान्वितेन = मनोहरलाभसमृद्धेन,
  • रामेरितेन = सुन्दरीभिः अभिलषितेन,
  • स्नेहार्दितेन = प्रेमपूर्णेन

अन्वयः

वंशस्पृशा हृदयहारिफलान्वितेन रामेरितेन स्नेहार्दितेन नायकेन सह अनुरागिणी इव, वंशस्पृशा हृदयहारिफलान्वितेन रामेरितेन स्नेहार्दितेन सायकेन सह प्राणावलिः पिशिताशनानां हृदयतः निरगात् ।

आकाङ्क्षा

  • निरगात् = निर्गता
    • का निरगात् ? प्राणावलिः
    • कस्मात् निरगात् ? हृदयतः
      • केषां हृदयतः ? पिशिताशनानाम्
    • कथं निरगात् ? सहसा
    • केन सह निरगात् ? सायकेन सह
      • कीदृशेन सायकेन सह ? वंशस्पृशा
      • पुनः कीदृशेन सायकेन सह ? हृदयहारिफलान्वितेन
      • पुनः कीदृशेन सायकेन सह ? रामेरितेन
      • पुनः कीदृशेन सायकेन सह ? स्नेहार्दितेन
    • का इव निरगात् ? अनुरागिणी इव
      • केन सह निरगात् ? नायकेन सह
        • कीदृशेन नायकेन सह ? वंशस्पृशा
        • पुनः कीदृशेन नायकेन सह ? हृदयहारिफलान्वितेन
        • पुनः कीदृशेन नायकेन सह ? रामेरितेन
        • पुनः कीदृशेन नायकेन सह ? स्नेहार्दितेन

तात्पर्यम्

यथा काचित् अनुरागवती युवतिः उत्तमकुलप्रसूतेन, मनोहरलाभसमृद्धेन, सुन्दरीभिः अभिलषितेन, प्रेमपूर्णेन नायकेन सह शीघ्रं निर्गच्छति, एवं प्राणश्रेणिः राक्षासानां हृदयतः वेणुसम्भवेन, हृदयविदलनसमर्थबाणाग्रयुक्तेन, श्रीरामप्रयुक्तेन, तैलादिसंस्कृतेन बाणेन सह झटिति निर्गता ।

पदविवरणम्

  • वंशस्पृशा = वंशं स्पृशति । शकारान्तः, पुं., तृ.वि., ए.व. । “वंशे त्वक्सार-कर्मार…”, “वंशोऽन्ववायः सन्तानः” (अमरः)
  • हृदयहारिफलान्वितेन = हृदयं हर्तुं शीलमस्य । हृदयहारि च तत् फलं च । हृदयहारिफलेन अन्वितम्, तेन । “हृदयं मानस-उरसोः”, “फलं बाणाग्र-लाभयोः” (विश्वप्रकाशः)
  • रामेरितेन = रामेण ईरितः, तेन । रामाभिः ईरितः, तेन ।
  • स्नेहार्दितेन = स्नेहेन आर्दितः, तेन ।
  • निरगात् = निर् + इ “इण् गतौ” । लुङ्., प्र.पु., ए.व. ।
  • अनुरागिणी = अनुरागः अस्याः अस्ति । अनुराग + इन् (तद्धितः) + ङीप् (स्त्री)
  • प्राणावलिः = प्राणानाम् आवलिः । इकारान्तः, स्त्री., प्र.वि., ए.व.
  • हृदयतः = हृदय + तसि (तद्धितः – ‘पञ्चम्यास्तसिः’)
  • पिशिताशनानाम् = पिशितम् अश्नन्ति, तेषाम् ।

अलङ्कारः

  • सहालङ्कारः, समासोक्तिः, उपमा, श्लेषः
    • सहोक्तिः सहभावश्चेत् भासते जनरञ्जनः” – two things happening simultaneously
    • समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत्” – brings to mind that which is not directly relevant to the current scenario
    • उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः”
    • “नानार्थसंश्रयः श्लेषः” – words giving different meaning

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु

Word-Meaning

  • प्राणावलिः = the series of praanas, the five life-airs
    • निरगात् = departed
    • हृदयतः = from the heart
      • पिशिताशनानाम् = of the Rakshasaas
    • सहसा = quickly
    • सायकेन सह = along with arrow
      • वंशस्पृशा = that which was made of cane (वंश)
      • हृदयहारिफलान्वितेन = that which possessed the tip which is capable of piercing the heart
      • रामेरितेन = that which was released (ईरित) by Rama
      • स्नेहार्दितेन = that which has been polished with sticky oil
    • अनुरागिणी इव = like a damsel in love, who goes
      • नायकेन सह = along with her lover
      • वंशस्पृशा = along one who was born in a venerable lineage
      • हृदयहारिफलान्वितेन = along one who is endowed (अन्वित) with desirable wealth
      • रामेरितेन = along one who is desired (ईरित) by beautiful women (रामा)
      • स्नेहार्दितेन = along one who is filled (आर्दित) with love (स्नेह)
  1. श्लोकः

मूलपाठः

अथ निशिचरमाथाद्वीतवैतानविघ्नः
मुनिरवभृथकृत्यं विश्वहृद्यं समाप्य ।
अमनुत जयलक्ष्म्या राममाजौ समेतं
यजनजनितमूर्त्या योक्तुमव्याजलक्ष्म्या ॥ ५३ ॥

पदच्छेदः

अथ, निशिचर-माथात्, वीत-वैतान-विघ्नः, मुनिः, अवभृथ-कृत्यम्, विश्व-हृद्यम्, समाप्य, अमनुत, जय-लक्ष्म्या, रामम्, आजौ, समेतम्, यजन-जनित-मूर्त्या, योक्तुम्, अव्याज-लक्ष्म्या

अन्वयार्थः

  • अथ = तदनतरम्
  • समाप्य = कृत्वा
  • मुनिः = विश्वामित्रः
  • वीतवैतानविघ्नः
    • वीतः = निरस्तः, वैतानः = यज्ञस्य, विघ्नः = अन्तरायः यस्य तादृशः सन्
  • निशिचरमाथात्
    • निशिचराणाम् = राक्षसानाम्, माथात् = संहरणात्
  • अवभृथकृत्यम् = दीक्षान्तस्नानम्
  • विश्वहृद्यम् = सर्वसंमतम्, लोकोपकारकत्वात्
  • अमनुत = अचिन्तयत्
  • रामं योक्तुम् = रामं सङ्घटयितुम्
  • समेतम् = सहितम्
  • जयलक्ष्या = विजयश्रिया
  • आजौ = युद्धे
  • अव्याजलक्ष्म्या = तत्त्वतः लक्ष्मीरूपया सीतया
  • यजनजनितमूर्त्या = जनकयज्ञे अवतीर्णरूपया

अन्वयः

अथ निशिचरमाथात् वीतवैतानविघ्नः मुनिः विश्वहृद्यम् अवभृथकृत्यं समाप्य आजौ जयलक्ष्म्या समेतं रामं यजनजनितमूर्त्या अव्याजलक्ष्म्या योक्तुम् अमनुत ।

आकाङ्क्षा

  • अमनुत
    • कः अमनुत ? मुनिः
      • कीदृशः मुनिः ? वीतवैतानविघ्नः
        • कस्मात् हेतोः वीतवैतानविघ्नः ? निशिचरमाथात्
      • किं कृत्वा अमनुत ? समाप्य
        • किं समाप्य ? अवभृथकृत्यम्
          • कीदृशम् अवभृथकृत्यम् ? विश्वहृद्यम्
        • किम् अमनुत ? योक्तुम्
          • कं योक्तुम् ? रामम्
            • कीदृशं रामम् ? समेतम्
              • कया समेतम् ? जयलक्ष्या
              • कुत्र समेतम् ? आजौ
            • कया योक्तुम् अमनुत ? अव्याजलक्ष्म्या
              • कीदृश्या अव्याजलक्ष्म्या ? यजनजनितमूर्त्या
            • कदा अमनुत ? अथ

तात्पर्यम्

अथ निशिचरमाथात् वीतवैतानविघ्नः मुनिः विश्वहृद्यम् अवभृथकृत्यं समाप्य आजौ जयलक्ष्म्या समेतं रामं यजनजनितमूर्त्या अव्याजलक्ष्म्या योक्तुम् अमनुत ।

पदविवरणम्

  • अथ निशिचरमाथाद्वीतवैतानविघ्नः मुनिरवभृथकृत्यं विश्वहृद्यं समाप्य ।
    अमनुत जयलक्ष्म्या राममाजौ समेतं यजनजनितमूर्त्या योक्तुमव्याजलक्ष्म्या ॥ ५३
  • निशिचरमाथात् – निशिचराणां माथः, तस्मात् ।
  • वीतवैतानविघ्नः
    • वैतानविघ्नः = वैतानः च असौ विघ्नः
    • वीतवैतानविघ्नः = वीतः वैतानविघ्नः यस्य सः ।
    • “क्रतुविस्तारयोरस्त्री वितानं” (अमरः)
    • विघ्नोऽन्तरायः प्रत्यूहः” (अमरः)
  • विश्वहृद्यम् = हृदयस्य प्रियम् – हृदय + यत् (तद्धितः), विश्वस्य हृद्यम् ।
  • अमनुत = मन् “मनुँ अवबोधने” – लङ्., प्र.पु., ए.व. । मनुते मन्वाते मन्वते ।
  • आजौ = इकारान्तः, स्त्री, स.वि., ए.व. । “स्त्रियः संयत्-समिति-आजि-समित्-युधः” (अमरः)
  • यजनजनितमूर्त्या
    • यजनजनिता = यजने जनिता
    • यजनजनितमूर्त्या = यजनजनिता मूर्तिः यस्याः सा, तया
  • योक्तुम् = युज् “युजिँर् योगे” + तुमुन्
  • अव्याजलक्ष्म्या = न विद्यते व्याजः यस्याः सा, अव्याजा लक्ष्मीः, तया

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • अथ = After that
  • मुनिः = the sage, Vishwamitra
    • वीतवैतानविघ्नः = one from whom the obstacles (विघ्न) for the yajna (वैतान) has been removed (वीत)
      • निशिचरमाथात् = due to the killing (माथ) of the Rakshasaas (निशिचर)
    • समाप्य = after having completed
      • अवभृथकृत्यम् = the bath (अवभृथकृत्य) that is undertaken after the completion of the yagna
        • विश्वहृद्यम् = that which is desirable (हृद्य) by everyone in the different worlds (विश्व)
      • अमनुत = thought
        • योक्तुम् = to unite
        • रामम् = Rama
          • समेतम् = who was already endowed
            • जयलक्ष्या = with the Goddess of Victory
              • आजौ = in the battle
            • अव्याजलक्ष्म्या = with the real (अव्याज not artificial) Lakshmi (लक्ष्मी)
              • यजनजनितमूर्त्या = with her whose form (मूर्ति) descended (जनित) during the yagna (यजन) of Janaka

कक्ष्या २६ – १८.०६.२०१८

गद्यम्

मूलपाठः

अथ मिथिलां प्रति प्रस्थितः कौशिकः काकुत्स्थमित्थमकथयत् ।

पदच्छेदः

अथ, मिथिलाम्, प्रति, प्रस्थितः, कौशिकः, काकुत्स्थम्, इत्थम्, अकथयत् ।

अन्वयः

अथ मिथिलां प्रति प्रस्थितः कौशिकः काकुत्स्थम् इत्थम् अकथयत् ।

आकाङ्क्षा

  • अकथयत्
    • किम् / कथम् अकथयत् ? इत्थम्
    • कम् अकथयत् ? काकुत्स्थम्
    • कः अकथयत् ? कौशिकः
      • कीदृशः कौशिकः ? प्रस्थितः
        • कां प्रति प्रस्थितः ? मिथिलां प्रति
      • कदा अकथयत् ? अथ

तात्पर्यम्

सीतया रामं योजयितुं निश्चित्य मिथिलां प्रति प्रस्थितः विश्वामित्रः रामम् एवम् अब्रवीत् ।

Word-Meaning

  • अथ = then
  • कौशिकः = Kaushika, i.e., Vishwamitra
    • मिथिलां प्रति प्रस्थितः = one who was proceeding (प्रस्थित) towards (प्रति) Mithilaa (मिथिला)
  • अकथयत् = spoke
  • इत्थम् = in this way
  • काकुत्स्थम् = to Rama

गद्यम्

मूलपाठः

पुरा खलु कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रमुखैश्चतुर्भिः कौशाम्बीमहोदयधर्मारण्यगिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव ।

पदच्छेदः

पुरा, खलु, कुशेशय-आसन-जन्मा, कुश-अभिधानः, राज-ऋषिः, कुशाम्ब-प्रमुखैः, चतुर्भिः, कौशाम्बी-महोदय-धर्मारण्य-गिरिव्रज-आख्यानाम्, पुरीणाम्, कर्तृभिः, पुत्री, बभूव ।

अन्वयार्थः

  • पुरा खलु = प्राक्काले
  • कुशेशयासनजन्मा = कमलासनस्य ब्रह्मणः पुत्रः
  • कुशाभिधानः = कुशनामा
  • राजर्षिः = नृपश्रेष्ठः
  • कुशाम्बप्रमुखैः = कुशाम्बप्रभृतिभिः (कुशाम्बः, कुशनाभः, अधूर्तरजसः, वसुः)
  • चतुर्भिः = चतुःसंख्याकैः
  • कौशाम्बी-महोदय-धर्मारण्य-गिरिव्रज-आख्यानाम्
  • पुरीणाम् = नगरीणाम्
  • कर्तृभिः = निर्मातृभिः
  • पुत्री बभूव = पुत्रवान् बभूव

अन्वयः

पुरा कुशेशयासनजन्मा कुशाभिधानो राजर्षिः कुशाम्बप्रमुखैः चतुर्भिः कौशाम्बीमहोदयधर्मारण्यगिरिव्रजाख्यानां पुरीणां कर्तृभिः पुत्री बभूव खलु

आकाङ्क्षा

  • बभूव खलु
    • कथंभूतः बभूव ? पुत्री
    • कः बभूव ? कुशाभिधानः
      • कीदृशः कुशाभिधानः ? कुशेशयासनजन्मा
      • पुनः कीदृशः कुशाभिधानः ? राजर्षिः
    • कैः बभूव ? चतुर्भिः
      • कीदृशैः बभूव ? कुशाम्बप्रमुखैः
      • पुनः कीदृशैः बभूव ? कर्तृभिः
        • केषां कर्तृभिः ? पुरीणाम्
          • कथम्भूतानां पुरीणाम् ? कौशाम्बीमहोदयधर्मारण्यगिरिव्रजाख्यानाम्
        • कदा बभूव ? पुरा

तात्पर्यम्

प्राक्काले कुशनामा चतुर्मुखब्रह्मणः पुत्रः आसीत् । तस्य चत्वारः पुत्राः – कुशाम्बः, कुशनाभः, अधूर्तरजसः, वसुः चेति । तैः क्रमशः कौशाम्बी, महोदयः, धर्मारण्यम्, गिरिव्रजः इत्येतानि नगराणि निर्मितानि ।

पदविवरणम्

  • कुशेशयासनजन्मा = कुशेशयम् आसनं यस्य सः, कुशेशयासनात् जन्म यस्य सः । नकारान्तः, पुं., प्र.वि., ए.व. । “सहस्रपत्रं कमलं शतपत्रं कुशेशयम्” (अमरः)
  • कुशाभिधानः = कुशः अभिधानं यस्य सः
  • राजर्षिः = राजा ऋषिः इव ।
  • कुशाम्बप्रमुखैः = कुशाम्बः प्रमुखः येषां ते, तैः
  • पुत्री = पुत्राः अस्य सन्ति – पुत्र + इनि (तद्धितः) । नकारान्तः, पुं., प्र.वि., ए.व.

Word-Meaning

  • पुरा = Once upon a time
  • कुशेशयासनजन्मा = the one born (जन्म) to Brahma, the one whose seat (आसन) is lotus (कुशेशय)
    • कुशाभिधानः = the one having the name (अभिधान) Kusha (कुश)
    • राजर्षिः = the best (ऋषि) among kings (राज)
  • पुत्री बभूव खलु = have indeed become the one having sons
  • कुशाम्बप्रमुखैः = due to those starting with Kushamba, namely Kushamba, Kushanaabha, Adhoortarajasa, Vasu
    • चतुर्भिः = due to those four
    • कर्तृभिः = due to those who were the creators
      • पुरीणाम् = of the cities
      • कौशाम्बी-महोदय-धर्मारण्य-गिरिव्रज-आख्यानाम् = of those named (आख्या) as Kaushaambee, Mahodaya, Dharmaaranya, and Girivraja

गद्यम्

मूलपाठः

कुशनाभस्तु घृतीच्यां कन्याशतमजनयत् ।

पदच्छेदः

कुशनाभः, तु, घृतीच्याम्, कन्याशतम्, अजनयत् ।

अन्वयार्थः

  • घृतीच्याम् = घृताचीनामिकायां अप्सरसि

अन्वयः

  • कुशनाभः तु घृतीच्यां कन्याशतम् अजनयत् ।

आकाङ्क्षा

  • अजनयत्
    • कः अजनयत् ? कुशनाभः तु
    • किम् अजनयत् ? कन्याशतम्
    • कुत्र अजनयत् ? घृतीच्याम्

तात्पर्यम्

कुशस्य द्वितीयः पुत्रः कुशनाभः घृताचीनामिकायां अप्सरसि शतसंख्याकाः कन्यकाः उत्पादयामास ।

Word-Meaning

  • कुशनाभः तु = Kushanaabha
  • घृतीच्याम् अजनयत् = created (जनय) in an Apsara named Ghruteechi (घृतीची)
  • कन्याशतम् = one hundred girls

गद्यम्

मूलपाठः

कन्यास्ताः संनद्धयौवनाः कामयमानः पवमानः प्रत्याख्यानात्प्रत्यापन्नमन्युरासामवयवेष्वनार्जवमतनुत ।

पदच्छेदः

कन्याः, ताः, संनद्ध-यौवनाः, कामयमानः, पवमानः, प्रत्याख्यानात्, प्रत्यापन्न-मन्युः, आसाम्, अवयवेषु, अनार्जवम्, अतनुत ।

अन्वयार्थः

  • ताः कन्याः = कुशनाभस्य पुत्रीशतम्
  • संनद्धयौवनाः = तारुण्यापन्नाः
  • कामयमानः = अभिलषमाणः
  • पवमानः = वायुः
  • प्रत्याख्यानात् = निराकरणात् (“वयं पित्रधीनाः, तमेवाभ्यर्थय” इत्युक्तः)
  • प्रत्यापन्नमन्युः = उत्पन्नक्रोधः
  • आसाम् = कन्यकानाम्
  • अवयवेषु = अङ्गेषु
  • अनार्जवम् = कौटिल्यम्
  • अतनुत = जनयामास

अन्वयः

कन्याः ताः संनद्ध-यौवनाः कामयमानः पवमानः प्रत्याख्यानात् प्रत्यापन्न-मन्युः आसाम् अवयवेषु अनार्जवम् अतनुत ।

आकाङ्क्षा

  • अतनुत
    • कः अतनुत ? पवमानः
      • कथंभूतः पवमानः ? कामयमानः
        • काः कामयमानः ? ताः कन्याः
          • कथंभूताः ताः ? संनद्ध-यौवनाः
        • पुनः कथंभूतः पवमानः ? प्रत्यापन्न-मन्युः
          • कस्मात् प्रत्यापन्न-मन्युः ? प्रत्याख्यानात्
        • किम् अतनुत ? अनार्जवम्
        • केषु अतनुत ? अवयवेषु
          • कासाम् अवयवेषु ? आसाम्

तात्पर्यम्

कदाचित् वायुदेवः कुशनाभस्य पुत्रीशतम् अभिलषमाणः ताभिः तिरस्कृतः सन् कोपेन तासामङ्गेषु कौटिल्यम् उत्पादितवान् ।

पदविवरणम्

  • संनद्धयौवनाः = संनद्धं यौवनं यासां ताः
  • कामयमानः = “कमु कान्तौ” + शानच्
  • पवमानः = “नभस्वद्-वात-पवन-पवमान-प्रभञ्जनाः” (अमरः)
  • प्रत्यापन्नमन्युः = प्रत्यापन्नः मन्युः यस्य सः ।
  • अनार्जवम् = ऋजोः भावः आर्जवम् । न आर्जवम् ।
  • अतनुत = तन् “तनु विस्तारे” – आत्मनेपदे लङ् प्र.पु., ए.व.

Word-Meaning

  • पवमानः = The wind god, Vayu
    • कामयमानः = one who desired
    • ताः कन्याः = those girls
    • संनद्धयौवनाः = those who had attained puberty
  • प्रत्यापन्नमन्युः = one who got angry
    • प्रत्याख्यानात् = because of being rejected
  • अतनुत = created
    • अनार्जवम् = deformity (not being straight – न आर्जवम्)
      • अवयवेषु = in their body
        • आसाम् = of those girls

गद्यम्

मूलपाठः

अथ विदितवृत्तान्तेन कुशनाभेन तेन क्षमामेव प्रतिक्रियां मन्यमानेन चूलिसूनवे सौमदेयाय राज्ञे ब्रह्मदत्ताय दत्तास्ताः प्रकृतिस्था बभूवुः ।

पदच्छेदः

अथ, विदित-वृत्तान्तेन, कुशनाभेन, तेन, क्षमाम्, एव, प्रतिक्रियाम्, मन्यमानेन, चूलि-सूनवे, सौमदेयाय, राज्ञे, ब्रह्मदत्ताय, दत्ताः, ताः, प्रकृतिस्थाः, बभूवुः

अन्वयार्थः

  • अथ = तदनन्तरम्
  • विदितवृत्तान्तेन = ज्ञातविचारेण (कन्यकानां वायुशापेन प्राप्तां दुरवस्थां विज्ञाय)
  • तेन कुशनाभेन
  • क्षमाम् एव = क्षान्तिम् एव, न तु क्रोधम्
  • प्रतिक्रियाम् = प्रतिस्पन्दम्
  • मन्यमानेन = भावयता
  • चूलिसूनवे सौमदेयाय = चूलिमहर्षेः सोमदानाम्न्याः गन्धर्वस्त्रियाश्च पुत्राय
  • राज्ञे ब्रह्मदत्ताय
  • दत्ताः = भार्यात्वेन प्रदत्ताः
  • ताः = कुशनाभस्य पुत्र्यः
  • प्रकृतिस्थाः = तत्प्रभावात् यथापूर्वरूपाः
  • बभूवुः = अभूवन्

अन्वयः

अथ विदितवृत्तान्तेन कुशनाभेन क्षमाम् एव प्रतिक्रियां मन्यमानेन तेन चूलिसूनवे सौमदेयाय राज्ञे ब्रह्मदत्ताय दत्ताः ताः प्रकृतिस्थाः बभूवुः

आकाङ्क्षा

  • बभूवुः
    • काः बभूवुः ? ताः
      • कीदृशाः ताः ? दत्ताः
        • कस्मै दत्ताः ? राज्ञे
          • कस्मै राज्ञे ? ब्रह्मदत्ताय
          • कीदृशाय ब्रह्मदत्ताय ? चूलिसूनवे
          • पुनः कीदृशाय ब्रह्मदत्ताय ? सौमदेयाय
        • केन दत्ताः ? तेन कुशनाभेन
          • कीदृशेन कुशनाभेन ? विदितवृत्तान्तेन
          • कथंभूतेन कुशनाभेन ? मन्यमानेन
            • किमिति मन्यमानेन ? प्रतिक्रियाम् इति
              • किमेव प्रतिक्रियाम् ? क्षमाम् एव
            • कथंभूताः बभूवुः ? प्रकृतिस्थाः
            • कदा बभूवुः ? अथ

तात्पर्यम्

वायुशापेन पुत्रीणाम् अङ्गवैकल्यं ज्ञात्वापि कुशनाभः क्षान्तिमेव आश्रितवान्, न तु क्रोधं प्रदर्शयामास । ततश्च चूलि-सोमदयोः पुत्राय ब्रह्मदत्तनामकाय नृपाय स्वपुत्रीः विवाहे प्रदत्तवान् । तत्प्रभावेण च ताः कन्याः शापान्मुक्ताः पूर्वरूपं प्राप्तवत्यः ।

पदविवरणम्

  • विदितवृत्तान्तेन = विदितः वृत्तान्तः येन सः, तेन
  • चूलिसूनवे = उकारान्तः, पुं, च.वि., ए.व. । चूलेः सूनुः, तस्मै ।
  • सौमदेयाय = सोमदायाः अपत्यं पुमान्, तस्मै । अकारान्तः, पुं., च.वि., ए.व. ।
  • प्रकृतिस्थाः = प्रकृतौ तिष्ठन्ति – उपपदसमासः
  • बभूवुः = भू “भू सत्तायाम्” – लिट्., प्र.पु., ब.व.

Word-Meaning

  • अथ = then
  • ताः = those girls
    • दत्ताः = those who were given as wives
    • ब्रह्मदत्ताय = to Brahmadatta
      • राज्ञे = to him, the king
      • चूलिसूनवे = to him, the son of Rishi Chooli (चूलि)
      • सौमदेयाय = to him, that Soumadeya (सौमदेय), the son of Somadaa (सोमदा), who was a Gandarva woman
    • तेन कुशनाभेन = by him, by that Kushanaabha
      • विदितवृत्तान्तेन = by him who came to know the events that had happened
      • मन्यमानेन = by one who was thinking
        • प्रतिक्रियाम् = that the appropriate reaction
          • क्षमाम् एव = is only forgiveness
        • बभूवुः = became
        • प्रकृतिस्थाः = established in their original form (by the blessings of Rishi Chooli)

गद्यम्

मूलपाठः

पुनरपि कुशनाभस्तु पुतीयन्पितुः प्रसादादगाधसत्त्वान्गाधिसंज्ञानस्मत्तातपादानुदपादयत् ।

पदच्छेदः

पुनः, अपि, कुशनाभः, तु, पुत्रीयन्, पितुः, प्रसादात्, अगाध-सत्त्वान्, गाधि-संज्ञान्, अस्मत्-तातपादान्, उदपादयत्

अन्वयार्थः

  • पुनरपि कुशनाभः
  • पुत्रीयन् = पुत्रम् आत्मनः इच्छन्
  • पितुः = ब्रह्मसूनोः कुशस्य
  • प्रसादात् = अनुग्रहात्
  • पुनरपि कुशनाभस्तु पुतीयन्पितुः प्रसादादगाधसत्त्वान्गाधिसंज्ञानस्मत्तातपादानुदपादयत् ।
  • अगाधसत्त्वान् = महापराक्रमिणम्
  • गाधिसंज्ञान् = गाधिनामकम्
  • अस्मत्तातपादान् = मम (विश्वामित्रस्य) पितरम्
  • उदपादयत् = जनयामास

अन्वयः

पुनः अपि कुशनाभः तु पुत्रीयन् पितुः प्रसादात् अगाध-सत्त्वान् गाधि-संज्ञान् अस्मत्-तातपादान् उदपादयत्

आकाङ्क्षा

  • उदपादयत्
    • कदा उदपादयत् ? पुनः अपि
    • कः उदपादयत् ? कुशनाभः
    • कस्मात् उदपादयत् ? प्रसादात्
      • कस्य ? पितुः
    • कं / कान् उदपादयत् ? अगाध-सत्त्वान्
      • कीदृशं / कीदृशान् अगाध-सत्त्वान् ? गाधि-संज्ञान्
      • पुनः कीदृशं / कीदृशान् अगाध-सत्त्वान् ? अस्मत्-तातपादान्

तात्पर्यम्

ततः कुशनाभः पुत्रं प्राप्तुम् इच्छन् पितुः कुशस्य अनुग्रहात् गाधिनामकं महापराक्रमिणं विश्वामित्रस्य पितरं जनयामास

पदविवरणम्

  • पुत्रीयन् = पुत्रम् आत्मनः इच्छति – पुत्र + क्यच् (नामधातुः) + शतृ । तकारान्तः, पुं., प्र.वि., ए.व. (A subhanta is converted to a dhaatu in Naamadhaatu). 3-1-8 सुप आत्मनः क्यच् kyach pratyaya is used in different senses. Here it denotes the object of one’s own wish.
  • अगाधसत्त्वान् = अगाधं सत्त्वं यस्य सः । पूजार्थं बहुवचनम् ।
  • गाधिसंज्ञान् = गाधिः संज्ञा यस्य सः
  • तातपादान् = “तातस्तु जनकः पिता” (अमरः) – The term paada indicates respect
  • उदपादयत् = उत् + पद् “पदँ गतौ” + णिच् – लङ्, प्र.पु., ए.व.

Word-Meaning

  • पुनरपि कुशनाभः = Later, Kushanaabha
  • पुत्रीयन् = wishing for a son
  • प्रसादात् = due to the blessings
    • पितुः = of his father, Kusha
  • उदपादयत् = begot
    • अस्मत्तातपादान् = my father
      • गाधिसंज्ञान् = named Gaadhi
      • अगाधसत्त्वान् = One with great valour

गद्यम्

मूलपाठः

इत्थं दाशरथिः कौशिकोत्पत्तिकथानिशमननिरायामयामिनीयामानुबन्धो बन्धूकस्तबकसुन्दरबन्धुरेण सन्ध्यारागेण प्राचीमुखेन शोणीकृतेन शोणाभिधानं दधानेन नदेन प्रवर्तितप्रत्यूषकृत्यः कृतनियमेन मुनिना सह गङ्गामुपतिष्ठमानेन पथा प्रातिष्ठत ।

पदच्छेदः

इत्थम्, दाशरथिः, कौशिक-उत्पत्ति-कथा-निशमन-निरायाम-यामिनी-याम-अनुबन्धः, बन्धूक-स्तबक-सुन्दर-बन्धुरेण, सन्ध्या-रागेण, प्राची-मुखेन, शोणीकृतेन, शोण-अभिधानम्, दधानेन, नदेन, प्रवर्तित-प्रत्यूष-कृत्यः, कृत-नियमेन, मुनिना, सह, गङ्गाम्, उपतिष्ठमानेन, पथा, प्रातिष्ठत

अन्वयार्थः

  • इत्थम् = पूर्वोक्तप्रकारेण
  • दाशरथिः = श्रीरामः
  • कौशिकस्य = विश्वामित्रस्य, उत्पत्तिकथा = जन्मवृत्तान्तः, तस्य निशमनम् = श्रवणम्, तेन निरायामः = अदीर्घः, यामिन्याः = रात्रेः, यामानुबन्धः = प्रहरानुवृत्तिः यस्य तादृशः सन्
  • बन्धूकस्तबकम् = बन्धूकपुष्पस्य गुच्छम्, तद्वत् सुन्दरेण = रमणीयेन, बन्धुरेण = मनोहरेण
  • सन्ध्यारागेण = अरुणोदयकालिक-रक्तवर्णयुतेन
  • प्राचीमुखेन = पूर्वदिग्भागेन
  • शोणीकृतेन = अनुरञ्जितेन
  • शोण-अभिधानं दधानेन नदेन = शोणा इति नाम धरतः स्रोतसः जलेन
  • प्रवर्तितम् = अनुष्ठितम्, प्रत्यूषकृत्यम् = प्रातराह्निकम् (स्नानम्, सन्ध्यावन्दनं च) येन तादृशः सन्
  • कृतनियमेन = विहित-अनुष्ठानेन
  • मुनिना सह = विश्वामित्रेण सार्धम्
  • गङ्गाम् = भागीरथीम्
  • उपतिष्ठमानेन = अनुसरता
  • पथा = मार्गेण
  • प्रातिष्ठत = प्रस्थितः

अन्वयः

इत्थं दाशरथिः कौशिक-उत्पत्ति-कथा-निशमन-निरायाम-यामिनी-याम-अनुबन्धः बन्धूकस्तबकसुन्दरबन्धुरेण सन्ध्यारागेण प्राचीमुखेन शोणीकृतेन

शोणाभिधानं दधानेन नदेन प्रवर्तितप्रत्यूषकृत्यः कृतनियमेन मुनिना सह

गङ्गाम् उपतिष्ठमानेन पथा प्रातिष्ठत ।

आकाङ्क्षा

  • प्रातिष्ठत
    • केन प्रातिष्ठत ? पथा
      • कीदृशेन पथा ? उपतिष्ठमानेन
        • काम् उपतिष्ठमानेन ? गङ्गाम्
      • केन सह प्रातिष्ठत ? मुनिना सह
        • कीदृशेन मुनिना सह ? कृतनियमेन
      • कः प्रातिष्ठत ? दाशरथिः
        • कीदृशः दाशरथिः ? कौशिक-उत्पत्ति-कथा-निशमन-निरायाम-यामिनी-याम-अनुबन्धः
        • पुनः कीदृशः दाशरथिः ? प्रवर्तितप्रत्यूषकृत्यः
          • केन हेतुना प्रवर्तितप्रत्यूषकृत्यः ? नदेन
            • कीदृशेन नदेन ? दधानेन
              • किं दधानेन ? शोणाभिधानम्
            • पुनः कीदृशेन नदेन ? शोणीकृतेन
              • केन हेतुना शोणीकृतेन ? प्राचीमुखेन
                • कीदृशेन प्राचीमुखेन ? सन्ध्यारागेण
                • पुनः कीदृशेन प्राचीमुखेन ? बन्धूकस्तबकसुन्दरबन्धुरेण
              • कथं प्रातिष्ठत ? इत्थम्

तात्पर्यम्

विश्वामित्रस्य जननवृत्तान्तश्रवणेन रात्रिकालः अदीर्घ इव आसीत् श्रीरामस्य । परेद्युः प्रातः अरुणोदयकाले बन्धूकपुष्पगुच्छवत् सुन्दरी पूर्वा दिक्, तया च अरुणितं शोणास्रोतसः जलम् । तत्र प्रातःकृत्यं निर्वर्त्य विश्वामित्रेण सह श्रीरामः गङ्गानदीमार्गेण प्रस्थितः ।

पदविवरणम्

  • निरायाम-यामिनी-याम-अनुबन्धः = निरायामः यामिनीयामानुबन्धः यस्य सः
  • नदेन = प्राक्स्रोतसः नद्यः, प्रत्यक्स्रोतसः नदाः ।
  • प्रत्यूषः = “प्रत्यूषोऽहर्मुखं कल्यम् उषः-प्रत्युषसी अपि” (अमरः)
  • पथा = पथिन् नकारान्तः, पुं., तृ.वि., ए.व.
  • प्रातिष्ठत = प्र + स्था “ष्ठा गतिनिवृत्त्योः” – आत्मनेपदे लङ्, प्र.पु., ए.व. । सम्-अव-प्र-वि-पूर्वकः ष्ठाधातुः आत्मनेपदी भवति । (Along with the specified upasargas, the sthaa dhaatu becomes aatmanepadi)

Word-Meaning

  • इत्थम् = In this way
  • दाशरथिः = Sri Rama, the son of Dasharata
    • कौशिक-उत्पत्ति-कथा-निशमन-निरायाम-यामिनी-याम-अनुबन्धः = One for whom the successive (अनुबन्ध) periods of time (याम) of the night (यामिनी) became short (निः + आयाम – e., not expanded) because of listening (निशमन) to the story (कथा) of the birth (उत्पत्ति) of Rishi Vishvaamitra (कौशिक)
    • प्रवर्तितप्रत्यूषकृत्यः = he who had performed (प्रवर्तित) the morning (प्रत्यूष) tasks (कृति)
      • शोणाभिधानं दधानेन नदेन = with the water of the river (नद) bearing (दधान) the name (अभिधान) Shonaa (शोणा) (Note: नद is a river flowing towards west, while eastward flowing rivers are called नदी)
        • शोणीकृतेन = with that which is made (कृत) red (शोणी) in color
          • प्राचीमुखेन = by the Eastern (प्राची) direction (मुख)
            • सन्ध्यारागेण = by it which is saffron in color
            • बन्धूकस्तबकसुन्दरबन्धुरेण = by it which is beautiful (सुन्दर) and pleasing (बन्धुर) to the heart like a bunch (स्तबक) of Bandhooka (बन्धूक) flower (which in deep red or orange in color)
          • प्रातिष्ठत = started / set out
            • पथा = by the path
              • उपतिष्ठमानेन = by that which was along side
                • गङ्गाम् = Ganga
              • मुनिना सह = along with the Rishi
                • कृतनियमेन = along with him who had carried out his obligations
  1. श्लोकः

मूलपाठः

आजानपावनक्षीरां वृषानन्दविधायिनीम् ।

श्रुतिप्रणयिनीं सोऽयमापगामाप गामिव ॥ ५४ ॥
पदच्छेदः

आजान-पावन-क्षीराम्, वृष-आनन्द-विधायिनीम्, श्रुति-प्रणयिनीम्, सः, अयम्, आपगाम्, आप, गाम्, इव

अन्वयार्थः

  • आप = प्राप्तवान्
  • सोऽयम् = श्रीरामः
  • आपगाम् = नदीम्
  • आजानपावनक्षीराम् = स्वभावशुद्धं जलं यस्याः तादृशीम्
  • वृषानन्दविधायिनीम्
    • वृषैः = यमनियमादिभिः धर्मैः,
      • वृषानन्दविधायिनीम् = तैः यः आनन्दः, तं विदधाति (अथवा)
    • वृषः = सुकृतम्,
      • वृषानन्दविधायिनीम् = तस्य आनन्दं विदधाति (अथवा)
    • वृषम् = धर्मम्,
      • वृषानन्दविधायिनीम् = तं च आनन्दं च विदधाति
    • श्रुतिप्रणयिनीम् = वेदप्रतिपाद्याम् / कर्णानन्दकरीम्
    • गाम् इव = धेनुम् इव
      • आजानपावनक्षीराम् = स्वभावतः पवित्रं दुग्धं यस्याः तादृशीम्
      • वृषानन्दविधायिनीम् = वृषभस्य (वृषस्य) आनन्दं विदधाति
      • श्रुतिप्रणयिनीम् = वेदकल्पाम् (“चत्वारि वाक्परिमिता पदानि” इति श्रुत्या वेदवाक्यानि धेनुत्वेन निरूपितानि),
    • गाम् इव = कामधेनुम् इव
      • आजानपावनक्षीराम् = स्वभावतः पवित्रं दुग्धं यस्याः तादृशीम्
      • वृषानन्दविधायिनीम् = इन्द्रस्य (वृषस्य) आनन्दं विदधाति
      • श्रुतिप्रणयिनीम् = “स्वर्गे लोके कामधुग्भवति” इत्यादिभिः श्रुतिभिः उदाहरणीयम्
    • गाम् इव = भूमिम् इव
      • आजानपावनक्षीराम् = स्वभावतः पवित्राणि क्षीराणि = रत्नमहौषधिप्रभृतीनि वस्तूनि यस्याः ताम्
      • वृषानन्दविधायिनीम् = विष्णोः (वृषस्य) आनन्दं विदधाति
      • श्रुतिप्रणयिनीम् = वेदप्रतिपाद्याम्
    • गाम् इव = सरस्वतीम् इव
      • आजानपावनक्षीराम्
        • आजानपावना = स्वभावतः पवित्रा क्षीरा = क्षीरवत् शुभ्रवर्णा च
      • वृषानन्दविधायिनीम् = ब्रह्मणः (वृषस्य) आनन्दं विदधाति
      • श्रुतिप्रणयिनीम् = वेदस्वरूपिणीम्

अन्वयः

सोऽयम् आजानपावनक्षीराम्, वृषानन्दविधायिनीम्, श्रुतिप्रणयिनीम् आपगाम् गाम् इव आप ।

आकाङ्क्षा

  • आप
    • कः आप ? सोऽयम्
    • काम् आप ? आपगाम्
      • कीदृशीम् आपगाम् ? आजानपावनक्षीराम्
      • पुनः कीदृशीम् आपगाम् ? वृषानन्दविधायिनीम्
      • पुनः कीदृशीम् आपगाम् ? श्रुतिप्रणयिनीम्
    • कामिव आप ? गाम् इव
      • कीदृशीं गाम् इव ? आजानपावनक्षीराम्
      • पुनः कीदृशीं गाम् इव ? वृषानन्दविधायिनीम्
      • पुनः कीदृशीं गाम् इव ? श्रुतिप्रणयिनीम्

तात्पर्यम्

श्रीरामः स्वभावपरिशुद्धजलयुक्तां, धर्माचरणस्य आनन्दं विदधानां, वेदप्रतिपाद्यां गङ्गानदीं गाम् इव प्राप्तवान् ।

पदविवरणम्

  • आजानपावनक्षीराम् = आजानं पावनम्, आजानपावनं क्षीरं यस्याः सा, ताम् । “क्षीरं स्यात् नीर-दुग्धयोः” (रत्नमाला), “अम्भोऽर्णः तोय-पानीय-नीर-क्षीर-अम्बु-शम्बरम्”, “दुग्धं क्षीरं पयः समम्” (अमरः)
  • वृषानन्दविधायिनीम् = वृषस्य आनन्दः, वृषानन्दं विदधाति । “वृषः स्याद् वासवे धर्मे सौरभेये च शुक्लजे” (विश्वः), “तेजो वृषो द्युतिधरः” (विष्णुसहस्रनाम)
  • श्रुतिप्रणयिनीम् = श्रुतेः प्रणयिनी, ताम् । “श्रुतिः श्रोत्रे तथाम्नाये” (विश्वः)
  • आपगाम् = अपां समूहः आपम् । आपेन = जलसमूहेन गच्छति इति आपगा । “नदी सरित् … स्रवन्ती निम्नगा-आपगा” (अमरः)
  • आप = आप् “आपॢँ व्याप्तौ” – लिट्, प्र.पु., ए.व.
  • गाम् = “गौर्नादित्ये बलीवर्दे ऋतुभेद-ऋषिभेदयोः । स्त्री तु स्याद् दिशि भारत्याम् भूमौ च सुरभावपि” (केशवः)

रामायणप्रसङ्गः

  • रामायणतः कुशकथाप्रसङ्गः
  • ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥ बाल०३१/१९ ॥
  • अथ रामो महातेजा विश्वामित्रं तपोधनम् । पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः ॥ बाल० ३१/२२ ॥
  • भगवन् को न्वयं देशः समृद्धवनशोभितः । श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ बाल० ३१/२३ ॥
  • चोदितो रामवाक्येन कथयामास सुव्रतः । तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ बाल० ३१/२४ ॥
  • चक्रे पुरवरं राजा वसुर्नाम गिरिव्रजम् । एषा वसुमती नाम वसोस्तस्य महात्मनः । एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ बाल० ३२/८ ॥
  • सुमागधी नदी रम्या मागधान् विश्रुताययौ । पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ बाल०३२/९ ॥
  • स पिता मम काकुत्स्थ गाधिः परमधार्मिकः । कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ बाल० ३४/६ ॥
  • पूर्वजा भगिनी चापि मम राघव सुव्रता । नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ बाल० ३४/७ ॥
  • सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी । कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥ बाल० ३४/८ ॥
  • ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम् । भगिन्यां स्नेहसंयुक्तः कौशिक्या रघुनन्दन ॥ बाल० ३४/१० ॥
  • अहं हि नियमात् राम हित्वा तां समुपागतः । सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥ बाल० ३४/१२ ॥
  • एषा राम ममोत्पत्तिर्मम वंशस्य कीर्तिता । देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ बाल०३४/१३ ॥
    • e., देशस्य = शोणाकूलीयदेशस्य गिरिव्रजस्य प्राचीनकर्त्रधिष्ठानमूलो वैभवश्च कीर्तितः

छन्दः

  • अनुष्टुप् (श्लोकः)
    ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
    गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • सोऽयम् = This person, Sriram
    • आप = reached
      • आपगाम् = river
        • आजानपावनक्षीराम् = her whose water (क्षीर) is pure (पावन) by nature (आजान)
        • वृषानन्दविधायिनीम्
          • her, who is the giver (विधायिनी) of happiness (आनन्द) that is obtained by means of the Dharma (वृष) like Yama, Niyama, etc.
          • her, who is the giver (विधायिनी) of happiness (आनन्द) that is obtained by the performance of good deeds (वृष)
          • her, who is the giver (विधायिनी) of Dharma (वृष) and happiness (आनन्द)
        • श्रुतिप्रणयिनीम् = her who is extoled by the Vedas or she who is pleasant to the ears
      • गाम् इव = like the cow
        • आजानपावनक्षीराम् = whose milk (क्षीर) is pure (पावन) by nature (आजान)
        • वृषानन्दविधायिनीम् = who delights (आनन्द) the Ox (वृष)
        • श्रुतिप्रणयिनीम् = who is equivalent (प्रणयिनी) to the Vedas (श्रुति)
      • गाम् इव = like the Kaamadhenu
        • आजानपावनक्षीराम् = whose milk (क्षीर) is pure (पावन) by nature (आजान)
        • वृषानन्दविधायिनीम् = who delights (आनन्द) Indra (वृष)
        • श्रुतिप्रणयिनीम् = who is declared (प्रणयिनी) by the Vedas (श्रुति)
      • गाम् इव = like the earth
        • आजानपावनक्षीराम् = whose gems and herbs, milked from her (क्षीर) are pure (पावन) by nature (आजान)
        • वृषानन्दविधायिनीम् = who delights (आनन्द) Vishnu (वृष)
        • श्रुतिप्रणयिनीम् = who is extolled (प्रणयिनी) by the Vedas (श्रुति)
      • गाम् इव = like the speech or the Goddess of Speech
        • आजानपावनक्षीराम् = who is white like milk (क्षीर) and is pure (पावन) by nature (आजान)
        • वृषानन्दविधायिनीम् = who delights (आनन्द) Brahma, the eldest (वृष)
        • श्रुतिप्रणयिनीम् = who is the personification (प्रणयिनी) of the Vedas (श्रुति)

कक्ष्या २७ – २५.०६.२०१८

गद्यम्

मूलपाठः

अथ भागीरथीकथां श्रोतुकामाय रामाय भगवानिदमभाषत ।

पदच्छेदः

अथ, भागीरथी-कथाम्, श्रोतुकामाय, रामाय, भगवान्, इदम्, अभाषत

अन्वयार्थः

  • श्रोतुकामाय = रामः श्रोतुम् इष्टवान्, तस्मै

अन्वयः

अथ भागीरथीकथां श्रोतुकामाय रामाय भगवान् इदम् अभाषत ।

आकाङ्क्षा

  • अभाषत
    • कदा अभाषत ? अथ
    • किम् अभाषत ? इदम्
    • कः अभाषत ? भगवान्
    • कस्मै अभाषत ? रामाय
      • कीदृशाय रामाय ? श्रोतुकामाय
        • कां श्रोतुकामाय ? भागीरथीकथाम्

तात्पर्यम्

गङ्गानदीं प्राप्य तस्याः कथां श्रोतुम् इष्टवते रामाय पूज्यः विश्वामित्रः एवं कथयामास । पदविवरणम्

  • श्रोतुकामाय – श्रोतुं कामः यस्य सः, तस्मै । “तुं काममनसोरपि” इति वार्त्तिकेन तुमुनः मकारलोपः ।

Word-Meaning

  • अथ = There after
  • भगवान् = Bhagavaan Vishwamitra
  • अभाषत = spoke
  • इदम् = this
  • रामाय = to Rama
    • श्रोतुकामाय = to him, who was interested to listen
      • भागीरथीकथाम् = (to) the story of Ganga, Bhaageerathee
  1. श्लोकः

मूलपाठः

पुरा मनोरमा नाम सुमेरोरभवत्सुता ।
गृहमेधी तयैवासीच्चक्रवर्त्ती धराभृताम् ॥ ५५ ॥

पदच्छेदः

पुरा, मनोरमा, नाम, सुमेरोः, अभवत्, सुता, गृह-मेधी, तया, एव, आसीत्, चक्रवर्त्ती, धरा-भृताम्

सन्धिः

  • आसीच्चक्रवर्त्ती = आसीत् + चक्रवर्ती । श्चुत्वसन्धिः ।

अन्वयार्थः

  • पुरा = पूर्वकाले
  • अभवत् = आसीत्
  • सुता = पुत्री
  • सुमेरोः = मेरुपर्वतस्य
  • मनोरमा नाम
  • आसीत् = अभूत्
  • धराभृताम् = पर्वतानाम्, चक्रवर्ती = सार्वभौमः । हिमालयः ।
  • गृहमेधी = गृहस्थः
  • तया = मनोरमया एव ।

अन्वयः

पुरा मनोरमा नाम सुमेरोः सुता अभवत् । धराभृतां चक्रवर्ती तया एव गृहमेधी आसीत् ।

आकाङ्क्षा

  • अभवत्
    • का अभवत् ? सुता
      • कस्य सुता ? सुमेरोः
      • किंनामा सुता ? मनोरमा नाम
    • कदा अभवत् ? पुरा
  • आसीत्
    • कः आसीत् ? चक्रवर्ती
      • केषां चक्रवर्ती ? धराभृताम्
    • कीदृशः आसीत् ? गृहमेधी
      • कया गृहमेधी ? तया

तात्पर्यम्

पूर्वकाले मेरुपर्वतस्य मनोरमाख्या पुत्री बभूव, यां हिमालयः परिणीतवान् ।

पदविवरणम्

  • गृहमेधी
    • गृहैः = दारैः
    • मेधते = सङ्गच्छते
    • गृहमेधी = गृहैः मेधते । नकारान्तः, पुं., प्र.वि., ए.व.
  • चक्रवर्ती = नकारान्तः, पुं., प्र.वि., ए.व. । “चक्रवर्त्ती सार्वभौमः” (अमरः)
  • धराभृताम् = धरां बिभर्ति इति धराभृत् । तकारान्तः, पुं, ष.वि., ब.व. ।

छन्दः

  • अनुष्टुप् (श्लोकः)
    ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
    गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • पुरा = once upon a time
    • अभवत् = there was
    • सुमेरोः = Meru mountain’s
    • सुता = daughter
    • मनोरमा नाम = named Manoramaa
  • धराभृतां चक्रवर्ती = Himalaya, the emperor of the mountains
    • आसीत् = had become
    • गृहमेधी = house holder
    • तया = by her, by Manoramaa
  1. श्लोकः

मूलपाठः

कन्याद्वयममुष्यासीदेका मन्दाकिनी तयोः ।
अन्या भगवती साक्षाच्चन्द्रचूडकुटुम्बिनी ॥ ५६ ॥

पदच्छेदः

कन्या-द्वयम्, अमुष्य, आसीत्, एका, मन्दाकिनी, तयोः, अन्या, भगवती, साक्षात्, चन्द्र-चूड-कुटुम्बिनी ।

अन्वयार्थः

  • आसीत् = बभूव
  • कन्याद्वयम् = पुत्रीद्वयम्
  • अमुष्य = तस्य हिमवतः
  • तयोः = पुत्र्योः
  • एका = अन्यतरा, आद्या
  • मन्दाकिनी = तन्नाम्ना प्रसिद्धा
  • अन्या = द्वितीया
  • साक्षात् भगवती = प्रत्यक्षपरमेश्वरी
  • चन्द्रचूडकुटुम्बिनी = चन्द्रशेखरस्य शिवस्य भार्या

अन्वयः

अमुष्य कन्याद्वयम् आसीत् । तयोः एका मन्दाकिनी, अन्या साक्षात् भगवती चन्द्रचूडकुटुम्बिनी ।

आकाङ्क्षा

  • आसीत्
    • किम् आसीत् ? कन्याद्वयम्
    • कस्य आसीत् ? अमुष्य
  • आसीत्
    • का आसीत् ? एका
      • कयोः एका ? तयोः
    • किंनामा आसीत् ? मन्दाकिनी
  • आसीत्
    • का आसीत् ? अन्या
    • कथंभूता आसीत् ? साक्षात् भगवती
      • कीदृशी भगवती ? चन्द्रचूडकुटुम्बिनी

तात्पर्यम्

मनोरमाजानेः हिमवतः पुत्रीद्वयं बभूव – तयोः ज्यायसी गङ्गा, कनीयसी प्रत्यक्षपरमेश्वरी, चन्द्रशेखरस्य शिवस्य भार्या ।

पदविवरणम्

  • अमुष्य = ‘अदस्’ शब्दः, सकारान्तः, पुं., ष.वि., ए.व.
  • चन्द्रचूडकुटुम्बिनी
    • चन्द्रचूडः = चन्द्रः चूडा यस्य सः
    • चन्द्रचूडकुटुम्बिनी = चन्द्रचूडस्य कुटुम्बिनी । “भार्या जायाथ पुंभूम्नि दाराः स्यात्तु कुटुम्बिनी । पुरन्ध्री” पति-पुत्र-दुहित्रादिमती कुटुम्बिनी ।

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • अमुष्य = his, Himalaya’s
    • कन्याद्वयम् = (a set of) two daughters
    • आसीत् = was there
  • तयोः = Among them
    • एका = One (was)
    • मन्दाकिनी = Mandaakinee, Ganga
  • अन्या = The other (was)
  • साक्षात् भगवती = verily the Divine Goddess
  • चन्द्रचूडकुटुम्बिनी = the consort of Siva, one who adorns the moon as a head jewel
  1. श्लोकः

मूलपाठः

तां नदीं विबुधा लब्ध्वा नाकलोकमनीनयन् ।
तपस्यन्तीं गिरिर्गौरीं देवाय महते ददौ ॥ ५७ ॥

पदच्छेदः

ताम् नदीम् विबुधाः लब्ध्वा नाकलोकम् अनीनयन् तपस्यन्तीम् गिरिः गौरीम् देवाय महते ददौ

अन्वयार्थः

  • अनीनयन् = प्रापितवन्तः
  • विबुधाः = देवाः
  • लब्ध्वा = याच्ञापूर्वकं हिमवतः अनुमतिं प्राप्य
  • नाकलोकम् = स्वर्गम्
  • तां नदीम् = मन्दाकिनीम्
  • ददौ = दत्तवान्
  • गिरिः = हिमवान्
  • गौरीम् = गौरीनाम्नीं द्वितीयां पुत्रीम्
  • तपस्यन्तीम् = ईश्वरं प्राप्तुं तपः चरन्तीम्
  • महते देवाय = महादेवाय शम्भवे

अन्वयः

विबुधाः तां नदीं लब्ध्वा नाकलोकम् अनीनयन् । गिरिः तपस्यन्तीं गौरीं महते देवाय ददौ ।

आकाङ्क्षा

  • अनीनयन्
    • के अनीनयन् ? विबुधाः
    • किंकृत्वा अनीनयन् ? लब्ध्वा
    • कुत्र अनीनयन् ? नाकलोकम्
    • काम् अनीनयन् ? तां नदीम्
  • ददौ
    • कः ददौ ? गिरिः
    • कां ददौ ? गौरीम्
      • कीदृशीं गौरीम् ? तपस्यन्तीम्
    • कस्मै ददौ ? देवाय
      • कीदृशाय देवाय ? महते

तात्पर्यम्

  • देवाः याच्ञापूर्वकं हिमवतः अनुमतिं प्राप्य, तां मन्दाकिनीं नदीं स्वर्गं प्रापितवन्तः । हिमवान् ईश्वरं प्राप्तुं तपः चरन्तीं गौरीनाम्नीं द्वितीयां पुत्रीं महादेवाय शम्भवे दत्तवान् ।

पदविवरणम्

  • विबुधाः = “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः” (अमरः)
  • नाकलोकम् = “स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः” (अमरः)
  • अनीनयन् = नी “णीञ् प्रापणे” + णिच् + लुङ्, प्रथम.३
  • तपस्यन्तीम् = तपस् (नामपदम्) + क्यङ् प्रत्यय + शतृ + ङीप् – ईकारान्तः, स्त्री., २.१
  • महते = तकारान्तः, पुं., च.वि., ए.व.
  • ददौ = दा “डुदाञ् दाने” – लिट्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया । शैलेन्द्रं वरयामासुः गङ्गां त्रिपथगां नदीम् ॥ बाल० ३५/१७ ॥
  • ददौ धर्मेण हिमवान् तनयां लोकपावनीम् । स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ बाल० ३५/१८ ॥
  • या चान्या शैलदुहिता कन्यासीत् रघुनन्दन । उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥ ३५/२० ॥
  • उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् । रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • विबुधाः = The Gods
    • लब्ध्वा = having received
      • तां नदीम् = that river, Mandaakinee
    • अनीनयन् = caused her to reach
      • नाकलोकम् = Svargaloka
    • गिरिः = The mountain, Himalaya
      • ददौ = gave
      • गौरीम् = Gowri
        • तपस्यन्तीम् = she who was conducting penance
      • महते देवाय = to the great lord, Lord Shiva
  1. श्लोकः

मूलपाठः

शिवयोर्युञ्जतोर्वीर्यं दृष्ट्वा धात्र्यां समर्पितम् ।
पावकः प्रतिजग्राह दैवतैरनुनाथितः ॥ ५८ ॥

पदच्छेदः

शिवयोः, युञ्जतोः, वीर्यम्, दृष्ट्वा, धात्र्याम्, समर्पितम्, पावकः, प्रतिजग्राह, दैवतैः, अनुनाथितः

अन्वयार्थः

  • प्रतिजग्राह = स्वीकृतवान्
  • पावकः = अग्निः
  • अनुनाथितः = प्रार्थितः
  • दैवतैः = अमरैः
  • दृष्ट्वा = वीक्ष्य
  • धात्र्यां समर्पितम् = भूमौ पतितम्
  • युञ्जतोः = मिलतोः, शिवयोः = पार्वतीपरमेश्वरयोः, वीर्यम् = रेतः

अन्वयः

युञ्जतोः शिवयोः वीर्यं धात्र्यां समर्पितं दृष्ट्वा दैवतैः अनुनाथितः पावकः प्रतिजग्राह ।

आकाङ्क्षा

  • प्रतिजग्राह
    • कः प्रतिजग्राह ? पावकः
      • कीदृशः पावकः ? अनुनाथितः
        • कैः अनुनाथितः ? दैवतैः
      • किंकृत्वा प्रतिजग्राह ? दृष्ट्वा
      • किं दृष्ट्वा ? वीर्यम्
        • कथंभूतं वीर्यम् ? समर्पितम्
          • धात्र्याम्
        • कयोः वीर्यम् ? शिवयोः
        • कीदृशयोः शिवयोः ? युञ्जतोः

तात्पर्यम्

मिलतोः पार्वतीपरमेश्वरयोः रेतः भूमौ पतितं वीक्ष्य अमरैः प्रार्थितः अग्निः तत् स्वीकृतवान् ।

पदविवरणम्

  • शिवयोः = शिवश्च शिवा च शिवौ, तयोः – एकशेषः ।
  • युञ्जतोः = युज् “युजिर् योगे” + शतृ । तकारान्तः, पुं., ष.वि., द्वि.व.
  • धात्र्याम् = “विपुला गह्वरी धात्री गौरिला कुम्भिनी क्षमा” (अमरः)
  • पावकः = पुनाति इति । पू “पू पावने” + ण्वुल् । “कृशानुः पावकोऽनलः” (अमरः)
  • प्रतिजग्राह = प्रति + ग्रह् “ग्रह उपादाने” । लिट्., प्र.पु., ए.व.
  • दैवतैः = “वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्” (अमरः)
  • अनुनाथितः = अनु + “नाथृ याच्ञा-उपताप-ऐश्वर्य-आशीष्षु” + क्त

रामायणप्रसङ्गः

  • शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् । तस्य संक्रीडमानस्य महादेवस्य धीमतः ॥
  • ततो देवाः समुद्युक्ताः पितामहपुरोगमाः ।यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यते ॥
  • अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् । न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ॥
  • एवमुक्तः सुरपतिः प्रमुमोच महीतले ।तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥
  • ततो देवाः पुनरिदम् ऊचुश्चाथ हुताशनम् ।प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥
  • तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।दिव्यं शरवणं चैव पावकादित्यसन्निभम् ॥
  • यत्र जातो महातेजाः कार्तिकेयो ऽग्निसंभवः । ।36.20 । ।

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • पावकः = Agni
    • अनुनाथितः = one who is requested
      • दैवतैः = by the devas
    • दृष्ट्वा = seeing
      • वीर्यम् = the retas
        • शिवयोः = of Parvati and Shiva
          • युञ्जतोः = of those that were uniting
        • समर्पितम् = that which had fallen
          • धात्र्याम् = on the ground
        • प्रतिजग्राह = accepted

कक्ष्या २८ – ०९.०७.२०१८

  1. श्लोकः

मूलपाठः

अनपत्यानथामर्त्यान्बहुभार्यां च मेदिनीम् ।
अकरोदम्बिकाक्रोधः पुत्रालाभसमुद्भवः ॥ ५९ ॥

पदच्छेदः

अनपत्यान्, अथ, अमर्त्यान्, बहुभार्याम्, च, मेदिनीम्, अकरोत्, अम्बिका-क्रोधः, पुत्र-अलाभ-समुद्भवः

अन्वयार्थः

  • अथ = शिवस्य वीर्ये भूमौ पतिते सति
  • अकरोत् = व्यदधात्
  • अम्बिकाक्रोधः = पार्वत्याः रोषः
  • पुत्रालाभसमुद्भवः = तनयस्य अप्राप्त्या उत्पन्नः
  • अमर्त्यान् = देवान्, अनपत्यान् = सन्तानहीनान्
  • मेदिनीं = भूमिम्, बहुभार्याम् = अनेकपत्नीम् च

अन्वयः

अथ पुत्रालाभसमुद्भवः अम्बिकाक्रोधः अमर्त्यान् अनपत्यान्, मेदिनीं बहुभार्यां च अकरोत् ।

आकाङ्क्षा

  • अथ अकरोत्
    • कः अकरोत् ? अम्बिकाक्रोधः
      • कीदृशः अम्बिकाक्रोधः ? पुत्रालाभसमुद्भवः
    • किम् अकरोत् ? अनपत्यान्
      • कान् अनपत्यान् ? अमर्त्यान्
    • पुनः किम् अकरोत् ? बहुभार्याम्
      • कां बहुभार्याम् ? मेदिनीम्

तात्पर्यम्

शिवस्य वीर्ये भूमौ पतिते सति, तनयस्य अप्राप्त्या उत्पन्नः पार्वत्याः रोषः देवान् सन्तानहीनान्, भूमिम् अनेकपत्नीं च व्यदधात् ।

पदविवरणम्

  • अनपत्यान् = अविद्यमानानि अपत्यानि येषां ते, तान् ।
  • अमर्त्यान् = “आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः” (अमरः)
  • बहुभार्याम् = बहूनां भार्या, ताम्
  • मेदिनीम् = “गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही” (अमरः)
  • अकरोत् = कृ “डुकृञ् करणे” लङ्., प्र.पु., ए.व.
  • अम्बिकाक्रोधः = अम्बिकायाः क्रोधः । “अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका”, “कोप-क्रोध-अमर्ष-रोष-प्रतिघा रुट्-क्रुधौ स्त्रियौ” (अमरः)
  • पुत्रालाभसमुद्भवः
    • अलाभः = न लाभः
    • पुत्रालाभः = पुत्रस्य अलाभः
    • पुत्रालाभसमुद्भवः = पुत्रालाभः समुद्भवः यस्य सः

रामायणप्रसङ्गः

  • अथ शैलसुता राम त्रिदशानिदमब्रवीत् । समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना ॥
  • यस्मान्निवारिता चैव सङ्गतिः पुत्रकाम्यया । अपत्यं स्वेषु दारेषु तस्मान्नोत्पादयिष्यथ ।
  • अद्यप्रभृति युष्माकमप्रजास्सन्तु पत्नयः ॥
  • एवमुक्त्वासुरान् सर्वान् शशाप पृथिवीमपि ।अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥
  • न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता । प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ बाल० ३६.२०-२४ ॥

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • अथ = then, when Shiva’s semen fell on the ground
  • अकरोत् = made
  • अम्बिकाक्रोधः = the anger (क्रोध) of Paarvati (अम्बिका)
  • अमर्त्यान् पुत्रालाभसमुद्भवः = the Devas (अमर्त्य) to become (समुद्भव) childless (पुत्रालाभ)
  • मेदिनीं बहुभार्याम् = the earth (मेदिनी) to become the wife (भार्या) of many (बहु)
  1. श्लोकः

मूलपाठः

अथ सेनान्यमिच्छद्भिरुक्तः सब्रह्मभिः सुरैः ।
वह्निरह्नाय जाह्नव्यां न्यषिञ्चद्वीर्यमैश्वरम् ॥ ६० ॥

पदच्छेदः

अथ, सेनान्यम्, इच्छद्भिः, उक्तः, सब्रह्मभिः, सुरैः, वह्निः, अह्नाय, जाह्नव्याम्, न्यषिञ्चत्, वीर्यम्, ऐश्वरम्

अन्वयार्थः

  • अथ = ततः
  • न्यषिञ्चत् = स्थापयामास
  • वीर्यम् = रेतोरूपं तेजः
  • ऐश्वरम् = ईश्वरस्य
  • जाह्नव्याम् = गङ्गायाम्
  • अह्नाय = झटिति
  • वह्निः = अग्निः
  • सुरैः उक्तः = देवैः सूचितः
  • सेनान्यम् इच्छद्भिः, सब्रह्मभिः
  • सेनान्यम् = सेनापतिम्, इच्छद्भिः = कामयमानैः
  • सब्रह्मभिः = ब्रह्मसहितैः

अन्वयः

अथ सेनान्यम् इच्छद्भिः सब्रह्मभिः सुरैः उक्तः वह्निः ऐश्वरं वीर्यम् अह्नाय जाह्नव्यां न्यषिञ्चत् ।

आकाङ्क्षा

  • अथ न्यषिञ्चत्
    • किं न्यषिञ्चत् ? वीर्यम्
      • कीदृशं वीर्यम् ? ऐश्वरम्
    • कस्यां न्यषिञ्चत् ? जाह्नव्याम्
    • कथं न्यषिञ्चत् ? अह्नाय
    • कः न्यषिञ्चत् ? वह्निः
      • कीदृशः वह्निः ? उक्तः
        • कैः उक्तः ? सुरैः
          • कीदृशैः सुरैः ? इच्छद्भिः
            • कम् इच्छद्भिः ? सेनान्यम्
          • पुनः कथंभूतैः सुरैः ? सब्रह्मभिः

तात्पर्यम्

ततः सेनापतिं कामयमानैः ब्रह्मसहितैः देवैः सूचितः अग्निः ईश्वरस्य रेतोरूपं तेजः झटिति गङ्गायां स्थापयामास ।

पदविवरणम्

  • सेनान्यम् = “सेनानी” शब्दः, ईकारान्तः, पुंलिङ्गः, द्वि.वि., ए.व.
  • इच्छद्भिः = इष् “इषँ इच्छायाम्” + शतृ । तकारान्तः, पुं., तृ.वि., ब.व.
  • उक्तः = वच् “वचँ परिभाषणे” + क्त ।
  • सब्रह्मभिः = ब्रह्मणा सह वर्तन्ते इति सब्रह्माणः, तैः । नकारान्तः, पुं., तृ.वि., ब.व.
  • वह्निः = “अग्निर्वैश्वानरो वह्निः वीतिहोत्रो धनञ्जयः” (अमरः)
  • अह्नाय = अह्नाय इति अव्ययम् पदम्
  • जाह्नव्याम् = जह्नोः अपत्यम् – जह्नु + अण् + ङीप् । ईकारान्तः, स्त्री., स.वि., ए.व.
  • न्यषिञ्चत् = नि + सिच् “षिचँ क्षरणे”, लङ्., प्र.पु., ए.व.
  • ऐश्वरम् = ईश्वरस्य इदम् । ईश्वर + अण्

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • अथ = Afterwards
  • वह्निः = Agni
    • उक्तः = one who was told so
      • सुरैः = by the Devas
        • सेनान्यम् इच्छद्भिः = by those who were wishing (इच्छत्) for a commander (सेनान्य)
        • सब्रह्मभिः = by those who were along (सह) with Brahma (ब्रह्म)
      • अह्नाय = immediately
      • न्यषिञ्चत् = placed
        • वीर्यम् = the semen
          • ऐश्वरम् = of Shiva
        • जाह्नव्याम् = in Ganga
  1. श्लोकः

मूलपाठः

सापि सप्तार्चिषा क्षिप्तं तेजस्तद्वोढुमक्षमा
हिमवत्प्रान्तकान्तारे श्रान्ता शरवणे जहौ
॥ ६१
पदच्छेदः

सा, अपि, सप्त-अर्चिषा, क्षिप्तम्, तेजः, तत्, वोढुम्, अक्षमा, हिमवत्-प्रान्त-कान्तारे, श्रान्ता, शर-वणे, जहौ

अन्वयार्थः

  • जहौ = त्यक्तवती
  • सा = गङ्गा
  • श्रान्ता = परिक्लान्ता
  • अक्षमा = असमर्था
  • वोढुम् = धारयितुम्
  • तत् तेजः = शिवस्य वीर्यम्
  • क्षिप्तम् = न्यस्तम्
  • सप्तार्चिषा = अग्निना
  • शरवणे = शरप्रचुरे वने
  • हिमवत्प्रान्तकान्तारे = हिमालयस्य समीपस्थे अरण्ये

अन्वयः

सापि सप्तार्चिषा क्षिप्तं तत् तेजः वोढुम् अक्षमा श्रान्ता हिमवत्प्रान्तकान्तारे शरवणे जहौ ।

आकाङ्क्षा

  • जहौ
    • का जहौ ? सा
      • कीदृशी सा ? श्रान्ता
      • पुनः कीदृशी सा ? अक्षमा
        • किंकर्तुम् अक्षमा ? वोढुम्
          • किं वोढुम् ? तत् तेजः
            • कीदृशं तेजः ? क्षिप्तम्
              • केन क्षिप्तम् ? सप्तार्चिषा
            • कुत्र जहौ ? शरवणे
              • कीदृशे शरवणे ? हिमवत्प्रान्तकान्तारे

तात्पर्यम्

गङ्गापि अग्निना न्यस्तं शिवस्य वीर्यं धारयितुम् असमर्था, परिक्लान्ता सती, हिमालयस्य समीपस्थे शरप्रचुरे वने त्यक्तवती ।

पदविवरणम्

  • सप्तार्चिषा = सकारान्तः, पुं., तृ.वि., ए.व. । “सप्तार्चिः दमुनाः शुक्रः चित्रभानुः विभावसुः” (अमरः)
  • वोढुम् = वह् “वहँ प्रापणे” + तुमुन्
  • जहौ = हा “ओँहाक् त्यागे” लिट्., प्र.पु., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सा = She, Ganga
    • श्रान्ता = one who was tired
    • अक्षमा = one who was incapable
      • वोढुम् = of carrying
      • तत् तेजः = that (तत्) Shiva’s vital power (तेजस्)
        • क्षिप्तम् = that was thrown (क्षिप्त)
        • सप्तार्चिषा = by Agni (सप्तार्चिष्)
      • जहौ = left it
        • शरवणे = in the grove (वण) of reeds (शर)
          • हिमवत्प्रान्तकान्तारे = in the forest (कान्तार) in the Himalayan (हिमवत्) region (प्रान्त)
  1. श्लोकः

मूलपाठः

तत्राभूत्कृत्तिकाप्रीत्यै षोढारूढमुखाम्बुजम् ।
तारकध्वान्तविध्वंसि सद्यः षाण्मातुरं महः ॥ ६२ ॥

पदच्छेदः

तत्र, अभूत्, कृत्तिका-प्रीत्यै, षोढा-आरूढ-मुख-अम्बुजम्, तारक-ध्वान्त-विध्वंसि, सद्यः, षाण्मातुरम्, महः

अन्वयार्थः

  • तत्र = तस्मिन् शरवणे
  • अभूत्‌ = जातम्
  • सद्यः = तत्क्षणम्
  • महः = तेजः
  • षोढारूढमुखाम्बुजम् = षड्भिः प्रकारैः प्रादुर्भूतानि मुखकमलानि यस्य तथोक्तम्
  • कृत्तिकाप्रीत्यै = स्तन्यप्रदानार्थं देवैः प्रेषितानां षण्णां कृत्तिकानां परितोषार्थम्
  • षाण्मातुरम् = षण्णां मातॄणाम् अपत्यम्, कार्त्तिकेयरूपम्
  • तारकध्वान्तविध्वंसि = तारकासुररूपस्य अन्धकारस्य विनाशकम्

अन्वयः

तत्र कृत्तिकाप्रीत्यै षोढारूढमुखाम्बुजम्, षाण्मातुरम्, तारकध्वान्तविध्वंसि महः सद्यः अभूत् ।

आकाङ्क्षा

  • अभूत्‌
    • कुत्र अभूत्‌ ? तत्र
    • कदा अभूत् ? सद्यः = तत्क्षणम्
    • किम् अभूत् ? महः = तेजः
    • कीदृशं महः ? षोढारूढमुखाम्बुजम्
      • किमर्थं षोढारूढमुखाम्बुजम् ? कृत्तिकाप्रीत्यै
    • पुनः कीदृशं महः ? तारकध्वान्तविध्वंसि
    • पुनः कीदृशं महः ? षाण्मातुरम्

तात्पर्यम्

तस्मिन् शरवणे षण्णां कृत्तिकानां परितोषार्थं षट् मुखानि बिभ्रत्, तारकासुररूपस्य अन्धकारस्य विनाशकं, कार्त्तिकेयरूपं तेजः तत्क्षणं जातम् ।

पदविवरणम्

  • कृत्तिकाप्रीत्यै = कृत्तिकानां प्रीतिः, तस्यै
  • षोढारूढमुखाम्बुजम्
    • षोढारूढानि = षोढा आरूढानि
    • मुखाम्बुजानि = मुखम् एव अम्बुजम्
    • षोढारूढमुखाम्बुजम् = षोढारूढानि मुखाम्बुजानि यस्य तत्
  • तारकध्वान्तविध्वंसि
    • तारकध्वान्तः = तारकः एव ध्वान्तः
    • तारकध्वान्तविध्वंसि = तारकध्वान्तं विध्वंसयति । नकारान्तः, नपुं., प्र.वि., ए.व. ।
    • “अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः” (अमरः)
  • सद्यः = अव्ययम् । “सद्यः सपदि तत्क्षणे” (अमरः)
  • षाण्मातुरम् = षण्णां मातॄणाम् अपत्यम् । तद्धितार्थद्विगुः । षण्मातृ+अण् । “षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः” (अमरः)
  • महः = सकारान्तः, नपुं., प्र.वि., ए.व. । “महस्तूत्सवतेजसोः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • तत्र = In that place
  • सद्यः = in that moment
  • महः = the flame (महस्)
    • तारकध्वान्तविध्वंसि = that which is the destroyer (विध्वंसिन्) of the darkness (ध्वान्त) in the form of Taaraka asura (तारक)
    • षाण्मातुरम् = that which has six mothers
    • षोढारूढमुखाम्बुजम् = that which has the lotus (अम्बुज) faces (मुख) which had manifested (आरूढ) in six ways (षोढा)
      • कृत्तिकाप्रीत्यै = for pleasing the Kruttikaas
    • अभूत्‌ = rose or was born
  1. श्लोकः

मूलपाठः

त्रैविध्यं श्रूयतां वत्स सरितस्त्रिदिवौकसाम् ।
यथोक्तं हव्यमश्नन्त्या देवताया इवाध्वरे ॥ ६३ ॥

पदच्छेदः

त्रैविध्यम्, श्रूयताम्, वत्स, सरितः, त्रि-दिव-ओकसाम्, यथा-उक्तम्, हव्यम्, अश्नन्त्याः, देवतायाः, इव, अध्वरे

अन्वयार्थः

  • वत्स ! = रामभद्र !
  • श्रूयताम् = आकर्ण्यताम्
  • त्रैविध्यम् = त्रिप्रकारकत्वम्
  • त्रिदिवौकसाम् = देवानाम्, सरितः = नद्याः । देवनद्याः गङ्गायाः
  • देवतायाः = अग्नेः इव
  • हव्यम् = आज्यादिकम्, अश्नन्त्याः = भुञ्जानायाः
  • अध्वरे = यागे, यथोक्तम् = शास्त्रविहितम्

अन्वयः

वत्स ! अध्वरे यथोक्तं हव्यम् अश्नन्त्याः देवतायाः इव त्रिदिवौकसां सरितः त्रैविध्यं श्रूयताम् ।

आकाङ्क्षा

  • वत्स !
  • श्रूयताम्
    • किं श्रूयताम् ? त्रैविध्यम्
      • कस्याः त्रैविध्यम् ? सरितः
        • केषां सरितः ? त्रिदिवौकसाम्
      • कस्याः इव त्रैविध्यम् ? देवतायाः इव
        • कीदृश्याः देवतायाः ? अश्नन्त्याः
          • किम् अश्नन्त्याः ? हव्यम्
            • कीदृशं हव्यम् ? यथोक्तम्
          • कुत्र अश्नन्त्याः ? अध्वरे

तात्पर्यम्

यज्ञेषु शास्त्रविहितं हविः भुञ्जानस्य अग्नेः इव देवनद्याः गङ्गायाः त्रिप्रकारकत्वम् आकर्णय । [गार्हपत्य-आहवनीय-दक्षिणाग्निभेदेन यथा अग्नेः त्रैविध्यम्, तथा स्वर्लोक-भूलोक-पातालगामित्वेन गङ्गायाः अपि त्रैविध्यम्]

पदविवरणम्

  • त्रैविध्यम् = त्रयः विधाः यस्य सः त्रिविधः । त्रिविधस्य भावः ।
  • श्रूयताम् = श्रु “श्रु श्रवणे” – कर्मणि लोट्., प्र.पु., ए.व.
  • सरितः = तकारान्तः, स्त्री, ६.१ । “नदी सरित् । तरङ्गिणी शैवलिनी…”
  • त्रिदिवौकसाम् = सकारान्तः, पुं., ष.वि., ब.व. । त्रिदिवः ओकः येषां ते त्रिदिवौकसः । “स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः” (अमरः) । त्रिदिवः = स्वर्गः । ओकः = स्थानम् ।
  • यथोक्तम् = उक्तम् अनतिक्रम्य । अव्ययीभावः ।
  • अश्नन्त्याः = अश् “अश भोजने” + शतृ + ङीप् । ईकारान्तः, स्त्री., ष.वि., ए.व. ।
  • अध्वरे = अकारान्तः, पुं., स.वि., ए.व. । “यज्ञः सवोऽध्वरो यागः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • वत्स ! = O young lad!
  • श्रूयताम् = May you listen
    • त्रैविध्यम् = to the three-fold-ness
      • त्रिदिवौकसाम् सरितः = of the river (सरित्) of the Devas (त्रिदिवौकस्), the ones whose dwelling place (ओकस्) is Svarga (त्रिदिव)
    • देवतायाः इव = which is like that of the Agni (देवता)
      • अश्नन्त्याः = of that which consumes (अश्नन्ती)
        • हव्यम् = the offered oblations
          • यथोक्तम् = that which is done as prescribed (यथा उक्त) in the scriptures
        • अध्वरे = in the fire sacrifices (अध्वर)

कक्ष्या २९ – १६.०७.२०१८

  1. श्लोकः

मूलपाठः

पुरीमयोध्यामध्यास्त सावित्रः सगरो नृपः ।
केशिनीसुमतिभ्यां च लङ्घितप्रथमाश्रमः ॥ ६४ ॥

पदच्छेदः

पुरीम्, अयोध्याम्, अध्यास्त, सावित्रः, सगरः, नृपः, केशिनी-सुमतिभ्याम्, च, लङ्घित-प्रथम-आश्रमः

अन्वयार्थः

  • अध्यास्त = अधिवसति स्म
  • पुरीम् = नगरीम्
  • अयोध्याम् = अयोध्यानाम्नीम्
  • नृपः सगरः = राजा सगरः
  • सावित्रः = सूर्यवंशीयः
  • लङ्घितप्रथमाश्रमः = ब्रह्मचर्यमतीत्य गार्हस्थ्यं प्रविष्टः
  • केशिनीसुमतिभ्यां च = केशिनी-सुमति-नामिकाभ्यां पत्नीभ्याम्

अन्वयः

केशिनीसुमतिभ्यां लङ्घितप्रथमाश्रमः, सावित्रः, सगरः नृपः अयोध्यां पुरीम् अध्यास्त ।

आकाङ्क्षा

  • अध्यास्त
    • काम् अध्यास्त ? पुरीम्
      • कां पुरीम् ? अयोध्याम्
    • कः अध्यास्त ? नृपः
      • किंनामा नृपः ? सगरः
      • कीदृशः नृपः ? सावित्रः
      • पुनः कीदृशः नृपः ? लङ्घितप्रथमाश्रमः
        • काभ्यां हेतुभ्यां लङ्घितप्रथमाश्रमः ? केशिनीसुमतिभ्यां च

तात्पर्यम्

केशिनीसुमतिनामिकां कन्याद्वयं परिणीय गार्हस्थ्यं प्रविष्टः सगरनामकः सूर्यवंशस्य राजा अयोध्यानगरीम् अधिवसति स्म ।

पदविवरणम्

  • अध्यास्त – अधि + “आस उपवेशने” – लङ्, प्रथम.१
  • अयोध्याम् अध्यास्त – “अधिशीङ्स्थासां कर्म” – इत्यनेन अधिपूर्वकस्य आस्-धातोः योगे अधिकरणस्य कर्मसंज्ञा । अतः द्वितीयाविभक्तिः ।
  • अयोध्यायाम् आस्ते = अयोध्याम् अध्यास्ते / अधिशेते / अधितिष्ठति
  • सावित्रः – सवितुः अपत्यम् – सवितृ + अण् (तद्धितः)
  • लङ्घितप्रथमाश्रमः – प्रथमः आश्रमः । लङ्घितः प्रथमाश्रमः येन सः ।

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • अध्यास्त = lived
  • पुरीम् = in the city
  • अयोध्याम् = in Ayodhya
  • नृपः सगरः = King Sagara
  • सावित्रः = one who belongs to the solar dynasty
  • लङ्घितप्रथमाश्रमः = one who had crossed (लङ्घित) the first (प्रथम) ashrama (आश्रम) of Brahmacharya and entered Gruhastaashrama
  • केशिनीसुमतिभ्यां च = due to marrying Keshini (केशिनी) and Sumati (सुमति)
  1. श्लोकः

मूलपाठः

स पुत्रीयन्सपत्नीकस्तपस्तेपे समाः शतम् ।
भृगुः प्रीतमनास्तस्मै ददौ दायादसम्पदम् ॥ ६५ ॥

पदच्छेदः

सः, पुत्रीयन्, स-पत्नीकः, तपः, तेपे, समाः, शतम्, भृगुः, प्रीत-मनाः, तस्मै, ददौ, दायाद-सम्पदम्

अन्वयार्थः

  • तपः तेपे = तपश्चर्यां चकार
  • सः = सगरः
  • पुत्रीयन् = पुत्रम् इच्छन्
  • सपत्नीकः = पत्नीभ्यां सहितः
  • शतं समाः = वर्षशतं यावत्
  • ददौ = प्रायच्छत्
  • दायादसम्पदम् = सन्तानभाग्यम्
  • तस्मै = सगराय
  • भृगुः = भृगुनामा महर्षिः
  • प्रीतमनाः = सन्तुष्टचित्तः

अन्वयः

सः पुत्रीयन् सपत्नीकः शतं समाः तपः तेपे । प्रीतमनाः भृगुः तस्मै दायादसम्पदं ददौ ।

आकाङ्क्षा

  • तपः तेपे
    • कः तेपे ? सः
      • कीदृशः सः ? पुत्रीयन्
      • पुनः कीदृशः सः ? सपत्नीकः
    • कियत्कालं तेपे ? शतं समाः
  • ददौ
    • कां ददौ ? दायादसम्पदम्
    • कस्मै ददौ ? तस्मै
    • कः ददौ ? भृगुः
      • कीदृशः भृगुः ? प्रीतमनाः

तात्पर्यम्

सगरमहाराजः पुत्रमिच्छन् पत्नीभ्यां सह वर्षशतं यावत् तपश्चचार । सन्तुष्टचित्तः भृगुः तस्मै सगराय सन्तानभाग्यं प्रायच्छत् ।

पदविवरणम्

  • सपत्नीकः – पत्नीभ्यां सह विद्यते
  • तेपे – “तप दाहे ऐश्वर्ये च” – लिट्, प्रथम.१
  • समाः – आकारान्तः, स्त्री, २.३ । “संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत् समाः” (अमरः) । अमरमते नित्यं बहुवचनान्तः ।
  • प्रीतमनाः – सकारान्तः, पुं, १.१ । प्रीतं मनः यस्य सः ।
  • ददौ – “डुदाञ् दाने” – लिट्, प्रथम.१
  • दायादसम्पदम् – दायम् अत्ति इति दायादः । “दायादौ सुत-बान्धवौ” (अमरः) । दायादानां सम्पत्, ताम् ।

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सः = He, Sagara
    • पुत्रीयन् = wishing for a son
    • सपत्नीकः = one who is with his wives
    • तपः तेपे = conducted austerities
      • शतं समाः = for 100 years
    • भृगुः = Brugu Maharishi
      • प्रीतमनाः = one whose heart was pleased
      • ददौ = gave
      • दायादसम्पदम् = the wealth of offspring
      • तस्मै = to Sagara
  1. श्लोकः

मूलपाठः

असमञ्जं सुतं लेभे वैदर्भी केशिनी तयोः ।
षष्टिं पुत्रसहस्राणां सुमतिश्च यवीयसी ॥ ६६ ॥

पदच्छेदः

असमञ्जम्, सुतम्, लेभे, वैदर्भी, केशिनी, तयोः, षष्टिम्, पुत्र-सहस्राणाम्, सुमतिः, च, यवीयसी

अन्वयार्थः

  • लेभे = प्राप्तवती
  • केशिनी = सगरस्य प्रथमा पत्नी
  • वैदर्भी = विदर्भदेशोत्पन्ना
  • सुतम् = पुत्रम्
  • असमञ्जम् = असमञ्जनामकम्
  • सुमतिः च = सगरस्य द्वितीया भार्या
  • यवीयसी = कनीयसी
  • तयोः = केशिनी-सुमत्योः
  • पुत्रसहस्राणां षष्टिम् = ६०,००० पुत्रान्

अन्वयः

वैदर्भी केशिनी असमञ्जं सुतं लेभे । तयोः यवीयसी सुमतिः च पुत्रसहस्राणां षष्टिं लेभे ।

आकाङ्क्षा

  • लेभे
    • का लेभे ? केशिनी
      • कीदृशी केशिनी ? वैदर्भी
    • कं लेभे ? सुतम्
      • कं सुतम् ? असमञ्जम्
    • पुनः का लेभे ? सुमतिः च
      • कीदृशी सुमतिः ? यवीयसी
        • कयोः यवीयसी ? तयोः
      • कां लेभे ? पुत्रसहस्राणां षष्टिम्

तात्पर्यम्

सगरस्य प्रथमा भार्या, विदर्भदेशोत्पन्ना केशिनी असमञ्जनामकं पुत्रं प्रसूतवती । कनीयसी भार्या सुमतिः तु ६०,००० पुत्रान् प्राप्तवती ।

पदविवरणम्

  • लेभे = लभ् “डुलभँष् प्राप्तौ” लिट्., प्र.पु., ए.व.
  • पुत्रसहस्राणाम् = पुत्राणां सहस्राणि, तेषाम्
  • यवीयसी = द्वयोः अतिशयेन युवतिः, ईकारान्तः, स्त्री., प्र.वि., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • केशिनी = Keshini
    • वैदर्भी = she who is from Vidarbha desa
    • लेभे = obtained
      • सुतम् = a son
        • असमञ्जम् = Asamanja
      • सुमतिः च = Sumathi
        • यवीयसी = younger
          • तयोः = of the two
        • लेभे = obtained
          • पुत्रसहस्राणां षष्टिम् = 60000 sons
  1. श्लोकः

मूलपाठः

असमञ्जसचारित्रमसमञ्जमपोह्य सः ।
आरब्धहयमेधः सन्नमुञ्चत तुरङ्गमम् ॥ ६७ ॥

पदच्छेदः

अ-समञ्जस-चारित्रम्, असमञ्जम्, अपोह्य, सः, आरब्ध-हय-मेधः, सन्, अमुञ्चत, तुरङ्गमम्

सन्धिः

  • सन्नमुञ्चत = सन् + अमुञ्चत, ङमुडागमसन्धिः

अन्वयार्थः

  • अमुञ्चत = त्यक्तवान्
  • सः = सगरः
  • तुरङ्गमम् = अश्वम्
  • आरब्धहयमेधः सन् = अश्वमेधयज्ञदीक्षितः सन्
  • अपोह्य = दूरीकृत्य
  • असमञ्जम् = केशिन्याः सुतम्
  • असमञ्जसचारित्रम् = दुष्टस्वभावयुक्तम्

अन्वयः

सः असमञ्जसचारित्रम् असमञ्जम् अपोह्य आरब्धहयमेधः सन् तुरङ्गमम् अमुञ्चत ।

आकाङ्क्षा

  • अमुञ्चत
    • कः अमुञ्चत ? सः
    • कम् अमुञ्चत ? तुरङ्गमम्
    • कथम्भूतः सन् अमुञ्चत ? आरब्धहयमेधः सन्
    • किं कृत्वा अमुञ्चत ? अपोह्य
      • कम् अपोह्य ? असमञ्जम्
        • कीदृशम् असमञ्जम् ? असमञ्जसचारित्रम्

तात्पर्यम्

सगरः दुष्टस्वभावयुक्तं सुतम् असमञ्जं दूरीकृत्य अश्वमेधयज्ञदीक्षितः सन् अश्वं दिग्विजयार्थं प्रेषयामास ।

पदविवरणम्

  • असमञ्जसचारित्रम्
    • असमञ्जसम् = न समञ्जसम् ।
    • असमञ्जसचारित्रम् = असमञ्जसं चारित्रं यस्य सः ।
  • अपोह्य = अप + वह्“वहँ प्रापणे” – ल्यबन्ताव्ययम्
    • Note: Due to Guna and Vriddhi, ई can become ए and then ऐ and then य्. In the same way, उ becomes ओ and then औ and then व्. The reverse where य becoming ई or ए or ऐ and व becoming उ or ओ or औ is called “samprasaaranam”. Here वह्य has become उह्य ।
  • आरब्धहयमेधः = आरब्धः हयमेधः येन सः ।
  • तुरङ्गमम् = “घोटके वीति-तुरग-तुरङ्ग-अश्व-तुरङ्गमाः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सः = Sagara
    • आरब्धहयमेधः सन् = being one who has started (आरब्ध) the ashwamedha yagna (हयमेध)
  • अमुञ्चत = sent off
    • तुरङ्गमम् = his horse
  • अपोह्य = after annihilating
    • असमञ्जम् = his son, Asamanja
    • असमञ्जसचारित्रम् = one who had an improper history (of throwing the infants born in Ayodhya into the Sarayu river, for his entertainment)
  1. श्लोकः

मूलपाठः

क्रव्यादवपुषा सोयमहारि हरिणा हयः ।
ततस्तं नष्टमन्वेष्टुं सौमतेयाः प्रतस्थिरे ॥ ६८ ॥

पदच्छेदः

क्रव्याद-वपुषा, सः, अयम्, अहारि, हरिणा, हयः, ततः, तम्, नष्टम्, अन्वेष्टुम्, सौमतेयाः, प्रतस्थिरे

अन्वयार्थः

  • अहारि = अपहृतः
  • सः अयं हयः = सगरस्य अश्वमेधाश्वः
  • हरिणा = इन्द्रेण
  • क्रव्यादवपुषा = राक्षसरूपधारिणा
  • प्रतस्थिरे = प्रस्थितवन्तः
  • ततः = अश्वे अपहृते सति
  • सौमतेयाः = ६०,००० सुमतिपुत्राः
  • अन्वेष्टुम् = मार्गयितुम्
  • नष्टं तम् = अदृश्यमानम् अश्वम्

अन्वयः

सोऽयं हयः क्रव्यादवपुषा हरिणा अहारि । ततः नष्टं तम् अन्वेष्टुं सौमतेयाः प्रतस्थिरे ।

आकाङ्क्षा

  • अहारि
    • कः अहारि ? सः अयं हयः
    • केन अहारि ? हरिणा
      • कीदृशेन हरिणा ? क्रव्यादवपुषा
    • प्रतस्थिरे
      • कदा प्रतस्थिरे ? ततः
      • के प्रतस्थिरे ? सौमतेयाः
      • किं कर्तुं प्रतस्थिरे ? अन्वेष्टुम्
        • कम् अन्वेष्टुम् ? नष्टं तम्

तात्पर्यम्

सगरस्य अश्वमेधाश्वः राक्षसवेषधारिणा इन्द्रेण अपहृतः । ततः अदृश्यमानं तम् अश्वं मार्गयितुं ६०,००० सुमतिपुत्राः प्रस्थिताः ।

पदविवरणम्

  • क्रव्यादवपुषा = क्रव्यादवपुरिव वपुः यस्य सः । सकारान्तः, पुं., तृ.वि., ए.व.
  • अहारि = हृ “हृञ् हरणे” – कर्मणि लुङ्, प्र.पु., ए.व.
  • हरिणा = “यम-अनिल-न्द्र-चन्द्र-अर्क-विष्णु-सिंह-अंशु-वाजिषु । शुक-अहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु”
  • हयः = “वाजि-वाह-अर्व-गन्धर्व-हय-सैन्धव-सप्तयः” (अमरः)
  • अन्वेष्टुम् = अनु + इष् “इषँ इच्छायाम्” + तुमुन्
  • सौमतेयाः = सुमतेः अपत्यानि पुमांसः
  • प्रतस्थिरे = प्र + स्था “ष्ठा गतिनिवृत्तौ” – “प्र-सम्-उप-विभ्यः स्थः” इति आत्मनेपदम् – लिट्, प्र.पु., ब.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सः अयं हयः = That horse, that Ashwamedha horse
    • अहारि = was abducted
    • हरिणा = by Indra
      • क्रव्यादवपुषा = by one whose body (वपुष्) is like that of a Rakshasa (क्रव्याद) (i.e., him who took on the form of a Rakshasa)
    • सौमतेयाः = The 60000 sons of Sumati
      • प्रतस्थिरे = set out
        • ततः = from there
      • अन्वेष्टुम् = to look for
        • नष्टं तम् = that lost one, the lost horse
  1. श्लोकः

मूलपाठः

सर्वे सपर्वतामुर्वीं खनन्तः सगरात्मजाः ।
चक्रुर्झर्झरितध्वान्तं नागलोकं नखांशुभिः ॥ ६९ ॥

पदच्छेदः

सर्वे, स-पर्वताम्, उर्वीम्, खनन्तः, सगर-आत्मजाः, चक्रुः, झर्झरित-ध्वान्तम्, नाग-लोकम्, नख-अंशुभिः

अन्वयार्थः

  • चक्रुः = व्यदधुः, अकुर्वन्
  • सर्वे सगरात्मजाः = सगरस्य पुत्राः सकलाः
  • झर्झरितध्वान्तम् = विध्वंसितान्धकारम्
  • नागलोकम् = पातालम्
  • नखांशुभिः = कररुहाणां किरणैः
  • खनन्तः = अवदारयन्तः
  • उर्वीम् = पृथ्वीम्
  • सपर्वताम् = शैलसहिताम्

अन्वयः

सर्वे सगरात्मजाः सपर्वताम् उर्वीं खनन्तः नखांशुभिः नागलोकं झर्झरितध्वान्तं चक्रुः ।

आकाङ्क्षा

  • चक्रुः
    • के चक्रुः ? सर्वे सगरात्मजाः
      • किं कुर्वन्तः सगरात्मजाः ? खनन्तः
        • कां खनन्तः ? उर्वीम्
          • कीदृशीम् उर्वीम् ? सपर्वताम्
        • कथं चक्रुः ? झर्झरितध्वान्तम्
          • कैः झर्झरितध्वान्तम् ? नखांशुभिः
        • कं चक्रुः ? नागलोकम्

तात्पर्यम्

सगरपुत्राः अश्वान्वेषणार्थं शैलसहितां पृथ्वीम् अवदारयन्तः कररुहाणां किरणैः पातालं विध्वंसितान्धकारं व्यदधुः ।

पदविवरणम्

  • चक्रुः = कृ “डुकृञ् करणे”, लिट्., उभय., अत्र परस्मै., प्र.पु., ए.व.
  • सपर्वताम् = पर्वतेन सहिता, ताम्
  • उर्वीम् = “सर्वंसहा वसुमती वसुधा-उर्वी वसुन्धरा” (अमरः)
  • खनन्तः = खन् “खनुँ अवदारणे” + शतृ – तकारान्तः, पुं., ए.वि., ब.व.
  • झर्झरितध्वान्तम् = झर्झरितः ध्वान्तः यस्य सः, तम्
  • नखांशुभिः = नखानाम् अंशवः तैः । “पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्”, “किरणो-ऽस्र-मयूख-अंशु-गभस्ति-घृणि-रश्मयः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सर्वे सगरात्मजाः = All (सर्व) the sons (आत्मज) of Sagara (सगर)
    • खनन्तः = those who dug up
      • उर्वीम् = the earth
        • सपर्वताम् = that which is along with its mountains
      • झर्झरितध्वान्तं नागलोकं चक्रुः = made (कृ) the nether world (नागलोक) become one whose darkness (ध्वान्त) has been shattered (झर्झरित)
        • नखांशुभिः = by the shining rays (अंशु) of the nails (नख)
  1. श्लोकः

मूलपाठः

त एते तपसा दीप्ते तमःस्तोमप्रमाथिनि ।
कापिले ज्वलने वीरा लेभिरे शलभोपमाम् ॥ ७० ॥

पदच्छेदः

ते, एते, तपसा, दीप्ते, तमः-स्तोम-प्रमाथिनि, कापिले, ज्वलने, वीराः, लेभिरे, शलभ-उपमाम्

अन्वयार्थः

  • लेभिरे = प्राप्तवन्तः
  • ते एते = सगरपुत्राः, वीराः = वीर्यवन्तः
  • शलभोपमाम् = पतङ्गसादृश्यम्
  • ज्वलने = अग्नौ
  • तपसा = तपःशक्त्या, दीप्ते = प्रज्वालिते
  • तमःस्तोमप्रमाथिनि = अन्धकारसमूहस्य विनाशके
  • कापिले = कपिलमहर्षिसम्भवे

अन्वयः

ते एते वीराः तपसा दीप्ते, तमःस्तोमप्रमाथिनि, कापिले ज्वलने शलभोपमां लेभिरे ।

आकाङ्क्षा

  • लेभिरे
    • के लेभिरे ? ते एते वीराः
    • कां लेभिरे ? शलभोपमाम्
    • कस्मिन् लेभिरे ? ज्वलने = अग्नौ
      • कीदृशे ज्वलने ? दीप्ते
        • कया दीप्ते ? तपसा
      • पुनः कीदृशे ज्वलने ? तमःस्तोमप्रमाथिनि,
      • पुनः कीदृशे ज्वलने ? कापिले

तात्पर्यम्

वीर्यवन्तः सगरपुत्राः तपःशक्त्या प्रज्वालिते, अन्धकारसमूहस्य विनाशके, कपिलमहर्षिसम्भवे अग्नौ पतङ्गसादृश्यं प्राप्तवन्तः । [कपिलस्य कोपाग्निना दग्धाः]

पदविवरणम्

  • तमःस्तोमप्रमाथिनि – तमसः स्तोमम् । तमःस्तोमं प्रमाथयति । नकारान्तः, पुं, ७.१ ।
  • ज्वलने – “कृपीटयोनिः ज्वलनः जातवेदाः तनूनपात्” (अमरः)
  • शलभोपमा – शलभस्य उपमा, ताम् । “समौ पतङ्ग-शलभौ” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • लेभिरे = attained
  • ते एते = All of them (the sons of Sagara)
    • वीराः = these warriors
  • शलभोपमाम् = similarity to the moth
  • ज्वलने = in the fire
    • तपसा दीप्ते = in that which was burning (दीप्त) due to the penance (तपस्)
    • तमःस्तोमप्रमाथिनि = in that which destroyed (प्रमाथिन्) the huge collection (स्तोम) of darkness (तमः)
    • कापिले = in that which was related to Sage Kapila (कपिल)

कक्ष्या ३० –३०.०७.२०१८

  1. श्लोकः

मूलपाठः

असमञ्जसुतं पौत्रमंशुमन्तमथाब्रवीत् ।
सप्तिं हृत्वा समाधत्तां सप्ततन्तुं भवानिति ॥ ७१ ॥

पदच्छेदः

असमञ्ज-सुतम्, पौत्रम्, अंशुमन्तम्, अथ, अब्रवीत्, सप्तिम्, हृत्वा, समाधत्ताम्, सप्त-तन्तुम्, भवान्, इति

अन्वयार्थः

  • [सगरः] अब्रवीत् = उक्तवान्
  • पौत्रम् = पुत्रस्य पुत्रम्, अंशुमन्तम् = अंशुमन्तनामकम्
  • असमञ्जसुतम् = केशिनीपुत्रस्य असमञ्जस्य तनयम्
  • अथ = अश्वमन्वेष्टुं प्रस्थितेषु सौमतेयेषु अनिवृत्तेषु
  • समाधत्ताम् = समापयतु
  • सप्ततन्तुम् = यज्ञम्, अश्वमेधम्
  • भवान् = त्वम्
  • हृत्वा = आनीय
  • सप्तिम् = अश्वम्

अन्वयः

अथ असमञ्जसुतं पौत्रम् अंशुमन्तम् अब्रवीत् – “भवान् सप्तिं हृत्वा सप्ततन्तुं समाधत्ताम्” इति ।

आकाङ्क्षा

  • अब्रवीत्
    • कः अब्रवीत् ? [सगरः]
    • कम् अब्रवीत् ? पौत्रम्
      • किंनाम पौत्रम् ? अंशुमन्तम्
        • कीदृशम् अंशुमन्तम् ? असमञ्जसुतम्
      • कदा अब्रवीत् ? अथ
      • किम् इति अब्रवीत् ? समाधत्ताम्
        • कं समाधत्ताम् ? सप्ततन्तुम्
        • कः समाधत्ताम् ? भवान्
        • किं कृत्वा समाधत्ताम् ? हृत्वा
          • कं हृत्वा ? सप्तिम्

तात्पर्यम्

अश्वम् अन्वेष्टुं प्रस्थितानां पुत्राणाम् अनागमनेन चिन्तितः सगरः “भवान् अश्वम् आनीय यज्ञसमाप्तिं साधयतु” इति पुत्रस्य असमञ्जस्य तनयम् अंशुमन्तम् उक्तवान् ।

पदविवरणम्

  • सप्तिम् – इकारान्तः, पुं, २.१ । “वाजि-वाह-अर्व-गन्धर्व-हय-सैन्धव-सप्तयः” (अमरः)
  • समाधत्ताम् – सम् + आ + “डुधाञ् धारणपोषणयोः” – आत्मनेपदे लोट्, प्रथम.१
  • सप्ततन्तुम् – सप्तभिः गायत्र्यादिभिः तन्यते इति सप्ततन्तुः = क्रतुः । “यज्ञः सवोऽध्वरो यागः सप्ततन्तुः मखः क्रतुः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • अथ = Then (after the 60000 sons failed to return)
  • [सगरः] अब्रवीत् = Sagara told
    • अंशुमन्तम् = Amshumaan
      • पौत्रम् = his son’s son
      • असमञ्जसुतम् = the son of Asamanja
    • भवान् समाधत्ताम् = May you complete
      • सप्ततन्तुम् = the Yagna, the Ashvamedha yagna
      • हृत्वा = after bringing
        • सप्तिम् = the horse
  1. श्लोकः

मूलपाठः

सोऽपि गत्वा बिलं तत्र दृष्ट्वा भस्मीकृतान्पितॄन्
साश्रुस्तेभ्योऽञ्जलिं दित्सुश्चरल्ँलेभे तुरङ्गमम् ॥ ७२

पदच्छेदः

सः, अपि, गत्वा, बिलम्, तत्र, दृष्ट्वा, भस्मीकृतान्, पितॄन्, स-अश्रुः, तेभ्यः, अञ्जलिम्, दित्सुः, चरन्, लेभे, तुरङ्गमम्

सन्धिः

  • चरन् + लेभे = चरल्ँलेभे – परसवर्णसन्धिः

अन्वयार्थः

  • लेभे = प्राप्तवान्
  • तुरङ्गमम् = अश्वम्
  • सः = अंशुमान् अपि
  • गत्वा = यात्वा
  • बिलम् = सगरैः निखातं गर्तम्
  • दृष्ट्वा = वीक्ष्य
  • पितॄन् = पितृव्यान् सौमतेयान्
  • भस्मीकृतान् = दग्धान्
  • तत्र = पाताले
  • चरन् = अटन्
  • साश्रुः = बाष्पसहितः
  • दित्सुः = प्रदातुम् इच्छन्
  • अञ्जलिम् = तर्पणम्
  • तेभ्यः = मृतेभ्यः पितृभ्यः

अन्वयः

सः अपि बिलं गत्वा, तत्र भस्मीकृतान् पितॄन् दृष्ट्वा, साश्रुः तेभ्यः अञ्जलिं दित्सुः चरन् तुरङ्गमं लेभे ।

आकाङ्क्षा

  • लेभे
    • कं लेभे ? तुरङ्गमम्
    • कः लेभे ? सः
    • किं कृत्वा ? गत्वा
      • कुत्र गत्वा ? बिलम्
    • पुनः किं कृत्वा लेभे ? दृष्ट्वा
      • कान् दृष्ट्वा ? पितॄन्
        • कथम्भूतान् पितॄन् ? भस्मीकृतान्
      • कुत्र दृष्ट्वा ? तत्र
    • किं कुर्वन् लेभे ? चरन्
      • किम् इच्छुः चरन् ? दित्सुः
        • कं दित्सुः ? अञ्जलिम्
        • केभ्यः दित्सुः ? तेभ्यः
      • कथम्भूतः चरन् ? साश्रुः

तात्पर्यम्

अंशुमान् पितृव्यान् अन्विष्यन् सगरपुत्रैः निखातं गर्तं प्राप्य, ततः पातालं प्रविश्य, तत्र दग्धान् तान् वीक्ष्य बाष्पसहितः तेभ्यः तर्पणं दातुमिच्छन् यदा अटति स्म, तदा तत्रैव अश्वं प्राप्तवान् ।

पदविवरणम्

  • साश्रुः = अश्रुभिः सह विद्यते इति । उकारान्तः पुं., प्र.वि., ए.व.
  • दित्सुः = दातुम् इच्छुः – दा + सन् + उ (कृत्) – उकारान्तः, पुं., प्र.वि., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सः = He, Anshuman
  • गत्वा = after going
    • बिलम् = to the cavity
  • दृष्ट्वा = after seeing
    • पितॄन् = his fathers (i.e., his uncles)
    • भस्मीकृतान् = those who were reduced to ashes
    • तत्र = there, in the nether world
  • चरन् = while roaming
    • साश्रुः = becoming the one who is sheding tears
    • दित्सुः = being the one who wishes to give
      • अञ्जलिम् = the respects or the libations
      • तेभ्यः = to them, to his uncles
    • लेभे = got
      • तुरङ्गमम् = the horse
  1. श्लोकः

मूलपाठः

मातुलो गरुडस्तेषामेनं तत्रैवमब्रवीत्
गङ्गामिहानयायुष्मन्नेषामेषा गतिः परा
॥ ७३
पदच्छेदः

मातुलः, गरुडः, तेषाम्, एनम्, तत्र, एवम्, अब्रवीत्, गङ्गाम्, इह, आनय, आयुष्मन्, एषाम्, एषा, गतिः, परा

अन्वयार्थः

  • अब्रवीत् = उक्तवान्
  • मातुलः = मातुः भ्राता
  • तेषाम् = सौमतेयानाम्
  • गरुडः = वैनतेयः
  • एनम् = अंशुमन्तम्
  • तत्र = पाताले
  • एवम् = इत्थम्
  • आयुष्मन्! = चिरञ्जीविन् !
  • आनय = प्रापय
  • गङ्गाम् = देवनदीं मन्दाकिनीम्
  • इह = अस्मिन् प्रदेशे
  • परा गतिः = परलोकप्रापिका
  • एषा = गङ्गा
  • एषाम् = तव पितॄणाम्

अन्वयः

तत्र तेषां मातुलः गरुडः एनम् एवम् अब्रवीत् – आयुष्मन्! गङ्गाम् इह आनय, [यतः] एषा एषां परा गतिः ।

आकाङ्क्षा

  • अब्रवीत्
    • कः अब्रवीत् ? मातुलः
      • केषां मातुलः ? तेषाम्
      • किन्नामा मातुलः ? गरुडः
    • कम् अब्रवीत् ? एनम्
    • कुत्र अब्रवीत् ? तत्र
    • कथम् अब्रवीत् ? एवम्
    • आयुष्मन् !
    • आनय
      • काम् आनय ? गङ्गाम्
      • कुत्र आनय ? इह
      • किमर्थम् आनय ? (यतः) परा गतिः (अस्ति)
        • का परा गतिः (अस्ति) ? एषा
        • केषां परा गतिः (अस्ति) ? एषाम्

तात्पर्यम्

तस्मिन् समये सुमतेः भ्राता गरुडः तत्रागत्य अंशुमन्तम् इत्थम् अकथयत् – “भोः चिरञ्जीविन्! देवनदीं मन्दाकिनीं पातालम् आनय, सा एव एतेषां तव पितॄणां सद्गतिं दातुं समर्था” ।

पदविवरणम्

  • मातुलः = मातुः भ्राता । “पितुर्भ्राता पितृव्यः स्यात् मातुर्भ्राता तु मातुलः” (अमरः)
  • गरुडः = “गरुत्मान् गरुडः तार्क्ष्यो वैनतेयः खगेश्वरः” (अमरः)
  • इह = अव्ययम् । इदम् + ह (सप्तम्यर्थे तद्धितः)
  • आयुष्मन् = आयुः अस्य अस्ति – आयुस् + मतुप् । तकारान्तः, पुं., सम्बोधनप्रथमा वि., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • गरुडः = Garuda
    • तेषाम् मातुलः = the maternal uncle of them, the sons of Sumati
    • तत्र = there in the nether world
    • अब्रवीत् = told
    • एनम् = to Anshuman
    • एवम् = in this way
      • आयुष्मन्! = Hey you, the one destined to live long
      • आनय = Bring
        • गङ्गाम् = Ganga
        • इह = here
      • एषा = She is, Ganga is
        • परा गतिः = She who is the ultimate refuge
          • एषाम् = for them, for your departed uncles
  1. श्लोकः

मूलपाठः

ततस्तनयवृत्तान्तं श्रुत्वा लब्धतुरङ्गमः
समाप्य सगरः सत्रं पुत्रशोकाद्दिवं गतः
॥ ७४
पदच्छेदः

ततः, तनय-वृत्तान्तम्, श्रुत्वा, लब्ध-तुरङ्गमः, समाप्य, सगरः, सत्रम्, पुत्र-शोकात्, दिवम्, गतः

अन्वयार्थः

  • ततः = तदनन्तरम्
  • सगरः दिवं गतः = मृतः
  • पुत्रशोकात् = सुतमरणस्य दुःखात्
  • समाप्य = पूरयित्वा
  • सत्रम् = अश्वमेधयज्ञम्
  • लब्धतुरङ्गमः = प्राप्ताश्वः
  • श्रुत्वा = निशम्य
  • तनयवृत्तान्तम् = पुत्राणां वार्ताम्

अन्वयः

ततः तनयवृत्तान्तं श्रुत्वा लब्धतुरङ्गमः सगरः सत्रं समाप्य पुत्रशोकात् दिवं गतः ।

आकाङ्क्षा

  • दिवं गतः (आसीत्)
    • कः दिवं गतः ? सगरः
    • कदा दिवं गतः ? ततः
    • किं कृत्वा दिवं गतः ? श्रुत्वा
      • कं श्रुत्वा ? तनयवृत्तान्तम्
    • कस्मात् कारणात् दिवं गतः ? पुत्रशोकात्
    • किं कृत्वा दिवं गतः ? समाप्य
      • किं समाप्य ? सत्रम्
      • कथम्भूतः सन् सत्रं समाप्य ? लब्धतुरङ्गमः

तात्पर्यम्

तदनन्तरम् (अंशुमति अश्वेन सह प्रत्यागते), सगरः सुतानां वार्तां श्रुत्वा, अश्वं प्राप्य अश्वमेधयज्ञं पूरयित्वा, सुतमरणस्य दुःखेन प्राणान् त्यक्तवान् ।

पदविवरणम्

  • तनयवृत्तान्तम् = तनयानां वृत्तान्तः, तम् । “वार्ता प्रवृत्तिः वृत्तान्तः” (अमरः)
  • लब्धतुरङ्गमः = लब्धः तुरङ्गमः येन सः
  • समाप्य = सम् + आप् “आपॢँ व्याप्तौ” + ल्यप्
  • सत्रम् = “सत्रमाच्छादने यज्ञे” (अमरः)
  • दिवम् = वकारान्तः स्त्री, दिव्-शब्दः, द्वि.वि., ए.व. । “सुरलोको द्यो-दिवौ द्वे स्त्रियाम्” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • ततः = after that
  • सगरः = Sagara
  • समाप्य = after completing
    • सत्रम् = the yagna, the Ashvamedha yagna
    • लब्धतुरङ्गमः = being one who has got (लब्ध) his horse (तुरङ्गम)
  • श्रुत्वा = upon hearing
    • तनयवृत्तान्तम् = the news (वृत्तान्त) about his sons (तनय)
  • पुत्रशोकात् = due to the sorrow of losing his sons
    • दिवं गतः = went to heaven, i.e., he died
  1. श्लोकः

मूलपाठः

अथांशुमानयं राज्यं चिराय परिपालयन्
दिलीपे न्यस्तभूभारस्तपस्तेपे हिमालये
॥ ७५
पदच्छेदः

अथ, अंशुमान्, अयम्, राज्यम्, चिराय, परिपालयन्, दिलीपे, न्यस्त-भू-भारः, तपः, तेपे, हिम-आलये

अन्वयार्थः

  • अथ = सगरे दिवङ्गते
  • तपः तेपे = तपश्चर्यां चकार
  • हिमालये = हिमवत्प्रदेशे
  • अयम् अंशुमान् = सगरस्य पौत्रः
  • परिपालयन् = रक्षन्
  • राज्यम् = कोसलम्
  • चिराय = बहुकालम्
  • न्यस्तभूभारः = दत्त-राज्य-भारः
  • दिलीपे = स्वसुते

अन्वयः

अथ अयम् अंशुमान् राज्यं चिराय परिपालयन् दिलीपे न्यस्तभूभारः हिमालये तपः तेपे ।

आकाङ्क्षा

  • तपः तेपे
    • कदा तेपे ? अथ
    • कुत्र तेपे ? हिमालये
    • कः तेपे ? अयम् अंशुमान्
      • कथम्भूतः अंशुमान् ? न्यस्तभूभारः
        • कस्मिन् न्यस्तभूभारः ? दिलीपे
        • कीदृशः सन् न्यस्तभूभारः ? परिपालयन्
          • किं परिपालयन् ? राज्यम्
          • कियत्कालं परिपालयन् ? चिराय

तात्पर्यम्

सगरस्य मरणानन्तरं तत्पौत्रः अंशुमान् बहुकालं राज्यभारम् ऊढ्वा वार्द्धक्ये पुत्रं दिलीपं सिंहासने अभिषिच्य स्वयं हिमालयं गत्वा (गङ्गायाः आनयनार्थम्) तपश्चर्यां चकार ।

पदविवरणम्

  • चिराय = अव्ययम् ।
  • न्यस्तभूभारः
    • भूभारः = भुवः भारः ।
    • न्यस्तभूभारः = न्यस्तः भूभारः येन सः ।

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • अथ = After that
  • अयम् अंशुमान् = This person Anshuman
    • तपः तेपे = did penance
    • हिमालये = in the Himalayas
  • परिपालयन् = protecting
    • राज्यम् = the kingdom of Koshala
    • चिराय = for a very long time
  • न्यस्तभूभारः = Becoming the one who has placed the burden of the land
    • दिलीपे = on Dilipa
  1. श्लोकः

मूलपाठः

दिलीपेऽपि दिवं याते श्रुत्वा वृत्तं भगीरथः
अमर्त्यसरितं कर्तुं मेने मर्त्यतरङ्गिणीम्
॥ ७६
पदच्छेदः

दिलीपे, अपि, दिवम्, याते, श्रुत्वा, वृत्तम्, भगीरथः, अमर्त्य-सरितम्, कर्तुम्, मेने, मर्त्य-तरङ्गिणीम्

अन्वयार्थः

  • मेने = निश्चितवान्
  • कर्तुम् = विधातुम्
  • अमर्त्यसरितं = देवनदीं गङ्गाम्, मर्त्यतरङ्गिणीं = मानुषसरितम्
  • भगीरथः = दिलीपस्य सुतः
  • श्रुत्वा = निशम्य
  • वृत्तम् = पूर्वजानां चरितम्
  • दिवं याते = स्वर्गते
  • दिलीपे अपि = स्वपितरि दिलीपे

अन्वयः

दिलीपे अपि दिवं याते भगीरथः वृत्तं श्रुत्वा अमर्त्यसरितं मर्त्यतरङ्गिणीं कर्तुं मेने ।

आकाङ्क्षा

  • मेने
    • किं मेने ? कर्तुम्
      • कथं कर्तुम् ? मर्त्यतरङ्गिणीम्
      • कां कर्तुम् ? अमर्त्यसरितम्
    • कः मेने ? भगीरथः
    • किं कृत्वा मेने ? श्रुत्वा
      • किं श्रुत्वा ? वृत्तम्
    • कदा मेने ? दिवं याते (सति)
      • कस्मिन् दिवं याते ? दिलीपे अपि

तात्पर्यम्

अंशुमतः अनन्तरं राज्यं परिपाल्य तत्पुत्रः दिलीपः अपि स्वस्य वार्द्धक्ये गङ्गां भुवमानेतुं तपः कृत्वा विफल एव दिवङ्गतः । तस्मिन् स्वर्गते तत्पुत्रः भगीरथः पूर्वजानां चरितं निशम्य देवनदीं गङ्गां मनुष्यलोकम् आनेतुं सङ्कल्पितवान् ।

पदविवरणम्

  • दिवं याते = सतिसप्तमी प्रयोगः
  • अमर्त्यसरितम् = अमर्त्यानां सरित्, ताम्
  • मेने = मन् “मनँ ज्ञाने” – लिट्., प्र.पु., ए.व.
  • मर्त्यतरङ्गिणीम् = मर्त्यानां तरङ्गिणी, ताम् । “नदी सरित्तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • दिलीपे अपि दिवं याते सति = when Dilipa (दिलीप) also (अपि) went गत to heaven दिव), e., died
  • भगीरथः = Bhagiratha
    • श्रुत्वा = upon hearing
      • वृत्तम् = the story of his forefathers
    • मेने = decided
      • अमर्त्यसरितं मर्त्यतरङ्गिणीं कर्तुम् = to make (कृ) the river (सरित) of the Devas (अमर्त्य) become the river (तरङ्गिणी) of the Humans (मर्त्य)
  1. श्लोकः

मूलपाठः

ततो गोकर्णमासाद्य तपस्यति भगीरथे
देवो देवापगां वोढुमन्वमंस्त दयानिधिः
॥ ७७
पदच्छेदः

ततः, गोकर्णम्, आसाद्य, तपस्यति, भगीरथे, देवः, देव-आपगाम्, वोढुम्, अन्वमंस्त, दया-निधिः

अन्वयार्थः

  • ततः = भगीरथस्य निश्चयानन्तरम्
  • अन्वमंस्त = अङ्गीचकार
  • देवः = शिवः
  • दयानिधिः = करुणासागरः
  • वोढुम् = धर्तुम्
  • देवापगाम् = देवनदीं गङ्गाम्
  • भगीरथे तपस्यति = भगीरथे तपश्चरति सति
  • आसाद्य = प्राप्य
  • गोकर्णम् = गोकर्णक्षेत्रम्

अन्वयः

ततः भगीरथे गोकर्णम् आसाद्य तपस्यति, दयानिधिः देवः देवापगां वोढुम् अन्वमंस्त ।

आकाङ्क्षा

  • अन्वमंस्त
    • कदा अन्वमंस्त ? ततः
    • कः अन्वमंस्त ? देवः
      • कीदृशः देवः ? दयानिधिः
    • किं कर्तुम् अन्वमंस्त ? वोढुम्
      • कां वोढुम् ? देवापगाम्
    • कदा अन्वमंस्त ? तपस्यति सति
      • कस्मिन् तपस्यति ? भगीरथे
    • किं कृत्वा तपस्यति ? आसाद्य
      • कम् आसाद्य ? गोकर्णम्

तात्पर्यम्

एवं निश्चित्य भगीरथः गोकर्णक्षेत्रं प्राप्य चिरं तपश्चचार । तस्य तपसा प्रीतः करुणानिधिः शिवः देवनदीं गङ्गां स्वस्य जटासु धर्तुम् अङ्गीचकार ।

पदविवरणम्

  • आसाद्य = आ + सद् “षदॢँ विशरणगत्यवसादनेषु” (विशरण-गति-अवसादनेषु) + णिच् + ल्यप्
  • तपस्यति = तपस् + क्यङ् + शतृ । तकारान्तः, पुं., स.वि., ए.व.
  • वोढुम् = वह् “वहँ प्रापणे” + तुमुन्
  • अन्वमंस्त = अनु + मन् “मनँ ज्ञाने” – लुङ्., प्र.वि., ए.व.
  • दयानिधिः = दयायाः निधिः
  • देवापगाम्
    • अप् = जलम् । आपम् = अपां समूहः, जलसमूहः ।
    • आपगाम् = आपेन गच्छति इति आपगा । “नदी सरित् … स्रवन्ती निम्नगा-आपगा” (अमरः) ।
    • देवापगाम् = देवानां आपगाम्

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • ततः = After that
  • भगीरथे तपस्यति सति = When Bhagiratha did penance
    • आसाद्य = after going
      • गोकर्णम् = to the place called Gokarna
    • देवः = Shiva
      • दयानिधिः = being the one who is the treasure house of compassion
    • अन्वमंस्त = agreed
      • वोढुम् = to hold
        • देवापगाम् = the heavenly river

कक्ष्या ३१ – ०६.०८.२०१८

  1. श्लोकः

मूलपाठः

अथ वीचीचयच्छन्नदिगन्तगगनान्तरा ।

शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा ॥ ७८
पदच्छेदः

  • अथ, वीची-चय-च्छन्न-दिगन्त-गगन-अन्तरा, शशाङ्क-शङ्ख-सम्भिन्न-तारा-मौक्तिक-दन्तुरा

अन्वयार्थः

  • अथ = शिवस्य अङ्गीकारानन्तरम् (सुरलोकतरङ्गिणी पपात)
  • वीचीचयच्छन्नदिगन्तगगनान्तरा – वीचीनाम् = तरङ्गाणाम्, चयः = समूहः, तेन छन्नम् = आच्छादितम्, दिगन्तगगनस्य = नभोमण्डलस्य, अन्तरम् = अन्तरालम्, यया तादृशी
  • शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा – शशाङ्कः = चन्द्रः, स एव शङ्खः = कम्बुः, तेन सम्भिन्नानि = सङ्गतानि, ताराः = नक्षत्राणि, एव मौक्तिकानि = मुक्तामणयः, तैः दन्तुरा = व्याप्ता

अन्वयः

अथ वीचीचयच्छन्नदिगन्तगगनान्तरा शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा (सुरलोकतरङ्गिणी पपात)

आकाङ्क्षा

  • अथ (सुरलोकतरङ्गिणी पपात)
    • कीदृशी सुरलोकतरङ्गिणी ? वीचीचयच्छन्नदिगन्तगगनान्तरा
    • पुनः कीदृशी सुरलोकतरङ्गिणी ? शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा

तात्पर्यम्

स्वस्य तरङ्गाणां समूहेन सम्पूर्णं नभोमण्डलम् आच्छादयन्ती, चन्द्ररूपेण शङ्खेन सङ्गतैः नक्षत्ररूपैः मुक्तामणिभिः व्याप्ता (गङ्गा शिवस्य जटाकुहरे पपात)

पदविवरणम्

  • वीचीचयच्छन्नदिगन्तगगनान्तरा
    • वीचीचयः = वीचीनां चयः
    • वीचीचयच्छन्नम् = वीचीचयेन च्छन्नम्
    • दिगन्तः = दिशाम् अन्तः
    • दिगन्तगगनम् = दिगन्तस्य गगनम्
    • दिगन्तगगनान्तरम् = दिगन्तगगनस्य अन्तरम्
    • वीचीचयच्छन्नदिगन्तगगनान्तरा = वीचीचयच्छन्नं दिगन्तगगनान्तरं यया / यस्याः सा
    • “भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः” (अमरः)
  • शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा
    • शशाङ्कशङ्खः शशाङ्कः एव शङ्खः,
    • तारामौक्तिकानि = ताराः एव मौक्तिकानि,
    • शशाङ्कशङ्खसम्भिन्नानि = शशाङ्कशङ्खेन सम्भिन्नानि
    • शशाङ्कशङ्खसम्भिन्नतारामौक्तिकानि = शशाङ्कशङ्खसम्भिन्नानि तारामौक्तिकानि,
    • शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा = शशाङ्कशङ्खसम्भिन्नतारामौक्तिकैः दन्तुरा

विशेषः

  • कुलकम् – परस्परान्वितानां पञ्चानां श्लोकानां समूहः । “कलापकं चतुर्भिश्च पञ्चभिः कुलकं मतम्”
  • गङ्गावतरणकुलकम् ७८ – ८२ (सुरलोकतरङ्गिणी पपात)

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • अथ (सुरलोकतरङ्गिणी पपात) = After Shiva agreed to bear her, then Ganga fell
  • वीचीचयच्छन्नदिगन्तगगनान्तरा = One who covered (छन्न) the entire space (अन्तर) in the sky (गगन) till the end (अन्त) of all directions (दिक्) with multitudes (चय) of waves (वीची)
  • शशाङ्कशङ्खसम्भिन्नतारामौक्तिकदन्तुरा = One who is filled (दन्तुर) with the stars (तारा) in the form of pearls (मौक्तिक) along with (सम्भिन्न) the moon (शशाङ्क) in the form of a conch (शङ्ख)
  1. श्लोकः

मूलपाठः

तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा ।

फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा ॥ ७९
पदच्छेदः

तरङ्ग-आकृष्ट-मार्ताण्ड-तुरङ्ग-आयासित-अरुणा, फेन-छन्न-स्व-मातङ्ग-मार्गण-व्यग्र-वासवा

अन्वयार्थः

  • तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा
    • तरङ्गैः = वीचिभिः, आकृष्टाः = मार्गभ्रष्टाः, ये मार्ताण्डस्य = सूर्यस्य, तुरङ्गाः = अश्वाः, तैः आयासितः = श्रान्तः, अरुणः = सूर्यसारथिः, यया सा
  • फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा
    • फेनैः = डिण्डीरमण्डलैः, छन्नः = आच्छादितः, यः स्वमातङ्गः = आत्मनः गजः (ऐरावतः), तस्य मार्गणे = अन्वेषणे, व्यग्रः = सम्भ्रान्तः, वासवः = इन्द्रः यस्याः सा

अन्वयः

तरङ्ग-आकृष्ट-मार्ताण्ड-तुरङ्ग-आयासित-अरुणा फेन-छन्न-स्व-मातङ्ग-मार्गण-व्यग्र-वासवा (सुरलोकतरङ्गिणी पपात)

आकाङ्क्षा

  • (सुरलोकतरङ्गिणी पपात)
    • कीदृशी सुरलोकतरङ्गिणी ? तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा
    • पुनः कीदृशी सुरलोकतरङ्गिणी ? फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा

तात्पर्यम्

यदा गङ्गा आकाशात् भूमिम् अवतरति, तदा आकाशे तस्याः वीचिभिः सूर्याश्वाः मार्गभ्रष्टाः, तेषां नियन्त्रणं कर्तुं प्रयतमानः सूर्यसारथिः अरुणः नितरां श्रान्तः । पुनश्च, सरभसं प्रवहन्त्याः तस्याः फेनैः शुभ्रवर्णः इन्द्रस्य गजः ऐरावतः आच्छन्नः, तम् अन्विष्यन् इन्द्रः सम्भ्रान्तः ।

पदविवरणम्

  • तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा
    • तरङ्गाकृष्टाः = तरङ्गैः आकृष्टाः
    • मार्ताण्डतुरङ्गाः = मार्ताण्डस्य तुरङ्गाः
    • तरङ्गाकृष्टैः मार्ताण्डतुरङ्गैः आयासितः
    • तरङ्गाकृष्टमार्ताण्डतुरङ्गाः = तरङ्गाकृष्टाः मार्ताण्डतुरङ्गाः
    • तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितः = तरङ्गाकृष्टमार्ताण्डतुरङ्गैः आयासितः
    • तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा = आयासितः अरुणः यया सा ।
    • “विकर्तनार्कमार्तण्डमिहिरारुणपूषणः” (अमरः)
  • फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा
    • फेनच्छन्नः = फेनैः छन्नः,
    • स्वमातङ्गः = स्वस्य मातङ्गः,
    • फेनच्छन्नस्वमातङ्गः = फेनच्छन्नः स्वमातङ्गः
    • फेनच्छन्नस्वमातङ्गमार्गणम् = फेनच्छन्नस्वमातङ्गस्य मार्गणम्
    • फेनच्छन्नस्वमातङ्गमार्गणव्यग्रः = फेनच्छन्नस्वमातङ्गमार्गणे व्यग्रः
    • फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा = फेनच्छन्नस्वमातङ्गमार्गणव्यग्रः वासवः यया सा

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सुरलोकतरङ्गिणी = Ganga
    • तरङ्गाकृष्टमार्ताण्डतुरङ्गायासितारुणा = she due to whom Aruna (अरुण), the charioteer of Sun (मार्ताण्ड), became tired (आयासित) in getting back the control of the horses (तुरङ्ग) that were dragged (आकृष्ट) away by the force of her waves (तरङ्ग)
    • फेनच्छन्नस्वमातङ्गमार्गणव्यग्रवासवा = she due to whom Indra (वासव) got confused (व्यग्र) in searching (मार्गण) for Iravatha, his own (स्व) elephant (मातङ्ग) that was fully covered (छन्न) with the foam (फेन)
  • पपात = fell
  1. श्लोकः

मूलपाठः

आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा ।

एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा ॥ ८० ॥
पदच्छेदः

आविः-शाखा-शिखा-उन्नेय-नन्दन-द्रुम-कर्षणा, एक-उदक-नभो-मार्ग-दिक्-मूढ-दिवस-ईश्वरा

अन्वयार्थः

  • आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा
    • आविः = आविर्भूताः, दृष्टाः, याः शाखानां शिखाः = अग्रभागाः, तैः उन्नेयाः = अनुमेयाः ये नन्दनस्य = इन्द्रोद्यानस्य, द्रुमाः = वृक्षाः, तेषां कर्षणम् = विलेखनं यस्याः सा ।
  • एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा
    • एकोदकः = केवलजलाप्लुतः, नभोमार्गः = आकाशपथः, येन दिङ्मूढः = दिग्भ्रान्तः, दिवसेश्वरः = सूर्यः यस्याः सा

अन्वयः

आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा (सुरलोकतरङ्गिणी पपात)

आकाङ्क्षा

  • (सुरलोकतरङ्गिणी पपात)
    • कीदृशी सुरलोकतरङ्गिणी ? आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा
    • पुनः कीदृशी सुरलोकतरङ्गिणी ? एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा

तात्पर्यम्

गङ्गाप्रवाहेण नन्दनवनस्य वृक्षाः आकृष्टाः नीयन्ते स्म, तत्रापि तेषां प्रकाण्डानां जलनिमग्नत्वात् शाखाग्रभागाः एव दृश्यन्ते स्म, येषां दर्शनेन इमे नन्दनद्रुमाः इति अनुमितिः करणीया । किञ्च, सर्वत्र नभोमण्डलस्य जलाप्लावितत्वेन सूर्योऽपि दिग्भ्रान्तः बभूव ।

पदविवरणम्

  • आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा
    • शाखाशिखाः = शाखानां शिखाः
    • आविःशाखाशिखाः = आविर्भूताः शाखाशिखाः,
    • आविःशाखाशिखोन्नेयाः = आविःशाखाशिखाभिः उन्नेयाः,
    • नन्दनद्रुमाः = नन्दनस्य द्रुमाः
    • आविःशाखाशिखोन्नेयनन्दनद्रुमाः = आविःशाखाशिखोन्नेयाः नन्दनद्रुमाः
    • आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा = आविःशाखाशिखोन्नेयनन्दनद्रुमाणां कर्षणं यस्याः सा
  • एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा
    • एकोदकः = एकम् उदकम् यस्मिन् सः
    • नभोमार्गः = नभसः मार्गः
    • एकोदकनभोमार्गः = एकोदकः नभोमार्गः
    • एकोदकनभोमार्गदिङ्मूढः = एकोदकनभोमार्गेण दिङ्मूढः
    • एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा = एकोदकनभोमार्गदिङ्मूढः दिवसेश्वरः यस्याः सा

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सुरलोकतरङ्गिणी = Ganga
    • आविःशाखाशिखोन्नेयनन्दनद्रुमकर्षणा = she due to whom drew (कर्षण) the (द्रुम) trees of the Nandana vana (नन्दन), the garden of Indra, which are to be guessed (उन्नेय) by the visible (आविस्) tips (शिखा) of the branches (शाखा)
    • एकोदकनभोमार्गदिङ्मूढदिवसेश्वरा = she due to whom Surya (दिवसेश्वर) got confused (मूढ) about the direction (दिक्) as the entire path (मार्ग) in the sky (नभस्) was filled only (एक) with water (उदक)
  • पपात = fell
  1. श्लोकः

मूलपाठः

आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा ।

नीलजीमूतशैवालकृतरेखाहरित्तटा ॥ ८१ ॥
पदच्छेदः

आवर्त-गर्त-सम्भ्रान्त-विमान-प्लव-विप्लवा, नील-जीमूत-शैवाल-कृत-रेखा-हरित्-तटा

अन्वयार्थः

  • आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा
    • आवर्ताः = अम्भसां भ्रमाः, ते एव गर्ताः = कुहराणि, तेषु सम्भ्रान्तनि = परिभ्रममाणानि, यानि विमानानि = व्योमयानानि, एव प्लवाः = उडुपानि, तेषां विप्लवः = विशिष्टप्लवनं यस्यां सा
  • नीलजीमूतशैवालकृतरेखाहरित्तटा
    • नीलाः जीमूताः = नीलमेघाः, ते एव शैवालानि = जलनील्यः, तैः कृताः = विरचिताः, रेखाः = श्रेणयः, येषां तानि हरित्तटानि = दिक्कूलानि यया सा ।

अन्वयः

आवर्त-गर्त-सम्भ्रान्त-विमान-प्लव-विप्लवा, नील-जीमूत-शैवाल-कृत-रेखा-हरित्-तटा (सुरलोकतरङ्गिणी पपात)

आकाङ्क्षा

  • (सुरलोकतरङ्गिणी पपात)
    • कीदृशी सुरलोकतरङ्गिणी ? आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा – आवर्ताः = अम्भसां भ्रमाः, ते एव गर्ताः = कुहराणि, तेषु सम्भ्रान्तनि = परिभ्रममाणानि, यानि विमानानि = व्योमयानानि, एव प्लवाः = उडुपानि, तेषां विप्लवः = विशिष्टप्लवनं यस्यां सा
    • पुनः कीदृशी सुरलोकतरङ्गिणी ? नीलजीमूतशैवालकृतरेखाहरित्तटा – नीलाः जीमूताः = नीलमेघाः, ते एव शैवालानि = जलनील्यः, तैः कृताः = विरचिताः, रेखाः = श्रेणयः, येषां तानि हरित्तटानि = दिक्कूलानि यया सा ।

तात्पर्यम्

गङ्गायाः जलभ्रमेषु भ्रममाणानि व्योमयानानि उडुपानीव प्लवमानानि दृश्यन्ते स्म । जलस्य राभस्येन दूरोत्क्षिप्ताः नीलमेघाः दिगन्तेषु नदीकूले श्रेणीकृताः शैवाला एव दृश्यन्ते स्म ।

पदविवरणम्

  • आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा
    • आवर्तगर्तः = आवर्तानां गर्तः,
    • आवर्तगर्तसम्भ्रान्ताः = आवर्तगर्तेषु सम्भ्रान्ताः
    • आवर्तगर्तसम्भ्रान्तविमानानि = आवर्तगर्तसम्भ्रान्तानि विमानानि,
    • आवर्तगर्तसम्भ्रान्तविमानप्लवाः = आवर्तगर्तसम्भ्रान्तविमानानि एव प्लवाः,
    • आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा = आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवानां विप्लवः यस्यां सा
  • नीलजीमूतशैवालकृतरेखाहरित्तटा
    • नीलजीमूताः = नीलाः जीमूताः
    • नीलजीमूतशैवालाः = नीलजीमूताः एव शैवालाः
    • नीलजीमूतशैवालकृताः = नीलजीमूतशैवालैः कृताः
    • नीलजीमूतशैवालकृतरेखाः = नीलजीमूतशैवालकृताः रेखाः येषां ते
    • हरित्तटाः = हरितां तटाः
    • नीलजीमूतशैवालकृतरेखाहरित्तटा = नीलजीमूतशैवालकृतरेखाः हरित्तटाः यया / यस्याः सा

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सुरलोकतरङ्गिणी = Ganga
    • आवर्तगर्तसम्भ्रान्तविमानप्लवविप्लवा = she who causes the aeroplanes (विमान) to revolve (सम्भ्रान्त) in the holes (गर्त) in the form of whirlpool (आवर्त) like the bobbling (विप्लव) movement of small boats (प्लव)
    • नीलजीमूतशैवालकृतरेखाहरित्तटा = she by whom the lines (रेखा) formed (कृत) by the black (नील) clouds (जीमूत) in the form of moss (शैवाल) the blackish green fungus, have been made the greenish (हरित्) river bank (तट) in the end of the directions
  • पपात = fell
  1. श्लोकः

मूलपाठः

अवलेपभराक्रान्ता सुरलोकतरङ्गिणी ।

पपात पार्वतीकान्तजटाकान्तारगह्वरे ॥ ८
पदच्छेदः

अवलेप-भर-आक्रान्ता, सुर-लोक-तरङ्गिणी, पपात, पार्वती-कान्त-जटा-कान्तार-गह्वरे

अन्वयार्थः

  • पपात = पतिता
  • सुरलोकतरङ्गिणी = देवनदी गङ्गा
  • अवलेपभराक्रान्ता
    • अवलेपस्य = गर्वस्य
    • भरेण = भारेण
    • आक्रान्ता = पूरिता
  • पार्वतीकान्तजटाकान्तारगह्वरे
    • पार्वतीकान्तस्य = शिवस्य,
    • जटा = कपर्दः एव,
    • कान्तारः = महारण्यम्,
    • तस्य गह्वरे = कुहरे

अन्वयः

अवलेपभराक्रान्ता सुरलोकतरङ्गिणी पार्वतीकान्तजटाकान्तारगह्वरे पपात ।

आकाङ्क्षा

  • पपात
    • का पपात ? सुरलोकतरङ्गिणी
    • कीदृशी सुरलोकतरङ्गिणी ? अवलेपभराक्रान्ता
    • कुत्र पपात ? पार्वतीकान्तजटाकान्तारगह्वरे

तात्पर्यम्

  • गर्वभारेण पूरिता देवनदी गङ्गाः शिवस्य कपर्दरूपस्य अरण्यस्य महाकुहरे पतिता ।

पदविवरणम्

  • अवलेपभराक्रान्ता = अवलेपस्य भरः, अवलेपभरेण आक्रान्ता । “दर्पोऽवलेपोऽवष्टम्भः” (अमरः)
  • सुरलोकतरङ्गिणी
    • सुरलोकः = सुराणां लोकः,
    • सुरलोकतरङ्गिणी = सुरलोकस्य तरङ्गिणी
  • पपात = पत् “पतॢ गतौ” लिट्, प्र.पु., ए.व.
  • पार्वतीकान्तजटाकान्तारगह्वरे
    • पार्वतीकान्तः = पार्वत्याः कान्तः,
    • पार्वतीकान्तजटा = पार्वतीकान्तस्य जटा,
    • पार्वतीकान्तजटाकान्तारः = पार्वतीकान्तजटा एव कान्तारः,
    • पार्वतीकान्तजटाकान्तारस्य गह्वरम्, तस्मिन् ।
    • “महारण्ये दुर्गपथे कान्तारं पुन्नपुंसकम्” (अमरः)
    • “देवखातबिले गुहा । गह्वरं” (अमरः)

अलङ्कारः

  • पपात = गर्वोद्रिक्ताः पतनं प्राप्नुवन्त्येव इति ध्वनिः ।

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।

गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • सुरलोक-तरङ्गिणी = Ganga, who is the river of the Deva Loka
    • अवलेप-भराक्रान्ता = one who was seized (आक्रान्त) by the weight (भर) of arrogance (अवलेप)
  • पपात = fell
    • पार्वती-कान्त-जटा-कान्तार-गह्वरे = on the cavities (गह्वर) of the forest (कान्तार) in the form of the matted hair (जटा) of Lord Shiva, the husband (कान्त) of Parvati (पार्वती)

कक्ष्या ३२ – २०.०८.२०१८

  1. श्लोकः

मूलपाठः

अलब्धनिर्गमा शम्भोः कपर्दादमरापगा ।
दधौ दूर्वाशिखालग्नतुषारकणिकोपमाम् ॥ ८३ ॥

पदच्छेदः

अलब्ध-निर्गमा, शम्भोः, कपर्दात्, अमर-आपगा, दधौ, दूर्वा-शिखा-लग्न-तुषार-कणिका-उपमाम्

अन्वयार्थः

  • दधौ = धृतवती
  • अमरापगा = देवनदी गङ्गा
  • अलब्धनिर्गमा = अप्राप्त-बहिर्गमनमार्गा
  • कपर्दात् = जटाजूटात्
  • शम्भोः = परमेश्वरस्य
  • दूर्वाशिखालग्नतुषारकणिकोपमाम्
    • दूर्वाशिखायाम् = दूर्वाग्रे, लग्ना = संसक्ता, या तुषारस्य = हिमस्य, कणिका = बिन्दुः, तदुपमाम् = तत्सादृश्यम्

अन्वयः

शम्भोः कपर्दात् अलब्धनिर्गमा अमरापगा दूर्वाशिखालग्नतुषारकणिकोपमां दधौ ।

आकाङ्क्षा

  • दधौ
    • का दधौ ? अमरापगा
      • कीदृशी अमरापगा ? अलब्धनिर्गमा
        • कस्मात् अलब्धनिर्गमा ? कपर्दात्
          • कस्य कपर्दात् ? शम्भोः
        • कां दधौ ? दूर्वाशिखालग्नतुषारकणिकोपमाम्

तात्पर्यम्

परमेश्वरस्य जटाजूटात् बहिर्गमनमार्गम् अप्राप्य देवनदी गङ्गा दूर्वाग्रे संसक्तस्य अल्पस्य हिमबिन्दोः सादृश्यं प्राप्तवती ।

पदविवरणम्

  • अलब्धनिर्गमा
    • अलब्धः = न लब्धः
    • अलब्धनिर्गमा = अलब्धः निर्गमः यया सा
  • शम्भोः = उकारान्तः, पुं., ष.वि., ए.व. । “शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः”
  • कपर्दात् = अकारान्तः, पुं., प.वि., ए.व. । “कपर्दोऽस्य जटाजूटः” (अमरः)
  • अमरापगा = अमराणाम् आपगा । “स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा
  • दधौ = धा ‘डुधाञ् धारणपोषणयोः’ – लिट्, प्र.पु., ए.व.
  • दूर्वाशिखालग्नतुषारकणिकोपमाम्
    • दूर्वाशिखा = दूर्वायाः शिखा
    • दूर्वाशिखालग्ना = दूर्वाशिखायां लग्ना
    • तुषारकणिका = तुषारस्य कणिका
    • दूर्वाशिखालग्नतुषारकणिका = दूर्वाशिखालग्ना च असौ तुषारकणिका
    • दूर्वाशिखालग्नतुषारकणिकोपमाम् = दूर्वाशिखालग्नतुषारकणिकायाः उपमा, ताम्

अलङ्कारः

  • उपमालङ्कारः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • अमरापगा = Ganga, the river (आपगा) of the Devas (अमर)
    • अलब्धनिर्गमा = One who could not get (अलब्ध=न+लब्ध) a way (निर्गम) to go out
      • कपर्दात् = from the matted hair locks
        • शम्भोः = of Shiva, Shambhu
      • दधौ = adorned the state of
        • दूर्वाशिखालग्नतुषारकणिकोपमाम् = similarity (तत् + उपमा) to that of a drop (कणिका) of dew (तुषार) which is attached (लग्न) in the tip (शिखा) of the Dhoorva grass (दूर्वा) [ since Dhoorva grass is slender, the drop has to be extremely minute and insignificant ]
  1. श्लोकः

मूलपाठः

अदृष्ट्वा तां नदीं तत्र तुष्टाव परमेश्वरम् ।
भगीरथो विधेः क्रौर्यात्परिक्षीणमनोरथः ॥ ८४

पदच्छेदः

अदृष्ट्वा, ताम्, नदीम्, तत्र, तुष्टाव, परमेश्वरम्, भगीरथः, विधेः, क्रौर्यात्, परिक्षीण-मनोरथः

अन्वयार्थः

  • तुष्टाव = स्तुतवान्
  • परमेश्वरम् = महादेवम्
  • भगीरथः परिक्षीणमनोरथः = भगीरथः निराशः
  • विधेः क्रौर्यात् = दैवप्रातिकूल्यात्
  • अदृष्ट्वा = अनवलोक्य
  • तां नदीम् = मन्दाकिनीम्
  • तत्र = परमेश्वरस्य जटाजूटे

अन्वयः

भगीरथः तां नदीं तत्र अदृष्ट्वा विधेः क्रौर्यात् परिक्षीणमनोरथः परमेश्वरं तुष्टाव ।

आकाङ्क्षा

  • तुष्टाव
    • कं तुष्टाव ? परमेश्वरम्
    • कः तुष्टाव ? भगीरथः
      • कथम्भूतः भगीरथः ? परिक्षीणमनोरथः
        • कस्मात् कारणात् परिक्षीणमनोरथः ? विधेः क्रौर्यात्
      • किं कृत्वा तुष्टाव ? अदृष्ट्वा
        • काम् अदृष्ट्वा ? तां नदीम्
        • कुत्र अदृष्ट्वा ? तत्र

तात्पर्यम्

भगीरथः महादेवस्य जटाजाले संलग्नां गङ्गां बहिः अप्रसृतां वीक्ष्य निराशः सन् पुनरपि परमेश्वरमुद्दिश्य तपश्चचार ।

पदविवरणम्

  • तुष्टाव = स्तु “ष्टुञ् स्तुतौ” लिट्., प्र.वि., ए.व.
  • परिक्षीणमनोरथः = परिक्षीणः मनोरथः यस्य सः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • भगीरथः = Bhageeratha
    • परिक्षीणमनोरथः = becoming one whose desire (मनोरथ) were fading (परिक्षीण)
  • तुष्टाव = praised
    • परमेश्वरम् = Paremeshvara, i.e., Lord Shiva,
  • अदृष्ट्वा = on not seeing
    • तां नदीम् = that Ganga river
    • तत्र = there
    • विधेः क्रौर्यात् = due to the cruelty (क्रौर्य) of fate (विधि), i.e., the averse fate
  1. श्लोकः

मूलपाठः

गङ्गा सप्ताकृतिर्जाता न्यपतद्धरमूर्धनि ।
तेन स्तुत्या प्रसन्नेन क्षिप्ता बिन्दुसरस्यपि ॥ ८५

पदच्छेदः

गङ्गा, सप्त-आकृतिः, जाता, न्यपतत्, धर-मूर्धनि, तेन, स्तुत्या, प्रसन्नेन, क्षिप्ता, बिन्दु-सरसि, अपि

अन्वयार्थः

  • न्यपतत् = पपात
  • धरमूर्धनि = पर्वतमस्तके, हिमालयशिखरे
  • बिन्दुसरसि = बिन्दुसरोवरनामके क्षेत्रे अपि
  • गङ्गा = मन्दाकिनी
  • क्षिप्ता = प्रेरिता
  • तेन = परमेश्वरेण
  • प्रसन्नेन = तुष्टेन
  • स्तुत्या = भगीरथस्य प्रार्थनया
  • सप्ताकृतिः जाता = सप्तसु धारासु विभक्ता

अन्वयः

स्तुत्या प्रसन्नेन तेन क्षिप्ता गङ्गा सप्ताकृतिर्जाता धरमूर्धनि, बिन्दुसरसि अपि न्यपतत् ।

आकाङ्क्षा

  • न्यपतत्
    • कुत्र न्यपतत् ? धरमूर्धनि
    • पुनः कुत्र न्यपतत् ? बिन्दुसरसि अपि
    • का न्यपतत् ? गङ्गा
      • कीदृशी गङ्गा ? क्षिप्ता
        • केन क्षिप्ता ? तेन
          • कीदृशेन तेन ? प्रसन्नेन
            • कया प्रसन्नेन ? स्तुत्या
          • पुनः कीदृशी गङ्गा ? सप्ताकृतिः जाता

तात्पर्यम्

भगीरथस्य प्रार्थनया तुष्टः परमेश्वरः गङ्गां भूमौ क्षिप्तवान् । सप्तसु धारासु विभक्ता गङ्गा हिमालयशिखरे पपात, तस्याः बिन्दवः भगीरथस्य तपःक्षेत्रेऽपि पतिताः, यैः बिन्दुसरोवरनामकं पुण्यतीर्थं बभूव ।

पदविवरणम्

  • सप्ताकृतिः = सप्त आकृतयः यस्याः सा
  • धरमूर्धनि = धरस्य मूर्धा, तस्मिन् । नकारान्तः, पुं., स.वि., ए.व. । “महीध्रे शिखरि-क्ष्माभृद्-अहार्य-धर-पर्वताः” (अमरः)
  • स्तुत्या = इकारान्तः, स्त्री., तृ.वि., ए.व. । स्तु “ष्टुञ् स्तुतौ” + क्तिन् । “स्तवः स्तोत्रं स्तुतिर्नुतिः”

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • गङ्गा = Ganga
  • क्षिप्ता = becoming one who was released (क्षिप्त)
  • तेन = by him, by Lord Shiva
    • प्रसन्नेन = by him who had become happy
      • स्तुत्या = due to Bhagiratha’s eulogy
    • सप्ताकृतिः जाता = she who had become (जात) a person with seven (सप्त) forms (आकृति), i.e., split into seven currents
      • न्यपतत् = fell
        • धरमूर्धनि = on the forehead (मूर्धन्) of the mountain (धर), i.e., on the tip of the Himalayas
        • बिन्दुसरसि अपि = and on the Bindu lake [ where Bhagiratha had performed his penance ]
  1. श्लोकः

मूलपाठः

तासु प्राचीं गतास्तिस्रस्तिस्रः प्राचेतसीं दिशम् ।
अन्या पितृक्रियोद्युक्तभगीरथपथानुगा ॥ ८६ ॥

पदच्छेदः

तासु, प्राचीम्, गताः, तिस्रः, तिस्रः, प्राचेतसीम्, दिशम्, अन्या, पितृ-क्रिया-उद्युक्त-भगीरथ-पथ-अनुगा

अन्वयार्थः

  • गताः = प्रावहन्
  • तिस्रः = ह्रादिनी-पावनी-नलिनीनामिकाः
  • तासु = गङ्गायाः सप्तसु धारासु
  • प्राचीम् = पूर्वां दिशम् उद्दिश्य
  • (तासु) तिस्रः = सुचक्षुः, सीता, सिन्धुः च
  • प्राचेतसीम् दिशम् = पश्चिमां दिशम्
  • (जाता) = अभूत्
  • अन्या = गङ्गायाः सप्तमी धारा
  • पितृक्रियोद्युक्तभगीरथपथानुगा = सगराणां तर्पणं चिकीर्षतः भगीरथस्य मार्गम् अनुसरमाणा

अन्वयः

तासु तिस्रः प्राचीं गताः, तिस्रः प्राचेतसीं दिशं गताः । अन्या पितृक्रियोद्युक्त-भगीरथपथानुगा [जाता]

आकाङ्क्षा

  • गताः
    • काः गताः ? तिस्रः
      • कासु तिस्रः ? तासु
    • कुत्र गताः ? प्राचीम्
    • पुनः काः गताः ? (तासु) तिस्रः
    • कुत्र गताः ? प्राचेतसीम् दिशम्
  • (जाता)
    • का जाता ? अन्या
    • कीदृशी जाता ? पितृक्रियोद्युक्तभगीरथपथानुगा

तात्पर्यम्

गङ्गायाः सप्तसु धारासु तिस्रः (ह्रादिनी, पावनी, नलिनी) पूर्वां दिशं गतवत्यः । तिस्रः (सुचक्षुः, सीता, सिन्धुः) पश्चिमां दिशं गतवत्यः । सप्तमी धारा पितॄणां तर्पणं चिकीर्षतः भगीरथस्य मार्गम् अनुसृतवती ।

पदविवरणम्

  • प्राची = “प्राची-अवाची-प्रतीच्यः ताः पूर्वदक्षिणपश्चिमाः” (अमरः)
  • प्राचेतसी = प्रचेतसः इयम् । “प्रचेता वरुणः पाशी” (अमरः) ।
  • दिशम् = शकारान्तः, स्त्री., द्वि.वि., ए.व. । “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” (अमरः) ।
  • पितृ-क्रिया-उद्युक्त-भगीरथ-पथ-अनुगा
    • पितृक्रिया = पितॄणां क्रिया ।
    • पितृक्रियोद्युक्तः = पितृक्रियायाम् उद्युक्तः ।
    • पितृ-क्रिया-उद्युक्त-भगीरथः = पितृक्रियोद्युक्तः भगीरथः ।
    • पितृ-क्रिया-उद्युक्त-भगीरथ-पन्थाः = पितृक्रियोद्युक्तभगीरथस्य पन्थाः ।
    • अनुगा = अनुगच्छतीति ।
    • पितृ-क्रिया-उद्युक्त-भगीरथ-पथ-अनुगा = पितृ-क्रिया-उद्युक्त-भगीरथ-पथः अनुगा ।

रामायणप्रसङ्गः

  • अनेन तोषितश्चाभूदत्यर्थं रघुनन्दन । विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ॥
  • तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे । ह्लादिनी पावनी चैव नलिनी च तथाऽपरा । तिस्रः प्राचीं दिशं जग्मुः गङ्गाश्शिवजलाश्शुभाः ॥
  • सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी । तिस्रस्त्वेता दिशं जग्मुः प्रतीचीं तु शुभोदकाः ॥
  • सप्तमी चान्वगात्तासां भगीरथमथो नृपम् । भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः । प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ॥

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • गताः = went
  • तिस्रः = three namely Hraadinee, Paavanee and Nalinee
  • तासु = among them, i.e., among the seven currents of Ganga
  • प्राचीम् = towards East
  • (तासु) तिस्रः = three Suchakshuh, Seetha, Sindhu
  • प्राचेतसीम् दिशम् = towards West
  • (जाता) = became
  • अन्या = the other one, i.e., the seventh stream
  • पितृक्रियोद्युक्तभगीरथपथानुगा = one who followed (अनुग) the path (पथिन्) of Bhageeratha (भगीरथ) who was eager (उद्युक्त) to do the tarpana actions (क्रिय) for his forefathers (पितृ).
  1. श्लोकः

मूलपाठः

सैषा भागीरथी जह्नोः सत्रक्षेत्रं समावृणोत् ।
तां स पीत्वा ततः शान्तो जहौ श्रोत्रेण वर्त्मना ॥ ८७ ॥

पदच्छेदः

सा, एषा, भागीरथी, जह्नोः, सत्र-क्षेत्रम्, समावृणोत्, ताम्, सः, पीत्वा, ततः, शान्तः, जहौ, श्रोत्रेण, वर्त्मना

अन्वयार्थः

  • समावृणोत् = आवृतवती
  • सत्रक्षेत्रम् = यागभूमिम्
  • जह्नोः = जह्नुमहर्षेः
  • सा एषा भागीरथी = भगीरथम् अनुगच्छन्ती गङ्गा
  • जहौ = त्यक्तवान्
  • ताम् = गङ्गाम्
  • सः = जह्नुः
  • पीत्वा = निपीय
  • ततः = गङ्गायां समन्ततः पीतायाम्
  • शान्तः = भगीरथस्तुत्या कोपान्मुक्तः
  • वर्त्मना = मार्गेण
  • श्रोत्रेण = कर्णेन

अन्वयः

सैषा भागीरथी जह्नोः सत्रक्षेत्रं समावृणोत् । सः तां पीत्वा ततः शान्तः श्रोत्रेण वर्त्मना जहौ ।

आकाङ्क्षा

  • समावृणोत्
    • कं समावृणोत् ? सत्रक्षेत्रम्
      • कस्य सत्रक्षेत्रम् ? जह्नोः
    • का समावृणोत् ? सा एषा भागीरथी
  • जहौ
    • कां जहौ ? ताम्
    • कः जहौ ? सः
    • किं कृत्वा जहौ ? पीत्वा
    • कदा जहौ ? ततः
    • कथम्भूतः सन् जहौ ? शान्तः
    • केन जहौ ? वर्त्मना
      • केन वर्त्मना ? श्रोत्रेण

तात्पर्यम्

भगीरथम् अनुगच्छन्ती गङ्गा मार्गे जह्नुमहर्षेः यागभूमिं जलैः आप्लावितवती । क्रुद्धः जह्नुः गङ्गां समन्ततः पीतवान् । ततश्च भगीरथस्य स्तुत्या प्रसन्नः तां कर्णमार्गेण बहिः त्यक्तवान् ।

पदविवरणम्

  • भागीरथी = भगीरथस्य अपत्यं स्त्री । भगीरथ + अण् + ङीप् ।
  • समावृणोत् = सम् + आ + वृ “वृञ् वरणे” – लङ्, प्र.वि., ए.व.
  • जहौ = हा “ओँहाक् त्यागे” – लिट्, प्र.वि., ए.व.
  • श्रोत्रेण = अकारान्तः, नपुं., तृ.वि., ए.व. । “कर्णशब्दग्रहौ श्रोत्रं” (अमरः)
  • वर्त्मना = नकारान्तः, पुं., तृ.वि., ए.व. । “अयनं वर्त्म-मार्ग-अध्व-पन्थानः पदवी सृतिः” (अमरः)

रामायणप्रसङ्गः

  • यतो भगीरथो राजा ततो गङ्गायशस्विनी । जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी ॥
  • ततो हि यजमानस्य जह्नोरद्भुतकर्मणः । गङ्गा सम्प्लावयामास यज्ञवाटं महात्मनः ॥
  • तस्यावलेपनं ज्ञात्वा क्रुद्धो यज्वा तु राघव । अपिबच्च जलं सर्वं गङ्गायाः परमाद्भुतम् ॥
  • ततो देवास्सगन्धर्वा ऋषयश्च सुविस्मिताः । पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।
  • ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् पुनः । तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • सा एषा भागीरथी = She, Bhaageerathee, i.e., Bhageeratha’s daughter
    • समावृणोत् = surrounded and flooded
    • सत्रक्षेत्रम् = the Yaaga mandapa
    • जह्नोः = of Janhu (जह्नु) Maharishi
      • [ Note: The pronounciation of ह् followed by न् or म् is done in the reverse order. Hence it is written as jahnuh and pronounced as janhuh ]
    • सः = He, Jahhu Maharishi
      • पीत्वा = after having drunk (पा)
        • ताम् = her, Ganga
      • ततः = after that i.e., after drinking
        • शान्तः = becoming one who is pacified (शान्त), due to the pleading of Bhageeratha
        • जहौ = released
        • ताम् = her, Ganga
        • श्रोत्रेण वर्त्मना = by the path (वर्त्मन्) of his ear (श्रोत्र)
  1. श्लोकः

मूलपाठः

तया तटिन्या जाह्नव्या प्रापयन्त्रिदिवं पितॄन्
भगीरथः पुरं प्राप परिपूर्णमनोरथः
॥ ८८ ॥
पदच्छेदः

तया, तटिन्या, जाह्नव्या, प्रापयन्, त्रिदिवम्, पितॄन्, भगीरथः, पुरम्, प्राप, परिपूर्ण-मनो-रथः

अन्वयार्थः

  • प्राप = प्राप्तवान्
  • पुरम् = नगरम्
  • भगीरथः परिपूर्णमनोरथः = सफलः
  • प्रापयन् = नयन्
  • पितॄन् = सगरपुत्रान्
  • त्रिदिवम् = स्वर्गम्
  • तटिन्या = नद्या
  • तया जाह्नव्या = जह्नोः कर्णान्निर्गतया गङ्गया

अन्वयः

तया जाह्नव्या तटिन्या पितॄन् त्रिदिवं प्रापयन् भगीरथः परिपूर्णमनोरथः पुरं प्राप ।

आकाङ्क्षा

  • प्राप
    • कं प्राप ? पुरम्
    • कः प्राप ? भगीरथः
      • कीदृशः भगीरथः ? परिपूर्णमनोरथः
        • कथम्भूतः सन् परिपूर्णमनोरथः ? प्रापयन्
          • कान् प्रापयन् ? पितॄन्
          • कं प्रापयन् ? त्रिदिवम्
          • कया प्रापयन् ? तटिन्या
            • कया तटिन्या ? तया जाह्नव्या

तात्पर्यम्

जह्नोः कर्णान्निर्गता गङ्गा “जाह्नवी” इति ख्याता । तां नदीं पातालं नीत्वा सगरपुत्राणां सद्गतिं साधयित्वा भगीरथः सफलसङ्कल्पः सन् स्वनगरं प्रत्यगच्छत् ।

पदविवरणम्

  • तटिन्या = ईकारान्तः, स्त्री, तृ.वि., ए.व. । “तटिनी ह्रादिनी धुनी” (अमरः)
  • जाह्नव्या = जह्नोः अपत्यं स्त्री । जह्नु + अण् + ङीप् ।
  • प्रापयन् = प्र + आप् “आपॢँ व्याप्तौ” + णिच् + शतृ । तकारान्तः, पुं., प्र.वि., ए.व. ।
  • त्रिदिवम् = अकारान्तः, पुं., द्वि.वि., ए.व. । “स्वरव्ययं स्वर्ग-नाक-त्रिदिव-त्रिदशालयाः” (अमरः)
  • परिपूर्णमनोरथः = परिपूर्णः मनोरथः यस्य सः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • भगीरथः परिपूर्णमनोरथः = Bhageeratha (भगीरथ), one whose desire (मनोरथ) has been fulfilled (परिपूर्ण)
    • प्रापयन् = having sent
      • पितॄन् = the fathers (पितॄन्) i.e., his forefathers
      • त्रिदिवम् = to the Svarga
      • तटिन्या = by that river
        • तया जाह्नव्या = by that Janhavi
      • प्राप = reached
        • पुरम् = the city (पुर), Ayodhya

कक्ष्या ३२ – २०.०८.२०१८

गद्यम्

मूलपाठः

अथ दाशरथिराकर्णितभागीरथीकथस्तां सरितं विलङ्घ्य विशालां विलोक्य पुरीं कस्येयमिति गाधिनन्दनमपृच्छत् ।

पदच्छेदः

अथ, दाशरथिः, आकर्णित-भागीरथी-कथः, ताम्, सरितम्, विलङ्घ्य, विशलाम्, विलोक्य, पुरीम्, कस्य, इयम्, इति, गाधि-नन्दनम्, अपृच्छत् ।

अन्वयार्थः

  • अथ = तदनन्तरम्
  • दाशरथिः = श्रीरामः
  • आकर्णित-भागीरथी-कथः = श्रुतगङ्गाप्रसङ्गः
  • तां सरितम् = गङ्गानदीम्
  • विलङ्घ्य = सन्तीर्य
  • विशालाम् = विशालानाम्नीम्
  • पुरीम् = नगरीम्
  • विलोक्य = अवलोक्य
  • कस्य इयम् इति = कस्य राज्ञः एषा नगरी इति
  • गाधिनन्दनम् = विश्वामित्रम्
  • अपृच्छत् = पृष्टवान्

अन्वयः

अथ आकर्णित-भागीरथी-कथः दाशरथिः, तां सरितं विलङ्घ्य, विशलां पुरीं विलोक्य, कस्य इयम् इति, गाधि-नन्दनम् अपृच्छत् ।

आकाङ्क्षा

  • अपृच्छत्
    • कम् अपृच्छत् ? गाधि-नन्दनम्
    • कः अपृच्छत् ? दाशरथिः
      • कीदृशः दाशरथिः ? आकर्णित-भागीरथी-कथः
    • कदा अपृच्छत् ? अथ
    • किं कृत्वा अपृच्छत् ? विलङ्घ्य
      • कां विलङ्घ्य ? ताम् सरितम्
    • किं कृत्वा अपृच्छत् ? विलोक्य
      • किं विलोक्य ? पुरीम्
        • कां पुरीम् ? विशलाम्
      • किमिति अपृच्छत् ? कस्य इयम् इति

तात्पर्यम्

श्रीरामः गङ्गायाः कथां श्रुत्वा तां नदीं सन्तीर्य विशालानाम्नीं नगरीं प्राप्य तस्याः विषये ज्ञातुं विश्वामित्रं पृष्टवान् ।

पदविवरणम्

  • आकर्णितभागीरथीकथः
    • भागीरथीकथा = भागीरथ्याः कथा,
    • आकर्णितभागीरथीकथः = आकर्णिता भागीरथीकथा येन सः
  • विलङ्घ्य = वि + लन्घ् “लघिँ गतौ” + ल्यप् । लट्लकारे लङ्घते, लङ्घेते, लङ्घन्ते ।
  • अपृच्छत् = प्रछ् “प्रछँ ज्ञीप्सायाम्” – लङ्., प्र.पु., ए.व.

Word-Meaning

  • अथ = Then on,
  • दाशरथिः = Sriram, the son of Dasharatha
  • आकर्णित-भागीरथी-कथः = being one who has listened to the story of Ganga
    • विलङ्घ्य = upon crossing
      • तां सरितम् = that river, i.e., river Ganga
    • विलोक्य = upon seeing
      • पुरीम् = the city
      • विशालाम् = named Vishaala
    • अपृच्छत् = asked
      • गाधिनन्दनम् = Vishvamitra, the son of Gaadhi
      • इति = thus
        • कस्य इयम् = whose is this ?

गद्यम्

मूलपाठः

सोऽप्येवमवोचत् ।

पदच्छेदः

सः, अपि, एवम्, अवोचत्

अन्वयार्थः

  • सः अपि = विश्वामित्रः अपि
  • एवम् = इत्थम्
  • अवोचत् = अकथयत्

अन्वयः

सः अपि एवम् अवोचत् ।

आकाङ्क्षा

  • अवोचत्
    • कः अपि अवोचत् ? सः अपि
    • कथम् अवोचत् ? एवम्

तात्पर्यम्

विश्वामित्रः अपि इत्थम् अकथयत् ।

पदविवरणम्

  • अवोचत् = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लुङ् लकारः, उभयपादि, अत्र परस्मैपदे प्र.पु., ए.व. । लिट् परस्मैपदे उवाच, ऊचतुः, ऊचुः ।

Word-Meaning

  • सः अपि = He, Vishvamitra also
  • एवम् = in this way
  • अवोचत् = spoke

गद्यम्

मूलपाठः

पुरा खलु सुरासुराणां सुधानिमित्तं मिथो विरोधे प्रवृत्ते मायां विश्वमोहिनीं विश्वरूपः प्रदर्श्य दैतेयनिधनं शतधारपाणिना कारयामास ।

पदच्छेदः

पुरा, खलु, सुर-असुराणाम्, सुधा-निमित्तम्, मिथः, विरोधे, प्रवृत्ते, मायाम्, विश्व-मोहिनीम्, विश्व-रूपः, प्रदर्श्य, दैतेय-निधनम्, शतधार-पाणिना, कारयामास ।

अन्वयार्थः

  • पुरा खलु = प्राक्काले
  • सुरासुराणाम् = देवानां दानवानां च
  • सुधानिमित्तम् = अमृतस्य कारणेन
  • मिथः = परस्परम्
  • विरोधे = कलहे
  • प्रवृत्ते [सति] = सञ्जाते
  • मायाम् = इन्द्रजालक्रियाम्
  • विश्वमोहिनीम् = जगन्मोहकारिणीम्
  • विश्वरूपः = महाविष्णुः
  • प्रदर्श्य = दर्शयित्वा
  • शतधारपाणिना = वज्रायुधधरेण इन्द्रेण
  • दैतेयनिधनम् = असुराणां विनाशं
  • कारयामास = कारितवान्

अन्वयः

पुरा खलु, विश्व-रूपः, सुर-असुराणां सुधा-निमित्तं मिथः विरोधे प्रवृत्ते (सति), विश्व-मोहिनीं मायां प्रदर्श्य, शतधार-पाणिना दैतेय-निधनं कारयामास ।

आकाङ्क्षा

  • कारयामास
    • कः कारयामास ? विश्वरूपः
    • केन कारयामास ? शतधारपाणिना
    • किं कारयामास ? दैतेयनिधनम्
    • कदा कारयामास ? विरोधे प्रवृत्ते [सति]
      • कथं प्रवृत्ते [सति] ? मिथः
      • केषां प्रवृत्ते [सति] ? सुरासुराणाम्
      • कदा प्रवृत्ते [सति] ? पुरा खलु
      • किमर्थं प्रवृत्ते [सति] ? सुधानिमित्तम्
    • किं कृत्वा कारयामास ? प्रदर्श्य
      • कां प्रदर्श्य ? मायाम्
        • कीदृशीं मायाम् ? विश्वमोहिनीम्

तात्पर्यम्

प्राक्काले समुद्रमथनसमये अमृतप्राप्तये देवासुराणां परस्परं कलहे सञ्जाते मोहिनीरूपं धृत्वा विष्णुः देवेभ्यः अमृतं प्रापय्य ततः प्रवृत्ते युद्धे देवेन्द्रस्य जयं प्रापितवान् ।

पदविवरणम्

  • सुरासुराणाम् = सुराश्च असुराश्च सुरासुराः, अथवा सुरैः सङ्गताः असुराः (मयूरव्यंसकादिः), तेषाम् [Those who have a permanent enemity, like in the case of crows and owls, there can be only samaahara dvandvah काकोलुकम्. So this can be taken as a special type of Karmadhaara Samaasa classified under the miscellaneous types of samaasas called मयूरव्यंसकादिः. Another argument is that their enemity is not their nature by birth. So it is possible to do itaretara dvandva samaasa also].
  • दैतेयनिधनम् = दितेः अपत्यानि पुमांसः दैतेयाः । दैतेयानां निधनम् । “असुरा दैत्य-दैतेय-दनुज-इन्द्रारि-दानवाः” (अमरः)
  • शतधारपाणिना
    • शतं धाराः अस्य इति शतधारं वज्रम् ।
    • शतधारपाणिना = शतधारं पाणौ यस्य सः, तेन । इकारान्तः, पुं., तृ.वि., ए.व. ।
  • कारयामास = कृ “डुकृञ् करणे” + णिच्, लिट्., प्र.पु., ए.व.

Word-Meaning

  • पुरा खलु = once upon a time
  • मिथः विरोधे प्रवृत्ते [सति] = when mutual (मिथः) enemity (विरोध) happened (प्रवृत्त)
    • सुरासुराणाम् = of the Devas and Asuras
    • सुधानिमित्तम् = for the sake (निमित्तम्) of the nectar (सुधा)
  • विश्वरूपः = Vishvaroopa, Vishnu
    • प्रदर्श्य = upon showing
      • मायाम् = Maayaa
      • विश्वमोहिनीम् = She who deceives (मोहिनी) the entire world (विश्व)
    • कारयामास = made happen
      • दैतेयनिधनम् = the destruction (निधन) of the asuras (दैतेय)
      • शतधारपाणिना = by Indra (शतधारपाणि), one who has in his hand (पाणि) the thunder bolt (शतधार), that which has a hundred (शत) edges (धार)

गद्यम्

मूलपाठः

तेषां जननी दितिरतिवेलमन्युः शतमन्युशासनं कमपि पुत्रं लब्धुकामा पत्युर्मारीचस्य वचनात्कुशप्लवे सुचिरं तपश्चचार ।

पदच्छेदः

तेषाम्, जननी, दितिः, अतिवेल-मन्युः, शत-मन्यु-शासनम्, कम्, अपि, पुत्रम्, लब्धुकामा, पत्युः, मारीचस्य, वचनात्, कुशप्लवे, सु-चिरम्, तपः, चचार

अन्वयार्थः

  • तेषाम् = दैतेयानाम्
  • जननी = माता
  • दितिः = दितिनाम्नी कश्यपपत्नी
  • अतिवेलमन्युः = अत्यन्तं क्रुद्धा
  • शतमन्युशासनम् = इन्द्रघातिनम्
  • कमपि पुत्रम् = बलवन्तं तनयम्
  • लब्धुकामा [सती] = प्राप्तुम् इच्छन्ती
  • पत्युः = भर्तुः
  • मारीचस्य = मरीचिपुत्रस्य कश्यपस्य
  • वचनात् = आदेशात्
  • कुशप्लवे = कुशप्लवनामके तपोवने (विशालानगरं यत्र विद्यते तत्स्थले)
  • सुचिरम् = बहुकालम्
  • तपः चचार = तपश्चर्यां कृतवती

अन्वयः

तेषाम् जननी दितिः अतिवेल-मन्युः, शत-मन्यु-शासनं कम् अपि पुत्रं लब्धुकामा, पत्युः मारीचस्य वचनात्, कुशप्लवे सुचिरम् तपः चचार

आकाङ्क्षा

  • चचार
    • किं चचार ? तपः
    • कियत् कालं चचार ? सुचिरम्
    • कुत्र चचार ? कुशप्लवे
    • कस्मात् कारणात् चचार ? वचनात्
      • कस्य वचनात् ? पत्युः
        • कस्य नामस्य पत्युः ? मारीचस्य
      • का चचार ? दितिः
        • का दितिः ? जननी
          • केषां जननी ? तेषाम्
        • कथंभूता दितिः ? अतिवेल-मन्युः
        • कथंभूता दितिः ? लब्धुकामा
          • कं लब्धुकामा ? पुत्रम्
            • कीदृशं पुत्रम् ? कम् अपि
            • पुनः कीदृशं पुत्रम् ? शतमन्यु-शासनम्

तात्पर्यम्

पुत्राणां मारणेन क्रुद्धा दितिः इन्द्रघातिनं बलवन्तं पुत्रमपेक्ष्य भर्तुः कश्यपस्य आदेशानुगुणं कुशप्लवनामके तपोवने बहुकालं तपः कृतवती ।

पदविवरणम्

  • अतिवेलमन्युः
    • वेलाम् अतिक्रान्तः अतिवेलः ।
    • अतिवेलमन्युः = अतिवेलः मन्युः यस्याः सा
  • शतमन्युशासनम्
    • शतं मन्यवः यस्य सः शतमन्युः ।
    • शतमन्युशासनम् = शतमन्योः शासनः, तम् । “मन्युर्दैन्ये क्रतौ क्रुधि” (अमरः)
  • लब्धुकामा = लब्धुं कामः यस्याः सा
  • मारीचस्य = मरीचेः अपत्यं पुमान्, मरीचि + अण्

Word-Meaning

  • दितिः = Kashyapaa’s wife named Diti
    • जननी = the mother
      • तेषाम् = of the asuras
    • अतिवेलमन्युः = becoming one whose anger (मन्यु) had crossed (अतिक्रान्त) the boundaries (वेला)
    • लब्धुकामा [सती] = desiring to obtain
      • कमपि पुत्रम् = some son
        • शतमन्युशासनम् = one who will be the killer of Indra
      • वचनात् = as per the words / commands
        • पत्युः = of her husband
          • मारीचस्य = of Kaashyapa, i.e., Maarica (मारीच), i.e., of the son of Marici or Prajaapati
        • तपः चचार = performed penance
          • सुचिरम् = for a long time
          • कुशप्लवे = in the tapovana called Kushaplava (the place that Rama was present at that time)

गद्यम्

मूलपाठः

तां कैतवेन शुश्रूषमाणः शतधारपाणिः पादकलितकचकलापामापन्ननिद्रामपवित्रेति निर्वर्ण्यावगाहिततदीयजठरः सप्तधा गर्भं निर्भिद्य निर्जगाम ।

पदच्छेदः

ताम्, कैतवेन, शुश्रूषमाणः, शतधार-पाणिः, पाद-कलित-कच-कलापाम्‌, आपन्न-निद्राम्, अपवित्रा, इति, निर्वर्ण्य, अवगाहित-तदीय-जठरः, सप्तधा, गर्भम्, निर्भिद्य, निर्जगाम ।

अन्वयार्थः

  • ताम् = तपश्चरन्तीं दितिम्
  • कैतवेन = कपटेन
  • शुश्रूषमाणः = सेवमानः
  • शतधारपाणिः = इन्द्रः
  • पादकलितकचकलापाम् = (शय्यायां) पादस्थाने निक्षिप्तमस्तकाम्
  • आपन्ननिद्राम् = प्राप्तस्वापाम्
  • अपवित्रा = अशुचिः इति
  • निर्वर्ण्य = विलोक्य
  • अवगाहिततदीयजठरः = तस्याः उदरं प्रविश्य
  • गर्भम् = पिण्डम्
  • सप्तधा = सप्तभिः प्रकारैः
  • निर्भिद्य = विदार्य
  • निर्जगाम = निर्गतः

अन्वयः

ताम् कैतवेन शुश्रूषमाणः शतधार-पाणिः, पाद-कलित-कच-कलापाम्‌ आपन्न-निद्राम् अपवित्रा इति निर्वर्ण्य, अवगाहित-तदीय-जठरः सप्तधा गर्भं निर्भिद्य, निर्जगाम ।

आकाङ्क्षा

  • निर्जगाम
    • कः निर्जगाम ? शतधार-पाणिः
      • कीदृशः शतधार-पाणिः ? शुश्रूषमाणः
        • कथं शुश्रूषमाणः ? कैतवेन
        • कां शुश्रूषमाणः ? ताम्
      • किं कृत्वा निर्जगाम ? निर्वर्ण्य
        • किमिति निर्वर्ण्य ? अपवित्रा इति
        • कथंभूतां ताम् ? आपन्न-निद्राम्
        • पुनः कथंभूतां ताम् ? पाद-कलित-कच-कलापाम्‌
      • पुनः किं कृत्वा निर्जगाम ? निर्भिद्य
        • किं निर्भिद्य ? गर्भम्
        • कथं निर्भिद्य ? सप्तधा
        • कीदृशः भूत्वा निर्भिद्य ? अवगाहित-तदीय-जठरः

तात्पर्यम्

आपन्नसत्त्वां दितिं कपटेन सेवमानः इन्द्रः कदाचित् शय्यायां पादस्थाने शिरो निधाय सुप्तां ताम् अशुचिरिति वीक्ष्य तस्याः उदरं प्रविश्य पिण्डं सप्तधा विदार्य निर्गतः ।

पदविवरणम्

  • कैतवेन – अकारान्तः, नपुं, तृ.वि., ए.व. । “कपटोऽस्त्री व्याज-दम्भ-उपधयः छद्म-कैतवे” (अमरः)
  • शुश्रूषमाणः – श्रु “श्रु श्रवणे” + सन् + शानच्
    • श्रुधातुः परस्मैपदिधातुः । लट्लकरे प्रथमपुरुषैकवचने श्रुणोति इति रूपम् ।
    • श्रोतुम् इच्छति इत्यस्मिन् अर्थे श्रु-धातोः सन्-प्रत्ययस्य योजनेन शुश्रूष इति आतिदेशिकधातुः सिद्धः
    • एतद् आत्मनेपदं भवति । तस्मात् शुश्रूषते इति प्रयोगः भवति ।
  • शतधार-पाणिः = शतधारं पाणौ यस्य सः
  • पादकलितकचकलापाम्
    • पादकलितः = पादे कलितः
    • कचकलापः = कचस्य कलापः
    • पादकलितकचकलापाम् पादकलितः कचकलापः यस्याः सा, ताम्
  • आपन्ननिद्राम् = आपन्ना निद्राम्
  • निर्वर्ण्य = निर् + वर्ण “वर्ण वर्णक्रियाविस्तारगुणवचनेषु” + ल्यप्
  • अवगाहिततदीयजठरः
    • अवगाहितम् = अव + गाह् “गाहूँ॒ विलोडने” + क्त, नपु., द्वि.वि., ए.व. । लटि गाहते
    • तदीयम् = तस्याः इदं तदीयम् ।
    • तदीयजठरम् = तदीयं जठरम् ।
    • अवगाहिततदीयजठरः = अवगाहितं तदीयजठरं येन सः ।
  • निर्भिद्य = निर् + भिद् “भिदिँर् विदारणे” + ल्यप्

Word-Meaning

  • शतधारपाणिः = Indra
    • कैतवेन = by deceitful means
    • शुश्रूषमाणः = becoming one who was serving
      • ताम् = her, Diti
    • निर्वर्ण्य = upon seeing
    • आपन्ननिद्राम् = Her, who had slept
      • पादकलितकचकलापाम् = becoming one whose arrangement (कलाप) of hair (कच) had been placed (कलित) in the legs’ (पाद) place (i.e., Diti had slept violating the rule of the proper direction to keep the head).
      • अपवित्रा = (and hence) becoming one who is impure (due to this wrong act)
    • अवगाहिततदीयजठरः = becoming one who has entered (अवगाहित) her (तदीय) womb (जठर)
      • निर्भिद्य = having cut
        • गर्भम् = embryo
        • सप्तधा = in seven ways
      • निर्जगाम = left that place

गद्यम्

मूलपाठः

दितिरपि विदिततनयवृत्तान्ता तान्यपि खण्डान्याखण्डलेन सप्तमरुतः कारयित्वा त्रिविष्टपं प्रविष्टा ।

पदच्छेदः

दितिः, अपि, विदित-तनय-वृत्तान्ता, तानि, अपि, खण्डानि, आखण्डलेन, सप्त-मरुतः, कारयित्वा, त्रिविष्टपम्, प्रविष्टा

अन्वयार्थः

  • दितिः अपि
  • विदिततनयवृत्तान्ता = गर्भभेदनं ज्ञात्वा
  • तानि खण्डानि = गर्भशकलानि
  • आखण्डलेन = इन्द्रेण
  • सप्त-मरुतः = वाताभिमानिदेवताः
  • कारयित्वा = विधाप्य
  • त्रिविष्टपम् = स्वर्गम्
  • प्रविष्टा = गता

अन्वयः

दितिः अपि विदित-तनय-वृत्तान्ता तानि अपि खण्डानि आखण्डलेन सप्त-मरुतः कारयित्वा त्रिविष्टपम् प्रविष्टा ।

आकाङ्क्षा

  • प्रविष्टा
    • का प्रविष्टा ? दितिः अपि
      • कथंभूता दितिः ? विदित-तनय-वृत्तान्ता
    • कुत्र प्रविष्टा ? त्रिविष्टपम्
    • किंकृत्वा प्रविष्टा ? कारयित्वा
      • कानि कारयित्वा ? तानि अपि
        • तानि कानि ? खण्डानि
      • कथं कारयित्वा ? सप्त-मरुतः
      • केन कारयित्वा ? आखण्डलेन

तात्पर्यम्

इन्द्रस्य गमनानन्तरं दितिः गर्भस्य विच्छेदनं विज्ञाय कोपं सन्त्यज्य इन्द्रद्वारा गर्भशकलानि वाताभिमानि-मरुद्देवताः कारयित्वा स्वयं स्वर्गं प्रविष्टा ।

पदविवरणम्

  • विदिततनयवृत्तान्ता
    • तनयवृत्तान्तः = तनयस्य वृत्तान्तः
    • विदिततनयवृत्तान्ता = विदितः तनयवृत्तान्तः यया सा
  • आखण्डलेन – “आखण्डलः सहस्राक्षः” (अमरः)

अन्य विशयः

  • सप्त मरुतः (पुराणेषु यत् अस्ति)
    • आवहः प्रवहश्चैव संवहश्चोद्वहस्तथा । विवहाख्यः परिवहः परावह इति क्रमात् ॥
    • सप्तैते मारुतस्कन्धाः महर्षिभिरुदाहृताः । आवहो वर्तयेद्वायुर्मेघोल्कावृष्टिविद्युतः ।
    • वर्तयेत्प्रवहश्चाथ तथा मार्ताण्डमण्डलम् ।वर्तयेदुद्वहश्चाथ तथा नक्षत्रमण्डलम् ।
    • संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । पञ्चमो विवहाख्यस्तु तथैव ग्रहमण्डलम् ।
    • सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्ध्रुवमण्डलम् ॥

Word-Meaning

  • दितिः अपि = Even Diti
    • विदिततनयवृत्तान्ता = becoming one who knew (विदित) the account (वृत्तान्त) of her son (तनय)
    • कारयित्वा तानि खण्डानि = upon getting those (तत्) pieces (खण्ड) of embryo be made (कारय)
      • सप्त-मरुतः = the seven (सप्त) Marut (मरुत्) devatas, i.e., the wind gods
      • आखण्डलेन = by Indra (आखण्डल)
    • प्रविष्टा = went
      • त्रिविष्टपम् = to Swarga
  1. श्लोकः

मूलपाठः

ततः ।

अलम्बुसायामिक्ष्वाकोर्जातः कश्चिन्महीपतिः ।
विशालेति स्वनाम्नात्र विशालां विदधे पुरीम् ॥ ८९ ॥

पदच्छेदः

अलम्बुसायाम्, इक्ष्वाकोः, जातः, कश्चित्, महीपतिः, विशाला, इति, स्व-नाम्ना, अत्र, विशालाम्, विदधे, पुरीम्

अन्वयार्थः

  • ततः = दितेः स्वर्गप्रवेशानन्तरम्
  • विदधे = चकार
  • पुरीम् = नगरीम्
  • विशालाम् = विस्तृताम्
  • स्वनाम्ना = स्वस्य नामधेयेन विख्याताम्
  • विशाला इति
  • अत्र = दितेः तपोभूमौ
  • कश्चित् महीपतिः = नृपः
  • जातः = उद्भूतः
  • इक्ष्वाकोः = रामस्य पूर्वजात् इक्ष्वाकुमहाराजात्
  • अलम्बुसायाम् = अलम्बुसानाम्न्यां स्वभार्यायाम्

अन्वयः

इक्ष्वाकोः अलम्बुसायां जातः कश्चित् महीपतिः अत्र स्वनाम्ना विशाला इति विशालां पुरीं विदधे ।

आकाङ्क्षा

  • ततः विदधे
    • कां विदधे ? पुरीम्
      • कीदृशीं पुरीम् ? विशालाम्
      • केन [अङ्किताम्] पुरीम् ? स्वनाम्ना
        • केन नाम्ना ? विशाला इति
      • कुत्र विदधे ? अत्र
      • कः विदधे ? कश्चित् महीपतिः
        • कीदृशः महीपतिः ? जातः
          • कस्मात् जातः ? इक्ष्वाकोः
          • कस्यां जातः ? अलम्बुसायाम्

तात्पर्यम्

दितेः स्वर्गप्रवेशानन्तरं तस्याः तपोभूमौ इक्ष्वाकु-अलम्बुसयोः पुत्रः विशालनामको महाराजः स्वस्य नाम्ना अङ्कितां “विशाला”नाम्नीं विस्तृतां नगरीं निर्मितवान् ।

पदविवरणम्

  • इक्ष्वाकोः = उकारान्तः पुं., प.वि., ए.व.
  • महीपतिः = मह्याः पतिः ।
  • विदधे = वि + धा “डुधाञ् धारणपोषणयोः” – उभय. अत्र आत्मनेपदे लिट्, प्र.पु., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • ततः = Afterwards, after Diti went to svarga
  • अत्र = In that place
  • कश्चित् महीपतिः = some king
  • जातः = one who was born
  • इक्ष्वाकोः = from Ikshvaaku
  • अलम्बुसायाम् = in his wife Alambusaa
  • विदधे = made
    • पुरीम् = a city
      • विशालाम् = one that is widespread
    • स्वनाम्ना = by his own name, Vishala
      • विशाला इति = as Vishaalaa

गद्यम्

मूलपाठः

तदनु तद्वास्तव्येन सुमतिनाम्ना नृपतिना कृतातिथ्यः सराजपुत्रो भगवान्विश्वामित्रस्तत्र निशीथिनीं नीत्वा मिथिलां प्रति प्रस्थितः प्रतपसामुत्तमस्य गौतमस्याश्रमं प्रदर्श्य तद्दारानुषक्तां कथामित्थमकथयत् ।

पदच्छेदः

तत्-अनु, तत्-वास्तव्येन, सुमति-नाम्ना, नृपतिना, कृत-आतिथ्यः, स-राज-पुत्रः, भगवान्, विश्वामित्रः, तत्र, निशीथिनीम्, नीत्वा, मिथिलाम्, प्रति, प्रस्थितः, प्रतपसाम्, उत्तमस्य, गौतमस्य, आश्रमम्, प्रदर्श्य, तत्-दार-अनुषक्ताम्, कथाम्, इत्थम्, अकथयत्

अन्वयार्थः

  • तदनु = विशालाविषये कथनानन्तरम्
  • तद्वास्तव्येन = विशालानगरीनिवासिना
  • सुमतिनाम्ना = सुमति-नामधेयेन
  • नृपतिना = महाराजेन
  • कृतातिथ्यः = विहित-उपचारः
  • सराजपुत्रः = रामलक्ष्मणाभ्यां सहितः
  • भगवान् = पूज्यः
  • विश्वामित्रः = कौशिकः
  • तत्र = विशालायाम्
  • निशीथीनीम् = रात्रिम्
  • नीत्वा = यापयित्वा
  • मिथिलां प्रति = मिथिलानगरीम् उद्दिश्य
  • प्रस्थितः = निर्गतः
  • प्रतपसाम् = प्रकृष्टतपस्विनाम्
  • उत्तमस्य = श्रेष्ठस्य
  • गौतमस्य = गौतममहर्षेः
  • आश्रमम् = तपोवनम्
  • प्रदर्श्य = दर्शयित्वा
  • तद्दारानुषक्ताम् = गौतमपत्न्याः अहल्यायाः सम्बन्धिनम्
  • कथाम् = वृत्तान्तम्
  • इत्थम् = एवम्
  • अकथयत् = अवर्णयत्

अन्वयः

तदनु तद्वास्तव्येन सुमतिनाम्ना नृपतिना कृतातिथ्यः, सराजपुत्रः भगवान् विश्वामित्रः, तत्र निशीथिनीं नीत्वा, मिथिलां प्रति प्रस्थितः, प्रतपसाम् उत्तमस्य गौतमस्य आश्रमं प्रदर्श्य, तत्-दार-अनुषक्तां कथाम् इत्थम् अकथयत् ।

आकाङ्क्षा

  • अकथयत्
    • कः अकथयत् ? विश्वामित्रः
      • कीदृशः विश्वामित्रः ? भगवान्
      • कथंभूतः विश्वामित्रः ? स-राज-पुत्रः
      • पुनः कथंभूतः विश्वामित्रः ? कृतातिथ्यः
        • केन कृतातिथ्यः ? नृपतिना
          • केन नृपतिना ? सुमति-नाम्ना
          • कीदृशेन सुमति-नाम्ना ? तत्-वास्तव्येन
        • किंकृत्वा अकथयत् ? नीत्वा
          • कां नीत्वा ? निशीथिनीम्
          • कुत्र नीत्वा ? तत्र
        • कीदृशः सन् अकथयत् ? प्रस्थितः
          • कां प्रति प्रस्थितः ? मिथिलां प्रति
        • पुनः किंकृत्वा अकथयत् ? प्रदर्श्य
          • किं प्रदर्श्य ? आश्रमम्
            • कस्य आश्रमम् ? गौतमस्य
              • कीदृशस्य गौतमस्य ? उत्तमस्य
                • केषां उत्तमस्य ? प्रतपसाम्
              • काम् अकथयत् ? कथाम्
                • कीदृशां कथाम् ? तत्-दार-अनुषक्ताम्
              • कथम् अकथयत् ? इत्थम्
              • कदा अकथयत् ? तदनु

तात्पर्यम्

विशालानगरस्य महाराजेन सुमतिना विहोतोपचारः विश्वामित्रः रामलक्ष्मणाभ्यां सह तत्रैव रात्रिं यापयामास । परेद्युः प्रातः मिथिलां गच्छन् मार्गे मुनिश्रेष्ठस्य गौतमस्य तपोवनं दर्शयित्वा तस्य पत्न्याः अहल्यायाः वृत्तान्तम् एवम् अवर्णयत् ।

Word-Meaning

  • तदनु = After that
  • भगवान् = the respectful
  • विश्वामित्रः = Vishvamitra
    • सराजपुत्रः = one who is with the princes
    • कृतातिथ्यः = becoming one who has been honoured
    • नृपतिना = by the king
    • सुमतिनाम्ना = by him named Sumati
    • तद्वास्तव्येन = by one who is its resident, i.e., residing in Vishaalaa
  • नीत्वा = after spending
    • निशीथीनीम् = the night
    • तत्र = there, in Vishaalaa
  • प्रस्थितः = one who was going
    • मिथिलां प्रति = towards Mithilaa
  • प्रदर्श्य = having shown
    • आश्रमम् = the Ashram
    • गौतमस्य = of Gautama Rishi
      • उत्तमस्य = of him, who is the best
        • प्रतपसाम् = among the great ascetics
      • अकथयत् = described
        • इत्थम् = in this manner
        • कथाम् = the story
          • तद्दारानुषक्ताम् = that which is associated (अनुषक्त) with his (तत्) wife (दारा), Ahalya

कक्ष्या ३४ – ०३.०९.२०१८

  1. श्लोकः

मूलपाठः

अत्रागमद्गौतमधर्मदाराननार्यजुष्टेन पथा महेन्द्रः ।
स च क्रुधा निर्वृषणं वृषाणं भार्यामदृश्यां च मुनिश्चकार ॥ ९० ॥

पदच्छेदः

अत्र, अगमत्, गौतम-धर्म-दारान्, अनार्य-जुष्टेन, पथा, महेन्द्रः, सः, च, क्रुधा, निर्वृषणम्, वृषाणम्, भार्याम्, अदृश्याम्, च, मुनिः, चकार

अन्वयार्थः

  • अत्र = अस्मिन् आश्रमे
  • अगमत् = सङ्गतवान्
  • महेन्द्रः = देवराजः इन्द्रः
  • गौतमधर्मदारान् = गौतमस्य धर्मपत्नीम् अहल्याम्
  • पथा = मार्गेण
  • अनार्यजुष्टेन = असाधुजनाचरितेन, वञ्चनया
  • चकार = विहितवान्
  • सः मुनिः = गौतममहर्षिः
  • निर्वृषणम् = विगताण्डकोशम्
  • वृषाणम् = इन्द्रम्
  • अदृश्याम् = द्रष्टुम् अशक्याम् / पूर्वरूपपरित्यागेन पाषाणरूपाम्
  • भार्याम् = पत्नीम्
  • क्रुधा = कोपेन

अन्वयः

अत्र महेन्द्रः अनार्यजुष्टेन पथा गौतमधर्मदारान् अगमत् । सः मुनिः च क्रुधा वृषाणं निर्वृषणम्, भार्याम् अदृश्यां च चकार ।

आकाङ्क्षा

  • अगमत्
    • कुत्र अगमत् ? अत्र
    • कः अगमत् ? महेन्द्रः
    • काम् अगमत् ? गौतमधर्मदारान्
    • केन अगमत् ? पथा
    • कीदृशेन पथा ? अनार्यजुष्टेन
  • चकार
    • कः चकार ? सः मुनिः
    • किं चकार ? निर्वृषणम्
    • कं निर्वृषणं चकार ? वृषाणम्
    • पुनः किं चकार ? अदृश्याम्
    • काम् अदृश्यां चकार ? भार्याम्
    • केन कारणेन चकार ? क्रुधा

तात्पर्यम्

अस्मिन्नाश्रमे हि देवेन्द्रः असाधुमार्गेण गौतमस्य धर्मपत्नीम् अहल्यां सङ्गतवान् । गौतमः क्रोधेन इन्द्रं विगताण्डकोशाम्, पत्नीम् अदृश्यां च विहितवान् ।

पदविवरणम्

  • अगमत् = गम् “गमॢ गतौ”, लुङ्., प्र.पु., ए.व.
  • गौतमधर्मदारान्
    • धर्मदाराः = धर्मार्थं दाराः,
    • गौतमधर्मदारान् = गौतमस्य धर्मदाराः ।
    • “भार्या जायाथ पुंभूम्नि दाराः” (अमरः) “पुं” पुल्लिङ्गे “भूम्नि” बहुवचने दाराः – नित्यबहुवचनम्
  • अनार्यजुष्टेन = अनार्यैः जुष्टम् सेवितम्, तेन
  • पथा = पथिन् नकारान्तः, पुं., तृ.वि., ए.व. । “अयनं वर्त्म-मार्ग-अध्व-पन्थानः पदवी सृतिः” (अमरः) । प्रथमा पन्थाः पन्थानौ पन्थानः । द्वितीया पन्थानम् पन्थानौ पथः । तृतीया पथा पथिभ्याम् पथिभिः ।
  • क्रुधा = क्रुध् धकारान्तः, स्त्री, तृ.वि., ए.व. । “कोप-क्रोध-अमर्ष-रोष-प्रतिघाः रुट्-क्रुधौ स्त्रियौ” (अमरः) । प्रथमा क्रुत् क्रुधौ क्रुधः । द्वितीया क्रुधम् क्रुधौ क्रुधः । तृतीया क्रुधा क्रुद्भ्याम् क्रुद्भिः
  • निर्वृषणम् = निर्गतौ वृषणौ यस्मात् सः, तम्
  • वृषाणम् = वृषन्, नकारान्तः, पुं, द्वि.वि., ए.व., प्र.विभक्तौ वृषा ।“वासवो वृत्रहा वृषा” (अमरः) । प्रथमा वृषा वृषाणौ वृषाणः । द्वितीया वृषाणम् वृषाणौ वृष्णः ।
  • अदृश्याम् = न दृश्या, ताम् ।

रामायणप्रसङ्गः

  • तस्यान्तरं विदित्वा तु सहस्राक्षश्शचीपति: । मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत् ॥
  • मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन । मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥
  • अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनि: । दुर्वृत्तं वृत्तसम्पन्नो रोषाद्वचनमब्रवीत् ॥
  • मम रूपं समास्थाय कृतवानसि दुर्मते । अकर्तव्यमिदं तस्माद्विफलस्त्वं भविष्यसि ॥
  • तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् । इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि ॥
  • वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूतानां आश्रमेऽस्मिन्निवत्स्यसि ॥

छन्दः

  • वृत्तम् = उपजातिः (१,४ – इन्द्रवज्रा, २,३ उपेन्द्रवज्रा)

Word-Meaning

  • अत्र = there, in that ashram
  • महेन्द्रः = Mahendra, i.e., Indra
  • अगमत् = united
    • गौतमधर्मदारान् = (with) Gautama’s wife, Ahalya
    • पथा = by the path
      • अनार्यजुष्टेन = by that which is practised (जुष्ट) by not nobel men, i.e., ill-mannered people (न+आर्य), e., by that which is deceitful
    • सः मुनिः = That Rishi, Gautama
      • क्रुधा = due to his anger
      • चकार = made
      • वृषाणम् = Indra
        • निर्वृषणम् = become one without (निर्) testicles (वृषण)
      • भार्याम् = (and) his wife, Ahalya
        • अदृश्याम् = become one who is not visible (न+दृश्य) in her earlier form
      • [Note that in Valmiki Ramayana and Champu Ramayana, there is no reference to Ahalya becoming a stone. It is only in the Padmapurana, Tulasi Ramayana and other commentaries that it is mentioned in this way. Also according to the Brahma Vaivarta Purana, Gautama curses Indra to bear a thousand vulvae, the female external genital organ, which will turn to eyes when he worships the sun-god Surya. But in Valmiki Ramayana, Valmiki addresses Indra as thousand eyed person even before Gautama curses him].
  1. श्लोकः

मूलपाठः

वनमेतद्गते रामे शापान्मुक्ता भविष्यसि
इत्युक्त्वा गौतमः पत्नीं हिमाद्रिं तपसे ययौ
॥ ९१
पदच्छेदः

वनम्, एतत्, गते, रामे, शापात्, मुक्ता, भविष्यसि, इति, उक्त्वा, गौतमः, पत्नीम्, हिम-अद्रिम्, तपसे, ययौ

अन्वयार्थः

  • भविष्यसि
  • मुक्ता
  • शापात् = अदृश्यत्वरूपात्
  • गते = प्राप्ते
  • रामे = दाशरथौ
  • एतत् वनम् = इदं काननम्
  • इति उक्त्वा = एवम् अभिधाय
  • पत्नीम् = भार्याम्
  • ययौ = जगाम
  • गौतमः
  • हिमाद्रिम् = हिमालयपर्वतम्
  • तपसे = तपश्चरितुम्

अन्वयः

“रामे एतद्वनं गते शापात् मुक्ता भविष्यसि” इति पत्नीम् उक्त्वा गौतमः तपसे हिमाद्रिं ययौ ।

आकाङ्क्षा

  • भविष्यसि
    • कीदृशी भविष्यसि ? मुक्ता
      • कस्मात् मुक्ता ? शापात्
      • कदा मुक्ता ? गते (सति)
        • कस्मिन् गते ? रामे
        • कुत्र गते ? एतत् वनम्
      • किं कृत्वा भविष्यसि ? उक्त्वा
        • काम् उक्त्वा ? पत्नीम्
          • किमिति उक्त्वा ? ययौ इति
            • कः ययौ ? गौतमः
            • कुत्र ययौ ? हिमाद्रिम्
            • किमर्थं ययौ ? तपसे

तात्पर्यम्

“यदा श्रीरामः इदं काननं प्रति आगमिष्यति, तदा त्वम् अदृश्यत्वरूपात् शापात् मुक्ता स्वरूपं प्राप्स्यसि” इति पत्नीम् आश्वस्य गौतममहर्षिः तपश्चरितुं हिमालयपर्वतं जगाम ।

पदविवरणम्

  • वनमेतद्गते रामे = सतिसप्तमी प्रयोगः
  • मुक्ता = मुच् “मुचॢँ मोक्षणे” + क्त + टाप्
  • हिमाद्रिम् = हिमस्य अद्रिः, तम्
  • तपसे = सकारान्तः, नपुं, च.वि., ए.व. । प्रथमा तपः तपसी तपांसि । द्वितीया तपः तपसी तपांसि । तृतीया तपसा तपोभ्याम तपोभिः । चतुर्थी तपसे तपोभ्याम् तपोभ्यः ।
  • ययौ = या “या प्रापणे”, लिट्, प्र.पु., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • रामे गते (सति) = when Rama comes
    • एतत् वनम् = to this forest
  • भविष्यसि = you will become
    • मुक्ता = one who is freed
    • शापात् = from the curse
  • इति उक्त्वा = having said this
    • पत्नीम् = to his wife
  • गौतमः = Gautama Rishi
    • ययौ = went
    • हिमाद्रिम् = to the Himaalaya mountains
    • तपसे = for doing penance
  1. श्लोकः

मूलपाठः

इत्थं विदितवृत्तान्ते देवतानां गणे तदा
पितॄणां प्राभवाल्लेभे मेषस्य वृषणं वृषा
॥ ९२
पदच्छेदः

इत्थम्, विदित-वृत्तान्ते, देवतानाम्, गणे, तदा, पितॄणाम्, प्राभवात्, लेभे, मेषस्य, वृषणम्, वृषा

सन्धिः

  • प्राभवाल्लेभे = प्राभवात् + लेभे – परसवर्णसन्धिः (तोर्लि)

अन्वयार्थः

  • लेभे = प्राप्तवान्
  • वृषा = इन्द्रः
  • वृषणम् = अण्डकोशम्
  • मेषस्य = एडकस्य
  • प्राभवात् = माहात्म्यात्
  • पितॄणाम् = पितृदेवतानाम्
  • तदा = तस्मिन् समये
  • इत्थं विदिवृत्तान्ते = एवं प्रवृत्तं वृत्तान्तं ज्ञातवते
  • गणे = समूहे
  • देवतानाम् = अमराणाम्

अन्वयः

तदा देवतानां गणे इत्थं विदितवृत्तान्ते पितॄणां प्राभवात् वृषा मेषस्य वृषणं लेभे ।

आकाङ्क्षा

  • लेभे
    • कः लेभे ? वृषा
    • कं लेभे ? वृषणम्
      • कस्य वृषणम् ? मेषस्य
    • कस्मात् कारणात् लेभे ? प्राभवात्
      • केषां प्रभवात् ? पितॄणाम्
    • कदा लेभे ? तदा
    • कदा लेभे ? इत्थं विदिवृत्तान्ते
      • कस्मिन् विदितवृत्तान्ते सति ? गणे
        • केषां गणे ? देवतानाम्

तात्पर्यम्

लज्जया प्रत्यागते इन्द्रे अमराः प्रवृत्तं वृत्तान्तं ज्ञातवन्तः । ततः पितृदेवतानां माहात्म्येन निर्वृषणः इन्द्रः एडकस्य अण्डकोशं प्राप्तवान् ।

पदविवरणम्

  • प्राभवात् = प्रभोः भावः – प्रभु + अण्
  • मेषस्य = “मेढ्र-उरभ्र-उरण-ऊर्णायु-मेष-वृष्णयः एडके” (अमरः)
  • वृषा = नकारान्तः, पुं., प्र.पु., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • वृषा = Indra
    • लेभे = obtained
    • वृषणम् = testicles
    • मेषस्य = of the sheep
  • प्राभवात् = due to the might
    • पितॄणाम् = of the forefathers
  • तदा = at that time
    • इत्थं विदिवृत्तान्ते देवतानाम् गणे (सति) = when the congregation (गण) of the Devas (देवता) got to know (विदित) about the happening (वृत्तान्त) in this way (इत्थम्)
  1. श्लोकः

मूलपाठः

तदेनामेनसो मुक्तां प्रतिगृह्णातु गौतमः
इति तस्याश्रमं भेजे साकं रामेण कौशिकः
॥ ९३
पदच्छेदः

तत्, एनाम्, एनसः, मुक्ताम्, प्रति-गृह्णातु, गौतमः, इति, तस्य, आश्रमम्, भेजे, साकम्, रामेण, कौशिकः

अन्वयार्थः

  • तत् = तस्मात्
  • प्रतिगृह्णातु = स्वीकरोतु
  • गौतमः
  • एनाम् = अहल्याम्
  • मुक्ताम् = विमोचिताम्
  • एनसः = पापात्
  • इति = एवम् उक्त्वा
  • भेजे = प्राविशत्
  • कौशिकः = विश्वामित्रः
  • आश्रमम् = उटजम्
  • तस्य = गौतमस्य
  • रामेण

अन्वयः

“तत् एनसः मुक्ताम् एनां गौतमः प्रतिगृह्णातु” इति कौशिकः रामेण साकं तस्य आश्रमं भेजे ।

आकाङ्क्षा

  • तत् प्रतिगृह्णातु
    • कः प्रतिगृह्णातु ? गौतमः
    • कां प्रतिगृह्णातु ? एनाम्
    • कथम्भूताम् एनाम् ? मुक्ताम्
    • कस्मात् मुक्ताम् ? एनसः
  • इति
    • भेजे
    • कः भेजे ? कौशिकः
    • कं भेजे ? आश्रमम्
      • कस्य आश्रमम् ? तस्य
    • केन साकं भेजे ? रामेण

तात्पर्यम्

“तस्मात् भवतः प्रभावेण एषा अहल्या पापात् विमुक्ता भवतु, गौतममहर्षिः च स्वपत्नीं पुनः स्वीकरोतु” इत्यभिधाय विश्वामित्रः रामेण सह गौतमस्य आश्रमं प्रविष्टवान् ।

पदविवरणम्

  • एनसः = सकारान्तः, नपुं., प.वि., ए.व. । “कलुषं वृजिन-एनस्-अघम् अंहस्-दुरित-दुष्कृतम्” (अमरः) । प्रथमा एनः एनसी एनांसि । द्वितीया एनः एनसी एनांसि । तृतीया एनसा एनोभ्याम् एनोभिः । चतुर्थी एनसे एनोभ्याम् एनोभ्यः । पञ्चमी एनसः एनोभ्याम् एनोभ्यः ।
  • प्रतिगृह्णातु = प्रति + ग्रह् “ग्रह उपादाने” – लोट्, प्र.पु., ए.व. । लटि गृह्णाति / गृह्यते ।
  • भेजे = भज् “भज सेवायाम्” उभयपदि, आत्मनेपदे लिट्., प्र.पु., ए.व. । लटि प्र.पु. भजते, उ.पु. भजे । लिटि प्र.पु., उ.पु., च भेजे ।
  • रामेण साकम् = “सहयुक्तेऽप्रधाने” (२.३.१९) इति तृतीयाविभक्तिः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • तत् = so
  • गौतमः प्रतिगृह्णातु = Let Gautama accept
    • एनाम् = her, Ahalya
      • मुक्ताम् = one who is freed
      • एनसः = from the sin
    • इति = so saying
    • कौशिकः = Vishvamitra
      • भेजे = entered
      • तस्य = his, Gautama’s
      • आश्रमम् = Ashramam
      • रामेण = along with Rama
  1. श्लोकः

मूलपाठः

दुःखे सुखे च रज एव बभूव हेतुः
तादृग्विधे महति गौतमधर्मपत्न्याः ।
यस्माद्गुणेन रजसा विकृतिं गता सा
रामस्य पादरजसा प्रकृतिं प्रपेदे ॥ ९४

पदच्छेदः

दुःखे, सुखे, च, रजः, एव, बभूव, हेतुः, तादृक्-विधे, महति, गौतम-धर्म-पत्न्याः, यस्मात्, गुणेन, रजसा, विकृतिम्, गता, सा, रामस्य, पाद-रजसा, प्रकृतिम्, प्रपेदे

अन्वयार्थः

  • बभूव = अभूत्
  • हेतुः = कारणम्
  • दुःखे = क्लेशे, सुखे च = आनन्दे च
  • तादृग्विधे महति = अनिर्वाच्ये, अनल्पे
  • गौतमधर्मपत्न्याः = अहल्यायाः
  • रजः एव
  • यस्मात् = यतः
  • गता = प्राप्ता
  • सा = अहल्या
  • विकृतिम् = अदृश्यावस्थाम्
  • गुणेन रजसा = रजोगुणेन
  • प्रपेदे = प्राप्तवती
  • सा = अहल्या
  • प्रकृतिम् = स्वरूपम्, निजाकृतिम्
  • पादरजसा = चरणयोः रेणुना
  • रामस्य

अन्वयः

गौतमधर्मपत्न्याः तादृग्विधे महति दुःखे सुखे च रजः एव हेतुः बभूव, यस्मात् रजसा गुणेन विकृतिं गता सा रामस्य पादरजसा प्रकृतिं प्रपेदे ।

आकाङ्क्षा

  • बभूव
    • किं बभूव ? हेतुः
    • कुत्र हेतुः बभूव ? दुःखे सुखे च
      • कीदृशे दुःखे सुखे च ? तादृग्विधे महति
      • कस्याः दुःखे सुखे च ? गौतमधर्मपत्न्याः
    • किं हेतुः बभूव ? रजः एव
  • यस्मात्
  • गता
    • का गता ? सा
    • कां गता ? विकृतिम्
    • केन कारणेन विकृतिं गता ? गुणेन रजसा
  • प्रपेदे
    • का प्रपेदे ? सा
    • कां प्रपेदे ? प्रकृतिम्
    • केन प्रपेदे ? पादरजसा
      • कस्य पादरजसा ? रामस्य

तात्पर्यम्

अहल्यायाः अदृश्यत्वजनिते तीव्रक्लेशे, पुनश्च स्वरूपप्राप्तिरूपे महदानन्दे च रजः एव कारणम् आसीत्, यतः – रजोगुणेन शापभाग् भूत्वा विकृतिं प्राप्ता सा रामस्य पादरेणुना पुनः निजाकृतिं प्राप्तवती ।

पदविवरणम्

  • रजः = सकारान्तः, नपुं., प्र.वि., ए.व. । “गुणाः सत्त्वं रजस्तमः”, “रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः” (अमरः) [ द्वयोः = पुम्स्त्रियोः । ना = पुल्लिङ्गे । न द्वयोः = नपुं ]
  • हेतुः = उकारान्तः, पुं., प्र.वि., ए.व. । “हेतुर्ना कारणं बीजम्” (अमरः)
  • प्रपेदे = प्र + पद “पद गतौ” / पद् “पदँ गतौ” – आत्मनेपदे लिट्., प्र.पु., ए.व.

छन्दः

  • वसन्ततिलका वृत्तम्

Word-Meaning

  • दुःखे सुखे च = for happiness and sorrow
    • तादृग्विधे = that which was in this way
    • महति = the one that was enormous
    • गौतमधर्मपत्न्याः = of Ahalya, the wife of Gautama
  • रजः एव = only the Rajas [the poet explains this further on]
    • बभूव = became
      • हेतुः = the reason
    • यस्मात् = because
      • सा = she, Ahalya
        • गता = obtained
        • विकृतिम् = change in the form
        • गुणेन रजसा = due to the quality of Rajas, that urges into action
      • सा = and she, Ahalya
        • प्रपेदे = got
          • प्रकृतिम् = her original form
        • पादरजसा = by the dust of the feet
          • रामस्य = of Rama

कक्ष्या ३५ – १७.०९.२०१८

गद्यम्

मूलपाठः

तस्मिन्नहल्यया गौतमेन च कृतमातिथ्यं विश्वामित्रः सराजपुत्रः प्रतिगृह्य मिथिलोपकण्ठभुवि जनकयजनभवनमभजत ।

पदच्छेदः

तस्मिन्, अहल्यया, गौतमेन, च, कृतम्, आतिथ्यम्, विश्वामित्रः, स-राज-पुत्रः, प्रतिगृह्य, मिथिला-उपकण्ठ-भुवि, जनक-यजन-भवनम्, अभजत

सन्धिः

  • तस्मिन्नहल्यया = तस्मिन् + अहल्यया, ङमुडागमसन्धिः

अन्वयार्थः

  • तस्मिन् = गौतममहर्षेः आश्रमपदे
  • अहल्यया = स्वरूपं प्राप्तया गौतमपत्न्या
  • गौतमेन च
  • कृतम् = विहितम्
  • आतिथ्यम् = उपचारम्
  • प्रतिगृह्य = अङ्गीकृत्य
  • विश्वामित्रः = कौशिकः
  • सराजपुत्रः = रामलक्ष्मणाभ्यां सहितः
  • मिथिलोपकण्ठभुवि = मिथिलानगरस्य प्रान्तभूमौ
  • जनकयजनभवनम् = राज्ञः जनकस्य यागशालाम्
  • अभजत = अवाप

अन्वयः

तस्मिन् अहल्यया गौतमेन च कृतम् आतिथ्यं प्रतिगृह्य, सराजपुत्रः विश्वामित्रः, मिथिला-उपकण्ठ-भुवि जनक-यजन-भवनम् अभजत

आकाङ्क्षा

  • अभजत
    • कुत्र अभजत ? मिथिला-उपकण्ठ-भुवि
    • काम् अभजत ? जनक-यजन-भवनम्
    • कः अभजत ? विश्वामित्रः
      • कीदृशः विश्वामित्रः ? सराजपुत्रः
    • किंकृत्वा अभजत ? प्रतिगृह्य
      • किं प्रतिगृह्य ? आतिथ्यम्
        • कीदृशम् आतिथ्यम् ? कृतम्
          • कया कृतम् ? अहल्यया
          • पुनः केन कृतम् ? गौतमेन च
        • कुत्र कृतम् ? तस्मिन्

तात्पर्यम्

कौशिकः गौतममहर्षे: आश्रमपदे, स्वरूपं प्राप्तया अहल्यया गौतमेन च विहितम् उपचारम् अङ्गीकृत्य, रामलक्ष्मणाभ्यां सह मिथिलानगरस्य प्रान्तभूमौ जनकराजस्य यागशालां प्राप्तवान् ।

पदविवरणम्

  • प्रतिगृह्य = प्रति + ग्रह् “ग्रह उपादाने” + ल्यप्
  • मिथिलोपकण्ठभुवि
    • कण्ठस्य समीपम् = उपकण्ठम्
    • उपकण्ठं भूः = उपकण्ठभूः,
    • मिथिलोपकण्ठभुवि = मिथिलायाः उपकण्ठभूः मिथिलोपकण्ठभूः, तस्याम् । ऊकारान्तः, स्त्री, स.वि., ए.व.
  • अभजत = भज “भज सेवायाम्”, लङ्, प्र.पु., ए.व.

Word-Meaning

  • तस्मिन् = in that place (Gautama’s hermitage)
  • विश्वामित्रः = Rishi Vishvamitra
    • सराजपुत्रः = one who was with (सह) the princes (राजपुत्र)
    • प्रतिगृह्य = upon accepting
      • आतिथ्यम् = the hospitality
      • कृतम् = that which was done (कृत)
      • अहल्यया = by Ahalya (अहल्या)
      • गौतमेन च = and by Gowtama (गौतम) Rishi
    • अभजत = reached
      • जनकयजनभवनम् = the sacrificial (यजन) house (भवन) of Janaka (जनक)
      • मिथिलोपकण्ठभुवि = in the place (भू) close (उपकण्ठ) to Mithilaa (मिथिला)

गद्यम्

मूलपाठः

तदनु जनकेन विधिवदभ्यर्चिते तस्मिन्निमिकुलपुरोधाः शतानन्दो रघुनन्दनमेवमभाषत ।

पदच्छेदः

तत्-अनु, जनकेन, विधिवत्, अभ्यर्चिते, तस्मिन्, निमि-कुल-पुरोधाः, शतानन्दः, रघुनन्दनम्, एवम्, अभाषत

अन्वयार्थः

  • तदनु = तदनन्तरम्
  • तस्मिन् = विश्वामित्रे
  • जनकेन = जनकराजेन
  • विधिवत् = यथाविधि
  • अभ्यर्चिते = पूजिते सति
  • निमिकुलपुरोधाः = जनकवंशस्य पुरोहितः
  • शतानन्दः = शतानन्दमहर्षिः (अहल्या-गौतमयोः पुत्रः)
  • रघुनन्दनम् = रघुकुलसम्भूतं रामचन्द्रम्
  • एवम् = इत्थम्
  • अभाषत = अवोचत्

अन्वयः

तत्-अनु जनकेन विधिवत् अभ्यर्चिते तस्मिन् निमि-कुल-पुरोधाः शतानन्दः रघुनन्दनम् एवम् अभाषत

आकाङ्क्षा

  • अभाषत
    • कथम् अभाषत ? एवम्
    • कदा अभाषत ? तदनु तस्मिन् अभ्यर्चिते
      • कथम् अभ्यर्चिते ? विधिवत्
      • केन अभ्यर्चिते ? जनकेन
    • कम् अभाषत ? रघुनन्दनम्
    • कः अभाषत ? शतानन्दः
      • कीदृशः शतानन्दः ? निमि-कुल-पुरोधाः

तात्पर्यम्

तत्र जनकमहाराजेन विश्वामित्रे यथाविधि पूजिते सति, जनकवंशपुरोहितः शतानन्दः राघवम् इदम् अब्रवीत् ।

पदविवरणम्

  • अभ्यर्चितः = अभि + अर्च “अर्च पूजायाम्” + क्त
  • निमिकुलपुरोधाः = निमेः कुलं निमिकुलम् , निमिकुलस्य पुरोधाः निमिकुलपुरोधाः । सकारान्तः, पुं, प्र.वि., ए.व.

Word-Meaning

  • तदनु = After that
  • तस्मिन् अभ्यर्चिते सति = when he, Rishi Vishvamitra was worshipped
    • जनकेन = by Janaka
    • विधिवत् = as ordained
  • शतानन्दः = Sataananda, the son of Ahalya and Gautama
    • निमिकुलपुरोधाः = the priest of the Nimi race
  • एवम् = in this way
  • अभाषत = spoke
  • रघुनन्दनम् = to Rama, the foremost among the Raghus
  1. श्लोकः

मूलपाठः

तिष्ठन्क्षत्रार्हवृत्तौ मुनिरगमदसावाश्रमं ब्रह्मसूनो-
रातिथ्यं तत्र लब्ध्वा निरवधि सुरभेः प्राभवादित्यवेत्य ।
सा तेन प्रार्थिताभूत्तदनु मुनिवरे नाभ्युपेते चकर्ष
क्रोशन्तीं तां तयैव प्रचुरबलजुषा कान्दिशीको बभूव ॥ ९५ ॥

पदच्छेदः

तिष्ठन्, क्षत्र-अर्ह-वृत्तौ, मुनिः, अगमत्, असौ, आश्रमम्, ब्रह्म-सूनोः, आतिथ्यम्, तत्र, लब्ध्वा, निरवधि, सुरभेः, प्राभवात्, इति, अवेत्य, सा, तेन, प्रार्थिता, अभूत्, तत्-अनु, मुनिवरे, न, अभ्युपेते, चकर्ष, क्रोशन्तीम्, ताम्, तया, एव, प्रचुर-बल-जुषा, कान्दिशीकः, बभूव

अन्वयार्थः

  • अगमत् = अगच्छत्
    • असौ मुनिः = विश्वामित्रः
    • तिष्ठन् = विद्यमानः
    • क्षत्रार्हवृत्तौ = क्षत्रियोचितधर्मे
    • आश्रमम् = तपोवनम्
    • ब्रह्मसूनोः = ब्रह्मपुत्रस्य वसिष्ठस्य
  • अभूत् = आसीत्
    • सा = कामधेनुः
    • प्रार्थिता = याचिता
    • तेन = कौशिकेन
    • लब्ध्वा = अवाप्य
    • आतिथ्यम् = आतिथिसत्कारम्
    • निरवधि = निस्सीमम्
    • तत्र = वसिष्ठमहर्षेः आश्रमे
    • अवेत्य = बुद्ध्वा
    • प्राभवात् इति = माहात्म्यात् इति
    • सुरभेः = कामधेनोः
  • तदनु = ततः
    • चकर्ष = कृष्टवान्
    • ताम् = कामधेनुं
    • क्रोशन्तीम् = आक्रन्दमानाम्
    • मुनिवरे न अभ्युपेते [सति] = वसिष्ठमहर्षौ न अङ्गीकृतवति
  • [ततः]
  • बभूव = अभवत्
    • कान्दिशीकः = भयद्रुतः
    • तया एव = कामधेन्वैव
    • प्रचुरबलजुषा = भूरिशः सेनाबलेन युक्तया

अन्वयः

असौ मुनिः क्षत्रार्हवृत्तौ तिष्ठन् ब्रह्मसूनोः आश्रमम् अगमत् । तत्र निरवधि आतिथ्यं लब्ध्वा, सुरभेः प्राभवात् इति अवेत्य सा तेन प्रार्थिता अभूत् । तदनु मुनिवरे न अभ्युपेते क्रोशन्तीं तां चकर्ष । तया एव प्रचुरबजलजुषा कान्दिशीकः बभूव ।

आकाङ्क्षा

  • अगमत्
    • कः अगमत् ? असौ मुनिः
      • कथम्भूतः सन् मुनिः ? तिष्ठन्
        • कस्यां तिष्ठन् ? क्षत्रार्हवृत्तौ
      • कुत्र अगमत् ? आश्रमम्
        • कस्य आश्रमम् ? ब्रह्मसूनोः
      • अभूत्
        • का अभूत् ? सा
          • कथम्भूता सा ? प्रार्थिता
            • केन प्रार्थिता ? तेन
          • किं कृत्वा ? लब्ध्वा
            • किं लब्ध्वा ? आतिथ्यम्
              • कीदृशम् आतिथ्यम् ? निरवधि
            • कुत्र लब्ध्वा ? तत्र
          • पुनः किं कृत्वा ? अवेत्य
            • किमिति अवेत्य ? प्राभवात् इति
              • कस्याः प्राभवात् ? सुरभेः
            • तदनु चकर्ष
              • कां चकर्ष ? ताम्
                • कीदृशीं ताम् ? क्रोशन्तीम्
              • कदा चकर्ष ? मुनिवरे न अभ्युपेते [सति]
            • [ततः]
            • बभूव
              • कीदृशः बभूव ? कान्दिशीकः
              • कया बभूव ? तया एव
                • कीदृश्या तया ? प्रचुरबलजुषा

तात्पर्यम्

अयं मुनिः विश्वामित्रः क्षत्रधर्मम् आचरन् कदाचित् ब्रह्मपुत्रस्य वसिष्ठस्य आश्रमपदमगच्छत् । तत्र महर्षिणा समर्पितं निस्सीमम् अतिथिसत्कारं सर्वमपि तत्रस्थायाः कमधेनोः बलादेव साध्यमभूदिति बुद्ध्वा, तेन सा धेनुः याचिता । वसिष्ठमहर्षौ न अङ्गीकृतवति, सः ताम् आक्रन्दमानां धेनुं बलात् कृष्टवान्, किन्तु तया सृष्टेन भूरिसेनाबलेन भयद्रुतोऽभूत् ।

पदविवरणम्

  • तिष्ठन् = स्था “ष्ठा गतिनिवृत्तौ” + शतृ, तकारान्तः, पुं, प्र.वि., ए.व.
  • क्षत्रार्हवृतौ
    • क्षत्राणाम् अर्हः = क्षत्रार्ह:
    • क्षत्रार्हवृतौ = क्षत्रार्हा वृत्तिः, तस्याम् । इकारान्तः, स्त्री, स.वि., ए.व.
  • ब्रह्मसूनोः = ब्रह्मणः सूनुः ब्रह्मसूनुः, तस्य । उकारान्तः, पुं, ष.वि., ए.व.
  • आतिथ्यम् = अतिथेरिदम्, अतिथि + ष्यञ् (तद्धितः)
  • निरवधि = निर्गतम् अवधेः । प्रादितत्पुरुषः ।
  • अवेत्य = अव + इ “इण् गतौ” + ल्यप्
  • अभ्युपेते = अभि + उप + इ “इण् गतौ” + क्त
  • चकर्ष = कृष् “कृषँ विलेखने”, लिट्, प्र.पु., ए.व.
  • क्रोशन्तीम् = क्रुश् “क्रुशँ आह्वाने रोदने च” + शतृ + ङीप् । ईकारान्तः, स्त्री, द्वि.वि., ए.व.
  • प्रचुरबलजुषा
    • प्रचुरं बलम् = प्रचुरबलम्
    • प्रचुरबलजुषा = प्रचुरबलस्य जुट् प्रचुरबलजुट्, तया । षकारान्तः, स्त्री, तृ.वि., ए.व.
  • कान्दिशीकः = “कान्दिशीको भयद्रुतः” (अमरः)

छन्दः

  • स्रग्धरावृत्तम् – २१ अक्षराणि । “म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्” – म-र-भ-न-य-य-य गणाः, ७+७+७ यतिः । — -u- -uu uuu u– u– u– ।
u u u u u u u u u
गु गु गु गु गु गु गु गु गु गु गु गु
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21
ति ष्ठ न्क्ष त्रा र्ह वृ त्तौ मु नि सा वा श्र मं ब्र ह्म सू नो
रा ति थ्यं त्र ब्ध्वा नि धि सु भेः प्रा वा दि त्य वे त्य
सा ते प्रा र्थि ता भू त्त नु मु नि रे ना भ्यु पे ते र्ष
क्रो न्तीं तां यै प्र चु जु षा का न्दि शी को भू

Word-Meaning

  • असौ मुनिः = this Rishi (Vishvamitra)
    • तिष्ठन् = being one who was abiding
      • क्षत्रार्हवृत्तौ = in the pursuits (वृत्ति) of a Kshatriya (क्षत्रार्ह) or a warrior
    • अगमत् = went to
      • आश्रमम् = the Ashrama (आश्रम)
        • ब्रह्मसूनोः = of Vashishta, the son (सूनु) of Brahma (ब्रह्म)
      • सा = She, the Kamadhenu
        • अभूत् = became
          • प्रार्थिता = one who was requested for
          • तेन = by him, Vishvamitra
        • लब्ध्वा = upon obtaining
          • आतिथ्यम् = the hospitality
          • निरवधि = which was limitless
          • तत्र = there in that Vashishta’s ashram
        • अवेत्य = upon knowing
          • प्राभवात् इति = that (इति) it was due to the greatness (प्राभव)
          • सुरभेः = of that cow, Kamadhenu (सुरभि)
        • तदनु = after that
          • मुनिवरे न अभ्युपेते [सति] = when the sage did not agree
          • चकर्ष = (Vishvamitra) dragged
            • ताम् = her, the Kamadhenu
              • क्रोशन्तीम् = she who was crying
            • [ततः] बभूव = Then, he became
              • कान्दिशीकः = one who was made to flee
              • तया एव = by her only (एव)
              • प्रचुरबलजुषा = by her who was endowed (जुष) with abundant (प्रचुर) power (बल), i.e., the army that she created

गद्यम्

मूलपाठः

बहुशस्तद्बलचकितस्य तपोबलाधिगतविविधायुधनिगमस्य भूयोऽपि सुरभिनिमित्तं समारब्धसमरस्य दिव्यास्त्रपरम्परां ब्रह्मदण्डेन निरुन्धन्नरुन्धतीजानिरवतस्थे ।

पदच्छेदः

बहुशः, तत्-बल-चकितस्य, तपः-बल-अधिगत-विविध-आयुध-निगमस्य, भूयः, अपि, सुरभि-निमित्तम्, समारब्ध-समरस्य, दिव्य-अस्त्र-परम्पराम्, ब्रह्म-दण्डेन, निरुन्धन्, अरुन्धती-जानिः, अवतस्थे

अन्वयार्थः

  • बहुशः = बहुधा
  • तद्बलचकितस्य = धेन्वाः बलात् विस्मयान्वितस्य
  • तपोबलाधिगतविविधायुधनिगमस्य = तपसा नानाविधानि अस्त्राणि प्राप्तवतः
  • सुरभिनिमित्तम् = कामधेन्वर्थम्
  • भूयः अपि = पुनरपि
  • समारब्धसमरस्य = आरब्धयुद्धस्य
  • दिव्यास्त्रपरम्पराम् = अस्त्रसमूहम्
  • ब्रह्मदण्डेन = ब्रह्मतेजोमयेन दण्डेन
  • निरुन्धन् = निवारयन्
  • अरुन्धतीजानिः = अरुन्धतीपतिः वसिष्ठः
  • अवतस्थे = तस्थौ

अन्वयः

बहुशः तत्-बल-चकितस्य तपः-बल-अधिगत-विविध-आयुध-निगमस्य भूयः अपि सुरभि-निमित्तम् समारब्ध-समरस्य दिव्य-अस्त्र-परम्पराम् ब्रह्म-दण्डेन निरुन्धन् अरुन्धती-जानिः अवतस्थे

आकाङ्क्षा

  • अवतस्थे
    • कः अवतस्थे ? अरुन्धती-जानिः
    • कीदृशः सन् अवतस्थे ? निरुन्धन्
      • केन निरुन्धन् ? ब्रह्म-दण्डेन
      • कां निरुन्धन् ? दिव्य-अस्त्र-परम्पराम्
        • कस्य दिव्य-अस्त्र-परम्पराम् ? तपः-बल-अधिगत-विविध-आयुध-निगमस्य
          • कीदृशस्य तपः-बल-अधिगत-विविध-आयुध-निगमस्य ? समारब्ध-समरस्य
            • किंनिमित्तं समारब्ध-समरस्य ? भूयः अपि सुरभि-निमित्तम्
          • पुनः कथंभूतस्य तपः-बल-अधिगत-विविध-आयुध-निगमस्य ? तत्-बल-चकितस्य
        • कथम् निरुन्धन् ? बहुशः

तात्पर्यम्

धेन्वाः प्रभावेण आश्चर्यान्वितः कौशिकः तप आचर्य बहूनि दिव्यास्त्राणि सम्पाद्य पुनरपि कामधेनोः निमित्तं युद्धम् आरब्धवान् । तदा तस्य समग्रमपि आयुधसमूहं स्वस्य ब्रह्मदण्डमात्रेण वसिष्ठः निवारयामास ।

पदविवरणम्

  • तद्बलचकितस्य
    • तस्याः बलम् = तद्बलम्,
    • तद्बलचकितस्य = तद्बलेन चकितः तद्बलचकितः, तस्य ।
  • तपोबलाधिगतविविधायुधनिगमस्य
    • तपसः बलम् = तपोबलम्
    • तपोबलेन अधिगतः = तपोबलाधिगतः
    • विविधानाम् आयुधानां निगमः = विविधायुधनिगमः,
    • तपोबलाधिगतविविधायुधनिगमस्य = तपोबलाधिगतः विविधायुधनिगमः येन सः, तस्य ।
  • सुरभिनिमित्तम् = सुरभेः निमित्तम् ।
  • समारब्धसमरस्य = समारब्धः समरः येन सः, तस्य ।
  • दिव्यास्त्रपरम्पराम्
    • दिव्यानि अस्त्राणि = दिव्यास्त्राणि,
    • दिव्यास्त्रपरम्पराम् = दिव्यास्त्राणां परम्परा, ताम् ।
  • निरुन्धन् = नि + रुध् “रुधिँर् आवरणे” + शतृ, तकारन्तः, पुं, प्र.वि., ए.व.
  • अरुन्धतीजानिः = अरुन्धती जाया यस्य सः । “जायाया निङ्” ।
  • अवतस्थे = अव + स्था “ष्ठा गतिनिवृत्तौ”, लिट्, प्र.पु., ए.व., “समवप्रविभ्यः स्थः” इति आत्मनेपदम्

Word-Meaning

  • अरुन्धतीजानिः = Vasishta, the husband (जाया) of Arundhati (अरुन्धती)
  • अवतस्थे = stood
  • निरुन्धन् = becoming one who averted
    • ब्रह्मदण्डेन = by using the Brahma Danda (ब्रह्मदण्ड), the divine rod
    • बहुशः = in different ways
    • दिव्यास्त्रपरम्पराम् = the collection (परम्परा) of divine (दिव्य) missiles (अस्त्र)
      • समारब्धसमरस्य = of him, who had started (समारब्ध) the battle (समर)
        • सुरभिनिमित्तम् = for the sake (निमित्तम्) of the cow (सुरभि)
        • भूयः अपि = again
      • तद्बलचकितस्य = of him, who was wonderstuck (चकित) by its (तत्) e., Kamadhenu’s power (बल)
      • तपोबलाधिगतविविधायुधनिगमस्य = of him, who had obtained (अधिगत) the collection (निगम) of different (विविध) weapons (आयुध) by the strength (बल) of the penance (तपस्)

गद्यम्

मूलपाठः

ततोऽयं जातव्यलीकः क्षात्रतेजसः परं ब्राह्ममेव महो महीय इति निश्चित्य तत्सिद्धये दक्षिणस्यां दिशि तीव्रतरं तपश्चचार ।

पदच्छेदः

ततः, अयम्, जात-व्यलीकः, क्षात्र-तेजसः, परम्, ब्राह्मम्, एव, महः, महीयः, इति, निश्चित्य, तत्-सिद्धये, दक्षिणस्याम्, दिशि, तीव्रतरम्, तपः चचार

अन्वयार्थः

  • ततः = तदनन्तरम्
  • अयम् = असौ कौशिकः
  • जातव्यलीकः [सन्] = दुःखमनुभवन्
  • क्षात्रतेजसः = क्षत्रसंबन्धिबलात्
  • परम् = अत्यन्तम्
  • ब्राह्मम् = ब्रह्मसंबन्धि
  • महः = बलम्
  • एव = हि
  • महीयः = शक्तियुक्तः
  • इति = एवम्
  • निश्चित्य = मनसि निधाय
  • तत्सिद्धये = ब्राह्मबलसिद्धये
  • दक्षिणस्याम् दिशि = दक्षिणदिग्भागे
  • तीव्रतरम् = अत्युग्रम्
  • तपश्चचार = तपः अकरोत्

अन्वयः

ततः अयं जात-व्यलीकः क्षात्र-तेजसः परं ब्राह्मम् एव महः महीयः इति निश्चित्य तत्-सिद्धये दक्षिणस्यां दिशि तीव्रतरं तपः चचार ।

आकाङ्क्षा

  • चचार
    • किं चचार ? तपः
      • कीदृशं तपः ? तीव्रतरम्
    • कुत्र चचार ? दिशि
      • कस्यां दिशि ? दक्षिणस्याम्
    • कस्यै / किमर्थं चचार ? तत्-सिद्धये
    • किंकृत्वा चचार ? निश्चित्य
      • किमिति निश्चित्य ? महीयः इति
        • कः महीयः ? महः
          • कीदृशं महः ? ब्राह्मम् एव
        • कस्मात् परं महीयः ? क्षात्र-तेजसः परं
      • कदा चचार ? ततः
      • कः चचार ? अयम्
        • कथंभूतः अयम् ? जात-व्यलीकः

तात्पर्यम्

तदनन्तरं विश्वामित्रमुनिः दुःखितस्सन् क्षत्रबलापेक्षया ब्रह्मबलमेव वरम् इति विचिन्त्य, ब्रह्मबलसिद्ध्यर्थं दक्षिणदिग्भागे अत्युग्रं तप अकरोत् ।

पदविवरणम्

  • जातव्यलीकः = जातं व्यलीकं यस्य सः । “पीडार्थेऽपि व्यलीकं स्यात्” (अमरः)
  • क्षात्रतेजसः = क्षात्रं तेजः, तस्मात् । सकारान्तः, नपुं, प.वि., ए.व.
  • महीयः = महस् + ईयसुन्, सकारान्तः, नपुं, प्र.वि., ए.व.
  • दिशि = शकारान्तः, स्त्री, स.वि., ए.व. । “दिशस्तु ककुभः काष्ठाः” (अमरः)
  • चचार = चर “चर गतौ” लिट्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • धिग् बलं क्षत्रियबलं ब्रह्मतेजो बलं बलम् ।

एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ १.५६.२३ ॥

  • तदेतत् समवेक्ष्याहं प्रसन्नेन्द्रियमानसः ।

तपो महत् समास्थास्ये यद्वै ब्रह्मत्वकारणम् ॥ १.५६.२४ ॥

Word-Meaning

  • ततः = then
  • अयम् = this, Kaushika
  • जातव्यलीकः [सन्] = becoming one in whom pain (व्यलीक) arose (जात)
  • क्षात्रतेजसः परम् = more than the burtal (क्षात्र) power (तेजस्)
  • ब्राह्मम् = that which is related to Brahma (ब्राह्म)
  • महः = strength
  • एव = only
  • महीयः = stronger
  • इति = that
  • निश्चित्य = upon deciding
  • तत्सिद्धये = for obtaining (सिद्धि) it (तत्)
  • दक्षिणस्याम् दिशि = in the southern (दक्षिण) direction (दिश)
  • तीव्रतरम् तपः चचार = did rigorous (तीव्रतरम्) penance (तपः)

गद्यम्

मूलपाठः

अथ सावित्रः क्षत्रियस्त्रिशङ्कुः सशरीरः स्वर्गसिद्धिमभ्यर्थयमानो वसिष्ठेन प्रत्याख्यातस्तस्य पुत्रैर्महोदयादिभिर्निर्बन्धकुपितैर्दत्तचण्डालभावस्तमेनं शरणभजत ।

पदच्छेदः

अथ, सावित्रः, क्षत्रियः, त्रिशङ्कुः, स-शरीरः, स्वर्ग-सिद्धिम्, अभ्यर्थयमानः, वसिष्ठेन, प्रत्याख्यातः, तस्य, पुत्रैः, महोदय-आदिभिः, निर्बन्ध-कुपितैः, दत्त-चण्डाल-भावः, तम्, एनम्, शरणम्, अभजत

अन्वयार्थः

  • अथ = विश्वामित्रे तपश्चरति
  • सावित्रः = सूर्यवंशजः
  • क्षत्रियः = राजन्यः
  • त्रिशङ्कुः = त्रिशङ्कुनामा राजा
  • सशरीरः = देहसहितः
  • स्वर्ग-सिद्धिम् = सुरलोकप्राप्तिम्
  • अभ्यर्थयमानः = कामयमानः
  • वसिष्ठेन = कुलगुरुणा
  • प्रत्याख्यातः = निराकृतः
  • निर्बन्ध-कुपितैः = बलात्कारेण क्रुद्धैः
  • महोदयादिभिः = महोदयप्रभृतिभिः
  • तस्य = वसिष्ठस्य
  • पुत्रैः = सुतैः
  • दत्त-चण्डाल-भावः = शापेन चाण्डालत्वं प्रापितः
  • तम् एनम् = तपस्यन्तं कौशिकम्
  • शरणम् = रक्षितारम्
  • अभजत = प्राप्तवान्

अन्वयः

अथ सावित्रः क्षत्रियः त्रिशङ्कुः स-शरीरः स्वर्ग-सिद्धिम् अभ्यर्थयमानः वसिष्ठेन प्रत्याख्यातः तस्य पुत्रैः महोदय-आदिभिः निर्बन्ध-कुपितैः दत्त-चण्डाल-भावः तम् एनम् शरणम् अभजत

आकाङ्क्षा

  • अथ अभजत
    • किम् अभजत ? शरणम्
      • कस्य / कं शरणम् ? तम् एनम्
    • कः अभजत ? त्रिशङ्कुः
      • कीदृशः त्रिशङ्कुः ? क्षत्रियः
      • पुनः कीदृशः त्रिशङ्कुः ? सावित्रः
      • पुनः कीदृशः त्रिशङ्कुः ? अभ्यर्थयमानः
        • किम् अभ्यर्थयमानः ? स्वर्ग-सिद्धिम्
        • कथंभूतः एव अभ्यर्थयमानः ? सशरीरः
      • पुनः कीदृशः त्रिशङ्कुः ? प्रत्याख्यातः
        • केन प्रत्याख्यातः ? वसिष्ठेन
      • पुनः कीदृशः त्रिशङ्कुः ? दत्त-चण्डाल-भावः
        • कैः दत्त-चण्डाल-भावः ? महोदय-आदिभिः
          • कीदृशैः महोदय-आदिभिः ? निर्बन्ध-कुपितैः
          • पुनः कीदृशैः महोदय-आदिभिः ? पुत्रैः
            • कस्य पुत्रैः ? तस्य

तात्पर्यम्

सूर्यवंशस्य राजा त्रिशङ्कुः देहसहितः एव सुरलोकं प्राप्तुम् इच्छन् तदर्थं कुलगुरुं वसिष्ठं प्रार्थयामास । वसिष्ठेन निराकृतः तस्य पुत्रान् बलेन निर्बबन्ध । कुपिताः तत्पुत्राः महोदयादयः त्रिशङ्कुं चाण्डालत्वेन शप्तवन्तः । ततः त्रिशङ्कुः तपस्यन्तं कौशिकं रक्षणार्थम् अयाचत ।

पदविवरणम्

  • सशरीरः = शरीरेण सहितः
  • अभ्यर्थयमानः = अभि + अर्थ “अर्थ उपयाच्ञायाम्”+शानच्
  • निर्बन्धकुपितैः = निर्बन्धेन कुपिताः, तैः
  • दत्तचण्डालभावः = दत्तः चण्डालभावः यस्मै सः

Word-Meaning

  • अथ = then, when Vishvamitra was doing the penance
  • त्रिशङ्कुः = Trisangu
    • क्षत्रियः = the Kshatriya man
    • सावित्रः = One who was born in the Surya dynasty
    • अभ्यर्थयमानः = One wishing to
      • स्वर्ग-सिद्धिम् = reach the Svarga loka
      • सशरीरः = being one along with the body
    • प्रत्याख्यातः = one who was rejected
      • वसिष्ठेन = by Vashishta Rishi
    • दत्त-चण्डाल-भावः = One who was given the state of Chandaala
      • पुत्रैः = by the sons
        • तस्य = of him, Vashista
      • महोदयादिभिः = by those starting with Mahodaya
      • निर्बन्ध-कुपितैः = by those who were angered by his insistence (on going to heaven with his body)
    • अभजत = sought
      • शरणम् = the protection
      • तम् एनम् = of him, Vishvamitra

कक्ष्या ३६ – २४.०९.२०१८

गद्यम्

मूलपाठः

असावपि तन्मनोरथपरिपूर्तये क्रतुमेकं प्राक्रमत ।

पदच्छेदः

असौ, अपि, तत्-मनोरथ-परिपूर्तये, क्रतुम्, एकम्, प्राक्रमत

अन्वयार्थः

  • असौ अपि = विश्वामित्रः अपि
  • तन्मनोरथपरिपूर्तये = त्रिशङ्कोः इष्टसिद्ध्यर्थम्
  • एकम् क्रतुम् = कञ्चिद् यज्ञम्
  • प्राक्रमत = आरब्धवान्

अन्वयः

असौ अपि तत्-मनोरथ-परिपूर्तये क्रतुम् एकम् प्राक्रमत

आकाङ्क्षा

  • प्राक्रमत
    • किं प्राक्रमत ? क्रतुम् एकम्
    • कस्मै / कीमर्थं प्राक्रमत ? तत्-मनोरथ-परिपूर्तये
    • कः प्राक्रमत ? असौ अपि

तात्पर्यम्

विश्वामित्रः त्रिशङ्कोः इष्टसिद्ध्यर्थं यज्ञमेकम् आरब्धवान्

पदविवरणम्

  • तन्मनोरथपरिपूर्तये – तस्य मनोरथः, तन्मनोरथस्य परिपूर्तिः, तस्यै । इकारान्तः, स्त्री, ४.१
  • क्रतुम् – “यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः” (अमरः)
  • प्राक्रमत – प्र + “क्रमु पादविक्षेपे” – लङ्, प्रथम.१

Word-Meaning

  • असौ अपि = this person also, Vishvamitra
  • तन्मनोरथपरिपूर्तये = for fulfilling (परिपूर्ति) the desire (मनोरथ) of him (तत्), Trishanku
  • प्राक्रमत = started
  • एकम् क्रतुम् = one (एक) Yagna (क्रतु)

गद्यम्

मूलपाठः

तत्र समागतेषु ब्राह्मणेषु जुगुप्सया त्रिशङ्कोरनागतान्वसिष्ठपुत्रानयं शापेन श्वभक्षकानकरोत् ।

पदच्छेदः

तत्र, समागतेषु, ब्राह्मणेषु, जुगुप्सया, त्रिशङ्कोः, अनागतान्, वसिष्ठ-पुत्रान्, अयम्, शापेन, श्व-भक्षकान्, अकरोत्

अन्वयार्थः

  • तत्र = विश्वामित्रेण समारब्धे यज्ञे
  • ब्राह्मणेषु = ऋषिमुनिषु
  • समागतेषु = विश्वामित्रभयात् उपागतेषु सत्सु
  • त्रिशङ्कोः जुगुप्सया = गुरुतिरस्कारं कृतवतः त्रिशङ्कोः विषये उपक्रोशेन
  • अनागतान् = असंप्राप्तान्
  • वसिष्ठपुत्रान् = महोदयादीन् वसिष्ठसुतान्
  • अयम् = विश्वामित्रः
  • शापेन = आक्रोशेन
  • श्वभक्षकान् = शुनकमांसाशिनः
  • अकरोत् = कृतवान्

अन्वयः

तत्र ब्राह्मणेषु समागतेषु त्रिशङ्कोः जुगुप्सया अनागतान् वसिष्ठ-पुत्रान् अयम् शापेन श्व-भक्षकान् अकरोत्

आकाङ्क्षा

  • अकरोत्
    • कथंभूतान् अकरोत् ? श्व-भक्षकान्
    • केन अकरोत् ? शापेन
    • कान् अकरोत् ? वसिष्ठ-पुत्रान्
      • कीदृशान् वसिष्ठ-पुत्रान् ? अनागतान्
        • किमर्थं / कया अनागतान् ? जुगुप्सया
          • कस्मात् जुगुप्सया ? त्रिशङ्कोः
        • कः अकरोत् ? अयम्
        • कदा अकरोत् ? तत्र ब्राह्मणेषु समागतेषु (सत्सु)

तात्पर्यम्

विश्वामित्रेण यज्ञे समारब्धे बहवः ऋषिमुनयः तद्भयात् तत्र समागताः । वसिष्ठपुत्रास्तु त्रिशङ्कोः, विश्वामित्रस्य च विषये उपक्रोशेन यज्ञे न समागताः । तदा विश्वामित्रः कोपेन तान् श्वभक्षकत्वेन अशपत् ।

रामायणप्रसङ्गः

  • क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।
    कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः ॥

पदविवरणम्

  • जुगुप्सया त्रिशङ्कोः – “जुगुप्सा-विराम-प्रमादार्थानाम् उपसंख्यानम्” इति वार्त्तिकेन पञ्चमीविभक्तिः

Word-Meaning

  • तत्र = there, when Vishvamitra was performing the yagna
  • ब्राह्मणेषु समागतेषु = when the Brahmins had assembled
  • अयम् = this person, Vishvamitra
  • अकरोत् = made them
  • वसिष्ठपुत्रान् = the sons of Vashista
  • अनागतान् = who had not come
  • त्रिशङ्कोः जुगुप्सया = due to the dislike towards Trishankuh
  • श्वभक्षकान् = to become cannibals
  • शापेन = by curse

गद्यम्

मूलपाठः

ततः क्रतुभुजां वर्गेऽपि स्वर्गादनवतीर्णे ।

पदच्छेदः

ततः, क्रतु-भुजाम्, वर्गे, अपि, स्वर्गात्, अनवतीर्णे

अन्वयार्थः

  • ततः = तदनन्तरम्
  • क्रतुभुजाम् = देवानाम्
  • वर्गे अपि = समूहे अपि
  • स्वर्गात् = नाकात्
  • अनवतीर्णे = न समागते

अन्वयः

ततः क्रतु-भुजाम् वर्गे अपि स्वर्गात् अनवतीर्णे …

आकाङ्क्षा

  • ततः …
    • कदा … ? अनवतीर्णे सति
      • कुतः अनवतीर्णे ? स्वर्गात्
      • कस्मिन् अनवतीर्णे ? वर्गे अपि
        • केषां वर्गे अपि ? क्रतुभुजाम्

तात्पर्यम्

विश्वामित्रकृते यज्ञे हविर्भागस्य स्वीकाराय देवाः न समागताः ।

पदविवरणम्

  • क्रतुभुजाम् = जकारान्तः, पुं, ष.वि., ए.व. । “बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः” (अमरः)
  • अनवतीर्णे = न अवतीर्णे । अव + तॄ “तॄ प्लवन-तरणयोः” + क्त

Word-Meaning

  • ततः = after that
  • क्रतुभुजाम् वर्गे अपि स्वर्गात् अनवतीर्णे सति = when even (अपि) the group (वर्ग) of Devas (क्रतुभुज) did not (न) come (अवतीर्ण) from the svarga (स्वर्ग)
  • …. (continued in the next shloka)
  1. श्लोकः

मूलपाठः

अयं महात्मा तपसः प्रभावादारोपयामास दिवं त्रिशङ्कुम् ।
नीलाम्बरं निह्नतुराजवेषं वर्षानिशीथादविशेषवेषम् ॥ ९६ ॥

पदच्छेदः

अयम्, महात्मा, तपसः, प्रभावात्, आरोपयामास, दिवम्, त्रिशङ्कुम्, नील-अम्बरम्, निह्नुत-राजवेषम्, वर्षा-निशीथात्, अविशेष-वेषम्

अन्वयार्थः

  • त्रिशङ्कुम् आरोपयामास = त्रिशङ्कुम् आरोपितवान्
  • अयम् = विश्वामित्रः
  • महात्मा = महानुभावः
  • दिवम् = स्वर्गम्
  • तपसः प्रभावात् = तपोबलात्
  • नीलाम्बरम् = कृष्णवस्त्रधारिणम्
  • निह्नुतराजवेषम् = शापवशात् आच्छादित-नृपनेपथ्यम्
  • अविशेषवेषम् = भेदरहितम्
  • वर्षानिशीथात् = वृष्टिकालस्य अर्धरात्रात्

अन्वयः

अयं महात्मा तपसः प्रभावात् नीलाम्बरं, निह्नुतराजवेषम्, वर्षानिशीथात् अविशेषवेषं त्रिशङ्कुं दिवम् आरोपयामास ।

आकाङ्क्षा

  • आरोपयामास
    • कः आरोपयामास ? अयम्
      • कीदृशः अयम् ? महात्मा
    • काम् प्रति आरोपयामास ? दिवम्
    • कथम् आरोपयामास ? तपसः प्रभावात्
    • कम् आरोपयामास ? त्रिशङ्कुम्
      • कीदृशं त्रिशङ्कुम् ? नीलाम्बरम्
      • पुनः कीदृशं त्रिशङ्कुम् ? निह्नुतराजवेषम्
      • पुनः कीदृशं त्रिशङ्कुम् ? अविशेषवेषम्
        • कस्माद् अविशेषवेषम् ? वर्षानिशीथात्

तात्पर्यम्

देवानाम् अनागमनेन क्रतौ असमाप्तेऽपि, विश्वामित्रः स्वस्य तपोबलेन त्रिशङ्कुं स्वर्गम् आरोपितवान् ।

पदविवरणम्

  • महात्मा = महान् आत्मा यस्य सः । नकारान्तः, पुं, प्र.वि., ए.व. ।
  • आरोपयामास = आ + रुह् “रुह बीजजन्मनि प्रादुर्भावे च” + णिच् – लिट्, प्र.पु., ए.व.
  • दिवम् = वकारान्तः, स्त्री, द्वि.वि., ए.व. । “सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम्” (अमरः)
  • नीलाम्बरम्
    • त्रिशङ्कुपक्षे, नीलम् अम्बरम् = वस्त्रम् यस्य सः, तम् ।
    • रात्रिपक्षे, नीलम् अम्बरम् = गगनस्य यस्य तम् । “अम्बरं व्योम्नि वाससि” (अमरः)
  • निह्नुतराजवेषम्
    • त्रिशङ्कुपक्षे, निह्नुतः = आच्छादितः, राजवेषः = नृपनेपथ्यम् यस्य सः, तम् ।
    • रात्रिपक्षे निह्नुतः = आच्छादितः, राजवेषः = चन्द्रप्रकाशः यस्य सः, तम् । “राजा मृगाङ्के क्षत्रिये नृपे” (अमरः)
  • वर्षानिशीथात् = वर्षाणां निशीथः, तस्मात् । “स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षाः”, “अर्धरात्रनिशीथौ द्वौ” (अमरः)
  • अविशेषवेषम् = न विशेषः, अविशेषः वेषः यस्य सः, तम् ।

अलङ्कारः

  • श्लेषालङ्कारः

छन्दः

  • उपजातिः (१ उपेन्द्रवज्रा, २,३,४ – इन्द्रवज्रा) वृत्तम् – In upendravajra, the first letter is laghu (indicated by उ of उपेन्द्रवज्रा), and in Indravajra, the first letter is guru (indicated by इन् of इन्द्रवज्रा)

Word-Meaning

  • अयं महात्मा = this mighty person, Vishvamitra
  • आरोपयामास = made him go up
    • त्रिशङ्कुम् = Trishanku
      • नीलाम्बरम् = one who is wearing the black cloth in the context of Trishanku, the dark clouds in the context of night
      • निह्नुतराजवेषम् = one whose form of the king has been hidden in the context of Trishanku, one in which the shine of the moon has been hidden in the context of the night
      • अविशेषवेषम् = one who does not have any differentiation
        • वर्षानिशीथात् = from the night time during the rainy season
      • दिवम् = to heaven
      • तपसः प्रभावात् = by the power of his penance
  1. श्लोकः

मूलपाठः

अपातयत्स्वर्गमुपाश्रयन्तं सञ्जातमन्युः शतमन्युरेनम् ।
ततोऽवलम्ब्यास्य नियोगशङ्कुं लेभे त्रिशङ्कुर्गगने प्रतिष्ठाम् ॥ ९७ ॥

पदच्छेदः

अपातयत्, स्वर्गम्, उपाश्रयन्तम्, सञ्जात-मन्युः, शत-मन्युः, एनम्, ततः, अवलम्ब्य, अस्य, नियोग-शङ्कुम्, लेभे, त्रिशङ्कुः, गगने, प्रतिष्ठाम्

अन्वयार्थः

  • अपातयत् = अधः पातयामास
  • शतमन्युः = इन्द्रः
  • सञ्जातमन्युः = उत्पन्नक्रोधः
  • एनम् = त्रिशङ्कुम्
  • उपाश्रयन्तम् = प्रविशन्तम्
  • स्वर्गम् = नाकम्
  • ततः = तदनन्तरम्
  • लेभे = प्राप्तवान्
  • त्रिशङ्कुः = इन्द्रेण पातितः त्रिशङ्कुः
  • प्रतिष्ठाम् = स्थितिम्
  • गगने = आकाशे
  • अवलम्ब्य = अवष्टभ्य
  • नियोगशङ्कुम् = आज्ञारूपां यष्टिम्
  • अस्य = विश्वामित्रस्य

अन्वयः

स्वर्गम् उपाश्रयन्तम् एनं सञ्जातमन्युः शतमन्युः अपातयत् । ततः अस्य नियोगशङ्कुम् अवलम्ब्य त्रिशङ्कुः गगने प्रतिष्ठां लेभे ।

आकाङ्क्षा

  • अपातयत्
    • कः अपातयत् ? शतमन्युः
      • कीदृशः शतमन्युः ? सञ्जातमन्युः
    • कम् अपातयत् ? एनम्
      • कीदृशम् एनम् ? उपाश्रयन्तम्
        • कम् उपाश्रयन्तम् ? स्वर्गम्
      • ततः लेभे
        • कः लेभे ? त्रिशङ्कुः
        • कां लेभे ? प्रतिष्ठाम्
          • कुत्र प्रतिष्ठां लेभे ? गगने
        • किं कृत्वा लेभे ? अवलम्ब्य
          • कम् अवलम्ब्य ? नियोगशङ्कुम्
            • कस्य नियोगशङ्कुम् ? अस्य

तात्पर्यम्

यज्ञेऽसम्पूर्णेऽपि विश्वामित्रस्य तपोबलेन स्वर्गं प्रविशन्तं त्रिशङ्कुं कुपितः इन्द्रः अधः पातयामास । तदा “तिष्ठ तिष्ठ” इति विश्वामित्रस्य आज्ञावचनरूपां यष्टिम् अवलम्भ्य त्रिशङ्कुः मध्येगगनं स्थितः ।

पदविवरणम्

  • अपातयत् = पत् “पतॢ गतौ” – लङ्, प्रथम.१
  • उपाश्रयन्तम् = उप + आ + श्रि “श्रिञ् सेवायाम्” + शतृ । तकारान्तः, पुं, २.१
  • सञ्जातमन्युः = सञ्जातः मन्युः यस्य सः
  • शतमन्युः = शतं मन्यवः यस्य । “जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः” (अमरः)
  • अवलम्ब्य = अव + लन्ब् “लबिँ शब्दे अवस्रंसने च” + ल्यप्
  • नियोगशङ्कुम् = नियोगः एव शङ्कुः, तम्
  • लेभे = लभ् “डुलभष् प्राप्तौ” – लिट्, प्रथम.१
  • गगने = “नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्” (अमरः)

रामायणप्रसङ्गः

  • बालकाण्डम् ६०.१३-१९
  • पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर ।

एष त्वां सशरीरेण नयामि स्वर्गमोजसा ॥

  • स्वार्जितं किञ्चिदप्यस्ति मया हि तपसःफलम् ।

राजन् स्वतेजसा तस्य सशरीरो दिवं व्रज ॥

  • उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ।

दिवं जगाम काकुत्स्थः मुनीनां पश्यतां तदा ॥

  • देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ।

सह सर्वैस्सुरगणैरिदं वचनमब्रवीत् ॥

  • त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ।

गुरुशापहतो मूढ पत भूमिमवाक्छिराः ॥

  • एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः ।

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम् ॥

  • तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिक: ।
    रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ॥

छन्दः

  • उपजातिः (१,३ – उपेन्द्रवज्रा, २,४ – इन्द्रवज्रा)

Word-Meaning

  • शतमन्युः = Indra
    • सञ्जातमन्युः = one in whom anger arose
  • अपातयत् = made him fall down
  • एनम् = Trishanku
    • उपाश्रयन्तम् = one who was entering
      • स्वर्गम् = the Heaven
    • ततः = then
    • त्रिशङ्कुः = Trishanku
      • लेभे = obtained
      • प्रतिष्ठाम् = status
      • गगने = in the sky
      • अवलम्ब्य = supported by
      • नियोगशङ्कुम् = the stick in the form of order (to “Stay there!”)
      • अस्य = of Vishvamitra

गद्यम्

मूलपाठः

ततो गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं तत्र तपःप्रत्यूहः प्रत्युद्भूत इति पश्चिमायां दिशि पुष्करे पुष्कलं तपश्चरन्तममुमम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थं बह्वीभिर्गोभिः क्रीत्वा नरपशुतां नीयमानस्तावदृचीकस्य मध्यमपुत्रः शुनःशेपः शरणमयाचत ।

पदच्छेदः

ततः, गीर्वाण-गण-प्रार्थनया, परित्यक्त-भुवन-अन्तर-निर्माण-कर्माणम्, तत्र, तपः-प्रत्यूहः, प्रत्युद्भूतः, इति, पश्चिमायाम्, दिशि, पुष्करे, पुष्कलम्, तपः, चरन्तम्, अमुम्, अम्बरीष-यज्ञ-पशु-विनाश-प्रायश्चित्त-अर्थम्, बह्वीभिः, र्गोभिः, क्रीत्वा, नर-पशुताम्, नीयमानः, तावत्, ऋचीकस्य, मध्यम-पुत्रः, शुनःशेपः, शरणम्, अयाचत

अन्वयार्थः

  • ततः = तदनन्तर
    • गीर्वाणगणप्रार्थनया = देवसमूहस्य याच्ञया
    • परित्यक्तभुवनान्तरनिर्माणकर्माणम् = नूतनलोकसृष्टेः कार्यं त्यक्तवन्तम्
  • तत्र = दक्षिणदिग्भागे
    • तपःप्रत्यूहः = तपसः विघ्नः
    • प्रत्युद्भूतः = उत्पन्नः
    • इति = इति हेतोः
    • पश्चिमायां दिशि = पश्चिमदिग्भागे
  • पुष्करे = पुष्करक्षेत्रे
    • पुष्कलम् = भूयिष्ठम्
    • तपश्चरन्तम् = तपः कुर्वाणम्
    • अमुम् = विश्वामित्रम्
    • अम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थं = अयोध्याधिपतेः अम्बरीषस्य यज्ञपशौ इन्द्रेण हृते सति, तत्प्रायश्चित्ताय
  • बह्वीभिः गोभिः = गवां शतसहस्रेण
    • क्रीत्वा = परिक्रीय
    • नरपशुताम् = मानुषपशुत्वम्
    • नीयमानः = प्राप्यमाणः

अन्वयः

ततः, गीर्वाणगणप्रार्थनया परित्यक्तभुवनान्तरनिर्माणकर्माणं, तत्र तपःप्रत्यूहः प्रत्युद्भूतः इति, पश्चिमायां दिशि पुष्करे, पुष्कलं तपः चरन्तम्, अमुम्, अम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थं, बह्वीभिः गोभिः क्रीत्वा, नरपशुतां नीयमानः तावत् ऋचीकस्य मध्यमपुत्रः शुनःशेपः शरणम् अयाचत ।

आकाङ्क्षा

  • अयाचत
    • किम् अयाचत ? शरणम्
    • कदा अयाचत ? तावत्
    • कः अयाचत ? शुनःशेपः
      • कीदृशः शुनःशेपः ? मध्यमपुत्रः
        • कस्य मध्यमपुत्रः ? ऋचीकस्य
      • कथंभूतः शुनःशेपः ? नीयमानः
        • कां प्रति नीयमानः ? नरपशुताम्
        • केन नीयमानः ? (अम्बरीषः)
        • किं कृत्वा नीयमानः ? क्रीत्वा
          • काभिः क्रीत्वा ? गोभिः
            • कियत् गोभिः ? बह्वीभिः
          • किमर्थं क्रीत्वा ? अम्बरीषयज्ञपशुविनाशप्रायश्चित्तार्थम्
        • कस्मै अयाचत / कम् प्रति अयाचत ? अमुम्
          • किं कुर्वन्तम् अमुम् ? चरन्तम्
            • किं चरन्तम् ? तपः
              • कीदृशं तपः ? पुष्कलम्
            • कुत्र चरन्तम् ? पुष्करे
              • कस्मिन् पुष्करे ? दिशि
                • कस्यां दिशि ? पश्चिमायाम्
              • किम् इति चिन्तयित्वा ? प्रत्युद्भूतः इति
                • कः प्रत्युद्भूतः ? तपःप्रत्यूहः
                • कुत्र प्रत्युद्भूतः ? तत्र
              • पुनः कथंभूतम् अमुम् ? परित्यक्तभुवनान्तरनिर्माणकर्माणम्
                • केन कारणेन परित्यकतम् ? गीर्वाणगणप्रार्थनया
                • कदा परित्यकतम् ? ततः

तात्पर्यम्

विश्वामित्रः त्रिशङ्कोः कृते नूतनानां लोकानां, सप्तर्षिमण्डलस्य, देवानां च सृष्टिम् आरब्धवान् । ततः अमराणां प्रार्थनया एतत्कार्यं त्यक्त्वा दक्षिणदिशि सञ्जातेन तपोविघ्नेन खिन्नः पश्चिमदिशि पुष्करक्षेत्रे तपः कर्तुम् आरब्धवान् । तावति अयोध्याधिपतेः अम्बरीषस्य यज्ञपशौ इन्द्रेण अपहृते सति सः प्रायश्चित्तरूपेण नरबलिं दातुम् ऋचीकमहर्षेः मध्यमपुत्रं शुनःशेपं गवां शतसहस्रेण क्रीत्वा नीतवान् । सः शुनःशेपः रक्षणार्थं विश्वामित्रंप्रार्थयामास ।

पदविवरणम्

  • गीर्वाणगणप्रार्थनया
    • गीर्वाणगणः = गीर्वाणाणां गणः
    • गीर्वाणगणप्रार्थनया = गीर्वाणगणस्य प्रार्थना, तया ।
  • परित्यक्तभुवनान्तरनिर्माणकर्माणम्
    • भुवनान्तरम् = अन्यत् भुवनम्
    • भुवनान्तरनिर्माणम् = भुवनान्तरस्य निर्माणम्
    • भुवनान्तरनिर्माणकर्म = भुवनान्तरनिर्माणस्य कर्म
    • परित्यक्तभुवनान्तरनिर्माणकर्माणम् = परित्यक्तं भुवनान्तरनिर्माणकर्म येन सः, तम्
  • तपःप्रत्यूहः – तपसः प्रत्यूहः । “विघ्नोऽन्तरायः प्रत्यूहः” (अमरः)

रामायणप्रसङ्गः

  • बालकाण्डम् ६०.२०-३१
  • ऋषिमध्ये स तेजस्स्वी प्रजापतिरिवापरः । सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः ॥
  • नक्षत्रमालामपरामसृजत्क्रोधमूर्च्छितः । सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥
  • अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः । दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे ॥
  • ततः परमसम्भ्रान्तास्सर्षिसङ्घास्सुरासुराः । विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥
  • अयं राजा महाभाग गुरुशापपरिक्षतः । सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥
  • तेषां तद्वचनं श्रुत्वा देवानां मुनिपुङ्गवः । अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः ॥
  • सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः । आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे ॥
  • स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः । नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥
  • यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः । मत्कृतानि सुरास्सर्वे तदनुज्ञातुमर्हथ ॥
  • एवमुक्ताः सुरास्सर्वे प्रत्यूचुर्मुनिपुङ्गवम् । एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥
  • नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिष्षु जाज्वलन् । अवाक्छिरास्त्रिशङ्कुश्च तिष्ठत्वमरसन्निभः ॥
  • गवां शतसहस्रेण विक्रीणीषे सुतं यदि । पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव ॥
  • एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः । नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथञ्चन ॥
  • ऋचीकस्य वचश्श्रुत्वा तेषां माता महात्मनाम् । उवाच नरशार्दूलमम्बरीषं तपस्विनी ॥
  • ममापि दयितं विद्धि कनिष्ठं शुनकं नृप । तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव ॥
  • उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च । शुनश्शेपस्स्वयं राम मध्यमो वाक्यमब्रवीत् ॥
  • पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम् । विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम् ॥
  • शुनश्शेफं नरश्रेष्ठ गृहीत्वा तु महायशाः । व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥
  • तस्य विश्रममाणस्य शुनश्शेपो महायशाः । पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ॥
  • तप्यन्तमृषिभिस्सार्धं मातुलं परमातुरः । विवर्णवदनो दीनस्तृष्णया च श्रमेण च ॥
  • पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह । त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ॥
  • राजा च कृतकार्यस्स्यादहं दीर्घायुरव्ययः । स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥

Word-Meaning

  • तावत् = now, in the mean time,
  • शुनःशेपः = Shunasshepa (whose maternal uncle was Vishwamitra)
    • मध्यम-पुत्रः = the middle son
      • ऋचीकस्य = of Rishi Rchika
    • नीयमानः = one who was being brought
      • क्रीत्वा = upon being bought
        • नर-पशुताम् = as a human being to be sacrificied
        • अम्बरीष-यज्ञ-पशु-विनाश-प्रायश्चित्त-अर्थम् = for the sake (अर्थम्) of attoning (प्रायश्चित्त) the loss (विनाश) of the designated cow (पशु) for the Yaga (यज्ञ), of Ambharisha (अम्बरीष), Ayodhya’s king, as it was stolen by Indra to prevent the successful completion of Ashwamedha Yaga
        • बह्वीभिः गोभिः = by giving many cows, i.e., 100,000 cows according to Valmiki
      • अयाचत = sought
        • शरणम् = refuge
        • अमुम् = him
          • परित्यक्त-भुवन-अन्तर-निर्माण-कर्माणम् = him, by whom the act (कर्म) of setting (निर्माण) up a new world (भुवन-अन्तर) was given (परित्यक्त) up
            • गीर्वाण-गण-प्रार्थनया = due to the request (प्रार्थन) of the group (गण) of Devas (गीर्वाण)
          • ततः = After that, i.e., creating a heaven for Trishanku
          • चरन्तम् = him, who was doing
            • पुष्कलम् = massive
              • तपः = penance
              • पश्चिमायाम् दिशि = in the Western direction
                • पुष्करे = in the place called Pushkara
              • तपः-प्रत्यूहः प्रत्युद्भूतः इति = considering that (इति) the disruption (प्रत्यूह) of the penance (तपस्) has happened (प्रत्युद्भूत)
                • तत्र = in that place, in the southern part of the world

कक्ष्या ३७ – ०८.१०.२०१८

गद्यम्

मूलपाठः

अयं भगवान्निजतनयविनिमयेन रक्षितुमेनमुन्मुखः पराङ्मुखेभ्यस्तेभ्यो हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा गाथाद्वयप्रीताभ्यामिन्द्रोपेन्द्राभ्यामम्बरीषं शुनःशेपं च परिपूर्णमनोरथौ कारयामास ।

पदच्छेदः

अयम्, भगवान्, निज-तनय-विनिमयेन, रक्षितुम्, एनम्, उन्मुखः, पराङ्मुखेभ्यः, तेभ्यः, हविष्यन्द-आदिभ्यः, शापेन, वसिष्ठ-पुत्र-दशाम्, दत्त्वा, गाथा-द्वय-प्रीताभ्याम्, इन्द्र-उपेन्द्राभ्याम्, अम्बरीषम्, शुनःशेपम्, च, परिपूर्ण-मनोरथौ, कारयामास ।

अन्वयार्थः

  • अयम् भगवान् = एषः पूज्यः विश्वामित्रः
  • निजतनयविनिमयेन = स्वपुत्रेषु कस्यचित् परिदानेन
  • एनम् = शुनःशेपम्
  • रक्षितुम् = पालयितुम्
  • उन्मुखः = उत्सुकः
  • पराङ्मखेभ्यः = अनिच्छद्भ्यः
  • हविष्यन्दादिभ्यः तेभ्यः = हविष्यन्द-प्रभृतिभ्यः स्वपुत्रेभ्यः
  • शापेन = आक्रोशेन
  • वसिष्ठपुत्रदशाम् = श्वभक्षकताम्
  • दत्त्वा = विधाय
  • गाथाद्वयप्रीताभ्याम् = गाथाद्वयं विरचय्य, ताभ्यां सन्तुष्टाभ्याम्
  • इन्द्रोपेन्द्राभ्याम् = पुरन्दर-नारायणाभ्याम्
  • अम्बरीषम् = यज्ञं पूरयितुम् इच्छन्तं राजानम्
  • शुनःशेपम् च = रक्षणं प्रार्थितवन्तं ऋचीकपुत्रं च
  • परिपूर्णमनोरथौ = सिद्धमनोरथौ
  • कारयामास = कारितवान्

अन्वयः

अयं भगवान्, निजतनयविनिमयेन एनं रक्षितुम् उन्मुखः (सन्), पराङ्मुखेभ्यः तेभ्यः हविष्यन्दादिभ्यः शापेन वसिष्ठपुत्रदशां दत्त्वा, गाथाद्वयप्रीताभ्याम् इन्द्रोपेन्द्राभ्याम् अम्बरीषं शुनःशेपं च परिपूर्णमनोरथौ कारयामास ।

आकाङ्क्षा

  • कारयामास
    • कः कारयामास ? अयं भगवान्
    • कथंभूतौ कारयामास ? परिपूर्णमनोरथौ
    • कौ कारयामास ? अम्बरीषं शुनःशेपं च
    • काभ्यां हेतुभ्यां कारयामास ? इन्द्रोपेन्द्राभ्याम्
      • कथंभूताभ्यां इन्द्रोपेन्द्राभ्याम् ? गाथाद्वयप्रीताभ्याम्
    • किं कृत्वा कारयामास ? दत्त्वा
      • किं / कां दत्त्वा ? वसिष्ठपुत्रदशाम्
        • केन हेतुना दत्त्वा ? शापेन
      • कस्मै / केभ्यः कृते दत्त्वा ? तेभ्यः हविष्यन्दादिभ्यः
        • कथंभूतेभ्यः तेभ्यः ? पराङ्मुखेभ्यः
      • कथं भूतः सन् भगवान् ? उन्मुखः (सन्)
        • किं कर्तुम् उन्मुखः ? रक्षितुम्
          • कथं / केन हेतोः रक्षितुम् ? निजतनयविनिमयेन
          • कं रक्षितुम् ? एनम्

तात्पर्यम्

विश्वामित्रः स्वपुत्रेषु कस्यचित् प्रतिदानेन शुनःशेपं रक्षितुम् इष्टवान् । किन्तु तत्पुत्राः तस्माद्विमुखाः । तेन कुपितः सन् वासिष्ठान् इव स्वपुत्रानपि श्वमांसभक्षकत्वेन शप्त्वा विश्वामित्रः शुनःशेपं इन्द्र-उपेन्द्र-स्तुतिपूर्वकं गाथाद्वयं पाठितवान् । ताभ्यां प्रीतयोः इन्द्रोपेन्द्रयोः अनुग्रहेण शुनःशेपः सजीवं रक्षितः, अम्बरीषोऽपि यज्ञफलं प्राप ।

पदविवरणम्

  • निजतनयविनिमयेन
    • निजतनयः = निजः तनयः
    • निजतनयविनिमयेन = निजतनयस्य विनिमयः, तेन
  • इन्द्रोपेन्द्राभ्याम् = इन्द्रश्च उपेन्द्रश्च ताभ्याम् । “इन्द्रो मरुत्वान् मघवा”, “उपेन्द्र इन्द्रावरजः चक्रपाणिश्चतुर्भुजः” (अमरः)
  • परिपूर्णमनोरथौ = परिपूर्णः मनोरथः ययोः तौ
  • कारयामास = कृ “डुकृञ् करणे” + णिच् + लिट्. प्र.पु., ए.व.

Word-Meaning

  • अयं भगवान् = This respectful person, Vishvamitra
  • उन्मुखः = one who was enthusiastic
    • रक्षितुम् = to protect
      • एनम् = this person (Shunasshepa)
      • निज-तनय-विनिमयेन = by exchanging (विनिमय) one of his own (निज) sons (तनय)
        • हविष्यन्दादिभ्यः तेभ्यः = those Havishyanda and others
      • दत्त्वा = upon giving
        • शापेन = by a curse
        • वसिष्ठपुत्रदशाम् = the state as that of the sons of Vashishta, i.e., to become pariahs, the people of lowest caste
          • पराङ्मखेभ्यः = to those who refused
        • कारयामास अम्बरीषं शुनःशेपम् च = made Ambharisha and Shunasshepa to be
          • परिपूर्णमनोरथौ = successful (since, for Shunasshepa, his life was saved and for Ambharisha, his yagna was completed without any human sacrifice).
          • इन्द्रोपेन्द्राभ्याम् = through Indra (इन्द्र) and Vishnu (उपेन्द्र), Indra’s brother
            • गाथाद्वयप्रीताभ्याम् = those two who were made happy (प्रीत) by his two (द्वय) compositions named Gaathaa (गाथा)

गद्यम्

मूलपाठः

ततस्तपस्यन्तमेनं मेनकासङ्गतस्तपोभङ्गश्चिरमङ्गीचकार ।

पदच्छेदः

ततः, तपस्यन्तम्, एनम्, मेनका-सङ्गतः, तपः-भङ्गः, चिरम्, अङ्गीचकार

अन्वयार्थः

  • ततः = शुनःशेपप्रसङ्गानन्तरम्
  • तपस्यन्तम् = तपः चरन्तम्
  • एनम् = विश्वामित्रम्
  • मेनकासङ्गतः = मेनकानाम्न्याः अप्सरसः सङ्गात्
  • तपोभङ्गः = तपसः विच्छेदः
  • चिरम् = बहुकालम्
  • अङ्गीचकार = अनुससार

अन्वयः

ततः तपस्यन्तम् एनं मेनका-सङ्गतः तपः-भङ्गः चिरम् अङ्गीचकार

आकाङ्क्षा

  • अङ्गीचकार
    • कियत् कालम् अङ्गीचकार ? चिरम्
    • कः अङ्गीचकार ? तपः-भङ्गः
    • कस्मात् कारणात् अङ्गीचकार ? मेनका-सङ्गतः
    • कम् प्रति अङ्गीचकार ? एनम्
      • पूर्वं किं कुर्वन्तम् एनम् ? तपस्यन्तम्
    • कदा अङ्गीचकार ? ततः

तात्पर्यम्

तपोभङ्गार्थम् इन्द्रेण प्रेषितया अप्सरसा मेनकया आकृष्टः विश्वामित्रः तपोनियमादिकं त्यक्त्वा तस्या सहवासे चिरकालं यापयामास ।

पदविवरणम्

  • तपस्यन्तम् = तपस् + क्यङ् (नामधातुः) + शतृ – तकारान्तः, पुं., द्वि.वि., ए.व. (A subhanta is converted to a dhaatu in Naamadhaatu).
  • मेनकासङ्गतः = मेनकायाः सङ्गः, तस्मात् । पञ्चम्यास्तसिः । अव्ययम् ।

Word-Meaning

  • तपोभङ्गः = The break (भङ्ग) in the penance (तपस्)
    • चिरम् = for a very long time
  • अङ्गीचकार = happened (literally, this means accepted)
    • मेनकासङ्गतः = due to the association (सङ्ग) with the apsara named Menaka (मेनका)
  • एनम् = to this Vishvamitra
    • तपस्यन्तम् = to him, who was performing penance (तपस्)
    • ततः = afterwards, after saving Sunasshepa

गद्यम्

मूलपाठः

पश्चात्पश्चात्तापाभिभूतोऽयमुत्तरे भूभृति कौशिकीतीरे घोरं तपश्चचार ।

पदच्छेदः

पश्चात्, पश्चात्ताप-अभिभूतः, अयम्, उत्तरे, भूभृति, कौशिकी-तीरे, घोरम्, तपः-चचार

अन्वयार्थः

  • पश्चात् = मेनकाप्रसङ्गोत्तरम्
  • पश्चात्तापाभिभूतः = अनुतापेन खिन्नः,
  • अयम् = विश्वामित्रः
  • उत्तरे भूभृति = हिमालयपर्वते
  • कौशिकीतीरे = कौशिकीनद्याः तटे
  • घोरम् = अत्युग्रम्
  • तपश्चचार = तपः कृतवान्

अन्वयः

पश्चात् पश्चात्तापाभिभूतः अयम्, उत्तरे भूभृति कौशिकी-तीरे, घोरम् तपः-चचार

आकाङ्क्षा

  • तपश्चचार
  • कथं तपश्चचार ? घोरम्
  • कुत्र तपश्चचार ? कौशिकीतीरे
    • कुत्र कौशिकीतीरे ? भूभृति
      • कस्मिन् भूभृति ? उत्तरे
    • कः तपश्चचार ? अयम्
      • कथंभूतः अयम् ? पश्चात्तापाभिभूतः
    • कदा तपश्चचार ? पश्चात्

तात्पर्यम्

मेनकाप्रसङ्गानन्तरं तपोनाशकारणात् अनुतापेन खिन्नः विश्वामित्रः उत्तरदिशि हिमालयपर्वते कौशिकीतटे अयुग्रं तपः कृतवान्

पदविवरणम्

  • पश्चात्तापाभिभूतः = पश्चात्तापेन अभिभूतः

Word-Meaning

  • पश्चात् = later
  • अयम् = this person
    • पश्चात्तापाभिभूतः = one who was filled with repentence
  • उत्तरे भूभृति = in the northern mountain ranges, i.e., Himalayas
    • कौशिकीतीरे = in the banks of river Kaushikee
  • घोरम् तपश्चचार = did severe penance

गद्यम्

मूलपाठः

तत्र जम्भारिप्रहितां रम्भां शैली भवेति शप्त्वा पूर्वस्यां दिशि निरस्तनिःश्वासं तपश्चरत्यमुष्मिन्नूष्मणा तपोऽग्नेरुद्विग्नितामरसखस्तामरसासनः सन्निधाय जितेन्द्रियत्वाद्ब्रह्मर्षिरसि वसिष्ठोऽप्येवं व्याहरतु भवन्तमित्यभाषत ।

पदच्छेदः

तत्र, जम्भ-अरि-प्रहिताम्, रम्भाम्, शैली, भव, इति, शप्त्वा, पूर्वस्याम्‌, दिशि, निरस्त-निःश्वासम्, तपः-चरति, अमुष्मिन्, ऊष्मणा, तपस्-अग्नेः, उद्विग्नित-अमर-सखः, तामरस-आसनः, सन्निधाय, जित-इन्द्रियत्वात्, ब्रह्म-ऋषिः, असि, वसिष्ठः, अपि, एवम्, व्याहरतु, भवन्तम्, इति, अभाषत

अन्वयार्थः

  • तत्र = हिमालये
  • जम्भारिप्रहिताम् = इन्द्रेण प्रेषिताम्
  • रम्भाम् = रम्भानाम्नीम् अप्सरसम्
  • शैली = शिलारूपा
  • भव = जायस्व
  • इति शप्त्वा = एवंरूपेण शापं दत्त्वा
  • पुर्वस्यां दिशि = प्राच्याम्
  • निरस्तनिःश्वासम् = प्राणसञ्चारं निरुध्य
  • अमुष्मिन् = विश्वामित्रे
  • तपश्चरति [सति] = तपः कुर्वति
  • तपोऽग्नेः = तस्य तपोरूपस्य ज्वलनस्य
  • ऊष्मणा = तापेन
  • उद्विग्नितामरसखः = विह्वलितैः देवैः सहितः
  • तामरसासनः = कमलासनः ब्रह्मा
  • सन्निधाय = प्रत्यक्षः सन्
  • जितेन्द्रियत्वात् = विषयप्रवृत्तिप्रतिरोधेन शिक्षित-इन्द्रियग्रामत्वात्
  • ब्रह्मर्षिः असि = ब्रह्मर्षिः जातः त्वम्
  • वसिष्ठः अपि = त्वत्प्रतिपक्षी वसिष्ठमहर्षिः अपि
  • एवं = ब्रह्मर्षित्वेन
  • व्याहरतु = वदतु, अङ्गीकरोतु
  • भवन्तम् = विश्वामित्रम्
  • इति = एवंप्रकारेण
  • अभाषत = उवाच

अन्वयः

तत्र जम्भारिप्रहितां रम्भां शैली भव इति, पूर्वस्यां दिशि निरस्तनिःश्वासं अमुष्मिन् तपश्चरति (सति), तपोऽग्नेः ऊष्मणा उद्विग्नितामरसखः तामरसासनः सन्निधाय, “जितेन्द्रियत्वात् ब्रह्मर्षिः असि, वसिष्ठः अपि भवन्तम् एवं व्याहरतु” इति अभाषत ।

आकाङ्क्षा

  • अभाषत
    • किंकृत्वा अभाषत ? सन्निधाय
      • कः अभाषत ? तामरसासनः
        • कथंभूतः तामरसासनः ? उद्विग्नितामरसखः
          • कया उद्विग्निताः ? ऊष्मणा
            • कस्य ऊष्मणा ? तपोऽग्नेः
          • कदा उद्विग्निताः ? अमुष्मिन् तपश्चरति (सति)
            • कथं तपश्चरति सति ? निरस्तनिःश्वासम्
            • कुत्र तपश्चरति सति ? पूर्वस्यां दिशि
            • किं कृत्वा तपश्चरति सति ? (शप्त्वा)
              • किमिति शप्त्वा ? भव इति
                • कथं भव इति ? शैली
                • कां शप्त्वा ? रम्भाम्
                  • कीदृशां रम्भाम् ? जम्भारिप्रहिताम्
                • कुत्र शप्त्वा ? तत्र
              • किमिति अभाषत ? असि इति
                • कथंभूतः असि इति ? ब्रह्मर्षिः
              • कं प्रति अभाषत ? (विश्वामित्रम्)
              • पुनः किमिति अभाषत ? व्याहरतु इति
                • कः अपि व्याहरतु इति ? वसिष्ठः अपि
                • कथं व्याहरतु इति ? एवम्
                • कं प्रति व्याहरतु इति ? भवन्तम्

तात्पर्यम्

उत्तरदिशि यदा विश्वामित्रः तपश्चरति स्म, तदा तस्य तपोभङ्गार्थम् इन्द्रः रम्भां प्रेषितवान् । क्रोधेन तां शप्त्वा विश्वामित्रः पूर्वां दिशं गत्वा तत्र प्राणसञ्चारं निरुध्य अत्युग्रं तपः चचार । तस्य तपोरूपस्य ज्वलनस्य तापेन व्यथिताः देवाः ब्रह्मणा सह तत्समक्षम् आगत्य तं ब्रह्मर्षिरिति अङ्गीकृतवन्तः । वसिष्ठः अपि एतत् अनुमोदितवान् ।

पदविवरणम्

  • जम्भारिप्रहिताम्
    • जम्भारिः = जम्भस्य अरिः, “जम्भभेदी हरिहयः” (अमरः)
    • जम्भारिप्रहिताम् = जम्भारिणा प्रहिता ।
  • निरस्तनिःश्वासम् = निरःस्तः निःश्वासः यथा तथा
  • उद्विग्नितामरसखः
    • उद्विग्नितामराः = उद्विग्निताः अमराः
    • उद्विग्नितामरसखः = उद्विग्नितामराणां सखा । “राजाहःसखिभ्यष्टच्” इति समासान्तेन सखिशब्दः अकारान्तः सम्पद्यते
  • तामरसासनः = तामरसम् आसनं यस्य सः । “पङ्केरुहं तामरसं सारसं सरसीरुहम्” (अमरः)
  • ब्रह्मर्षिः
    • ब्रह्मा = ब्रह्मतुल्यः ऋषिः
    • ब्रह्म = वेदः, परं ब्रह्म;
    • ब्रह्मर्षिः = तत् ऋषति वेत्ति ।
  • व्याहरतु = वि + आ + हृ “हृञ् हरणे”, लोट्., प्र.पु., ए.व.

रामायणप्रसङ्गः

  • तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत । त्रैलोक्यं येन सम्भ्रान्तम् आतापितमिवाभवत् ॥
  • बहुभिः कारणैर्देव विश्वामित्रो महामुनिः । लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥
  • ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः । ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥
  • ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च । ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् ॥
  • क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि । ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ॥
  • ततः प्रसादितो देवैः वसिष्ठो जपतां वरः । सख्यं चकार ब्रह्मर्षिः एवमस्त्विति चाब्रवीत् ॥

Word-Meaning

  • तत्र = Here, at the Himalayas
  • अमुष्मिन् तपश्चरति [सति] = when Vishvamitra was doing the tapas
    • निरस्तनिःश्वासम् = holding the exhalation of breath
    • पुर्वस्यां दिशि = in the Eastern Direction
    • शप्त्वा = upon giving a curse
      • रम्भाम् = to Rambha
        • जम्भारिप्रहिताम् = to her who was sent by Indra
        • शैली भव इति = that (इति) she should become (भव) a stone (शैली)
      • तामरसासनः = the lotus (तामरस) – seated (आसन) Brahma
        • उद्विग्नितामरसखः = one who was along with (सख) the devas (अमर) who were extremely worried (उद्विग्नित)
          • ऊष्मणा = by the heat (ऊष्मण्)
            • तपोऽग्नेः = of the fire (अग्नि) of his penance (तपस्)
          • सन्निधाय = upon showing himself
          • अभाषत = said
          • इति = that
            • जितेन्द्रियत्वात् = since your senses (इन्द्रिय) are controlled (जित)
            • ब्रह्मर्षिः असि = you are a Brahma (ब्रह्म) Rishi (ऋषि)
            • वसिष्ठः अपि = even Rishi Vasishta
              • भवन्तम् = you, Vishvamitra
              • एवम् = in this way (as a Brahma Rishi)
              • व्याहरतु = accept and proclaim

कक्ष्या ३८ – १५.१०.२०१८

  1. श्लोकः

मूलपाठः

असौ वसिष्ठनिर्देशाद्ब्रह्मर्षित्वमविन्दत ।
यथोपनयसंस्काराद्द्विजन्मा ब्रह्मवर्चसम् ॥ ९८ ॥

पदच्छेदः

असौ, वसिष्ठ-निर्देशात्, ब्रह्म-ऋषित्वम्, अविन्दत, यथा, उपनय-संस्कारात्, द्वि-जन्मा, ब्रह्म-वर्चसम्

अन्वयार्थः

  • अविन्दत = प्राप्तवान्
  • असौ = विश्वामित्रः
  • ब्रह्मर्षित्वम् = ब्रह्मर्षिभावम्
  • वसिष्ठनिर्देशात् = वसिष्ठस्य निरूपणात्
  • यथा = येन प्रकारेण
  • विन्दति = प्राप्नोति
  • द्विजन्मा = ब्राह्मणः
  • ब्रह्मवर्चसम् = ब्रह्मतेजः
  • उपनयनसंस्कारात् = आचार्यविहितात् उपनयनात्

अन्वयः

यथा उपनयनसंस्कारात् द्विजन्मा ब्रह्मवर्चसं विन्दति, [एवं] असौ वसिष्ठनिर्देशात् ब्रह्मर्षित्वम् अविन्दत ।

आकाङ्क्षा

  • अविन्दत
    • कः अविन्दत ? असौ
    • किम् अविन्दत ? ब्रह्मर्षित्वम्
    • कस्मात् अविन्दत ? वसिष्ठनिर्देशात्
    • कथम् अविन्दत ? यथा विन्दति
      • कः विन्दति ? द्विजन्मा
      • किं विन्दति ? ब्रह्मवर्चसम्
      • कस्मात् विन्दति ? उपनयनसंस्कारात्

तात्पर्यम्

यथा कश्चित् ब्राह्मणकुले जातः आचार्यविहितात् उपनयनसंस्कारात् अनन्तरमेव ब्रह्मतेजः प्राप्नोति, एवं सः विश्वामित्रः ब्रह्मादिभिः अनुगृहीतोऽपि वसिष्ठस्य अनुमोदनादेव ब्रह्मर्षिभावं प्राप्तवान्

पदविवरणम्

  • अविन्दत = विद् “विदॢ लाभे”, लङ्., प्र.पु., ए.व. ।
    • [विद ज्ञाने – वेत्ति । विद सत्तायाम् – विद्यते । विदॢ लाभे – विन्दति/विन्दते । विद विचारणे – विन्त्ते]
  • द्विजन्मा = द्वे जन्मनी यस्य सः । नकारान्तः, पुं., प्र.वि., ए.व. । “दन्त-विप्र-अण्डजाः द्विजाः” (अमरः)
  • ब्रह्मवर्चसम् = ब्रह्मणः वर्चः । अकारान्तः, पुं., द्वि.वि., ए.व. ।

अलङ्कारः

  • उपमालङ्कारः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • असौ = This person, Vishvamitra
    • अविन्दत = attained
    • ब्रह्मर्षित्वम् = the stature of Brahma Rishi
    • वसिष्ठनिर्देशात् = by the assertion of Vasishta
  • यथा = in the way
    • द्विजन्मा = the twice-born brahmin
    • विन्दति = attains
    • ब्रह्मवर्चसम् = the spiritual splendour
    • उपनयनसंस्कारात् = by the sacred thread ceremony
  1. श्लोकः

मूलपाठः

इति जनकपुरोधःश्लाघितो गाधिसूनुः
सह नृपतनयाभ्यां शर्वरीं तत्र नीत्वा ।
विधिवददिशदर्घ्यं पुष्पदर्भाग्रगर्भं
सरसिजदयिताय ज्योतिषे छान्दसाय ॥ ९९ ॥

पदच्छेदः

इति, जनक-पुरोधस्-श्लाघितः, गाधि-सूनुः, सह, नृप-तनयाभ्याम्, शर्वरीम्, तत्र, नीत्वा, विधिवत्, अदिशत्, अर्घ्यम्, पुष्प-दर्भ-अग्र-गर्भम्, सरसिज-दयिताय, ज्योतिषे, छान्दसाय

अन्वयार्थः

  • अदिशत् = दत्तवान्
  • गाधिसूनुः = विश्वामित्रः
  • जनकपुरोधःश्लाघितः = जनकपुरोहितेन शतानन्देन प्रशंसितः
  • इति = पूर्वोक्तप्रकारेण
  • अर्घ्यम् = जलाञ्जलिम्
  • पुष्पदर्भाग्रगर्भम् = कुसुम-कुशाङ्कुरमिश्रम्
  • ज्योतिषे = तेजसे, सूर्याय
  • छान्दसाय = वेदस्वरूपाय, त्रयीमयाय
    • “ऋग्भिः पूर्वाह्णे दिवि देव ईयते, यजुर्वेदे तिष्ठति मध्ये अह्नः । सामवेदेनास्तमये महीयते”
  • सरसिजदयिताय = कमलबान्धवाय
  • विधिवत् = यथाशास्त्रम्
  • नीत्वा = यापयित्वा
  • शर्वरीम् = रात्रिम्
  • तत्र = जनकयजनभवने
  • नृपतनयाभ्यां सह = रामलक्ष्मणाभ्यां साकम्

अन्वयः

इति जनकपुरोधःश्लाघितः गाधिसूनुः नृपतनयाभ्यां सह तत्र शर्वरीं नीत्वा सरसिजदयिताय छान्दसाय ज्योतिषे पुष्पदर्भाग्रगर्भम् अर्घ्यं विधिवत् अदिशत् ।

आकाङ्क्षा

  • अदिशत्
    • कः अदिशत् ? गाधिसूनुः
      • कथम्भूतः गाधिसूनुः ? जनकपुरोधःश्लाघितः
        • कथं श्लाघितः ? इति
      • किम् अदिशत् ? अर्घ्यम्
        • कीदृशम् अर्घ्यम् ? पुष्पदर्भाग्रगर्भम्
      • कस्मै अदिशत् ? ज्योतिषे
        • कीदृशाय ज्योतिषे ? छान्दसाय
        • पुनः कीदृशाय ज्योतिषे ? सरसिजदयिताय
      • कथम् अदिशत् ? विधिवत्
      • किं कृत्वा अदिशत् ? नीत्वा
        • कां नीत्वा ? शर्वरीम्
        • कुत्र नीत्वा ? तत्र
        • काभ्यां सह नीत्वा ? नृपतनयाभ्यां सह

तात्पर्यम्

एवं शतानन्देन चरितकथनपूर्वकं प्रशंसितः विश्वामित्रः जनकस्य यागभवने रात्रिं यापयित्वा प्रातः कमलबान्धवाय वेदस्वरूपिणे सूर्याय कुसुम-कुशाङ्कुरमिश्रं जलाञ्जलिं यथाशास्त्रं प्रादात् ।

पदविवरणम्

  • जनकपुरोधःश्लाघितः = जनकस्य पुरोधाः, जनकपुरोधसा श्लाघितः
  • शर्वरीम् = “शर्वरी । निशा निशीथिनी रात्रिः” (अमरः)
  • सरसिजदयिताय = सरसिजस्य दयितः, तस्मै ।
  • ज्योतिषे = सकारान्तः, पुं., च.वि., ए.व.
  • छान्दसाय = छन्दः एव छान्दसम् । स्वार्थे अण् ।

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • गाधिसूनुः = Vishvamitra, the son (सूनु) of Gaadhi (गाधि)
    • जनकपुरोधःश्लाघितः = one who was praised (श्लाघित) by Shatananda, the royal priest (पुरोधस्) of Janaka (जनक)
    • इति = in this way
  • अदिशत् = gave
    • अर्घ्यम् = water as a respectful offering
      • पुष्पदर्भाग्रगर्भम् = which contained (गर्भ) flowers (पुष्प) and tip portions (अग्र) or blades of Darbha grass (दर्भ)
    • ज्योतिषे = to the ultimate light, here Sun
      • छान्दसाय = to (the personification of) the Vedas
      • सरसिजदयिताय = to the beloved (दयित) of lotus (सरसिज)
    • विधिवत् = as ordained
  • नीत्वा = after spending
    • शर्वरीम् = the night
    • तत्र = there, in Janaka’s Yagna shaala
    • नृपतनयाभ्यां सह = along with the two princes (नृपतनय)

गद्यम्

मूलपाठः

तदनु जनकराजधानीं रामलक्ष्मणनिरीक्षणकौतुकादनवरतपतितेन विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन पौरनारीलोचनरोचिषा कवचितनरपतिपथां विश्वामित्रः प्रविश्य दशरथतनयाविदमभाषत

पदच्छेदः

तत्-अनु, जनक-राज-धानीम्, राम-लक्ष्मण-निरीक्षण-कौतुकात्, अनवरत-पतितेन, विकच-कुवलय-निचय-उपचीयमान-मेचक-मरीचि-मलिम्लुचेन, पौर-नारी-लोचन-रोचिषा, कवचित-नर-पति-पथां, विश्वामित्रः, प्रविश्य, दशरथ-तनयौ, इदम्, अभाषत

अन्वयार्थः

  • तदनु = ततः परम्
  • विश्वामित्रः = कौशिकः
  • जनकराजधानीम् = मिथिलाम्
  • प्रविश्य = विष्ट्वा
  • रामलक्ष्मणनिरीक्षणकौतुकात् = रामलक्ष्मणयोः अवलोकनस्य औत्सुक्येन
  • अनवरतपतितेन = निरन्तरं प्रसृतेन
  • पौरनारीलोचनरोचिषा = नगरस्त्रीणां नयनकान्त्या
  • विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन
    • विकचानि = प्रफुल्लानि यानि कुवलयानि = नीलोत्पलानि,
    • तेषां निचयेन = समूहेन,
    • उपचीयमाना = प्रवर्धमाना, या मेचकमरीचिः = श्यामलकान्तिः, तस्याः मलिम्लुचेन = चोरेण ।
    • पौरनारीणां नयनकान्तिः विकसितानां नीलोत्पलानां समूहस्य या श्यामलकान्तिः, तत्सदृशी इत्यर्थः ।
  • कवचितनरपतिपथाम् = आच्छादित-राजमार्गाम्
  • दशरथतनयौ = रामलक्ष्मणौ
  • इदम् = इत्थम्
  • अभाषत = उक्तवान्

अन्वयः

तदनु रामलक्ष्मणनिरीक्षणकौतुकात् अनवरतपतितेन विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन पौरनारीलोचनरोचिषा कवचितनरपतिपथां जनकराजधानीं प्रविश्य, विश्वामित्रः दशरथतनयौ इदम् अभाषत ।

आकाङ्क्षा

  • अभाषत
    • किम् अभाषत ? इदम्
    • कौ प्रति अभाषत ? दशरथतनयौ
    • कः अभाषत ? विश्वामित्रः
    • किं कृत्वा अभाषत ? प्रविश्य
      • कुत्र / कां प्रविश्य ? जनकराजधानीम्
        • कीदृशीं जनकराजधानीम् ? कवचितनरपतिपथाम्
          • केन कवचितनरपतिपथाम् ? पौरनारीलोचनरोचिषा
            • कीदृशेन पौरनारीलोचनरोचिषा ? विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन
            • पुनः कीदृशेन पौरनारीलोचनरोचिषा ? अनवरतपतितेन
              • कस्मात् कारणात् अनवरतपतितेन ? रामलक्ष्मणनिरीक्षणकौतुकात्
            • कदा अभाषत ? तदनु

तात्पर्यम्

यदा विश्वामित्रः रामलक्ष्मणाभ्यां सह मिथिलां प्रविष्टः, तदा अतिसुन्दरयोः राम-लक्ष्मणयोः दर्शनकौतूहलेन सर्वाः पौरनार्यः सम्मिलिताः । मिथिलायाः राजमार्गः तासां नारीणां विकसित-कुवलय-समूह-सदृश्या नयनकान्त्या आच्छादितः आसीत् । तादृशीं मिथिलां प्रविश्य विश्वामित्रः रामलक्ष्मणौ इत्थम् उक्तवान् ।

पदविवरणम्

  • पौरनारीलोचनरोचिषा
    • पौरनार्यः = पौराः नार्यः
    • पौरनारीलोचनानि = पौरनारीणां लोचनानि
    • पौरनारीलोचनरोचिषा = पौरनारीलोचनानां रोचिः, तेन । सकारान्तः, नपुं., तृ.वि., ए.व.
  • कवचितनरपतिपथाम्
    • नरपतिपथः = नरपतेः पन्थाः, “ऋक्पूरब्धूःपथामानक्षे” इति अ-प्रत्ययः समासान्तः ।
    • कवचितनरपतिपथाम् = कवचितः नरपतिपथः यस्यां सा, ताम्

Word-Meaning

  • तदनु = After that
  • विश्वामित्रः = Vishvamitra
  • प्रविश्य = upon entering
  • जनकराजधानीम् = Mithilaa, the capital of Janaka’s kingdom
    • कवचितनरपतिपथाम् = whose royal route, i.e., the route (पथिन्) of the lord (पति) of the people (नर), is covered or armoured (कवचित)
      • पौरनारीलोचनरोचिषा = by the light (रोचिस्) of the eyes (लोचन) of the ladies (नारी) of the city (पौर)
        • विकचकुवलयनिचयोपचीयमानमेचकमरीचिमलिम्लुचेन = by the thief (मलिम्लुच) of, meaning those that excels, the dark-blue (मेचक) ray of light (मरीचि), which is being amplified (उपचीयमाना) by the bunch (निचय) of the fully bloomed (विकच) blue-lilies (कुवलय)
        • अनवरतपतितेन = by that which is continuously (अनवरत) falling (पतित)
        • रामलक्ष्मणनिरीक्षणकौतुकात् = due to the eagerness (कौतुक) to see (निरीक्षण) Rama (राम) and Lakshma (लक्ष्मण)
      • अभाषत = said
        • इदम् = in this way
        • दशरथतनयौ = to the two sons (तनय) of Dasharatha (दशरथ), Rama and Lakshmana

गद्यम्

मूलपाठः

अस्यां खलु नगर्यामारब्धयज्ञस्य राज्ञो जनकस्य भागधेयात्सीतानामधेयभाजनमजीजनत्कन्यारत्नं रत्नगर्भा भगवती

पदच्छेदः

अस्याम्, खलु, नगर्याम्, आरब्ध-यज्ञस्य, राज्ञः, जनकस्य, भागधेयात्, सीता-नामधेय-भाजनम्, अजीजनत्, कन्या-रत्नम्, रत्न-गर्भा, भगवती ।

अन्वयार्थः

  • अस्याम् खलु = एतस्याम् एव
  • नगर्याम् = पुर्याम्
  • आरब्ध-यज्ञस्य = उपक्रान्त-क्रतोः
  • राज्ञः जनकस्य = जनकमहाराजस्य
  • भागधेयात् = भाग्यवशात्
  • भगवती = पूज्या
  • रत्नगर्भा = भूदेवी
  • सीतानामधेयभाजनम् = सीतानाम्नीम्
  • कन्यारत्नम् = श्रेष्ठां कन्यकाम्
  • अजीजनत् = जनयामास

अन्वयः

अस्यां खलु नगर्याम् आरब्ध-यज्ञस्य राज्ञः जनकस्य भागधेयात् सीता-नामधेय-भाजनं कन्या-रत्नं रत्न-गर्भा भगवती अजीजनत् ।

आकाङ्क्षा

  • अजीजनत्
    • का अजीजनत् ? भगवती
      • कीदृशी भगवती ? रत्न-गर्भा
    • कम् अजीजनत् ? कन्या-रत्नम्
      • कथंभूतं कन्या-रत्नम् ? सीता-नामधेय-भाजनम्
    • कस्मात् कारणात् अजीजनत् ? भागधेयात्
      • कस्य भागधेयात् ? राज्ञः जनकस्य
        • कीदृशस्य जनकस्य ? आरब्ध-यज्ञस्य
      • कुत्र अजीजनत् ? नगर्याम्
        • कस्मिन् एव नगर्याम् ? अस्याम् खलु

तात्पर्यम्

एतस्यामेव मिथिलानगर्यां यदा राजा जनकः क्रतुमेकम् आरब्धवान्, तदा तस्य भाग्यवशात् पूज्या भूदेवी सीतानाम्नीं श्रेष्ठां कन्यकाम् उत्पादयामास ।

पदविवरणम्

  • आरब्धयज्ञस्य = आरब्धः यज्ञः येन सः, तस्य
  • भागधेयात् = “दैवं दिष्टं भागधेयम्” (अमरः)
  • अजीजनत् = जन् “जनी प्रादुर्भावे” + णिच् + लुङ्., प्र.पु., ए.व.
  • कन्यारत्नम् = “जातौ जातौ यदुत्कृष्टं तद्रत्नमिति कथ्यते”
  • रत्नगर्भा = रत्नानि गर्भे यस्याः सा । “भूतधात्री रत्नगर्भा जगती सागराम्बरा” (अमरः)

Word-Meaning

  • अस्यां नगर्यां खलु = in this (सा) city (नगरी) only (खलु)
  • भागधेयात् = due to the good fortune (भागधेय)
    • राज्ञः जनकस्य = of King (राजन्) Janaka (जनक)
    • आरब्ध-यज्ञस्य = of one who had started (आरब्ध) the fire ritual (यज्ञ)
  • रत्नगर्भा = Mother Earth who is the womb (गर्भ) of all precious gems (रत्न)
    • भगवती = the adorable one
  • अजीजनत् = gave birth
    • कन्यारत्नम् = to the gem (रत्न) among women (कन्या)
    • सीतानामधेयभाजनम् = to the recipient (भाजन) of the name (नामधेय) Sita (सीता)

गद्यम्

मूलपाठः

अस्याः पुनः किमपरं माहात्म्यम्

पदच्छेदः

अस्याः, पुनः, किम्, अपरम्, माहात्म्यम्

अन्वयार्थः

  • अस्याः = मिथिलायाः
  • अपरम् = इतोप्यधिकम्
  • माहात्म्यम् = महिमवर्णनम्
  • पुनः किम् = भूयः किं वक्तव्यम् ? (वक्तव्यं नास्ति)

अन्वयः

अस्याः पुनः किम् अपरं माहात्म्यम् ?

आकाङ्क्षा

  • माहात्म्यम् किम् ?
    • कीदृशं माहात्म्यम् ? पुनः अपरम्
    • कस्याः माहात्म्यम् ? अस्याः

तात्पर्यम्

अस्याः मिथिलायाः महिमविषये अन्यत् किमपि वक्तव्यं नास्ति

Word-Meaning

  • अस्याः = of this, Mithilaa
  • अपरम् = other than this
  • माहात्म्यम् = description of the greatness
  • पुनः किम् = what is there ? (There is nothing more to be told).

कक्ष्या ३९ – २२.१०.२०१८

  1. श्लोकः

मूलपाठः

देव्या यस्या वसनमुदधिः पीठिका हाटकाद्रि-
र्हारः सिन्धुः सगरतनयस्वर्गमार्गैकबन्धुः ।
क्रीडाशैलः प्रथमपुरुषक्रोडदंष्ट्रा च तस्याः
सीतामातुर्जगति मिथिलां सूतिकागेहमाहुः ॥ १०० ॥

पदच्छेदः

देव्याः, यस्याः, वसनम्, उदधिः, पीठिका, हाटक-अद्रिः, हारः, सिन्धुः, सगर-तनय-स्वर्ग-मार्ग-एक-बन्धुः, क्रीडा-शैलः, प्रथम-पुरुष-क्रोड-दंष्ट्रा, च, तस्याः, सीता-मातुः, जगति, मिथिलाम्, सूतिका-गेहम्, आहुः

अन्वयार्थः

  • आहुः = वदन्ति
  • मिथिलाम् = मिथिलानगरीम्
  • सूतिकागेहम् = प्रसवगृहम्
  • जगति = प्रपञ्चे
  • तस्याः सीतामातुः = सीताजनन्याः भूदेव्याः
  • यस्याः देव्याः उदधिः वसनम्, हाटकाद्रिः पीठिका, सगरतनयस्वर्गमार्गैकबन्धुः सिन्धुः हारः, प्रथमपुरुषक्रोडदंष्ट्रा क्रीडाशैलः च
  • वसनम् = वस्त्रम्
  • उदधिः = समुद्रः
  • पीठिका = आसनम्
  • हाटकाद्रिः = स्वर्णाचलः
  • हारः = मालिका
  • सिन्धुः = नदी
  • सगरतनयस्वर्गमार्गैकबन्धुः = सगरतनयानां स्वर्गप्रापिका गङ्गा
  • क्रीडाशैलः = लीलापर्वतः, विहाराचलः
  • प्रथमपुरुषक्रोडदंष्ट्रा = आदिपुरुषस्य विष्णोः वराहरूपस्य दन्तः

अन्वयः

यस्याः देव्याः उदधिः वसनम्, हाटकाद्रिः पीठिका, सगरतनयस्वर्गमार्गैकबन्धुः सिन्धुः हारः, प्रथमपुरुषक्रोडदंष्ट्रा क्रीडाशैलः च तस्याः सीतामातुः जगति मिथिलां सूतिकागेहम् आहुः ।

आकाङ्क्षा

  • आहुः
    • काम् आहुः ? मिथिलाम्
    • किमिति आहुः ? सूतिकागेहम्
      • कुत्र सूतिकागेहम् ? जगति
      • कस्याः सूतिकागेहम् ? तस्याः सीतामातुः
        • कथम्भूतायाः तस्याः ? यस्याः देव्याः उदधिः वसनम्
        • कथम्भूतायाः तस्याः ? यस्याः देव्याः हाटकाद्रिः पीठिका
        • कथम्भूतायाः तस्याः ? यस्याः देव्याः सिन्धुः हारः
          • कीदृशी सिन्धुः ? सगरतनयस्वर्गमार्गैकबन्धुः
        • कथम्भूतायाः तस्याः ? यस्याः देव्याः प्रथमपुरुषक्रोडदंष्ट्रा क्रीडाशैलः च

तात्पर्यम्

विश्वम्भरायाः भूदेव्याः समुद्र एव वस्त्रम्, स्वर्णाचलः आसनम्, गङ्गानदी मालिका, वराहरूपस्य विष्णोः दंष्ट्रा एव क्रीडापर्वतः । तादृश्याः वसुमत्याः प्रसवगृहं मिथिलानगरी (अत्रैव तत्पुत्र्याः सीतायाः जननत्वात्) – एतदेव तस्याः परमं माहात्म्यम् इत्यर्थः ।

पदविवरणम्

  • वसनम् = “वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्” (अमरः)
  • उदधिः = “उदन्वान् उदधिः सिन्धुः” (अमरः)
  • हाटकाद्रिः = हाटकस्य अद्रिः । “स्वर्णं सुवर्णं कनकं हिरण्यं हेम-हाटकम्” (अमरः)
  • सिन्धुः = सरित्, स्त्रीलिङ्गः । “देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्” (अमरः)
  • सगरतनयस्वर्गमार्गैकबन्धुः
    • सगरतनयाः = सगरस्य तनयाः
    • स्वर्गमार्गः = स्वर्गस्य मार्गः
    • सगरतनयस्वर्गमार्गः सगरतनयानां स्वर्गमार्गः
    • एकबन्धुः = एकः बन्धुः
    • सगरतनयस्वर्गमार्गैकबन्धुः = सगरतनयस्वर्गमार्गस्य एकबन्धुः
  • प्रथमपुरुषक्रोडदंष्ट्रा
    • प्रथमपुरुषः = प्रथमः पुरुषः
    • प्रथमपुरुषक्रोडः = प्रथमपुरुषश्च असौ क्रोडश्च । “वराहः सूकरो घृष्टिः.. क्रोडो भूदार इत्यपि”
    • प्रथमपुरुषक्रोडदंष्ट्रा = प्रथमपुरुषक्रोडस्य दंष्ट्रा ।
  • सूतिकागेहम् = सूतिकायाः गेहम् । “गृहं गेहोदवसितम्” (अमरः)

अलङ्कारः

  • रूपकालङ्कारः = Metaphor as in वसनम् उदधिः and other similar descriptions.
  • अधिकालङ्कारः = The substratum (आधारः) on which something (आधेयः) is placed is considered to be superior. For example, a book can be placed only on something that is bigger like a table. Here आधेयः = भूदेवी; आधारः = मैथिला. This by describing the greatness of the aadheyaa – Mother Earth, the greatness of the Aadhaara – Mithilaa is being implied.

छन्दः

  • मन्दाक्रान्ता वृत्तम् “मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तो गुरू चेत्” (४+६+७ = १७ प्रतिपादम्, म-भ-न-त-त गणाः, गुरुः, गुरुः)
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु गु गु गु गु गु गु
दे व्या स्या मु धिः पी ठि का हा का द्रि

Word-Meaning

  • मिथिलाम् = The city of Mithilaa (मिथिला)
  • आहुः = is said to be
    • सूतिकागेहम् = the labour room
      • जगति = in the entire world (जगत्)
    • तस्याः सीतामातुः = of that Mother Earth, the mother (मातृ) of Sitaa (सीता)
    • यस्याः देव्याः = of that goddess (देवी), whose
      • वसनम् = clothes
        • उदधिः = is the ocean;
      • पीठिका = seat
        • हाटकाद्रिः = is the golden (हाटक) mountain (अद्रि);
      • हारः = garland
        • सिन्धुः = is the river (सिन्धुः), here Ganga
          • सगरतनयस्वर्गमार्गैकबन्धुः = that Ganga who is the only (एक) companion (बन्धुः) in the path (मार्ग) towards heaven (स्वर्ग) for the sons (तनय) of Sagara (सगर);
        • क्रीडाशैलः = whose pleasure-mountain (क्रीडा-शैल)
          • प्रथमपुरुषक्रोडदंष्ट्रा = is the tusk (दंष्ट्र / दंष्ट्रा) of the Primordial-Person (प्रथम-पुरुष), Maha Vishnu in his Varaaha or Hog (क्रोड)
  1. श्लोकः

मूलपाठः

तत्र सीताविवाहार्थममरैरपि दुष्करम् ।
जनकः कल्पयामास धनुरारोपणं पणम् ॥ १०१ ॥

पदच्छेदः

तत्र, सीता-विवाह-अर्थम्, अमरैः, अपि, दुष्करम्, जनकः, कल्पयामास, धनुः-आरोपणम्, पणम्

अन्वयार्थः

  • तत्र = तादृश्यां मिथिलायाम्
  • कल्पयामास = निश्चितवान्
  • जनकः = मिथिलायाः महाराजः, सीतायाः पिता
  • पणम् = मूल्यम्
  • धनुरारोपणम् = हरकोदण्डस्य ज्याबन्धनरूपम्
  • दुष्करम् = कर्तुम् अशक्यम्
  • अमरैः अपि = देवैः अपि
  • सीताविवाहार्थम् = पुत्र्याः उद्वाहार्थम्

अन्वयः

तत्र सीताविवाहार्थं जनकः अमरैः अपि दुष्करं धनुरारोपणं पणं कल्पयामास ।

आकाङ्क्षा

  • कल्पयामास
    • कः कल्पयामास ? जनकः
    • कम् कल्पयामास ? पणम्
      • किंरूपं पणम् ? धनुरारोपणम्
        • कथम्भूतं धनुरारोपणम् ? दुष्करम्
          • कैः अपि कर्तुं दुष्करम् ? अमरैः अपि
        • किमर्थं कल्पयामास ? सीताविवाहार्थम्
        • कुत्र कल्पयामास ? तत्र

तात्पर्यम्

मिथिलायाः राजा जनकः पुत्र्याः सीतायाः उद्वाहार्थं देवैरप्यशक्यं हरकोदण्डस्य ज्याबन्धनरूपं मूल्यं निश्चितवान् ।

पदविवरणम्

  • दुष्करम् = दुस् + कृ “डुकृञ् करणे” + खल् (कृत्) । “ईषद्-दुः-सुषु कृच्छ्र-अकृच्छ्रार्थेषु खल्”
  • धनुरारोपणम् = धनुषः आरोपणम् ।
  • पणम् = “पणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • तत्र = There,
  • जनकः = King Janaka
  • कल्पयामास = set
  • पणम् = the charge, (here the challenge)
    • धनुरारोपणम् = to be the lifting of the bow (and tieing the string)
      • दुष्करम् = which was difficult or impossible to be done
        • अमरैः अपि = even by the Devas
      • सीताविवाहार्थम् = for the sake of Sita’s marriage (i.e., to win Sita’s hands in marriage)
  1. श्लोकः

मूलपाठः

ततो महर्षिर्जनकस्य राज्ञः
सभां सुधर्मासदृशीं प्रपेदे ।
तौ चापतुश्चापविलोकलोलौ
सचापकौ कोसलराजपुत्रौ ॥ १०२ ॥

पदच्छेदः

ततः, महर्षिः, जनकस्य, राज्ञः, सभाम्, सुधर्मा-सदृशीम्, प्रपेदे, तौ, च, आपतुः, चाप-विलोक-लोलौ, स-चापकौ, कोसल-राज-पुत्रौ

अन्वयार्थः

  • ततः = सीतावृत्तान्तश्रवणानन्तरम्
  • प्रपेदे = प्राप्तवान्
  • महर्षिः = विश्वामित्रः
  • सभाम् = आस्थानम्
  • राज्ञः जनकस्य
  • सुधर्मासदृशीम् = इन्द्रसभातुल्याम्
  • आपतुः = प्राप्तवन्तौ
  • तौ कोसलराजपुत्रौ = रामलक्ष्मणौ
  • सचापकौ = धनुर्धरौ
  • चापविलोकलोलौ = शिवधनुर्दर्शनोत्सुकौ

अन्वयः

ततः महर्षिः राज्ञः जनकस्य सुधर्मासदृशीं सभां प्रपेदे । सचापकौ, चापविलोकलोलौ तौ कोसलराजपुत्रौ [अपि] आपतुः ।

आकाङ्क्षा

  • ततः प्रपेदे = प्राप्तवान्
    • कः प्रपेदे ? महर्षिः
    • कां प्रपेदे ? सभाम्
      • कस्य सभाम् ? राज्ञः जनकस्य
      • कीदृशीं सभाम् ? सुधर्मासदृशीम्
    • आपतुः
      • कौ आपतुः ? तौ कोसलराजपुत्रौ
        • कीदृशौ कोसलराजपुत्रौ ? सचापकौ
        • पुनः कीदृशौ कोसलराजपुत्रौ ? चापविलोकलोलौ

तात्पर्यम्

एवमुक्त्वा विश्वामित्रः इन्द्रसभातुल्यं जनकस्य आस्थानं प्रविष्टवान् । तेन सह धनुर्धरौ रामलक्ष्मणौ अपि शिवधनुषः दर्शनोत्सुकौ आस्थानं प्राप्तवन्तौ ।

पदविवरणम्

  • सुधर्मासदृशीम् = सुधर्मया सदृशी, ताम् । “स्यात् सुधर्मा देवसभा” (अमरः)
  • प्रपेदे = प्र + पद् “पद गतौ”, लिट्, प्र.पु., ए.व. । लट्-लकारे पद्यते, पद्येते, पद्यन्ते । लिट्लकारे पेदे, पेदाते, पेदिरे ।
  • आपतुः = आप् “आपॢ व्याप्तौ”, लिट्, प्र.पु., द्वि.व. । लिट्लकारे आप, आपतुः, आपुः
  • सचापकौ
    • चापकः = चाप एव चापकः । स्वार्थे क-प्रत्ययः । “धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम्” (अमरः)
    • सचापकौ = चापकेन सहितौ ।

अलङ्कारः

  • यमकालङ्कारः (चाप इति पुनःपुनः आगच्छति)

छन्दः

  • उपजातिः वृत्तम् (१,२,४ उपेन्द्रवज्रा, ३ इन्द्रवज्रा)

Word-Meaning

  • ततः = After that
    • महर्षिः = Maharshi Vishvamitra
    • प्रपेदे = reached
    • सभाम् = the assembly hall
      • राज्ञः जनकस्य = of Raja Janaka
      • सुधर्मासदृशीम् = which was equal (सदृशी) to Indra’s Council Hall named Sudharmaa (सुधर्मा)
    • तौ कोसलराजपुत्रौ = they both, Rama and Lakshmana, the two princes (राज-पुत्र) of Koshala (कोसल)
      • सचापकौ = those two who were with (सह) their bows (चापक)
      • चापविलोकलोलौ = those two who were eager (लोल) to see (विलोक) the bow (चाप) of Shiva
      • आपतुः = entered

गद्यम्

मूलपाठः

तत्र विधिवदभ्यर्चितः कथितदशरथतनयवृत्तान्तः कौशिकः कौशिकप्रमुखैरमरैरस्मत्कुलमहत्तरे देवराते निक्षिप्तं विशेषतः सीताशुल्कार्थं मया रक्षितमिदमिति जनकेन प्रदर्शितस्य चापस्यारोपणाय राममादिदेश ।

पदच्छेदः

तत्र, विधिवत्, अभ्यर्चितः, कथित-दशरथ-तनय-वृत्तान्तः, कौशिकः, कौशिक-प्रमुखैः, अमरैः, अस्मत्-कुल-महत्तरे, देवराते, निक्षिप्तम्, विशेषतः, सीता-शुल्क-अर्थम्, मया, रक्षितम्, इदम्, इति, जनकेन, प्रदर्शितस्य, चापस्य, आरोपणाय, रामम्, आदिदेश

अन्वयार्थः

  • तत्र = जनकसभायाम्
  • विधिवत् = यथाशास्त्रम्
  • अभ्यर्चितः = पूजितः
  • कथितदशरथतनयवृत्तान्तः = रामलक्ष्मणयोः कुल-शील-कर्मादिकं विवृत्य
  • कौशिकः = विश्वामित्रः
  • कौशिकप्रमुखैः = इन्द्रादिभिः
  • अमरैः = देवैः
  • अस्मत्कुलमहत्तरे = अस्माकं वंशस्य श्रेष्ठे
  • देवराते = विदेहराजे
  • निक्षिप्तम् = विन्यस्तम्
  • इदम् = धनुः
  • विशेषतः = विशेषप्रकारेण
  • सीताशुल्कार्थम् = सीतायाः विवाहमूल्यार्थम्
  • मया = जनकेन
  • रक्षितम् = गुप्तम्
  • इति = एवम्
  • जनकेन = महाराजेन
  • प्रदर्शितस्य = सन्दर्शितस्य
  • चापस्य = धनुषः
  • आरोपणाय = अवनमनाय
  • रामम् आदिदेश = रामम् आज्ञापितवान्

अन्वयः

तत्र विधिवत् अभ्यर्चितः कथित-दशरथ-तनय-वृत्तान्तः कौशिकः कौशिक-प्रमुखैः अमरैः अस्मत्-कुल-महत्तरे देवराते निक्षिपतं विशेषतः सीता-शुल्क-अर्थं मया रक्षितम् इदम् इति जनकेन प्रदर्शितस्य चापस्य आरोपणाय रामम् आदिदेश ।

आकाङ्क्षा

  • आदिदेश
    • कुत्र आदिदेश ? तत्र
    • कः आदिदेश ? कौशिकः
      • कथंभूतः कौशिकः ? कथित-दशरथ-तनय-वृत्तान्तः
      • पुनः कथंभूतः कौशिकः ? अभ्यर्चितः
        • कथम् अभ्यर्चितः ? विधिवत्
      • कम् आदिदेश ? रामम्
      • किमर्थम् आदिदेश ? आरोपणाय
        • कस्य आरोपणाय ? चापस्य
          • कथंभूतस्य चापस्य ? प्रदर्शितस्य
            • केन प्रदर्शितस्य ? जनकेन
            • किमिति प्रदर्शितस्य ? रक्षितम् इति
              • केन रक्षितम् ? मया
              • किमर्थं रक्षितम् ? सीता-शुल्क-अर्थम्
              • कथं रक्षितम् ? विशेषतः
              • किं रक्षितम् ? इदम्
                • कथंभूतम् इदम् ? निक्षिप्तम्
                  • कस्मिन् / कुत्र निक्षिप्तम् ? देवराते
                    • कीदृशे देवराते ? अस्मत्-कुल-महत्तरे
                  • कैः निक्षिप्तम् ? अमरैः
                    • कीदृशैः अमरैः ? कौशिक-प्रमुखैः

तात्पर्यम्

आस्थाने जनकेन पूजितः विश्वामित्रः रामलक्ष्मणौ परिचायितवान् । ततः जनकः “इदं शिवधनुः इन्द्रादिभिः देवैः अस्माकं पूर्वजे देवराते विन्यस्तम् । मया सीताविवाहस्य मूल्यमिति निश्चितम्” इत्युक्त्वा धनुः दर्शयामास । विश्वामित्रः तं चापम् आरोपयितुं रामम् आज्ञापितवान् ।

पदविवरणम्

  • कथितदशरथतनयवृत्तान्तः
    • दशरथतनयौ = दशरथस्य तनयौ
    • दशरथतनयवृत्तान्तः = दशरथतनययोः वृत्तान्तः
    • कथितदशरथतनयवृत्तान्तः = कथितः दशरथतनयवृत्तान्तः येन सः
  • कौशिकः = “गाधेयो विश्वामित्रश्च कौशिकः”, “महेन्द्र गुग्गुलु-उलूक-व्यालग्राहिषु कौशिकः” (अमरः)
  • आदिदेश = आ + दिश् “दिश अतिसर्जने”, लिट्, प्र.पु., ए.व.

Word-Meaning

  • तत्र = There
  • कौशिकः = Kaushika (कौशिक), i.e., Maharishi Vishvamitra
    • अभ्यर्चितः = one who has been honoured
      • विधिवत् = as ordained
    • कथितदशरथतनयवृत्तान्तः = one who has told (कथित) the story (वृत्तान्त) of the sons (तनय) of Dasaratha (दशरथ)
  • आदिदेश रामम् = ordered Rama
  • आरोपणाय = for stringing (आरोपण)
    • चापस्य = of the bow (चाप) (i.e., to string the bow)
    • प्रदर्शितस्य = of that bow which has been shown (प्रदर्शित)
    • जनकेन = by Raja Janaka (जनक)
      • इति = saying that
        • इदम् = this (इदम्) bow
          • निक्षिप्तम् = that which has been placed (निक्षिप्त) (i.e., given)
            • देवराते = in (i.e., to) King Devaraata (देवरात)
            • अस्मत्कुलमहत्तरे = in (i.e., to) him who is a greater person (महत्तर) in my (अस्मद्) ancestry (कुल)
            • अमरैः = by the devas (अमर)
              • कौशिकप्रमुखैः = by those lead by Indra (कौशिक)
            • रक्षितम् = has been protected
              • मया = by me
              • विशेषतः = specifically
              • सीताशुल्कार्थम् = for being a fee for Sita (i.e., for her marriage)

कक्ष्या ४० – ०५.११.२०१८

  1. श्लोकः

मूलपाठः

ततः ।

रामे बाहुबलं विवृण्वति धनुर्वंशे गुणारोपणं
नाभूत्केवलमात्मना तिलकिते वंशेऽपि वैकर्तने ।
आकृष्टं नितरां तदेव न परं सीतामनोऽपि द्रुतं
भङ्गस्तस्य न केवलं क्षितिभुजां दोःस्तम्भदम्भस्य च ॥ १०३ ॥

पदच्छेदः

रामे, बाहु-बलम्, विवृण्वति, धनुः-वंशे, गुण-आरोपणम्, न, अभूत्, केवलम्, आत्मना, तिलकिते, वंशे, अपि, वैकर्तने, आकृष्टम्, नितराम्, तत्, एव, न, परम्, सीता-मनः, अपि, द्रुतम्, भङ्गः, तस्य, न, केवलम्, क्षिति-भुजाम्, दोः-स्तम्भ-दम्भस्य, च

अन्वयार्थः

  • रामे विवृण्वति [सति] = प्रकटयति
  • बाहुबलम् = स्वस्य भुजपराक्रमम्
  • गुणारोपणम् केवलं न अभूत्‌ = मौर्वीयोजनं केवलं न अभूत्‌
  • धनुर्वंशे = चापस्य वेणुदण्डे
  • वैकर्तने वंशे अपि = सूर्यवंशे अपि
  • तिलकिते = अलङ्कृते
  • आत्मना = रामेण
    • रामेण यदा धनुषि गुणः आरोपितः, तदैव तस्य शौर्येण तद्वंशस्य महिमा अपि महतीं प्रतिष्ठां प्राप इत्यर्थः ।
  • केवलम् आकृष्टं न अभूत्
  • तत् एव = धनुषः दण्डः एव
  • नितराम् = अतिशयेन
  • सीतामनः अपि = सीतायाः हृदयम् अपि
  • परं द्रुतम् = अत्यन्तं शीघ्रम्
    • यदा रामः बलेन धनुः कृष्टवान्, तदैव अतिवेगेन सीतायाः मनः अपि आकृष्टवान् इत्यर्थः
  • केवलं भङ्गः न अभूत् = केवलं विभेदः न अभूत्
  • तस्य = धनुषः
  • [किन्तु] दोःस्तम्भदम्भस्य च = भुजदण्डविषये बलाडम्बरस्य
  • क्षितिभुजाम् = क्षत्त्रियाणाम्
    • यदा रामस्य बलं सोढुम् अशक्तं शिवधनुः भग्नं, तदैव तच्चापम् उन्नेतुमपि अशक्तानां क्षत्त्रियाणां निजभुजबलस्य विषये अहङ्कारः अपि भग्नः

अन्वयः

रामे बाहुबलं विवृण्वति केवलं धनुर्वंशे गुणारोपणं न अभूत्, [किन्तु] आत्मना तिलकिते वैकर्तने वंशे अपि [गुणारोपणम् अभूत्] । तदेव नितरां न आकृष्टम् [किन्तु] सीतामनः अपि परं द्रुतम् [आकृष्टम् अभूत्] । न केवलं तस्य भङ्गः, [किन्तु] क्षितिभुजां दोःस्तम्भदम्भस्य च [भङ्गः अभूत्] ।

आकाङ्क्षा

  • केवलं न अभूत्‌
    • कदा अभूत्‌ ? रामे विवृण्वति [सति]
      • किं विवृण्वति ? बाहुबलम्
    • केवलं किं नाभूत् ? गुणारोपणम्
      • कस्मिन् गुणारोपणम् ? धनुर्वंशे
    • [किन्तु] किमभूत् ? गुणारोपणम्
      • कस्मिन् गुणारोपणम् ? वैकर्तने वंशे अपि
        • कीदृशे वंशे ? तिलकिते
          • केन तिलकिते ? आत्मना
        • केवलं न अभूत्‌
          • केवलं किं नाभूत् ? आकृष्टम्
            • किं आकृष्टम् ? तत् एव
            • कथम् आकृष्टम् ? नितराम्
          • [किन्तु] किमभूत् ? आकृष्टम्
            • किं आकृष्टम् ? सीतामनः अपि
            • कथम् आकृष्टम् ? परं द्रुतम्
          • केवलं न अभूत्
            • कः केवलं न अभूत् ? भङ्गः
              • कस्य भङ्गः ? तस्य
            • [किन्तु] कः अभूत् ? भङ्गः
              • कस्य भङ्गः ? दोःस्तम्भदम्भस्य च
                • केषां दोःस्तम्भस्य ? क्षितिभुजाम्

तात्पर्यम्

रामः यदा शिवधनुषः भङ्गेन स्वस्य बलं प्रकटितवान्, तदा अन्यान्यपि कार्याणि युगपत् साधितानि । तेन यदा धनुषि गुणः आरोपितः, तदैव तस्य शौर्येण तद्वंशस्य महिमा अपि महतीं प्रतिष्ठां प्राप । यदा सः बलेन धनुः कृष्टवान्, तदैव अतिवेगेन सीतायाः मनः अपि आकृष्टवान् । यदा रामस्य बलं सोढुम् अशक्तं शिवधनुः भग्नं, तदैव तच्चापम् उन्नेतुमपि अशक्तानां क्षत्त्रियाणां निजभुजबलस्य विषये अहङ्कारः अपि भग्नः ।

पदविवरणम्

  • बाहुबलम् = बाह्वोः बलम् ।
  • विवृण्वति = वि + वृ “वृञ् वरणे” + शतृ । तकारान्तः पुं., स.वि., ए.व. ।
  • वैकर्तने = विकर्तनस्य इदम्, तस्मिन् । विकर्तन + अण् (तद्धितः) ।
  • सीतामनः = सीतायाः मनः । सकारान्तः, नपुं., प्र.वि., ए.व. ।
  • द्रुतम् = “जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम्” (अमरः) ।
  • क्षितिभुजाम् = क्षितिं भूमिं भुङ्क्ते । जकारान्तः, पुं., ष.वि., ब.व. । क्षितिं भुङ्क्ते ।
  • दोःस्तम्भदम्भस्य
    • दोः = दोस्, सकारान्तः । पुल्लिङ्गः (नपुंसकेऽपि इति केचन) । प्रथमाविभक्तौ – दोः दोषौ दोषः ।
    • दोःस्तम्भः = दोः एव स्तम्भः ।
    • दोःस्तम्भदम्भस्य = दोःस्तम्भस्य दम्भः, तस्य ।

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु   गु गु गु गु गु

Word-Meaning

  • रामे विवृण्वति [सति] = When Rama exhibited
    • बाहुबलम् = the strength of his arms
    • केवलं न = Not just
      • गुणारोपणम् = the fixing of the string
      • धनुर्वंशे = in the bow, made of wood
      • अभूत्‌ = happened
    • [किन्तु] = but also
      • वैकर्तने वंशे = in the Surya dynasty
      • अपि = even
      • गुणारोपणम् = the establishment of the qualities
        • अभूत्‌ = happened
        • तिलकिते = in that which has been decorated
          • आत्मना = by himself (by Rama)
        • केवलम् न = Not just
          • आकृष्टं = the forceful pulling or drawing towards oneself
          • अभूत् = happened
          • तत् एव = of that itself, i.e., of the bow
          • नितराम् = entirely
        • [किन्तु] = but also
          • सीतामनः अपि = even the heart (मनस्) of Sita (सीता)
          • आकृष्टम् अभूत् = was drawn
          • परं द्रुतम् = in an extremely (परम्) quick (द्रुत) manner
        • केवलं न = not just
          • भङ्गः = breaking
          • तस्य = of it, i.e., of the bow
          • अभूत् = happened
        • [किन्तु] = but
          • भङ्गः = breaking
          • दोःस्तम्भदम्भस्य = of the false pride (दम्भ) of the pillar (स्तम्भ) like arms (दोस्)
          • च = also
          • क्षितिभुजाम् = of the Kings (क्षितिभुज्)
          • अभूत् = happened
  1. श्लोकः

मूलपाठः

रामाकर्षणभग्नकार्मुकभुवा ध्वानेन रोदोरुधा
दृप्तक्षत्रयशःसितच्छदकुले जीमूतनादायितम् ।
वीरश्रीप्रथमप्रवेशसमये पुण्याहघोषायितं
सीतायाः किल मानसे परिणये माङ्गल्यतूर्यायितम् ॥ १०४ ॥

पदच्छेदः

राम-आकर्षण-भग्न-कार्मुक-भुवा, ध्वानेन, रोदः-रुधा, दृप्त-क्षत्र-यशः-सितच्छद-कुले, जीमूत-नादायितम्, वीर-श्री-प्रथम-प्रवेश-समये, पुण्य-अह-घोषायितम्, सीतायाः, किल, मानसे, परिणये, माङ्गल्य-तूर्यायितम्

अन्वयार्थः

  • जीमूतनादायितम् = मेघनिर्घोषेण इव आचरितम्
  • दृप्तक्षत्रयशःसितच्छदकुले = गर्वितानां क्षत्त्रियाणां कीर्तिरूपे श्वेतहंससमूहे
  • ध्वानेन = शब्देन
  • रामाकर्षणभग्नकार्मुकभुवा = श्रीरामस्य कर्षणेन विदलितात् चापात् उत्पन्नेन
  • रोदोरुधा = भूमौ अन्तरिक्षे च व्याप्तेन
  • पुण्याहघोषायितम् = स्वस्तिवाचनरवेण इव आचरितम्
  • वीरश्रीप्रथमप्रवेशसमये = वीरलक्ष्म्याः आदिप्रवेशकाले
  • माङ्गल्यतूर्यायितम् = मङ्गलवाद्येन इव आचरितम्
  • परिणये = विवाहे
  • मानसे = हृदयस्थे
  • सीतायाः = जानक्याः
  • किल = खलु, निश्चयेन

अन्वयः

रामाकर्षण-भग्न-कार्मुक-भुवा रोदो-रुधा ध्वानेन दृप्त-क्षत्र-यशस्-सितच्छद-कुले जीमूतनादायितम्, वीरश्री-प्रथम-प्रवेश-समये पुण्याहघोषायितम्, सीतायाः मानसे परिणये माङ्गल्यतूर्यायितं किल

आकाङ्क्षा

  • कृतम्
    • किं कृतम् ? जीमूतनादायितम्
      • कस्मिन् जीमूतनादायितम् ? दृप्तक्षत्रयशःसितच्छदकुले
      • केन जीमूतनादायितम् ? ध्वानेन
        • कीदृशेन ध्वानेन ? रामाकर्षणभग्नकार्मुकभुवा
        • पुनः कीदृशेन ध्वानेन ? रोदोरुधा
      • पुनः किं कृतम् ? पुण्याहघोषायितम्
        • कस्मिन् पुण्याहघोषायितम् ? वीरश्रीप्रथमप्रवेशसमये
      • पुनः किं कृतम् ? माङ्गल्यतूर्यायितम्
        • कस्मिन् माङ्गल्यतूर्यायितम् ? परिणये
          • कीदृशे परिणये ? मानसे
          • कस्याः परिणये ? सीतायाः
        • किल – खलु, निश्चयेन

तात्पर्यम्

श्रीरामस्य बलवत्कर्षणेन शिवधनुः भग्नम् । तस्य विदारणेन जनितः नादः नभोमण्डलं भूमण्डलं च व्याप्नोत् । सः नादः निजबलेन गर्वितानां क्षत्त्रियाणां कीर्तिरूपस्य श्वेतहंससमूहस्य मेघनिर्घोषः इव आसीत् (जीमूतनादेन भीताः हंसाः पलायन्ते) । वीरलक्ष्म्याः आदिमप्रवेशकाले स्वस्तिवाचनम् इव आसीत् । सीतायाः मनसि विवाहस्य मङ्गलनाद इव अपि स नादः बभूव ।

पदविवरणम्

  • रामाकर्षण-भग्न-कार्मुक-भुवा
    • रामाकर्षणम् = रामस्य आकर्षणम्
    • रामाकर्षणभग्नम् = रामाकर्षणेन भग्नम्
    • रामाकर्षणभग्नकार्मुकम् = रामाकर्षणभग्नं कार्मुकम्
    • रामाकर्षण-भग्न-कार्मुक-भुवा = रामाकर्षणभग्नकार्मुकात् भवति, रामाकर्षण-भग्न-कार्मुक-भूः । ऊकारान्तः, पुं., तृ.वि., ए.व. ।
  • ध्वानेन = “शब्दे निनाद-निनद-ध्वनि-ध्वान-रव-स्वनाः” (अमरः)
  • रोदोरुधा
    • रोदसी = द्यावापृथिव्यौ नित्य-द्विवचनम् । “द्यावापृथिव्यौ रोदस्यौ द्यावाभूमी च रोदसी” (अमरः) । सकारान्तः । रोदः, रोदसी, रोदांसि ।
    • रोदोरुधा = रोदसी रुणद्धि । धकारान्तः, पुं., तृ.वि., ए.व. ।
  • दृप्तक्षत्रयशःसितच्छदकुले
    • दृप्तक्षत्राः = दृप्ताः क्षत्राः
    • दृप्तक्षत्रयशः = दृप्तक्षत्राणां यशः
    • सितच्छदकुलम् = सितच्छदानां कुलम्
    • दृप्तक्षत्रयशःसितच्छदकुले = दृप्तक्षत्रयशः एव सितच्छदकुलम्, तस्मिन् ।
  • जीमूतनादायितम्
    • जीमूतनादः = जीमूतस्य नादः ।
    • जीमूतनादायितम् = जीमूतनाद इव आचरितम् – क्यङ् (नामधातुः)
  • वीरश्रीप्रथमप्रवेशसमये
    • वीरश्रीः = वीराणां श्रीः
    • प्रथमप्रवेशः = प्रथमः प्रवेशः
    • वीरश्रीप्रथमप्रवेशः = वीरश्रियाः प्रथमप्रवेशः
    • वीरश्रीप्रथमप्रवेशसमये = वीरश्रीप्रथमप्रवेशस्य समयः, तस्मिन्
  • पुण्याहघोषायितम्
    • पुण्याहः = पुण्यम् अहः
    • पुण्याहघोषः = पुण्याहस्य घोषः
    • पुण्याहघोषायितम् = पुण्याहघोष इव आचरितम्
  • परिणये = विवाह-उपयमौ समौ । तथा परिणय-उद्वाह-उपयामाः पाणिपीडनम् (अमरः)
  • माङ्गल्यतूर्यायितम्
    • माङ्गल्यतूर्यम् = माङ्गल्यस्य तूर्यम्
    • माङ्गल्यतूर्यायितम् = माङ्गल्यतूर्यम् इव आचरितम्

अलङ्कारः

  • लुप्तोपमालङ्कारः यतः “इव” इति उपमावाचकशब्दः नास्ति

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु   गु गु गु गु गु

Word-Meaning

  • ध्वानेन = By the sound (ध्वान)
    • रामाकर्षणभग्नकार्मुकभुवा = by that sound which was the outcome (भू) of the breaking (भग्न) of the bow (कार्मुक), caused by the forceful drawing (आकर्षण) by Sri Rama (राम)
    • रोदोरुधा = by that sound which filled (रुध) both the earth and the sky (रोदस् = earth and the sky)
    • जीमूतनादायितम् = the actions were performed as that of the thunder sound (नाद) of cloud (जीमूत) (which causes fear)
      • दृप्तक्षत्रयशःसितच्छदकुले = in the family (कुल) of the white-winged swan (सित-छद) in the form of the glory (यशस्) of the proud (दृप्त) warriers (क्षत्रय)
    • पुण्याहघोषायितम् =the actions were performed as that of the chanting (घोष = auspicious chanting of the hymns as in Vedaghosha) done on an auspicious (पुण्य) day (अहन्)
      • वीरश्रीप्रथमप्रवेशसमये = at the time (समय) of the first (प्रथम) entrance (प्रवेश) of the goddess (श्री) of valour (वीर)
    • माङ्गल्यतूर्यायितम् = the actions were performed as that of the auspicious (माङ्गल्य) instrumental (तूर्य)
      • परिणये = during the marriage (परिणय)
        • मानसे = during the one that was happening in the mind (मानस) e., mental
          • सीतायाः = of Sita (सीता)
        • किल = Indeed so!
  1. श्लोकः

मूलपाठः

नवः कठिनकर्षणत्रुटितचापजन्मा क्षणा-
द्दिशां द्विरदघीङ्कृतैः कृतहरित्पतिस्वागतः

जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गना-
प्रयाणपटहध्वनिं प्रथयति स्म तारध्वनिः
॥ १०५
पदच्छेदः

नवः, कठिन-कर्षण-त्रुटित-चाप-जन्मा, क्षणात्, दिशाम्, द्विरद-घीङ्कृतैः, कृत-हरित्-पति-स्वागतः, जगत्-भ्रमण-कौतुक-उच्चलित-राम-कीर्ति-अङ्गना-प्रयाण-पटह-ध्वनिम्, प्रथयति, स्म, तार-ध्वनिः

अन्वयार्थः

  • प्रथयति स्म = प्रकटयति स्म
  • तारध्वनिः = उच्चशब्दः
  • नवः = अभूतपूर्वः
  • कठिनकर्षणत्रुटितचापजन्मा = दृढाकर्षणहेतुना भग्नात् धनुषः उत्पन्नः
  • कृतहरित्पतिस्वागतः = दिक्पालकविहितं स्वागतं सूचयन्
  • दिशां द्विरदघीङ्कृतैः = भीतानां दिग्गजानां क्रन्दनेन
  • क्षणात् = अतिशीघ्रम्
  • जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणपटहध्वनिम् = विश्वे सर्वत्र सञ्चरितुं कौतूहलात् प्रस्थितायाः श्रीरामस्य यशोलक्ष्म्याः यात्रारम्भे भेरीनिनादम्

अन्वयः

कठिनकर्षणत्रुटितचापजन्मा नवः तारध्वनिः क्षणात् दिशां द्विरदघीङ्कृतैः कृतहरित्पतिस्वागतः जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणपटहध्वनिं प्रथयति स्म ।

आकाङ्क्षा

  • प्रथयति स्म
    • कः प्रथयति स्म ? तारध्वनिः
      • कीदृशः तारध्वनिः ? नवः
      • पुनः कीदृशः तारध्वनिः ? कठिनकर्षणत्रुटितचापजन्मा
      • पुनः कीदृशः तारध्वनिः ? कृतहरित्पतिस्वागतः
        • कैः कृतहरित्पतिस्वागतः ? दिशां द्विरदघीङ्कृतैः
        • कथं कृतहरित्पतिस्वागतः ? क्षणात्
      • कं प्रथयति स्म ? जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणपटहध्वनिम्

तात्पर्यम्

रामस्य दृढाकर्षणेन भग्नात् शिवधनुषः अभूतपूर्वः उच्चः शब्दः उत्पन्नः । तच्छ्रुत्वा झटिति भयेन दिग्गजाः घींकारं कृतवन्तः । सः नादः विश्वे सर्वत्र सञ्चरितुं कौतूहलात् प्रस्थितायाः श्रीरामस्य यशोलक्ष्म्याः यात्रारम्भे भेरीनिनाद इव आसीत् । दिग्गजानां घींकारश्च दिक्पालकैः कृतस्य स्वागतस्य ध्वनिः इव आसीत् ।

पदविवरणम्

  • कठिनकर्षणत्रुटितचापजन्मा
    • कठिनकर्षणम् = कठिनं कर्षणम्
    • कठिनकर्षणत्रुटितः = कठिनकर्षणेन त्रुटितः
    • कठिनकर्षणत्रुटितचापः = कठिनकर्षणत्रुटितः चापः
    • कठिनकर्षणत्रुटितचापजन्मा = कठिनकर्षणत्रुटितचापात् जन्म यस्य सः । नकारान्तः, पुं., प्र.वि., ए.व.
  • दिशाम् = शकारान्तः, स्त्री., ष.वि., ब.व.
  • द्विरदघीङ्कृतैः
    • द्विरदः = द्वौ रदौ दन्तौ यस्य सः गजः । “दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः” (अमरः)
    • द्विरदघीङ्कृतैः = द्विरदानां घीङ्कृतानि, तैः ।
  • कृतहरित्पतिस्वागतः
    • हरित्पतयः = हरितां पतयः
    • हरित्पतिस्वागतम् = हरित्पतीनां स्वागतम्
    • कृतहरित्पतिस्वागतः = कृतं हरित्पतिस्वागतं येन सः । “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।”
  • जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणपटहध्वनिम्
    • जगद्भ्रमणम् = जगतः भ्रमणम्
      • जगद्भ्रमणकौतुकम् = जगद्भ्रमणस्य कौतुकम्
      • जगद्भ्रमणकौतुकोच्चलिता = जगद्भ्रमणकौतुकेन उच्चलिता
    • रामकीर्तिः = रामस्य कीर्तिः
      • रामकीर्त्यङ्गना = रामकीर्तिः एव अङ्गना
    • जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गना = जगद्भ्रमणकौतुकोच्चलिता रामकीर्त्यङ्गना
      • जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणम् = जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनायाः प्रयाणम्
    • पटहध्वनिः = पटहस्य ध्वनिः
    • जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणपटहध्वनिम् = जगद्भ्रमणकौतुकोच्चलितरामकीर्त्यङ्गनाप्रयाणस्य पटहध्वनिः, तम्
  • प्रथयति = प्रथ “प्रथ प्रख्याने” + णिच् + लट्, प्र.पु., ए.व.
  • तारध्वनिः = तारः ध्वनिः । “काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु” (अमरः)

अलङ्कारः

  • रूपकालङ्कारः = Metaphor, mentioning that they are the same, rather than saying that they are comparable.

छन्दः

  • पृथ्वी वृत्तम्
    • “जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः” । ८+९=१७
    • प्रतिपादं सप्तदशाक्षराणिअक्षराणि भवन्ति तथा च यतिः अष्टमे नवमे च भवति ।
    • ज स ज स य लगु गुरुः । ।ऽ । । ।ऽ ।ऽ । । ।ऽ ।ऽऽ ।ऽ
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु गु गु गु
वः ठि र्ष त्रु टि चा न्मा क्ष णा
द्दि शां द्वि घी ङ्कृ तैः कृ रि त्प ति स्वा तः
द्भ्र कौ तु को च्च लि रा की र्त्य ङ्ग ना
प्र या ध्व निं प्र ति स्म ता ध्व निः

Word-Meaning

  • प्रथयति स्म = made it spread
  • तारध्वनिः = the high-pitched (तार) sound (ध्वनि)
  • नवः = which was new (नव) i.e., not heard before
  • कठिन-कर्षण-त्रुटित-चाप-जन्मा = which was born (जन्म) from the bow (चाप) that was broken (त्रुटित) by the forceful (कठिन) dragging (कर्षण)
  • कृत-हरित्पति-स्वागतः = which indicates the welcoming (स्वागत) done (कृत) by the digpaalakas, the lords (पति) of the directions (हरित्)
  • दिशां द्विरद-घीङ्कृतैः = (indicated) by the trumpets (घीङ्कृत) of the elephants (द्विरद) of the directions (दिक्)
  • क्षणात् = that happened immediately
  • जगद्भ्रमण-कौतुकोच्चलित-राम-कीर्त्यङ्गना-प्रयाण-पटह-ध्वनिम् = the sound (ध्वनि) of the drums (पटह) at the time of the journey (प्रयाण) of the lady (अङ्गना) in the form of Rama’s (राम) fame (कीर्ति) who set off (उत्+चलित) with curiosity (कौतुक) to roam (भ्रमण) around the world (जगत्)

References:

  1. http://sanskritfromhome.in/course/champuramayana

Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. In all, there were 43 sessions, in a span of over a year’s time, from 23rd October 2017 till 26th November 2018. Online classes were held on Mondays, between 10.00 AM and 11.00 AM IST.

  1. English translation
    http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html
  2. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF – https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up
  3. Original Text (Being updated in wikisource using Smt. Sowmya’s material) — wikisource.org/wiki/चम्पूरामायणम्/बालकाण्डः
  4. Downloadable file with these notes are also available in https://nivedita2015.wordpress.com/sanskrit-kavyas/bhojas-champuramayanam-balakandam/

Other References:

  1. Word-Meanings – http://spokensanskrit.org/
  2. Word-Meanings – http://sanskritdictionary.com/
  3. Dhatu – http://ashtadhyayi.com/dhatu/
  4. Morphological Analyzer – http://sanskrit.uohyd.ac.in/scl/
  5. Chandas – https://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/