GopaalaVimshatih

गोपालविंशतिः श्रीवेदान्तदेशिकैः विरचितम्

Gopaala-Vimshatih by Shreemad Vedaantadeshika

प्रस्तोत्री – श्रीमती  सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

Paintings Copyrights @krishnafortoday.com and Sri. Keshav

The full text is available here – https://nivedita2015.wordpress.com/2021/05/15/gopaalavimshatih-anvaya/

Thanks to Smt. Shubha Tirumale for reviewing the videos before these are made public.

Link to the Explanation in Tamil

Link to the Playlist

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

कृतिकारपरिचयः

  • श्रीवेङ्कटनाथः, स्वामिवेदान्तदेशिकः
  • जन्म – इतः ७५० वर्षेभ्यः पूर्वं,
    क्री.प. 1268 A.D. विभवाब्दे ४३७०
  • बहुभाषाविद्, तर्क-व्याकरण-मीमांसा-न्याय-गणित-शिल्पकलादिषु विपुलज्ञानम् । वाग्मी । वादेषु शूरः ।

ग्रन्थाः

  • स्तोत्राणि – २८ – हयग्रीवास्तोत्रं, गोपालविंशतिः, रघुवीरगद्यं सुदर्शनाष्टकम् इत्यादीनि
  • काव्यानि – यादवाभ्युदयमहाकाव्यम्, हंससन्देशम्, पादुकासहस्रम्, सुभाषितनीवी
  • रूपकम् – सङ्कल्पसूर्योदयः
  • अशीत्यधिकाः रहस्यग्रन्थाः, वेदान्तग्रन्थाः, अनुष्ठानग्रन्थाः, तमिळ्-प्रबन्धाः च 
  • १० व्याख्यानग्रन्थाः – तेषु भगवद्रामानुजाचार्येण विरचितस्य गीताभाष्यस्य तात्पर्यचन्द्रिका इति व्याख्यानं प्रसिद्धम् ।

To access the required shloka directly mention the shloka number at the end like https://nivedita2015.wordpress.com/gopaalavimshatih/#shloka02

For more details like the Padachcheda, Anvayakrama and Chandas, refer this page.

https://nivedita2015.wordpress.com/gopaalavimshatih-anvaya

Shloka #01

वन्दे वृन्दावनचरं वल्लवीजनवल्लभम्

जयन्तीसम्भवं धाम वैजयन्तीविभूषणम्

[अन्वयः]

बृन्दावन-चरं वल्लवी-जन-वल्लभं जयन्ती-सम्भवं धाम वैजयन्ती-विभूषणम् (अहं) वन्दे ।

[पदार्थः]

  • वृन्दावनचरम् = बृन्दावने सञ्चरन्तम्
  • वल्लवीजनवल्लभम् = व्रजयोषितानां प्रियम्
  • जयन्तीसम्भवम् = ‘जयन्ती’ नाम शुभतिथ्यां जातः (“जयं पुण्यञ्च तनुते जयन्तीं तेन तां विदुः”)
  • धाम = स्वप्रकाशितम् / तेजः
  • वैजयन्तीविभूषणम् = वनमालालङ्कृतम्
  • वन्दे = प्रणमामि

[तात्पर्यम्]

बृन्दावने संचारन्तं, व्रजयोषितानां प्रियं, जयन्त्याख्यपुण्यतिथौ आविर्भूतं, स्वप्रकाशतेजोमयं, वनमालीधारिणम् (अहं) वन्दे !

[विशेषांशाः]

  • बृन्दावनम् =  बृन्दानाम् अवनम् /  बृन्दानां वनम् / ‘बृन्दा’ नाम वनम्
  • जयन्ती, वैजयन्ती  इत्यत्र अनुप्रासः शब्दालङ्कारः

Correction in the video:
Around the 50th second, it should be उपासनादीनाम् and not उपासादीनाम् !

Shloka #02

वाचं निजाङ्क-रसिकां प्रसमीक्षमाणो

वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः ।

वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके

बद्धासनो जयति वल्लव-चक्रवर्ती ॥ २ ॥

[पदविभागः]

वाचम् निजाङ्क-रसिकाम् प्रसमीक्षमाणः वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके बद्धासनः जयति वल्लव-चक्रवर्ती ।

[अन्वयक्रमः]

  • जयति
    • कः जयति ? वल्लव-चक्रवर्ती
    • कीदृशः वल्लव-चक्रवर्ती ? प्रसमीक्षमाणः
      • कां प्रसमीक्षमाणः ? वाचम्
        • कीदृशीं वाचम् ? निजाङ्क-रसिकाम्
    • पुनः कीदृशः वल्लव-चक्रवर्ती ? वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः
    • पुनः कीदृशः वल्लव-चक्रवर्ती ? बद्धासनः
      • कुत्र बद्धासनः ? वर-पुण्डरीके
        • कीदृशे वर-पुण्डरीके ? वर्ण-त्रिकोण-रुचिरे

[अन्वयः]

वाचं निज-अङ्क-रसिकां प्रसमीक्षमाणः, वक्त्र-अरविन्द-विनिवेशित-पाञ्चजन्यः, वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके बद्धासनः, वल्लव-चक्रवर्ती जयति ।

[ पदार्थः]

  • वाचम् = वाग्देवतां / तन्नामिकां काञ्चन गोपिकाम्
  • निजाङ्करसिकाम् = स्व-उत्सङ्ग-वर्तन-अभिलाषिणीम्
  • प्रसमीक्षमाणः = तदेकदृष्ट्या विनम्य पश्यन्
  • वक्त्रारविन्दे = मुखपुण्डरीके
  • विनिवेशितः = न्यस्तः
  • पाञ्चजन्यः = दुग्धपानार्थं शिशोः उपयुज्यमानः पात्रविशेषः
  • वर्णत्रिकोणरूचिरे = वर्णात्मके (अक्षरत्मिके) त्रिकोणाकारे
  • (पाठान्तरम्) वर्णत्रिकेणरूचिरे = (गो, पा, ल इति) वर्णत्रयेन शोभायमानः
  • वरपुण्डरीके = श्रेष्ठे पद्माकारे
  • बद्धासनः = बद्धम् आसनं यस्य सः
  • वल्लवचक्रवर्ती = गोपबालानां सार्वभौमः
  • जयति = लसति (सर्वोत्कर्षेण वर्तते)

[तात्पर्यम्]

निजोत्सङ्गे संस्थाप्य शिशुं पाञ्चजन्येन दुग्धं पाययन्तीं मातरं तदेकदृष्ट्या पश्यन् अस्ति कृष्णः । क्षीरपानानन्तरं माता तं त्रिकोणात्मिकरक्षया बद्धायां पद्माकारदोलायां शाययति । तदा सः शिशुः उत्थायोपविष्टः वल्लवीनां सार्वभौमः लसति ।

[पारमार्थिकः अर्थः]

स्वोत्सङ्गे उपविश्य कृष्णमेव पश्यन्तीम्, अनुभवन्तीं च वाग्देवीं दृष्ट्वा, तां रञ्जयितुं पाञ्चजन्येन प्रणवध्वनिम् आध्मापयति भगवान् । एवम् अष्टदलपद्मासने उपवष्टः जयतु ।

Shloka #03

आम्नायगन्धिरुदितस्फुरिताधरोष्ठम्‌
आस्राविलेक्षणमनुक्षणमन्दहासम्‌ ।
गोपालडिम्भवपुषं कुहनाजनन्याः
प्राणस्तनन्धयमवैमि परं पुमांसम्‌ ॥ ३ ॥

[पदच्छेदः] आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्ठम्‌, आस्र-आविल-ईक्षणम्, अनुक्षण-मन्दहासम्, गोपाल-डिम्भ-वपुषम्, कुहना-जनन्याः, प्राण-स्तनन्धयम्, अवैमि, परम्, पुमांसम्‌ ।

[अन्वयः] आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्ठम्‌, आस्र-आविल-ईक्षणम्, अनुक्षण-मन्दहासं, गोपाल-डिम्भ-वपुषं, कुहना-जनन्याः प्राण-स्तनन्धयं, परं पुमांसम्‌ अवैमि ।

[पदार्थः]
आम्नायः = वेदः
गन्धिः = सुरभिः
रुदितम् = रोदनम् [*रुचिरम् = मनोज्ञम्]
स्फुरितम् = कम्पितम्
अधरोष्ठम्‌ = अधरञ्च ओष्ठं च, तयोः समाहारः
आस्रम् = अश्रुः
आविलम् = कलुषितम्
ईक्षणम् = नयम्
अनुक्षणम् = उत्तरक्षणम्
मन्दहासः = मन्दस्मितः
गोपाल-डिम्भ-वपुः = गोपबालस्य शरीरं यस्य
कुहना = मिथ्या
जननी = माता
प्राणस्तनन्धयः = (सामान्यार्थः) प्राणादपि प्रियः स्तनपायी
प्राणस्तनन्धयः = (अत्र) स्तन्येन सह यः प्राणानपि पीतवान्
परम् = उत्कृष्टतमम्
पुमांसम्‌ = पुरुषम्
अवैमि = जानामि

[तात्पर्यम्] गोपबालरूपे विद्यमानं मनुष्यवेषधारिणं, रोदनेन तन्मुखाज्जनितवेदसुरभिसंयुक्तं, शिशुस्वभावतः रोदनोत्तरक्षणे एव मन्दस्मितं, मिथ्यामातुः पूतनायाः स्तनपानव्याजेन प्राणपानं कृतवनतं पुरुषोत्तमं जानामि |

Shloka #04

आविर्भवत्वनिभृताभरणं पुरस्तात्‌

आकुञ्चितैकचरणं निभृतान्यपादम्‌ ।

दध्ना निमन्थमुखरेण निबद्धतालं

नाथस्य नन्दभवने नवनीतनाट्यम्‌ ॥

[अन्वयः] अनिभृत-आभरणम्, आकुञ्चित-एक-चरणं, निभृत-अन्यपादं, दध्ना निमन्थ-मुखरेण निबद्ध-तालं, नन्दभवने नाथस्य नवनीत-नाट्यं पुरस्तात्‌ आविर्भवतु ।

•आकुञ्चित-एक-चरणम् =आवर्जितः एकः पादः (यस्य तत्)
•निभृत-अन्यपादम्‌ = निश्चलः अन्यः पादः (यस्य तत्)
•अनिभृत-आभरणम् = सञ्चालिताः  काञ्चीनूपुरादि अलङ्कारसामग्रीः (यस्मिन् तत्)
•दध्ना = गोदोहात् उद्भूतं दधिः, तेन

•निमन्थ-मुखरेण = (दधेः) सञ्चालनेन जनितः  ध्वनिः, तेन
•निबध्दतालम् = सम्मिलितः तालः (यस्य तत्)
•नन्द-भवने = नन्दगोपस्य गृहे •नाथस्य = स्वामिनः
•नवनीत-नाट्यम्‌ = नवनीताय क्रियमाणं नाट्यम्
•पुरस्तात् = (मत्) पुरतः
•आविर्भवतु = अक्षिसात् भवतु

[तात्पर्यम्]

एकं पादं कुटिलीकृत्य अन्यत् भूमौ संस्थाप्य, पुनः कुटिलीकृतं पादं भूमौ न्यस्य अन्यपादं आवर्ज्य पर्यायेण पादयोः विन्यासप्रदर्शनेन नवनीतप्राप्त्यर्थं नन्दगोपस्य गृहे श्रीकृष्णेन एकः नाट्यविशेषः कृतः । तत्काले तेन धृतानाम् आभरणानां सञ्चालनेन जनितशब्दः अपि च तत्र दधिनिमन्थनघोषः इति अनयोः मेलनेन सञ्जातशब्दविशेषः तालायते । तादृशं मत्स्वामिना कृतं ‘नवनीतनाट्यं’ मत्पुरतः आविर्भवतु ।

Shloka #05

हर्तुं कुम्भे विनिहितकरः स्वादुहैयङ्गवीनं
दृष्ट्वा दामग्रहणचटुलां मातरं जातरोषाम्‌ ।
पायादीषत् प्रचलितपदो नापगच्छन्‌ न तिष्ठन्‌
मिथ्यागोपः सपदि नयने मीलयन्‌ विश्वगोप्ता ॥

[अन्वयरचना]
पायात् ।
कः पायात् ? विश्व-गोप्ता
कीदृशः विश्व-गोप्ता ? मिथ्या-गोपः
पुनः कीदृशः विश्व-गोप्ता ? विनिहित-करः
कुत्र विनिहित-करः ? कुम्भे
किं कर्तुं विनिहित-करः ? हर्तुम्
किं हर्तुम् ? स्वादु-हैयङ्गवीनम्
पुनः कीदृशः विश्व-गोप्ता ? प्रचलित-पदः
कथं प्रचलित-पदः ? ईषत्
किं कृत्वा प्रचलित-पदः ? दृष्ट्वा
कां दृष्ट्वा ? मातरम्
कीदृशीं मातरम् ? जात-रोषाम्
पुनः कीदृशीं मातरम् ? दाम-ग्रहण-चटुलाम्
किं कुर्वन् विश्व-गोप्ता ? न अपगच्छन्‌
पुनः किं कुर्वन् विश्व-गोप्ता ? न तिष्ठन्‌
पुनः किं कुर्वन् विश्व-गोप्ता ? मीलयन्‌
के (द्वे) मीलयन्‌ ? नयने
कदा मीलयन्‌ ? सपदि

[अन्वयः] स्वादु-हैयङ्गवीनं हर्तुं कुम्भे विनिहित-करः, दाम-ग्रहण-चटुलां जात-रोषां मातरं दृष्ट्वा, ईषत् प्रचलित-पदः, न अपगच्छन्‌, न तिष्ठन्‌, सपदि नयने मीलयन्‌ मिथ्या-गोपः विश्व-गोप्ता पायात् ।

[प्रतिपदार्थः]
स्वादु-हैयङ्गवीनम् = रुचिकरं नवनीतम् ।
हर्तुम् = चोरयितुम् ।
कुम्भे = (नवनीतस्य) भाण्डे ।
विनिहित-करः = सम्यक् न्यस्तः हस्तः ।
दाम-ग्रहण-चटुलाम् = रज्जुबन्धने समर्थाम् ।
जात-रोषाम् = कृद्धाम् ।
मातरम् = यशोदाम् । दृष्ट्वा = वीक्ष्य ।
ईषत् = स्वल्पप्रमाणेन ।
प्रचलित-पदः = गमनोपक्रमे पादसञ्चालनम् ।
न अपगच्छन् = पलायनं निवार्य ।
न तिष्ठन् = न वा तत्रैव स्थित्वा ।
सपदि = झटिति ।
नयने = अक्षिद्वयम् ।
मीलयन् = पिधाय ।
मिथ्या-गोपः = गोपबालवेषधारी ।
विश्व-गोप्ता = लोकसंरक्षकः ।
पायात् = रक्षतु ।

[तात्पर्यम्] रुचिकरं नवनीतं चोरयन् कुम्भे न्यस्तहस्तः सन्, रज्जुबन्धने समर्थया कृद्धया मात्रा लक्षितः बालः, गातुं वा तत्रैव स्थातुं वा असमर्थतया यः नेत्रे निमीलितवान् सः गोपबालवेषधारी, विश्वसंरक्षकः पातु ।

Shloka #06

व्रजयोषिदपाङ्गवेधनीयं
मधुराभाग्यमनन्यभोग्यमीडे ।
वसुदेववधूस्तनन्धयं तत्‌
किमपि ब्रह्मकिशोरभावदृश्यम्‌ ॥ ६ ॥

[पदच्छेदः] व्रज-योषित्-अपाङ्ग-वेधनीयम् मधुरा-भाग्यम् अनन्य-भोग्यम् ईडे वसुदेव-वधू-स्तनन्धयम् तत्‌ किमपि ब्रह्म-किशोर-भाव-दृश्यम्‌ ।

[अन्वयरचना]
(अहम्) ईडे (ईड् ईडँ स्तुतौ धातुः)
किं ईडे ? किमपि तत्
किं तत् ? ब्रह्म-किशोर-भाव-दृश्यम्‌
कीदृशं तत् ? व्रज-योषित्-अपाङ्ग-वेधनीयम्
पुनः कीदृशं तत् ? मधुरा-भाग्यम्
पुनः कीदृशं तत् ? अनन्य-भोग्यम्
पुनः कीदृशं तत् ? वसुदेव-वधू-स्तनन्धयम्

[अन्वयः] व्रज-योषित्-अपाङ्ग-वेधनीयं मधुरा-भाग्यम् अनन्य-भोग्यं वसुदेव-वधू-स्तनन्धयं किमपि ब्रह्म-किशोर-भाव-दृश्यं तत्‌ (अहम्) ईडे ।

[तात्पर्यम्] व्रजयुवतीनाम् अपाङ्गवीक्षणैः प्रहार्यमाणं, तज्जन्मस्थानत्वात् मधुरानगर्याः पुण्यफलं, नितराम् अतिशयभोग्यं, देवक्याः स्तनपायिशिशुं, मनुष्यशिशुरूपे दृश्यमाणं परब्रह्माणम् अहं स्तौमि ।

प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥

  • मुण्डकोपनिषत् २-२-४

Shloka #07

परिवर्तितकन्धरं भयेन
स्मितफुल्लाधरपल्लवं स्मरामि ।
विटपित्वनिरासकं कयोश्चित्‌
विपुलोलूखलकर्षकं कुमारम्‌ ॥ ७ ॥

[अन्वयः] भयेन परिवर्तित-कन्धरं, स्मित-फुल्ल-अधर-पल्लवं, कयोश्चित्‌ विटपित्व-निरासकं, विपुल-उलूखल-कर्षकं, कुमारम् (अहं) स्मरामि ।

[अन्वयरचना]
(अहं) स्मरामि
कं स्मरामि ? कुमारम्
कीदृशं कुमारम् ? विपुल-उलूखल-कर्षकम्
पुनः कीदृशं कुमारम् ? परिवर्तित-कन्धरम्
केन कारणेन परिवर्तित-कन्धरम् ? भयेन
पुनः कीदृशं कुमारम् ? स्मित-फुल्ल-अधर-पल्लवम्
पुनः कीदृशं कुमारम् ? विटपित्व-निरासकम्
कयोः विटपित्व-निरासकम् ? कयोश्चित्‌

[प्रतिपदार्थः]
भयेन = भीत्या ।
परिवर्तित-कन्धरम् = व्यावर्तिता ग्रीवा यस्य सः, तम् ।
स्मितफुल्लधरपल्लवम् = विसकितपल्लव इव स्मयमाणम् अधरद्वयं यस्य सः, तम् ।
कयोश्चित् = द्वयोः ।
विटपित्व-निरासकम् = वृक्षभावः निरस्तीकृतः येन सः, तम् ।
विपुलोलूखलकर्षकम् = बृहदुलूखलेन (भूमिं) कर्षन्तम् ।
कुमारम् = बालम् । स्मरामि = भावयामि ।

[तात्पर्यम्] भयेन ग्रीवां व्यावर्त्य पश्यन्तं, विकसितपल्लवसन्निभाधरद्वयेन स्मयमाणं, द्वयोः वृक्षभावनिरसनाय उलूखलेन कर्षन्तं बालम् अहं भावयामि ।

Shloka #08

निकटेषु निशामयामि नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणम्‌ ।
यमलार्जुन-दृष्ट-बाल-केलिं
यमुना-साक्षिक-यौवनं युवानम्‌ ॥ ८ ॥

पदच्छेदः

निकटेषु निशामयामि नित्यम् निगमान्तैः अधुना अपि मृग्यमाणम्‌ यमल-अर्जुन-दृष्ट-बालकेलिम् यमुना-साक्षिक-यौवनम् युवानम्‌ ।

अन्वयरचना 

  • (अहं) निशामयामि
    • कदा निशामयामि ? नित्यम्
    • कुत्र निशामयामि ? निकटेषु
    • कं निशामयामि ? युवानम्‌
      • कीदृशं युवानम्‌ ? मृग्यमाणम्
        • कैः मृग्यमाणम् ? निगमान्तैः
        • कदा मृग्यमाणम् ? अधुना अपि
      • पुनः कीदृशं युवानम्‌ ? यमल-अर्जुन-दृष्ट-बालकेलिम्
      • पुनः कीदृशं युवानम्‌ ? यौवनम्
        • कीदृशं यौवनम् ? यमुना-साक्षिकम्

अन्वयः

निगमान्तैः अधुना अपि मृग्यमाणं यमल-अर्जुन-दृष्ट-बालकेलिं, यमुना-साक्षिकं यौवनं, युवानं निकटेषु नित्यं निशामयामि ।

छन्दः

Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम् 

https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee

[प्रतिपदार्थः]

  • यमलार्जुनौ = यमलौ अर्जुनौ (तन्नामकवृक्षौ)
  • दृष्ट-बाल-केलिम् = वीक्षिता बालक्रीडा यस्य सः तम्
  • यमुना-साक्षिक-यौवनम् = यमुनानद्या साक्षात्कृतं यौवनं यस्य सः, तम्
  • युवानम्‌ = युवकम् ।
  • निगमान्तैः = वेदान्तैः ।
  • अधुना अपि = अद्यपर्यन्तम् अपि ।
  • मृग्यमाणम् = अन्विष्यमाणम् ।
  • निकटेषु = मत्समीपेषु स्थानेषु (परितः) ।
  • नित्यम् = सदा ।
  • निशामयामि = पश्यामि (अक्षिसात्करोमि)।

[तात्पर्यम्]

नन्दभवनस्य पुरतः विद्यमानेन अर्जुनवृक्षद्वयेन समीक्षितबालक्रीडालीलं, यमुनया साक्षात्कृतयौवनक्रीडाकारम्, अद्यावधि वेदान्तैः अन्विष्यमाणं (न प्राप्तं) परमपुरुषम् अहं नित्यं मत्समीपे अक्षिसात्करोमि।

Shloka #09

श्लोकः

पदवीमदवीयसीं विमुक्तेः
अटवी-सम्पदमम्बु-वाहयन्तीम् ‌।
अरुणाधर-साभिलाष-वंशां
करुणां कारण-मानुषीं भजामि ॥ ९ ॥

पदच्छेदः

पदवीम् अदवीयसीम् विमुक्तेः अटवी-सम्पदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशाम् करुणाम् कारण-मानुषीम् भजामि ‌।

अन्वयरचना 

  • (अहं) भजामि
    • कां भजामि ? करुणाम्
    • कीदृशीं करुणाम् ? कारण-मानुषीम्
    • पुनः कीदृशीं करुणाम् ? अरुण-अधर-साभिलाष-वंशाम्
    • पुनः कीदृशीं करुणाम् ? अम्बु-वाहयन्तीम्
      • कीदृशीं अम्बु-वाहयन्तीम् ? अटवी-सम्पदम्
    • पुनः कीदृशीं करुणाम् ? पदवीम्
      • कीदृशीं पदवीम् ? अदवीयसीम्
      • कस्याः पदवीम् ? विमुक्तेः

अन्वयः

विमुक्तेः अदवीयसीं पदवीम् अटवी-सम्पदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशां कारण-मानुषीं करुणां भजामि ‌।

छन्दः

Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम् 

[प्रतिपदार्थः]

•विमुक्तेः पदवीम् = मोक्षपदवीम् ।

•अदवीयसीम् = नातिदूरे स्थापयन्तीम् । सुदूरे विद्यमानं मोक्षं समीपे आनयन्तीम् । [अ+दविष्ठ+इयसुन्] •अटवी-सम्पदम् = काननसमृद्धिम्

•अम्बुवाहयन्तीम् = जलभृत् मेघः इव विद्यमानाम् ।

•अरुणाधर-साभिलाष-वंशाम् = पाटलवर्णीयम् ओष्ठं प्राप्तुम् इच्छन्ती मुरली यस्याः तां (करुणाम्)।

•कारणमानुषीम् = कारणवशात् मनुष्यभावे विद्यमानस्य इयम् / आदिदेवः मानुषत्वेन विक्रियते, तस्य इयम् ।

•करुणाम् = करुणामूर्तिभूतं कृष्णम्  ।

• भजामि = अहं सेवे ।

•कारणेन मानुषः कारणमानुषः (तृतीयातत्पुरुषः) / कारणम् एव मानुषः कारणमानुषः । कारणमानुषस्य इयं कारणमानुषी (तद्धितः = अण् + स्त्रीप्रत्ययः) | कारणमानुषस्य गोपालस्य इयं करुणा इत्यर्थः अनेन भवति ।

[तात्पर्यम्]

मोक्षपदम् अपि सौलभ्य-करुणादि गुणविशेषैः समीपम् आनयन्तं, कानने वर्षन्  घनमेघः इव विद्यमानम्, अरुणाधरसंसर्गाय स्वयं वेणुना अभिलष्यमाणं, कारणवशात् मनुष्यभावे वर्तमानं, करुणाभावः एव मूर्तिभूतं कृष्णं प्रार्थये ।

Shloka #10

अनिमेष-निषेवणीयमक्ष्णोः
अजहद्यौवनमाविरस्तु चित्ते ।
कलहायित-कुन्तलं कलापैः
करणोन्मादक-विभ्रमं महो मे ॥ १० ॥

पदच्छेदः

अनिमेष-निषेवणीयम् अक्ष्णोः अजहत्-यौवनम् आविरस्तु चित्ते कलहायित-कुन्तलम् कलापैः करण-उन्मादक-विभ्रमम् महः मे ।

अन्वयरचना 

  • आविरस्तु (आङ्-विश्-अस् धातुः)
    • किम् आविरस्तु ? महः (महस् शब्दः)
      • कीदृशं महः ? अनिमेष-निषेवणीयम्
        • कयोः अनिमेष-निषेवणीयम् ? अक्ष्णोः
      • पुनः कीदृशं महः ? अजहत्-यौवनम्
      • पुनः कीदृशं महः ? कलहायित-कुन्तलम्
        • कैः कलहायित-कुन्तलम् ? कलापैः
      • पुनः कीदृशं महः ? करण-उन्मादक-विभ्रमम्
    • कुत्र आविरस्तु ? चित्ते
      • कस्य चित्ते ? मे

अन्वयः

अक्ष्णोः अनिमेष-निषेवणीयम्, अजहत्-यौवनं, कलापैः कलहायित-कुन्तलं, करण-उन्मादक-विभ्रमं, महः मे चित्ते आविरस्तु ।

छन्दः

Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम् 

https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee

[प्रतिपदार्थः]

  • अक्ष्णोः = नयनयोः ।
  • अनिमेषम् = निर्निमेषम् ।
  • निषेवणीयम् = सेवनीयम् ।
  • अजहत् = न त्यक्तम् ।
  • यौवनम् = युवकस्य भावः ।
  • कलापै = मयूरपिच्छैः ।
  • कलहायितः = स्पर्धितः । (कलह + क्यङ्, करणे करोति इति अर्थे क्यङ् प्रत्ययः)
  • कुन्तलः = केशपाशः ।
  • करणम् = इन्द्रियम् । उन्मादकः = उत्तेजकः ।
  • विभ्रमः = विलासः । महः = तेजः ।
  • मे = मम । चित्ते = मनसि ।
  • आविरस्तु = आविर्भवतु ।

[तात्पर्यम्]

कृष्णस्य केशाः तदलङ्कारभूतमयूरपिच्छेन एव स्पर्धमानाः इव सन्दृश्यन्ते । तस्य सुन्दर-सुमनोहर-दिव्यमङ्गल-यौवनरूपस्य महः/ तेजः यत् निर्निमेषतया सेवितुम् योग्यं, यस्य प्रभावात् मम इन्द्रियाणि उत्तेजितानि अनियन्त्रितानि च जायन्ते, तत् मम मनसि आविर्भवतु ।

Shloka #11

अनुयायिमनोज्ञवंशनालैः अवतु स्पर्शितवल्लवीविमोहैः ।
अनघस्मितशीतलैरसौ माम्‌ अनुकम्पासरिदम्बुजैरपाङ्गैः ॥ ११ ॥
[पदच्छेदः] अनुयायि-मनोज्ञ-वंश-नालैः अवतु स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः असौ माम्‌ अनुकम्पा-सरित्-अम्बुजैः अपाङ्गैः ।
[अन्वयरचना]
अवतु
कः अवतु ? असौ (अदस् शब्दः)
कम् अवतु ? माम्‌
कैः अवतु ? अपाङ्गैः
अनघः = पावनः
स्मितम् = मन्दहासरूपम्
शीतलैः = अत्यन्तहितकारिभिः
अनुकम्पा = दया
सरित् = जलाशयः । अम्बुजैः = पद्मैः
अपाङ्गैः = कटाक्षवीक्षणैः
असौ = अयम् । माम् अवतु = मां रक्षतु

[अन्वयः] अनुयायि-मनोज्ञ-वंश-नालैः स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः अनुकम्पा-सरित्-अम्बुजैः अपाङ्गैः असौ माम्‌ अवतु ।

[प्रतिपदार्थः]
अनुयायी = अनुगन्तुं योग्यः
मनोज्ञः = सुमनोहरः
वंशनालैः = वेणुदण्डैः, तद्गीतैः वा
स्पर्शिता = आमृषिता
वल्लवी = गोपिका
विमोहैः = मोहकारकैः

[तात्पर्यम्] गोपिकाभिः श्रवणरूप-स्पर्शमात्रेण अनुगन्तुं योग्यैः सुमनोहर-वेणुगीतैः, पावनमनोज्ञ-मन्दहासरूप-शीतलैः, स्वस्य दयारूपे जलाशये विद्यमानपद्मैः असौ मां रक्षतु ।

Shloka #12

अधराहितचारुवंशनालाः मकुटालम्बिमयूरपिञ्छमालाः ।
हरिनीलशिलाविभङ्गनीलाः प्रतिभास्सन्तु ममान्तिमप्रयाणे ॥ १२ ॥

[पदच्छेदः] अधराहित-चारु-वंश-नालाः मकुट-आलम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः सन्तु मम अन्तिम-प्रयाणे ।

[अन्वयरचना]
सन्तु
कदा सन्तु ? अन्तिम-प्रयाणे
कस्य अन्तिम-प्रयाणे ? मम
काः सन्तु ? प्रतिभाः
कीदृशाः प्रतिभाः ? अधराहित-चारु-वंश-नालाः
पुनः कीदृशाः प्रतिभाः ? मकुट-आलम्बि-मयूर-पिञ्छ-मालाः
पुनः कीदृशाः प्रतिभाः ? हरिनील-शिला-विभङ्ग-नीलाः

[अन्वयः] अधर-आहित-चारु-वंश-नालाः मकुट-आलम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः मम अन्तिम-प्रयाणे सन्तु ।

[प्रतिपदार्थः]
अधरः = ओष्ठः । आहितः = न्यस्तः
चारु = मनोज्ञम्
वंशनालाः = वेणुदण्डः (याभिः ताः)
मकुटालम्बिनः = किरीटे संस्थापिताः
मयूर-पिञ्छ-मालाः = शिखिपिञ्छगुम्फितदामानि (यासां ताः)

[तात्पर्यम्] त्वद्रूपस्य भावनाः यत्र बिम्बोष्ठयोः सुमनोज्ञवेणुः न्यस्तः वर्तते, मकुटे अलङ्काररूपेण मयूरपिञ्छमालाः वर्तन्ते, विच्छिन्नस्य इन्द्रनीलरत्नस्य कालिमा यत्र रूपे दृश्यते, तादृश्यः भावनाः मम अन्तिमस्मरणे भवन्तु ।

Shloka #13

अखिलानवलोकयामि कालान्‌
महिलाधीनभुजान्तरस्य यूनः ।
अभिलाषपदं व्रजाङ्गनानाम्‌
अभिलापक्रमदूरमाभिरूप्यम्‌ ॥ १३ ॥

[पदच्छेदः] अखिलान् अवलोकयामि कालान्‌ महिला-अधीन-भुज-अन्तरस्य यूनः अभिलाष-पदम् व्रज-अङ्गनानाम्‌ अभिलाप-क्रम-दूरम् आभिरूप्यम्‌ ।

[अन्वयः] महिला-अधीन-भुजान्तरस्य यूनः व्रज-अङ्गनानाम्‌ अभिलाष-पदम्, अभिलाप-क्रम-दूरम्, आभिरूप्यम्‌ अखिलान् कालान्‌ अवलोकयामि ।

[अन्वयरचना]

  • (अहम्) अवलोकयामि
  • किम् अवलोकयामि ? आभिरूप्यम्‌
  • कस्य आभिरूप्यम्‌ ? यूनः (युवन् शब्दः)
  • कीदृशस्य यूनः ? महिला-अधीन-भुजान्तरस्य
  • कीदृशम् आभिरूप्यम्‌ ? अभिलाष-पदम्
  • केषाम् अभिलाष-पदम् ? व्रजाङ्गनानाम्‌
  • पुनः कीदृशम् आभिरूप्यम्‌ ? अभिलाप-क्रम-दूरम्
  • कदा अवलोकयामि ? कालान्‌ (सप्तम्यर्थे द्वितीयाविभक्तिः)
  • कीदृशान् कालान्‌ ? अखिलान्

[प्रतिपदार्थः]
अखिलान् = सर्वेषु । कालान् = समयेषु
अवलोकयामि = पश्यामि
महिलाधीनम् = महिलायाः लक्ष्म्याः अधीनम्
भुजान्तरस्य = वक्षःस्थलं यस्य तादृशस्य
यूनः = युवकस्य
व्रजाङ्गनानाम्‌ = गोपिकानाम्
अभिलाष-पदम् = इच्छास्पदम्
अभिलापक्रमः = अभिवर्णयितुं योग्यः क्रमः
दूरम् = विप्रकृष्टम् , अशक्यम्
आभिरूप्यम् = अभिरूपस्य भावः, दिव्यमङ्गलरूपम्

[तात्पर्यम्] वक्षःस्थलं लक्ष्म्याः स्थानं यस्य तादृशं, गोपिकानाम् इच्छास्पदं, वर्णयितुम् अशक्यं रूपं यस्य युवकस्य तादृशं युवानं सर्वदा अवलोकयामि ।

Shloka #14

हृदि मुग्धशिखण्डमण्डनो
लिखितः केन ममैष शिल्पिना ।
मदनातुरवल्लवाङ्गना-
वदनाम्बोजदिवाकरो युवा ॥ १४ ॥


[पदच्छेदः] हृदि मुग्ध-शिखण्ड-मण्डनः लिखितः केन मम एषः शिल्पिना मदन-आतुर-वल्लव-आङ्गना-वदन-अम्बोज-दिवाकरः युवा ।

[अन्यवः] मुग्ध-शिखण्ड-मण्डनः मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः एषः युवा मम हृदि केन शिल्पिना लिखितः (अस्ति) ।

[अन्वयरचना]
लिखितः (अस्ति) ।
कुत्र लिखितः ? हृदि
कस्य हृदि ? मम
कः लिखितः ? एषः युवा
कीदृशः युवा ? मुग्ध-शिखण्ड-मण्डनः
पुनः कीदृशः युवा ? मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः
केन लिखितः ? शिल्पिना
केन शिल्पिना ? केन (किं शब्दः, क शब्दः च)

[प्रतिपदार्थः]
मुग्धः = सुन्दरः
शिखण्डः = मयूरपिच्छः
मण्डनः = भूषणं यस्य सः
मदनातुराः = मदनेन पीडिताः
वल्लवाङ्गनाः = गोपिकाः
वदनम् = मुखम्
अम्बोजम् = पद्मम् । दिवाकरः = सूर्यः ।
युवा = युवकः । एषः = अयम् ।
मम = मदीये
हृदि = मनसि / चित्ते
केन = केन (अथवा परमात्मना)
शिल्पिना = चित्रकारेण लिपिकारेण वा
लिखितः = आरचितः

[तात्पर्यम्] मयूरपिच्छैः अलङ्कृतः यः, मदनेन पीडितानां, विरहबाधया परितप्यमानानां गोपिकास्त्रीणां वदनानि एव यदि पद्मानि, तेषां पद्मानां सूर्य इव यः भवति सः, तादृशस्य रूपं मदीये हृदये, चित्तपटले केन चित्रकारेण लिखितमस्ति ?

Shloka #15

महसे महिताय मौलिना
विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामि विमुग्धवल्लवी-
वलयाभाषितमञ्जुवेणवे ॥ १५ ॥


[अन्यवः] महिताय अञ्जनत्विषे विमुग्ध-वल्लवी-वलया-भाषित-मञ्जु-वेणवे महसे विनतेन मौलिना अञ्जलिं कलयामि ।

[अन्वयरचना]
• कलयामि
• किं कलयामि ? अञ्जलिम्
• कथं कलयामि ? मौलिना
• कीदृशेन मौलिना ? विनतेन
• कस्मै कलयामि ? महसे (महस् शब्दः)

[पदच्छेदः] महसे महिताय मौलिना विनतेन अञ्जलिम् अञ्जनत्विषे कलयामि विमुग्ध-वल्लवी-वलय-आभाषित-मञ्जु-वेणवे ।

[प्रतिपदार्थः]
• महिताय = ब्रह्मादि देवैः अत्यन्तभक्त्या स्तूयमाणाय
• महसे = ज्योतिरूपाय
• अञ्जनत्विषे = अञ्जनस्य कान्तिः इव तेजः यस्य सः, तस्मै
• विमुग्धाः = मोहिताः


[तात्पर्यम्] ब्रह्मादि देवैः अत्यन्तभक्त्या स्तूयमाणाय, ज्योतिरूपाय, कान्तिमयवपुषे, यस्य वेणुनादः मोहितगोपिकास्त्रीणां हस्ताभरणैः संभाषमाणः वर्तते तादृशाय, अत्यन्तविनयेन अवनतोन्नताङ्गः सन् अञ्जलिं समर्पयामि ।

Shloka #16

श्लोकः
जयति ललित-वृत्तिं शिक्षितो वल्लवीनां
शिथिल-वलय-शिञ्जा-शीतलैर्हस्त-तालैः ।
अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः
अधर-मणि-सुधायामंशवान्‌ वंश-नालः ॥ १६ ॥
पदच्छेदः
जयति ललित-वृत्तिम् शिक्षितः वल्लवीनाम् शिथिल-वलय-शिञ्जा-शीतलैः हस्त-तालैः अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः अधर-मणि-सुधायाम् अंशवान्‌ वंश-नालः ।
अन्वयरचना
• जयति
o कः जयति ? वंश-नालः
 कीदृशः वंश-नालः ? अंशवान्‌
• कस्याम् अंशवान्‌ ? अधर-मणि-सुधायाम्
o कस्य अधर-मणि-सुधायाम् ? विष्णोः
o कीदृशस्य विष्णोः ? अखिल-भुवन-रक्षा-गोप-वेषस्य
 पुनः कीदृशः वंश-नालः ? शिक्षितः
• किं शिक्षितः ? ललित-वृत्तिम्
• कैः शिक्षितः ? हस्त-तालैः
o कीदृशैः हस्त-तालैः ? शिथिल-वलय-शिञ्जा-शीतलैः
o कासां हस्त-तालैः ? वल्लवीनाम्
अन्वयः
वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैः हस्त-तालैः ललित-वृत्तिं शिक्षितः, अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः अधर-मणि-सुधायाम् अंशवान्‌, वंश-नालः जयति ।

[प्रतिपदार्थः]
वल्लवीनाम् = गोपिकानाम्
शीतलैः = मधुरैः
शिथिल-वलयैः = प्रकोष्ठाधिकपरिमाणानां कङ्कणानाम्
शिञ्जाभिः = किङ्किणीध्वनिभिः
हस्ततालैः = लयबद्ध-करताडनैः
शिक्षितः = अभ्यासितः / ज्ञापितः
ललित-वृत्तिम् = गायकनर्तकयोः परिभाषाम्
अखिलभुवनरक्षा = जगद्रक्षणम्
गोपवेषस्य विष्णोः= गोपलबालस्य विष्णोः
अधर-मणि-सुधायाम् = अधरश्रेष्ठगतामृते
अंशवान् = भागी
वंशनालः = वेणुदण्डः (यस्य सः)
जयति = विराजते / भासते

[तात्पर्यम्] गोपिकानां शिथिलकङ्कणैः तेषां लयबद्धचालनेन (नृत्ये) समुत्पन्नशिञ्जाध्वनिभिः सङ्केतितः इव वेणुं तल्लयबद्धतया वादयन् आस्ते अयं गोपवेशे विद्यमानः विष्णुः । वेणुवादनक्रमे अधरामृते भागधारी वेणुः यस्य सः भासते ।

Shloka #17

चित्राकल्पः श्रवसि कलयन्‌ लाङ्गलीकर्णपूरं
बर्होत्तंसस्फुरितचिकुरो बन्धुजीवं दधानः ।
गुञ्जाबद्धामुरसि ललितां धारयन्‌ हारयष्टिं
गोपस्त्रीणां जयति कितवः कोऽपि कौमारहारी ॥

[पदच्छेदः] चित्र-आकल्पः श्रवसि कलयन्‌ लाङ्गली-कर्णपूरम् बर्ह-उत्तंस-स्फुरित-चिकुरः बन्धुजीवम् दधानः गुञ्जा-बद्धाम् उरसि ललिताम् धारयन्‌ हार-यष्टिम् गोप-स्त्रीणाम् जयति कितवः कोऽपि कौमार-हारी।

[अन्वयरचना]
जयति
कः जयति ? कितवः
कीदृशः कितवः ? कोऽपि
पुनः कीदृशः कितवः ? कलयन्‌
किं कलयन्‌ ? लाङ्गली-कर्णपूरम्
कुत्र कलयन्‌ ? श्रवसि
पुनः कीदृशः कितवः ? बर्ह-उत्तंस-स्फुरित-चिकुरः
पुनः कीदृशः कितवः ? दधानः
किं दधानः ? बन्धुजीवम्
पुनः कीदृशः कितवः ? धारयन्‌
किं धारयन्‌ ? हार-यष्टिम्
कीदृशीं हार-यष्टिम् ? ललिताम्
पुनः कीदृशीं हार-यष्टिम् ? गुञ्जा-बद्धाम्
कुत्र धारयन्‌ ? उरसि
पुनः कीदृशः कितवः ? चित्र-आकल्पः
पुनः कीदृशः कितवः ? कौमार-हारी
कासां कौमार-हारी ? गोप-स्त्रीणाम्

[अन्वयः] श्रवसि लाङ्गली-कर्णपूरं कलयन्‌, बर्ह-उत्तंस-स्फुरित-चिकुरः, बन्धुजीवं दधानः, गुञ्जा-आबद्धां ललितां हार-यष्टिम् उरसि धारयन्‌, चित्र-आकल्पः, गोप-स्त्रीणां कौमार-हारी, कोऽपि कितवः जयति ।

[प्रतिपदार्थः]
श्रवसि = कर्णे
लाङ्गली = वन्यपुष्पविशेषः
कर्णपूरम् = कर्णाभरणम्
कलयन् = अलङ्कुर्वन्
बर्हम् = मयूरपिच्छम्
उत्तंसः = शिरोभूषणम्
स्फुरितः = प्रकाशितः
चिकुरः = केशपाशः
बन्दुजीवः = जपाकुसुमम्
ललिताम् = मनोज्ञाम्
दधानः = ध्रियमाणः
गुञ्जाभिः = गुञ्जामणिभिः
आबद्धः = ग्रथितः
हार-यष्टिम् = यष्टिवत् मुष्ठिमेयः हारः
उरसि = वक्षःस्थले
धारयन् = अलङ्कुर्वन्
चित्राकल्पः = विशेषवेषधारी
कौमारहारी = युवतीनां चित्तकर्षकः
गोपस्त्रीणाम् = व्रजयोषितानाम्
कोपि = विलक्षणः कश्चन
कितवः = चोरः / धूर्तः
जयति = विलसति

[तात्पर्यम्] कर्णे लाङ्गलीनामकर्णाभरणं धृत्वा, मयूरपिच्छधारणेन प्रकाशमानकेशपाश-समन्वितः, जपाकुसुमं हस्ते दधानः, वक्षःस्थले वन्यपुष्पमालाधारी, गोपस्त्रीणां चित्तकर्षकः कश्चन विलक्षणः चोरः विराजते ।

Shloka #18

प्रत्यालीढस्थितिमधिगतां प्राप्तगाढाङ्गपालिंपश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।भस्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्यात्‌वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥१९॥

[अन्वयः] वारि-क्रीडा-निबिड-वसनः, प्रत्यालीढ-स्थितिम् अधिगतां प्राप्त-गाढ-अङ्गपालिं पश्चात् ईषत्-मिलित-नयनां प्रेयसीं प्रेक्षमाणः, भस्रा-यन्त्र-प्रणिहित-करः, भक्त-जीवातुः, वल्लवी-वल्लभः नः अव्यात्‌ ।

[अन्वयरचना]अव्यात्‌ ।

कान् अव्यात्‌ ? नः

कः अव्यात्‌ ? वल्लवी-वल्लभः

कीदृशः वल्लवी-वल्लभः ? प्रेक्षमाणः

कां प्रेक्षमाणः ? प्रेयसीम्

कीदृशीं प्रेयसीम् ? अधिगताम्

किम् अधिगताम् ? प्रत्यालीढ-स्थितिम्

पुनः कीदृशीं प्रेयसीम् ? प्राप्त-गाढ-अङ्गपालिम्

कदा प्राप्त-गाढ-अङ्गपालिम् ? पश्चात्

पुनः कीदृशीं प्रेयसीम् ? ईषत्-मिलित-नयनाम्

पुनः कीदृशः वल्लवी-वल्लभः ? भस्रा-यन्त्र-प्रणिहित-करः

पुनः कीदृशः वल्लवी-वल्लभः ? वारि-क्रीडा-निबिड-वसनः

पुनः कीदृशः वल्लवी-वल्लभः ? भक्त-जीवातुः

[पदच्छेदः] प्रत्यालीढ-स्थितिम् अधिगताम् प्राप्त-गाढ-अङ्गपालिम् पश्चात् ईषत्-मिलित-नयनाम् प्रेयसीम् प्रेक्षमाणः भस्रा-यन्त्र-प्रणिहित-करः भक्त-जीवातुः अव्यात्‌ वारि-क्रीडा-निबिड-वसनः वल्लवी-वल्लभः नः।

[प्रतिपदार्थः]

वारि-क्रीडा-निबिड-वसनः = जलक्रीडया आर्द्रं वस्त्रं यस्य सः

प्रत्यालीढ-स्थितिम् = धनुष्कवत् अवस्थानविशेषम्

अधिगताम् = प्राप्ताम्

प्राप्त-गाढ-अङ्गपालिम् = गाढालिङ्गनं प्राप्तवतीम्

पश्चात् = तदनु

ईषत्-मिलित-नयनाम् = केनचित् / लघु प्रमाणेन, मिलितौ नयनौ यस्याः

प्रेयसीम् = प्रियाम्

प्रेक्षमाणः = समीक्षमाणः

भस्रा-यन्त्रम् = जलाभिषेचानार्थं प्रयुज्यमाणं जलसेचनयन्त्रम्

प्रणिहित-करः = प्रकृष्टतया निहितः हस्तः

भक्त-जीवातुः = भक्तजनानां प्राणधारकः

वल्लवी-वल्लभः = वल्लवीनां प्रियः

नः = अस्मान् ।

अव्यात्‌ = पायात्

[तात्पर्यम्] जलक्रीडायां रतायां सत्यां प्रत्यालीढस्थितिं प्राप्तवतीं, सद्यैव कृष्णस्य आलिङ्गनं प्राप्तवतीं, तत्पश्चात् तस्यैव नयने ईषत् पश्यन्तीं वेक्षमाणः, स्वहस्ते भस्त्रायन्त्रं न्यस्य (अन्यान् आर्दीकर्तुं) यः भक्तानां प्राणरक्षकः वल्लभीजनप्रियः वर्तते सः, अस्मान् पातु ।

Shloka #19

प्रत्यालीढस्थितिमधिगतां प्राप्तगाढाङ्गपालिं

पश्चादीषन्मिलितनयनां प्रेयसीं प्रेक्षमाणः ।

भस्रायन्त्रप्रणिहितकरो भक्तजीवातुरव्यात्‌

वारिक्रीडानिबिडवसनो वल्लवीवल्लभो नः ॥१९॥

[पदच्छेदः] प्रत्यालीढ-स्थितिम् अधिगताम् प्राप्त-गाढ-अङ्गपालिम् पश्चात् ईषत्-मिलित-नयनाम् प्रेयसीम् प्रेक्षमाणः भस्रा-यन्त्र-प्रणिहित-करः भक्त-जीवातुः अव्यात्‌ वारि-क्रीडा-निबिड-वसनः वल्लवी-वल्लभः नः ।

[अन्वयरचना]

  • अव्यात्‌ ।
    • कान् अव्यात्‌ ? नः
    • कः अव्यात्‌ ? वल्लवी-वल्लभः
    • कीदृशः वल्लवी-वल्लभः ? प्रेक्षमाणः
      • कां प्रेक्षमाणः ? प्रेयसीम्
        • कीदृशीं प्रेयसीम् ? अधिगताम्
          • किम् अधिगताम् ? प्रत्यालीढ-स्थितिम्

[अन्वयः] वारि-क्रीडा-निबिड-वसनः, प्रत्यालीढ-स्थितिम् अधिगतां प्राप्त-गाढ-अङ्गपालिं पश्चात् ईषत्-मिलित-नयनां प्रेयसीं प्रेक्षमाणः, भस्रा-यन्त्र-प्रणिहित-करः, भक्त-जीवातुः, वल्लवी-वल्लभः नः अव्यात्‌ ।

[प्रतिपदार्थः]

  • वारि-क्रीडा-निबिड-वसनः = जलक्रीडया आर्द्रं वस्त्रं यस्य सः
  • प्रत्यालीढ-स्थितिम् = धनुष्कवत् अवस्थानविशेषम्
  • अधिगताम् = प्राप्ताम्
  • प्राप्त-गाढ-अङ्गपालिम् = गाढालिङ्गनं प्राप्तवतीम्
  • पश्चात् = तदनु
  • ईषत्-मिलित-नयनाम् = केनचित् / लघु प्रमाणेन, मिलितौ नयनौ यस्याः

[तात्पर्यम्] जलक्रीडायां रतायां सत्यां प्रत्यालीढस्थितिं प्राप्तवतीं, सद्यैव कृष्णस्य आलिङ्गनं प्राप्तवतीं, तत्पश्चात् तस्यैव नयने ईषत् पश्यन्तीं वेक्षमाणः, स्वहस्ते भस्त्रायन्त्रं न्यस्य (अन्यान् आर्दीकर्तुं) यः भक्तानां प्राणरक्षकः वल्लभीजनप्रियः वर्तते सः, अस्मान् पातु ।

Shloka #20

वासो हृत्वा दिनकरसुतासन्निधौ वल्लवीनां

लीलास्मेरो जयति ललितामास्थितः कुन्दशाखाम्‌ ।

सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने

कामी कश्चित्‌ करकमलयोरञ्जलिं याचमानः ॥ २० ॥

[पदच्छेदः] वासः हृत्वा दिनकर-सुता-सन्निधौ वल्लवीनाम् लीला-स्मेरः जयति ललिताम् आस्थितः कुन्द-शाखाम्‌ सव्रीडाभिः तदनु वसने ताभिः अभ्यर्थ्यमाने कामी कश्चित्‌ कर-कमलयोः अञ्जलिम् याचमानः ।

 [अन्वयरचना]

  • जयति ।
    • कः जयति ? कामी
    • कीदृशः कामी ? कश्चित्‌
    • पुनः कीदृशः कामी ? ललितां कुन्द-शाखाम्‌ आस्थितः
      • किं कृत्वा आस्थितः ? हृत्वा
      • किं हृत्वा ? वासः (वासस् शब्दः)
        • कासां वासः ? वल्लवीनाम्

[अन्वयः] दिनकर-सुता-सन्निधौ वल्लवीनां वासः हृत्वा, ललितां कुन्द-शाखाम्‌ आस्थितः, तदनु सव्रीडाभिः ताभिः वसने अभ्यर्थ्यमाने (सति) कर-कमलयोः अञ्जलिं याचमानः, लीला-स्मेरः, कश्चित्‌ कामी जयति ।

[प्रतिपदार्थः]

  • वल्लवीनाम् = गोपिकानाम्
  • वासः = वस्त्रम्
  • हृत्वा = चोरयित्वा
  • दिनकर-सुता-सन्निधौ = सूर्यपुत्र्याः यमुनानद्याः सविधे
  • लीला-स्मेरः = मन्दहाससहितः
  • ललिताम् = सुन्दराम्

[तात्पर्यम्] यमुनानद्यां स्नानम् आचारन्तीनां गोपिकास्त्रीणां वस्त्राणि अपहृत्य, समीपस्थकुन्दवृक्षस्य शाखायाम् उपविष्य, लीलया मन्दहासं कुर्वन्तं, युवकं दृष्ट्वा, लज्जया वस्त्राणां पुनरर्पणाय प्रार्थयमानाः उद्दिश्य, तासां कमलपुष्पसदृशसुकोमलकरयोः अञ्जलिम् अभ्यर्थमानः कश्चन विलक्षणः कामार्थी विलसति ।

21 फलश्रुतिः

इत्यनन्यमनसा विनिर्मितां 

वेङ्कटेशकविना स्तुतिं पठन्‌ ।

दिव्यवेणुरसिकं समीक्षते

दैवतं किमपि यौवतप्रियम्‌ ॥ २१ ॥

इत्यनन्यमनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन्‌ ।

दिव्यवेणुरसिकं समीक्षते दैवतं किमपि यौवतप्रियम्‌ ॥ २१ ॥

[पदच्छेदः] इति अनन्य-मनसा विनिर्मिताम् वेङ्कटेश-कविना स्तुतिम् पठन्‌ दिव्य-वेणु-रसिकम् समीक्षते दैवतम् किमपि यौवत-प्रियम्‌ ।

 [अन्वयरचना]

  • समीक्षते ।
    • किं समीक्षते ? दैवतम्
    • कीदृशं दैवतम् ? किमपि
    • पुनः कीदृशं दैवतम् ? दिव्य-वेणु-रसिकम्
    • पुनः कीदृशं दैवतम् ? यौवत-प्रियम्

[अन्वयः] इति वेङ्कटेश-कविना अनन्य-मनसा विनिर्मितां स्तुतिम् (अनन्य-मनसा) पठन्‌ दिव्य-वेणु-रसिकं, यौवत-प्रियं, किमपि दैवतं समीक्षते ।

 [प्रतिपदार्थः]

  • इति = एवम्
  • वेङ्कटेशकविना = वेङ्कटेशाख्यकविना
  • विनिर्मिताम् = रचिताम्
  • स्तुतिम् = स्त्रोत्रम्
  • अनन्यमनसा = भगवदेकचित्तेन

[तात्पर्यम्] एवं भगवदैकचित्तेन वेङ्कटेशकविना विरचितमेतत् स्तोत्रं (भगवदैकचित्तेन) यः पठेत्, सः दिव्यवेणुरसिकं, युवतीनां प्रियम्, अनुपमं देवं, साक्षात्कुरुते ।