Yaadavaabhyudayam

Title Yaadavaabhyudayam

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh

The detailed notes for these 100 shlokas are covered in these pages:

https://nivedita2015.wordpress.com/yaadavaabhyudayam

https://nivedita2015.wordpress.com/yaadavaabhyudayam2

https://nivedita2015.wordpress.com/yaadavaabhyudayam3

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ 

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

उपोद्घातः

कृतिकारपरिचयः

  • श्रीवेङ्कटनाथः, स्वामिवेदान्तदेशिकः
  • जन्म – इतः ७५० वर्षेभ्यः पूर्वं, क्री.प. 1268 D. विभवाब्दे ४३७०
  • जन्मस्थानम् – तूप्पुळ् – काञ्चीपुरम् (सत्यव्रतक्षेत्रम्) ।
  • पितरौ – श्रीअनन्तसूरी तोत्राम्माळ् च ।
  • बहुभाषाविद्, तर्क-व्याकरण-मीमांसा-न्याय-गणित-शिल्पकलादिषु विपुलज्ञानम् । वाग्मी । वादेषु शूरः । चित्रकाव्यरचनायाम् अपि निपुणः ।

स्वामिवेदान्तदेशिकस्य ग्रन्थाः

  • स्तोत्राणि – २८ – हयग्रीवास्तोत्रं, गोपालविंशतिः, रघुवीरगद्यं सुदर्शनाष्टकम् इत्यादीनि
  • काव्यानि – यादवाभ्युदयमहाकाव्यम्, हंससन्देशम्, पादुकासहस्रम्, सुभाषितनीवी
  • रूपकम् – सङ्कल्पसूर्योदयः
  • अशीत्यधिकाः रहस्यग्रन्थाः, वेदान्तग्रन्थाः, अनुष्ठानग्रन्थाः, तमिळ्-प्रबन्धाः च
  • १० व्याख्यानग्रन्थाः –तेषु भगवद्रामानुजाचार्येण विरचितस्य गीताभाष्यस्य तात्पर्यचन्द्रिका इति व्याख्यानं प्रसिद्धम् ।

यादवाभ्युदयमहाकाव्य-ग्रन्थपरिचयः

1. श्लोकः

मूलपाठः

वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १ ॥

पदच्छेदः

वन्दे वृन्दावन-चरम् वल्लवीजन-वल्लभम् जयन्ती-सम्भवम् धाम वैजयन्ती-विभूषणम् ।

अन्वयरचना

  • (अहं) वन्दे ।
    • कं वन्दे ? धाम (कृष्णम्)
    • कीदृशं धाम ? वृन्दावन-चरम्, वल्लवीजन-वल्लभम्, जयन्ती-सम्भवम्, वैजयन्ती-विभूषणम्

अन्वयः

वृन्दावन-चरं वल्लवीजन-वल्लभं जयन्ती-सम्भवं वैजयन्ती-विभूषणं धाम (कृष्णम् अहं) वन्दे ।

तात्पर्यम्

वृन्दावने सञ्चरणशीलं, गोपाङ्गनानां प्रियं, कृष्णाष्टम्याम् प्रादुर्भूतं, वनमालया अलङ्कृतं च कृष्णरूपं प्रकाशं सदा प्रणमामि ।

पदार्थः

  • वृन्दावन-चरम् = वृन्दावननाम्नि मधुरानगरसमीपवने सञ्चारशीलं
  • वल्लवीजन-वल्लभम् = गोपनाङ्गनानां प्रियम् (वल्लव्यः इति जनाः)
  • जयन्ती-सम्भवम् = कृष्णाष्टम्यां जातम्
  • वैजयन्ती-विभूषणम् = वनमालालङ्कृतम्
  • धाम = स्वप्रकाशज्योतिर्मयं वासुदेवाख्यम्
  • वन्दे = प्रणमामि

विशेषः

  • भगवान् स्वानन्तकल्याणगुणेषु गुणचतुष्टयेन अभयं ददाति इति ध्वनिः ।
    • वात्सल्यम् — वृन्दावन-चरम्
    • सौशील्यम् — वल्लवीजनवल्लभम्
    • सौलभ्यम् — जयन्तीसम्भवम्
    • स्वामित्वम् — वैजयन्तीविभूषणम्

अप्पय्यदीक्षितव्याख्या

वृन्दावनं नाम मथुरोपकण्ठे वनविशेषः तत्र चरतीति वृन्दावनचरम् । वल्लव्यः गोपजातिस्त्रियः । तेषां वल्लभं “सत्यवागार्जवरतैरुपकुर्वन् प्रिय वदन्। भजते यः स्वयं पूर्णः प्रियः स भवति स्त्रियाः।” इत्युक्तलक्षण प्रियम् । जयन्ती रोहिणीसहिता श्रावणमारास्य कृष्णाष्टमी “जय पुण्यञ्च तनुते जयन्ती तेन ता विदुः।” इति पौराणिकैर्निरुक्ता ।  तस्यां सम्भव प्रादुर्भूत भवतेः पचाद्यच् ।वैजयन्ती वनमाला सा विभूषण यस्य तथाभूत । धाम स्वप्रकाशज्योतिर्मय वस्तु वासुदेवाख्यम् वन्दे प्रणमामीति योजना।

पदविवरणम्

  • वृन्दावन-चरम् = वृन्दावने चरति इति वृन्दावनचरः, तम् – उपपदसमासः
  • वल्लवीजन-वल्लभम्
    • वल्लवीजन-वल्लभम्
  • जयन्ती-सम्भवम्
    • जयन्ती = जयं तनुते इति जयन्ती – उपपदसमासः
    • जयन्ती-सम्भवम्  = जयन्त्यां सम्भवः, तम्
  • वैजयन्ती-विभूषणम् = वैजयन्ती विभूषणं यस्य सः, वैजयन्ती-विभूषणः, तम्
  • वन्दे = वन्द् “वदिँअभिवादनस्तुत्योः”धातुः, लट्लकारः, उत्तमपुरुषः, एकवचनम्

अलङ्कारः

  • ध्वनिः
    • Suggested meaning
    • वात्सल्यम् — वृन्दावनचरम् । सौशील्यम् — वल्लवीजनवल्लभम् । सौलभ्यम् — जयन्तीसम्भवम्  । स्वामित्वम् – वैजयन्तीविभूषणम् ।
  • परिकरः
    • “अलंकारः परिकरःसाभिप्राये विशेषणे” – When the epithets or the adjectives are concise and they are conceived of suggestive meaning, the figure of speech is parikara. Here the adjectives have suggested meanings.
  • शब्दालङ्कारः – अनुप्रासः
    • Alliteration, where a consonant word repeats serially more than once.
    • वन्दे वृन्दावन । वल्लवीजन वल्लभ । जयन्ती वैजयन्ती । -विभूषणं धाम (कृष्णम् अहं) ।

छन्दः

  • युग्मविपुला वृत्तम् – https://nivedita2015.wordpress.com/chandas-2/
    • यस्यां लः सप्तमो युग्मे सा युग्मविपुला मता । This is part of the maatraa chandas, wherein a syllable containing a short vowel counts for one mātrā, and a syllable containing a long vowel or a short vowel followed by two consonants counts for two mātrās. Āryā Yugmavipulaa Vruttam is that in which there is laghu in a couple of places in the seventh position. i.e., in the second and fourth paada-s of the verse.

Eg. व् म् न् द् ब् न् द् व् न् च् र् म्

= 2 + 2 + 2 + 2 + 1 + 1 + 1 + 1 = 12

1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8
न्दे बृ न्दा रं ल्ल वी ल्ल भं
न्ती म्भ वं धा वै न्ती वि भू णं

अनुवादः

I salute (वन्दे) Sri Krishna, the radiant one (धाम), who roams (चर) around in Vrindaavanam (वृन्दावन), who is the beloved (वल्लभ) of the young women (वल्लवीजन), who was born (सम्भव) on Krishnaashtami Krishna Jayanti (जयन्ती) day, and one who adores (विभूषण) the Vaijayanti garland (वैजयन्ती).

2. श्लोकः – श्रीकृष्णस्य गुणवर्णने स्वासामर्थ्यप्रकटनम्

मूलपाठः

यदेकैकगुणप्रान्ते श्रान्ता निगमवन्दिनः।
यथावद्वर्णने तस्य किमुतान्ये मितम्पचाः॥२॥

पदच्छेदः

यद्-एक-एक-गुण-प्रान्ते श्रान्ताः निगम-वन्दिनः यथावत् वर्णने तस्य किमुत अन्ये मितम्पचाः

अन्वयरचना

  • श्रान्ताः भवन्ति
    • के श्रान्ताः ? निगम-वन्दिनः
      • कस्मिन् विषये श्रान्ताः ? यद्-एक-एक-गुण-प्रान्ते
    • किमुत – असमर्थाः भवन्ति ?
      • के असमर्थाः ? अन्ये मितम्पचाः
      • कस्मिन् विषये असमर्थाः ? वर्णने
        • कीदृशे वर्णने ? यथावत्
        • कस्य यथावद्-वर्णने ? तस्य (श्रीकृष्णस्य)

अन्वयः

निगम-वन्दिनः यद्-एक-एक-गुण-प्रान्ते श्रान्ताः । तस्य यथावत् वर्णने अन्ये मितम्पचाः किमुत ?

तात्पर्यम्

भगवन्तं स्तोतुं प्रवृत्ताः स्तवनशीलाः वेदाः एव तस्य एकमपि गुणं समग्रतया वर्णयितुम् अशक्नुवन्तः प्रारम्भे एव  प्रतिहताः चेत् मनुष्यादयस्तु तस्य गुणलेशस्य वर्णने असमर्थाः भवन्ति इति पुनः न वक्तव्यम् ।

पदार्थः

  • निगम-वन्दिनः = आगमाः / वेदाः एव स्तुतिपाठकाः
  • यद्-एकैक-गुण-प्रान्ते
    • यद् – यस्य भगवतः
    • एकैकगुणप्रान्ते – एकस्यैकस्य गुणस्य अग्रे
  • श्रान्ताः = श्रमं प्राप्ताः
  • तस्य = तादृशस्य भगवतः
  • यथावद् = यथार्हं / सम्यक्
  • वर्णने = स्तवने / स्तुतौ
  • अन्ये मितम्पचाः = इतरे क्षुद्राः (मादृशाः)
  • किमुत = असमर्था इति किमु वक्तव्यम्

विशेषः

  • कवयः वेदान्तदेशिकाः श्रीकृष्णगुणस्तवे स्वासामर्थ्यं प्रकटयन्ति । तेषां विनयः अभिव्यज्यते अत्र ।
    • रघुवंशमहाकाव्ये कविवरः कालिदासः अपि –
      • क्वसूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
      • तितीर्षुर्दुर्स्तरं मोहादुडुपेनास्मि सागरम् ॥ रघु. १/२
    • यदेकैकस्य गुणप्रान्ते – भगवतः अनन्तकल्याणगुणाः
      • स्वाभविकानवधिकातिशय-ज्ञान-बलैश्वर्य-शक्ति-तेजः-सौशील्य-वात्सल्य-मार्दवार्जव-सौहार्द-साम्य-कारुण्य-माधुर्य-गाम्भीर्य-औदार्य-चातुर्य-स्थैर्य-धैर्य-शौर्य-पराक्रम-सत्यकाम-सत्यसङ्कल्प-कृतित्व-कृतज्ञादि … अनन्तकल्याण-गुणगणौघमहार्णव ! – भगवद्रामानुविरचिते शरणागतिगद्ये

पदविवरणम्

  • यदैकैकगुणप्रान्ते
    • यस्य एकैकः = यदेकैकः ।
    • यदेकैकः च असौ गुणः = यदेकैकगुणः ।
    • यदैकैकगुणप्रान्ते = यदेकैकगुणस्य प्रान्ते यदेकैकगुणप्रान्तः, तस्मिन्
  • निगमवन्दिनः
    • अवश्यं वन्दन्ते इति वन्दिनः
    • निगमाः एव वन्दिनः निगमवन्दिनः
  • यथावत् – यथा अर्हम् (यथा + अर्हार्थे वति प्रत्ययः ।)
  • मितम्पचः – मितं पक्वं प्राप्तः । कदर्थे कृपणक्षुद्र किंपचानमितम्पचाः इत्यमरः

अलङ्कारः

अनुवादः

Even the Vedas (निगम), which comprise of praises (वन्दिन्), become tired (श्रान्त) on taking up just the end portion (प्रान्त) of just one (एक) of His (यद्) numerous qualities (गुण), what to say (किमुत) of the capability of other (अन्य) insignificant people (मितम्पच) in  describing (वर्णन) Him (तद्) in a fitting manner (यथावत्)?

3. श्लोकः – भगवद्गुणवर्णनप्रवृत्तेः औचित्यम्

मूलपाठः

शक्तया शौरिकथास्वादः स्थाने मन्दधियामपि ।

अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥३॥

पदच्छेदः

शक्तया शौरि-कथा-स्वादः स्थाने मन्दधियाम् अपि अमृतम् यदि लभ्येत किम् न गृह्येत मानवैः

अन्वयरचना

  • स्थाने भवति ।
    • कः स्थाने ? शौरि-कथा-स्वादः
      • केषां शौरि-कथा-स्वादः ? मन्दधियाम् अपि
      • कथं शौरि-कथा-स्वादः ? शक्तया
    • किं न गृह्येत ? गृह्येत एव
      • कैः गृह्येत ? मानवैः
      • कदा गृह्येत ? यदि लभ्येत
        • किं लभ्येत ? अमृतम्

अन्वयः

मन्दधियाम् अपि शक्तया शौरि-कथा-स्वादः स्थाने । अमृतं यदि लभ्येत मानवैः किं न गृह्येत ?

तात्पर्यम्

भगवद्गुणवर्णने यावती बुद्धेः प्रसरणशक्तिः तावद् वर्णनम् मन्दबुधीनाम् अपि युक्तम् एव । यथावद्वर्णने अशक्त्या शक्यांशः अपि नोपेक्षणीयः इति भावः । बहु अमृतं मानवाः न लभन्ते इति कृत्वा किञ्चिदपि लब्धं देवार्हमिदम् इति स्वयं न त्यजन्ति आस्वादयन्ति एव ।

तथा भगवद्गुणस्तवने सर्वसमर्थाः वेदाः एव श्रान्ताः चेत् अल्पशक्तिमताम् अस्माकं तत्र प्रयत्नः अनुचितः इति न खलु चिन्तयन्ति मनुष्याः । यथाशक्ति भगवद्गुणवर्णनं कुर्वन्ति एव । अतः ममापि भगवत्चरितवर्णनप्रवृत्तौ न कोऽपि दोषः इति ।

पदार्थः

  • मन्दधियाम् अपि = अल्पबुद्धीनाम् अपि
  • शक्तया = यथाशक्ति
  • शौरि-कथा-आस्वादः
    • शौरेः = कृष्णस्य
    • कथायाः = चरितस्य
    • आस्वादः = निबन्धनरूपः
  • स्थाने = उचितः
  • अमृतम् = सुधा
  • यदि मानवैः लभ्येत = यदि मनुष्यैः प्राप्यते
  • (तर्हि) किं न गृह्येत? = किं न आस्वद्येत । अवश्यम् आस्वद्येत ।

पदविवरणम्

  • मन्दधियाम् = मन्दा धीः येषां ते मन्दधियः । ईकारान्तः पुं. ‘मन्दधी’ शब्दः ष.वि., ब.व. ।
  • शौरिकथास्वादः
    • शूरस्य वसुदेवपितुः अपत्यं पुमान् शौरिः ।
    • शौरेः कथा शौरिकथा ।
    • शौरिकथायाः आस्वादः शौरिकथास्वादः ।
  • स्थाने = उचितार्थकम् अव्ययम् ।
  • यदि लभ्येत किं न गृह्येत=  हेतुहेतुमतोः लिङ्
  • लभ्येत = लभ् प्राप्तौ (लभते), कर्मणि, विधिलिङ्., प्र.पु., ए.व. ।
    • मानवैः अमृतं लभ्यते । (कर्मणि)
    • मानवाः अमृतं लभेरन् । (कर्तरि)
  • गृह्येत = ग्रह् उपादाने (गृह्णाति), कर्मणि, विधिलिङ्., प्र.पु., ए.व.
    • मानवैः अमृतं किं न गृह्येत ? (कर्मणि)
    • मानवाः अमृतं किं न गृह्णीयुः ? (कर्तरि)

अलङ्कारः

  • TODO

अनुवादः

Relishing the story (कथा) of Krishna (शौरि), to the best of their ability (शक्ति), is apt (स्थाने), even (अपि) for the intellectually weak ones (मन्द-धी). If (यदि) nectar (अमृत) is obtained (लभ्), would not (किं न) it be grabbed (ग्रह्) by the people?

4. श्लोकः

मूलपाठः

वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते ।

अन्येऽपि कवयः कामं बभूवुरनपत्रपाः ॥४॥

पदच्छेदः

वसुधाश्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते अन्ये अपि कवयः कामं बभूवुः अनपत्रपाः

अन्वयरचना

  • बभूवुः
    • कीदृशाः बभूवुः ? अनपत्रपाः
    • के बभूवुः ? कवयः (कर्तृपदम्)
      • कीदृशाः कवयः ? अन्ये अपि कवयः
    • कथं अनपत्रपाः बभूवुः ? कामम् (अव्ययम्, क्रियाविशेषणम्)
    • कदा अनपत्रपाः बभूवुः ? हृदयस्थिते सति
      • कस्मिन् हृदयस्थिते सति ? तस्मिन् वसुधाश्रोत्रजे व्यासे च

अन्वयः

तस्मिन् वसुधा-श्रोत्र-जे (वाल्मीकौ), व्यासे च हृदय-स्थिते (सति), अन्ये अपि (कालिदासादयः) कामम् अनपत्रपाः कवयः बभूवुः ।

तात्पर्यम्

श्रीमद्रामायणम् आदिकाव्यम् । तत्प्रणेता कविसार्वभौमः वाल्मीकिमुनिः कवीनां धुरि विश्रूयते । महाभारतस्य विषये “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित्” इति वचनं प्रसिद्धम् । अस्य रचयिता अद्वितीयः व्यासमहर्षिः ।

अनयोः प्रबन्धौ रामायणं महाभारतं च दृष्ट्वा अस्माकं कृतीः पश्यन्तः कथं न अपहसिष्यन्ति इति भीतिं विहाय कालिदासप्रभृतयः काव्यानि अकुर्वन् । तथैव अहमपि स्वकीयप्रबन्धनिर्माणे चापलवशात् अनपत्रपः सन् (लज्जां परित्यज्य) काव्यं करोमि ।

यथामति काव्यनिर्माणे का अपत्रपा इति भावः ।

चापलं व्रीडां व्यपोहति इति च भावः ।

तस्मिन्निति व्यासस्यापि विशेषणम् ।

वाल्मीकौ हृदयस्थिते व्यासः कविः आसीत् ।

तयोः उभयोः स्थितयोः अन्ये बहवः अपत्रपाप्रसक्तौ अपि कवयः आसन् ।

पदार्थः

  • तस्मिन् = प्रसिद्धे
  • वसुधाश्रोत्रजे = वसुधायाः श्रोत्रम् = वल्मीकः । तस्मात् जाते – वाल्मीकौ
  • व्यासे च = तथा प्रसिद्धे महाभारतादिग्रन्थकारे व्यासमुनौ च
  • हृदय-स्थिते (सति) = मनसि स्फुरति सति
  • अन्ये अपि = व्यासवाल्मीकिव्यतिरिक्ताः कालिदासाद्याः
  • कामम् = अत्यर्थम्
  • अनपत्रपाः = अन्ये परिहसेयुः इति लज्जां विहाय
  • कवयः = काव्यकर्तारः
  • बभूवुः = आसन्

विशेषः

  • वसुधाश्रोत्रजः
    • “श्रोत्रं ह्येतत् पृथिव्या यद्वल्मीक” इति श्रुतिः
    • स्वामिवेदान्तदेशिकविरचिता गोदास्तुतिः
      • वल्मीकतः श्रवणतो वसुधात्मनस्ते
      • जातोबभूव स मुनिः कविसार्वभौमः ।
      • गोदे किमद्भुतमिदं यदमी स्वदन्ते
      • वक्त्रारविन्द-मकरन्द-निभाः प्रबन्धाः ॥
      • अन्वयः – वसुधात्मनः ते श्रवणतः वल्मीकतः जातः सः मुनिः कविसार्वभौमः बभूव।
    • अन्येअपि कामम् अनपत्रपाः कवयः बभूवुः
      • महावविकालिदासेन अपि रघुवंशे
        • मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् ।
        • प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः ॥ १/३
        • अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः ।
        • मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ १/४
        • “महाजनो येन गतः स पन्थाः” इति न्यायेन महाकवीनां रचनामार्गम् अनुसृत्य कवनं क्रियते मया इति कालिदासश्लोकं कविः अत्र स्मारयति ।

पदविवरणम्

  • वसुधाश्रोत्रजे
    • वसुधायाः श्रोत्रम् = वसुधाश्रोत्रम् । वल्मीकः / भूश्रवः / वामलूरुः ।
    • वसुधाश्रोत्रजे = वसुधाश्रोत्रात् जातः वसुधाश्रोत्रजः, तस्मिन् ।
  • कामम् = कामम् इति अव्ययम्
  • अनपत्रपाः = न विद्यते अपत्रपा येषां ते अनपत्रपाः ।
  • बभूवुः = भू सत्तायाम्, लिट्., प्र.पु., ए.व.

अनुवादः

When, he (तद्) Valmiki (वसुधाश्रोत्रज), the one born (जा) out of an anthill (वसुधाश्रोत्र), which are the ear (श्रोत्र) of Mother Earth (वसुधा) (as proclaimed in the Vedas), and Vyasa (व्यास) are seated (स्थित) in the heart (हृदय), others have also exceedingly (कामम्) become (भू) poets (कवि), who are shameless (i.e., who do not mind the embarrassment of others ridiculing them) (अनपत्रप).

5. श्लोकः – कविलक्षणम्

मूलपाठः

स कविः कथ्यते स्रष्टा रमते यत्र भारती ।

रसभावगुणीभूतैरलङ्कारैर्गुणोदयैः ॥५॥

पदच्छेदः

सः, कविः, कथ्यते, स्रष्टा, रमते, यत्र, भारती, रसभाव-गुणीभूतैः, अलङ्कारैः, गुण-उदयैः|

अन्वयरचना

  • कथ्यते (कर्मणिप्रयोगः)
    • कैः कथ्यते ? (बुधैः)
    • किमिति कथ्यते ? सः (भवति)
      • सः कीदृशः भवति ? स्रष्टा
      • पुनः सः कीदृशः भवति ? कविः
      • कदा भवति ? यत्र रमते
        • का रमते ? भारती
        • कथं रमते ? रसभावगुणीभूतैः अलङ्कारैः गुणोदयैः

अन्वयः

रसभाव-गुणीभूतैः अलङ्कारैः गुणोदयैः यत्र भारती रमते, सः स्रष्टा कविः कथ्यते ।

तात्पर्यम्

शृङ्गारादिरसैः विभावानुभावसञ्चारिभावैः अगूढादिव्यङ्ग्यैः अनुप्रासोपमाद्यलङ्कारैः माधुर्यादिगुणैश्च समुल्लसिता वाणी यस्मिन् निरर्गलप्रवाहरूपा भवति सः स्वप्रतिभया नूतनार्थप्रतिपादकः कविरिति नाम्ना व्यपदिश्यते ।स सरस्वतीविहारास्पदीभूत-चतुर्मुखतुल्यः भवति ।

पदार्थः

  • रसभाव-गुणीभूतैः
    • कविपक्षे – रसाः = शृङ्गारादयः । भावाः = तत्तद्-रसोचिताः रत्यादयः, विभावानुभाव-सञ्चारिणः । गुणीभूतानि = अगूढादीनि, गुणीभूत-व्यङ्ग्यानि ।
    • स्रष्टृपक्षे – रसभावाः= रागप्रयुक्ताः । नयनान्तावलोकनं, मन्दस्मितम् इत्यादियः अनुभावाः (चेष्टाः) । तेषां गुणीभूतैः उपस्कारकैः – तद्विजृम्भणहेतुभूतैः ।
  • अलङ्कारैः
    • कविपक्षे – अनुप्रासोपमादिभिः
    • स्रष्टृपक्षे – कटक-केयूरादिभिः
  • गुणोदयैः
    • कविपक्षे – माधुर्यादयः गुणाः । तत्तद्-गुणोचित-वर्ण-समास-रचनाभिव्यक्तयः- तैः उपलक्षिता(वाणी)
    • स्रष्टृपक्षे – रूपयौवनादिभिः, नायकदर्शनेन उद्गच्छन्ति इति उदयाः दृष्टिविकारादयः, तैः उपलक्षिता(वाग्देवता)
  • भारती
    • कविपक्षे – वाणी
    • स्रष्टृपक्षे – वाग्देवता
  • यत्र रमते
    • कविपक्षे – बलात् आकर्षणं विना स्वयम् एव निरर्गलप्रवाहरूपा भवति
    • स्रष्टृपक्षे – विलसति, रतिं करोति लसति,
  • सः स्रष्टा
    • कविपक्षे – नूतनार्थस्य स्वप्रतिभया प्रतिपादकः
    • स्रष्टृपक्षे – लोकानां निर्माता, ब्रह्मा
  • कविः कथ्यते = कविः इति व्यपदिश्यते ।

काव्योत्कर्षहेतवः

  • रसः
    शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानकाः ।
    बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥
    – ॥ भरतिमुनेः नाट्यशास्त्रम् ॥
  • शृङ्गारः, हास्यः, करुणः, वीरः, बीभत्सः, अद्भुतः, रौद्रः, भयानकः, शान्तः
  • https://nivedita2015.wordpress.com/ksou-ma-sanskrit/kavya-prakasha-of-mammata/
  • कारणान्यथ कार्याणि सहकारीणि यानि च ।
    रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः॥
    विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिणः ।
    व्यक्तः स तैर्विभावाद्यैःस्थायी भावो रसः स्मृतः  ॥
    – कारिका २७ , २८ – मम्मटस्य काव्यप्रकाशः
  • There are causes, effects and auxiliary feelings of rati or Love, etc. When they occur in a kavya or natya, they are respectively called Vibhavas, Anubhavas and Vyabhicharibhavas. The permanent mood [sthayibhava] which is manifested by these vibhavas, etc.,
    is known as Rasa.
  • स्थायिभावः
    रतिः, हासः, शोकः, क्रोधः, उत्साहः, भयम्, जुगुप्सा, विस्मयः, निर्वेदः ।
  • भावाः
    विभावानुभाव-व्यभिचारि-संयोगाद् रसनिष्पत्तिः
    – नाट्यशास्त्रम् ।
  • विभावः
  • आलम्बनविभावः, उद्दीपनविभावः, अनुभावः, सञ्चारिभावाः
  • [ वाच्यार्थ: – स्फुटार्थ: / प्रकटितार्थ: (विवक्षितार्थ: न स्यात्)
    व्यंग्यार्थ: – गूढार्थ: / इङ्गितार्थ: ]
  • गुणीभूतव्यङ्ग्यानि
    यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात् प्रकर्षवत् ।
    – ध्वन्यालोकः ३/३४
  • अलङ्काराः
  • अनुप्रासादयः शब्दालङ्काराः उपमारूपकादयः अर्थालङ्काराः ।
  • गुणाः
    ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः ।
    उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥
    – काव्यप्रकाशः

विशेषः

  • स च कविः स्वप्रतिभया नवार्थं निष्पाद्य सृष्टिं रचयति इति हेतोः प्रजापतिनाम्ना लोके प्रसिद्धिं प्राप्नोति । अत एवोक्तं  “अपारे काव्यसंसारे कविरेव प्रजापतिः” ।

पदविवरणम्

  • रसभावगुणीभूतैः = रसश्च भावश्च गुणीभूतानि च रसभावगुणीभूतानि, तैः ।

अलङ्कारः

अनुवादः

Where (यत्र) the literary work (भारती) relishes (रम्) and flows freely, due to the aspects of literature like Rasa (रस) the aesthetic pleasure, Bhaava (भाव) the sentiment, Guneebhoota-vyangya (गुणीभूत) with the suggested meaning (vyangya) being made a subordinate element (guni-bhuta) of expression, Alamkaara (अलङ्कार) the rhetoric figures of speech and the raise of qualities of excellence (गुण-उदय), such a person (तद्) is said कथ् to be a poet (कविः). He is said to be a creator (स्रष्टा), as in the case of creator, the Goddess of Learning (भारती) relishes (रम्) due to the expressions (भाव) of the emotion of love (रस), which are the supporting embellishments (गुणीभूत), his ornaments (अलङ्कार), and the qualities that arise (गुण-उदय) on seeing her beloved.

तदात्वे नूतनं सर्वमायत्यां च पुरातनम् ।

न दोषायैतदुभयं न गुणाय च कल्पते ॥६॥

सर्वं तदात्वे नूतनम् । (सर्वम्) आयत्यां पुरातनम् । एतदुभयं च न दोषाय न
गुणाय च कल्पते ।

तदात्वे, नूतनम्, सर्वम्, आयत्याम्, च, पुरातनम्, न, दोषाय, एतत्, उभयम्, न, गुणाय, च, कल्पते ।

पदार्थः

  • सर्वम् = (यत्) इदानीन्तनं पूर्वतनं च प्रबन्धजातम्
  • तदात्वे = तत्काले
  • नूतनम् = नवीनम्
  • आयत्याम् = उत्तरकाले
  • पुरातनम् = प्राचीनम्
  • एतदुभयं च = नूतनत्वं च पुरातनत्वञ्च
  • न दोषाय = न दोषकरं च
  • न गुणाय = न वा गुणकरम्
  • च कल्पते = च भवति ।

तदात्वे नूतनं सर्वमायत्यां च पुरातनम् ।

न दोषायैतदुभयं न गुणाय च कल्पते ॥६॥

भावः

कस्यचित् प्रबन्धस्य प्राचीनत्वं न गुणकरं न वा तस्य नूतनत्वं दोषकरम् ।

यतः इदानीं यः प्रबन्धः नूतनत्वात् दोषयुक्तः इति वक्तुम् इष्यते सः कालान्तरे पुरातनं भवति । अपि च कश्चित् प्रबन्धः यदि पुरातनत्वात् श्लाघार्हः तर्हि सोऽपि प्रबन्धः स्वकाले नूतनः एव ननु ।

विशेषः

स्वकाव्ये नूतनमित्येव ये दोषम् उद्भावयेयुः मन्दाः तान् प्रति आह
– तदात्वे नूतनं सर्वमायत्याञ्च पुरातनम् । इति

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमत्यवद्यम् ।

सन्तः परीक्ष्यान्यतरद् भजन्ते मूढः परप्रत्ययनेयबुद्धिः ॥

-मालविकाग्निमित्रम्

पदविवरणम्

  • तदात्वे = तदा + भावार्थे ‘त्व’-तद्धितान्तं पदम् । ‘तदात्व’ शब्दः नपुं, स.वि., ए.व.
  • नूतनम् = ‘नव’स्य नूः आदेशः । तन प्रत्ययः । त्रि.
  • आयत्याम् = इकारान्तः स्त्री. आयति शब्दः स.वि., ए.व.
  • पुरातनम् = पुरा + तन प्रत्ययः । त्रि.
  • उभयम् = उभौ अवयवौ अस्य । उभ + तयप् । त्रि.
  • न दोषाय न च गुणाय कल्पते – ‘कॢप्’ सामर्थ्ये कॢपि सम्पद्यमाने च वक्तव्या – वा. १४५९
    उदा. परोपकारः पुण्याय कल्पते । –
    ‘कॢपि’ धातौ प्रयुज्यमाने सति परिणामत्वं बोध्यते इत्यतः
    (जातस्य / परिणामस्य तद्वाचक-पदस्य) चतुर्थी ।

प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।

न वाचमवमन्यन्ते नर्तकीमिव भावुकाः॥७॥

अनघे मार्गे प्रवृत्तां नर्तकीम् इव वाचं क्वचित् प्रमाद्यन्तीम् अपि भावुकाः न
अवमन्यन्ते ।

प्रवृत्ताम्, अनघे, मार्गे, प्रमाद्यन्तीम्, अपि, क्वचित्, न, वाचम्, अवमन्यन्ते, नर्तकीम्, इव, भावुकाः।

पदार्थः

❖  अनघे =  सकलपापक्षयकारिणि / दुःखविरोधिनि (अघः = पापम् / दुःखम् / व्यसनम्)

❖  मार्गे = भगवच्चरितग्रथनरूपे पथि / मार्गनाम्नि नृत्ते

❖  प्रवृत्ताम् = प्रसृताम् / उद्युक्ताम्

❖  नर्तकीम् इव = नृत्ते कृताभ्यासां वनितामिव

❖  वाचम् = कविताम्

❖  क्वचित् = कस्मिंश्चित् (सूक्ष्मे भगवच्चरित-रहस्यादि-विषये)

❖  प्रमाद्यन्तीम् अपि =  शब्दार्थ-गुणदोषादिविषये अनवधानाम् अपि

❖  भावुकाः =  भगवद्भक्ताः / नृत्तविशेषज्ञाः अपि

❖  न अवमन्यन्ते = न अपमानेन तिरस्कुर्वन्ति

प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि क्वचित् ।

न वाचमवमन्यन्ते नर्तकीमिव भावुकाः॥७॥

भावः

भगवच्चरितनिबन्धनरूपा वाक् पापक्षयकरी भवति । तादृशमार्गे प्रवृत्तायाः वाचः कुत्रचित् प्रमादः जायते चेदपि दुःखविरोधिनि मार्गनृत्ते उद्युक्तां कृताभ्यासां वनिताम् इव भक्ताः रसज्ञाः च ताम् अनुमन्यन्ते एव। भावग्रहणतत्पराः सहृदयाः भक्ताः व्याकरणगतदोषादीन् न गणयन्ति इत्यर्थः ।

विशेषः

मार्गः देशी इति द्विधा नृत्तमुक्तं सङ्गीतशास्त्रेषु ।

भगवद्विषयं यथाकथञ्चित् अबद्धमपि निखिलाघविध्वंसनम् इति परिगृह्णन्ति –

स वाग्विसर्गो जनताघसम्प्लवो यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।

नामान्यनन्तस्य यशोऽङ्कितानि यच्छृण्वन्ति गायन्ति गृणन्ति साधवः ॥
(श्रीमद्भागवतम् – १२.१२.५१)

यस्मिन् अबद्धवति अपि अनन्तस्य नामानि प्रतिश्लोकम् अङ्कितानि
यं साधवः शृण्वन्ति गायन्ति गृणन्ति सः वाग्विसर्गः जनताघसम्प्लवः ।

पदविवरणम्

  • अनघः = अघविरुद्धः अनघः । अधर्मवत् नञ् समासो विरुद्धे।
  • प्रवृत्ताम् = प्र + वृत् + क्त
  • नर्तकी = नृत्तं शिल्पम् अस्याः अस्ति इति
  • वाचम् = चकारान्तः स्त्री. वाच् शब्दः द्वि.वि. ए.व.
  • प्रमाद्यन्ती = प्र + मद् हर्षग्लेपनयोः माद्यति + शतृ स्त्री.
  • भावुकाः = भू + उकञ् प्रत्ययः त्रि.
  • न अवमन्यन्ते = अव + मन् ज्ञाने, मन्यते । कर्तरि लट् प्र.पु. बहु.व.

विहाय तदहं व्रीळां व्यासवेदार्णवामृतम् ।

वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ ८ ॥

तद् अहं व्रीडां विहाय व्यासवेदार्णवामृतं विबुधजीवातुं वसुदेवसुतोदयं वक्ष्ये । [कर्मणिप्रयोगे – मया वसुदेवसुतोदयः वक्ष्यते ]

विहाय, तद्, अहम्, व्रीळाम् (व्रीडाम्), व्यासवेदार्णवामृतम्, वक्ष्ये, विबुधजीवातुम्, वसुदेवसुतोदयम् ।

पदार्थः

  • तद् अहम् = तस्मात् कारणात् अहम्
  • व्रीडां विहाय = (उपहास्यतां गच्छेयम् इति) लज्जां त्यक्त्वा
  • व्यासवेदार्णवामृतम् = महाभारतस्य सारभूतम्
  • विबुधजीवातुम् = देवानां जीवनौषधञ्च विदुषां भोग्यपदार्थम्
  • विबुधाः = अमरा निर्जरा देवास्त्रिदशा विबुधा सुराः । विद्वान् विपश्चित् दोषज्ञः सन्सुधीः कोविदो बुधः ।
  • वसुदेवसुतोदयम् = कृष्णस्य अभ्युदयचरितम्
  • वक्ष्ये= वर्णयिष्ये ।

विहाय तदहं व्रीळां व्यासवेदार्णवामृतम् ।

वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ ८ ॥

भावः

‘अनघे मार्गे प्रवृत्तं वचनं पापक्षयकरत्वात् क्वचित् दोषयुक्तं चेदपि भक्तानां हृद्यम् एव’ । अपि च ‘मन्दधियामपि यथाशक्ति शौरिकथास्वादः उचितः’ इति पूर्वोक्तयः अत्र कविना ‘तदहं…. वक्ष्ये’ इति वाक्येन उपसंह्रियन्ते । अतः अहम् अपहसेयुरिति त्रपां परित्यज्य महाभारतसिन्धुसुधाभूतं देवतानां जीवनौषधञ्च विदुषां भोग्यरसञ्च कृष्णाभ्युदयचरितं वर्णयिष्ये ।

विशेषः

vविबुधजीवातुम्

vविबुधाः = विशेषेण बुध्यते इति विबुधः । (देवः, पण्डितः)

vजीवातुः = भोग्यपदार्थः, जीवनौषधम् ।

vअमृतम् देवानाम् ।

vभोग्यः प्रबन्धो विदुषाम् ।

पदविवरणम्

  • तद् = अव्ययम् (हेत्वर्थे)
  • व्रीडा = मन्दाक्षम्, व्रीडः, लज्जा, त्रपा, ह्रीः
  • विहाय = वि + हा “हा त्यागे”, जहाति, ल्यबन्ताव्ययम् ।
  • व्यासवेदार्णवामृतम् = व्यासस्य वेदः (महाभारतम्) = व्यासवेदः ।
  • तदेव अर्णवः = व्यासवेदार्णवः
  • व्यासवेदार्णवात् लब्धममृतम् = व्यासवेदार्णवामृतम् । मध्यमपद..
  • अथवा व्यासवेदार्णवस्य अमृतम् = व्यासवेदार्णवामृतम्
  • विबुधजीवातुम् = बिबुधानां जीवातुः, तम्
  • वसुदेवसुतोदयम् = वसुदेवस्य सुतः वसुदेवसुतः । वसुदेवसुतस्य
    उदयः, तम्

क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।

एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ ९ ॥

विभुः श्रीमान् एकः इदं विश्वं चित्रं कृपारूषितया क्रीडातूलिकया स्वयम् स्वस्मिन् अजीजनत् । [कर्मणिप्रयोगः – श्रीमता विश्वम् अजीजनि ]

क्रीडातूलिकया, स्वस्मिन्, कृपारूषितया, स्वयम्, एकः, विश्वम्, इदम्, चित्रम्, विभुः, श्रीमान्, अजीजनत् ।

पदार्थः

  • विभुः = निखिलजगत्-सृष्टि-स्थिति-लयानुकूल-विविधशक्तिमान् / निरतिशयवैभवः ।
  • श्रीमान् = अनपायिन्या श्रीमहालक्ष्म्या नित्ययुक्तः पुरुषोत्तमः
  • एकः = सहायान्तर-निरपेक्षः
  • इदं विश्वम् = एतत् जगत् / समस्तं वा विश्व (त्रि.) सर्वम् ; विश्वम् – जगत्
  • चित्रम् = आश्चर्यभूतम् आलेख्यम्
  • कृपारूषितया = दयारसेन दिग्धया
  • क्रीडातूलिकया = स्वलीला एव आलेख्यकूर्ची, तया
  • स्वयम् = आत्मना
  • स्वस्मिन् = आत्मनि एव
  • अजीजनत् = जनयामास ।
    जनि धातोः णिजन्तात् लुङ् प्र.पु. ए.व.

क्रीडातूलिकया स्वस्मिन् कृपारूषितया स्वयम् ।

एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ ९ ॥

भावः

सृष्टि-पालन-संहारानुकूल-विविध-शक्तियोगात् अनन्तवैभवः, लक्ष्मीपतिः, सहायान्तर-निरपेक्षः कृत्स्नमिदं जगत् समुत्पादयामास ।

जगतः सृष्टेः प्रयोजनं किम् ? निमित्तोपादानादिकारणं किम् ? इत्येतद् विवरीतुम् उक्तं यत् सः पुरुषोत्तमः दयारसद्रव्येण रक्तया स्वलीलाकूर्चया आत्मना एव आत्मनि इदं विश्वरूपम् आश्चर्यकरं चित्रम् व्यरचयत् ।

विशेषः

पुरुषसूक्तोक्तप्रकारेण यदुवंशकूटस्थस्य चन्द्रमसः उत्पत्तिं वर्णयितुं उपोद्घातं रचयति कविः पुरुषोत्तमेन इदं विश्वं कृतमिति । अस्मिन् श्लोके प्रतिपदं साभिप्रायम्

  • स्वयं स्वस्मिन् इति विशेषणद्वयेन प्रपञ्चस्य निमित्तकारणम् उपादानकारणम् च इति उभयविधकारणत्वं दर्शितम् ।
  • एकः – अनेककोटिब्रह्माण्ड-घटितस्य अस्य प्रपञ्चस्य निर्माणे सहायान्तरस्य निरपेक्षता सूच्यते ‘एकः’ इत्यनेन पदेन ।
  • विभुः – भगवतः सर्वशक्तिमत्त्वं दर्शयति ‘विभुः’ इति पदम् ।
  • क्रीडातूलिकया – ‘अवाप्तसमस्तकामस्य भगवतः प्रपञ्चनिर्माणं कथम् उपपन्नं स्यात् प्रयोजनाभावात्’ इति शङ्कां निवारयितुं ‘क्रीडातूलिकया’ (लीलया) इत्युक्तम् ।
  • कृपारूषितया – ननु स्वलीलया प्रपञ्चनिर्माणं कृत्वा जीवराशीन् नरक-गर्भवासादि-दुःखपङ्के निमज्जयति । तर्हि सः निष्करुणः एव स्यात् । अनेन भगवतः निखिलहेयप्रत्यनीकत्व-समस्तकल्याणगुणपरिपूर्णत्व-हानिः इति शङ्कां वारयितुम् उक्तं ‘कृपारूषितया’ इति । अत एव मुक्त्युपाय-प्रतिपादकाः वेदभागाः उपदिष्टाः ।
  • श्रीमान् – एवंविधः जगन्निर्माता पुरुषोत्तमः एव इत्यत्र किं प्रमाणम् इति आकाङ्क्षायां पुरुषसूक्तं तत्र प्रमाणम् इति प्रतिपादयितुं ‘श्रीमान्’ इत्युक्तम् ।

पदविवरणम्

  • श्रीमान् = श्रीः अस्य अस्तीति । नित्ययोगे मतुप्
  • विश्वम् = (त्रि.) सर्वम्, विश्वम् – जगत्
  • चित्रम् = अद्भुतम्, आलेख्यम्
  • कृपारूषितया = कृपया रूषिता (तूलिका) । रूष् भूषायाम् रूषति
  • क्रीडातूलिकया = क्रीडा एव तूलिका – क्रीडातूलिका, तया
  • अजीजनत् = जन् प्रादुर्भावे धातोः णिजन्तात् लुङ् प्र.पु. ए.व.

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।

परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १० ॥

तस्य मनसः जगदाह्लादनः चन्द्रमाः परिपालयितव्येषु मूर्तिमान्  प्रसादः इव जज्ञे ।

जगदाह्लादनः, जज्ञे, मनसः, तस्य, चन्द्रमाः, परिपालयितव्येषु, प्रसादः, इव, मूर्तिमान् ।

पदार्थः

  • तस्य = पुरुषोत्तमस्य
  • मनसः = मानसात्
  • जगदाह्लादनः = लोकानाम् आह्लादयिता / लोकप्रमोदनः
  • चन्द्रमाः = चन्द्रः
  • परिपालयितव्येषु = रक्षणीयेषु भृत्येषु
  • मूर्तिमान् = आकारवान् / आकृत्युक्तः
  • प्रसादः = भगवन्मनसः कृतज्ञतादिगुणसमूहः इव
  • जज्ञे = जातः ।

अन्वयरचना

  • जज्ञे (समुत्पन्नः)
  • कः जज्ञे ? चन्द्रमाः
  • कीदृशः चन्द्रमाः ? जगदाह्लादनः
  • चन्द्रमाः कस्मात् जज्ञे ? मनसः
  • कस्य मनसः ? तस्य (पुरुषोत्तमस्य)
  • कथम् इव जज्ञे ? मूर्तिमान् प्रसादः इव
  • केषु ? परिपालयितव्येषु

जगदाह्लादनो जज्ञे मनसस्तस्य चन्द्रमाः ।

परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥ १० ॥

भावः

भगवता रक्षणीयेषु प्रदर्श्यमानः प्रसादः शरीरमास्थाय समागतः इव भगवतः मानसात् उत्पन्नः लोकाह्लादनकरः चन्द्रः समुत्पन्नः ।

विशेषः

प्रसादः  –

कृतज्ञतोपकर्तृत्वं भूयोदोषानभिज्ञता ।
एष प्रसादश्चित्तानां लक्षणज्ञैरुदाहृतः ॥
शारदातनयः भावप्रकाशने

चन्द्रमा मनसो जातः – इति पुरुषसूक्ते

पद्मपुराणे –  अत्रिभवः – ध्यानावस्थितस्य अत्रैमहर्षेः नेत्राभ्यां जलबिन्दवः निपतिताः ।  दिग्देवताः तेषां प्रकशामय-वारिबिन्दूनां धारणं स्वगर्भे कृतवत्यः । किन्तु तद्धारणे अशक्ताः अभवन् । ततः ब्रह्मा तस्मै पुरुषरूपं दत्त्वा तं चन्द्रं नक्षत्राणां पतिम् अकरोत् ।

समुद्रमथनसमये प्रादुर्भूतः – इति स्कान्दपुराणे ।

पुराणेषु चन्द्रजननस्य नैकाः कथाः विद्यन्ते । तत्र विरोधः न शङ्कनीयः ।

तत्तत्कल्पान्तवृत्तान्तमधिकृत्य महर्षिभिः ।

तानि तानि प्रणीतानि विद्वांस्तत्र न मुह्यति ॥

पदविवरणम्

  • जगदाह्लादनः = जगत् आह्लादयति इति
  • चन्द्रमाः = सकारान्तः पुं. चन्द्रमस् प्र.वि., ए.व. । चन्द्रमाः चन्द्रमसौ चन्द्रमसः ।
  • मूर्तिमान् = मूर्तिः अस्य अस्तीति
  • जज्ञे = जनि प्रादुर्भावे कर्तरि लिट्., प्र.पु., ए.व. । जज्ञे जज्ञतुः जज्ञुः ।

यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।

सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ ११ ॥

यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः आहितवह्नीनां सतां विहारस्थेयतां ययौ ।

यदपत्यसमुद्भूतः, पुण्यकीर्तिः, पुरूरवाः, सताम्, आहितवह्नीनाम्, विहारस्थेयताम्, ययौ ।

अन्वयरचना

  • ययौ
  • कः ययौ ? पुरूरवाः
  • कीदृशः पुरूरवाः ? पुण्यकीर्तिः
  • पुनः कीदृशः पुरूरवाः ? यदपत्यसमुद्भूतः
  • कां ययौ ? विहारस्थेयताम्
  • केषां विहारस्थेयताम् ? सताम्
  • कीदृशां सताम् ? आहितवह्नीनाम्

पदार्थः

  • यदपत्यसमुद्भूतः = यस्य चन्द्रमसः सन्तानं बुधः तस्मात् समुद्भूतः
  • पुण्यकीर्तिः = पुण्यकरी कीर्तिः यस्य सः
  • पुरूरवाः = तादृशः पुरूरवाः इति राजा
  • आहितवह्नीनाम् = आहिताग्नीनाम् /यज्ञविदाम्
  • सताम् = शिष्टानाम्
  • विहारस्थेयताम् = विहारे स्थेयताम्
  • विहारे = अनन्तरकाले परलोकविहारे अथवा
  • अग्नेः विहृत्य प्रयोगः (विहारः = विभागः)
  • स्थेयताम् = विवाद-विषय-निर्णेतृताम्
  • ययौ = प्राप्नोत् ।

यदपत्यसमुद्भूतः पुण्यकीर्तिः पुरूरवाः ।

सतामाहितवह्नीनां विहारस्थेयतां ययौ ॥ ११ ॥

भावः

चन्द्रमसः पौत्रः बुधस्य सुतः यज्ञादिकं कृत्वा गन्धर्वादिलोकान् प्राप्य ऊर्वश्याम् अनुरक्तः तया सह अवियुक्तः भूत्वा यज्ञादिकर्मणां फलप्रदत्त्वम् अस्ति वा न वा इति सन्देहे निर्णेता (स्थेयः) बभूव । अवश्यम् अस्ति एव इति स्वयम् अबोधयत् च ।

अथवा – पूर्वम् एकाकारम् अग्निम् आहवनीयादिरूपेण त्रिधा विभज्य अग्नित्रित्वकल्पने प्रमाणभूतः आसीत् ।

विशेषः

पुरूरवाः विहारस्थेयतां ययो

पुरूरवाः – चन्द्रस्य पौत्रः । बुधस्य इलायाः च पुत्रः । अतः ऐलः इत्यपि नाम अस्य । चन्द्रवंशस्य आद्यः राजा । सः अग्नित्रयं निर्मथ्य वेदानुसारियज्ञान् अकरोत् ।    कदाचित् परलोकविहारावसरे सः ऊर्वश्याम् अनुरक्तः भूत्वा तया सह अवियोगम् अवाप ।

आदौ एकः अग्निः अभवत् । पुरूरवसा मन्वन्तरे त्रिधा प्रवर्तितः (आहवनीयाग्निः गार्हपत्याग्निः दक्षिणाग्निः चेति) । अतः सतां मध्ये प्रवृत्ते विवादे अग्नित्रित्वकल्पने सः प्रमाणः अभूत् ।

पदविवरणम्

  • यदपत्यसमुद्भूतः = यस्य अपत्यम् – यदपत्यम् ।
  • यदपत्यात् समुद्भूतः ।
  • पुण्यकीर्तिः = पुण्या कीर्तिः यस्य सः
  • आहितवह्नीनाम् = आहितः वह्निः यैः ते, आहितवह्नयः तेषाम्
  • विहारस्थेयताम् = तिष्ठति अत्र विवादे इति स्थेयः ।
  • स्थेयस्य भावः स्थेयता ।
  • विहारे स्थेयता विहारस्थेयता, ताम्
  • ययौ = या प्रापणे, लिट् प्र.पु. ए.व. । ययौ ययतुः ययुः

समवर्धत तद्वंश उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १२ ॥

समवर्धत, तद्वंशः, उपर्युपरि, पर्वभिः, यशोमुक्ताफलैः, यस्य, दिशः, दश, विभूषिताः ।

अन्वयरचना

  • विभूषिताः (अभवन्)
  • काः विभूषिताः ? दश दिशः
  • कैः विभूषिताः ? यस्य (वंशस्य) यशोमुक्ताफलैः
  • समवर्धत
  • कः समवर्धत ? तद्वंशः
  • कैः समवर्धत ? पर्वभिः
  • कथंभूतः सन् तद्वंशः समवर्धत ? उपर्युपरि

समवर्धत तद्वंश उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १२ ॥

यस्य यशोमुक्ताफलैः दश दिशः विभूषिताः तद्वंशः उपर्युपरि पर्वभिः समवर्धत ।

समवर्धत, तद्वंशः, उपर्युपरि, पर्वभिः, यशोमुक्ताफलैः, यस्य, दिशः, दश, विभूषिताः ।

पदार्थः

  • यस्य = चन्द्रवंशस्य
  • यशोमुक्ताफलैः = कीर्तयः एव मौक्तिकानि, तैः
  • दश दिशः = प्राच्यादयः अष्ट ऊर्ध्वम् अधः च इति दश दिशाः
  • विभूषिताः = अलङ्कृताः
  • तद्वंशः = सः चन्द्रवंशरूपः वेणुः / वंशदण्डः
  • उपर्युपरि = उत्तरोत्तरम्
  • पर्वभिः = पुरूरवाः, आयुः, नहुषः इत्यादिप्रकारेण उत्पन्नाः ये राजानः तद्रूपैः पर्वविशेषैः
  • समवर्धत = सम्यक् वर्धते स्म

समवर्धत तद्वंश उपर्युपरि पर्वभिः ।
यशोमुक्ताफलैर्यस्य दिशो दश विभूषिताः ॥ १२ ॥

भावः

पुरूरवाः प्रथमो राजा चन्द्रवंशस्य । वंशदण्डस्य पर्वाणि इव पुरूरवसः परम् आयुः नहुषः इत्यादिप्रकारेण उत्पन्नाः राजानः अभूवन् । उत्तरोत्तरं वर्धमानस्य अस्य वंशस्य कीर्तिः दशसु दिक्षु व्याप्य समुल्लसति स्म ।

विशेषः

  • “यशोमुक्ताफलैः दिशो दश विभूषिताः” –
  • वंशकाण्डेभ्यः मुक्ताफलान्युत्पद्यन्ते इति प्रसिद्धिः (वंशमुक्ता)
  • चतुर्दशी अष्टमी अमावास्या पूर्णिमा ग्रहणम् इति चन्द्रस्य पर्वाणि
  • वंशः = राजकुलम्, वेणुः
  • मुक्ताफलम् = मौक्तिकम्, मुक्ता = नक्षत्रम्
  • चन्द्रः तारापतिः । यथा तारागणैः अलङ्कृते आकाशे चन्द्रः शोभते यथा च ग्रन्थिभिः उपलक्षितः वंशदण्डः क्रमेण संवर्धते तथा राड्भिः भूषितः चन्द्रवंशः दश दिशासु कीर्तिम् अवाप्य शोभते स्म ।

पदविवरणम्

  • यशोमुक्ताफलैः = यशांसि एव मुक्ताफलानि, तैः
  • विभूषिताः = वि + भूष् ‘अलङ्कारे’ क्तान्तं पदम् ।
  • तद्वंशः = सः वंशः
  • समवर्धत = सम् + वृध् ‘वृद्धौ’ आत्मनेपदि, लङ्., प्र.पु., ए.व.

बभूव नहुषस्तस्मिन्नैरावत इवाम्बुधौ ।

यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १३ ॥

बभूव, नहुषः, तस्मिन्, ऐरावतः, इव, अम्बुधौ, यम्, इन्द्रविगमे, देवाः, पदे, तस्य, न्यवीविशन् ।

अन्वयरचना

  • न्यवीविशन्
  • के न्यवीविशन् ? देवाः
  • देवाः कं न्यवीविशन् ? यम् (नहुषम्)
  • कदा न्यवीविशन् ? इन्द्रविगमे
  • कुत्र न्यवीविशन् ? पदे
  • कस्य पदे ? तस्य (इन्द्रस्य)
  • बभूव
  • कः बभूव ? सः नहुषः
  • कुत्र बभूव ? तस्मिन् (वंशे)
  • कः इव बभूव ? अम्बुधौ ऐरावतः इव

बभूव नहुषस्तस्मिन्नैरावत इवाम्बुधौ ।

यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १३ ॥

यं देवाः इन्द्रविगमे तस्य पदे न्यवीविशन्, (सः) नहुषः तस्मिन् (वंशे) अम्बुधौ ऐरावतः इव बभूव ।

बभूव, नहुषः, तस्मिन्, ऐरावतः, इव, अम्बुधौ, यम्, इन्द्रविगमे, देवाः, पदे, तस्य, न्यवीविशन् ।

पदार्थः

  • यम् = यं नहुषम्
  • देवाः = अग्न्यादयः
  • इन्द्रविगमे = ब्रह्महत्यादोषात् नष्टप्रभावे क्वापि निलीने शक्रे
  • तस्य पदे = इन्द्रस्य पदव्याम्
  • न्यवीविशन् = निवेशयन्ति स्म
  • (सः) नहुषः = तादृशः नहुषः
  • तस्मिन् = चन्द्रवंशे
  • अम्बुधौ = क्षीरसागरे
  • ऐरावतः इव = अभ्रमातङ्गः इव
  • बभूव = उत्पन्नः

बभूव नहुषस्तस्मिन्नैरावत इवाम्बुधौ ।

यमिन्द्रविगमे देवाः पदे तस्य न्यवीविशन् ॥ १३ ॥

भावः

यदा नष्टप्रभावः इन्द्रः क्वचित् निलीनः आसीत् तदा अग्न्यादयः देवाः क्रतुशतयाजिनं नहुषं देवेन्द्रपदे निवेशितवन्तः । स च नहुषः चन्द्रवंशे क्षीरसागरे ऐरावतः इव समुत्पन्नः ।

पदविवरणम्

  • इन्द्रविगमे = इन्द्रस्य विगमः, तस्मिन्
  • न्यवीविशन् = नि + विश् ‘प्रवेशने’ + णिच् | लुङ्., प्र.पु., ब.व. | न्यवीविशत् न्यवीविशताम् न्यवीविशन्
  • अम्बुधौ = अम्बूनि धीयन्ते अस्मिन् इति, तस्मिन्
  • बभूव = भू ‘सत्तायाम्’ लिट्., प्र.पु., ए.व.

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh (श्रीमती. विद्या रमेशः)

नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥१४॥

वीरस्य तस्य नामचिह्नैः अलङ्कृताः नरेन्द्राः पृथिवीचक्रे जङ्गमाः जयस्तम्भाः इव अभवन् ।

नरेन्द्राः, पृथिवीचक्रे, नामचिह्नैः, अलङ्कृताः, जङ्गमाः, तस्य, वीरस्य, जयस्तम्भाः, इव, अभवन् ।

नरेन्द्राः पृथिवीचक्रे नामचिह्नैरलङ्कृताः ।
जङ्गमास्तस्य वीरस्य जयस्तम्भा इवाभवन् ॥१४॥

भावः

नहुषेण जिताः राजानः तस्य नाम्ना अङ्कितानि चिह्नानि धरन्ति स्म ।  तथा चिह्नधारिणः ते राजानः भूमण्डले नहुषस्य सञ्चारिणः दिग्जयस्तम्भाः   इव आसन् ।

शक्तिरप्रतिघा तस्य शात्रवैरपि तुष्टुवे ।
यथावत्साधकस्येव यावदर्था सरस्वती ॥ १५ ॥

यथावत् साधकस्य यावदर्था सरस्वती इव तस्य अप्रतिघा शक्तिः शात्रवैः अपि तुष्टुवे ।

शक्तिः, अप्रतिघा, तस्य, शात्रवैः, अपि, तुष्टुवे, यथावत्, साधकस्य, इव, यावदर्था, सरस्वती ।

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १६ ॥

येन ऐन्द्रम् अर्धासनम् अधिष्ठितं (सः) ययातिः नाम उत्साहात् वीरः रसः इव नहुषात् अभ्यजायत ।

वीरः, रसः, इव, उत्साहात्, नहुषात्, अभ्यजायत, ययातिः, नाम, येन, ऐन्द्रम्, अर्धासनम्, अधिष्ठितम् ।

अन्वयरचना

  • अभ्यजायत
  • कः अभ्यजायत ? ययातिः नाम
  • कथम्भूतः ययातिः ? येन अधिष्ठितम्
  • किम् अधिष्ठितम् ? अर्धासनम्
  • कीदृशम् अधिष्ठितम् ? ऐन्द्रम्
  • कस्मात् अभ्यजायत ? नहुषात्
  • कथम् इव अभ्यजायत ? उत्साहात् वीरः रसः इव

पदार्थः

  • येन = येन राज्ञा (ययातिना)
  • ऐन्द्रम् = इन्द्रसम्बन्धि
  • अर्धासनम् = आसनस्य अर्धम्
  • अधिष्ठितम् = उपविष्टम्
  • (सः) ययातिः नाम = ययातिः इति प्रसिद्धः
  • उत्सा(सः) ययातिः नाम = ययातिः इति प्रसिद्धः
  • उत्साहात् वीरः रसः इव = उत्साहाख्यात् स्थायिभावात् वीराख्यः रसविशेषः इव
  • नहुषात् = नहुषराजात्
  • अभ्यजायत = उत्पन्नः

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १६ ॥

भावः

यः राजा इन्द्रस्य अर्धासनम् अपि अलभत सः उत्साहस्थायिभावात् निष्पद्यमानः वीररसः इव नहुषात् उदपद्यत । भावापेक्षया यथा रसस्य वैशिष्ट्यं तथा नहुषापेक्षया ययातिः उत्कृष्टः इति अत्र बोध्यम् ।

विशेषः

  • उपमेयः = नहुषः उपमानः = उत्साहाख्यः स्थायिभावः
  • उपमेयः = ययातिः उपमानः = वीराख्यः रसः
  • “भावोकर्षो रसः स्मृतः” इति आलङ्कारिकः सिद्धान्तः । तदनु
  • वीरो रस इवोत्साहान्नहुषादभ्यजायत’ इयनेन वाक्येन
  • भावापेक्षया यथा रसस्य तथा नहुषापेक्षयापि ययातिः उत्कृष्टः, अपि च चन्द्रवंशे जातानाम् उत्तरोत्तरोत्कर्षत्वं च ज्ञाप्यते ।
  • ययातेः कथा महाभारतस्य आदिपर्वणि सम्भनामके उपपर्वणि विद्यते ।

पदविवरणम्

  • ऐन्द्रम् = इन्द्रस्य इदम्
  • अर्धासनम् = आसनस्य अर्धम्
  • अधिष्ठितम् = अधि + स्था + क्त ।
  • अधिशीङ्स्थाऽऽसाम् कर्म इति सूत्रेणे अधिपूर्वाणां शीङ् स्था आस् इति एषाम् आधारः यः तत् कारकं कर्मसंज्ञं भवति ।
  • अभ्यजायत = अभि + जनीँ प्रादुर्भावे, लङ् प्र.पु. ए.व. (अभि + अजायत) ।

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥ १७ ॥

विशालविपुलोत्तुङ्गे, यद्बाहुशिखरान्तरे, आसीत्, वीरश्रिया, सार्धम्, भूमि, अर्धासने, स्थिता ।

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे वीरश्रिया सार्धं भूमिः अर्धासने स्थिता आसीत् ।

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥ १७

भावः

शौर्यलक्ष्मीः भूमिश्च उभेऽपि अस्य ययातेः विपुले भुजशिखरे विश्रान्ते इति भावः ।

पदार्थः

  • विशालविपुलोत्तुङ्गे = परिणाहि पृथुलम् उन्नतं च यत् एवम्भूते
  • यद्बाहुशिखरान्तरे = यस्य (ययातेः) स्कन्धावकाशे
  • वीरश्रिया सार्धम् = वीरलक्ष्म्या सह
  • भूमिः = पृथिवी
  • अर्धासने = आसनस्य अर्धभागे
  • स्थिता/ स्थिरा आसीत् = अतिष्ठत् । स्थिरा आसीत् इति पक्षे चलनरहिता सार्थकनामधेया आसीत् ।

अन्वयरचना

  • आसीत्
  • का आसीत् ? भूमिः
  • कथम्भूता भूमिः ? स्थिता
  • कुत्र स्थिता आसीत् ? अर्धासने
  • कीदृशे अर्धासने ? यद्बाहुशिखरान्तरे
  • पुनः कीदृशे अर्धासने ? विशालविपुलोत्तुङ्गे
  • कया सार्धं स्थिता आसीत् ? वीरश्रिया सार्धम्

विशेषः

  • “विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे वीरश्रिया सार्धं भूमिः अर्धासने स्थिता आसीत् ।”
  • पर्वतः भूधरः उच्यते । विशालपदेन ययातेः राज्यविस्तृतत्वं च विपुलपदेन तदीयं बलं च उत्तुङ्गपदेन तस्य अतुल्यत्वं च ध्वन्यते ।
  • वीरः = पराक्रमी । कर्मणि समर्थः । यज्ञादिकर्मसु दक्षः ।
  • तथा वीरश्रीसम्पन्नस्य ययातेः छत्रच्छायायां भूमिः अव्यग्रा सती क्षेमेण राजते इति भावः ।
  • नारायणः – चन्द्रः – बुधः ।
  • पुरूरवाः – नहुषः – ययातिः इति चन्द्रवंशीयाः राजानः ।

पदविवरणम्

  • विशालविपुलोत्तुङ्गे = विशालञ्च विपुलञ्च उत्तुङ्गञ्च एषां समाहारः, विशालविपुलोत्तुङ्गं, तस्मिन्
  • यद्बाहुशिखरान्तरे
  • बाहोः शिखरम् – बाहुशिखरम्
  • बाहुशिखरस्य अन्तरम् – बाहुशिखरान्तरम्
  • यस्य बाहुशिखरान्तरम् – यद्बाहुशिखरान्तरं, तस्मिन्
  • सार्धम् = सह, साकं, समम् इति पर्यायपदानि
  • वीरश्रीः = वीरसहिता श्रीः

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १६ ॥

येन ऐन्द्रम् अर्धासनम् अधिष्ठितं (सः) ययातिः नाम उत्साहात् वीरः रसः इव नहुषात् अभ्यजायत ।

वीरः, रसः, इव, उत्साहात्, नहुषात्, अभ्यजायत, ययातिः, नाम, येन, ऐन्द्रम्, अर्धासनम्, अधिष्ठितम् ।

वीरो रस इवोत्साहान्नहुषादभ्यजायत ।
ययातिर्नाम येनैन्द्रमर्धासनमधिष्ठितम् ॥ १६ ॥

भावः

यः राजा इन्द्रस्य अर्धासनम् अपि अलभत सः उत्साहस्थायिभावात् निष्पद्यमानः वीररसः इव नहुषात् उदपद्यत । भावापेक्षया यथा रसस्य वैशिष्ट्यं तथा नहुषापेक्षया ययातिः उत्कृष्टः इति अत्र बोध्यम् ।

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥ १७ ॥

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे वीरश्रिया सार्धं भूमिः अर्धासने स्थिता आसीत् ।

विशालविपुलोत्तुङ्गे, यद्बाहुशिखरान्तरे, आसीत्, वीरश्रिया, सार्धम्, भूमि, अर्धासने, स्थिता ।

विशालविपुलोत्तुङ्गे यद्बाहुशिखरान्तरे ।
आसीद्वीरश्रिया सार्धं भूमिरर्धासने स्थिता ॥ १७

भावः

शौर्यलक्ष्मीः भूमिश्च उभेऽपि अस्य ययातेः विपुले भुजशिखरे विश्रान्ते इति भावः ।

निदेशं तस्य राजानो  शेकुरतिवर्तितुम् 
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः  १८ 

तस्य निदेशं प्राप्तस्वपरनिर्वाहं प्रमाणं वादिनः इव अतिवर्तितुं राजानः न शेकुः ।

निदेशम्, तस्य, राजानः, न, शेकुः, अतिवर्तितुम्, प्राप्तस्वपरनिर्वाहम्,
प्रमाणम्, इव, वादिनः ।

अन्वयरचना

  • न शेकुः
  • के न शेकुः ? राजानः
  • राजानः किं कर्तुं न शेकुः ? अतिवर्तितुम्
  • कम् अतिवर्तितुम् ? निदेशम्
  • कीदृशं निदेशम् ? प्राप्तस्वपरनिर्वाहम्
  • कस्य निदेशम् ? तस्य (ययातेः)
  • कथम् इव अतिवर्तितुं न शेकुः ? वादिनः प्रमाणम् इव

पदार्थः

  • तस्य =
  • निदेशम् =
  • प्राप्तस्वपरनिर्वाहम् प्रमाणम् =
  • प्राप्तः =
  • वादिनः इव =
  • अतिवर्तितुम् =
  • राजानः =
  • न शेकुः =

निदेशं तस्य राजानो  शेकुरतिवर्तितुम् 
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः  १८ 

भावः

यथा वादिना प्रमाणोपन्यासे कृते प्रतिवादिभिः अपि तत् उल्लङ्घितुं न शक्यं तथा ययाते आज्ञां शत्रवः अपि नैव उल्लङ्घितुं समर्थाः अभवन्  ।

विशेषः

प्राप्तस्वपरनिर्वाहं प्रमाणमिव  –

  • उपमेयम् – निदेशः, सः (ययातिः), राजानः च ।
  • उपमानम् – प्रमाणम्, वादी, प्रतिवादी च ।
  • ‘प्राप्तस्वपरनिर्वाहम्’ उपमानस्य उपमेयस्य च उभयोः अपि विशेषणम् ।
  • (वादिपक्षे) प्राप्तः स्वस्य (वादिनः) च परस्य (प्रतिवादिनः) च निर्वाहः यस्मिन् तत् प्रमाणम्
  • वादिनः प्रतिवादिनः च इति उभयपक्षेऽपि वेदप्रमाणं निर्वाह्यं भवति । वादिना उक्तः अर्थः प्रतिवादी निराकुर्यात् । विलोमतः च ।
  • किन्तु वादिना प्रदर्शितं वेदप्रमाणं प्रतिवादी निर्वहेत् एव । तत् प्रमाणम् उल्लङ्घितुं न प्रभवति ।
  • (राजपक्षे) ययातेः निदेशं राजानः उल्लङ्घितुं न प्रभवन्ति स्म । ययातिः स्वेन स्वीकृतानां कर्मणाम् आन्तं निर्वाहं करोति । प्रतिभूपालाः च तदीयाम् आज्ञां अनुवर्तन्ते इति भावः ।

पदविवरणम्

  • प्राप्तस्वपरनिर्वाहम् =
  • वादिनः =
  • अतिवर्तितुम् =
  • शेकुः =

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः 

भावा इव रसं भव्याः पार्थिवाः पर्युपासत  १९ 

तं पार्थिवाः तटाकं तापार्ताः इव इन्द्रं निर्जराः इव रसं भव्याः भावाः इव पर्युपासत ।

तटाकम्, इव, तापार्ताः, तम्, इन्द्रम्, इव, निर्जराः, भावाः, इव, रसम्,
भव्याः, पार्थिवाः, पर्युपासत ।

अन्वयरचना

  • पयुपासत
  • के पर्युपासत ? पार्थिवाः
  • पार्थिवाः कं पर्युपासत ? तम्
  • कथमिव पर्युपासत ? तटाकं तापार्ताः इव
  • पुनः कथमिव पर्युपासत ? इन्द्रं निर्जराः इव
  • पुनः कथमिव पर्युपासत ? रसं भव्याः भावाः इव

पदार्थः

  • तम् =
  • पार्थिवाः =
  • तटाकं तापार्ताः इव =
  • इन्द्रं निर्जराः इव =
  • रसम् =
  • भव्याः =
  • भावाः इव =
  • पर्युपासत =

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः 

भावा इव रसं भव्याः पार्थिवाः पर्युपासत  १९ 

भावः

विशेषः

  • एकस्त उपमेयस्य अनेकोपमान-कथनम् ।
  • भूपाः ययाति – उपमेयाः
  • तापार्ताः तटाकम् इव
  • निर्जराः इन्द्रम् इव
  • भावाः रसम् इव – उपमानानि ।
  • साधारणधर्मः – उपासनम् / आश्रयणम् ।

स्थायिभावाः । विभावानुभावसञ्चारिभावाः च ।

शृङ्गाररसस्य

  • स्थायिभावः – रतिः
  • विभावः – १. आलम्बनविभावः – आभिरूप्यादिशालिन्यौ स्त्रीपुंसौ
    २. उद्दीपनविभावः – पुरहर्म्यम्, चन्द्रोदयः, मलयमारुतः, कोकिलालापः इत्यादिः
  • अनुभावाः – नयनान्तावलोकनात् मधुरव्यापाराः इत्यादयः
  • सञ्चारिभावाः – निर्वेदः, ग्लानिः, शङ्का, श्रमः,
    जडता, हर्षः इत्यादयः

पदविवरणम्

  • पार्थिवाः =
  • तापार्ताः =
  • भव्याः =
  • पर्युपासत =
  • निर्जराः =

अमरा निर्जरा देवास्त्रिदशा विबुधा सुराः

सुपर्वाणः सुमनसस्त्रिदेवेशा दिवौकसः

आदितेया दिविषदो लेखा अदितिनन्दनाः

आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः

बर्हिर्मुखा ऋतुभुजः गीर्वाणाः दानवारयः

वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ।

२६ देवानाम् विकल्पेन दैवत-शब्दः  पुंसि ।

निदेशं तस्य राजानो  शेकुरतिवर्तितुम् 
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः  १८ 

तस्य निदेशं प्राप्तस्वपरनिर्वाहं प्रमाणं वादिनः इव अतिवर्तितुं राजानः न शेकुः ।

निदेशम्, तस्य, राजानः, न, शेकुः, अतिवर्तितुम्, प्राप्तस्वपरनिर्वाहम्,
प्रमाणम्, इव, वादिनः ।

निदेशं तस्य राजानो  शेकुरतिवर्तितुम् 
प्राप्तस्वपरनिर्वाहं प्रमाणमिव वादिनः  १८ 

भावः

यथा वादिना प्रमाणोपन्यासे कृते प्रतिवादिभिः अपि तत् उल्लङ्घितुं न शक्यं तथा ययाते आज्ञां शत्रवः अपि नैव उल्लङ्घितुं समर्थाः अभवन्  ।

तटाकमिव तापार्तास्तमिन्द्रमिव निर्जराः 

भावा इव रसं भव्याः पार्थिवाः पर्युपासत  १९ 

तं पार्थिवाः तटाकं तापार्ताः इव इन्द्रं निर्जराः इव रसं भव्याः भावाः इव पर्युपासत ।

तटाकम्, इव, तापार्ताः, तम्, इन्द्रम्, इव, निर्जराः, भावाः, इव, रसम्,
भव्याः, पार्थिवाः, पर्युपासत ।

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः।

समानगणनालेख्ये निस्समानैर्निषद्यते ॥ २० ॥

ततः यदुर्नाम जज्ञे । यत्सन्ततिसमुद्भवैः निस्समानैः समानगणनालेख्ये निषद्यते ।

यदुः नाम, ततः, जज्ञे, यत्सन्ततिसमुद्भवैः, समानगणना, आलेख्ये, निस्समानैः, निषद्यते ।

अन्वयरचना

  • जज्ञे । (जातः)
  • कः जज्ञे ? यदुः नाम
  • कस्मात् जज्ञे ? ततः (ययातेः)
  • निषद्यते । (उपविश्यते)
  • कैः निषद्यते ? यत्सन्ततिसमुद्भवैः
  • कीदृशैः यत्सन्ततिसमुद्भवैः ? निःसमानैः
  • कुत्र निषद्यते ? समानगणनालेख्ये

पदार्थः

  • ततः =
  • यदुः नाम =
  • जज्ञे =
  • यत्सन्ततिसमुद्भवैः =
  • निस्समानैः =
  • समानगणनालेख्ये =
  • निषद्यते =

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः।

समानगणनालेख्ये निस्समानैर्निषद्यते ॥ २० 

भावः

तस्मात् ययातेः यदुः जातः । तस्य नाम्ना एव सः वंशः प्रसिद्धः जातः । तद्वंशजानां चक्रवर्तिनां सदृशाः केऽपि न आसन् ।

विशेषः

  • यदुवंशराजानां समाः के इति गणना क्रियते चेत् तत्तद्राजस्य आलेख्ये एव अन्वेष्टव्याः नान्यत्र ।
  • निषद्यते इति लट् – प्रयोगः ।

पदविवरणम्

देहि = दा लोट् म.पु. ए.व. देहि दत्तम् दत्त ।

वदताम् = वदत् शत्रन्तं पदम् । ष.वि. बहु.व.

प्रसीदन् = प्रसीदत् शत्रन्तं पदं, प्र.वि. ए.व., ।

ललितध्वनिभिः =ललिताः ध्वनयः येषां ते – ललितध्वनयः, तैः ।

प्रत्युवाच = प्रति + वच् लिट् प्र.पु. ए.व. । उवाच ऊचतुः ऊचुः ।

  • लक्ष्मी-लीला-कमल-षट्पदैः
  • लीलायै कमलम् = लीलाकमलम् ।
  • लक्ष्म्याः लीलाकमलम् = लक्ष्मीलीलाकमलम् ।
  • षट् पादाः येषां ते = षट्पदाः ।
  • लक्ष्मी-लीला-कमल-षट्पदैः= लक्ष्मीलीलाकमलस्य षट्पदाः लक्ष्मीलीलाकमलषट्पदाः, तैः

देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः

ललितध्वनिभिलक्ष्मीलीलाकमलषट्पदैः ॥ २१

सः देहि इति वदतां प्रायः प्रसीदन् ललितध्वनिभिः लक्ष्मीलीलाकमलषट्पदैः प्रत्युवाच ।

देहि, इति, वदताम्, प्रायः, प्रसीदन्, प्रत्युवाच, सः, ललितध्वनिभिः लक्ष्मी-लीला-कमल-षट्पदैः ।

अन्वयरचना

  • प्रत्युवाच
  • कः प्रत्युवाच ? सः (यदुः)
  • केषाम् प्रत्युवाच ? वदताम्
  • किम् इति वदताम् ? देहि इति
  • कथम्भूतः सन् प्रत्युवाच ? प्रसीदन्
  • कैः प्रत्युवाच ? लक्ष्मी-लीला-कमल-षट्पदैः
  • कीदृशैः षट्पदैः ? ललितध्वनिभिः

पदार्थः

  • सः =
  • देहि इति वदताम् =
  • प्रायः प्रसीदन् =
  • ललितध्वनिभिः =
  • लक्ष्मी-लीला-कमल-षट्पदैः =
  • प्रत्युवाच =

यदुर्नाम ततो जज्ञे यत्सन्ततिसमुद्भवैः।

समानगणनालेख्ये निस्समानैर्निषद्यते ॥ २० 

भावः

देहि इति याचमानानां सपदि एव धनवितरणम् अकरोत् यदुः । तथा वितरण-समये याचकेषु सन्निहितायाः श्रियः क्रीडा-पद्मान्तर्गत-भ्रमरस्वनः एव तत्प्रतिवचनमासीत् । याचनात् परं दाने क्षण-कालविलम्बमपि
नैवाकरोत् इति भावः ।

विशेषः

लक्ष्मीलीलाकमलषट्पद-ध्वनीनाम् असम्बन्धे अपि सम्बन्धकथनात् अतिशयोक्तिः ।

पदविवरणम्

  • प्राप्तस्वपरनिर्वाहम् =
  • वादिनः =
  • अतिवर्तितुम् =
  • शेकुः =

स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।

न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ २२ 

सः वृत्तविहीनस्य विद्यां न बहु अमन्यत । चतुर्थीचन्द्रचन्द्रिका शुद्धा इति (जनैः) नहि गृह्येत ।

सः, च, वृत्तविहीनस्य, न, विद्याम्, बहु, अमन्यत, न, हि, शुद्धा, इति, गृह्येत, चतुर्थीचन्द्रचन्द्रिका ।

अन्वयरचना

न बहु अमन्यत ।

  • कः न बहु अमन्यत ? सः (यदुः)
  • कां न बहु अमन्यत ? विद्याम्
  • कस्य विद्याम् ? वृत्तविहीनस्य

यथा  न गृह्येत ।

  • का न गृह्येत ? चतुर्थीचन्द्रचन्द्रिका (कर्मपदम्)
  • कथम्भूता (अपि) ? शुद्धा

पदार्थः

  • सः = यदुः
  • वृत्तविहीनस्य = आचारहीनस्य
  • विद्याम् = वेदादिरूपाम् अधीतिम्
  • न बहु अमन्यत = न बहु आद्रियते स्म
  • चतुर्थीचन्द्रचन्द्रिका = (भाद्रपदशुक्ल)चतुर्थीचन्द्रस्य चन्द्रिका
  • शुद्धा इति = विमला इति
  • नहि गृह्येत = नैव आद्रियते (किल)

स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।

न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ २२ 

भावः

विद्यावानपि आचारविहीनः अर्थी वितरणात् प्राक् किञ्चित् शिक्षणाय प्रतिवक्तव्यः इति ज्ञापनाय पूर्वतनश्लोके ‘प्रायः’ इति प्रयुक्तम् (देहीति वदतां प्रायः प्रसीदन् प्रत्युवाच सः) । विमला इति कृत्वा भाद्रपद-शुक्ल-चतुर्थी-चन्द्रिका यथा न आद्रियते तथा विद्यावन्तम् अपि आचारविहीनं जनं यदुः न आद्रियते स्म ।

विशेषः

न च वृत्तविहीनस्य विद्यां बह्वमन्यत –

न विद्यया केवलया तपसा वापि पात्रता ।

यस्य वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥

आचारवतः पुरुषस्य विद्या एव विद्या इत्यर्थः ।

श्लोके चतुर्थीचन्द्रचन्द्रिका इत्यत्र चतुर्थी पदं भाद्रपदशुद्धचतुर्थीबोधकम् । तद्दिने चन्द्रदर्शनं निषिद्धम् ।

कन्यागतचतुर्थ्यां तु शुक्ले चन्द्रस्य दर्शनम् ।

मिथ्याभिदूषणं कुर्यात् तस्मात् पश्येन्न तं तदा ॥ इति

पदविवरणम्

  • वृत्तविहीनस्य = वृत्तेन विहीनः, वृत्तविहीनः, तस्य ।
  • अमन्यत = मन् ज्ञाने (लटि मन्यते) आत्मनेपदि लङ् प्र.पु. ए.व.
  • चतुर्थीचन्द्रचन्द्रिका
  • चन्द्रस्य चन्द्रिका चन्द्रचन्द्रिका
  • चतुर्थ्याः चन्द्रचन्द्रिका = चतुर्थीचन्द्रचन्द्रिका ।
  • गृह्येत = ग्रह् उपादाने परस्मैपदी (लटि गृह्णाति), कर्मणि विधिलिङ् प्र.पु. ए.व.

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः

अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन्  २३ 

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः तस्य प्रथमे अर्थिनः चरमान् पर्यपूरयन् ।

अपुनःप्रार्थनीयस्य, प्रार्थिताधिकदायिनः, अर्थिनः, प्रथमे, तस्य, चरमान्, पर्यपूरयन् ।

अन्वयरचना

पर्यपूरयन् ।

  • के पर्यपूरयन् ? अर्थिनः(कर्तृपदम्)
  • कीदृशाः अर्थिनः? प्रथमे
  • कस्य अर्थिनः ? तस्य (यदोः)
  • कीदृशस्य तस्य ? प्रार्थिताधिकदायिनः
  • पुनः कीदृशस्य तस्य ? अपुनःप्रार्थनीयस्य
  • कान्पर्यपूरयन्? चरमान् (कर्मपदम्)

पदार्थः

  • अपुनः प्रार्थनीयस्य = एकवारं प्रार्थिते पुनः अप्रार्थनीयस्य
  • प्रार्थिताधिकदायिनः = यावत् प्रार्थितं ततोऽपि अधिकं दातुं शीलवतः
  • तस्य = यदोः
  • प्रथमे अर्थिनः = प्रथमागताः याचकाः
  • चरमान् = पश्चादागतान् याचकान्
  • पर्यपूरयन् = परिपूर्णान् कृतवन्तः ।

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः।

अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन्  २३ 

भावः

देहीति सकृत् प्रार्थयतां यदुमहाराजः सपदि एव निधिवितरणक्रियया एव प्रत्युत्तरं ददाति स्म (श्लो.२१) । पुनर्याचनस्य आवश्यकता नैव उत्पद्यते स्म । अपि च यावत् प्रार्थितं ततोऽपि अत्यधिकं निधिं वितरति स्म । तथा वितरणावसरे आरम्भे ये निधिं गृह्णन्ति ते एव पश्चात् स्थितानाम् अपेक्षापूरणे समर्थाः भवन्ति स्म । भूरिदानं कृतवतः यदोः वदान्यता (औदार्यं) व्यज्यते अत्र ।

विशेषः

यदुः प्रथमागतेभ्यः अर्थिभ्यः तावन्तं निधिं प्रयच्छति स्म यत् ते एव पश्चादागतेभ्यः अर्थिभ्यः अभिलषितं निधिं प्रदातुं समर्थाः अभवन् इति तस्य यदोः महावदान्यत्वं व्यञ्जयति कविः ।

पदविवरणम्

  • अपुनःप्रार्थनीयस्य
  • पुनः प्रार्थनीयः = पुनःप्रार्थनीयः ।
  • न पुनःप्रार्थनीयः = अपुनःप्रार्थनीयः, तस्य
  • प्रार्थिताधिकदायिनः
  • दानं शीलं अस्य इति दायी । ताच्छीलिको णिनिप्रत्ययः।
  • प्रार्थितात् अधिकम् = प्रार्थिताधिकम् ।
  • प्रार्थिताधिकदायिनः = प्रार्थिताधिकस्य दायी, प्रार्थिताधिकदायी, तस्य
  • प्रथमे = प्रथमचरमतयेत्यादिना वैकल्पिकी सर्वनामसंज्ञा “प्रथमचरमतयाल्पार्धकतिपयनेमाश्च” 1.1.33
    प्रथम-चरम-अल्प-अर्ध-कतिपय-नेम-शब्दाः तथा च तयप् प्रत्ययान्तशब्दाः जस् प्रत्यये परे विकल्पेन सर्वनामसंज्ञकाः भवन्ति ।
    प्रथमे, प्रथमाः इति रूपद्वयम् प्रथमा-बहुवचने ।
  • पर्यपूरयन् = परि+ पूर् आप्यायने
    ‘पूरयति’ लङ् प्र.पु. बहु.

स च वृत्तविहीनस्य न विद्यां बह्वमन्यत ।

न हि शुद्धेति गृह्येत चतुर्थीचन्द्रचन्द्रिका ॥ २२ 

सः वृत्तविहीनस्य विद्यां न बहु अमन्यत । चतुर्थीचन्द्रचन्द्रिका शुद्धा इति (जनैः) नहि गृह्येत ।

सः, च, वृत्तविहीनस्य, न, विद्याम्, बहु, अमन्यत, न, हि, शुद्धा, इति, गृह्येत, चतुर्थीचन्द्रचन्द्रिका ।

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः

अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन्  २३ 

अपुनःप्रार्थनीयस्य प्रार्थिताधिकदायिनः तस्य प्रथमे अर्थिनः चरमान् पर्यपूरयन् ।

अपुनःप्रार्थनीयस्य, प्रार्थिताधिकदायिनः, अर्थिनः, प्रथमे, तस्य, चरमान्, पर्यपूरयन् ।

शराणां शात्रवाणां च सन्धानेन महौजसः।

तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥ २४ ॥

महौजसः तस्य निर्धूतलक्षेण शराणां शात्रवाणां च सन्धानेन क्वचित् अपि द्विः न अभूयत ।

शराणाम्, शात्रवाणाम्, च, सन्धानेन, महौजसः, तस्य, निर्धूतलक्षेण, द्विः, क्वचित्, न,अपि, अभूयत ।

अन्वयरचना

न अभूयत ।

  • केन न अभूयत ? सन्धानेन (कर्तृपदम्)
  • केषां सन्धानेन ? शराणां शात्रवाणां च
  • कीदृशेन सन्धानेन ? निर्धूतलक्षेण
  • कस्य सन्धानेन ? तस्य (यदोः)
  • कीदृशस्य तस्य ? महौजसः
  • कथम्भूतेन न अभूयत ? द्विः (क्रियाविशेषणम्)

पदार्थः

  • महौजसः तस्य =
  • निर्धूतलक्षेण =
  • शराणाम् =
  • शात्रवाणां च =
  • सन्धानेन =
  • क्वचित् अपि =
  • द्विः =
  • न अभूयत =

शराणां शात्रवाणां च सन्धानेन महौजसः।

तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥ २४ ॥

भावः

महाबलस्य यदोः प्रथमशरसन्धानमेव लक्ष्यसाधकमासीत् । तथा सन्ध्यर्थिषु शत्रुषु अपि तस्य सन्धानं निष्कपटम् आसीत् ।

विशेषः

निर्धूतलक्षेण शराणां शात्रवाणां च सन्धानेन – अत्र श्लेषः

‘शराणां निर्धूतलक्षेण सन्धानेन’

‘शात्रवाणां निर्धूतलक्षेण सन्धानेन’

लक्षम् = शरव्यम्, लक्ष्यम्, वेध्यम् (target)

लक्षम् = छद्म (deceit)

निर्धूतम् = निरस्तम्, नाशितम्, ध्वस्तम् । धुनोति ।

शराणां निरस्तलक्षेण (धनुषि) सन्धानेन – लक्ष्यवेधि शरसन्धानम् ।

शात्रवाणां निरस्तच्छद्मना सन्धानेन – शत्रुभिः छद्मविहीनः सन्धिः ।

(सन्धिः – नृपैः प्रयुक्तेषु षड्गुणेषु अन्यतमः ।)

सन्धिः, विग्रहः , यानं, स्थानं, संश्रयः, द्वैधं द्विः क्वचित् न अभूयत ।

द्विः शरं नाभिसन्धत्ते  द्विः स्थापयति नाश्रितान् ।

द्विर्ददाति न चार्थिभ्यो रामो द्विर्नाभिभाषते ॥ हनुमन्नाटके १.४८

पदविवरणम्

  • महौजसः =
  • निर्धूतलक्षेण =
  • सन्धानेन =
  • द्विः =
  • न अभूयत =

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।

दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ २५

दिवौकसः तं (यदुं) युक्तदण्डम्, अमित्राणां कृतान्तं, समवर्तिनं, दक्षिणं, लोकपालम्  अमन्यन्त ।

युक्तदण्डम्, अमित्राणाम्, कृतान्तम्, समवर्तिनम्, दक्षिणम्, लोकपालम्, तम्, अमन्यन्त, दिवौकसः ।

अन्वयरचना

अमन्यन्त ।

  • के अमन्यन्त ? दिवौकसः (कर्तृपदम्)
  • दिवौकसः कम् अमन्यन्तः ? तम् (यदुम्)
  • कीदृशं तम् ? युक्तदण्डम्
  • पुनः कीदृशं तम् ? अमित्राणां कृतान्तम्
  • पुनः कीदृशं तम् ? समवर्तिनम्
  • पुनः कीदृशं तम् ? दक्षिणम्
  • पुनः कीदृशं तम् ? लोकपालम्

पदार्थः

  • दिवौकसः =
  • तम् =
  • युक्तदण्डम् =
  • अमित्राणां कृतान्तम् =
  • समवर्तिनम् =
  • दक्षिणम् =
  • लोकपालम् =
  • अमन्यन्त =

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।

दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ २५

भावः

देवानां दृष्ट्या सः यदुराजः अपराधोचितदण्डदायकः, शत्रूणां विनाशकः, प्रजासु समवर्तनशीलः, राज्यशासने दक्षः, नरलोकरक्षकः, दक्षिणलोकपालस्य (यमस्य) सदृशः आसीत्  ।

विशेषः

कृतान्तं, समवर्तिनं, दक्षिणं, लोकपालम्  – इति एतानि पदानि ‘यम’-पद-बोधकानि । अतः यदुं यमसदृशं मतवन्तः देवाः इति अर्थः ।

धर्मराजः, पितृपतिः, समवर्ती, परेतराट्, कृतान्तः, यमुनाभ्राता, शमनः, यमराट्, यमः, कालः, दण्डधरः, श्राद्धदेवः, वैवस्वतः, अन्तकः इति १४ यमस्य । – अमरकोषे

यदुः

लोकः – भ्वादिलोकः । लोकः – जनः। लोकः – दिक् (स्थानम्) दक्षिणलोकपालः।

पदविवरणम्

  • दिवौकसः =
  • युक्तदण्डम् =
  • अमित्राणाम् =
  • कृतान्तम् =
  • समवर्तिनम् =
  • दक्षिणम् =
  • लोकपालम् =

शराणां शात्रवाणां च सन्धानेन महौजसः।

तस्य निर्धूतलक्षेण द्विः क्वचिन्नाप्यभूयत ॥ २४ ॥

महौजसः तस्य निर्धूतलक्षेण शराणां शात्रवाणां च सन्धानेन क्वचित् अपि द्विः न अभूयत ।

शराणाम्, शात्रवाणाम्, च, सन्धानेन, महौजसः, तस्य, निर्धूतलक्षेण, द्विः, क्वचित्, न,अपि, अभूयत ।

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।

दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ २५

दिवौकसः तं (यदुं) युक्तदण्डम्, अमित्राणां कृतान्तं, समवर्तिनं, दक्षिणं, लोकपालम्  अमन्यन्त ।

युक्तदण्डम्, अमित्राणाम्, कृतान्तम्, समवर्तिनम्, दक्षिणम्, लोकपालम्, तम्, अमन्यन्त, दिवौकसः ।

यशप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

यशप्रसूनसुरभिः, यदुसन्तानपादपः, बभूव, विबुधप्रीत्यै, बहुशाखः,

क्षमातले ।

अन्वयरचना

बभूव

  • कः बभूव ? यदुसन्तानपादपः
  • कीदृशः यदुसन्तानपादपः ? बहुशाखः
  • पुनः कीदृशः यदुसन्तानपादपः ? यशप्रसूनसुरभिः
  • कुत्र बभूव ? क्षमातले
  • कस्यै बभूव ? विबुधप्रीत्यै

यशप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

बहुशाखः यशप्रसूनसुरभिः यदुसन्तानपादपः क्षमातले विबुधप्रीत्यै
बभूव ।

यशप्रसूनसुरभिः, यदुसन्तानपादपः, बभूव, विबुधप्रीत्यै, बहुशाखः,

क्षमातले ।

पदार्थः

  • बहुशाखः = बहुविटपः (यस्य वृक्षस्य बह्वयः शाखाः भवन्ति)
  • यशप्रसूनसुरभिः = यशांसि एव पुष्पाणि तैः यशःपुष्पैः सुगन्धी (वृक्षपक्षे) । यशसः
    प्रसरणेन दूरे अपि ख्यातः (यदोः तद्वंशस्य च पक्षे) ।
    (सुरभिः – सुगन्धयुक्तः, श्रेष्ठः, विख्यातः, धीरः )
  • यदुसन्तानपादपः = सन्तानपादपः – कल्पवृक्षः, सुरद्रुमविशेषः
    यदुनामकः कल्पवृक्षः
    यदुसन्तानः एव सन्तानपादपः
  • क्षमातले = भूतले
  • विबुधप्रीत्यै = विदुषां प्रीत्यै
  • बभूव = आसीत्

यशप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

भावः

यदुमहाराजः महायशाः बहुवेदशाखाध्यायी वदान्यः चासीत् । कीर्तिमान् तद्वंशः अपि वृष्णिः अन्धकः भोजः इति शाखोपशाखरूपेण संवृद्धः दानशीलः च आसीत् । यथा स्वर्गे अभीष्टप्रदः कल्पतरुः विबुधानां (देवानां) प्रियकरः भवति तथा यदु तद्वंशः च भूतले विबुधानां (विदुषां) प्रियकरः आसीत् इति भावः ।

विशेषः

❖  अयं श्लोकः यदुवर्णनपरः तद्वंशवर्णनपरः च ।

सन्तानपादपः = सन्तनोति विस्तारयति पत्रपुष्पादीनि इति ।

सन्तन्यते इति वंशः ।  (सम् + तन् विस्तारे + घञ्)

पदविवरणम्

  • यशप्रसूनसुरभिः
  • यदुसन्तानपादपः
  • बभूव
  • विबुधप्रीत्यै
  • बहुशाखः
  • क्षमातले

यशप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥ २६ ॥

बहुशाखः यशप्रसूनसुरभिः यदुसन्तानपादपः क्षमातले विबुधप्रीत्यै
बभूव ।

यशप्रसूनसुरभिः, यदुसन्तानपादपः, बभूव, विबुधप्रीत्यै, बहुशाखः, क्षमातले ।

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh (श्रीमती. विद्या रमेशः)

यशप्रसूनसुरभिर्यदुसन्तानपादपः ।

बभूव विबुधप्रीत्यै बहुशाखः क्षमातले ॥

बहुशाखः यशप्रसूनसुरभिः यदुसन्तानपादपः क्षमातले विबुधप्रीत्यै
बभूव ।

यशप्रसूनसुरभिः, यदुसन्तानपादपः, बभूव, विबुधप्रीत्यै, बहुशाखः,

क्षमातले ।

वंशे समभवत्तस्य वसुदेवः क्षितीश्वरः ।

जनकः प्राग्भवे योऽभूद्देवदानवयूथयोः

यः क्षितीश्वरः प्राग्भवे देवदानवयूथयोः जनकः अभूत् (सः) वसुदेवः तस्य वंशे समभवत् ।

वंशे, समभवत्, तस्य, वसुदेवः, क्षितीश्वरः, जनकः, प्राग्भवे, यः, अभूत्, देवदानवयूथयोः।

आनकानां च दिव्यानां दुन्दुभीनां च निस्वनैः।

सह जातं यमाचख्युराख्ययानकदुन्दुभिम् ॥ २८ ॥

आनकानाम्, च, दिव्यानाम्, दुन्दुभीनाम्, च, निस्वनैः, सह, जातम्, यम्, आचख्युः, आख्यया, आनकदुन्दुभिम् ।

अन्वयरचना

यम् आचख्युः

  • के आचख्युः ? वृद्धाः (कर्तृपदम् – अध्याहृतम्)
  • कम् आचख्युः ? जातम् (कर्मपदम्)
  • कैः सह जातम् ? निस्वनैः
  • केषां निस्वनैः ? आनकानाम् दुन्दुभीनां च
  • कीदृशानाम् ? दिव्यानाम्
  • कया आचख्युः ? आख्यया
  • जातं (तं) कीदृशम् आचख्युः ? आनकदुन्दुभिम् ।

आनकानां च दिव्यानां दुन्दुभीनां च निस्वनैः।

सह जातं यमाचख्युराख्ययानकदुन्दुभिम् ॥ २८ ॥

दिव्यानाम् आनकानां दुन्दुभीनां च निस्वनैः सह जातं यम् (वसुदेवं) आख्यया आनकदुन्दुभिम् आचख्युः ।

आनकानाम्, च, दिव्यानाम्, दुन्दुभीनाम्, च, निस्वनैः, सह, जातम्, यम्, आचख्युः, आख्यया, आनकदुन्दुभिम् ।

पदार्थः

  • दिव्यानाम् =
  • आनकानां दुन्दुभीनां च =
  • निस्वनैः सह =
  • जातं यम् =
  • आख्यया =
  • आनकदुन्दुभिम् =
  • आचख्युः =

युक्तदण्डममित्राणां कृतान्तं समवर्तिनम् ।

दक्षिणं लोकपालं तममन्यन्त दिवौकसः ॥ २५

भावः

अस्य वसुदेवस्य जनन-वेलायाम् आनक-दुन्दुभीनां वाद्यघोषः अभवत् । अतः वृद्धैः एषः ‘आनकदुन्दुभि’नाम्ना अभिहितः ।

विशेषः

❖  आनकदुन्दुभि-वाद्य-द्वय-घोषः विषय-त्रयस्य सूचकः –

  • ▪ रजस्तमोरूपगुणद्वयनिवृत्तेः
  • ▪ देवीद्वयानुसरणस्य
  • ▪ पुत्रद्वयलाभस्य च

पदविवरणम्

  • दिव्यानाम् =
  • आनकानां दुन्दुभीनां च = आनकः पटहोऽस्त्री स्यात्
  • भेरी स्त्री दुन्दुभिः पुमान् इत्यमरः ।
  • आख्यया =
  • आचख्युः = आङ् + चक्ष् चक्षिङ् व्यक्तायां वाचि । लिट् प्र.पु. ब.व.
  • लटि – चष्टे चक्षाते चक्षते
  • चक्षे चक्षाथे  चद्ढ्वे
  • चक्षे  चक्ष्वहे  चक्ष्महे
  • लिटि – चख्यौ चख्यतुः  चख्युः

आनकानां च दिव्यानां दुन्दुभीनां च निस्वनैः।

सह जातं यमाचख्युराख्ययानकदुन्दुभिम् ॥ २८ ॥

दिव्यानाम् आनकानां दुन्दुभीनां च निस्वनैः सह जातं यम् (वसुदेवं) आख्यया आनकदुन्दुभिम् आचख्युः ।

आनकानाम्, च, दिव्यानाम्, दुन्दुभीनाम्, च, निस्वनैः, सह, जातम्, यम्, आचख्युः, आख्यया, आनकदुन्दुभिम् ।

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ २९ ॥

तेन, निर्मलसत्त्वेन, विनिवृत्तरजस्तमाः, जगती, शान्तमोहा, इव, धर्मोच्छ्वासवती, बभौ ।

अन्वयरचना

बभौ

  • का बभौ ? जगती
  • कथम्भूता जगती ? विनिवृत्तरजस्तमाः
  • पुनः कथम्भूता जगती ? धर्मोच्छ्वासवती
  • कथम् इव बभौ ? शान्तमोहा इव
  • केन (हेतुना) ? तेन (वसुदेवेन)
  • कीदृशेन तेन ? निर्मलसत्त्वेन

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ २९ ॥

निर्मलसत्त्वेन तेन जगती विनिवृत्तरजस्तमाः (अतः) धर्मोच्छ्वासवती शान्तमोहा इव बभौ ।

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः जगती शान्तमोहा इव धर्मोच्छ्वासवती बभौ ।

पदार्थः

  • निर्मलसत्त्वेन =
  • तेन =
  • विनिवृत्तरजस्तमाः =
  • जगती =
  • धर्मोच्छ्वासवती =
  • शान्तमोहा इव =
  • बभौ =

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ २९

भावः

मूर्छितः स्तब्धश्वासः जनः यथा सद्वैद्येन परिचारितः सन् मूर्छापगमे समुच्छ्वसिति तथा भूमिः अपि निर्मलसत्त्वगुणवता वसुदेवेन पालिता रजस्तमोगुणनिवृत्त्या धर्मोच्छ्वासं लब्ध्वा सम्यक् प्रकाशते स्म ।

विशेषः

निर्मलसत्त्वः  – रजस्तमोगुण-सम्बन्धाभावात् सत्त्वगुणः यस्य, सः

अथवा निर्मलमनाः

मोहः – धर्मसम्मूढत्वम् ।

मूर्छा ।

भूमिः ततः पूर्वं मूर्छाम् अनुभूय तदानीम् अपगतमूर्छा इव बभौ ।

पदविवरणम्

  • निर्मलसत्त्वेन =
  • विनिवृत्तरजस्तमाः =
  • धर्मोच्छ्वासवती =
  • शान्तमोहा =
  • बभौ =

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ २९ ॥

निर्मलसत्त्वेन तेन जगती विनिवृत्तरजस्तमाः (अतः) धर्मोच्छ्वासवती शान्तमोहा इव बभौ ।

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः जगती शान्तमोहा इव धर्मोच्छ्वासवती बभौ ।

आनकानां च दिव्यानां दुन्दुभीनां च निस्वनैः।

सह जातं यमाचख्युराख्ययानकदुन्दुभिम् ॥ २८ ॥

दिव्यानाम् आनकानां दुन्दुभीनां च निस्वनैः सह जातं यम् (वसुदेवं) आख्यया आनकदुन्दुभिम् आचख्युः ।

आनकानाम्, च, दिव्यानाम्, दुन्दुभीनाम्, च, निस्वनैः, सह, जातम्, यम्, आचख्युः, आख्यया, आनकदुन्दुभिम् ।

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः।

जगती शान्तमोहेव धर्मोच्छ्वासवती बभौ ॥ २९ ॥

निर्मलसत्त्वेन तेन जगती विनिवृत्तरजस्तमाः (अतः) धर्मोच्छ्वासवती शान्तमोहा इव बभौ ।

तेन निर्मलसत्त्वेन विनिवृत्तरजस्तमाः जगती शान्तमोहा इव धर्मोच्छ्वासवती बभौ ।

स विष्णुरिव लोकानां तपनस्तेजसामिव ।

समुद्र इव रत्नानां सतामेकाश्रयोऽभवत् ॥ ३० ॥

सः, विष्णुः, इव, लोकानाम्, तपनः, तेजसाम्, इव, समुद्रः, इव, रत्नानाम्, सताम्, एकाश्रयः, अभवत् ।

अन्वयरचना

अभवत्

कः अभवत् ? सः

कथम्भूतः सः ? एकाश्रयः

केषाम् एकाश्रयः ? सताम्

कथम् इव ? लोकानां विष्णुः इव, तेजसां तपनः इव, रत्नानां समुद्रः इव

सः लोकानां विष्णुः इव, तेजसां तपनः इव, रत्नानां समुद्रः इव सताम् एकाश्रयः अभवत् ।

  • सः = वसुदेवः
  • लोकानां विष्णुः इव = भुवनानां श्रीमन्नारायणः इव
  • तेजसां तपनः इव = प्रकाशानां सूर्यः इव
  • रत्नानां समुद्रः इव = पुष्यरागादिमणीनां सागरः इव
  • सताम् एकाश्रयः = सत्पुरुषाणाम् अद्वितीयः आश्रयः
  • अभवत् = आसीत्

भावः

यथा विष्णुः भुवनानां, सूर्यः प्रकाशानां, समुद्रः रत्नानां च अद्वितीयः आश्रयः भवति तथा वसुदेवः सकलसाधुजनानाम् उपजीव्यः (आलम्बः) अभवत् ।

  • तेजः
  • भौम-दिव्य-औदर्य-आकरज-भेदात् तेजः चतुर्धा ।
  • भौमं तेजः – वह्न्यादिकम्
  • दिव्यम् – अबिन्धनं, विद्युदादि
  • औदर्यम् – भुक्तस्य परिणामहेतुः
  • आकरजम् – सुवर्णादि

पदविवरणम्

  • तेजः = तेजो दीप्तौ प्रभावे स्यात् पराक्रमरेतसोः इति मेदिनी ।
  • एकाश्रयः = एकश्च असौ आश्रयश्च

अलङ्कारः

  • मालोपमा

प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः ।

रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ॥ ३१ ॥

प्रख्यातविभवे पत्न्यौ तस्य पूर्वं प्रजापतेः रोहिणीदेवकीरूपे मनुष्यत्वे बभूवतुः ।

अन्वयरचना

बभूवतुः

के बभूवतुः ? पत्न्यौ

कस्य पत्न्यौ ? तस्य (वसुदेवस्य)

कीदृशस्य तस्य ? पूर्वं प्रजापतेः

कीदृश्यौ पत्न्यौ ? प्रख्यातविभवे

कथम्भूते बभूवतुः ? रोहिणीदेवकीरूपे

कस्मिन् ? मनुष्यत्वे

पूर्वं प्रजापतेः तस्य प्रख्यातविभवे पत्न्यौ मनुष्यत्वे रोहिणीदेवकीरूपे बभूवतुः ।

  • पूर्वम् = वसुदेवरूपेण उत्पत्तेः प्राक्
  • प्रजापतेः = कश्यपप्रजापतिरूपस्य
  • तस्य = वसुदेवस्य
  • प्रख्यातविभवे = प्रसिद्ध-माहात्म्ये
  • पत्न्यौ = सुरभिः अदितिः च इति उभे भार्ये
  • मनुष्यत्वे = मनुष्य भावे
  • रोहिणीदेवकीरूपे = रोहिणीरूपा च देवकीरूपा च
  • बभूवतुः = आस्ताम् ।

भावः

सुरभिरदितिश्च इति प्रसिद्धे पतिव्रते कश्यपप्रजापतेः भार्ये आस्ताम् । एते एव मनुष्यभावे रोहिणी-देवकी-रूपाभ्यां वसुदेवस्य पत्न्यौ अभूताम् ।

  • जनको जन्मदानाच्च रक्षणाच्च पिता नॄणाम् ।
    ततो विस्तीर्णकरणात् कलया स प्रजापतिः ॥ इति ब्रह्मवैवर्ते
  • प्रजापतिः

पदविवरणम्

  • प्रख्यातविभवे = प्रख्यातः विभवः ययोः ते
  • मनुष्यत्वे = मनुष्यस्य भावः मनुष्यत्वं, तस्मिन्
  • बभूवतुः = भू सत्तायाम्, लिटि, प्र.पु. द्वि.व.

बभूव बभूवतुः बभूवुः

अक्षुद्रगतिशालिन्योस्तयोरन्योन्यसक्तयोः।

ऐकरस्यमभूत्पत्या गङ्गायमुनयोरिव ॥ ३२

अक्षुद्रगतिशालिन्योः, तयोः, अन्योन्यसक्तयोः, ऐकरस्यम्, अभूत्, पत्या, गङ्गायमुनयोः इव ।

अन्वयरचना

अभूत्

किम् अभूत् ? ऐक्यरस्यम् (कर्तृपदम्)

कयोः ? तयोः (देवकीरोहिण्योः)

कीदृश्योः तयोः ? अक्षुद्रगतिशालिन्योः

पुनः कीदृश्योः तयोः ? अन्योन्यसक्तयोः

केन (सह) ऐक्यरस्यम् अभूत् ? पत्या

कयोः इव ? गङ्गायमुनयोः

अक्षुद्रगतिशालिन्योः अन्योन्यसक्तयोः तयोः गङ्गायमुनयोः इव पत्या (सह) ऐकरस्यम् अभूत् ।

  • अक्षुद्रगतिशालिन्योः =

[पत्नीद्वयपक्षे] अक्रूरबुद्धिशालिन्योः

(क्षुद्र = अधम-क्रूर-कृपण-अल्प)

(गतिः = गमनम्, मार्गः, दशा, बुद्धिः, उपायः)

(शाल् शाल्यते श्लाघायां दीप्तौ)

[नदीद्वयपक्षे] अनल्पप्रवाहवत्योः

  • अन्योन्यसक्तयोः =

[पत्नीद्वयपक्षे] अन्योन्यानुरक्त्योः

(सञ्ज सङ्गे – सञ्जति, सक्त)

[नदीद्वयपक्षे] अन्योन्यसंसृष्टयोः

  • तयोः = देवकीरोहिण्योः
  • गङ्गायमुनयोः इव = __
  • पत्या (सह) =

[पत्नीद्वयपक्षे] वल्लभेन वसुदेवेन सह

[नदीद्वयपक्षे] सरित्पतिना समुद्रेण सह

  • ऐकरस्यम् =

[पत्नीद्वयपक्षे] तुल्यरागत्वम्

(रसः रस् आस्वादन-स्नेहनयोः ।)

(१. रागः २. कट्वम्ल-मधुर-लवण-तिक्त-कषायाः)

[नदीद्वयपक्षे] एकोदकत्वम्

  • अभूत् = अभवत् ।

भावः

यथा सततं प्रवहन्त्यौ गङ्गायमुने सङ्गत्य सरित्पतिना समुद्रेण सह लवणरसोदकत्वं प्राप्नुतः तथैव परस्परस्नेहासक्ते देवकीरोहिण्योः पत्या वसुदेवेन सह अभिन्नप्रीतिपात्रे भूत्वा आस्ताम् ।

ऐकरस्यमभूत्पत्या गङ्गायमुनयोरिव ॥ ३२ ॥

विशेषः

  • नद्योः अन्योन्यसक्तत्वं प्रयागे गङ्गायमुनासङ्गमात् ।

पदविवरणम्

  • अक्षुद्रगतिशालिन्योः = क्षुद्रा गतिः = क्षुद्रगतिः ।
  • क्षुद्रगत्या शाल्येते इति क्षुद्रगतिशलिन्यौ ।
  • न क्षुद्रगतिशलिन्यौ = अक्षुद्रगतिशलिन्यौ, तयोः
  • अन्योन्यसक्तयोः = अन्यश्च अन्यश्च तयोः समाहारः अन्योन्यम्
  • अन्योन्यं सक्तिः ययोः ते अन्योन्यसक्ते, तयोः
  • गङ्गायमुनयोः = गङ्गा च यमुना च गङ्गायमुने, तयोः
  • ऐकरस्यम् = एकः रसः – एकरसः । एकरसस्य भावः ऐक्यरस्यम् ।
  • अभूत् = भू सत्तायाम्, लुङ् प्र.पु. ए.व.

ताभ्यामनुरूपाभ्यां समतुष्यत्समेयिवान्

व्यक्तिहेतुरभूत् येन सपर्यङ्कस्य शार्ङ्गिणः ३३

सः, ताभ्याम्, अनुरूपाभ्याम्, समतुष्यत्, समेयिवान्, व्यक्तिहेतुः, अभूत्, येन, सपर्यङ्कस्य, शार्ङ्गिणः ।

अन्वयरचना

  • समतुष्यत् ।

कः समतुष्यत् ? सः (वसुदेवः)

काभ्यां समतुष्यत् ? ताभ्याम्

कीदृशीभ्यां ताभ्याम् ? अनुरूपाभ्याम्

कथम्भूतः (सन्) समतुष्यत् ? समेयिवान् सन्

येन (समवायेन) अभूत्

कः अभूत् ? सः (अध्याहृतम्)

सः कीदृशः अभूत् ? व्यक्तिहेतुः

कस्य व्यक्तिहेतुः ? शार्ङ्गिणः

कीदृशस्य शार्ङ्गिणः ? सपर्यङ्कस्य

सः अनुरूपाभ्यां ताभ्यां समेयिवान् (सन्) समतुष्यत् । येन सपर्यङ्कस्य शार्ङ्गिणः व्यक्तिहेतुः अभूत् ।

सः =

अनुरूपाभ्याम् =

ताभ्याम् =

समेयिवान् (सन्) =

समतुष्यत् । =

येन =

सपर्यङ्कस्य =

शार्ङ्गिणः =

व्यक्तिहेतुः =

अभूत् । =

भावः

शील-वृत्त-रूपैः स्वस्य सदृशीभ्यां देवकीरोहिणीभ्यां समेतः सः वसुदेवः तृप्तिम् अलभत । तयोः सङमेनैव शेषशायि-विशिष्टस्य श्रीमन्नारायणस्य अवतरणे कारणम् आसीत् ।

  • सपर्यङ्कस्य

पदविवरणम्

  • अनुरूपाभ्याम् =
  • समेयिवान् =
  • समतुष्यत् =
  • सपर्यङ्कस्य =
  • शार्ङ्गिणः =
  • व्यक्तिहेतुः =

अलिप्सत साम्राज्यं सोऽर्थकामपराड्मुखः

यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ३४

अलिप्सत, न, साम्राज्यं, सः, अर्थकामपराड्मुखः, यदृच्छागतम्, ऐश्वर्यम्, आनृण्यरुचिः, अन्वभूत् ।

अन्वयरचना

  • न अलिप्सत ।

कः न अलिप्सत ? सः

कीदृशः सः ? अर्थकामपराङ्मुखः

सः किं न अलिप्सत ? साम्राज्यम्

कः अन्वभूत् ? (सः)

कीदृशः सः ? आनृण्यरुचिः

सः किम् अन्वभूत् ? ऐश्वर्यम्

कीदृशम् ऐश्वर्यम् ? यदृच्छागतम्

अलिप्सत साम्राज्यं सोऽर्थकामपराड्मुखः

यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ३४

अर्थकामपराङ्मुखः सः साम्राज्यं न अलिप्सत । आनृण्यरुचिः यदृच्छागतम् ऐश्वर्यम् अन्वभूत् ।

अर्थकामपराङ्मुखः =

सः =

साम्राज्यम् =

न अलिप्सत =

आनृण्यरुचिः =

यदृच्छागतम् =

ऐश्वर्यम् =

अन्वभूत् =

भावः

केवलधर्ममोक्षाभिमुखः सः वसुदेवे राज्याधिपत्य-लिप्सा अपि नासीत् । देवर्णं पितॄणं च अपनयन् सः अयत्नलब्धम् ऐश्वर्यम् अनुभवन् सुखी तस्थौ ।

अलिप्सत साम्राज्यं सोऽर्थकामपराड्मुखः

यदृच्छागतमैश्वर्यमानृण्यरुचिरन्वभूत् ३४

विशेषः

  • सम्राट्

येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः

शास्ति यश्चाज्ञया राज्ञः स सम्राड्

आनृण्यम्  

देवानां च पितॄणां च ऋषीणां च तथा नरः ।

ऋणवान् जायते यस्मात् तन्मोक्षे प्रयतेत सदा ॥

देवानाम् अनृणो जन्तुर्यज्ञैर्भवति मानवः ।

अल्पवित्तश्च पूजाभिरुपवासव्रतैस्तथा ।

श्राद्धेन प्रजया चैव पितॄणामनृणो भवेत् ।

ॠषीणां ब्रह्मचर्येण श्रुतेन तपसा तथा ॥

इति विष्णुधर्मोत्तरे

पदविवरणम्

❖  अर्थकामपराङ्मुखः =

❖  साम्राज्यम् =

❖  अलिप्सत =

❖  आनृण्यरुचिः =

❖  ऐश्वर्यम् =

❖  अन्वभूत् =

कयाचिदशरीरिण्या वाचा व्यवसितायतिः।

देवकीं वसुदेवञ्च कंसः कारामयोजयत् ॥ ३५ ॥

कयाचित्, अशरीरिण्या, वाचा, व्यवसितायतिः, देवकीम्, वसुदेवम्, च, कंसः काराम्, अयोजयत् ।

अन्वयरचना

  • अयोजयत्
  • कः अयोजयत् ? कंसः
  • कीदृशः कंसः ? व्यवसितायतिः
  • कंसः कौ अयोजयत् ? देवकीं वसुदेवं च
  • कया (प्रेरितः सन्) ? वाचा
  • कीदृश्या वाचा ? अशरीरिण्या
  • पुनः कीदृश्या वाचा ? कयाचित्

अशरीरिण्या कयाचित् वाचा व्यवसितायतिः कंसः देवकीं वसुदेवं च काराम् अयोजयत् ।

अशरीरिण्या =

कयाचित् वाचा =

व्यवसितायतिः कंसः =

देवकीं वसुदेवं च

काराम्  =

अयोजयत् =

भावः

देवकीवसुदेवयोः विवाहानन्तरं पतिगृहयात्रावसरे ‘अस्याः अष्टमो गर्भः तव प्राणान् अपहरिष्यति’ इति अशरीरिण्या वाचा बोधितः कंसः देवकीवसुदेवौ कारागारे अबध्नात् ।

  • अशरीरिण्या =
  • व्यवसितायतिः =
  • काराम् =
  • अयोजयत् =
    युजेः गत्यर्थ-विवक्षायां
    “गतिबुद्धि-प्रत्यवसार्थ-शब्दकर्म-अकर्मकाणाम् अणि कर्ता स णौ” इति
    शास्त्रबलात् अस्य द्विकर्मकत्वम् ।

स कालातिबलः कंसः कालनेमिरनेहसा ।

सर्वदैतेयसत्त्वानां समाहार इवोदितः ॥ ३६ ॥

सः कंसः कालातिबलः अनेहसा सर्वदैतेयसत्त्वानां समाहारः इव उदितः कालनेमिः (खलु) ।

अन्वयरचना

  • उदितः (आसीत्)

कः ? कंसः

कीदृशः कंसः ? सः

पुनः कीदृशः कंसः ? कालातिबलः

कथम्भूतः (सन्) उदितः ? कालनेमिः

कदा ? कालेन

कथम् इव (उदितः) ? सर्वदैतेयसत्त्वानां समाहारः इव

सः, कालातिबलः, कंसः, कालनेमिः, अनेहसा, सर्वदैतेयसत्त्वानाम्, समाहारः, इवः, उदितः ।

पदार्थः 

सः कंसः =

कालातिबलः =

अनेहसा =

सर्वदैतेयसत्त्वानां समाहारः इव =

उदितः =

कालनेमिः (खलु) =

भावः

प्राग् भगवता विष्णुना हतः कालनेमिनामा महासुरः एव कंसरूपेण अखिलदैत्यपराक्रमाणां समुच्चयः इव उत्पन्नः । अतः एव सः नृशंसः आसीत्।

  • कालातिबलः =
  • अनेहसा =
  • सर्वदैतेयसत्त्वानाम् =
  • समाहारः –
  • उदितः =

एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।

प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ ३७ ॥

एतस्मिन्, अन्तरे, देवी, मेरुमध्यम्, उपेयुषः, प्रजापतिमुखान्, देवान्, प्राह, सागरमेखला ।

अन्वयरचना

  • प्राह

का प्राह ? देवी

कीदृशी देवी ? सागरमेखला

कदा प्राह ? एतस्मिन्नन्तरे

देवी कान् प्राहः ? देवान्

कीदृशान् देवान् ? प्रजापतिमुखान्

पुनः कीदृशान् देवान् ? उपेयुषः

कुत्रः उपेयुषः ? मेरुमध्यम्

एतस्मिन् अन्तरे सागरमेखला देवी मेरुमध्यम् उपेयुषः प्रजापतिमुखान् देवान् प्राह ।

  • एतस्मिन् अन्तरे =
  • सागरमेखला देवी =
  • मेरुमध्यम् उपेयुषः =
  • प्रजापतिमुखान् देवान् =
  • प्राह =

अस्मिन्नवसरे भूदेवी मेरुमध्यं प्राप्तवतः ब्रह्मप्रभृतीन् प्रति वक्ष्यमाणप्रकारेण उवाच ।

पदविवरणम्

  • सागरमेखला =
  • उपेयुषः =
  • प्रजापतिमुखान् =
  • आह =

विदितं भवतां देवा विश्वरूपेण विष्णुना ।

महीयान् धर्मशीलेषु भारो यत्तनिवेशितः ॥ ३८ ॥

विदितम्, भवताम्, देवाः, विश्वरूपेण, विष्णुना, महीयान्, धर्मशीलेषु, भारः, यत्, तत्, निवेशितः ।

अन्वयरचना

  • विदितम् (अस्ति)

केषां विदितम् ? भवताम्

किं विदितम् ? तत्

किम् इति विदितम् ? यत् निवेशितः (अस्ति इति)

केन निवेशितः ? विष्णुना (कर्तृपदम्)

कीदृशेन विष्णुना ? विश्वरूपेण

कः निवेशितः ? भारः (कर्मपदम्)

कीदृशः भारः ? महीयान्

केषु निवेशितः ? धर्मशीलेषु

(हे) देवाः ! भवतां विदितं तत् । यत् विश्वरूपेण विष्णुना महीयान् भारः धर्मशीलेषु निवेशितः ।

  • देवाः =
  • भवतां विदितं तत् यत् =
  • विश्वरूपेण विष्णुना =
  • महीयान् भारः =
  • धर्मशीलेषु =
  • निवेशितः =

हे देवाः ! भवतां ज्ञातम् एव तत् । यत् विश्वविग्रहेण नारायणेन भूभारः धार्मिकेषु निक्षिप्तः इति ।

विशेषः

  • धर्मः
  • भवतां विदितम्

मतिबुद्धिपूजार्थेभ्यश्च (३.२.१८८) इति सूत्रेण इच्छार्थे बुद्ध्यर्थे पूजार्थे च वर्तमाने अपि क्त-प्रत्ययः विधीयते ।

  • यत् तत्

यत्तद् इत्यत्र तच्छब्दस्तु न यत्पद-प्रतिनिर्देशरूपः । अपि तु यत् – शब्दः प्रसिद्धिं सूचयति ।

पदविवरणम्

  • विदितम् =
  • विश्वरूपेण =
  • महीयान् =
  • धर्मशीलेषु =
  • निवेशितः =

विदितं भवतां देवा विश्वरूपेण विष्णुना ।

महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ ३८ ॥

(हे) देवाः ! भवतां विदितं तत् । यत् विश्वरूपेण विष्णुना महीयान् भारः धर्मशीलेषु निवेशितः ।

विदितम्, भवताम्, देवाः, विश्वरूपेण, विष्णुना, महीयान्, धर्मशीलेषु, भारः, यत्, तत्, निवेशितः ।

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh (श्रीमती. विद्या रमेशः)

एतस्मिन्नन्तरे देवी मेरुमध्यमुपेयुषः ।

प्रजापतिमुखान् देवान् प्राह सागरमेखला ॥ ३७ ॥

एतस्मिन् अन्तरे सागरमेखला देवी मेरुमध्यम् उपेयुषः प्रजापतिमुखान् देवान् प्राह ।

एतस्मिन्, अन्तरे, देवी, मेरुमध्यम्, उपेयुषः, प्रजापतिमुखान्, देवान्, प्राह, सागरमेखला ।

विदितं भवतां देवा विश्वरूपेण विष्णुना ।

महीयान् धर्मशीलेषु भारो यत्तन्निवेशितः ॥ ३८ ॥

(हे) देवाः ! भवतां विदितं तत् । यत् विश्वरूपेण विष्णुना महीयान् भारः धर्मशीलेषु निवेशितः ।

विदितम्, भवताम्, देवाः, विश्वरूपेण, विष्णुना, महीयान्, धर्मशीलेषु, भारः, यत्, तत्, निवेशितः ।

अधर्मनिघ्नैरधुना धर्मसेतुविभेदकैः ।

असङ्ख्यैरद्भुतैस्तुङ्गैः क्रम्ये राक्षसपर्वतैः॥ ३९ ॥

अधर्मनिघ्नैः, अधुना, धर्मसेतुविभेदकैः, असङ्ख्यैः, अद्भुतैः, तुङ्गैः, क्रम्ये, राक्षसपर्वतैः ।

अन्वयरचना

  • क्रम्ये ।

का क्रम्ये ? अहम्  (भूमिः – कर्मपदम्)

कदा क्रम्ये ? अधुना

कैः क्रम्ये ? राक्षसपर्वतैः (कर्तृपदम्)

कीदृशैः राक्षसपर्वतैः ? अधर्मनिघ्नैः

पुनः कीदृशैः राक्षसपर्वतैः ? धर्मसेतुविभेदकैः

पुनः कीदृशैः राक्षसपर्वतैः ? असङ्ख्यैः

पुनः कीदृशैः राक्षसपर्वतैः ? अद्भुतैः

पुनः कीदृशैः राक्षसपर्वतैः ? तुङ्गैः

अधुना अधर्मनघ्नैः धर्मसेतुविभेदकैः असङ्ख्यैः अद्भुतैः  तुङ्गैः राक्षसपर्वतैः (अहं) क्रम्ये ।

  • अधुना = इदानीम्
  • अधर्मनिघ्नैः = निहन्यते, निगृह्यते इति निघ्नः । अधीनः, आयत्तः । अधर्माधीनैः ।
  • धर्मसेतुविभेदकैः

सेतुः = मर्यादा

धर्मसेतुविभेदकैः = धर्मसेतुभञ्जकैः

  • असङ्ख्यैः =

सङ्ख्या = गणना ।

सङ्ख्यम् = युद्धम् ।

सङ्ख्यया रहितैः / सङ्ख्येन रहितैः वा

  • अद्भुतैः = आश्चर्यभूतैः
  • तुङ्गैः = शौर्येण उन्नतैः
  • राक्षसपर्वतैः = राक्षसरूपाद्रिभिः
  • (अहं) क्रम्ये = क्रान्ता भवामि ।

इदानीम् (अहं भूः) अधर्माधीनैः धर्ममर्यादाभञ्जकैः अप्रतिमैः शौर्यवद्भिः राक्षसरूपाद्रिभिः क्रान्ता भवामि ।

राक्षसपर्वतैः अहं क्रम्ये । राक्षसपर्वताः मां क्रमन्ते ।

विशेषः

  • असङ्ख्यैः राक्षसपर्वतैः

असङ्ख्याकैः राक्षसैः ।

निष्परिपन्थितया युद्धेन रहितैः राक्षसैः ।

कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।।

पदविवरणम्

  • अधर्मनघ्नैः = अधर्मे निघ्नाः
  • धर्मसेतुविभेदकैः

धर्मस्य सेतुः = धर्मसेतुः ।

धर्मसेतुविभेदकैः = धर्मसेतोः विभेदकाः = धर्मसेतुविभेदकाः, तैः ।

  • असङ्ख्यैः = न विद्यते सङ्ख्या येषां ते असङ्ख्याः, तैः ।
  • राक्षसपर्वतैः = राक्षसाः एव पर्वताः राक्षसपर्वताः, तैः
  • क्रम्ये = क्रम् पादविक्षेपे लट् कर्मणि उ.पु. ए.व.

अतः स्वयं सुरगणैरालोचितजगद्धितैः ।

न पतामि न भिद्ये च यथाहं क्रियतां तथा ॥ ४० ॥

अतः, स्वयम्, सुरगणैः, आलोचितजगद्धितैः, न, पतामि, न, भिद्ये, च, यथा, अहम्, क्रियताम्, तथा । [अत आलोचितजगद्धितैः सुरगणैः स्वयम्]

अन्वयरचना

  • क्रियताम्

कैः क्रियताम् ? (भवद्भिः) [अध्याहृतम्]

कीदृशैः (भवद्भिः) ? सुरगणैः

पुनः कीदृशैः (भवद्भिः) ? आलोचितजगद्धितैः

भवद्भिः किं क्रियताम् ? यथा न पतामि न च स्वयं भिद्ये तथा

पदच्छेदः

अतः, स्वयम्, सुरगणैः, आलोचितजगद्धितैः, न, पतामि, न, भिद्ये, च, यथा, अहम्, क्रियताम्, तथा ।

अतः आलोचितजगद्धितैः सुरगणैः यथा (अहं) न पतामि, स्वयं च (यथा) न भिद्ये तथा (भवद्भिः) क्रियताम् ।

  • अतः = अस्मात् हेतोः
  • आलोचितजगद्धितैः = चिन्तितलोकहितैः
  • सुरगणैः = देवगणैः (भवद्भिः)
  • यथा (अहं) न पतामि = यथा न भ्रंशेयम्
  • स्वयं च (यथा) न भिद्ये = स्वयमेव (तेन पतनेन) भिन्ना च न भवेयम्
  • तथा (भवद्भिः) क्रियताम् = तथा विधीयताम्

धर्ममर्यादाभेदकैः राक्षसैः आक्रान्ता अहम् इति हेतोः चिन्तितलोकहिताः भवन्तः प्रार्थ्यन्ते यत् यथा अतिभारात् न पतेयं स्वयं च भिन्ना न भवेयं तथा भवद्भिः चिन्तनीयं करणीयञ्च इति ।

पदविवरणम्

  • आलोचितजगद्धितैः

जगते हितम् जगद्धितम् ।

आलोचितजगद्धितैः = आलोचितं जगद्धितं यैः ते = आलोचितजगद्धिताः, तैः ।

  • सुरगणैः = सुराणां गणाः सुरगणाः तैः ।
  • भिद्ये = भिदिर् उभयपदी विदारणे कर्मकर्तरि यक्प्रत्ययः उ.पु. ए.व कर्तरि लट् – आत्मनेपदिरूपम्

भिन्ते भिन्दाते भिन्दते

भिन्त्से भिन्दाथे भिन्द्ध्वे

भिन्दे भिन्द्वहे भिन्द्महे

  • क्रियताम् = कृञ् करणे कर्मणि प्रार्थनायां लोट् ।

इति ते भूतधारिण्या निसृष्टार्था दिवौकसः ।

अविदुस्तत्प्रियस्यैव तद्भारहरणं क्षमम् ॥ ४१ ॥

इति, ते, भूतधारिण्या, निसृष्टार्थाः, दिवौकसः, अविदुः, तत्प्रियस्य, एव, तद्भारहरणम्, क्षमम् ।

अन्वयरचना

  • अविदुः

के अविदुः ? दिवौकसः

कीदृशाः दिवौकसः ? ते

पुनः कीदृशाः दिवौकसः ? निसृष्टार्थाः

कया निसृष्टार्थाः ? भूतधारिण्या

भूतधारिण्या केन प्रकारेण निसृष्टार्थाः ? इति

दिवौकसः किम् अविदुः ? क्षमम् (शक्यम्)

दिवौकसः किं क्षमम् अविदुः ? तद्भारहरणम्

कस्य तद्भारहरणं क्षमम्  अविदुः ? तत्प्रियस्य एव

भूतधारिण्या इति निसृष्टार्थाः ते दिवौकसः तत्प्रियस्य एव तद्भारहरणं क्षमम् अविदुः ।

  • भूतधारिण्या =
  • इति =
  • निसृष्टार्थाः =
  • ते दिवौकसः =
  • तत्प्रियस्य एव =
  • तद्भारहरणं क्षमम् =
  • अविदुः =

अधर्माधिक्यपरिणामतः यथा अहं न पतामि न च भिद्ये तथा क्रियताम् इत्येवं भूदेव्या निवेदितविषयाः देवाः अचिन्तयन् यत् तदीयः भर्ता नारायणः एव तस्याः क्लेशापनोदने शक्तः इति ।

पदविवरणम्

  • भूतधारिण्या =
  • निसृष्टार्थाः =
  • दिवौकसः =
  • तत्प्रियस्य =
  • तद्भारहरणम् =
  • अविदुः = विद् ज्ञाने लङ् प्र.पु. बहु.

अवेत्   अवित्ताम्   अविदुः

अवेः   अवित्तम्   अवित्त

अवेदम्     अविद्व  अविद्म

लटि – वेत्ति वित्तः विदन्ति ।

पुरस्कृत्य जगद्धात्रीं मनसोऽपि पुरःसराः ।

दुग्धोदधिशयं देवं दूरमेत्याभितुष्टुवुः ॥ ४२ ॥

पुरस्कृत्य, जगद्धात्रीम्, मनसः, अपि, पुरःसराः, दुग्धोदधिशयम्, देवम्, दूरम्, एत्य, अभितुष्टुवुः ।

अन्वयरचना

  • अभितुष्टुवुः

के अभितुष्टुवुः ? देवाः (कर्तृपदम्)

देवाः कम् अभितुष्टुवुः ? देवम् (कर्मपदम्)

कीदृशं देवम् ? दुग्धोदधिशयम्

देवाः किं कृत्वा अभितुष्टुवुः ? पुरस्कृत्य

कां पुरस्कृत्य ? जगद्धात्रीम्

कथम्भूताः देवाः ? पुरःसराः (सन्तः)

कस्य (अपेक्षया) अपि ? मनसः अपि

पुनः किं कृत्वा अभितुष्टुवुः ? एत्य

कुत्र एत्य ? दूरम्

देवाः जगद्धात्रीं पुरस्कृत्य मनसः अपि पुरःसराः (सन्तः) दूरम् एत्य दुग्धोदधिशयं देवम् अभितुष्टुवुः ।

  • जगद्धात्रीं पुरस्कृत्य =
  • मनसः अपि =
  • पुरःसराः (सन्तः) =
  • दूरम् एत्य =
  • दुग्धोदधिशयं देवम् =
  • अभितुष्टुवुः =

भूभारहरणे नारायणमेव शक्तं मन्यमानाः देवाः भूदेवीम् अग्रे कृत्वा मनसः अपि रंहस्विनः (वेगवन्तः) सन्तः सुदूरं क्षीराब्धेः उत्तरतटपर्यन्तं गत्वा नारायणं वक्ष्यमाणप्रकारेण बहुविधैः स्तोत्रैः अस्तुवन् ।

पदविवरणम्

  • जगद्धात्रीम् =
  • एत्य =
  • दुग्धोदधिशयम् =

[भावः] अधर्माधिक्यपरिणामतः यथा अहं न पतामि न च भिद्ये तथा क्रियताम् इत्येवं भूदेव्या निवेदितविषयाः देवाः अचिन्तयन् यत् तदीयः भर्ता नारायणः एव तस्याः क्लेशापनोदने शक्तः इति ।

[भावः] भूभारहरणे नारायणमेव शक्तं मन्यमानाः देवाः भूदेवीम् अग्रे कृत्वा मनसः अपि रंहस्विनः (वेगवन्तः) सन्तः सुदूरं क्षीराब्धेः उत्तरतटपर्यन्तं गत्वा नारायणं वक्ष्यमाणप्रकारेण बहुविधैः स्तोत्रैः अस्तुवन् ।

त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये ।

वरदाय नमस्तुभ्यं बाह्यान्तरहविर्भुजे ॥ ४३ ॥

त्रिवेदीमध्यदीप्ताय त्रिधाम्ने पञ्चहेतये वरदाय नमः तुभ्यम् बाह्यान्तरहविर्भुजे ।

अन्वयरचना

  • नमः

कस्मै नमः ? तुभ्यम्

कीदृशाय तुभ्यम् ? त्रिधाम्ने

पुनः कीदृशाय तुभ्यम् ? त्रिवेदीमध्यदीप्ताय

पुनः कीदृशाय तुभ्यम् ? पञ्चहेतये

पुनः कीदृशाय तुभ्यम् ? वरदाय

पुनः कीदृशाय तुभ्यम् ? बाह्यान्तरहविर्भुजे

त्रिवेदीमध्यदीप्ताय पञ्चहेतये वरदाय बाह्यान्तरहविर्भुजे त्रिधाम्ने तुभ्यं नमः ।

  • त्रिवेदीमध्यदीप्ताय =
  • पञ्चहेतये = वरदाय =
  • बाह्यान्तरहविर्भुजे =
  • त्रिधाम्ने =
  • तुभ्यं नमः =

वेदवेद्याय, पञ्चायुधाय, वरदाय, पुरोडाशादि-बाह्यहविषः जीवरूपान्तर-हविषश्च भोक्त्रे, क्षीराब्धि-सूर्यमण्डल-परमपदरूप-धामत्रयवते पुरुषोत्तमाय ते नमः ।

विशेषः

त्रिधाम्ने इति शब्दात् अग्नेः अपि प्रतीतिः स्यात् ।

जाठराग्निः दावाग्निः बाडवाग्निः इति । किन्तु पञ्चहेतये इत्यादि-विशेषणबलात् अग्नेः अपेक्षया भगवतः वैलक्षण्यत्वं ज्ञेयम् । भगवतः अग्नेः च अयं भेदः

अग्निः सप्तहेति (सप्तज्वालः) । भगवांस्तु पञ्चहेतिः ।
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्
कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ।
चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ॥ – अमरकोषः ।

अग्निः श्रीमात्रप्रदः । “श्रियमिच्छेद्धुताशनात् ।” इति वचनात् ।
भगवान् सर्वप्रदः ।

अग्निः बाह्यम् एव हविः भुङ्क्ते । भगवान् बाह्यान्तरहविर्भुक् ।

वरदः – आन्तरं हविः स्वीकुर्वन् आत्मानम् एव वरं ददाति ।

हविरन्तरग्रहणे तु वरान्तराणि ।

पदविवरणम्

  • त्रिवेदीमध्यदीप्ताय =
  • पञ्चहेतये =
  • वरदाय =
  • बाह्यान्तरहविर्भुजे =
  • त्रिधाम्ने =
  • तुभ्यं नमः । नमः-स्वस्ति-स्वाहा-स्वधा-अलम्-वषट्-योगात् २.३.१६

अनन्याधीनमहिमा स्वाधीनपरवैभवः ।

दयाधीनविहारस्त्वं प्रणतान् परिपाहि नः ॥ ४४ ॥

अनन्याधीनमहिमा स्वाधीनपरवैभवः दयाधीनविहारस्त्वम् प्रणतान् परिपाहि नः ।

अन्वयरचना

  • परिपाहि

कः परिपाहि ? त्वम् (कर्तृपदम्)

कीदृशः त्वम् ? अनन्याधीनमहिमा

पुनः कीदृशः त्वम् ? स्वाधीनपरवैभवः

पुनः कीदृशः त्वम् ? दयाधीनविहारः

त्वं कान् परिपाहि ? नः (कर्मपदम्)

कीदृशान् नः ? प्रणतान्

अनन्याधीनमहिमा स्वाधीनपरवैभवः दयाधीनविहारः त्वं प्रणतान् नः परिपाहि ।

  • अनन्याधीनमहिमा =
  • स्वाधीनपरवैभवः =
  • दयाधीनविहारः =
  • त्वम् =
  • प्रणतान् नः =
  • परिपाहि =

हे भगवन् ! तव शक्तिः स्वतन्त्रा न अन्याधीना अन्येषां (ब्रह्मादीनां) वैभवः तु त्वदधीना । अन्ये कर्मवशात् जन्म लभन्ते । किन्तु तव जन्म-विहार-लीलाः कृपावशात् भवन्ति । यथा परमदयालुः त्वं पुरा  हिरण्याक्ष-रावणवधादि-
रूपेण व्यापारेण लोकं रक्षितवान् तथा अस्मान् परिरक्ष ।

विशेषः

अनन्याधीनमहिमा

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ गीता ९.४ ॥

स्वाधीनपरवैभवः

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।

तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥ गीता १० .४१ ॥

दयाधीनविहारः

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥ गीता ४.६ ॥

पदविवरणम्

  • अनन्याधीनमहिमा =
  • स्वाधीनपरवैभवः =
  • दयाधीनविहारः =
  • प्रणतान् नः =
  • त्वम् परिपाहि =

भावः – वेदवेद्याय, पञ्चायुधाय, वरदाय, पुरोडाशादि-बाह्यहविषः जीवरूपान्तर-हविषश्च भोक्त्रे, क्षीराब्धि-सूर्यमण्डल-परमपदरूप-धामत्रयवते पुरुषोत्तमाय ते नमः ।

भावः – हे भगवन् ! तव शक्तिः स्वतन्त्रा न अन्याधीना अन्येषां (ब्रह्मादीनां) वैभवः तु त्वदधीना । अन्ये कर्मवशात् जन्म लभन्ते । किन्तु तव जन्म-विहार-लीलाः कृपावशात् भवन्ति । यथा परमदयालुः त्वं पुरा  हिरण्याक्ष-रावणवधादि-रूपेण व्यापारेण लोकं रक्षितवान् तथा अस्मान् परिरक्ष ।

स भवान्गुणरत्नौघैर्दीप्यमानो दयाम्बुधिः।

तनोति व्यूहविभवैस्तरङ्गैरिव ताण्डवम् ॥ ४५ ॥

सः, भवान्, गुणरत्नौघैः, दीप्यमानः, दयाम्बुधिः, तनोति, व्यूहविभवैः, तरङ्गैः, इव, ताण्डवम् ।

अन्वयरचना

  • तनोति

कः तनोति ?

कीदृशः भवान् ?

पुनः कीदृशः भवान् ?

पुनः कीदृशः भवान् ?

कैः दीप्यमानः ?

किं तनोति ?

कैः इव ?

कीदृशैः तरङ्गैः ?

गुणरत्नौघैः दीप्यमानः दयाम्बुधिः सः भवान् व्यूहविभवैः तरङ्गैः इव      ताण्डवं तनोति ।

  • गुणरत्नौघैः =
  • दीप्यमानः =
  • दयाम्बुधिः=
  • सःभवान्=
  • व्यूहविभवैः =
  • तरङ्गैः इव =
  • ताण्डवम् =
  • तनोति =

यथा समुद्रः विविधैः तरङ्गैः ताण्डवम् आचरति तथा भवान् अपि ज्ञानशक्त्यादिकल्याणगुणैः दीप्यमानः व्यूहविभवावतारैः अभिनयम् आचरति ।

विशेषः

व्यूहविभवैः

  • परः
  • व्यूहः – वासुदेवः सङ्कर्षणः   प्रद्युम्नः   अनिरुद्धः

(ज्ञानबलयोः)  (ऐश्वर्य-वीर्ययोः) (शक्ति-तेजसोः)

  • विभवः – रामाद्यवतारः
  • अन्तर्यामी
  • अर्चा – देवालये अर्चामूर्तिः

पदविवरणम्

  • गुणरत्नौघैः =
  • दीप्यमानः =
  • दयाम्बुधिः =

त्वदेकव्यञ्जितैरादौ त्वदन्येष्वनिदम्परैः ।

निगमैरनिगम्यं त्वां कः परिच्छेत्तुमर्हति ॥ ४६ ॥

त्वदेकव्यञ्जितैः, आदौ, त्वदन्येषु, अनिदम्परैः, निगमैः, अनिगम्यम्, त्वाम्, कः, परिच्छेत्तुम्, अर्हति ।

अन्वयरचना

  • अर्हति

कः अर्हति ?

किं कर्तुम् अर्हति ?

कं परिच्छेत्तुम् ?

कीदृशं त्वाम् ?

कैः अनिगम्यम् ?

कीदृशैः निगमैः ?

केषु अनिदम्परैः ?

पुनः कीदृशैः निगमैः ?

कदा त्वदेकव्यञ्जितैः ?

आदौ त्वदेकव्यञ्जितैः त्वदन्येषु अनिदम्परैः निगमैः अनिगम्यं त्वां परिच्छेत्तुम् कः अर्हति ।

  • आदौ =
  • त्वदेकव्यञ्जितैः =
  • त्वदन्येषु =
  • अनिदम्परैः =
  • निगमैः =
  • अनिगम्यं त्वां =
  • परिच्छेत्तुम् =
  • कः अर्हति =

भगवता अभिव्यक्तैः केवलभगवत्-प्रतिपादनपरैः वेदैः एव भगवान् यदि निश्चेतुम् अशक्यः तर्हि अन्यैः कथं वा सः ज्ञातुं शक्यः स्यात् ? न केनापि भगवतः इयत्ता ज्ञातुं शक्यते इति भावः ।

विशेषः

त्वदेकव्यञ्जितैः त्वदन्येषु अनिदम्परैः निगमैः

महासर्गादौ भगवता पूर्वपूर्वकल्पप्रवृत्तानुपूर्वीविशिष्टा वेदाः तथैवाविष्कृता इति शास्त्रमर्यादा ।

इदं परं मुख्यं प्रतिपाद्यत्वेन प्रधानं येषां ते इदम्पराः, अतथाभूतैः ।

त्वद्व्यतिरिक्तेषु तात्पर्य-पर्यवसान-रहितैः इत्यर्थः ।

परतत्त्व-निरूपणपराणां वेदोक्तीनां पर्यवसानं त्वयि एव ।

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय । ७.७

वैदैश्च सर्वैरहमेव वेद्यो वेदान्तकृत् वेदविदेव चाहम् । गीता १५/१५

निगमैः अनिगम्यं त्वां कः परिच्छेत्तुम् अर्हति ।

तदेकतात्पर्यैः  वेदराशिभिः प्रतिपाद्यमानः अपि न सम्यक् परिच्छिद्यते तम् अन्यः कः व्यञ्जयितुं शक्नोति ?

यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह तैत्तिरीयोपनिषत्

पदविवरणम्

  • त्वदेकव्यञ्जितैः =
  • त्वदन्येषु =
  • अनिदम्परैः =
  • न इदम्पराः =
  • निगमः =
  • अनिगम्यम् =

अमितस्य महिम्नस्ते प्रयातुं पारमिच्छताम् ।

वितथा वेदपान्थानां यत्रसायंगृहा गतिः ॥ ४७ ॥

अमितस्य, महिम्नः, ते, प्रयातुम्, पारम्, इच्छताम्, वितथा, वेदपान्थानाम्, यत्रसायंगृहा, गतिः ।

अन्वयरचना

(अस्ति)

  • का अस्ति ? गतिः

कीदृशी गतिः ? यत्रसायंगृहा

केषां गतिः ? वेदपान्थानाम्

कीदृशानां वेदपान्थानाम् ? इच्छताम्

किं कर्तुम् इच्छताम् ? प्रयातुम्

कुत्र प्रयातुम् ? पारम्

कस्य पारम् ? महिम्नः

कस्य महिम्नः ? ते

कीदृशस्य ते ? अमितस्य

वेदपान्थानां यत्रसायंगृहा गतिः कथम्भूता ? वितथा

अमितस्य ते महिम्नः पारं प्रयातुम् इच्छतां वेदपान्थानां यत्रसायंगृहा गतिः वितथा ।

  • अमितस्य =
  • ते महिम्नः =
  • पारं प्रयातुम् इच्छताम् =
  • वेदपान्थानाम् =
  • यत्रसायंगृहा =
  • गतिः =
  • वितथा =

यथा पथिकाः पुरुषायुषेणापि अप्राप्यं देशं प्राप्तुं प्रस्थिताः प्रतिदिनम् आसायं गच्छन्तः अपि तं देशं न प्राप्नुवन्ति तथा वेदाः अपि अवाङ्मानस्यगोचरस्य तव महिमानं प्रतिपादयितुं प्रवृत्ताः अपि न सम्पूर्णतया प्रतिपादयितुं शक्ताः भवन्ति ।

विशेषः

निगमैः अनिगम्यत्वं (श्लो ४६) पूर्वोक्तं प्रपञ्चयति प्रकृतश्लोके ।

‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सह’ इति घोषयतः वेदस्य कथं पारप्राप्तौ इच्छा इति चेत् – यदि पारं प्रयातुम् इष्ट्वा सर्वदा गच्छेयुः तदा वैयर्थ्यम् एव । अपारत्वस्य अवधारणार्थमेव पारान्वेषणे उद्यमः ।

वेदाः नित्याः । तव अपारत्वावधारणमपि नित्यम् इति भावः  ।

पदविवरणम्

  • महिम्नः =
  • प्रयातुम् =
  • इच्छ्ताम् =

नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः ।

पुत्रैः पितृमतः क्रीडा कथं ते केन वर्ण्यते ॥ ४८ ॥

नम्यस्य नमतः क्षुद्रान् वरदस्य वरार्थिनः पुत्रैः पितृमतः क्रीडा कथम् ते केन वर्ण्यते ।

अन्वयरचना

  • वर्ण्यते

केन वर्ण्यते ? केन (केनापि न)

कथं वर्ण्यते ? कथम् (कथमपि न)

का वर्ण्यते ? क्रीडा

कस्य क्रीडा ? ते

कीदृशस्य ते ? नम्यस्य

पुनः कीदृशस्य ते ? नमतः

कान् नमतः ? क्षुद्रान्

पुनः कीदृशस्य ते ? वरदस्य

पुनः कीदृशस्य ते ? वरार्थिनः

पुनः कीदृशस्य ते ? पितृमतः

कैः पितृमतः ? पुत्रैः

नम्यस्य क्षुद्रान् नमतः, वरदस्य वरार्थिनः, पुत्रैः पितृमतः, ते क्रीडा कथं केन वर्ण्यते । [केन क्रीडा वर्ण्यते ? कः क्रीडां वर्णयति ?]

  • नम्यस्य =
  • क्षुद्रान् नमतः =
  • वरदस्य =
  • वरार्थिनः =
  • पुत्रैः पितृमतः =
  • ते क्रीडा =
  • कथं केन वर्ण्यते =

भावः – सर्वलोकवन्दनीयः त्वम् उपेन्द्राद्यवतारैः इन्द्रादीन् नमसि । सर्वलोकवरप्रदः त्वं तथापि ब्रह्मादीन् वरं प्रार्थयसे । स्वपुत्रान् एव स्वपितृभावेन सम्भावयसि । तादृशस्य तव महिमा केन प्रकारेण केन पुरुषेण वा वर्णयितुं शक्यते ? अचिन्त्यः तव क्रीडाप्रकारः । अतः एव तव वर्णने न कोऽपि शक्तः इत्यर्थः ।

पदविवरणम्

  • नम्यस्य =
  • नमतः =
  • वरार्थिनः =
  • पितृमतः =
  • वर्ण्यते =

नटवद्भूमिकाभेदैर्नाथ दीव्यन् पृथग्विधैः ।

पुंसामनन्यभावानां पुष्णासि रसमद्भुतम् ॥ ४९ ॥

नटवत्, भूमिकाभेदैः, नाथ, दीव्यन्, पृथग्विधैः, पुंसाम्, अनन्यभावानाम्, पुष्णासि, रसम्, अद्भुतम् ।

अन्वयरचना

  • (हे) नाथ ।
  • (त्वं) पुष्णासि

कं पुष्णासि ? रसम्

कीदृशं रसम् ? अद्भुतम्

केषां रसम् ? पुंसाम्

कीदृशानां पुंसाम् ? अनन्यभावानाम्

किं कुर्वन् त्वम् ? दीव्यन्

कथं दीव्यन् ? भूमिकाभेदैः

कीदृशैः भूमिकाभेदैः ? पृथग्विधैः

कथमिव रसं पुष्णासि ? नटवत्

(हे) नाथ । नटवत् पृथग्विधैः भूमिकाभेदैः दीव्यन् अनन्यभावानां पुंसाम् अद्भुतं रसं पुष्णासि ।

  • (हे) नाथ =
  • नटवत् =
  • पृथग्विधैः भूमिकाभेदैः दीव्यन् =
  • अनन्यभावानां पुंसाम् =
  • अद्भुतम् =
  • रसम् =
  • पुष्णासि =

भावः – हे प्रभो ! नटः यथा रामाद्यनुकार्यवेषभेदैः अनन्यहृदयानां सामाजिकानाम् अद्भुताख्यं रसं पुष्णाति तद्वत् त्वदवताररहस्यानुचिन्तनपरान् अपवर्गदानेन योजयसि इति भावः ।

पदविवरणम्

  • नटवत् =
  • पृथग्विधैः =
  • भूमिकाभेदैः =
  • दीव्यन् =
  • अनन्यभावानाम्

नास्ति अन्यः विषयत्वेन यस्य सः अनन्यः ।

अनन्यः भावः येषां ते  = अनन्यभावाः, तेषाम् ।

  • पुंसाम् = सकारान्तः पुं. पुंस् शब्दः ष.वि. ए.व. ।
  • पुष्णासि = पुष् पुष्टौ, लट्, म.पु. ए.व. ।

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।

सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ ५० ॥

ब्रह्मादि-स्तम्ब-पर्यन्त-विचित्राङ्कुर-शालिनाम्, सलिलम्, कर्मकन्दानाम्,                        क्रीडा, एव, तव, केवलम् ।

अन्वयरचना

  • (अस्ति)

किम् अस्ति ? सलिलम्

सलिलं कथम्भूतम् ?  क्रीडा एव

कस्य क्रीडा ? तव

केषां सलिलम् ? कर्मकन्दानाम्

कीदृशानां कर्मकन्दानाम् ?  ब्रह्मादि-स्तम्ब-पर्यन्त-विचित्राङ्कुर-शालिनाम्

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनां कर्मकन्दानां सलिलं केवलं तव क्रीडा एव ।

  • ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम्

ब्रह्मा = चतुर्मुखः, आदिः = पूर्वः, स्तम्बः = तृणादिः, पर्यन्तम् = उत्तरावधिः,

ब्रह्मादिस्तम्बपर्यन्ताः = ब्रह्मादिस्तम्बपर्यन्ताः सर्वेऽपि प्राणिनः ।

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुराः = ते एव विचित्राङ्कुराः, प्रथमावस्थागत-तृणविशेषाः ।

शालिनः = युक्ताः । ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् = तच्छालिनां /  तद्वताम् ।

  • कर्मकन्दानाम् =
  • सलिलम् =
  • केवलम् तव क्रीडा एव =

भावः – तव क्रीडारूप-सलिलेन सिक्ताः कर्मकन्दाः विचित्रप्रपञ्चरूपान् अङ्कुरान् जनयन्ति  । यथा अङ्कुराणां  विशेषकारणं कन्दः साधारणं कारणं सलिलं तथा जगद्वैचित्र्यस्य तत्तत्कर्म एव मुख्यं कारणम् । भगवांस्तु साधारणं कारणम्।

ब्रमा आदिः येषां ते = ब्रह्मादयः ।

स्तम्बः पर्यन्तं येषां ते = स्तम्बपर्यन्ताः ।

ब्रह्मादयश्च स्तम्बपर्यन्ताश्च = ब्रह्मादिस्तम्बपर्यन्ताः ।

विचित्राः अङ्कुराः = विचित्राङ्कुराः ।

ब्रह्मादिस्तम्बपर्यन्ताः एव  विचित्राङ्कुराः =  ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुराः ।

शाल्यन्ते एभिः इति = ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनः, तेषाम् ।

References: