Sarva-deva-kruta-lakshmi-stotram

सर्वदेवकृतलक्ष्मीस्तोत्रम्
Sarva-deva-kruta-lakshmi-stotram

क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे।
शुद्धसत्वस्वरूपेच कोपादिपरिवर्जिते॥

क्षमस्व भगवति अम्ब क्षमा+शीले परात्+परे शुद्ध+सत्व+स्वरूपे च कोप+आदि+परि+वर्जिते

  • हे भगवति [ प्रथमाविभक्तौ भगवती ]
  • हे अम्ब [ प्रथमाविभक्तौ अम्बा ]
  • हे क्षमाशीले [ प्रथमाविभक्तौ क्षमाशीला ]
  • हे परात्परे
  • (त्वम् अस्मान्) क्षमस्व
  • हे शुद्धसत्वस्वरूपे
  • हे कोपादिपरिवर्जिते

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्॥

उपमे सर्व+साध्वीनाम् देवीनाम् देव+पूजिते त्वया विना जगत्+सर्वम् मृत+तुल्यम् च निष्फलम्

  • हे उपमे
    • कासां उपमा ? देवीनाम्
      • कीदृशीनां देवीनाम् ? सर्वसाध्वीनाम् [ साध्वी = साधुशीला ]
    • हे देवपूजिते
    • मृततुल्यम् अस्ति
      • किं मृततुल्यम् अस्ति ? जगत्सर्वम्
      • कया विना मृततुल्यम् अस्ति ? त्वया विना
      • पुनः कथं च भवति ? निष्फलम् च

सर्वसम्पत्स्वरूपात्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधिदेवीत्वं त्वत्कलाः सर्वयोषितः॥

सर्व+सम्पत्+स्वरूपा त्वम् सर्वेषाम् सर्व+रूपिणी रास+ईश्वरि अधि+देवीत्वम् त्वत्कलाः सर्वयोषितः

  • त्वम् (असि)
    • त्वं कीदृशा असि ? सर्वसम्पत्स्वरूपा
    • पुनः त्वं कीदृशा असि ? सर्वरूपिणी
      • केषां सर्वरूपिणी ? सर्वेषाम्
    • पुनः त्वं का असि ? रासेश्वरी
    • पुनः त्वं का असि ? अधिदेवी
  • त्वत्कलाः (सन्ति)
    • कथंभूताः त्वत्कलाः ? सर्वयोषितः [ योषिता = महिला ]

कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका।
स्वर्गेच स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥

कैलासे पार्वती त्वम् च क्षीरोधे सिन्धु+कन्यका स्वर्गे च स्वर्गलक्ष्मीः त्वम् मर्त्य+लक्ष्मीः च भूतले

पाठभेदः – कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका । महालक्ष्मीश्च स्वर्गेत्वं  मर्त्यलक्ष्मीश्च भूतले॥

  • त्वम् असि
    • त्वं का असि ? पार्वती
      • कुत्र ? कैलासे
    • पुनः त्वं का असि ? सिन्धुकन्यका
      • कुत्र ? क्षीरोधे
    • पुनः त्वं का असि ? स्वर्गलक्ष्मीः / महालक्ष्मीः
      • कुत्र ? स्वर्गे
    • पुनः त्वं का असि ? मर्त्यलक्ष्मीः
      • कुत्र ? भूतले

वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती।
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्मलोकतः॥

वैकुण्ठे च महालक्ष्मीः देव+देवी सरस्वती गङ्गा च तुलसी त्वम् च सावित्री ब्रह्म+लोकतः

  • त्वम् असि
    • त्वं का असि ? महालक्ष्मीः
      • कुत्र ? वैकुण्ठे
    • पुनः त्वं का असि ? सरस्वती
      • कीदृशी सरस्वती ? देवदेवी
    • पुनश्च त्वं का असि ? गङ्गा
    • पुनश्च त्वं का असि ? तुलसी
    • पुनश्च त्वं का असि ? सावित्री
      • कुतः / कुत्र ? ब्रह्मलोकतः

कृष्णप्राणाधिदेवीत्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने॥

कृष्ण+प्राण+अधि+देवी त्वम् गो+लोके राधिका स्वयम् रासे रास+ईश्वरी त्वम् च बृन्दा बृन्दावने वने

  • त्वम् असि
    • त्वं का असि ? कृष्णप्राणाधिदेवी
    • पुनः त्वं स्वयं का असि ? स्वयं राधिका
      • कुत्र राधिका असि ? गोलोके
    • पुनः त्वं का असि ? रासेश्वरी
      • कुत्र रासेश्वरी असि ? रासे
    • पुनः त्वं का असि ? बृन्दा
      • कुत्र बृन्दा असि ? वने
        • कस्मिन् वने ? बृन्दावने

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतशृङ्गेच सुन्दरी॥

कृष्ण+प्रिया त्वम् भाण्डीरे चन्द्रा चन्दन+कानने विरजा चम्पक+वने शत+शृङ्गे च सुन्दरी

  • त्वम् असि
    • त्वं का असि ? कृष्णप्रिया
      • कुत्र ? भाण्डीरे
    • पुनः त्वं का असि ? चन्द्रा
      • कुत्र ? चन्दनकानने
    • पुनः त्वं का असि ? विरजा
      • कुत्र ? चम्पकवने
    • पुनः त्वं का असि ? सुन्दरी
      • कुत्र ? शतशृङ्गे

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥

पद्मावती पद्म+वने मालती मालती+वने कुन्द+दन्ती कुन्दवने सुशीला केतकी+वने॥

  • त्वम् असि
    • त्वं का असि ? पद्मावती
      • कुत्र ? पद्मवने
    • पुनः त्वं का असि ? मालती
      • कुत्र ? मालतीवने
    • पुनः त्वं का असि ? कुन्ददन्ती
      • कुत्र ? कुन्दवने
    • पुनः त्वं का असि ? सुशीला
      • कुत्र ? केतकीवने [தாழம்பூ]

कदम्बमाला त्वं देवी कदम्बकाननेपिच।
राजलक्ष्मीः राजगेहे गृहलक्ष्मीर्गृहे गृहे॥

कदम्ब+माला त्वम् देवी कदम्ब+कानने अपि च राजलक्ष्मीः राज+गेहे गृहलक्ष्मीः गृहे गृहे

  • त्वम् असि
    • त्वं का असि ? देवी
    • पुनः त्वं का असि ? कदम्बमाला
      • कुत्र ? कदम्बकानने
    • पुनः त्वं का असि ? राजलक्ष्मीः
      • कुत्र ? राजगेहे
    • पुनः त्वं का असि ? गृहलक्ष्मीः
      • कुत्र ? गृहे गृहे (प्रतिगृहे)

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा।
रूरूदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः॥१०

इति उक्त्वा देवताः सर्वाः मुनयः मनवः तथा रूरूदुः नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः

  • रूरूदुः
    • के रूरूदुः ? सर्वाः
      • के सर्वाः ? देवताः
        • पुनः के सर्वाः ? मुनयः
        • पुनः के सर्वाः ? मनवः
      • कथंभूताः सर्वाः ? नम्रवदनाः
        • पुनः कथंभूताः सर्वाः ? शुष्ककण्ठोष्ठतालुकाः
      • किं कृत्वा रुरुदुः ? उक्त्वा
        • किम् उक्त्वा ? .. इति

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्॥११

इति लक्ष्मी+स्तवम् पुण्यम् सर्वदेवैः कृतम् शुभम् यः पठेत् प्रातः उत्थाय सः वै सर्वम् लभेत् ध्रुवम्

  • यः वाक्यांशः
    • पठेत्
      • किं पठेत् ? .. इति लक्ष्मीस्तवम्
        • कीदृशं लक्ष्मीस्तवम् ? पुण्यम्
        • पुनः कीदृशं लक्ष्मीस्तवम् ? कृतम्
          • कथं कृतम् ? शुभम्
          • कैः कृतम् ? सर्वदेवैः
        • कः पठेत् ? यः
        • किं कृत्वा पठेत् ? उत्थाय
          • कदा उत्थाय ? प्रातः
        • सः वाक्यांशः
          • लभेत् वै [ वै = हि ]
            • कथं लभेत् ? ध्रुवम्
            • कः लभेत् ? सः
            • किं लभेत् ? सर्वम्

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्।
सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥१२

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्।
अभार्यः लभते भार्याम् विनीताम् सुसुताम् सतीम् सुशीलाम् सुन्दरीम् रम्याम् अति+सु+प्रिय+वादिनीम् पुत्र+पौत्र+वतीम् शुद्धाम् कुलजाम् कोमलाम् वराम्

  • लभते
    • कः लभते ? अभार्यः
      • किं लभते ? भार्याम्
        • कीदृशीं भार्याम् ? विनीताम्
        • पुनः कीदृशीं भार्याम् ? सुसुताम्
        • पुनः कीदृशीं भार्याम् ? सतीम्
        • पुनः कीदृशीं भार्याम् ? सुशीलाम्
        • पुनः कीदृशीं भार्याम् ? सुन्दरीम्
        • पुनः कीदृशीं भार्याम् ? रम्याम्
        • पुनः कीदृशीं भार्याम् ? अतिसुप्रियवादिनीम्
        • पुनः कीदृशीं भार्याम् ? पुत्रपौत्रवतीम्
        • पुनः कीदृशीं भार्याम् ? शुद्धाम्
        • पुनः कीदृशीं भार्याम् ? कुलजाम्
        • पुनः कीदृशीं भार्याम् ? कोमलाम्
        • पुनः कीदृशीं भार्याम् ? वराम्

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥१३

परमैश्वर्ययुक्तञ्च विद्यावन्तं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभेते श्रियम्॥१४

अपुत्रः लभते पुत्रम् वैष्णवम् चिरजीविनम् परम्+ऐश्वर्य+युक्तम् च विद्या+वन्तम् यशस्विनम् भ्रष्टराज्यः लभेत् राज्यम् भ्रष्टश्रीः लभेते श्रियम्

  • लभते
    • कः लभते ? अपुत्रः
    • कं लभते ? पुत्रम्
      • कीदृशं पुत्रम् ? वैष्णवम्
      • पुनः कीदृशं पुत्रम् ? चिरजीविनम्
      • पुनः कीदृशं पुत्रम् ? परमैश्वर्ययुक्तम्
      • पुनः कीदृशं पुत्रम् ? विद्यावन्तम्
      • पुनः कीदृशं पुत्रम् ? यशस्विनम्
    • लभते
      • कः लभते ? भ्रष्टराज्यः
      • किं लभते ? राज्यम्
    • लभते
      • कः लभते ? भ्रष्टश्रीः
      • किं लभते ? श्रियम्

हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत्।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्॥१५

हत+बन्धुः लभेत् बन्धुम् धनभ्रष्टः धनम् लभेत् कीर्ति+हीनः लभेत् किर्तिम् प्रतिष्ठाः च लभेत् ध्रुवम्

  • लभेत्
    • कः लभेत् ? हतबन्धुः
    • किं लभत् ? बन्धुम्
  • लभेत्
    • कः लभेत् ? धनभ्रष्टः
    • किं लभेत्? धनम्
  • लभेत्
    • कः लभेत् ? कीर्तिहीनः
    • किं लभेत् ? किर्तिम्
    • पुनः किं लभेत् ? प्रतिष्ठाः च [ प्रतिष्ठा = प्रसिद्धता ]
    • कथं लभेत् ? ध्रुवम्

सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम्।
हर्षानन्दकरं शाश्वद्धर्ममोक्षसुहृत्पदम्॥१६

सर्व+मङ्गलदम् स्तोत्रम् शोक+सन्ताप+नाशनम् हर्ष+आनन्द+करम् शाश्वत्+धर्म+मोक्ष+सुहृत्+पदम्॥

  • स्तोत्रम् (एतद् सर्वदेवकृतल्क्स्मीस्तोत्रम् अस्ति)
    • कीदृशम् अस्ति ? सर्वमङ्गलदम्
    • कीदृशम् अस्ति ? शोकसन्तापनाशनम्
    • कीदृशम् अस्ति ? हर्षानन्दकरम्
    • कीदृशम् अस्ति ? शाश्वद्धर्ममोक्षसुहृत्पदम्

॥ इति सर्वदेवकृतलक्ष्मीस्तोत्रं सम्पूर्णम् ॥

इति सर्व+देव+कृत+लक्ष्मी+स्तोत्रम् सम्पूर्णम्

References:

Advertisements

Sri Kamalajadayitashtakam by Sri Shivabhinava Nrisimha Bharati

Sri Kamalajadayitashtakam on Devi Sharadamba composed by Jagadguru Sri Sri Sacchidananda Shivabhinava Nrisimha Bharati Mahaswamiji

श्रीकमलजदयिताष्टकम्  श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्

॥ श्रीकमलजदयिताष्टकम् ॥

1 श्लोकः

शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।
शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १॥

पदच्छेदः

शृङ्ग+क्ष्माभृत्+निवासे शुक+मुख+मुनिभिः सेव्यमान+अङ्घ्रि+पद्मे स्व+अङ्ग+छाया+विधूत+अमृतकर+सुर+राट्+वाहने वाक्+सवित्रि शम्भु+श्रीनाथ+मुख्य+अमर+वर+निकरैः मोदतः पूज्यमाने विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते स+त्वरम् देहि मह्यम्

पदार्थः

  • क्ष्माभृत् = पर्वतः
  • अङ्घ्रिपद्मम् = पादद्वयम्
  • छाया = कान्तिः
  • विधूतम् = परिजयं कृतम्
  • अमृतकरः = चन्द्रः
  • सुर+राट् = इन्द्रः
  • सुरराड्वाहनम् = ऐरावतः
  • सवित्रि = या उत्पादयति सा
  • निकरैः = गणैः
  • मोदतः (अव्ययम् + क्रियाविशेषणम्) = सन्तोषेण
  • सत्वरम् = शीघ्रम्
  • कमलजदयिता = ब्रह्मणः प्रिया

अन्वयक्रमः

  • हे शृङ्गक्ष्माभृन्निवासे |
  • हे सेव्यमानाङ्घ्रिपद्मे
    • कैः सेव्यमाना ? शुकमुखमुनिभिः
  • हे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने |
  • हे वाक्सवित्रि ।
  • हे पूज्यमाने
    • कैः पूज्यमाना ? शम्भुश्रीनाथमुख्यामरवरनिकरैः
    • कथं पूज्यमाना ? मोदतः
  • हे कमलजदयिते |
  • त्वं देहि |
    • किं देहि ? विद्याम्
    • पुनः किं देहि ? बुद्धिम्
      • कीदृशं बुद्धिम् ? शुद्धाम्
    • कस्मै देहि ? मह्यम्
    • कथं / कदा देहि ? सत्वरम्

अन्वयः

हे शृङ्गक्ष्माभृन्निवासे | हे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे | हे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने | हे वाक्सवित्रि । हे शम्भुश्रीनाथमुख्यामरवरनिकरैः मोदतः पूज्यमाने | हे कमलजदयिते | त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि |

2 श्लोकः

कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्मप्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङगशैले ।
संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २

पदच्छेदः

कलि+आदौ पार्वती+ईशः प्रवर+सुर+गण+प्रार्थितः श्रौत+वर्त्म+प्राबल्यम् नेतु+कामः यति+वर+वपुषा आगत्य याम् शृङग+शैले  संस्थाप्य अर्चाम् प्रचक्रे बहु+विध+नुतिभिः सा त्वम् इन्दु+अर्ध+चूडा विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • श्रौतम् = श्रुतिसंबन्धम्
  • वर्त्म = मार्गम्
  • प्रचक्रे = कृतवान्
  • नुतिः = स्तुतिः
  • यतिः = संन्यासी
  • यतिवरवपुषा = आदिशङ्करभगवद्पादावतारेण

अन्वयक्रमः

  • प्रचक्रे
    • किं प्रचक्रे ? अर्चाम्
      • कैः ? बहुविधनुतिभिः
    • कः ? पार्वतीशः
      • कथम्भूतः पार्वतीशः ? प्रवरसुरगणप्रार्थितः
        • कदा प्रार्थितः ? कल्यादौ
      • पुनः कथम्भूतः पार्वतीशः ? नेतुकामः
        • किं नेतुकामः ? श्रौतवर्त्मप्राबल्यं
      • किं कृत्वा ? आगत्य
        • केन / कथम् आगत्य ? यतिवरवपुषा
      • पुनः किं कृत्वा ? संस्थाप्य
        • कुत्र / कर्मिन् क्षेत्रे संस्थाप्य ? शृङगशैले
        • कां संस्थाप्य ? याम्
          • याम् … सा का? सा त्वम् इन्द्वर्धचूडा असि
        • हे कमलजदयिते
        • विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि

अन्वयः

कल्यादौ प्रवरसुरगणप्रार्थितः, श्रौतवर्त्मप्राबल्यं नेतुकामः, पार्वतीशः यतिवरवपुषा आगत्य, शृङगशैले  यां संस्थाप्य, बहुविधनुतिभिः अर्चां प्रचक्रे, सा त्वमिन्द्वर्धचूडा (त्वम् असि) | हे कमलजदयिते | त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि |

3 श्लोकः

पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा+ त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३

पदच्छेदः

पाप+ओघम् ध्वंसयित्वा बहु+जनि+रचितम् किम् च पुण्य+आलिम् आरात् सम्पाद्य आस्तिक्य+बुद्धिम् श्रुति+गुरु+वचनेषु आदरम् भक्ति+दार्ढ्यम्  देव+आचार्य+द्विज+आदिषु अपि मनु+निवहे तावकीने नितान्तम् विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • ओघम् = राशिः
  • बहुजनिरचितम् = अनेक जन्मकृतम्
  • किं च = किन्तु
  • पुण्य+आलिम् = पुण्यसमूहः, तम्
  • आरात् = तत्क्षणमेव
  • भक्ति+दार्ढ्यम् = दृढभक्तिः, ताम्
  • तावकीने = त्वत् संबन्धम्, तस्मिन्
  • मनु+निवहे = मन्त्रसमूहः, तस्मिन्
  • नितान्तम् = अधिकम् / श्रेष्ठम्

अन्वयक्रमः

  • हे कमलजदयिते |
  • त्वं मह्यं सत्वरं देहि
    • किं कृत्वा देहि ? ध्वंसयित्वा
      • किं ध्वंसयित्वा ? पापौघम्
        • कीदृशं पापौघम् ? बहुजनिरचितं
      • किं कृत्वा देहि ? सम्पाद्य
        • किं संपाद्य ? पुण्यालिम्
        • कदा / कथं संपाद्य ? आरात्
      • किं देहि ? आस्तिक्यबुद्धिम्
        • पुनः किं देहि ? आदरम्
          • कस्मिन् विषये ? श्रुतिगुरुवचनेषु
        • पुनः किं देहि ? भक्तिदार्ढ्यम्
          • कस्मिन् विषये ? देवाचार्यद्विजादिषु
          • पुनः कस्मिन् विषये ? मनुनिवहे
            • कीदृशे मनुनिवहे ? तावकीने
          • पुनः किं देहि ? विद्याम्
            • कीदृशां विद्याम् ? नितान्तम्
          • पुनः किं देहि ? बुद्धिम्
            • कीदृशां बुद्धिम् ? शुद्धाम्

अन्वयः

हे कमलजदयिते | त्वं बहुजनिरचितं पापौघं ध्वंसयित्वा, किं च पुण्यालिम् आरात् सम्पाद्य, आस्तिक्यबुद्धिं च, श्रुतिगुरुवचनेषु आदरं च, देवाचार्यद्विजादिषु अपि, तावकीने मनुनिवहे च भक्तिदार्ढ्यं च, नितान्तं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

4 श्लोकः

विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४

पदच्छेदः

विद्या+मुद्र+अक्षमाला+अमृतघट+विलसत्+पाणि+पाथोज+जाले विद्या+दान+प्रवीणे जड+बधिर+मुखेभ्यः अपि शीघ्रम् नतेभ्यः कामा+आदीन् अन्तरान् मत्सहज+रिपु+वरान् देवि निर्मूल्य वेगात् विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • पाथोजम् = कमलम्
  • जडः = मूढः
  • बधिरः = विकर्णः

अन्वयक्रमः

  • हे विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले |
  • हे विद्यादानप्रवीणे
    • कस्मै / केभ्यः दानप्रवीणा ? जडबधिरमुखेभ्यः
      • केभ्यः सन् अपि ? नतेभ्यः अपि
    • कथं / कदा दानप्रवीणा ? शीघ्रम्
    • किं कृत्वा ददाति? निर्मूल्य
      • कान् ? कामादीन्
        • कीदृशान् कामादीन् ? मत्सहजरिपुवरान्
        • पुनः कीदृशान् कामादीन् ? अन्तरान्
      • कथं / कदा निर्मूल्य ? वेगात्
    • हे देवि
    • त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

अन्वयः

हे विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले | जडबधिरमुखेभ्यः अपि नतेभ्यः शीघ्रं मत्सहजरिपुवरान् अन्तरान् कामादीन् निर्मूल्य वेगात् विद्यादानप्रवीणे | हे देवि | त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

5 श्लोकः

कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५

पदच्छेदः

कर्मसु आत्म+उचितेषु स्थिरतरधिषणां देहदार्ढ्यम् तदर्थम् दीर्घम् च आयुः यशः च त्रिभुवन+विदितम् पाप+मार्गात् विरक्तिम् सत्सङ्गम् सत्कथायाः श्रवणम् अपि सदा देवि दत्वा कृपाब्धे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • धिषणा = बुद्धिः
  • त्रिभुवनविदितम् = त्रिभुवनेषु अपि संलक्षितम्

अन्वयक्रमः

  • हे कमलजदयिते
  • हे कृपाब्धे
  • हे देवि
  • त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि
    • किं कृत्वा ? दत्वा
      • किं / कां दत्वा ? स्थिरतरधिषणाम्
      • कस्मिन् विषये स्थैर्यम् ? कर्मसु
        • कीदृशेषु कर्मसु ? आत्मोचितेषु
      • पुनः किं कृत्वा ? दत्वा
        • किमर्थं दत्वा ? तदर्थम्
        • किं दत्वा ? देहदार्ढ्यं
          • पुनः किं दत्वा ? आयुः
            • कीदृशं आयुः ? दीर्घम्
          • पुनः किं दत्वा ? यशः
            • कीदृशं यशः ? त्रिभुवनविदितम्
          • पुनः किं दत्वा ? सत्सङ्गम्
            • कीदृशं सत्सङ्गम् ? विरक्तिम्
              • कस्मात् विरक्तिम् ? पापमार्गात्
            • पुनः किं दत्वा ? श्रवणम्
              • कस्याः श्रवणम् ? सत्कथायाः

अन्वयः

आत्मोचितेषु कर्मसु स्थिरतरधिषणां दत्वा तदर्थं देहदार्ढ्यं च दीर्घं आयुः च त्रिभुवनविदितं यशः च पापमार्गात् विरक्तिं सत्सङ्गं च सत्कथायाः श्रवणम् अपि दत्वा, हे कृपाब्धे, हे देवि, हे कमलजदयिते, सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

6 श्लोकः

मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६

पदच्छेदः

मातः त्वत्+पाद+पद्मम् न विविध+कुसुमैः पूजितम् जातु भक्त्या गातुम् न एव अहम् ईशे जडमतिः अलसः त्वत्+गुणान् दिव्य+पद्यैः मूके सेवाविहीने अपि अनुपम+करुणा+मर्भके अम्बा इव कृत्वा विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • जातु = कदाचित्
  • ईशे = शक्तः
  • मुके = वक्तुं न प्रभवति, तस्मै
  • अर्भके = बालकः, तस्मै

अन्वयक्रमः

  • हे मातः
  • हे कमलजदयिते
  • न पूजितम् अस्ति
    • किं न पूजितम् ? त्वत्पादपद्मम्
    • कैः न पूजितम् ? विविधकुसुमैः
    • केन न पूजितम् ? (मया)
    • कथं न पूजितम् ? भक्त्या
    • कदा न पूजितम् ? जातु
  • न एव ईशे
    • किं कर्तुं न ईशे ? गातुम्
      • किं गातुम् ? त्वद्गुणान्
      • कैः गातुम् ? दिव्यपद्यैः
    • कः न ईशे ? अहम्
      • कीदृशः अहम् ? जडमतिः
        • पुनः कीदृशः अहम् ? अलसः
      • सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि
        • कस्मै देहि ? मह्यम्
          • कीदृशाय मह्यम् ? मूके
          • पुनः कीदृशाय मह्यम् ? सेवाविहीने अपि
        • किं कृत्वा देहि ? अनुपमकरुणां कृत्वा
          • कथमिव करुणां कृत्वा ? अर्भके अम्बा इव

अन्वयः

हे मातः | त्वत्पादपद्मं जातु भक्त्या विविधकुसुमैः (मया) न पूजितम् | जडमतिः अलसः अहं त्वद्गुणान् दिव्यपद्यैः गातुं न एव ईशे | मूके, सेवाविहीने अपि, अर्भके अम्बा इव, अनुपमकरुणां कृत्वा, हे कमलजदयिते, मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

7 श्लोकः

शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७

पदच्छेदः

शान्ति+आद्याः सम्पदः मे वितर शुभकरीः नित्य+तत्+भिन्न+बोधम् वैराग्यम् मोक्षवाञ्छाम् अपि लघु कलय श्री+शिवा+सेव्यमाने विद्यातीर्थ+आदि+योगि+प्रवर+कर+सरोजात+सम्पूजित+आङ्घ्रे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • वितर = वितरणं कुरु
  • बोधम् = ज्ञानम्
  • नित्यतद्भिन्नबोधम् = नित्यानित्यविवेकज्ञानम्
  • मोक्षवाञ्छाम् = मुमुक्षत्वम्
  • लघु = शीघ्रम्
  • कलय = संपादयतु (अत्र ददातु इत्यर्थः)
  • आङ्घ्रिः = चरणम्
  • विद्यातीर्थः = शृङ्गगिरिपीठाधिपतिः विद्यारन्यस्वमिनः गुरुः

अन्वयक्रमः

v  वितर

Ø  कस्मै वितर ? मे

  • किं / के वितर ? सम्पदः
    • के सम्पदः ? शान्त्याद्याः
    • कीदृशः सम्पदः ? शुभकरीः
  • का वितर ? त्वम्
  • कलय
    • कदा / कथं कलय ? लघु
    • किं कलय ? नित्यतद्भिन्नबोधम्
      • पुनः किं कलय ? वैराग्यम्
      • पुनः किं कलय ? मोक्षवाञ्छाम्
    • का कलय ? त्वम्
  • हे श्रीशिवासेव्यमाने ।
  • हे विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे |
  • हे कमलजदयिते |
  • सदा त्वं मह्यं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

अन्वयः

शान्त्याद्याः शुभकरीः सम्पदः मे वितर | नित्यतद्भिन्नबोधम्, वैराग्यम्, मोक्षवाञ्छाम् अपि, लघु कलय |  हे श्रीशिवासेव्यमाने । हे विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे | हे कमलजदयिते |  मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

8 श्लोकः

सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८

पदच्छेदः

सत्+चित्+रूप+आत्मनः मे श्रुति+मनन+निदिध्यासनानि आशु मातः सम्पाद्य स्वान्तम् एतद् रुचियुतम् अनिशम् निर्विकल्पे समाधौ  तुङ्गा+तीर+अङ्क+राजत्+वर+गृह+विलसत्+चक्र+राज+आसनस्थे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • श्रुतिः = श्रवणम्
  • मननम् = चिन्तनम्
  • निदिध्यासनम् = ध्यानम्
  • आशु = शीघ्रम्
  • अनिशम् = सर्वदा
  • राजते = विराजते
  • विलसते = प्रकाशते
  • गृहम् = अत्र मन्दिरम्
  • चक्रराजासनम् = श्रीचक्रराजसिंहासनम्
  • स्वान्तम् = मानसम्
  • रुचियुतम् = आसक्तम्
  • सम्पाद्य = प्रयुज्य, साधयित्वा

अन्वयक्रमः

  • हे मातः |
    • कस्मै देहि ?
  • रुचियुतम् (कुरु)
    • किं रुचियुतम् (कुरु) ? एतद् स्वान्तम्
    • कस्मिन् स्थितौ रुचियुतम् ? समाधौ
      • कीदृशे समाधौ ? निर्विकल्पे
    • कदा रुचियुतम् (कुरु) ? अनिशम्
    • किं कृत्वा रुचियुतम् (कुरु) ? सम्पाद्य
      • किं / कानि सम्पाद्य ? श्रुतिमनननिदिध्यासनानि
      • कस्मै सम्पाद्य ? मे
        • कीदृशाय मे ? सच्चिद्रूपात्मनः
      • कथं / कदा सम्पाद्य ? आशु
    • सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि
    • हे तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे
    • हे कमलजदयिते

अन्वयः

हे मातः | सच्चिद्रूपात्मनः मे श्रुतिमनननिदिध्यासनानि आशु सम्पाद्य, निर्विकल्पे समाधौ एतद् स्वान्तं अनिशं रुचियुतं (कुरु) | हे तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे | हे कमलजदयिते | सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

इति श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् ।

References:

  1. Audio of the song in Sringeri Videos Channel
    https://www.youtube.com/watch?v=Ktyw6ZktbfI
  2. Audio of the explanation in Sanskrit by Sri Keertichandra in Suneesh Namboodiri’s channel 
    https://www.youtube.com/watch?v=CM3UUMs-KWM 
  3. Explanation in English http://sankhya+n+yoga.blogspot.in/2014/11/kamalajadayita+ashtakam+beautiful.html
  4. Detailed commentary in English (over 100 pages) by Swami Paramarthananda
    http://arshaavinash.in/index.php/download/sri-kamaladayitaashtakam-by-swami-paramarthananda/

REVIEW PENDING !

 

R.K. Narayan Short Story – PUC First Year – Lesson 7

R.K. Narayan’s Short story – PUC First Year – Lesson 7 – ज्यौतिषिकस्य दिनम् 

An Astrologer’s Day

प्रतिदिनमिव तस्मिन्नपि दिने मध्याह्ने कार्यक्षेत्रम् आसाद्य ज्यौतिषिकः स्यूतम् उद्घाट्य कार्योपकरणानि पुरतः स्थापितवान् | तानि केचन कपर्दाः तालपत्राणां बन्धश्च | विपणिमार्गस्य पार्श्वे स्थितस्य वटवृक्षस्य छायायाम् उपविश्य सः ग्राहकान् प्रतीक्षते |

Like every other day, even on that day, at midday, having reached his place of work, the astrologer opened his bag and spread out his professional equipment in front. They were some cowries (i.e., small shells) and a bundle of palmyra writing. Having sat under the shades of a tamarind tree, which was close to the road to the market, he awaited the arrival of customers.

तस्मिन् मार्गे तु आदिनं जनानां प्रवाहः | मार्गे विविधाः आपणाः | कश्चन चणकवणिक् जनान् कन्दुपक्कान् चणकान् क्रेतुं प्रबोधयति | तस्मात् चणकं क्रीत्वा केचन पार्श्वस्थात् ज्यौतिषिकात् स्वभाग्यलेखं पृच्छन्ति | ज्योतिषिकश्च चणकभर्जनाग्नेः ज्यौतिषा एव सूर्यास्तानन्तरं कार्यं निर्वहति | ज्यौतिषस्य लेशमपि अजानन् अपि ‘ज्यौतिषिकः’ ऊहाभिः मिश्रितेन सहजज्ञानेन जनानां भविष्यं वदति | तथापि जनाः तस्य वचनैः तुष्यन्ति |

In that road, there was people’s movement during the entire day. There was a variety of shops in that road. Some groundnut seller was calling out people to buy fried groundnuts. Having bought the groundnut from him, some people would find out about their destiny from the astrologer who used to sit close by. The astrologer was carrying out his work, after the sunset, by means of the light from the fire used for frying the groundnuts. Without even nothing an iota of astrology, the ‘astrologer’ was able to tell the future of the people by some guesswork mixed with general knowledge. Even then, the people were happy with his words.

Earlier, even in his dreams, he had not thought that at some point in the future life, he would become an astrologer. If he were living in the village, like his forefathers, he would have become a farmer. But the fate had decided otherwise. Without even informing the relatives, leaving his home, he arrived at the town. There, as there was no other option, he took to the profession of an astrologer.

In the second Yaama (1/8th) of the night, the groundnut vendor, having ended his business for the day, having blown out his flare, left for his house. Because of this, the astrologer’s place of work was surrounded by darkness. So he set forth to put all his things in his bag. At that time, some passerby, wanting to take some rest, approached the tamarind tree.

Thinking, “Ah! There is a possibility of getting a customer”, the astrologer said to that person, “You are extremely tired. Let’s have a chat so that you can be relieved of your tiredness of travelling.” The pedestrian, who got annoyed, having placed his hand between the astrologer’s eyes, asked, “You consider yourself to be an astrologer?” The astrologer, trying to see his hand in the dark, started to speak, “Your fortune line …”. The pedestrian, interrupting the speak of the astrologer, said, “Tell me something worthwhile”.

“If you are satisfied with my words, then you should give me twenty rupees”, said the astrologer. The pedestrian replied, “Alright! But if I am not happy, you should give me twenty rupees”. When he lighted the cigar, that moment, the pedestrian’s face was noticed by the astrologer. The astrologer felt somewhat uncomfortable.

“It is getting late. I ought to go home. So, I will give back the money that you gave me”, saying this, taking the bag, the astrologer started to get up. The pedestrian forcefully caught hold of the astrologer’s hand and said, “I was going on the road. You dragged me into this. Now, do you want to escape on your own?” Caught in the pedestrian’s grip, the astrologer shivered a little. He said, “Not today! Tomorrow I will tell”. “Not at all! The money was taken and the promise was given by you. Isn’t it? Give me an answer for just one question of mine. Will I succeed in my search?”

“No, No”, said the astrologer. “Earlier, you had a threat to your life” (Typo in book – प्राणसङ्कटम्). “Ah! Then?”

“You were wounded by a knife”.

“What else? See!” saying this, the pedestrian showed the scar in his shoulder.

“After that, you were thrown in a near-by well by the person who wounded you. Thinking that you were dead, he went somewhere”.

“Yes. If the thirsty passer-by had failed to notice me, who had fallen into the well, I would have been dead. Tell me! When will I see him? Will I be able to take revenge?” angrily asked the pedestrian, clenching his fist.

“Only in the next world! He died four months ago in a far-off town. In this life, you will not get to see him again.” On hearing the astrologer say this, the pedestrian made a groaning sound. The astrologer proceeded, “Guru Nanak is your name. Isn’t it?”

“How do you know my name?” asked the pedestrian, with amazement.

“Hey Guru Nanak!  I know everything. Just listen to me carefully. Tonight itself, you return to your village taking a train. In future, it seems that if you leave your village, then again you will have a threat to your life.”

“For what reason will I leave my village again? ‘I will probably see him sometime. Seizing his throat with my own hands, I will kill him’, thinking this, with this single goal, I was roaming from one village to another. But he escaped from my hands”, saying this, after placing some currency in the astrologer’s hand, Guru Nanak left the place.

It was midnight when the astrologer reached home. His wife was awaiting his arrival, standing at the doorstep. After having his food, he sat on the mat and said, “Hey, today I am relieved of a great load. All these years, the thought, that I had committed the sin of killing someone, kept troubling me. For this reason only, I left my home and started living here. But today I learnt that he is alive.”

“Did you try to kill someone sometime back?” asked his wife, with fear. “Yes. In my village…. At that time, I was intoxicated by youthful vigor. I had a quarrel with him. The incident happened at that time. It is time to sleep now”, the astrologer said, yawning, and stretched himself on the mat.

 

References:

R.K. Narayan1R.K. Narayan2R.K. Narayan3R.K. Narayan4R.K. Narayan5R.K. Narayan6

Kumaarasambhavam – PUC First Year – Lesson 6

Kumaarasambhavam – PUC First Year – Lesson 6 –  कन्येयं कुलजीवितम्

Shloka 1

तत्र वेत्रासनासीनान्कृतासनपरिग्रहः ।
इत्युवाचेश्वरान्वाचं प्राञ्जलिर्भूधरेश्वरः ।। ६.५३ ।।

पदच्छेदः

तत्र वेत्रासनासीनान् कृतासनपरिग्रहः इति उवाच ईश्वरान् वाचम् प्राञ्जलिः भूघरेश्वरः

अन्वयः

तत्र वेत्रासनासीनान् ईश्वरान् भूघरेश्वरः कृतासनपरिग्रहः (सन्) प्राञ्जलिः इति वाचम् उवाच ।

Word Meaning:

तत्र = there; वेत्रासनासीनान् = those were already seated in cane seats; ईश्वरान् = the divine (lit. powerful) sages; भूघरेश्वरः =  the lord of mountains; कृत+आसन+परिग्रहः (सन्) = Having taken his seat; प्राञ्जलिः (i.e., कृताञ्जलिः सन्) = with joined palms; इति वाचम् उवाच = spoke this speech;

Verse Meaning:

  1. Having taken his seat, the lord of mountains, with joined palms, addressed this speech to the divine (lit. powerful) sages who were already seated in cane seats.

मल्लिनाथव्याख्यानम्

तत्रेति । वेत्रं लताविशेषः । तत्र शुद्धान्ते वेत्रासनासीनान्वेत्रमयविष्टरोपविष्टानीश्वरान्प्रभून्मुनीन्भूधरेश्वरो हिमवान्कृतासनपरिग्रहः । उपविष्टः सन्नित्यर्थः । प्राञ्जलिः कृताञ्जलिः सन् । इत्येवं वाचमुवाच ।

Shloka 2

अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ।। ६.५७ ।।

पदच्छेदः

अवैमि पूतम् आत्मानम् द्वयेन एव द्विजोत्तमाः  मूर्ध्नि गङ्गाप्रपातेन धौतपादाऽम्भसा च वः ।

अन्वयः

हे द्विजोत्तमाः ! मूर्ध्नि गङ्गाप्रपातेन वः धौतपादाऽम्भसा च द्वयेन एव आत्मानं पूतम् अवैमि ।

Word Meaning:

हे द्विज+उत्तमाः = O you, the most eminent of Brahmanas, who are the twice born;  मूर्ध्नि = on my head; गङ्गा-प्रपातेन = the fall of the Ganges; वः = your; धौत+पाद+अम्भसा = by the water that washed the feet; च = and; द्वयेन = by the two; एव = only; आत्मानम् = myself; पूतम् = purified; अवैमि = I consider;

Verse Meaning:

O you, the most eminent of the twice born (Brahmanas), I consider myself sanctified by the two only, the fall of the Ganges on my head and by the water from your washed feet.

मल्लिनाथव्याख्यानम्

अवैमिति । हे द्विजोत्तमाः ! आत्मानं मां द्वयेनैव पूतं शुद्धमवैम्येव गच्छामि । केन द्वयेन । मूर्ध्नि गङ्गाप्रपातेन मन्दाकिनीपातेन वो युष्माकं धौतयोः क्षालितयोः पादयोरम्भसा च । गङ्गाजलवत्पादाम्भसः पावनत्वमित्यौपम्यं गम्यते । तच्च `प्रस्तुताप्रास्तुतयोः’ इति दीपकालंकारः । `प्रियः प्रियतराख्यानम्’ इति लक्षणात्प्रियोऽलंकार इति केचित् ।

Shloka 3

कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते ।
मन्ये मत्पावनायैव प्रस्थानं भवतामिह ।। ६.६१ ।।

पदच्छेदः

कर्तव्यम् वः न पश्यामि स्यात् चेत् किम् न उपपद्यते मन्ये मत्पावनाय अथ एव प्रस्थानम् भवताम् इह

अन्वयः

कर्तव्यं वो न पश्यामि, अथ स्यात् चेत् किं न उपपद्यते ? मत्पावनाय एव भवताम् इह प्रस्थानं मन्ये ।

Word Meaning:

कर्तव्यम् = to be done; वः = for you; न पश्यामि = I do not see; अथ = because; स्यात् = there is anything; चेत् = if; किम् = what; न उपपद्यते = not accomplished; मत्+पावनाय = for my purification; एव = only; भवताम् = your; इह = here; प्रस्थानम् = arrival; मन्ये = I think;

Verse Meaning:

  1. I do not see that there is anything to be done for you; and if there be any, what is there that cannot be expected to be accomplished by you? I think your arrival here is simply for my purification.

मल्लिनाथव्याख्यानम्

कर्तव्यमिति । कर्तव्यं कार्यं वो युष्माकं न पश्यामि । निःस्पृहत्वादिति भावः । अथ स्याच्चेद्विद्येत यदि, किं नोपपद्यते किं नाम न संभवति । सर्वं सुलभमेवेत्यर्थः । अथवा किमत्र प्रयोजनचिन्तयेत्याह– मत्पावनाय मच्छोधनायैव भवतामिह विषये प्रस्थानम् । इमं देशमुद्दिश्येदं प्रयाणमित्यर्थः । मन्ये तर्कयामि।

Shloka 4

एते वयममी दाराः, कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।। ६.६३ ।।

पदच्छेदः
एते वयम् अमी दाराः कन्या इयम् कुलजीवितम् ब्रूत येन अत्र वः कार्यम् अनास्था बाह्यवस्तुषु
अन्वयः

एते वयम्, अमी दाराः, कुलजीवितम् इयं कन्या । अत्र येन वः कार्यं, ब्रूत । बाह्यवस्तुषु अनास्था ।
Word Meaning:

एते = all of these; वयम् = we, all of us;  अमी = all of these; दाराः = wives; कुल+जीवितम् = family’s life; इयम् = this; कन्या = daughter; अत्र = here; येन = by whom; वः = your; कार्यम् = work; ब्रूत = tell; बाह्य-वस्तुषु = about external things; अनास्था (न+आस्था) = No regards;
Verse Meaning:

My own self; my wife here; and this my daughter, the life of your family – say which of us you want to be at your service. About external things, I speak not with any regard, (i.e., no need to say that they will definitely be at your service).

मल्लिनाथव्याख्यानम्

एत इति । किं बहुना एते वयममी दारा इयं कुलस्य जीवितं प्राणभृतां परमप्रेमास्पदमित्यर्थः । कन्या । अत्रैषां मध्ये येन जनेन वः कार्यं प्रयोजनं ब्रूत । तदिति शेषः । येन तदपि दोयत इति भावः । रत्नहिरण्यादिकं तु न मे गण्यमित्याह-बाह्यवस्तुकनकरत्नादिष्वनास्थानादरः । प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते । अदेयं न किंचिदस्तीति भावः ।

Shloka 5

अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋषयो नोदयामासुः प्रत्युवाच स भूधरम् ।। ६.६५ ।।

पदच्छेदः
अथ अङ्गिरसम् अग्रगण्यम् उदाहरणवस्तुषु ऋषयः नोदयामासुः प्रति+उवाच सः भूधरम् ।
अन्वयः

अथ ऋषयः उदाहरणवस्तुषु अग्रगण्यम् अङ्गिरसं नोदयामासुः । स भूधरम् प्रत्युवाच ।
Word Meaning:

अथ = Thereupon; ऋषयः = sages;  उदाहरणवस्तुषु = in matters to be spoken; अग्रगण्यम् = best skilled ; अङ्गिरसम् = Angiras; नोदयामासुः = urged; सः = He (Angiras); भूधरम् = mountain; प्रत्युवाच = replied;
Verse Meaning:

Thereupon the sages urged Angiras, best skilled (lit. the foremost speaker) in matters to be spoken, to speak. He replied (thus) to the mountain.

मल्लिनाथव्याख्यानम्

अथेति । अथानन्तरमृषय उदाहरणानि कथाप्रसङ्गास्त एव वस्तून्यर्थास्तेष्वग्रं नयतीत्यग्रणीस्तमग्रण्यं प्रगल्भम् । `सत्सूद्विषे’ त्यादिना क्विप् । `अग्रग्रामाभ्यां नयतेरिति वक्तव्यम्’ इति णत्वम् । अङ्गिरसं नामर्षि नोदयामासुः प्रतिवक्तुम् प्रेरयामासुः । सोऽङ्गिरा भूधरं हिमवन्तं प्रत्युवाच ।

Shloka 6

तदागमनकार्यं नः श्रृणु कार्यं तवैव तत् ।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ।। ६.७४ ।।

पदच्छेदः

तत् आगमनकार्यम् नः श्रृणु कार्यम् तव एव तत् तु श्रेयसाम् उपदेशात् वयम् अत्र अंशभागिनः

अन्वयः

तत् नः आगमनकार्यं श्रृणु । तत् कार्यं तव एव । वयं तु श्रेयसाम् उपदेशात् अत्र अंशभागिनः ।

Word Meaning:

तत् = that; नः = our; आगमन-कार्यम् = the purpose of our visit; श्रृणु = hear;

तत् = that; कार्यम् = work; तव = yours; एव = only;

वयम् = we; तु = indeed; श्रेयसाम् = in auspicious matters; उपदेशात् = by our advising; अत्र = in this; अंशभागिनः = participators;

Verse Meaning:

Hear then the business, which has brought us here. It is, however, your own business. But we are participators in this by our advising in auspicious matters (in as much as we have to advise you in what is to your benefit).

मल्लिनाथव्याख्यानम्

तदिति । तत्तस्मान्नोऽस्माकमागमनस्य कार्यं प्रयोजनं श्रृणु । तत्कार्यं च तवैव, न त्वस्माकमित्यवधारणार्थ एवकारः । वयं तु श्रेयसामुपदेशादत्र कार्येंऽशभागिनः । त्वमेवात्र फलभाग्वयमुपदेष्टार इति भावः ।

Shloka 7

स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणाम् ।
वृणुते वरदः शंभुरस्मत्संक्रामितैः पदैः ।। ६.७८ ।।

पदच्छेदः

सः ते दुहितरम् साक्षात् साक्षी विश्वस्य कर्मणाम् वृणुते वरदः शम्भुः अस्मत्संक्रामितैः पदैः
अन्वयः

विश्वस्य कर्मणां साक्षी वरदः स शम्भुः अस्मत्संक्रामितैः पदैः ते दुहितरं साक्षात् वृणुते ।

Word Meaning:

विश्वस्य = The world’s; कर्मणाम् = actions; साक्षी = witness; वरदः = the giver of the desired objects; सः = he; शम्भुः = Shambhu i.e., Shiva; अस्मत्-सङ्क्रामितैः = that which is addressed through us; पदैः = words; ते = your; दुहितरम् = daughter; साक्षात् = verily; वृणुते = asks;

Verse Meaning:

That Shambhu himself, the witness of the doings of the world and the giver of the desired objects, asks for your daughter through (lit. by words addressed through) us.

मल्लिनाथव्याख्यानम्

स इति । विश्वस्य जगतः कर्मणां साक्षी द्रष्टा । `साक्षाद्द्रष्टरि संज्ञायाम्’ इतिनिप्रत्ययः । वरानिष्टान्ददातीति वरदः । `आतोऽनुपसर्गे कः’ इति कप्रत्ययः । स पूर्वोक्तः शंभुरस्मत्संक्रामितैः पदैरस्मासु निवेशितैर्वाक्यैस्ते दुहितरं साक्षाद् वृणुते । अस्मन्मुखेन स्वयमेव याचत इत्यर्थः ।

Shloka 8

तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता ।। ६.७९ ।।

पदच्छेदः

तम् अर्थम् इव भारत्या सुतया योक्तुम् अर्हसि अशोच्या हि पितुः कन्या सद्भर्तृप्रतिपादिता
अन्वयः

भारत्या अर्थम् इव तं सुतया योक्तुम् अर्हसि । हि सद्भर्तृप्रतिपादिता कन्या पितुः अशोच्या ।

Word Meaning:

भारत्या = with words; अर्थम् = meaning; इव = like that; तम् = him (Shiva); सुतया = with your daughter; योक्तुम् = to unite; अर्हसि = you ought to do;

हि = Indeed; सत्+भर्तृ+प्रतिपादिता = given to a good husband; कन्या = daughter; पितुः = father’s; अशोच्या = not a matter of regret

Verse Meaning:

  1. You will then do well to unite him with your daughter like sense with words; for a daughter given to a good husband is not to be regretted by (is no matter of regret for) the father.

मल्लिनाथव्याख्यानम्

तमिति । तं शंभुं भारत्या वाचार्थमभिधेयमिव सुतया दुहित्रा योक्तुं संघटयितुमर्हसि । अत्र वागर्थयोरुपमानत्वसामर्थ्याच्छिवयोर्नित्ययोगो विवक्षित इत्युक्तम् `वागर्थाविव संपक्तौ’ (रघुवंशे १/१) इत्यत्रापि । तथाहि सद्भर्त्रे प्रतिपादिता दत्ता कन्या पितुरशोच्या ।

Shloka 9

यावन्त्येतानि भूतानि स्थावराणि चराणि च ।
मातरं कल्पयन्त्वेनामीशो हि जगतः पिता ।। ६.८० ।।

पदच्छेदः
यावन्ति एतानि भूतानि स्थावराणि चराणि च मातरम् कल्पयन्तु एनाम् ईशः हि जगतः पिता ।

अन्वयः

स्थावराणि चराणि च यावन्ति एतानि भूतानि एनां मातरं कल्पयन्तु, हि ईशः जगतः पिता ।

Word Meaning:

स्थावराणि = immovable; चराणि = movable;  च = and; यावन्ति = as many as; एतानि = all of these; भूतानि = creatures; एनाम् = her; मातरम् = mother; कल्पयन्तु = let them consider;

हि = indeed; ईशः = Shiva; जगतः = world’s; पिता = father

Verse Meaning:

Let all these creatures, immovable and movable – as many as they are – consider her their mother; for Shiva is the father of the universe.

मल्लिनाथव्याख्यानम्

यावन्तीति । स्थावराणि चराणि च यावन्त्येतानि भूतानि सन्तीति शेषः । सर्वाणि भूतानीत्यर्थः । एनां ते दुहितरं मातरं कल्पयन्तु । हि यस्मादीशो जगतः पिता । पितृदारेषु मातृभावो न्याय्य इति भावः ।

Shloka 10

उमा वधूर्भवान्दाता, याचितार इमे वयम् ।
वरः शंभुरलं ह्येष त्वत्कुलोद्भूतये विधिः ६.८२ ।।

पदच्छेदः

उमा वधूः भवान् दाता याचितारः इमे वयम् वरः शम्भुः अलम् हि एष विधिः त्वत्कुलोद्भूतये
अन्वयः

उमा वधूः, भवान् दाता, इमे वयं याचितारः, शम्भुः वरः, हि एष विधिः त्वत्कुलोद्भूतये अलम् ।

Word Meaning:

उमा = Parvathi; वधूः  = bride; भवान् = you; दाता = giver; इमे = these; वयम् = we; याचितारः = solicitors; शम्भुः = Shiva; वरः = bridge groom; हि = indeed; एषः = This; विधिः = destiny; त्वत्+कुल+उद्भूतये = for the exaltation of your family; अलम् = enough;

Verse Meaning:

Uma is the bride; you, her giver in marriage; and here are we solicitors (for her); and Shambhu is the bridge groom; this combination (of circumstances) is enough for the exaltation of your family.

मल्लिनाथव्याख्यानम्

उमेति । उमा वधूः । इमे वयं याचितारः प्रार्थकाः । शंभुर्वरो वोढा । एष विधिरेषा सामग्री त्वत्कुलस्योद्भूतये उच्छ्रयायालं पर्याप्तं हि । `नमः स्वस्तिस्वाहास्वधे-‘ त्यादिना चतुर्थी ।

Shloka 11

अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
सुतासंबन्धविधिना भव विश्वगुरोर्गुरुः ।। ६.८३ ।।

पदच्छेदः
अस्तोतुः स्तूयमानस्य वन्द्यस्य अनन्यवन्दिनः सुतासम्बन्धविधिना भव विश्वगुरोः गुरुः  

अन्वयः

अस्तोतुः स्तूयमानस्य वन्द्यस्य अनन्यवन्दिनः विश्वगुरोः सुतासम्बन्धविधिना गुरुः भव ।

Word Meaning:

अस्तोतुः = his, who does not praise any one; स्तूयमानस्य = his, who is praised; वन्द्यस्य  = is adored; अनन्यवन्दिनः = his, who adores none; विश्वगुरोः = his, the father of the universe; सुता-सम्बन्ध-विधिना = By forming the alliance through your daughter, गुरुः = father; भव = you become;

Verse Meaning:

By forming the alliance through your daughter, be the father of the father of the universe, who does not praise any one, but is praised by all, who adores none but is adored by all.

मल्लिनाथव्याख्यानम्

अस्तोतुरिति । स्वयमन्यस्तोता न भवतीत्यस्तोतुः, किंतु स्तूयमानस्य सर्वस्तुत्यस्य, वन्द्यस्य, जगद्वन्द्यस्य स्वयमन्यं न वन्दत इत्यनन्यवन्दिनो विश्वगुरोर्देवस्य सुतासंबन्धविधिना यौवनसंबन्धाचरणेन गुरुर्भव । यो नान्यं स्तौति न वन्दते तस्यापि त्वं स्तुत्यो वन्द्यश्चेत्यहो तव भाग्यवत्तेत्यर्थः ।

Shloka 12

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ।। ६.८४ ।।

पदच्छेदः
एवंवादिनि देवर्षौ पार्श्वे पितुः अधोमुखी लीलाकमलपत्राणि गणयामास पार्वती

अन्वयः

देवर्षौ एवंवादिनि (सति) पार्वती पितुः पार्श्वे अधोमुखी (सती) लीलाकमलपत्राणि गणयामास ।

Word Meaning:

देवर्षौ एवम्+वादिनि (सति) = While the sage was speaking thus; पार्वती = Parvathi; पितुः = father’s; पार्श्वे = by the side; अधोमुखी (सती) = looking down; लीला+कमल+पत्राणि = petals of her sportive lotus; गणयामास = counted;

Verse Meaning:

While the sage was speaking thus, Parvati, who was by her father’s side, counted the petals of her sportive lotus with a down-cast look.

मल्लिनाथव्याख्यानम्

एवमिति । देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती । लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ । लज्जावशात्कमलदलगणनाव्याजेन हर्ष जुगोपेत्यर्थः । अनेनावहित्याख्यः संचारी भाव उक्तः । तदुक्तम्- `अवहित्था तु लज्जादेर्हर्षादाकारगोपनम्’ । इति ।

Shloka 13

शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत ।
प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ।। ६.८५ ।।

पदच्छेदः

शैलः सम्पूर्णकामः अपि मेनामुखम् उदैक्षत प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटम्बिनः
अन्वयः

शैलः सम्पूर्णकामः अपि मेनामुखम् उदैक्षत, (हि) प्रायेण कुटम्बिनः कन्यार्थेषु गृहिणीनेत्राः ।

Word Meaning:

शैलः = Mountain; सम्पूर्णकामः = One whose desire was entirely fulfilled; अपि = even; मेनामुखम् = the face of Mena; उत्+ऐक्षत  = looked up;

प्रायेण = Generally; कुटम्बिनः = householders; कन्यार्थेषु = daughters’ ; गृहिणीनेत्राः = they whose eyes are fixed on their wives;

Verse Meaning:

The mountain, though his desire was entirely fulfilled, looked up to the face of Mena. Generally in matters relating to daughters householders are guided by their wives (lit. have wives for their guiding eyes).

मल्लिनाथव्याख्यानम्

शैल इति । शैलो हिमवान्संपूर्णकामोऽपि । दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत । उचितोत्तरजिज्ञासयेति भावः । तथा हि । प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यं ज्ञानकारणं येषां ते तथोक्ताः । कलत्रप्रधानवृत्तय इत्यर्थः ।

Shloka 14

इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
आददे वचसामन्ते मङ्गलालंकृतां सुताम् ।। ६.८७ ।।

पदच्छेदः
इदम् अत्र उत्तरम् न्याय्यम् इति बुद्ध्या विमृश्य सः आददे वचसाम् अन्ते मङ्गलाऽलंकृताम् सुताम्

अन्वयः

सः वचसाम् अन्ते अत्र इदम् न्याय्यम् उत्तरम् इति बुद्ध्या विमृश्य मङ्गलाऽलंकृताम् सुताम् आददे ।

Word Meaning:

सः = He; वचसाम् = speech’s; अन्ते = at the conclusion; अत्र = there; इदम् = this; न्याय्यम् = proper; उत्तरम् = reply; इति =  that; बुद्ध्या = in his mind; विमृश्य = having reflected; मङ्गल+अलंकृताम् = auspiciously adorned; सुताम् = daughter; आददे = took;

Verse Meaning:

  1. He, having thought in his mind after reflection – ‘this would be the proper reply to this’ – took hold of his daughter, auspiciously adorned, at the conclusion of the (sage’s) speech.

मल्लिनाथव्याख्यानम्

इदमिति । स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां सुतामाददे हस्ताभ्यां जग्राह ।

Shloka 15

एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ।। ६.८८ ।।

पदच्छेदः

एहि विश्वात्मने वत्से  भिक्षा असि परिकल्पिता अर्थिनः मुनयः प्राप्तम् गृहमेधिफलम् मया ।
अन्वयः

(हे) वत्से ! एहि । (त्वं) विश्वात्मने भिक्षा परिकल्पिता असि । अर्थिनो मुनयः । मया गृहमेधिफलं प्राप्तम् ।

Word Meaning:

वत्से = O you, my daughter; एहि = come; विश्वात्मने = to him, who is the soul of the universe; भिक्षा = alms; परिकल्पिता = have been made; असि = you are;

अर्थिनः = The petitioners; मुनयः = the sages; मया = by me; गृहमेधि+फलम् = the fruit of a householder’s life; प्राप्तम् = has been obtained;

Verse Meaning:

  1. Come on, dear daughter; Thou art made alms to Shiva, the soul of the universe. The sages are the petitioners. I have obtained the fruit of a householder’s life.

मल्लिनाथव्याख्यानम्

एहीति । हे वत्से पुत्रि ! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परिकल्पितासि निश्चितासि । `रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः’ । इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ।

 

References:

 

 

Garuda Gamana Tava Charana – Swami Bharati Tirtha

Verse 1

गरुडगमन तव चरणकमलमिह

मनसि लसतु मम नित्यम् | मनसि लसतु मम नित्यम् ॥

मम तापमपाकुरु देव |  मम पापमपाकुरु देव ॥

garuḍagamana tava caraṇakamalamiha

manasi lasatu mama nityam | manasi lasatu mama nityam ॥

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning :

  • garuḍa-gamana = Oh (God), who travels on Garuda;
  • tava = your; caraṇa-kamalam = lotus feet; lasatu = let (it) shine; nityam = always; iha = here; mama manasi = in my mind;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे गरुडगमन | तव चरणकमलम् इह मम मनसि नित्यं लसतु | मम मनसि नित्यम् लसतु | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 2

  1. जलजनयन विधिनमुचिहरणमुख-

विबुधविनुतपदपद्म | विबुधविनुतपदपद्म

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. jalajanayana vidhinamuciharaṇamukha

vibudhavinutapadapadma | vibudhavinutapadapadma

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning:

  • jalaja-nayana = O (God), whose eyes are like lotus
  • pada-padma = O (God), who has lotus feet; vinuta = that is worshipped by; vibudha = numerous learned ones ; mukha = starting with; vidhi = Brahma (and); namuci-haraṇa = Indra, the killer of Namuci
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे जलजनयन | हे विधिनमुचिहरणमुखविबुधविनुतपदपद्म | हे विबुधविनुतपदपद्म | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 3

  1. भुजगशयन भव मदनजनक मम

जननमरण-भयहारी | जननमरण-भयहारी

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhujagaśayana bhava madanajanaka mama

jananamaraṇa-bhayahārī | jananamaraṇa-bhayahārī

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning

  • bhujaga-śayana = O (God), whose bed is the serpent;
  • madana-janaka = O (God), the father of Kaama;
  • bhava = Become; mama = my; bhaya-hārī = dispeller of the fear; janana-maraṇa = of life and death;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे भुजगशयन | हे मदनजनक | मम जननमरणभयहारी भव | जननमरणभयहारी (भव) | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 4

  1. शङ्खचक्रधर दुष्टदैत्यहर

सर्वलोक-शरण | सर्वलोक-शरण |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. śaṅkhacakradhara duṣṭadaityahara

sarvaloka-śaraṇa | sarvaloka-śaraṇa

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • śaṅkha-cakra-dhara = O (God), who adorns the conch and the disc;
  • duṣṭa-daitya-hara = O (God), the destroyer of the wicked Asuras;
  • sarva-loka-śaraṇa = O (God), the sole refuge for the entire world;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे शङ्खचक्रधर |  हे दुष्टदैत्यहर | हे सर्वलोकशरण | हे सर्वलोकशरण | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 5

  1. अगणित-गुणगण अशरणशरणद

विदलित-सुररिपुजाल | विदलित-सुररिपुजाल

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. agaṇita-guṇagaṇa aśaraṇaśaraṇada

vidalita-suraripujāla | vidalita-suraripujāla

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • agaṇita-guṇa-gaṇa = O (God), who possesses a collection of innumerable good qualities
  • aśaraṇa-śaraṇada = O (God), who is the giver of protection, to those without any refuge
  • vidalita-sura-ripu-jāla = O (God), who destroyed the collection of Asuras, the enemies of the Devas
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे अगणितगुणगण | हे अशरणशरणद |  हे विदलितसुररिपुजाल | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 6

  1. भक्तवर्यमिह भूरिकरुणया

पाहि भारतीतीर्थम् | पाहि भारतीतीर्थम् |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhaktavaryamiha bhūrikaruṇayā

pāhi bhāratītīrtham | pāhi bhāratītīrtham

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • pāhi = You protect; iha = here; bhūri-karuṇayā = with overwhelming compassion; bhāratītīrtham = Sri Bharati Tirtha Swami; bhakta-varyam = who is a principal devotee;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

(त्वम्) इह भूरिकरुणया भक्तवर्यं भारतीतीर्थं पाहि | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

References:

 

  1. Dance Video – https://www.youtube.com/watch?v=TVxB1xde5lg
  2. Sanskrit Text –   https://meerasubbarao.wordpress.com/2017/04/26/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%97%E0%A4%AE%E0%A4%A8-%E0%A4%A4%E0%A4%B5-%E0%A4%9A%E0%A4%B0%E0%A4%A3%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A4%AE%E0%A4%BF%E0%A4%B9-garudagamana-tava-charanakamalami/
  3. English Meaning – http://www.speakingtree.in/blog/maha-vishnu-stotra