(Video) Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh

https://www.youtube.com/playlist?list=PLTWf5ZhGT362dCx4-a-wqb7f7B-Fj1SKU Amar Chitra Katha रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (Raghuvamsha Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions. Link to the main reference book – Raghuvamsha of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft  More references are given at the end.
Downloadable file is available here. –> https://drive.google.com/open?id=15xOL_e_3BA-yk5bdVlUdeUNFD3-c-eew

द्वितीयः सर्गः – नन्दिनीवरप्रदानः

कक्ष्या १ – #1 – 08-11-2018

अवतारिका

  • रघुवंशे द्वितीयसर्गे दिलीपराजस्य कथैव अनुवर्तते ।
  • वसिष्ठाश्रमाभिगमः नाम प्रथमसर्गः ।
  • ९५ श्लोकात्मकः ।
    • नमस्क्रिया । (१)
    • असामर्थ्येऽपि कवेः प्रयत्नः – क्व सूर्यप्रभवो…, मन्दः कवियशप्रार्थी… (२,३)
    • पूर्वकवीनां उपकारस्मरणम् ।(४)
    • वंशमाहत्म्यम् । सोऽहमाजन्मशुद्धानां ……. (५-९)
    • सन्तः (सहृदयाः)
    • वर्ण्यवस्तु – वैवस्वतो मनुर्नाम… (११,१२)
    • चक्रवर्तिदिलीपमहिमा – (१३-३०)
    • सुदक्षिणापरिचयः – (३१,३२)
    • सन्तानाभावः (३३)
    • राज्यभारनिक्षेपः (३४)
    • गुरोर्जग्मतुराश्रमम्… आश्रमगमनमार्गः, प्रकृतिवर्णनम् (३५-४८)
    • आश्रमपरिसरवर्णनम् (४९..५३)
    • रथादवतरणम् (५४)
    • सायन्तनस्य यागानुष्ठानविधेः अन्ते सत्कारः, गुरुवन्दनम्, कुशलप्रश्नश्च (५५..५८)
    • दिलीपस्य स्वागमनोद्देशप्रकटनम्, प्रार्थना च – (५९..७२)
    • वसिष्ठमहर्षिद्वारा कारणज्ञापनम् (८१)
    • नन्दिन्याः सायं प्रत्यागमनं, शुभसूचकं तस्याः प्रवेशः, तस्याः वर्णनञ्च (८२,८७)
    • परिहारः (अभ्यसनेन यथा विद्या तथा इमां प्रसादयितुमर्हसि ।) (८८)
    • सेवाप्रकारः, आप्रसादात् सेवातत्परो भव.. (८९..९१)
    • गुरोः आज्ञायाः प्रतिग्रहणम्, आश्रमे रात्रौ वासः (९२..९५)
  • प्रथमसर्गस्य अन्तिमः श्लोकः

निर्दिष्टां कुलपतिना स पर्णशालाम्

अध्यास्य प्रयतपरिग्रहद्वितीयः।

तच्छिष्याध्ययननिवेदितावसानां

संविष्टः कुशशयने निशां निनाय ॥९५॥

अन्वयः

प्रयतपरिग्रहद्वितीयः सः कुलपतिना निर्दिष्टाम् पर्णशालाम् अध्यास्य कुशशयने संविष्टः (सन्) तच्छिष्याध्ययननिवेदितावसानां निशां निनाय ।

भावार्थः

राजा दिलीपः स्वपत्नया सुदक्षिणया सह कुलपतिना वसिष्ठेन सूचितां पर्णकुटीं प्रविष्टवान् । तत्र कुशास्तरणे सुप्तवान् । वसिष्ठस्य शिष्यैः कृतेन वेदघोषेण च रात्रिः अवसिता इति विज्ञाय सः प्रबुद्धः जातः।

– * –

नन्दिनीवरप्रदानः

नन्दिनीवरप्रदानः इति अस्मिन् द्वितीयसर्गे ७५ श्लोकाः सन्ति ।

1. श्लोकः

मूलपाठः

अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्

वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ।। २.१ ।।

पदच्छेदः

अथ, प्रजानाम्, अधिपः, प्रभाते, जाया-प्रतिग्राहित-गन्ध-माल्याम्, वनाय, पीत-प्रतिबद्ध-वत्साम्, यशोधनः, धेनुम्, ऋषेः, मुमोच

अन्वयार्थः

  • अथ = वसिष्ठगुरोः आश्रमे निशानयनानन्तरम्
  • यशोधनः = कीर्तिमान्
  • प्रजानाम् अधिपः = प्रजेश्वरः
  • प्रभाते = प्रातःकाले
  • जायाप्रतिग्राहितगन्धमाल्याम् = जायया (सुदक्षिणया) स्वीकारिते गन्धः माल्यं च यया, तां धेनुम् (सुदक्षिणा धेन्वा गन्धं माल्यं च प्रत्यग्राहयत् / स्व्यकारयत्)
  • पीतप्रतिबद्धवत्साम् = पीतः (पीतवान्), प्रतिबद्धः वत्सः यस्याः ताम्
  • ऋषेः धेनुम् = महर्षिवसिष्ठस्य गां नन्दिनीम्
  • वनाय = वनं गन्तुम्
  • मुमोच = मोचितवान्

अन्वयः

अथ यशोधनः प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्यां पीतप्रतिबद्धवत्सां ऋषेः धेनुं वनाय मुमोच ।

आकाङ्क्षा

  • मुमोच
    • किमर्थं / कस्मै मुमोच ? वनाय
    • कां मुमोच ? धेनुम्
      • कीदृशीं धेनुम् ? जायाप्रतिग्राहितगन्धमाल्याम्
      • पुनः कीदृशीं धेनुम् ? पीतप्रतिबद्धवत्साम्
    • कदा मुमोच ? अथ
      • पुनः कदा मुमोच ? प्रभाते
    • कः मुमोच ? अधिपः
      • केषाम् अधिपः ? प्रजानाम्
      • कीदृशः अधिपः ? यशोधनः

तात्पर्यम्

पूर्वस्यां संध्यावेलायां वसिष्ठगुरुणा नन्दिनीधेनोः सेवाप्रकारविषये आज्ञप्तौ सुदक्षिणादिलीपौ रात्रौ आश्रमकुटीरे रात्रिम् अनयताम् । ततः प्रातःकाले सुदक्षिणा नन्दिन्यै गन्धं मालां च अर्पयित्या ताम् अपूजयत् । वत्से क्षीरं पीतवति दिलीपः तम् आश्रमपरिसरे बद्धवान् । ततः यशस्वी स नृपः तां धेनुं वनं प्रति नेतुं व्यमुञ्चत् ।

सन्धिः

पदविवरणम्

  • यशोधनः = यशः एव धनं यस्य सः
  • प्रजाः = प्रकर्षेण जायन्ते इति
  • अधिपः = अधि अधिकं पाति इति
  • जायाप्रतिग्राहितगन्धमाल्याम्
    • गन्धमाल्ये = गन्धः च माल्यं च [इतरेतर-द्वन्द्व-समासः]
    • जायाप्रतिग्राहितगन्धमाल्याम् = जायया प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा, ताम् [बहुव्रीहिः]
  • पीतप्रतिबद्धवत्साम्
    • पीतः = पीतं पानं अस्य अस्ति इति पीतः । पीतवान् इत्यर्थः । अर्श आदिभ्योऽच् इति अच् प्रत्ययः ।
    • पीतप्रतिबद्धवत्साम् = (आदौ) पीतः (पश्चात्) प्रतिबद्धः वत्सः यस्याः सा, पीतप्रतिबद्धवत्सा ताम्
  • मुमोच = मुच्“मुचॢँ मोक्षणे” / मुच्“मुचॢँ मोचने”, गणः तुदादिः, कर्तरि उभयपदी, अत्र परस्मैपदी, लिट्., प्र.पु., ए.व. ।
    • लट्लकारे – मुञ्चति, मुञ्चतः, मुचन्ति ।
    • लिट्लकारे – मुमोच, मुमुचतुः, मुमुचुः । मुमोचिथ, मुमुचथुः, मुमुच । मुमोच, मुमुचिव, मुमुचिम ।

अन्यविषयाः

  • जायापदसामर्थ्यात् सुदक्षिणायाः पुत्रजननयोग्यत्वं अनुसंधेयम् ।
    • “आत्मा वै पुत्रः”।
    • पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम् ।
    • तस्यां पुनर्नवो भूत्वा दशमे मासि जायते ॥
    • तज्जाया जाया भवति यदस्यां जायते पुनः । इति ॥
  • यशोधनः – यशः एव धनं यस्य ।
    • कीर्तिमान् सः दिलीपः ‘पुत्रवान् भवेयम्’ इति कीर्तिं प्राप्तुं राजानर्हे गोरक्षणे प्रवृत्तः ।

छन्दः

  • वृत्तम् – उपजातिः (उपेन्द्रवज्रा १,३,४ – इन्द्रवज्रा २) – वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् ।
  • उपेन्द्रवज्रा – जतजास्ततो गौ । जगण-तगण-जगण-गुरु-गुरु । ल गु ल – गु गु ल – ल गु ल – गु – गु । Note: The first letter – उ in उपेन्द्रवज्रा is laghu.
  • इन्द्रवज्रा – स्यादिन्द्रवज्रा यदि तौ जगौगः । तगण-तगण-जगण-गुरु-गुरु । गु गु ल – गु गु ल – ल गु ल – गु – गु । Note: The first letter इ in इन्द्रवज्रा is guru by the sutra १.४.११संयोगे गुरुbecause it precedes a conjunct letter (न्द्र इति संयुक्ताक्षरम्)। विस्तरेण ज्ञातुं अत्र https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु गु
प्र जा ना धि पः प्र भा ते
                     
गु गु गु गु गु गु गु
जा या प्र ति ग्रा हि न्ध मा ल्यां
                     
गु गु गु गु गु गु
ना पी प्र ति द्ध त्सां
शो नो धे नु मृ षे र्मु मो

 

Word-Meaning

  • अथ = Afterwards (अथ)
    • प्रभाते = in the morning (प्रभात)
  • प्रजानाम् अधिपः = The lord (अधिप) of the subjects (प्रजा)
    • यशोधनः = one for whom reputation (यशस्) is the supreme wealth (धन), i.e., one with good reputation
  • मुमोच = released
    • ऋषेः धेनुम् = the cow (धेनुः) of Rishi (ऋषि) Vashista
      • जायाप्रतिग्राहितगन्धमाल्याम् = she who had accepted (प्रतिग्राहित) the fragrant paste (गन्ध) and flowers (माल्य) offered by his wife (जाया), Sudakshinaa, as part of her worship
      • पीतप्रतिबद्धवत्साम् = she whose calf (वत्स) has been tied (प्रतिबद्ध) to the post, after it had drunk (पीत) the milk
    • वनाय = to the forest (वन)

कक्ष्या २ – #2 – 15-11-2018

2. श्लोकः

मूलपाठः

तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ।। २.२ ।।

पदच्छेदः

तस्याः, खुरन्यासपवित्रपांसुम्, अपांसुलानाम्, धुरि, कीर्तनीया, मार्गम्, मनुष्येश्वरधर्मपत्नी, श्रुतेः, इव, अर्थम्, स्मृतिः, अन्वगच्छत्

अन्वयार्थः

  • अपांसुलानाम् = पतिव्रतानाम्
  • धुरि = अग्रे
  • कीर्तनीया = परिगणनीया
  • मनुष्येश्वरधर्मपत्नी = नरपतेः भार्या
  • तस्याः = धेन्वाः
  • खुरन्यासपवित्रपांसुं मार्गम् = = खुराणां स्थापनेन (पदार्पणैः) यस्य धूलयः पवित्राः सञ्जाताः, तं मार्गम्
  • स्मृतिः श्रुतेः अर्थम् इव = स्मृतिवाक्यं श्रुतिवाक्यं यथा अनुसरति
  • अन्वगच्छत् = अन्वसरत् ।

अन्वयः

अपांसुलानां धुरि कीर्तनीया मनुष्येश्वरधर्मपत्नी खुरन्यासपवित्रपांसुं तस्याः मार्गम् स्मृतिः श्रुतेः अर्थम् इव अन्वगच्छत् ।

आकाङ्क्षा

  • अन्वगच्छत्
    • का अन्वगच्छत् ? मनुष्येश्वरधर्मपत्नी
      • कीदृशी मनुष्येश्वरधर्मपत्नी ? कीर्तनीया
      • कुत्र कीर्तनीया ? धुरि
        • कासां धुरि? अपांसुलानाम्
      • कम् अन्वगच्छत् ? मार्गम्
        • कीदृशं मार्गम् ? खुरन्यासपवित्रपांसुम्
        • कस्याः मार्गम् ? तस्याः
      • कथमिव अन्वगच्छत् ? स्मृतिः श्रुतेः अर्थम् इव

तात्पर्यम्

सुदक्षिणया अर्पिते गन्धमाल्ये प्रतिगृहीतवती धेनुः स्वखुरैः स्पृष्टां मार्गधूलिं पवित्रीकुर्वाणा वनाय प्रस्थिता । यथा स्मृतिः श्रुतिभिः निर्दिष्टम् अर्थम् एव अनुसरति तथा अपांसुला सुदक्षिणा गोखुरैः क्षुण्णं पांसुपवित्रं तं मार्गम् अन्वसरत्। पांसुलपथे स्थितापि सा अपांसुला इति भावः ।

पदविवरणम्

  • अन्वगच्छत् = अनु + अगच्छत्, अनु + गम् “गमॢँ गतौ”, परस्मैपदी, गणः भ्वादिः, लङ् लकारः । अगच्छत्, अगच्छताम्, अगच्छन् ।
  • अपांसुलानाम्
    • पांसुलाः = पांसवः (दोषाः) आसां सन्ति इति पांसुलाः (स्वैरिण्यः)
    • अपांसुलानाम् = न पांसुलाः, अपांसुलाः, तासाम् ।
  • खुरन्यासपवित्रपांसुम्
    • खुरन्यासः = खुराणां न्यासः
    • पांसुः = उकारान्तः पुल्लिङ्गः, “रेणुर्द्‍वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः” इत्यमरः । रेणुः स्त्रीपूंसयोः । धूलिः स्त्रियाम् । पांशुः/ पांसुः पुंसि । रजः क्लीबे ।
    • खुरन्यासपवित्रपांसुम् = खुरन्यासैः पवित्राः पांसवः यस्य सः खुरन्यासपवित्रपांसुः (मार्गः), तम् ।
  • मनुष्येश्वरधर्मपत्नी
    • मनुष्येश्वरः = मनुष्याणाम् ईश्वरः
    • पत्नी = पत्युः यज्ञे संयोगो यया
    • धर्मपत्नी = (१) धर्मस्य पत्नी (धर्मस्य संबन्धिनी पत्नी) (२) धर्माय पत्नी (धर्मार्थं पत्नी)
    • मनुष्येश्वरधर्मपत्नी = मनुष्येश्वरस्य धर्मपत्नी

अलङ्कारः

  • ‘श्रुतेः इव अर्थम् स्मृतिः’ इत्यत्र उपमालङ्कारः । Note स्त्रीलिङ्ग words श्रुतिः and स्मृतिः have been used for comparison with Nandinee and Sudhakshinaa. Also note similar choice of appropriate words in RV Sarga1.1, in using the स्त्रीलिङ्ग word वाक् with the पुल्लिङ्ग word अर्थः for comparison with मातापितरौ ।
  • ‘पांसुलपथप्रवृत्तौ अपि अपांसुला’ इति विरोधालङ्कारः – Though Sudakshina is going in the path filled with dust, she is untainted. Hence there is Virodhaalankaara.

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • मनुष्येश्वरधर्मपत्नी = The dharmic (धर्म) wife (पत्नी) of King Dileepa, the lord (ईश्वर) of the people (मनुष्य)
    • कीर्तनीया = one who is worthy of being praised
      • धुरि = in the forefront (धुर्)
      • अपांसुलानाम् = among the chaste women (अपांसुला)
    • अन्वगच्छत् = closely followed
    • मार्गम् = the path
      • तस्याः = of her (सा), Nandinee
      • खुरन्यासपवित्रपांसुम् = that path whose dust (पांसु) has been sanctified (पवित्र) due to the placing (न्यास) of hoves (खुर) of Nandinee
    • श्रुतेः अर्थं स्मृतिः इव = like the meaning (अर्थ) of the Shrutis (श्रुति), the Vedic revelations are followed by the smRti (स्मृति)

3. श्लोकः

मूलपाठः

निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ।। २.३ ।।

पदच्छेदः

निवर्त्य, राजा, दयिताम्, दयालुः, ताम्, सौरभेयीम्, सुरभिः, यशोभिः, पयोधरीभूतचतुःसमुद्राम्, जुगोप, गोरूपधराम्, इव, उर्वीम्

अन्वयार्थः

  • दयालुः = कारुणिकः
  • यशोभिः सुरभिः = कीर्तिभिः मनोज्ञः (मनोहरः, कान्तः)
  • राजा = दिलीपराजः
  • तां दयिताम् = प्रियां तां स्वधर्मपत्नीं
  • निवर्त्य = परावर्त्य
  • सौरभेयीम् = कामधेनुसुताम्
  • पयोधरीभूतचतु:समुद्राम् = चत्वारः समुद्राः स्तनीभूताः यस्याः, ताम् / अथवा पयसा (दुग्धेन) अधरीभूताः (तिरस्कृताः) चत्वारः समुद्राः यया सा
  • गोरूपधराम् = गोरूपिणीम्
  • उर्वीम् इव = भूरक्षणप्रयत्नेन इव
  • जुगोप = ररक्ष / अरक्षत्

अन्वयः

दयालुः, यशोभिः सुरभिः, राजा दयितां तां निवर्त्य, सौरभेयीं पयोधरीभूतचतुःसमुद्रां गोरूपधराम् उर्वीम् इव जुगोप ।

आकाङ्क्षा

  • जुगोप
    • कां जुगोप ? सौरभेयीम्
      • कीदृशीम् इव सौरभेयीम् ? उर्वीम् इव
        • कीदृशीम् उर्वीम् ? गोरूपधराम्
        • पुनः कीदृशीम् उर्वीम् ? पयोधरीभूतचतुःसमुद्राम्
      • किं कृत्वा जुगोप ? निवर्त्य
        • कां निवर्त्य? तां दयिताम्
      • कः जुगोप ? राजा
        • कीदृशः राजा ? दयालुः
          • पुनः कीदृशः राजा ? सुरभिः
          • कैः सुरभिः ? यशोभिः

तात्पर्यम्

स्वपत्नीं सुदक्षिणां कुटीरं प्रति परावर्त्य चतुःसमुद्रावृतपृथ्वीपालः दिलीपः गोसेवार्थं सज्जः अभूत् । सः तां धेनुरूपिणीं पृथ्वीम् इव अरक्षत् । पयोधिचतुष्टयम् आत्मनः ऊधश्चतुष्टयम् इव धारयन्तीं कामधेनुसुतां सः ररक्ष (इति उर्वीपक्षे)। यया दुग्धेन चत्वारः समुद्राः तिरस्कृताः तां कामधेनुसुतां सः ररक्ष (इति गोपक्षे)।

पदविवरणम्

  • निवर्त्य = नि + वृत् “वृतुँ वर्तने” + ल्यप्, आत्मनेपदी, गणः भ्वादिः, लट्लकारे – वर्तते, वर्तेते, वर्तन्ते ।
  • दयालुः = दया अस्मिन् अस्ति इति दयालुः । आलुच् प्रत्ययः । “स्याद्दयालुः कारुणिकः” इत्यमरः ।
  • सुरभिः = “सुरभिः स्यान्मनोज्ञेऽपि” इति विश्वः ।
  • सौरभेयीम् = सुरभ्याः अपत्यं स्त्री सौरभेयी, ताम् ।
  • धराम् = धरन्ती इति धरा, ताम् ।
  • पयोधरीभूतचतुःसमुद्राम्
    • पयोधराः = पयसां धराः, स्तनाः । स्त्रीस्तनाब्दौ पयोधरौ इत्यमरः ।
    • (उर्वीपक्षे)
      • पयोधरीभूताः = अपयोधराः पयोधराः संपद्यमानाः । अभूततद्भावे च्विः। गतिसमासः । [ Note: गतिसमासस्य उदाहरणम् – अशुक्लं शुक्लं करोति इति शुक्लीकरोति – This cvi pratyaya is added to “express that a person or thing, not being like what is denoted by the base to which it is added, becomes or is made like it.” ]
      • पयोधरीभूतचतुःसमुद्राम् = पयोधरीभूताः चत्वारः समुद्राः यस्याः सा, पयोधरीभूतचतुःसमुद्रा, ताम् । [ त्रिपदबहुव्रीहिः ]
    • (गोपक्षे)
      • अधरीभूताः = अनधराः (उच्चाः) अधराः सम्पद्यमानाः अधरीभूताः (नीचभूताः) ।
      • पयोधरीभूतचतुःसमुद्राम् = पयसा अधरीभूताः चत्वारः समुद्राः यया सा, पयोधरीभूतचतुःसमुद्रा, ताम् ।
    • जुगोप = गुप् “गुपँ भाषार्थः” कर्तरि लिट्, परस्मैपदी, गणः दिवादिः, प्र.पु., ए.व.
      • लिट् लकारे – जुगोप, जुगुपतुः, जुगुपुः । जुगोपिथ, जुगुपथुः, जुगुप । जुगोप, जुगुपिव, जुगुपिम ।
      • लट् लकारे – गोपयति ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • राजा = King (राजा) Dileepa
    • सुरभिः = one who is pleasing to the mind
      • यशोभिः = due to his several fame (यश)
    • दयालुः = kind-hearted, one who is filled with compassion (दया)
    • निवर्त्त्य = having sent back
      • तां दयिताम् = her, his wife
    • जुगोप = protected
    • सौरभेयीम् = Nandinee (सौरभेयी), the offspring of Surabhi (सुरभि)e., Kaamadhenu
      • उर्वीम् इव = who was like (इव) the Earth (उर्वी)
        • गोरूपधराम् = which has taken (धर) the form (रूप) of a cow (गो)
        • पयोधरीभूतचतुःसमुद्राम् = [in the context of Earth] whose four (चतुस्) oceans (समुद्र) have become like the udders (पयोधरीभूत) [Note: पयोधर also means अब्द, the giver of water]
      • पयोधरीभूतचतुःसमुद्राम् = [in the context of cow] whose milk (पयस्) renders inferior (अधरीभूत) the four (चतुस्) oceans (समुद्र)

कक्ष्या ३ – #3 – 22-11-2018

4. श्लोकः

मूलपाठः

व्रताय तेनानुचरेण धेनोर्न्यषेधि शेषोऽप्यनुयायिवर्गः ।
न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः ।। २.४ ।।

पदच्छेदः

व्रताय, तेन, अनुचरेण, धेनोः, न्यषेधि, शेषः, अपि, अनुयायिवर्गः, न, च, अन्यतः, तस्य, शरीररक्षा, स्ववीर्यगुप्ता, हि, मनोः, प्रसूतिः

अन्वयार्थः

  • व्रताय = नियमाय (न तु जीवनाय)
  • धेनोः अनुचरेण तेन = नन्दिन्याः सेवकेन तेन
  • शेषः अपि = अवशिष्टः अपि
  • अनुयायिवर्गः = अनुचरवर्गः
  • न्यषेधि = निवर्तितः
  • तस्य शरीररक्षा = दिलीपस्य देहरक्षणं
  • अन्यतः न च = पुरुषान्तरात् न हि भवति
  • मनोः प्रसूतिः = वैवस्वतस्य सन्ततिः
  • स्ववीर्यगुप्ताः हि = निजपराक्रमेण एव रक्षिताः भवन्ति

अन्वयः

व्रताय तेन धेनोः अनुचरेण शेषः अपि अनुयायिवर्गः न्यषेधि । तस्य शरीररक्षा अन्यतः न च । मनोः प्रसूतिः स्ववीर्यगुप्ता हि (भवति) ।

आकाङ्क्षा

  • न्यषेधि (कर्मणि लुङ् – निवर्तितः इत्यर्थः)
    • कः न्यषेधि ? अनुयायिवर्गः [कर्मपदम्]
      • कीदृशः अपि अनुयायिवर्गः ? शेषः अपि
    • केन न्यषेधि ? तेन [कर्तृपदम्]
      • कीदृशेन तेन ? अनुचरेण
        • कस्याः अनुचरेण ? धेनोः
        • किं निमित्तं अनुचरेण (भूयते) ? व्रताय
      • न च (भवति)
        • कस्मात् न च (भवति) ? अन्यतः
        • का न च (भवति) ? शरीररक्षा
          • कस्य शरीररक्षा ? तस्य
        • स्ववीर्यगुप्ता हि (भवति)
          • का स्ववीर्यगुप्ता (भवति) ? प्रसूतिः
            • कस्य प्रसूतिः ? मनोः

तात्पर्यम्

दिलीपरीजः अनुगच्छतः सेवकान् अपि निवर्त्य एकाकी एव धेनोः सेवार्थं ताम् अनुगतवान् । धेनोः रक्षणे स्वीकृतव्रतः सः । तत्कार्यं अनुचराः कुर्वन्ति चेत् व्रतभङ्गः जायेत । अपि च स्वयं राज्ञः रक्षणाय ते कुतः न गच्छेयुः इति चेत् मनुवंशीयाः स्वदेहरक्षार्थं साहाय्यान्तरं नापेक्षन्ते । ते स्वपराक्रमेणैव सुरक्षिताः तिष्ठन्ति ।

पदविवरणम्

  • अनुचरेण = अनु चरति इति अनुचरः, तेन । पु., तृ.वि., ए.व. ।
  • अनुयायिवर्गः
    • अनुयायिनः = अनुयातुं शीलम् एषां ते
    • अनुयायिवर्गः = अनुयायिनां वर्गः
  • स्ववीर्यगुप्ता
    • स्ववीर्यम् = स्वस्य वीर्यम्
    • स्ववीर्यगुप्ता = स्ववीर्येण गुप्ता
  • प्रसूतिः = प्रसूयते इति प्रसूतिः । स्त्री., प्र.वि., ए.व. ।
  • न्यषेधि = नि + अषेधि । नि + सिध्“षिधँगत्याम्”, कर्मणि-लुङ्. । कर्मणि-लट्लकारे सिध्यति । परस्मैपदे लट्लकारे सेधति ।
    The letter स् is replaced by the letter ष् when it follows a उपसर्गः which ends in a इण् letter, even if the augment अट् intervenes.
  • अन्यतः = अन्य + तसिल् प्रत्ययः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • शेषः अपि = Even (अपि) the remaining (शेष)
    • अनुयायिवर्गः = group (वर्ग) of servants (अनुयायि)
    • न्यषेधि = were forbidden, i.e., they were sent back
    • तेन धेनोः अनुचरेण = by him (तत्), by one who is the follower (अनुचर) of the cow (धेनु)
    • व्रताय = for the sake of the vow (व्रत)
  • तस्य शरीररक्षा = The protection (रक्षा) of his (तत्) body (शरीर)
    • अन्यतः न च = was not (न) from anyone (अन्य)
  • मनोः प्रसूतिः = The descendent (प्रसूति) of Manu (मनु)
    • स्ववीर्यगुप्ता हि = are indeed (हि) protected (गुप्ता) by their own (स्व) valour (वीर्य)

कक्ष्या ४ – #4 – 29-11-2018

5. श्लोकः

मूलपाठः

आस्वादवद्भिः कवलैस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैस्स्वैरगतैस्स तस्याः सम्राट् समाराधनतत्परोऽभूत् ।। २.५ ।।

पदच्छेदः

आस्वादवद्भिः कवलैः तृणानाम् कण्डूयनैः दंशनिवारणैः च

अव्याहतैः स्वैरगतैः सः तस्याः सम्राट् समाराधनतत्परः अभूत्

अन्वयार्थः

  • सम्राट् = मण्डलेश्वरः
  • सः = दिलीपचक्रवर्ती
  • आस्वादवद्भिः = रसयुक्तैः
  • तृणानां कवलैः = तृणानां ग्रासैः
  • कण्डूयनैः = खर्जनैः
  • दंशनिवारणैः = वनमक्षिकाणां दूरीकरणेन
  • अव्याहतैः स्वैरगतैः च = अप्रतिहतैः स्वच्छन्दगमनैः
  • तस्याः समाराधनतत्परः अभूत् = धेन्वाः शुश्रूषासक्तः जातः

अन्वयः

सः सम्राट् आस्वादवद्भिः, तृणानां कवलैः, कण्डूयनैः, दंशनिवारणैः, अव्याहतैः स्वैरगतैः च तस्याः समाराधनतत्परः अभूत् ।

आकाङ्क्षा

  • अभूत्
    • कः अभूत् ? सः सम्राट्
    • कीदृशः अभूत् ? समाराधनतत्परः
      • कस्याः समाराधनतत्परः ? तस्याः
      • कैः समाराधनतत्परः ? कवलैः
        • कीदृशैः कवलैः ? आस्वादवद्भिः
        • केषां कवलैः ? तृणानाम्
      • पुनः कैः समाराधनतत्परः ? कण्डूयनैः
      • पुनः कैः समाराधनतत्परः ? दंशनिवारणैः
      • पुनः कैः समाराधनतत्परः ? स्वैरगतैः च
        • कीदृशैः स्वैरगतैः ? अव्याहतैः

तात्पर्यम्

चक्रवर्ती दिलीपः गुरोः आज्ञाम् अनुसरन्तं धेनोः शुश्रूषायां परमां श्रद्धां निधत्तवान् । रसयुक्ततृणकवलान् प्रयच्छन्, गात्रस्य खर्जनसेवया, वनमक्षिकाः अपसारयन्, स्वच्छन्दगमने व्यवधानम् अकुर्वन् सः ताम् असेवत ।

पदविवरणम्

  • आस्वादवद्भिः = आस्वादः एषाम् अस्ति इति आस्वादवतः, तैः
  • दंशनिवारणैः
    • दंशः = “दंशस्तुवनमक्षिका” इत्यमरः
    • दंशनिवारणैः = दंशानां निवारणानि दंशनिवारणानि, तैः
  • अव्याहतैः = न व्याहतानि अव्याहतानि, तैः
  • स्वैरगतैः = स्वैराणि तानि च गतानि स्वैरगतानि, तैः
  • समाराधनतत्परः
    • तत्परः = तदेव परं यस्य सः । “तत्परेप्रसिताऽऽसक्तौ इष्टार्थोद्युक्त उत्सुकः”इत्यमरः
    • समाराधनतत्परः = सम्यग् आराधने तत्परः
  • सम्राट् = “येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।शास्ति यश्चाज्ञया राज्ञःस सम्राट्” इत्यमरः
  • कवलैः = “ग्रासस्तुकवलः पुमान्” इत्यमरः.

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः सम्राट् = That Emperor
  • तृणानां कवलैः = by (providing) the morsels of grass (तृण)
    • आस्वादवद्भिः = by those that had good taste (आस्वाद)
  • कण्डूयनैः = by scrubbing (कण्डूयन), (the itching parts of her body)
  • दंशनिवारणैः = by the removal (निवारण) of insects (दंश) (on her body)
  • स्वैरगतैः च = also by (allowing) independent (स्वैर) movement (गत)
    • अव्याहतैः = by that which was not (न) restricted (व्याहत)
  • अभूत् = became
  • तस्याः समाराधनतत्परः = one who is preoccupied (तत्पर) in her (सा) good service (समाराधन)

कक्ष्या ५ – #5 – 06-12-2018

6. श्लोकः

मूलपाठः

स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः ।
जलाभिलाषी जलमाद
दानां छायेव तां भूपतिरन्वगच्छत् ।। २.६ ।।

पदच्छेदः

स्थितः, स्थिताम्, उच्चलितः, प्रयाताम्, निषेदुषीम्, आसन-बन्ध-धीरः, जलाभिलाषी, जलम्, आददानाम्, छाया, इव, ताम्, भूपतिः, अन्वगच्छत्

अन्वयार्थः

  • भूपतिः = चक्रवर्ती
  • ताम् = धेनुम्
  • स्थितां (सतीं) स्थितः (सन्) = ऊर्ध्वम् अवस्थितां सतीम्, ऊर्ध्वम् अवतिष्ठमानः सन्
  • प्रयाताम्, उच्चलितः = प्रस्थानं कुर्वतीं , प्रस्थानं कुर्वन्
  • निषेदुषीम्, आसन-बन्ध-धीरः = उपविष्टां सतीम्, उपविष्टः सन्
  • जलम् आददानां, जलाभिलाषी = जलं पिबन्तीं सतीं, जलम् अभिलषन् (पिबन्)
  • छाया इव = धेनोः प्रतिबिम्बम् इव
  • अन्वगच्छत् = अन्वव्रजत् ।

अन्वयः

भूपतिः तां स्थितां (सतीं) स्थितः (सन्), प्रयाताम् उच्चलितः, निषेदुषीम् आसन-बन्ध-धीरः, जलम् आददानां जलाभिलाषी (सन्), (इत्थं) छाया इव, अन्वगच्छत् ।

आकाङ्क्षा

  • अन्वगच्छत्
    • काम् अन्वगच्छत् ? ताम्
    • कः अन्वगच्छत् ? भूपतिः
      • कथम्भूतः सन् भूपतिः ? स्थितः (सन्)
        • कदा स्थितः सन् ? स्थितां (सतीम्)
      • पुनः कथम्भूतः सन् भूपतिः ? उच्चलितः (सन्)
        • कदा उच्चलितः सन् ? प्रयातां (सतीम्)
      • पुनः कथम्भूतः सन् भूपतिः ? आसन-बन्ध-धीरः (सन्)
        • कदा आसन-बन्ध-धीरः सन् ? निषेदुषीं (सतीम्)
      • पुनः कथम्भूतः सन् भूपतिः ? जलाभिलाषी (सन्)
        • कदा जलाभिलाषी सन् ? आददानां (सतीम्)
          • किम् आददानां सतीम् ? जलम्
        • का इव ? छाया इव

तात्पर्यम्

यस्य छत्रच्छायायां भूसाम्राज्यम् एव वर्तते तादृशः पृथ्वीपतिः दिलीपः नन्दिनीधेनोः छायासदृशः ताम् अन्वगच्छत् ।

पदविवरणम्

  • भूपतिः = भुवः पतिः
  • आसन-बन्ध-धीरः
    • आसन-बन्धः = आसने बन्धः
    • आसन-बन्ध-धीरः = आसन-बन्धने धीरः
  • निषेदुषीम् = नि + सद्“षद्लृ विशरणगत्यवसादनेषु” + क्वसु + ङीप् ।
    • पुं. निषेदिवान्, निषेदिवांसौ, निषेदिवांसः । स्त्री. निषेदुषी, निषेदुष्यौ, निषेदुष्यः । Words with शतृ, मतुप्, वतुप्, इयसुन्, क्वसु, and क्तवतुtake ङीप् to form feminine bases ।
    • ‘भाषायां सदवसश्रुवः’ ३/२/१०८, सि. कौ. ३०९७, इति क्वसु प्रत्ययः
      • सद्, वस्, श्रु इति भूतकाल-बोधक-पदेषु, क्वसु-प्रत्ययः लिट् स्थाने विकल्पेन भवति । (लङ् लुङ् च इत्यनयोः स्थाने अपि)
      • सद् – उपसेदिवान् कौत्सः पाणिनिम्
      • वस् – अनूषिवान् कौत्सः पाणिनिम्
      • श्रु – उपशुश्रुवान् कौत्सः पाणिनिम्
    • आददाना = आ + दा“डुदाञ् दाने” + शानच् । उभय. (अत्र आत्.)। परस्मैपदौ लटि. ददाति, दत्तः, ददति । आत्मनेपदौ लटि. दत्ते, ददाते, ददते ।

अन्यविषयाः

  • धेनो: अनुकरणं केन प्रकारेण करणीयमिति मुनिः दिलीपम् उवाच । तत् रघुवंशस्य प्रथमसर्गे अस्ति । “यदा इयं नन्दिनी प्रचलति तदा त्वमपि प्रचल । यदा सा तिष्ठति तदा तिष्ठ । एवं यदा उपविशति तदा उपविश, यदा जलं पिबति तदैव त्वमपि जलं पिब । एवं छायावत् एनाम् अनुसर” इति ।
  • प्रस्थितायां प्रतिष्ठेथा: स्थितायां स्थितिमाचरे: ।

निषण्णायां निषीदास्यां पीताम्भसि पिबेरप: ॥ १.८९ ॥

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • भूपतिः = The king, Dileepa
    1. स्थितां (सतीं) स्थितः (सन्) = he, being one who stood (स्थित), when she was standing (स्थिता)
  • प्रयाताम् उच्चलितः = he, being one who moved, when she was moving
  • निषेदुषीम् आसन-बन्ध-धीरः = he was one who was firm (धीर) in his posture (बन्ध) of the seat (आसन), i.e., he also sat, when she was sitting (निषेदुषी)
  • जलम् आदधानां जलाभिलाषी = he was one who is eager (अभिलाषी) for water (जल), when she was receiving (आदधाना) water (जल), e., he did not drink before she drank
  • अन्वगच्छत् = followed
    • ताम् = her, Nandinee cow
    • छाया इव = like (इव) the shadow (छाया), in imitating her actions

कक्ष्या ६ – #6 – 13-12-2018

7. श्लोकः

मूलपाठः

स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः ।
आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ।। २.७ ।।

पदच्छेदः

सः, न्यस्तचिह्नाम्, अपि, राजलक्ष्मीं, तेजोविशेषानुमितां, दधानः, आसीत्, अनाविष्कृतदानराजिः, अन्तर्मदावस्थः, इव, द्विपेन्द्रः

अन्वयार्थः

  • न्यस्तचिह्नाम् अपि = परित्यक्तानि छत्रचामरादिराजोचितचिह्नानि यस्याः , ताम्
  • राजलक्ष्मीम् = नृपस्य शोभातिशयम्
  • तेजोविशेषानुमिताम् = प्रभावातिशयेन (बाह्य चिह्नेषु असत्सु अपि राजा एव अयम् इति) ऊहिताम्
  • दधानः सः = बिभ्राणः सः दिलीपः
  • अनाविष्कृतदानराजिः = (प्रत्यक्षतया) अप्रकटीकृतमदरेखः (अपि)
  • अन्तर्मदावस्थः = (परोक्षतया) यस्य मदान्तर्गतत्वं संलक्षितं, तादृशः
  • द्विपेन्द्रः इव आसीत् = गजेन्द्रः इव आसीत्

अन्वयः

न्यस्तचिह्नाम् अपि तेजोविशेषानुमितां राजलक्ष्मीं दधानः सः अनाविष्कृतदानराजिः अन्तर्मदावस्थः द्विपेन्द्रः इव आसीत् ।

आकाङ्क्षा

  • आसीत्
    • कः आसीत् ? सः
      • कीदृशः सः ? दधानः
        • कां दधानः ? राजलक्ष्मीम्
          • कीदृशीं राजलक्ष्मीम् ? तेजोविशेषानुमिताम्
          • पुनः कीदृशीं सन्तीम् अपि राजलक्ष्मीम् ? न्यस्तचिह्नाम् अपि
        • कः इव आसीत् ? द्विपेन्द्रः इव
          • कीदृशः द्विपेन्द्रः ? अन्तर्मदावस्थः
          • पुनः कीदृशः सन् द्विपेन्द्रः ? अनाविष्कृतदानराजिः

तात्पर्यम्

गजस्य मदजलरेखा अप्रकटिता चेदपि तस्य तेजोविशेषात् अयं गजराजः, अस्मिन् मदजलं निहितम् इति यथा ऊह्यते तथा रथच्छत्रचामरादिभ्यः राजोचित-बाह्य-चिह्नेभ्यः वियुक्तस्य अपि राज्ञः अन्तर्निहित-तेजसः प्रभावात् तस्य चक्रवर्तित्वम् अनुमीयते एव तद् गोपयितुम् अशक्यम् इत्यर्थः ।

पदविवरणम्

  • न्यस्तचिह्नाम् = न्यस्तानि चिह्नानि यस्याः सा, ताम्
  • तेजोविशेषानुमिताम्
    • तेजोविशेषः = तेजसः विशेषः
    • तेजोविशेषानुमिताम् = तेजोविशेषेण अनुमिता, ताम्
  • अनाविष्कृतदानराजिः
    • अनाविष्कृतः = न आविष्कृतः
    • दानराजिः = दानस्य राजिः
    • अनाविष्कृतदानराजिः = अनाविष्कृता दानराजिः येन सः
  • अन्तर्मदावस्थः
    • मदावस्था = मदस्य अवस्था
    • अन्तर्मदावस्थः = अन्तः (अन्तर्गतः / अभ्यन्तरे) मदावस्था यस्य सः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • दधानः सः = He who was possessing (दधान)
    • राजलक्ष्मीम् = the kingly dignity (राज-लक्ष्मी)
      • तेजोविशेषानुमिताम् = which was one that could be inferred (अनुमित) by the peculiar (विशेष) luster (तेजस्)
      • न्यस्तचिह्नाम् अपि = even though (अपि), being one by whom the insignia or royal emblems (चिह्न) were renounced (न्यस्त)
    • द्विपेन्द्रः इव आसीत् = was like (इव) the elephant (द्विपेन्द्रः)
      • अन्तर्मदावस्थः = who is inwardly (अन्तः) in an excited (मद) state (अवस्था)
      • अनाविष्कृतदानराजिः = yet, who is not (न) exhibiting (आविष्कृत) the lines (राजि) of ichor (दान) on its temples in the forehead

कक्ष्या ७ – #7 – 20-12-2018

8. श्लोकः

मूलपाठः

लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम्
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ।। २.८ ।।

पदच्छेदः

लताप्रतानोद्ग्रथितैः, सः, केशैः, अधिज्यधन्वा, विचचार, दावम्, रक्षापदेशात्, मुनिहोमधेनोः, वन्यान्, विनेष्यन्, इव, दुष्टसत्त्वान्

अन्वयार्थः

  • लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितः) सः = वल्लीनां कुटिलतन्तुभिः गुम्फिताः ये केशाः, तैः उपलक्षितः सः (राजा)
  • अधिज्यधन्वा (सन्) = यस्य चापे ज्या आरोपिता भवति, तादृशः (स राजा)
  • मुनिहोमधेनोः रक्षापदेशात् = वसिष्ठस्य होमार्थं पालितायाः नन्दिन्याः रक्षणव्याजेन
  • वन्यान् दुष्टसत्त्वान् = वने स्थितान् हिंसकजन्तून्
  • विनेष्यन् इव = शिक्षयन् इव
  • दावं विचचार = वने सञ्चरतिवान्

अन्वयः

लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितः) सः अधिज्यधन्वा (सन्) मुनिहोमधेनोः रक्षापदेशात् वन्यान् दुष्टसत्त्वान् विनेष्यन् इव दावं विचचार ।

आकाङ्क्षा

  • विचचार
    • कुत्र विचचार ? दावम्
    • किमर्थं विचचार ? रक्षापदेशात्
      • कस्याः रक्षापदेशात् ? मुनिहोमधेनोः
    • कः विचचार ? सः
      • कथम् उपलक्षितः सः ? केशैः (उपलक्षितः)
        • कीदृशैः केशैः ? लताप्रतानोद्ग्रथितैः
      • पुनः कीदृशः सन् सः ? अधिज्यधन्वा (सन्)
      • किं कुर्वन् इव सः ? विनेष्यन्
        • कान् विनेष्यन् इव ? दुष्टसत्त्वान्
          • कीदृशान् दुष्टसत्त्वान् ? वन्यान्

तात्पर्यम्

राजा दिलीपः कुटिलतन्तुगुम्फितकेशः धनुष्पाणिः (बाणप्रहारार्थं सज्जः) सन् यत् वने सञ्चरति स्म तत् वसिष्ठस्य धेनोः रक्षणव्याजेन व्याघ्रादीनां दुष्टमृगाणां शिक्षणार्थमेव इति प्रतिभाति स्म ।

पदविवरणम्

  • लताप्रतानोद्ग्रथितैः
    • लताप्रतानानि = लतानां प्रतानानि, तन्तवः
    • उद्ग्रथिताः = उन्नमय्य ग्रथिताः
    • लताप्रतानोद्ग्रथितैः = लताप्रतानैः उद्ग्रथिताः, तैः
  • लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितः) = इत्थंभूत लक्षणे इति तृतीया
  • अधिज्यधन्वा
    • अधिज्यम् = अधि (आरोपिता) ज्या यस्य तत् । “मौर्वीज्याशिञ्जिनी गुणः” इत्यमरः ।
    • अधिज्यधन्वा = अधिज्यं धनुः यस्य सः, अधिज्यधन्वा । धनुषश्च इति धनुःशब्दान्तस्य बहुव्रीहेः अनङ्आदेशः भवति ।
  • वन्यान् = वने भवाः, वन्याः, तान्
  • विनेष्यन् = विनेष्यति इति । वि + नी “णीञ् प्रापणे” + शतृ । उभय., लृटि परस्मैपदौ नेष्यति । पु., प्र.वि., ए.व. । The future participle denotes the intention or purpose.
  • दुष्टसत्त्वान्
    • सत्त्वः =“द्रव्यासु व्यवसायेऽपिसत्त्वमस्त्रीतु जन्तुषु” इत्यमरः
    • दुष्टाः च ते सत्त्वाः, तान्
  • दावम् = वनम् । “वने च वनवह्नौ च दवो दाव इहेष्यते” इति यादवः । देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् इति दावस्य कर्मत्वम् (Words that indicate distance (covered), time (taken), and destination, get कर्मसंज्ञा and hence they are mentioned in द्वितीया विभक्तिः)|

 

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • लताप्रतानोद्ग्रथितैः केशैः (उपलक्षितः) सः = He (seen as) one with hairs (केश) which have been tied (उद्ग्रथित) with the tendrils (प्रतान) of creepers (लता)
  • अधिज्यधन्वा (सन्) = being one whose bow (धनु) has its string (ज्या) tied (अधि)
  • विचचार = roamed
  • दावम् = the forest (दाव)
  • रक्षापदेशात् = for the sake of or under the pretence (अपदेश) of protecting (रक्ष)
  • मुनिहोमधेनोः = the sacrificial (होम) cow (धेनु) of sage (मुनि) Vashishta
  • विनेष्यन् इव = like (इव) one wishing to tame
  • दुष्टसत्त्वान् = the wicked (दुष्ट) creatures (सत्त्व)
  • वन्यान् = the ones (वन्य) living in the forest (वन)

कक्ष्या ८ – #8 – 10-01-2019

9. श्लोकः

मूलपाठः

विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानां आलोकशब्दं वयसां विरावैः ।। २.९ ।।

पदच्छेदः

विसृष्टपार्श्वानुचरस्य, तस्य, पार्श्वद्रुमाः, पाशभृता, समस्य, उदीरयामासुः, इव, उन्मदानाम्, आलोकशब्दम्, वयसाम्, विरावैः

अन्वयार्थः

  • विसृष्टपार्श्वानुचरस्य =परित्यक्तसेवकवर्गस्य
  • पाशभृता समस्य = वरुणेन तुल्यस्य
  • तस्य =दिलीपस्य
  • पार्श्वद्रुमाः =उभयतः स्थिताः वृक्षाः
  • उन्मदानाम् = उत्कटमदानाम्
  • वयसाम् = खगानाम्
  • विरावैः = शब्दैः
  • आलोकशब्दम् = जयघोषम्, (आलोकः = वन्दिभाषणं, स्तुतिः)
  • उदीरयामासुः इव = अवदन् इव

अन्वयः

विसृष्टपार्श्वानुचरस्य, पाशभृता समस्य, तस्य पार्श्वद्रुमाः उन्मदानां वयसां विरावैः आलोकशब्दम् उदीरयामासुः इव ।

आकाङ्क्षा

  • उदीरयामासुः इव
    • के उदीरयामासुः ? पार्श्वद्रुमाः
      • कस्य पार्श्वद्रुमाः (पार्श्ववर्तीद्रुमाः) ? तस्य
        • कीदृशस्य तस्य ? विसृष्टपार्श्वानुचरस्य
        • पुनः कीदृशस्य तस्य ? समस्य
          • केन समस्य ? पाशभृता
        • कम् उदीरयामासुः ? आलोकशब्दम्
        • कैः उदीरयामासुः ? विरावैः
          • केषां विरावैः ? वयसाम्
            • कीदृशानां वयसाम् ? उन्मदानाम्

तात्पर्यम्

राजधान्यां चक्रवर्तिनम् उभयतः स्थिताः अनुचराः बन्दिनः च तस्य जयघोषपूर्वकं स्तुतिं कुर्वन्ति । दिलीपचक्रवर्ती वने सर्वाणि राजचिह्नानि त्यक्त्वा अनुचरान् च प्रतिप्रेष्य गोसेवायां निरतः । तथापि वरुणेन तुल्यस्य शस्त्रधरस्य तस्य प्रभावातिशयात् बन्दिनः इव वृक्षाः पक्षिकूजितद्वारा जयशब्दम् अकुर्वन्निति प्रतिभाति स्म ।

पदविवरणम्

  • विसृष्टपार्श्वानुचरस्य = विसृष्टाः पार्श्वानुचराः येन सः विसृष्टपार्श्वानुचरः, तस्य
  • वयसाम् = वयस् शब्दः, सकारान्तः नपु., ष.वि., ब.व. ।
    प्र. वि., वयः, वयसि, वयांसि ।
    ष. वि., वयसि, वयसोः, वयसाम् ।
    खगबाल्यादिनोर्वयः इत्यमरः ।
  • आलोकशब्दम् = आलोकस्य शब्दः, तम्।
  • उदीरयामासुः= उत्+ ईर् “ईरँ क्षेपे”, कर्तरि लिट्., प्र.पु., ब.व., उभय. (अत्र परस्मैपदी) ।
    • ईरयामास, ईरयामासतुः, ईरयामासुः Other forms are also present for लिट्. । लटि ईरयति, ईरयतः, ईरयन्ति ।
    • “आधृषाद् वा” इति अनेन गणसूत्रेण अस्मात् धातोः णिच् प्रत्ययः विकल्पेन भवति ।
  • विरावैः = विराव, पु., तृ.वि., ब.व. ।
  • पाशभृता= पाशं बिभर्ति इतिपाशभृत्, तेन । तकारन्तः, पु., तृ.वि., ए.व.

अलङ्कारः

  • उत्प्रेक्षा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • पार्श्वद्रुमाः = trees (द्रुम) in the surrounding (पार्श्व)
    • तस्य = of him
      • पाशभृता समस्य = of one who is equal (सम) to the noose-wielder (पाश-भृत्)
      • विसृष्टपार्श्वानुचरस्य = of one who has sent away (विसृष्ट) the followers (अनुचर) accompanying (पार्श्व) him
    • उदीरयामासुः इव = were as though (इव) loudly uttering
      • आलोकशब्दम् = the sounds (शब्द) of victory including “Behold” (आलोक), (made by the attendants announcing the arrival of the king)
      • उन्मदानां वयसां विरावैः = by the sounds (विराव) of the excited (उन्मदान) birds (वयस्)

10. श्लोकः

मूलपाठः

मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानं ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ।। २.१० ।।

पदच्छेदः

मरुत्प्रयुक्ताः, च, मरुत्सखाभम्, तम्, अर्च्यम्, आरात्, अभिवर्तमानम्, अवाकिरन्, बाललताः, प्रसूनैः, आचारलाजैः, इव, पौरकन्याः

अन्वयार्थः

  • मरुत्प्रयुक्ताः = वायुना प्रेरिताः
  • बाललताः = वल्लर्यः
  • आरात् = समीपे
  • अभिवर्तमानम् = विद्यमानम् (उपागच्छन्तम्)
  • अर्च्यम् = पूज्यम्
  • तम् = दिलीपम्
  • प्रसूनैः = पुष्पैः
  • मरुत्सखाभम् = अग्नेः (वायुसखस्य) इव यस्य कान्तिः (आभा) मरुत्सखाभः, तम्
  • अवाकिरन्= तस्य उपरि निक्षिप्तवत्यः
  • आचारलाजैः इव= आचारार्थैः लाजैः इव

अन्वयः

आरात् अभिवर्तमानं मरुत्सखाभम् अर्च्यं तं मरुत्प्रयुक्ताः बाललताः प्रसूनैः पौरकन्याः आचारलाजैः इव अवाकिरन् |

आकाङ्क्षा

  • अवाकिरन्
    • काः अवाकिरन् ? बाललताः
      • कीदृशाः बाललताः? मरुत्प्रयुक्ताः
    • कम् अवाकिरन्? तम्
      • कीदृशं तम्? मरुत्सखाभम्
        • पुनः कीदृशं तम्? अर्च्यम्
        • पुनः कीदृशं तम् ? अभिवर्तमानम्
          • कुत्र अभिवर्तमानम् ? आरात्
        • कैः अवाकिरन्? प्रसूनैः
        • कथमिव अवाकिरन्? पौरकन्याः आचारलाजैः इव

तात्पर्यम्

राजवीथ्या गच्छन्तं राजानं लाजवर्षणद्वारा पौरकन्याः उपचरन्ति, एषः सम्प्रदायः । तथैव अग्निसदृशं तेजस्विनं दिलीपराजम् उपचरितुकामः अग्निसखः वायुः वनस्थाः बाललताः सम्प्रेर्य तस्योपरि पुष्पवर्षणम् अकारयत् । सखा आगतं सखायम् उपचरति इति भावः।

पदविवरणम्

  • मरुत्प्रयुक्ताः=मरुता प्रयुक्ताः
  • बाललताः = बालाः लताः
  • आरात् = ‘आराद्दूरसमीपयोः’ इत्यमरः
  • अभिवर्तमानम् =उपागच्छन्तम्
  • अर्च्यम् = अर्चितुं योग्यम्
  • मरुत्सखाभम्
    • मरुत्सखः (अग्निः) = मरुतः सखा | “राजाहस्सखिभ्यष्टच् ५/४/९१” इत्यनेन सूत्रेण इकारान्तः पुं. सखि शब्दः | प्र.वि. सखा, सखायौ, सखायः | समासान्ते टच् / ‘अ’ प्रत्ययं प्राप्नोति । समस्तं पदं ‘राम’ शब्दवत् भवति ।
    • मरुत्सखाभम् = मरुत्सखस्य आभाइव आभायस्य सः मरुत्सखाभः, तम्
  • पौरकन्याः
    • पौराः = पुरे भवाः
    • पौरकन्याः=पौराः च ताः कन्याः
  • अवाकिरन्= अव+ कॄ “कॄ विक्षेपे”, प.प., लङ्., प्र.पु., ब.व.
    • लट्लकारे – किरति, किरतः, किरन्ति ।
    • लङ्लकारे – अकिरत् अकिरताम् अकिरन् ।
  • आचारलाजैः = आचारार्थाः लाजाः, तैः | उत्तरपदलोपः समासः |

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • बाललताः=The tender creepers
    • मरुत्प्रयुक्ताः = those that were prompted by the winds
  • अवाकिरन्=sprinkled
    • अर्च्यं तम् = him, the worshipful one,
      • अभिवर्तमानम् = one who was approaching
        • आरात्= at a close distance
      • मरुत्सखाभम् = one whose splendour is similar to that of Agni, the friend of Vayu
    • प्रसूनैः = with flowers
  • पौरकन्याः आचारलाजैः इव = similar to (इव) how the city’s (पौर) young ladies (कन्या) do, with customary (आचार) rice (लाज), to welcome the king.

कक्ष्या ९ – #9 – 17-01-2019

11. श्लोकः

मूलपाठः

धनुर्भृतोऽप्यस्य दयार्द्रभावमाख्यातमन्तःकरणैर्विशङ्कैः ।
विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः ।। २.११ ।।

पदच्छेदः

धनुर्भृतः, अपि, अस्य, दयार्द्रभावम्, आख्यातम्, अन्तःकरणैः, विशङ्कैः, विलोकयन्त्यः, वपुः, आपुः, अक्ष्णाम्, प्रकामविस्तारफलम्, हरिण्यः

अन्वयार्थः

  • धनुर्भृतः अपि = चापधारिणः अपि
  • अस्य = राज्ञः दिलीपस्य
  • विशङ्कैः अन्तःकरणैः = निर्भीकैः मनोभिः
  • आख्यातम् = प्रकटितम्
  • दयार्द्रभावम् = करुणास्निग्धम् अभिप्रायं यस्य तथोक्तं (वपुः)
  • वपुः विलोकयन्त्यः = शरीरं निर्निमेषदृष्ट्या ईक्षमाणाः
  • हरिण्यः = मृग्यः
  • अक्ष्णां प्रकामविस्तारफलम् = नयनानां अतीव विशालतायाः फलम्
  • आपुः = प्राप्तवत्यः

अन्वयः

धनुर्भृतः अपि अस्य विशङ्कैः अन्तःकरणैः दयार्द्रभावम् आख्यातं वपुः विलोकयन्त्यः हरिण्यः अक्ष्णां प्रकामविस्तारफलम् आपुः |

आकाङ्क्षा

  • आपुः
    • काः आपुः ? हरिण्यः
      • कीदृश्यः हरिण्यः ? विलोकयन्त्यः
        • किं विलोकयन्त्यः ? वपुः
          • कीदृशं वपुः ? आख्यातम्
            • कम् आख्यातम् ? दयार्द्रभावम्
              • कस्य दयार्द्रभावम् ? अस्य
                • कीदृशस्य अस्य ? धनुर्भृतः अपि
              • कैः विलोकयन्त्यः ? अन्तःकरणैः
                • कीदृशैः अन्तःकरणैः ? विशङ्कैः
              • किम् आपुः ? प्रकामविस्तारफलम्
                • केषां प्रकामविस्तारफलम् ? अक्ष्णाम्

तात्पर्यम्

मृग्यः धनुर्धरं दिलीपं दृष्ट्वापि गतभयाः स्थिताः । यतः दयालोः दिलीपस्य देहः निष्कपटस्नेहम् अभिव्यञ्जयति स्म । एतत् निर्भीकैः चेतोभिः विज्ञाय ताः आयतनयनाः मृग्यः निर्निमेषदृष्ट्या तं विश्रब्धं दृष्टवत्यः निजनयनानाम् अत्यन्तवैशाल्यस्य फलं च प्राप्तवत्यः।
विलोमतः ‘अधिज्यधन्वा स दुष्टसत्त्वान् विनेष्यन्निव दावं विचचार’ इत्यनेन अष्टमश्लोकेन दिलीपराजस्य वपुः दुष्टजन्तूनां हृदये अपायशङ्काम् अजनयत् इव इति भावः प्रकटितः।

पदविवरणम्

  • धनुर्भृतः
    • धनुः = धनुति (मारयति) इति
    • धनुर्भृतः = धनुः बिभर्ति इति, धनुर्भृत्, तस्य
  • अस्य = इदम् शब्दः मकारान्तः पुं., ष.वि., ए.व.
    • प्रथमा – अयम्, इमौ, इमे
    • षष्ठी – अस्य, अनयोः/एनयोः, एषाम्
  • दयार्द्रभावम्
    • दयार्द्रः = दयया आर्द्रः
    • दयार्द्रभावम् = दयार्द्रः भावः यस्य तत्
  • आख्यातम् = आङ् + ख्या + क्त, प.प., नपुं., द्वि.वि., ए.व.
  • विशङ्कैः = विगता शङ्का एभ्यः तानि, तैः
  • अन्तःकरणैः = अन्तःस्थानि करणानि, तैः
  • विलोकयन्त्यः = वि + लोक् “लोकृँ दर्शने” + शतृ, आ.प., स्त्री., प्र.वि., ब.व.
  • वपुः = वपुष् शब्दः, नपुं., द्वि.वि., ए.व.
    • प्रथमा – वपुः, वपुषी, वपूंषि
  • आपुः = आप्“आपॢँ व्याप्तौ”, प.प., लिट्., प्र.पु., ब.व.
    • लट् – आप्नोति, आप्नुतः, आप्नुवन्ति
    • लिट् – आप, आपतुः, आपुः
  • अक्ष्णाम् = अक्षिन् शब्दः, नपुं., ष.वि., ब.व.
    • प्रथमा – अक्षि, अक्षिणी, अक्षीणि
    • षष्ठी – अक्ष्णः अक्ष्णोः अक्ष्णाम्
  • प्रकामविस्तारफलम्
    • प्रकामविस्तारः = प्रकामम् (अतीव) विस्तारः
    • प्रकामविस्तारफलम् = प्रकामविस्तारस्य फलम्
  • हरिण्यः = हरिणी शब्दः ईकारन्तः स्त्री., प्र.वि., ब.व.
    • प्रथमा – हरिणी हरिण्यौ हरिण्यः

अन्यविषयाः

  • ‘विमलं कलुषीभवत् च चेतः कथयत्येव हितैषिणं रिपुं च’ इति न्यायेन मृग्यः स्वान्तःकरणवृत्तिप्रामाण्यादेव विश्रब्धं ददृशुः’ इत्यर्थः। एतत् मृगीणां पक्षे । राज्ञः पक्षे – ‘मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम्’ इति सूक्त्या तस्य मनोवाक्कायं समानम् अभिप्रायं धारयति प्रकटयति च इति तात्पर्यम |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • हरिण्यः = The deers
    • विलोकयन्त्यः = those that were viewing
      • अन्तःकरणैः = with the minds
        • विशङ्कैः = with those that are devoid of doubt (of being killed)
      • वपुः = the body
        • आख्यातम् = (the body) that exhibits
          • दयार्द्रभावम् = the feeling of tenderness due to compassion (दया)
        • अस्य = of him (इदम्), King Dileepa
        • धनुर्भृतः अपि = in spite of (अपि) him being armed with a bow (धनुर्भृत्), of him
      • आपुः = obtained
        • प्रकामविस्तारफलम् = the benefit (फल) of the excessive (प्रकाम) largeness (विस्तार)
          • अक्ष्णाम् = of the eyes (अक्षिन्)

12. श्लोकः

मूलपाठः

स कीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम् ।
शुश्राव कुञ्जेषु यशस्स्वमुच्चैरुद्गीयमानं वनदेवताभिः ।। २.१२ ।।

पदच्छेदः

सः, कीचकैः, मारुतपूर्णरन्ध्रैः, कूजद्भिः, आपादितवंशकृत्यम्, शुश्राव, कुञ्जेषु, यशः, स्वम्, उच्चैः, उद्गीयमानम्, वनदेवताभिः

अन्वयार्थः

  • सः = दिलीपराजः
  • मारुतपूर्णरन्ध्रैः = वायुना पूरितैः छिद्रैः
  • कूजद्भिः = स्वनद्भिः
  • कीचकैः = वेणुविशेषैः
  • आपादितवंशकृत्यम् = सम्पादितं सुषिरवाद्यस्य कार्यं यस्मिन् कर्मणि तत्, तथा
  • कुञ्जेषु = लतागृहेषु
  • वनदेवताभिः = वनस्य अधिष्ठातृदेवताभिः
  • उच्चैः उद्गीयमानम् = तारस्वरेण स्तूयमानम्
  • स्वं यशः = स्वीयां कीर्तिम्
  • शुश्राव = श्रुतवान्

अन्वयः

सः मारुतपूर्णरन्ध्रैः कूजद्भिः कीचकैः आपादितवंशकृत्यं कुञ्जेषु वनदेवताभिः उच्चैः उद्गीयमानं स्वं यशः शुश्राव |

आकाङ्क्षा

  • शुश्राव
    • कः शुश्राव ? सः
    • किं (कर्मपदं) शुश्राव ? यशः
      • कस्य यशः ? स्वम्
      • कीदृशं यशः ? उद्गीयमानम्
        • कथम् उद्गीयमानम् ? उच्चैः
        • काभिः उद्गीयमानम् ? वनदेवताभिः
        • कुत्र उद्गीयमानम् ? कुञ्जेषु
        • कथं उद्गीयमानम् ? आपादितवंशकृत्यम्
          • कैः आपादितवंशकृत्यम् ? कीचकैः
            • किं कुर्वद्भिः कीचकैः ? कूजद्भिः
              • कैः कूजद्भिः ? मारुतपूर्णरन्ध्रैः

तात्पर्यम्

वने वंशानां (कीचकानां) रन्ध्रेषु प्रवहतः समीरस्य आपूरणेन ते स्वनन्ति । तथा वंशी-दशापन्नेषु कीचकेषु वाद्यकृत्यं कुर्वत्सु, लतागृहमध्ये वनदेवताः तारस्वरेण राज्ञः कीर्तिं गायन्ति स्म । एतत् दिलीपराजः आकर्णयत् ।

पदविवरणम्

  • मारुतपूर्णरन्ध्रैः
    • मारुतपूर्णानि = मारुतेन पूर्णानि
    • मारुतपूर्णरन्ध्रैः = मारुतपूर्णानि रन्ध्राणि येषां ते, तैः
  • कूजद्भिः = कूजत् शब्दः, कूज्कूजँ अव्यक्ते शब्दे” + शतृ, नपुं., तृ.वि., ब.व. | लटि. कूजति |
  • कीचकैः = वेणुविशेषैः । ‘वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः‘ इत्यमरः ।
  • आपादितवंशकृत्यम्
    • वंशः = सुषिरवाद्यविशेषः । ‘वंशादिकं तु सुषिरम्’ इत्यमरः ।
    • वंशकृत्यम् = वंशस्य कृत्यम् |
    • आपादितवंशकृत्यम् = आपादितं वंशकृत्यं यस्मिन् कर्मणि तत्तथा
  • शुश्राव = श्रु “श्रु श्रवणे” प.प., लिट्., अत्र प्र.पु., ए.व. | उ.पु., अपि |
    • लिट्. – शुश्राव, शुश्रुवतुः, शुश्रुवुः
    • लट्. – शृणोति, शृणुतः, शृण्वन्ति
  • यशः = यशस् शब्दः, नपुं., द्वि.वि., ए.व.
  • उद्गीयमानम् = उत् + गा“गा स्तुतौ” + शानच्, नपुं., द्वि.वि., ए.व.
  • कुञ्जेषु = ‘निकुञ्जकुञ्जौ वाक्लीबेलतादिपिहितोदरे’ इत्यमरः ।

अन्यविषयाः

  • वनदेवताभिः उच्चैः उद्गीयमानम्
    • गान्धारग्रामेण गीयमानम् इत्यर्थः । ग्रामः = सङ्गीते स्वरः ।
    • षड्ज-मध्यम-नामानौ ग्रामौ गायन्ति मानवाः ।
      न तु गान्धार-नामानं स लभ्यो देवयोनिभिः ॥ इति नारदवचनम्
  • मारुतपूर्णरन्ध्रैः कीचकैः आपादितवंशकृत्यम्
    • अनुरञ्जकवाद्यं विना गीतं न मनोरमम्
      गाता यं यं स्वरं गच्छेत् तं वंशेन तानयेत् इति भरतमुनिः ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः = He, Dileepa
    • शुश्राव = heard (श्रु)
    • स्वं यशः = his own (स्व) fame (यशस्)
      • उद्गीयमानम् = that which was being sung at high pitch (उत् + गा)
        • उच्चैः = loudly
        • वनदेवताभिः = by the dieties (देवता) of the forest (वन)
        • कुञ्जेषु = in the bowers
      • आपादितवंशकृत्यम् = (that which was being sung) in such a way in which the function (कृत्य) of flutes (वंश) was accomplished (आपादित)
        • कीचकैः = by the bamboos
          • कूजद्भिः = which were making sounds
            • मारुतपूर्णरन्ध्रैः = with their holes (रन्ध्र) that were filled with (पूर्ण) air (मारुत)

कक्ष्या १० – #10 – 24-01-2019

13. श्लोकः

मूलपाठः

पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनस्सिषेवे ।। २.१३ ।।

पदच्छेदः

पृक्तः, तुषारैः, गिरिनिर्झराणाम्, अनोकहाकम्पितपुष्पगन्धी, तम्, आतपक्लान्तम्, अनातपत्रम्, आचारपूतम्, पवनः, सिषेवे

अन्वयार्थः

  • गिरिनिर्झराणाम् = गिरिषु निर्झराणां वारिप्रवाहाणाम्| ‘उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः’ इत्यमरः ।
  • तुषारैः = सीकरैः ‘तुषारौ हिमसीकरौ’ इति शाश्वतः ।
  • पृक्तः = संपृक्तः
  • अनोकहाकम्पितपुष्पगन्धी = ईषत्कम्पितपुष्पगन्धवान्
  • पवनः = वायुः
  • अनातपत्रम् = व्रतार्थं परिहृतच्छत्रम्
  • आतपक्लान्तम् = आतपेन श्रान्तम् | “प्रकाशो द्योतआतपः” इत्यमरः
  • आचारपूतम् = सदाचारैः पवित्रम्
  • तम् = दिलीपम्
  • सिषेवे = सेवितवान्

अन्वयः

गिरिनिर्झराणां तुषारैः पृक्तः अनोकहाकम्पितपुष्पगन्धी पवनः अनातपत्रम् आतपक्लान्तम् आचारपूतं तं सिषेवे |

आकाङ्क्षा

  • सिषेवे
    • कः सिषेवे ? पवनः
      • कीदृशः पवनः ? अनोकहाकम्पितपुष्पगन्धी
      • पुनः कीदृशः पवनः ? पृक्तः
        • कैः पृक्तः ? तुषारैः
        • केषां तुषारैः ? गिरिनिर्झराणाम्
      • कं सिषेवे ? तम्
        • कीदृशं तम् ? आचारपूतम्
        • पुनः कीदृशं तम् ? आतपक्लान्तम्
        • पुनः कीदृशं तम् ? अनातपत्रम्

तात्पर्यम्

दिलीपराजः स्वधर्मपालनतत्परः सदाचारी च । तादृशः पवित्रः सः व्रतानुष्ठानाय राजोपचारान् परित्यक्तवान् । छत्रविहीनम् अतः आतपबाधितं तं झराणां जलकणमिश्रत्वात् शीतलः मन्दः (समीरः) वृक्षाणां पुष्पगन्धमिश्रत्वात् सुरभिमान् समीरः सेवितवान् । आचारपूतत्वात् जगत्पावनस्य (वायोः) अपि सेव्यः आसीत् इति भावः। वृक्षादयः अपि राजोपचारम् अकुर्वन्निति चारित्रवर्धनः ।

पदविवरणम्

  • गिरिनिर्झराणाम् = गिरिषु निर्झरः, तेषाम् |
  • अनोकहाकम्पितपुष्पगन्धी
    • अनोकहः = अनसः शकटस्य अकं वेगं हन्ति इति, वृक्षः |
    • आकम्पितपुष्पाणि = आकम्पितानि पुष्पाणि |
    • आकम्पितम् = ईषद् कम्पितम् | आ used in the sense of “slight”. Eg., आभुननम् = ईषद् वक्रम् in first sarga, 83 |
    • अनोकहाकम्पितपुष्पाणि = अनोकहानाम् आकम्पितपुष्पाणि
    • अनोकहाकम्पितपुष्पगन्धः = अनोकहाकम्पितपुष्पाणां गन्धः
    • आनोकहाकम्पितपुष्पगन्धी= अनोकहाकम्पितपुष्पगन्धः अस्य वा अस्मिन् वा अस्ति इति | अनोकहाकम्पितपुष्पगन्धिन् शब्दः |
  • अनातपत्रम्
    • आतपत्रम् = आतपात् त्रायते इति |
    • अनातपत्रम् = अविद्यमानम् आतपत्रं यस्य सः, अनातपत्रः तम् |
  • आतपक्लान्तम् = आतपेन क्लान्तः, तम्
  • आचारपूतम् = आचारेण पूतः, तम्
  • सिषेवे = सेव “षेवृँ सेवने” आ.प., लिट्. प्र.पु., ए.व. | उ.पु., अपि |
    • लिट्. – सिषेवे, सिषेवाते, सिषेविरे
    • लट्. – सेवते, सेवेते, सेवन्ते

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • पवनः = Light breeze
    • अनोकहाकम्पितपुष्पगन्धी = that which had the fragrance (गन्ध) of the slightly shaken (आकम्पित) flowers (पुष्प) of the trees (अनोकहा)
    • पृक्तः = that which is mixed
      • तुषारैः = with the icy spray (तुषार)
        • गिरिनिर्झराणाम् = of mountain (गिरि) streams (निर्झर)
      • सिषेवे = served
      • तम् = him, Dileepa
        • आचारपूतम् = him who is pure (पूत) by his right conduct (आचार)
        • आतपक्लान्तम् = him who is oppressed (क्लान्त) by the heat (आतप)
        • अनातपत्रम् = him who is without (न) an umbrella (आतपत्र)

14. श्लोकः

मूलपाठः

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गो
प्तरि गाहमाने ।। २.१४ ।।

पदच्छेदः

शशाम, वृष्ट्या, अपि, विना, दवाग्निः, आसीत्, विशेषा, फलपुष्पवृद्धिः, ऊनम्, न, सत्त्वेषु, अधिकः, बबाधे, तस्मिन्, वनम्, गोप्तरि, गाहमाने

अन्वयार्थः

  • गोप्तरि = राज्ञि
  • वनं गाहमाने = वनं प्रविशति सति
  • दवाग्निः = वनाग्निः | ‘दवदावौ वनानले’ इति हैमः |
  • वृष्ट्या विना अपि = वृष्ट्याम् असत्याम् अपि
  • दवाग्निः शशाम = वनाग्निः उपशान्तः अभूत्
  • फलपुष्पवृद्धिः विशेषा आसीत् = फलकुसुमानाम् उद्गमः अतिशयितः आसीत्
  • सत्त्वेषु= जन्तुषु मध्ये
  • अधिकः= व्याघ्रादिः प्रबलः
  • ऊनम् =हरिणादिकं दुर्बलम्
  • न बबाधे = न अपीडयत्

अन्वयः

तस्मिन् गोप्तरि वनं गाहमाने (सति) वृष्ट्या विना अपि दवाग्निः शशाम | फलपुष्पवृद्धिः विशेषा आसीत् | सत्त्वेषु अधिकः ऊनं न बबाधे |

आकाङ्क्षा

  • शशाम
    • कः शशाम ? दवाग्निः
      • कया विना अपि ? वृष्ट्या विना अपि
    • कदा शशाम ? तस्मिन् गाहमाने (सति)
      • कस्मिन् तस्मिन् ? गोप्तरि
      • कुत्र गाहमाने ? वनम्
    • आसीत्
      • का आसीत् ? फलपुष्पवृद्धिः
      • कीदृशा आसीत् ? विशेषा
    • न बबाधे
      • कः न बबाधे ? अधिकः
      • कं न बबाधे ? ऊनम्
        • केषां मध्ये न बबाधे ? सत्त्वेषु

तात्पर्यम्

जगत्पालकस्य दिलीपचक्रवर्तिनः प्रभावाधिक्येन वनस्य वातावरणं चित्रं सुखावहं च जातम् । यदा सः वनं प्राविशत् तदा वृष्ट्याम् असत्यामपि वनाग्निः स्वयमेव अशाम्यत् । फलानां पुष्पाणां च उद्गमे उपचयः दृष्टः। व्याघ्रादयः हिंस्राः जन्तवः हरिणादीन् दुर्बलान् न अहिंसन् । प्राणिनः वैरभावम् अत्यजन् इत्यर्थः ।

पदविवरणम्

  • फलपुष्पवृद्धिः = फलानां पुष्पाणां च वृद्धिः ।
  • विशेषा= विशेष्यते इति
  • सत्त्वेषु = ‘यतश्च निर्धारणम्’ इति सप्तमी । By the rule that the class from among which, any particular one is to be brought forward can be given in Locative class. Sometimes in Genitive also.
  • गोप्तरि = गोप्तृ शब्दः, पु., स.वि., ए.व. | प्रथमे गोप्ता |
  • दवाग्निः = दवः एव अग्निः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तस्मिन् गोप्तरि वनं गाहमाने (सति) = When this (तत्) king (गोप्तृ) was entering the forest
    • दवाग्निः = the forest fire
    • शशाम = went down
    • वृष्ट्या विना अपि = (on its own accord), even (अपि) without (विना) any rain (वृष्टि)
  • फलपुष्पवृद्धिः = The growth of flowers and fruits
    • विशेषा आसीत् = was specifically plentiful
  • अधिकः = The stronger
    • सत्त्वेषु = among animals
    • न बबाधे = did not molest
    • ऊनम् = the weaker

कक्ष्या ११ – #11 – 31-1-2019

15. श्लोकः

मूलपाठः

सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ।। २.१५ ।।

पदच्छेदः

सञ्चारपूतानि, दिगन्तराणि, कृत्वा, दिनान्ते, निलयाय, गन्तुम्,
प्रचक्रमे, पल्लवरागताम्रा, प्रभा, पतङ्गस्य, मुनेः, च, धेनुः

अन्वयार्थः

  • पल्लवरागताम्रा = नवपत्रस्य वर्णः इव अरुणा
  • पतङ्गस्य = सूर्यस्य | ‘पतङ्गः पक्षिसूर्ययोः’ इति शाश्वतः
  • प्रभा = कान्तिः
  • मुनेः धेनुः च = नन्दिनी च
  • दिगन्तराणि = दिशाम् अवकाशान् / दिशानां मध्यमार्गान्
  • सञ्चारपूतानि कृत्वा = सञ्चारेण शुद्धानि कृत्वा / गमनेन पवित्राणि विधाय
  • दिनान्ते = सायंकाले / दिनावसाने
  • निलयाय गन्तुम् = सूर्यपक्षे अस्तमयाय गन्तुम् | धेनुपक्षे आलयाय गन्तुम्
  • प्रचक्रमे = उपक्रमम् अकरोत् / गन्तुम् उद्यता अभूत् ।

अन्वयः

पल्लवरागताम्रा पतङ्गस्य प्रभा (च), मुनेः धेनुः च, दिगन्तराणि सञ्चारपूतानि कृत्वा, दिनान्ते निलयाय गन्तुं प्रचक्रमे |

आकाङ्क्षा

  • प्रचक्रमे ।
    • का प्रचक्रमे ? प्रभा
      • कस्य प्रभा ? पतङ्गस्य
      • कीदृशी प्रभा ? पल्लवरागताम्रा
    • पुनः च का प्रचक्रमे ? धेनुः च
      • कस्य धेनुः ? मुनेः
    • किं कृत्वा प्रचक्रमे ? पूतानि कृत्वा
      • कानि पूतानि कृत्वा? दिगन्तराणि
    • कदा प्रचक्रमे ? सायङ्काले
    • किं कर्तुम् प्रचक्रमे ? गन्तुम्
      • कुत्र गन्तुम् ? निलयाय

तात्पर्यम्

आकाशे सञ्चरतः सूर्यस्य कान्तिः दिशः पवित्राः विदधातिे तथा वने सञ्चरन्ती नन्दिनी अपि दिशः पावयति । उभयोः अपि पावनत्वं, पावकत्वं, सञ्चरणशीलत्वं, प्रभाते उदयाय/वनाय उपक्रमः सायं निलयाय प्रक्रमः,  रक्तत्वं च बोध्यम् । यथा दिनावसाने सूर्यप्रभा अस्तमयाय उपक्रमते तथा घेनुः अपि वसिष्ठाश्रमं गन्तुम् उद्यता अभूत् ।

पदविवरणम्

  • पतङ्गस्य = पतन् गच्छति इति पतङ्गः, तस्य
  • पल्लवरागताम्रा
    • पल्लवरागः = पल्लवस्य रागः (वर्णः) – पल्लवरागः । ‘रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु’ इति शाश्वतः ।
    • ताम्रा = ताम्रः गुणः अस्य अस्ति इति
    • पल्लवरागताम्रा = पल्लवरागः इव ताम्रा |
  • दिगन्तराणि
    • अन्तरम् = मध्ये विद्यमानः अवकाशः | “अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये” इत्यमरः ।
    • दिगन्तराणि = दिशाम् अन्तराणि | दिक्+अन्तरम्, तानि |
  • सञ्चारपूतानि = सञ्जारेण पूतानि
  • निलयाय = निलय, पु., च.वि., ए.व. | “गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि” इति अत्र चतुर्थिः | By this rule, either the dative (4th) or the accusative (2nd) may be used when the root having the sense of motion implies effort on the part of the agent; but where no effort is implied, the accusative alone must be used.
  • प्रचक्रमे = प्र + क्रम् “क्रमुँ पादविक्षेपे”, प.प., (अत्र आ.प.) | लिट्., प्र.पु., ए.व. | “प्रोपाभ्यां समर्थाभ्याम्” इति सूत्रेण, “प्र”, “उप” एतौ उपसर्गौ यदा “प्रारम्भः” अस्मिन् अर्थे प्रयुज्येते, तदा एताभ्याम् क्रम् धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा प्रतिष्ठते, उपतिष्ठते ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • दिनान्ते = At the end (अन्त) of the day (दिन)
  • प्रभा = the light
    • पतङ्गस्य = of the Sun
    • मुनेः धेनुः च = as well as (च) that of the Sage’s (मुनि) cow (धेनु), Nandinee
    • पल्लवरागताम्रा = (the light) which has the reddish (ताम्र) hue (राग) like that of a new leaf (पल्लव) (in case of both the sun and the cow)
  • सञ्चारपूतानि कृत्वा = having done the purification by traversing
    • दिगन्तराणि = the intervening space (covered by the sun and the cow, in the universe and in the forest, respectively)
  • प्रचक्रमे = commenced
    • निलयाय गन्तुम् = to go (गम्) to their resting place (निलय)

16. श्लोकः

मूलपाठः

तां देवतापित्रतिथिक्रियार्थां अन्वग्ययौ मध्यमलोकपालः ।
बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद्विधिनोपपन्ना ।। २.१६ ।।

पदच्छेदः

ताम्, देवता-पितृ+अतिथि-क्रिया+अर्थाम्, अन्वक्, ययौ, मध्यम-लोक-पालः, बभौ, च, सा, तेन, सताम्, मतेन, श्रद्धा, इव, साक्षात्, विधिना, उपपन्ना

अन्वयार्थः

  • मध्यमलोकपालः = भूपालः [स्वर्गस्य पातालस्य च मध्ये भवति भूलोकः]
  • देवतापित्रतिथिक्रियार्थां ताम् = याग-श्राद्ध-दानानि एव अर्थः (प्रयोजनम्) यस्याः तां नन्दिनीम्
  • अन्वक् = अनुपदम्
  • ययौ = अगच्छत्
  • सतां मतेन तेन = सद्भिः मान्येन दिलीपराजेन
  • उपपन्ना सा = युक्ता सा धेनुः
  • (सतां मतेन) विधिना (उपपन्ना) साक्षात् श्रद्धा इव = (साधुजनैः आचरितेन) अनुष्ठानेन युक्ता प्रत्यक्षा श्रद्धा (आस्तिक्यबुद्धिः) इव
  • बभौ = शुशुभे

अन्वयः

मध्यमलोकपालः देवतापित्रतिथिक्रियार्थां ताम् अन्वक् ययौ | सतां मतेन तेन उपपन्ना सा (सतां मतेन) विधिना (उपपन्ना) साक्षात् श्रद्धा इव बभौ |

आकाङ्क्षा

  • ययौ
    • कः ययौ ? मध्यमलोकपालः
    • कां ययौ ? ताम्
      • कीदृशीं ताम् ? देवतापित्रतिथिक्रियार्थाम्
    • कथं ययौ ? अन्वक्
  • बभौ
    • का बभौ ? सा
      • कीदृशी सा ? उपपन्ना
        • केन उपपन्ना ? मतेन तेन
          • केषां मतेन ? सताम्
        • का इव बभौ ? श्रद्धा इव
          • कीदृशी श्रद्धा ? (उपपन्ना)
            • केन उपपन्ना ? विधिना
              • कीदृशेन विधिना ? (मतेन)
                • केषां मतेन ? (सताम्)

तात्पर्यम्

देवयज्ञं पितृश्राद्धम् अतिथिभ्यो दानं च इति क्रियात्रयस्यापि साधनीभूता नन्दिनीधेनुः । यज्ञ-श्राद्ध-दानक्रियाः मर्त्यानां कर्तव्याः । सद्भिः भावितः दिलीपराजः धेन्वा सह तथा अशोभत यथा सद्भिः आचरितः यज्ञश्राद्धदानादिः विधिः श्रद्धया सहितः शोभते ।

पदविवरणम्

  • मध्यमलोकपालः
    • मध्यमः = मध्ये भवः
    • मध्यमलोकः = मध्यमः च असौ लोकः
    • मध्यमलोकपालः = मध्यमलोकं पालयति इति
  • देवतापित्रतिथिक्रियार्थाम्
    • देवतापित्रतिथयः = देवताः पितरः अतिथयः तेषां समाहारः
    • देवतापित्रतिथिक्रिया = देवतापित्रतिथीनां क्रियाः
    • देवतापित्रतिथिक्रियार्थाम् = देवतापित्रतिथिक्रियाः एव अर्थः यस्याः, ताम्
  • अन्वक् = अन्वक् इति अव्ययम् । “अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्” इत्यमरः ।
  • ययौ = या“या प्रापणे”, प.प., लिट्., प्र.पु., ए.व. | लटि – याति |
  • बभौ = भा “भा दीप्तौ”, प.प., लिट्., प्र.पु., ए.व. | लटि – भाति |

अन्यविषयाः

  • ऋणत्रयम् – देव, पितृ, ऋषि – पञ्चमहायज्ञः
    • देवतापित्रतिथिक्रिया
    • (ऊर्ध्वलोके पुण्यफलम् / अधोलोके पापफलम् अनुभवति । क्षीणे पुण्ये / क्षीणेपापे …. )
  • प्रत्ययो धर्मकार्येषु यथा श्रद्धेत्युदाहृता ।

नास्ति ह्यश्रद्धधानस्य धर्मकृत्ये प्रयोजनम्‘’ – इति स्मृतिः ।

  • तदुक्तं याज्ञवल्क्येन –

श्रद्धाविधिसमायुक्तं कर्म यत्क्रियते नृभिः ।

सुविशुद्धेन भावेन तदानन्त्याय कल्पते ।

विधिहीनं भवेद्दुष्टं कृतमश्रद्धया च यत् ।

तद्धरन्त्यसुरास्तस्य मूढस्य दुष्क्रियात्मनः ॥ इति

  • भगवद्गीतायाम् –
    अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ १७/२८

  • तैत्तिरीयोपनिषदि शिक्षावल्ल्याम् –
    देवपितृकार्याभ्यां न प्रमदितव्यम् । … अतिथिदेवो भव ।
  • तैत्तिरीयोपनिषदि शिक्षावल्ल्याम् एव –

श्रद्धया देयम् । अश्रद्धयाऽदेयम् ।

श्रिया (भूरि, सन्तोषेण च) देयम् ।

ह्रिया (लज्जा, विनयेन, एतावदेव ददामि इति) देयम् ।

भिया (पूर्वम् उक्ताः दोषाः मयि न स्युः इति भयम्) देयम् ।

संविदा (सङ्कल्पः, मनः चञ्चलम्, अतः यदा दातव्यम् इति निश्चितं तदा झटिति कार्यम्) देयम् ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • मध्यमलोकपालः = The protector (पाल) of the middle (मध्यम) world (लोक)
    • ययौ = went
      • अन्वक् = following
        • ताम् = her
          • देवतापित्रतिथिक्रियार्थाम् = she, whose purpose (अर्थ) was (to be of use in) the duties (क्रिया) towards the gods (देवता), the manes (पितृ) and the guests (अतिथि)
        • सा = She, Nandinee
          • उपपन्ना = one who was accompanied
            • मतेन तेन = by him (तत्), Raghu, who is a respected one (मत)
              • सताम् = of the great men (सत्)
            • बभौ = seemed to be
              • इव = like
                • साक्षात् श्रद्धा = the personification (साक्षात्) of faith (श्रद्धा)
                  • (सतां मतेन) विधिना (उपपन्ना) = along with the the religious rules (विधि), i.e., that which is accompanied (उपपन्ना) by the religious rules (विधि) as ordained (मत) by great men (सत्)

कक्ष्या १२ – #12 – 7-2-2019

17. श्लोकः

मूलपाठः

स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ।। २.१७ ।।

पदच्छेदः

सः, पल्वल+उत्तीर्ण-वराहयूथानि, आवास-वृक्ष+उन्मुख-बर्हिणानि, ययौ, मृगाध्यासित-शाद्वलानि, श्यामायमानानि, वनानि, पश्यन्

अन्वयार्थः

  • सः = दिलीपः
  • पल्वलोत्तीर्णवराहयूथानि = येषु वनेषु अल्पजलाशयेभ्यः वराहसमूहाः निर्गच्छन्ति तादृशानि (वनानि)
  • आवासवृक्षोन्मुखबर्हिणानि = येषु वनेषु बर्हिणाः (मयूराः) स्वस्वनिवासवृक्षाभिमुखाः सन्ति तादृशानि (वनानि)
  • मृगाध्यासितशाद्वलानि = येषु वनेषुमृगाः शाद्वलेषु ( शष्पेषु / हरिततृण-बहुलदेशेषु) उपविष्टाः सन्ति तादृशानि (वनानि)
  • श्यामायमानानि वनानि =वराह-मयूरादीनां नीलिम्ना धूसरतया च श्यामीभूतानि वनानि
  • पश्यन् ययौ =वीक्षमाणः जगाम

अन्वयः

सः पल्वलोत्तीर्णवराहयूथानि आवासवृक्षोन्मुखबर्हिणानि मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ययौ |

आकाङ्क्षा

  • ययौ
    • कः ययौ ? सः
    • किं कुर्वन् ययौ ? पश्यन्
      • कानि पश्यन् ? वनानि
        • कीदृशानि वनानि ? पल्वलोत्तीर्णवराहयूथानि
        • पुनः कीदृशानि वनानि ? आवासवृक्षोन्मुखबर्हिणानि
        • पुनः कीदृशानि वनानि ? मृगाध्यासितशाद्वलानि
        • पुनः कीदृशानि वनानि ? श्यामायमानानि

तात्पर्यम्

सूर्यास्तमनवेलायां नन्दिनी आश्रमाय प्रस्थिता । सूर्यप्रभायाः लोहितत्वम् अपि क्रमेण विलीनप्रायम् । तदानीं शूकराणां समूहाः अल्पजलाशयेभ्यः निर्गच्छन्तः आसन् । मयूराः निजनिवासवृक्षाभिमुखाः दृष्टाः । मृगाः हरिततृणप्रदेशेषु निषण्णाः दृष्टाः । शूकरमयूरादीनां नीलत्वात् वृक्षतृणादीनां हरितत्वात् वनानि श्यामीभूतानि । तादृशवनानि पश्यन् दिलीपः धेनुम् अन्वगच्छत् ।

पदविवरणम्

  • पल्वलोत्तीर्णवराहयूथानि
    • पल्वलम् इति नपुंसकलिङ्गपदम् |
    • पल्वलोत्तीर्णानि = पल्वलेभ्यः उत्तीर्णानि
    • वराहयूथानि = वराहाणां यूथानि
    • पल्वलोत्तीर्णवराहयूथानि = पल्वलोत्तीर्णानि वराहयूथानि येषु तानि
  • आवासवृक्षोन्मुखबर्हिणानि
    • आवासवृक्षाः = आवासस्य वृक्षाः
    • आवासवृक्षोन्मुखाः = आवासवृक्षाणाम् उन्मुखाः
    • आवासवृक्षोन्मुखबर्हिणानि = आवासवृक्षोन्मुखाः बर्हिणाः येषु तानि
  • मृगाध्यासितशाद्वलानि
    • मृगाध्यासिताः = मृगैः अध्यासिताः
    • शाद्वलः, शाद्वलम् = नवतृणबहुलदेशः
    • मृगाध्यासितशाद्वलानि = मृगाध्यासिताः शाद्वलाः येषु तानि
  • श्यामायमानानि = अश्यामानि श्यामानि भवन्तीति
  • पश्यन् = दृश् “दृशिर् प्रेक्षणे” + शतृ, पुं., प्र.वि., ए.व.
  • ययौ = या“या प्रापणे”, प.प., लिट्., प्र.पु., ए.व. | लटि – याति |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः = He, King Dileepa
    • ययौ = went
    • पश्यन् = seeing
    • वनानि = the forest glands
      • पल्वलोत्तीर्णवराहयूथानि = those in which there were herds (यूथ) of boars (वराह), which came out (उत्तीर्ण) of the small ponds (पल्वल)
      • आवासवृक्षोन्मुखबर्हिणानि = those in which there were peacocks (बर्हिण) which were facing towards (उन्मुख) the trees (वृक्ष) where they rested (आवास)
      • मृगाध्यासितशाद्वलानि = those in which there were the grassy spots (शाद्वल) where the deers (मृग) were seated at ease (अध्यासित)
      • श्यामायमानानि = those that were being darkened (श्यामायमान)

कक्ष्या १३ – #13 – 14-2-2019

18. श्लोकः

मूलपाठः

आपीनभारोद्वहनप्रयत्नाद्गृष्टिर्गुरुत्वाद्वपुषो नरेन्द्रः ।
उभावलंचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम् ।। २.१८ ।।

पदच्छेदः

आपीन-भारोद्वहन-प्रयत्नात्, गृष्टिः, गुरुत्वात्, वपुषः, नरेन्द्रः, उभौ, अलंचक्रतुः, अञ्चिताभ्याम्, तपोवनावृत्ति-पथम्, गताभ्याम्

अन्वयार्थः

  • गृष्टिः = सकृत्प्रसूता गौः
  • नरेन्द्रः (च) = राजा
  • उभौ = यथाक्रमं नन्दिनीदिलीपौ
  • आपीनभारोद्वहनप्रयत्नात् = ऊधसः भारवहनप्रयासात् |
    • आपीनम् = ऊधः “ऊधस्तु क्लीबमापीनम्” इत्यमरः |
  • वपुषः गुरुत्वात् = शरीरस्य आधिक्यात्
  • अञ्चिताभ्यां गताभ्याम् = चारुभ्यां गमनाभ्याम्, शोभनपादन्यासैः
  • तपोवनावृत्तिपथम् = ऋषेः आश्रमं प्रति आगमनमार्गम्
  • अलंचक्रतुः = भूषितवन्तौ

अन्वयः

गृष्टिः आपीनभारोद्वहनप्रयत्नात्, नरेन्द्रः वपुषः गुरुत्वात्, उभौ अञ्चिताभ्यां गताभ्यां तपोवनावृत्तिपथम् अलंचक्रतुः |

आकाङ्क्षा

  • अलंचक्रतुः
    • कौ अलंचक्रतुः ? उभौ
      • कौ उभौ ? गृष्टिः नरेन्द्रः (च)
    • कम् अलंचक्रतुः ? तपोवनावृत्तिपथम्
    • काभ्यां करणाभ्याम् अलंचक्रतुः ? गताभ्याम्
      • कीदृशाभ्यां गताभ्याम् ? अञ्चिताभ्याम्
        • काभ्यां हेतुभ्याम् अञ्चिताभ्याम् ? आपीनभारोद्वहनप्रयत्नात् (गवा च), गुरुत्वात् (राज्ञा च)
          • कस्य गुरुत्वात् ? वपुषः

तात्पर्यम्

एकवारं प्रसूता नन्दिनीधेनुः भारवत् पीवरं ऊधः वहन्ती मन्दगामिनी सञ्जाता । गात्रवैशाल्यात् दिलीपराजः अपि मन्दगामी । मन्द-मनोहर-गतिमन्तौ तौ उभौ अपि आश्रमं प्रति आगमनमार्गं शोभयन्तौ जग्मतुः ।

  • श्रीM R टीकायाम् –
    • आपीनम् – उधसः विशालत्वम् उक्तमेव प्राक् –
    • पयोधरीभूतचतुःसमुद्राम् २/३, भुवं कोष्णेन कुण्डोध्नी १/८४ इत्यादिना
    • राज्ञः वपुषः गुरुत्वं चोक्तम् – व्यूढोरस्को वृषस्कन्धः १/१३
    • गतेषु लीलाञ्चितविक्रमेषु ३/३४ कुमारसम्भवम्
  • श्रीमद्वाल्मीकिरामायणे –
    • मिथिलां प्राप्तं दशरथं विश्वामित्रमहर्षिः उवाच –
      • इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ ।
        गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ बाल-का/४८/२
    • रामवियोगात् दुःखितानां पौरजनानां विलापः –
      • नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
        शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ अ.का./४८/३१

सन्धिः (https://nivedita2015.wordpress.com/sandhi)

पदविवरणम्

  • आपीनभारोद्वहनप्रयत्नात्
  • तपोवनावृत्तिपथम्
    • तपोवनम् = तपसः वनम् – [अवधेयम् – विसर्गसन्धिः उकारादेशः, गुणसन्धिः न]
      • तपस् + वनम्
        → तप + रुँ + वनम् [ससजुषोः रुः8|2|66 इति रुत्वम् ।]
        → तप + उ + वनम् [हशि च 6|1|113 इति रुँ-इत्यस्य उत्वादेशः ।]
        → तपोवनम् [आद्गुणः 6|1|87 इति गुण-एकादेशः]
    • तपोवनावृत्तिः = तपोवनात् आवृत्तिः – सवर्णदीर्घसन्धिः (…/#savarnadeergha) ।
    • तपोवनावृत्तिपथम् = अ. पुं., द्वि.वि., ए.व.| तपोवनावृत्तेः पन्थाः, तं, तपोवनावृत्तिपथम्|
    • पन्थाः = पथिन् शब्दः, न., पुं., प्र.वि., ए.व.| प्रथमा – पन्थाः, पन्थानौ, पन्थानः| द्वितीया – पन्थानम्, पन्थानौ, पथः | ‘ऋक्पूर्ब्धूःपथामनक्षे’ ५/४/७४ इति सूत्रेण
    • ऋक् = वेदस्य ऋचा, (अर्धर्च), पूर् = नगरी (विष्णुपुर) अप् = जलम् (द्वीपः), धूर् = भारः (महाधूर), पथिन् = मार्गः (सत्पथः)
    • एतेषु किञ्चन विद्यते, तस्यः विषये ‘अ’ इति समासान्तप्रत्ययः भवति । परन्तु यत्र समस्तपदेन अक्षस्य विषये विधानं क्रियते तत्र अयं
    • प्रत्ययः न भवति । (अक्षधूः)
    • Note that the word is changed to पथat the end of compound.
  • अलंचक्रतुः = अलम् + कृ“डुकृञ् करणे”, उभय., (अत्र प.प.), लिट्., प्र.पु., द्वि.व.| प्रथमपुरुषः – अलञ्चकार, अलञ्चक्रतुः, अलञ्चक्रुः |
  • वपुषः = वपुस् स., नपुं., ष.वि., ए.व.
  • गृष्टिः = गृह्णाति सकृत् गर्भम् इति / एकवारं प्रसूता गौः ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • गृष्टिः = The cow which had calved only once
  • नरेन्द्रः = (and) the king,
  • उभौ = both of them, Nandinee and Dileepa, respectively,
  • अलंचक्रतुः = (they both) beautified
    • तपोवनावृत्तिपथम् = the path (पथिन्)
    • गताभ्याम् = by their gait of straids (गत)
      • अञ्चिताभ्याम् = by those that were graceful (अञ्चित)
        • आपीनभारोद्वहनप्रयत्नात् = due to the cow’s exertions (प्रयत्न) in bearing (उद्वहन) the weight (भार) of her large udder (आपीन)
        • गुरुत्वात् = due to the heaviness (गुरुत्वा)
          • वपुषः = of the body (वपुस्) (for the king)

कक्ष्या १४ – #14 – 21-2-2019

19. श्लोकः

मूलपाठः

वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात् ।
पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम् ।। २.१९ ।।

पदच्छेदः

वसिष्ठधेनोः, अनुयायिनम्, तम्, आवर्तमानम्, वनिता, वनान्तात्, पपौ, निमेषालसपक्ष्मपङ्क्तिः, उपोषिताभ्याम्, इव, लोचनाभ्याम्

अन्वयार्थः

  • वसिष्ठधेनोः = नन्दिन्याः
  • अनुयायिनम् = अनुचरम्
  • वनान्तात् आवर्तमानम् = वनान्तात् प्रत्यागच्छन्तम्
  • तम् = दिलीपम्
  • वनिता = सुदक्षिणा | “वनिताजनितात्यर्थानुरागायांच योषिति” इत्यमरः |
  • निमेषालसपक्ष्मपङ्क्तिः (सती) = अनिमेषा सती(विलम्बितपक्ष्मस्पन्दना सती)
  • उपोषिताभ्याम् इव =कृतोपवासाभ्याम् इव
  • लोचनाभ्याम्= नेत्राभ्याम्
  • पपौ = अतितृष्णया पीतवती

अन्वयः

वसिष्ठधेनोः अनुयायिनं वनान्तात् आवर्तमानं तं वनिता निमेषालसपक्ष्मपङ्क्तिः (सती) लोचनाभ्याम् उपोषिताभ्याम् इव पपौ |

आकाङ्क्षा

  • पपौ
    • का पपौ ? वनिता
      • कथंभूता वनिता ? निमेषालसपक्ष्मपङ्क्तिः (सती)
    • काभ्यां पपौ ? लोचनाभ्याम्
      • कीदृशाभ्याम् इव लोचनाभ्याम् ? उपोषिताभ्याम् इव
    • कं पपौ ? तम्
      • कीदृशं तम् ? अनुयायिनम्
        • कस्याः अनुयायिनम् ? वसिष्ठधेनोः
      • पुनः कीदृशं तम् ? आवर्तमानम्
        • कुतः आवर्तमानम् ? वनान्तात्
      • कुतः पपौ ? वनान्तात्

तात्पर्यम्

वनात् प्रत्यागच्छन्तं वसिष्ठधेनोः अनुचरं भर्तारं दिलीपं भार्या सुदक्षिणा निर्निमेषदृष्ट्या सादरं सतृष्णं वीक्षितवती ।

पदविवरणम्

  • निमेषालसपक्ष्मपङ्क्तिः
    • निमेषालसा = निमेषेषु अलसा / मन्दा
    • पक्ष्मपङ्क्तिः = पक्ष्मणां पङ्क्तिः
    • निमेषालसपक्ष्मपङ्क्तिः = निमेषालसाः पक्ष्मपङ्क्त्यः यस्याः सा
  • उपोषिताभ्याम्
    • उपवासः = भोजननिवृत्तिः
    • उपोषितम् = उप + वस + कर्तरि + क्त । कृतोपवासः याभ्यां नेत्राभ्यां इत्यर्थः । उपोषिते, ताभ्याम्
  • पपौ = पा“पा पाने”, प.प., लिट्., प्र.पु., ए.व. | लटि – पिबति | लिटि – पपौ, पपतुः, पपु

अन्यविषयाः

  • वनिता – भर्तरि अनुरक्ता, वन् (सम्भक्तौ) + क्त् + टाप्, जातरागस्त्री
  • पपौ – सतृष्णमालोकनं पानमुच्यते ।

अलङ्कारः

  • उत्प्रेक्षा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • वनिता = The fond wife
    • वनान्तात् = (standing) from the skirts (अन्त) of the forest (वन) in the context of Sudakshinaa, (returning) from the interiors of the forest in the context of Dileepaa.
    • पपौ = ardently gazed at (literally – drank in – पा)
    • तम् = him, Dileepaa
      • आवर्तमानम् = him, who was returning (आवर्तमान)
      • अनुयायिनम् = him, who was a follower (अनुयायिन्)
        • वसिष्ठधेनोः = of the cow (धेनु) belonging to Sage Vashishta (वसिष्ठ), namely Nandinee
      • निमेषालसपक्ष्मपङ्क्तिः = she, whose rows (पङ्क्ति) of eyelids (पक्ष्म) are slow (आलस) in closing (निमेष), (remaining wide-open, due to eagerness)
      • उपोषिताभ्याम् इव = by those which were seemed as though they had fasted (उपोषित) for a long time
        • लोचनाभ्याम् = with her two eyes (लोचन)

20. श्लोकः

मूलपाठः

पुरस्कृता वर्त्मनि पार्थिवेन प्रत्युद्गता पार्थिवधर्मपत्न्या ।
तदन्तरे सा विरराज धेनुर्दिनक्षपामध्यगतेव सन्ध्या ।। २.२० ।।

पदच्छेदः

पुरस्कृता, वर्त्मनि, पार्थिवेन, प्रत्युद्गता, पार्थिवधर्मपत्न्या, तदन्तरे, सा, विरराज, धेनुः, दिनक्षपामध्यगता, इव, सन्ध्या

अन्वयार्थः

  • वर्त्मनि = मार्गे
  • पार्थिवेन = पृथिव्याः ईश्वरेण
  • पुरस्कृता = अग्रतः कृता
  • पार्थिवधर्मपत्न्या = चक्रवर्तिमहिष्या
  • प्रत्युद्गता = स्वागतार्थम् अभ्युद्गता
  • सा धेनुः = नन्दिनी
  • तदन्तरे = तयोः दम्पत्योः मध्ये
  • दिनक्षपामध्यगता = दिवसरात्र्योः मध्यं प्राप्ता
  • सन्ध्या इव = सायम् इव
  • विरराज = अशोभत

अन्वयः

वर्त्मनि पार्थिवेन पुरस्कृता पार्थिवधर्मपत्न्या प्रत्युद्गता सा धेनुः तदन्तरे दिनक्षपामध्यगता सन्ध्या इव विरराज ।

आकाङ्क्षा

  • विरराज
    • का विरराज ? सा धेनुः
      • कीदृशी धेनुः ? पुरस्कृता
        • केन पुरस्कृता ? पार्थिवेन
        • कुत्र पुरस्कृता ? वर्त्मनि
      • पुनः कीदृशी धेनुः ? प्रत्युद्गता
        • कया प्रत्युद्गता ? पार्थिवधर्मपत्न्या
      • का इव विरराज ? सन्ध्या इव
        • कीदृशी सन्ध्या ? दिनक्षपामध्यगता
      • कुत्र विरराज ? तदन्तरे

तात्पर्यम्

यदा दिलीपराजः नन्दिनीम् अग्रतः कृत्वा वसिष्ठाश्रमं प्राप्नोत् तदा सुदक्षिणा धेनोः स्वागतार्थम् आदरेण समागता । तदा तयोः दम्पत्योः मध्ये विराजमाना धेनुः दिवसरात्र्योः मध्ये विलसन्ती सन्ध्या इव अशोभत ।

पदविवरणम्

  • पार्थिवेन = पृथिवी + अञ्-प्रत्ययः, “तस्येश्वरः” इति सूत्रेण | पार्थिवः, तेन
  • पार्थिवधर्मपत्न्या
    • धर्मपत्नी = धर्मस्य पत्नी | | धर्मार्थं पत्नी इत्यर्थः । अश्वाघासादिवत्तादर्थ्ये षष्ठीसमासः ।
    • पार्थिवधर्मपत्न्या = पार्थिवस्य धर्मपत्नी, तया
  • तदन्तरे = तयोः अन्तरे
  • दिनक्षपामध्यगता
    • दिनक्षपे = दिनः च क्षपा च
    • दिनक्षपामध्यम् = दिनक्षपयोः मध्यम्
    • दिनक्षपामध्यगता = दिनक्षपामध्यं गता
  • सन्ध्या = अहोरात्रस्य यः सन्धिः सा
  • विररा = वि + राज् “राजृँ दीप्तौ”, प.प., लिट्., प्र.पु., ए.व. | लटि – राजति | लिटि – रराज, रेजतुः / रराजतुः, रेजुः / रराजुः

अन्यविषयाः

  • सादृश्यम् – सन्ध्या इव – धेनोः ईषद्लोहितत्वात् सन्ध्यासाम्यम् ।
  • दिनक्षपासाम्यात् राज्ञः तेजसः उज्ज्वलत्वं राज्ञाः अतिस्निग्धमधुरत्वं च ध्वनितम् ।

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सा धेनुः = That cow, Nandinee
    • पुरस्कृता = one who was made (कृत) to be in front (पुरः)
      • वर्त्मनि = on the way (वर्त्मन्)
      • पार्थिवेन = by the lord_of_the_earth (पार्थिव)
    • प्रत्युद्गता = (and) one who was received by going forward
      • पार्थिवधर्मपत्न्या = by the king’s (पार्थिव) wife (पत्नी), the partner for performing religious duties (धर्म)
    • विरराज = shone
      • तदन्तरे = between (अन्तर) them (तत्)
    • दिनक्षपामध्यगता सन्ध्या इव = like (इव) twilight (सन्ध्या) situated (गता) between (मध्य) day (दिन) and night (क्षपा)

कक्ष्या १५ – #15 – 28-2-2019

21. श्लोकः

मूलपाठः

प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता ।
प्रणम्य चानर्च विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः ।। २.२१ ।।

पदच्छेदः

प्रदक्षिणीकृत्य, पयस्विनीम्, ताम्, सुदक्षिणा, साक्षतपात्रहस्ता, प्रणम्य, च, आनर्च, विशालम्, अस्याः, शृङ्गान्तरम्, द्वारम्, इव, अर्थसिद्धेः

अन्वयार्थः

  • साक्षतपात्रहस्ता सुदक्षिणा = अक्षतपात्रं हस्ताभ्यां गृह्णती सुदक्षिणा
  • तां पयस्विनीम् = प्रशस्तक्षीरां धेनुम्
  • प्रदक्षिणीकृत्य = परिक्रम्य
  • प्रणम्य च = नमस्कृत्य
  • अस्याः = धेन्वाः
  • विशालं शृङ्गान्तरम् = विस्तीर्णं विषाणयोः मध्यम्
  • अर्थसिद्धेः द्वारम् इव = सन्तानरूप-कार्यसिद्धेः प्रवेशमार्गम् इव
  • आनर्च = अर्चयामास

अन्वयः

साक्षतपात्रहस्ता सुदक्षिणा, तां पयस्विनीं प्रदक्षिणीकृत्य, प्रणम्य च, अस्याः विशालं शृङ्गान्तरम्, अर्थसिद्धेः द्वारम् इव, आनर्च |

आकाङ्क्षा

  • आनर्च
    • का आनर्च ? सुदक्षिणा
      • कीदृशी सुदक्षिणा ? साक्षतपात्रहस्ता
    • किम् आनर्च ? शृङ्गान्तरम्
      • कस्याः शृङ्गान्तरम् ? अस्याः
      • कीदृशं शृङ्गान्तरम् ? विशालम्
    • किमिव आनर्च ? द्वारम् इव
      • कस्याः द्वारम् ? अर्थसिद्धेः
    • किं कृत्वा आनर्च ? प्रदक्षिणीकृत्य
      • कां प्रदक्षिणीकृत्य ? तां पयस्विनीम्
    • पुनः किं कृत्वा आनर्च ? प्रणम्य च

तात्पर्यम्

गृहीताक्षतपात्रा सुदिक्षिणा वनात् प्रत्यागतां धेनुं प्रत्युगत्य प्रदक्षिणीकृत्य प्रणम्य च तस्याः विशालललाटफलके साक्षततिलकम् अर्पितवती । राज्ञी धेनुशृङ्गमध्यं अभीष्टसन्तानप्राप्तेः प्रवेशद्वारम् इव भावयन्ती तत् अर्चितवती ।

पदविवरणम्

  • साक्षतपात्रहस्ता
    • अक्षतपात्रम् = अक्षतानां पात्रम् इति ।
    • साक्षतपात्रौ = अक्षपात्रेण सह वर्तेते इति साक्षतपात्रौ।
    • साक्षतपात्रहस्ता = साक्षतपात्रौ हस्तौ यस्याः सा ।
  • प्रदक्षिणीकृत्य = अप्रदक्षिणं प्रदक्षिणं कृत्वा इति
  • पयस्विनीम् = प्रशस्तं पयः अस्याः अस्ति इति, ताम्
  • शृङ्गान्तरम् = शृङ्गयोः अन्तरम्
  • अर्थसिद्धेः = अर्थस्य सिद्धिः, तस्याः
  • आनर्च = अर्च् “अर्चँ पूजायाम्”, प.प., लिट्., प्र.पु., ए.व. | लटि – अर्चति | लिटि – आनर्च, आनर्चतुः, आनर्चुः |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सुदक्षिणा = Sudakshinaa
    • साक्षतपात्रहस्ता = one having a vessel (पात्र) with (सह) Akshata rice (अक्षत) in her hands (हस्त)
    • आनर्च = worshipped
      • अस्याः विशालं शृङ्गान्तरम् = her (इदम्) broad (विशाल) space between (अन्तर) the horns (शृङ्ग)
        • अर्थसिद्धेः द्वारम् इव = as if it was the door (द्वार) for the fulfilment (सिद्धि) of their desires (अर्थ)
      • प्रदक्षिणीकृत्य = after going round
        • तां पयस्विनीम् = her, that (तद्) cow (पयस्विनी)
      • प्रणम्य च = and also after bowing at her

22. श्लोकः

मूलपाठः

वत्सोत्सुकापि स्तिमिता सपर्यां प्रत्यग्रहीत्सेति ननन्दतुस्तौ ।
भक्त्योपपन्नेषु हि तद्विधानां प्रसादचिह्नानि पुरःफलानि ।। २.२२ ।।

पदच्छेदः

वत्सोत्सुका, अपि, स्तिमिता, सपर्याम्, प्रत्यग्रहीत्, सा, इति, ननन्दतुः, तौ, भकत्या, उपपन्नेषु, हि, तद्विधानाम्, प्रसादचिह्नानि, पुरःफलानि

अन्वयार्थः

  • वत्सोत्सुका अपि = वत्से उत्कण्ठिता अपि
  • सा स्तिमिता (सती) = निश्चला सती / आर्द्रभावयुक्ता
  • सपर्याम् = पूजाम् | “पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः” इत्यमरः |
  • प्रत्यग्रहीत् इति = प्रत्यग्रहीत् इति हेतोः
  • तौ = दम्पती
  • ननन्दतुः = मुदितवन्तौ ।
  • भकत्या = पूज्येषु अनुरागः भक्तिः, तया / श्रद्धया
  • उपपन्नेषु = युक्तेषु
  • हि = निश्चयेन
  • तद्विधानाम् = नन्दिनी सदृशानां महतां (पूज्यानां)
  • प्रसादचिह्नानि = पूजास्वीकारादीनि (प्रसन्नतालक्षणानि)
  • पुरःफलानि = अविलम्बितफलसूचकानि (भवन्ति)

अन्वयः

सा वत्सोत्सुका अपि स्तिमिता (सती), सपर्यां प्रत्यग्रहीत् इति तौ ननन्दतुः |  भकत्या उपपन्नेषु तद्विधानां प्रसादचिह्नानि पुरःफलानि हि |

आकाङ्क्षा

  • ननन्दतुः
    • कौ ननन्दतुः ? तौ
    • किमिति ननन्दतुः ? प्रत्यग्रहीत् इति
      • का प्रत्यग्रहीत् ? सा
      • कां प्रत्यग्रहीत् ? सपर्याम्
      • कथंभूता सती प्रत्यग्रहीत् ? स्तिमिता (सती)
      • पुनः कथंभूता अपि प्रत्यग्रहीत् ? वत्सोत्सुका अपि
    • (भवन्ति) हि
      • कानि भवन्ति ? प्रसादचिह्नानि
        • केषां प्रसादचिह्नानि? तद्विधानाम्
        • केषु विषयेषुप्रसादचिह्नानि ? उपपन्नेषु
          • कया उपपन्नेषु? भक्त्या
        • प्रसादचिह्नानि कीदृशानि भवन्ति ? पुरःफलानि

तात्पर्यम्

यद्यपि नन्दिनी निजवत्सनिकटं गन्तुम् उत्कण्ठिता तथापि निश्चला सती दयार्द्रभावेन सुदक्षिणायाः पूजां गृहीतवती इति दृष्ट्वा अभीष्टं सद्यः सिद्ध्येत् इति मन्यमानौ तौ दम्पती प्रमुदितौ अभवताम् ।

हि नन्दिनीसदृशानां पूज्यानां सतां प्रसन्नतालक्षणानि सद्यः फलसिद्धिसूचकानि भवन्ति ।

पदविवरणम्

  • प्रसादचिह्नानि = प्रसादस्य चिह्नानि
  • पुरःफलानि
    • (१) पुरोगतानि प्रत्यासन्नानि फलानि येषां तानि
    • (२) पुरः फलं येषां तानि
  • वत्सोत्सुका
    • (१) वत्से उत्सुका
    • (२) वत्सेन उत्सुका, “प्रसितोत्सुकाभ्यां तृतीया च” इति सूत्रेण |
  • ननन्दतुः = नन्द् “टुनदिँ समृद्धौ”, प.प., लिट्., प्र.पु., द्वि.व. | लटि – नन्दति | लिटि – ननन्द, ननन्दतुः, ननन्दुः |
  • स्तिमिता = स्तिम् / स्तीम् ‘आर्द्रीभावे’ स्तिम्यति / स्तीम्यति । स्तीम् + क्त
  • तद्विधानाम् = तस्याः (नन्दिन्याः) विधा एव विधा येषां ते तद्विधाः, तेषाम्
  • प्रत्यग्रहीत् = प्रति + ग्रह्ग्रहँउपादाने”, उभय., अत्र प.प., लुङ्., प्र.पु., ए.व. ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तौ ननन्दतुः = Both of them (Dileepa and Sudakshinaa) were delighted
    • इति = that
    • सा वत्सोत्सुका अपि = she (तद्), Nandinee, though (अपि) interested (उत्सुक) in her calf (वत्स),
    • स्तिमिता (सती) = being patient / being one who is pleased
    • प्रत्यग्रहीत् = accepted
    • सपर्याम् = their worship (सपर्या)
  • प्रसादचिह्नानि = the signs (चिह्न) of pleasure (प्रसाद)
    • तद्विधानां = of (venerable) being of her (तद्) type (विध)
    • उपपन्नेषु = in those who are endowed (उपपन्न)
      • भकत्या = with devotion (भक्ति)
    • पुरःफलानि हि = verily (हि) indicates the near fulfilment (पुरःफल), i.e., the bestowal of their favours

कक्ष्या १६ – #16 – 07-03-2019

23. श्लोकः

मूलपाठः

गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यञ्च विधिं दिलीपः ।
दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुर्निषण्णाम् ।। २.२३ ।।

पदच्छेदः

गुरोः, सदारस्य, निपीड्य, पादौ, समाप्य, सान्ध्यम्, च, विधिम्, दिलीपः, दोहावसाने, पुनः, एव, दोग्ध्रीम्, भेजे, भुज+उच्छिन्नरिपुः, निषण्णाम्

अन्वयार्थः

  • गुरोः = वसिष्ठाचार्यस्य
  • सदारस्य = पत्न्या अरुन्धत्या सह वर्तमानस्य
  • पादौ = चरणौ
  • निपीड्य = अभिवन्द्य
  • सान्ध्यं विधिं समाप्य च = सायन्तनम् अनुष्ठानं कृत्वा
  • भुजोच्छिन्नरिपुः = यस्य बाहुवीर्येण शत्रवः विध्वस्ताः, तादृशः
  • दिलीपः = दिलीपराजः
  • दोहावसाने = दोहनकालस्य अन्ते
  • निषण्णां दोग्ध्रीम् एव = उपविष्टां दोहनशीलां धेनुम् एव
  • पुनः भेजे = भूयः असेवत

अन्वयः

भुजोच्छिन्नरिपुः दिलीपः सदारस्य गुरोः पादौ निपीड्य, सान्ध्यं विधिं च समाप्य, दोहावसाने निषण्णां दोग्ध्रीं एव पुनः भेजे |

आकाङ्क्षा

  • पुनः भेजे
    • कः भेजे ? दिलीपः
      • कीदृशः दिलीपः ? भुजोच्छिन्नरिपुः
    • कां भेजे ? दोग्ध्रीम्
      • कीदृशीं दोग्ध्रीम् ? निषण्णाम्
        • कदा निषण्णाम् ? दोहावसाने
      • किं कृत्वा भेजे ? निपीड्य
        • कौ निपीड्य ? पादौ
          • कस्य पादौ ? गुरोः
            • कीदृशस्य गुरोः ? सदारस्य
          • पुनः किं कृत्वा भेजे ? समाप्य
            • किं समाप्य ? विधिं च
              • कीदृशं विधिम् ? सान्ध्यम्

तात्पर्यम्

दिलीपः नन्दिनीम् अनुसरन् वनात् प्रत्यागतः । आश्रमद्वारे सुदक्षिणा प्रदक्षिणविधिना अक्षततिलकधारणेन च तां समर्चयत् । ततः महाबाहुः शत्रुनाशकः दिलीपः गुरोः गुरुपत्न्याः च चरणवन्दनं विधाय सायन्तनम् अनुष्ठानं च कृत्वा पुनरपि आसीनां सवत्सां कामधेनुसुताम् उपास्त ।

पदविवरणम्

  • भुजोच्छिन्नरिपुः = भुजाभ्याम् उच्छिन्नाः रिपवः येन सः
  • सदारस्य
    • दाराः = पत्नीइति अर्थः ।पुंल्लिङ्गः, नित्यबहुवचनम् ।
    • सदारस्य = दारैः सहितः वर्तमानः सदारः, तस्य
  • सान्ध्यम् = संध्यायां भवः सान्ध्यः, तम्
  • भेजे = भज् “भजँ सेवायाम्”, उभय., अत्र आत्.प., लिट्., प्र.पु., ए.व. |
    • लटि – भजति च भजते च | लिटि – भेजे, भेजाते, भेजिरे |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • दिलीपः = Dileepa
    • भुजोच्छिन्नरिपुः = one who had uprooted (उच्छिन्न) his foes (रिपु) by his arms (भुज)
  • निपीड्य = after washing
    • पादौ = the two feet
    • गुरोः = of the preceptor (गुरु)
      • सदारस्य = of him, who was with (सह) his wife (दाराः)
    • समाप्य च = and (च) after completing
      • सान्ध्यं विधिम् = the evening duties
    • पुनः भेजे = again (पुनः) waiting upon
      • दोग्ध्रीम् एव = the milch cow only
      • निषण्णाम् = she who had sat down
        • दोहावसाने = after the milking was over

कक्ष्या १७ – #17 – 08-03-2019

24. श्लोकः

मूलपाठः

तान्तिकन्यस्तबलिप्रदीपामन्वास्य गोप्ता गृहिणीसहायः ।
क्रमेण सुप्तामनुसंविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत् ।। २.२४ ।।

पदच्छेदः

ताम्, अन्तिकन्यस्तबलिप्रदीपाम्, अन्वास्य, गोप्ता, गृहिणीसहायः, क्रमेण, सुप्ताम्, अनुसंविवेश, सुप्तोत्थिताम्, प्रातः, अनूदतिष्ठत्

अन्वयार्थः

  • गोप्ता = रक्षकः
  • गृहिणीसहायः = पत्नीसहायः, पत्नीद्वितीयः सन्, उभौ अपि
  • अन्तिकन्यस्तबलिप्रदीपाम् = यस्याः समीपे उपहाराः दीपाः च स्थापिताः,  तादृशीं
  • ताम् =नन्दिनीम्
  • अन्वास्य = अनूपविश्य
  • क्रमेण =क्रमशः
  • सुप्ताम् = शयिताम्
  • अनुसंविवेश
    • अनु = पश्चात्
    • संविवेश = सुष्वाप / शयितः
  • प्रातः =प्रभाते
  • सुप्तोत्थिताम् = आदौ सुप्ता पश्चात् उत्थिता सुप्तोत्थिता, ताम्
  • अनूदतिष्ठत् =उत्थितायां तस्याम् उत्थितः ।

अन्वयः

गोप्ता गृहिणीसहायः (सन्), अन्तिकन्यस्तबलिप्रदीपां ताम् (निषण्णाम्) अन्वास्य, क्रमेण सुप्ताम् अनुसंविवेश | प्रातः सुप्तोत्थिताम् अनूदतिष्ठत् |

(अत्र अनु शब्देन धेनुराजव्यापारयोः पौर्वापर्यम् उच्यते ।

क्रम शब्देन धेनुव्यापाराणाम् एव पौर्वापर्यम् । )

आकाङ्क्षा

  • अनुसंविवेश
    • कः अनुसंविवेश ? (सः) गोप्ता
      • कीदृशः सन् गोप्ता ? गृहिणीसहायः (सन्)
    • काम् अनुसंविवेश ? सुप्ताम्
    • कथम् अनुसंविवेश ? क्रमेण
    • किं कृत्वा अनुसंविवेश ? अन्वास्य
      • काम् अन्वास्य ? अन्तिकन्यस्तबलिप्रदीपां ताम्
    • अनूदतिष्ठत्
      • कः अनूदतिष्ठत् ? (सः) गोप्ता
        • कीदृशः सन् गोप्ता ? गृहिणीसहायः (सन्)
      • काम् अनूदतिष्ठत् ? ताम् सुप्तोत्थिताम्

तात्पर्यम्

सायं दोहावसानात् परं निषण्णायाः धेनोः समीपे उपहाराः दीपाः च स्थापिताः आसन् । सपत्नीकः दिलीपराजः तस्याः समीपे उपाविशत् । तस्यां शयितायां सः शयितः । प्रभाते उत्थितायां तस्यां स अपि उदतिष्ठत् ।

पदविवरणम्

  • अन्तिकन्यस्तबलिप्रदीपाम्
    • बलिप्रदीपाः = बलयः च प्रदीपाश्च
    • न्यस्ताः = नि + अस्“असुँक्षेपणे” + क्त । न्यस्त स्थापित ।
    • अन्तिकन्यस्ताः = अन्तिके न्यस्ताः ।
    • अन्तिकन्यस्तबलिप्रदीपाम् = अन्तिकन्यस्ताः बलिप्रदीपाः यस्याः सा, ताम्
  • अन्वास्य = अनु + आस्“आसँउपवेशने” + ल्यप्  । आस्ते ।
  • सुप्ताम् = स्वप्“ञिष्वपँशये” + क्त । स्वपिति ।
  • अनुसंविवेश = अनु + सम् + विश् “विशँ प्रवेशने”, प.प., लिट्., प्र.पु., ए.व. | लटि – विशति | लिटि – विवेश, विविशतुः, विविशुः |
  • अनूदतिष्ठत् = अनु + उत् + स्था “ष्ठा गतिनिवृत्तौ”, प.प., लङ्., प्र.पु., ए.व. | लटि – तिष्ठति | लङि – अतिष्ठत्, अतिष्ठताम्, अतिष्ठन् |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • गोप्ता = Dileepa, the protector (गोप्तृ)
    • गृहिणीसहायः (सन्) = being accompanied (सहाय) by his wife (गृहिणी)
    • अन्वास्य = after sitting close to
      • अन्तिकन्यस्तबलिप्रदीपां ताम् = her, near (अन्तिक) whom were placed (न्यस्त) the lighted lamp (प्रदीप) and offerings_of_worship (बलि)
    • क्रमेण सुप्ताम् = her, who slept (सुप्त) gradually (क्रमेण)
    • अनुसंविवेश = slept (संविवेश्) following (अनु)
  • प्रातः = In the morning
    • अनूदतिष्ठत् = (he) woke up following
      • सुप्तोत्थिताम् = her, who awoke (उत्त्थित) from sleep (सुप्त)

25. श्लोकः

मूलपाठः

इत्थं व्रतं धारयतः प्रजार्थं समं महिष्या महनीयकीर्तेः ।
सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ।। २.२५ ।।

पदच्छेदः

इत्थम्, व्रतम्, धारयतः, प्रजार्थम्, समम्, महिष्या, महनीयकीर्तेः, सप्त, व्यतीयुः, त्रिगुणानि, तस्य, दिनानि, दीनोद्धरणोचितस्य

अन्वयार्थः

  • इत्थम् = अनेन प्रकारेण
  • प्रजार्थम् = संतानाय
  • महिष्या समम् = अभिषिक्तपत्न्या सह| “कृताभिषेकामहिषी” इत्यमरः |
  • व्रतम् = नियमम्
  • धारयतः = पालयतः
  • महनीयकीर्तेः = उदारकीर्तेः
  • दीनोद्धरणोचितस्य =असहायानां रक्षणे तत्परस्य
  • तस्य = दिलीपराजस्य
  • त्रिगुणानि सप्त दिनानि = एकविंशतिः दिनानि
  • व्यतीयुः =व्यतीतानि

अन्वयः

इत्थं प्रजार्थं महिष्या समं व्रतं धारयतः महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य सप्त त्रिगुणानि दिनानि व्यतीयुः

आकाङ्क्षा

  • व्यतीयुः
    • कानि व्यतीयुः ? दिनानि
      • कति दिनानि ? सप्त त्रिगुणानि
      • कस्य दिनानि ? तस्य
        • कीदृशस्य तस्य ? धारयतः
          • किं धारयतः ? व्रतम्
          • कया सह धारयतः ? महिष्या समम्
          • किमर्थं धारयतः ? प्रजार्थम्
          • कथं धारयतः ? इत्थम्
        • पुनः कीदृशस्य तस्य ? महनीयकीर्तेः
        • पुनः कीदृशस्य तस्य ? दीनोद्धरणोचितस्य

तात्पर्यम्

एवं पूर्वोक्तप्रकारेण पत्न्या सह नन्दिनीसेवारूपं व्रतं कुर्वतः उदारकीर्तेः दीनानां साहाय्ये तत्परस्य दिलीपस्य एकविंशतिः दिवसाः व्यतीताः ।

पदविवरणम्

  • महनीयकीर्तेः
    • महनीया = पूज्या
    • महनीयकीर्तेः = महनीया कीर्तिः यस्य सः, तस्य
  • दीनोद्धरणोचितस्य
    • दीनाः = दैन्याः
    • उद्धरणम् = उत् + हृ“हृञ्हरणे” + ल्युट्
    • दीनोद्धरणम् = दीनानां दैन्यानाम् उद्धरणं विमोचनम्
    • दीनोद्धरणोचितस्य = दीनोद्धरणे उचितः परिचितः, तस्य
  • समम् = सह साकं सार्द्धम् । “तेन सहेति तुल्ययोगे” इति सूत्रम् । अप्रधाने तृतीया ।
  • धारयतः = धृ“धृञ्धारणे” + णिच् + शतृ । तस्य
  • महनीयकीर्तेः = महनीया कीर्तिः यस्य सः महानीयकीर्तिः, तस्य दीनोद्धरणोचितस्य तस्य सप्त त्रिगुणानि दिनानि व्यतीयुः
  • त्रिगुणानि= त्रयः गुणाः आवृत्तयः येषां तानि, त्रिगुणानि| त्रिरावृत्तानि |
  • व्यतीयुः = वि + अति + इ “इण् गतौ”, प.प., लिट्., प्र.पु., ब.व. | लटि – एति, इतः, यन्ति | लिटि – इयाय, ईयतुः, ईयुः |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • इत्थम् = In this manner,
    • त्रिगुणानि सप्त दिनानि = three (त्रि) times (गुण) seven (सप्त), i.e., twenty-one days (दिन)
    • तस्य = of him
      • व्रतं धारयतः = of Dileepa, one who was adhering (धारयत्) to the vow (व्रतम्)
      • प्रजार्थम् = for the sake (अर्थ) of getting progeny
      • महिष्या समम् = along_with (समम्) his wife (महिषी)
      • महनीयकीर्तेः = of him whose fame (कीर्ति) was adorable (महनीय)
      • दीनोद्धरणोचितस्य = of him who usually (उचित)e., who was accustomed in uplifting (उद्धरण) the distressed people (दीन)
    • व्यतीयुः = passed by

कक्ष्या १८ – #18 – 14-03-2019

26. श्लोकः

मूलपाठः

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरं आविवे
।। २.२६ ।।

पदच्छेदः

अन्येद्युः, आत्म+अनुचरस्य, भावम्, जिज्ञासमाना, मुनिहोमधेनुः, गङ्गाप्रपातान्तविरूढशष्पम्, गौरीगुरोः, गह्वरम्, आविवेश

अन्वयार्थः

  • अन्येद्युः = अन्यस्मिन्दिने, द्वाविंशे दिने, दिवसान्तरे
  • आत्मानुचरस्य = स्वसेवकस्यदिलीपराजस्य
  • भावम् = अभिप्रायम् / आशयम्, अत्र दृढभक्तित्वम्
  • जिज्ञासमाना = ज्ञातुमिच्छन्ती
  • मुनिहोमधेनुः =वसिष्ठऋषेः यज्ञसाधनभूता
  • गङ्गाप्रपातान्तविरूढशष्पम्
    • गङ्गाप्रपातः = गङ्गायाः पतनप्रदेशः|
    • अन्ते = समीपे
    • विरूढानि = जातानि
    • शष्पाणि = बालतृणानि| “शष्पंबालतृणं घासः” इत्यमरः |
    • गङ्गाप्रपातान्तविरूढशष्पम् = गङ्गापतनप्रदेशसमीपे स्थितः नवतृणमयः यः गह्वरः, तम्
  • गौरीगुरोः = पार्वतीपितुः (हिमवतः)
  • गह्वरम् = गुहाम्
  • आविवेश = प्रविष्टवती

अन्वयः

अन्येद्युः आत्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोः गह्वरम् आविवेश |

आकाङ्क्षा

  • आविवेश
    • का आविवेश ? मुनिहोमधेनुः
      • किं कुर्वती मुनिहोमधेनुः ? जिज्ञासमाना
        • कं जिज्ञासमाना ? भावम्
          • कस्य भावं जिज्ञासमाना ? आत्मानुचरस्य
        • कम् आविवेश ? गह्वरम्
          • कस्य गह्वरम् ? गौरीगुरोः
          • कीदृशं गह्वरम् ? गङ्गाप्रपातान्तविरूढशष्पम्
        • कदा आविवेश ? अन्येद्युः

तात्पर्यम्

द्वाविंशे दिने प्रातः धेनुः पुनः वनाय प्रस्थिता । तस्याः अनुचरः दिलीपः अपि सिसेविषया ताम् अनुगतः । हिमवतः वने क्वचित् गङ्गाधारानिपतनप्रदेशं प्राप्तवन्तौ तौ । तत्समीस्थायां गुहायां सततं जलसम्पर्कात् हरितकोमलतृणानां बाहुल्यम् आसीत् । कामधेनुसुता दिलीपस्य दृढभक्तित्वं परीक्षितुकामा तां गुहां प्राविशत् ।

पदविवरणम्

  • अन्येद्युः = अन्येद्युः इति अव्ययम्
  • जिज्ञासमाना
    • जिज्ञासा = ज्ञातुमिच्छा । ज्ञा + सन् ।
    • जिज्ञासमाना = ज्ञा + सन् + शानच्-प्रत्ययः ।
  • गङ्गाप्रपातान्तविरूढशष्पम्
    • प्रपातः = प्रपतति अस्मिन् इति
    • गङ्गाप्रपातः = गङ्गायाः प्रपातः
    • गङ्गाप्रपातान्तविरूढानि = गङ्गाप्रपातस्य अन्ते विरूढानि
    • गङ्गाप्रपातान्तविरूढशष्पम् = गङ्गाप्रपातान्तविरूढानि शष्पाणि यस्मिन् तत्
  • आविवेश = आङ् + विश् “विशँ प्रवेशने”, प.प., लिट्., प्र.पु., ए.व. | लटि – विशति | लिटि – विवेश, विविशतुः, विविशुः |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • अन्येद्युः = On the following day
  • मुनिहोमधेनुः = the sage’s (मुनि) sacrificial (होम) cow (धेनु), i.e., the cow that provided material for sacrificial offerings
  • जिज्ञासमाना = being one who is desirous_of_knowing (जिज्ञास)
    • भावम् = the devotion (भाव)
      • आत्मानुचरस्य = of the one who is following (अनुचर) her (आत्मन्)
    • आविवेश = entered
      • गर्ह्वरम् = the cave (गर्ह्वर)
        • गौरीगुरोः = of Himavat, the father (गुरु) of Gowri (गौरी)
        • गङ्गाप्रपातान्तविरूढशष्पम् = that in which tender_grass (शष्प) had grown (विरूढ) inside (or in the vicinity) (अन्त) of the water falls (प्रपात) of Ganges (गङ्गा)

कक्ष्या १९ – #19 – 15-03-2019

27. श्लोकः

मूलपाठः

सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ।। २.२७ ।।

पदच्छेदः

सा, दुष्प्रधर्षा, मनसा, अपि, हिंस्रैः, इति, अद्रिशोभाप्रहितेक्षणेन, अलक्षिताभ्युत्पतनः, नृपेण, प्रसह्य, सिंहः, किल, ताम्, चकर्ष

अन्वयार्थः

  • सा =नन्दिनी
  • दुष्प्रधर्षा = दुर्निग्रहा
  • मनसा अपि =चित्तेन अपि
  • हिंस्रैः = र्व्याघ्रादिभिः क्रूरमृगैः
  • इति = इति हेतोः
  • अद्रिशोभाप्रहितेक्षणेन
    • प्रहितेक्षणेन = दत्तदृष्टिना
    • अद्रिशोभाप्रहितेक्षणेन = रम्यं पर्वतं पश्यता
    • नृपेण = दिलीपेन
  • अलक्षिताभ्युत्पतनः
    • अभ्युत्पतनम् = अभिमुख्येन उत्पतनम्
    • अलक्षिताभ्युत्पतनः = यस्य आक्रमणं न लक्षितं तादृशः
  • सिंहः =केसरी
  • ताम् = नन्दिनीम्
  • प्रसह्य = हठात्“प्रसह्य तु हठार्थकम्”
  • चकर्ष किल = कृष्टवान्

अन्वयः

सा हिंस्रैः मनसा अपि दुष्प्रधर्षा इति (हेतोः) अद्रिशोभाप्रहितेक्षणेन नृपेण अलक्षिताभ्युत्पतनः सिंहः तां प्रसह्य चकर्ष किल

आकाङ्क्षा

  • चकर्ष किल
    • कः चकर्ष ? सिंहः
      • कीदृशः सिंहः ? अलक्षिताभ्युत्पतनः
        • केन अलक्षिताभ्युत्पतनः ? नृपेण
          • कीदृशेन नृपेण ? अद्रिशोभाप्रहितेक्षणेन
            • कस्मात् हेतोः अद्रिशोभाप्रहितेक्षणेन ? दुष्प्रधर्षा इति (हेतोः)
              • का दुष्प्रधर्षा ? सा
              • कैः दुष्प्रधर्षा ? हिंस्रैः
              • कथमपि दुष्प्रधर्षा ? मनसा अपि

तात्पर्यम्

कामधेनुसुताम् एनां सिंहव्याघ्रादयः हिंस्राः प्राणिनः अपि आक्रान्तुं नैव प्रभवन्ति इति मन्यमानः दिलीपः निश्चिन्तः आसीत् । हिमगिरेः निसर्गशोभायां प्रसारितदृष्टिना तेन गवि अकस्मात् सिंहाक्रमणं नैव लक्षितम् । ततः सिंहेन आकृष्यमाणा धेनुः दृष्टा तेन ।

[“सिंहः तां प्रसह्य चकर्ष किल” इत्यत्र अलीकार्थेन “किल” शब्देन सिंहाक्रमणं मायामात्रमिति सूचितम् ।]

पदविवरणम्

  • हिंस्रः = हिनस्ति इति हिंस्रः । हिंसकः / घोरः ।
  • दुष्प्रधर्षा = दुःखेन प्रधृष्यते असौ इति । कर्मणि खल् । धृष् – धर्षति लट् । हिनस्ति ।
  • अद्रिशोभाप्रहितेक्षणेन
    • अद्रिशोभा = अद्रेः शोभा
    • प्रहितेक्षणः = प्रहिते ईक्षणे (नेत्रे) येन सः
    • अद्रिशोभायां प्रहितेक्षणः = अद्रिशोभाप्रहितेक्षणः, तेन
  • अलक्षिताभ्युत्पतनः
    • अभ्युत्पतनम् = अभिमुख्येन उत्पतनम्
    • अलक्षिताभ्युत्पतनः = अलक्षितम् अभ्युत्पतनं यस्य सः
  • प्रसह्य = प्रसह्य इति अत्र अव्ययम् । शीघ्र / हठार्थकः ।
  • चकर्ष = कृष्“कृषँ विलेखने”, प.प., । अन्यधातुः उभय अपि अस्ति। लिट्., प्र.पु., ए.व. | लटि – कर्षति | लिटि – चकर्ष, चकृषतुः, चकृषुः।
  • किल = आगम-अरुचि-न्यक्कार-सम्भाव्य-हेतु-अलीकादिष्वर्थे
  • आगमः = निश्चयार्थे
  • अरुचिः = वक्तुः असम्मतिः
  • न्यक्कारः = अनादरः
  • अलीकम् = अवास्तविकम्

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सिंहः = A lion
    • अलक्षिताभ्युत्पतनः = one whose attack (अभ्युत्पतन) was not_observed (अलक्षित)
      • नृपेण = by the king
        • अद्रिशोभाप्रहितेक्षणेन = by him, whose sight (ईक्षण) was directed (प्रहित) towards the beauty (शोभा) of the mountains (अद्रि)
        • इति = considering that (इति)
        • सा दुष्प्रधर्षा = she is unassailable (not capable of being harmed)
          • हिंस्रैः = by the beasts of prey
          • मनसा अपि = even in their thoughts
        • प्रसह्य = forcibly
          • चकर्ष = pulled
          • ताम् = her
        • किल = Oh! So it appears !

 

कक्ष्या २० – #20 – 21-03-2019

28. श्लोकः

मूलपाठः

तदीयमाक्रन्दितमार्तसाधोर्गुहानिबद्धप्रतिशब्ददीर्घम्
रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तया
मास नृपस्य दृष्टिम् ।। २.२८ ।।

पदच्छेदः

तदीयम्, आक्रन्दितम्, आर्तसाधोः, गुहानिबद्धप्रतिशब्ददीर्घम्, रश्मिषु, इव, आदाय, नगेन्द्रसक्ताम्, निवर्तयामास, नृपस्य, दृष्टिम्

अन्वयार्थः

  • तदीयम् = नन्दिन्याः इदम्
  • आक्रन्दितम् = आर्तघोषणम् / उच्चैः रुदितम्
  • गुहानिबद्धप्रतिशब्ददीर्घम्
    • गुहानिबद्धः = गह्वरे प्रतिहतः
    • प्रतिशब्दः = प्रतिध्वनिः
    • गुहानिबद्धप्रतिशब्ददीर्घम् = गह्वरे प्रतिहतं तं दीर्घं प्रतिध्वनिं
  • रश्मिषु = प्रग्रहेषु
  • आदाय इव = गृहीत्वा यथा
  • आर्तसाधोः नृपस्य = आपन्नेषु / पीडितेषु हितकारिणः राज्ञः
  • नगेन्द्रसक्तां दृष्टिम् = हिमालये संलग्नाम्
  • निवर्तयामास = न्यवर्तयत्

अन्वयः

गुहानिबद्धप्रतिशब्ददीर्घं तदीयम् आक्रन्दितम् आर्तसाधोः नृपस्य नगेन्द्रसक्तां दृष्टिं रश्मिषु आदाय इव निवर्तयामास |

आकाङ्क्षा

  • निवर्तयामास
    • किं निवर्तयामास ? आक्रन्दितम् (कर्तृपदम्)
      • कीदृशम् आक्रन्दितम् ? तदीयम्
      • पुनः कीदृशम् आक्रन्दितम् ? गुहानिबद्धप्रतिशब्ददीर्घम्
    • कां निवर्तयामास ? दृष्टिम् (कर्मपदम्)
      • कस्य दृष्टिम् ? नृपस्य
        • कीदृशस्य नृपस्य ? आर्तसाधोः
      • कीदृशीं दृष्टिम् ? नगेन्द्रसक्ताम्
    • कथमिव निवर्तयामास ? रश्मिषु आदाय इव

तात्पर्यम्

गुहास्था सिंहाक्रान्ता नन्दिनी उच्चैः क्रन्दनम् अकरोत् । गुहायां प्रतिध्वनितं तद् दीर्घाक्रन्दनम् अद्रिशोभायां संलग्नां दिलीपदृष्टिं तथा न्यवर्तयत् यथा रथसारथिः प्रग्रहान् धृत्वा हयादीन् निवर्तयति ।

पदविवरणम्

  • तदीयम् = तस्याः इदम्
  • आक्रन्दितम् = आङ् + क्रन्द् “क्रदिँआह्वाने रोदने रक्षणे च” + क्त
  • गुहानिबद्धप्रतिशब्ददीर्घम्
    • गुहानिबद्धः = गुहायां निबद्धः
    • गुहानिबद्धप्रतिशब्दः = गुहानिबद्धः प्रतिशब्दः
    • गुहानिबद्धप्रतिशब्ददीर्घम् = गुहानिबद्धप्रतिशब्दः दीर्घः (विशेषणोत्तरपदकर्मधारयः)
  • रश्मिषु आदाय
    • रश्मिषु = प्रग्रहेषु । “किरणप्रग्रहौ रश्मी” इत्यमरः
    • आदाय इव = गृहीत्वा यथा
    • रश्मिषु आदाय = अत्र गृहीत्वा इत्यर्थे सप्तमी प्रयोगः । यथा पिता पुत्रं करे गृह्णन् चलितवान् ।
    • अत्र करणस्य एव अधिकरणविवक्षायां सप्तमी । व्याददाने चतुर्थी स्याद् दर्शने कथनेऽपि च । आदाय करणे योगे सप्तमी कैश्चिदुच्यते ।
  • नृपस्य = नॄन् पाति इति नृपः
  • नगेन्द्रसक्ताम्
    • नगेन्द्रः = नगानाम् इन्द्रः
    • नगेन्द्रसक्ताम् = नगेन्द्रे सक्ता, नगेन्द्रसक्ता, ताम्
  • आर्तसाधोः = आर्तेषु साधुः, तस्य
  • निवर्तयामास = नि + वृत्वृतुँभाषायाम्”, उभय., अत्र आत्.प., लिट्., प्र.पु., एव. | लटि – वर्तति / वर्तयति / वर्तयते | लिटि – वर्तयामास / वर्तयाम्बभूव / वर्तयाञ्चक्रे, वर्तयामासतुः / वर्तयाम्बभूवतुः / वर्तयाञ्चक्राते, वर्तयामासुः / वर्तयाम्बभूवुः / वर्तयाञ्चक्रिरे |

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तदीयम् आक्रन्दितम् = Her (तदीय) cry (आक्रन्दित)
    • गुहानिबद्धप्रतिशब्ददीर्घम् = That which was elongated (दीर्घ) due to the echo (प्रतिशब्द), on being confined (निबद्ध) in the cave (गुहा)
    • निवर्तयामास = drew back
    • दृष्टिम् = the sight (दृष्टि)
      • आर्तसाधोः नृपस्य = of the king (नृप), who was kindly disposed (साधु) towards the distressed (आर्त)
      • नगेन्द्रसक्ताम् = that which was attracted (सक्त) towards the lord (इन्द्र) of the mountains (नग)
    • रश्मिषु आदाय इव = as if (इव) by taking_hold (आ+दा) of the reins (रश्मिष)

कक्ष्या १? – #? – ??-1-2019

श्लोकः

मूलपाठः

पदच्छेदः

TODO

अन्वयार्थः

  • TODO

अन्वयः

TODO

आकाङ्क्षा

  • TODO

तात्पर्यम्

TODO

पदविवरणम्

  • TODO

अन्यविषयाः

  • TODO

अलङ्कारः

  • TODO

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • TODO

श्लोकः (Template)

प्रस्तावना

TODO

मूलपाठः

पदच्छेदः

TODO

सन्धिः

  • TODO

अन्वयार्थः

  • TODO

अन्वयः

TODO

आकाङ्क्षा

  • TODO

तात्पर्यम्

TODO

पदविवरणम्

  • TODO

अन्यविषयाः

  • TODO

अलङ्कारः

  • TODO

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • TODO


References

http://www.giirvaani.in/giirvaani/rv/rv_kmj/02_rv_kmj.pdf

 

Other references

 

8 thoughts on “(Video) Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s