Sarvadaa Raama Vada -shatrupratyayaantam geetam

॥ सर्वदा राम वद ॥
शतृप्रत्ययान्तं गीतम्

Sarvadaa Raama Vada –

Shatru-pratyayaantamGeetam – A song with words in Present Continuous Tense

शतृपाठनाय गीतम्

Music composed and Sung by Dr. Harini Agaram

This song is an adaptation of the popular bhajan – खाते भी राम कहो पीते भी राम कहो  

गच्छन् राम वद आगच्छन् राम वद भ्रमन् राम वद राम राम राम ।

तिष्ठन् राम वद उपविशन् राम वद उत्तिष्ठन् राम वद राम राम राम ॥ १ ॥

राम वद । Repeat ‘Raama’ (while doing other activities!)

गच्छन् – Going (गच्छत् इति प्रातिपदिकम् , गम् गमॢँ गतौ इति धातुः)

आगच्छन् – Coming (आगच्छत् , आङ् उपसर्गः + गम् गमॢँ गतौ धातुः)

भ्रमन् – Roaming (भ्रमत् , भ्रम् भ्रमुँ चलने / भ्रम् भ्रमुँ अनवस्थाने)

तिष्ठन् – Standing / Staying  (तिष्ठत् , स्था ष्ठा गतिनिवृत्तौ)

उपविशन् – Sitting (उपविशत् , उप + विश् विशँ प्रवेशने)

उत्तिष्ठन् – Getting up (उत्तिष्ठत् , उत् + स्था ष्ठा गतिनिवृत्तौ)

[गच्छन् = पुल्लिङ्गः, प्रथमा विभक्तिः, एकवचनम्, कृदन्तपदम्, शतृप्रत्ययान्तः ]

पठन् राम वद लिखन् राम वद स्मरन् राम वद राम राम राम ।

खादन् राम वद पिबन् राम वद निद्रान् राम वद राम राम राम ॥ २ ॥

राम वद । Repeat ‘Raama’ (while doing other activities!)

पठन् – Reading (पठत् , पठ् पठँ व्यक्तायां वाचि)

लिखन् – Writing (लिखत् , लिख् लिखँ अक्षरविन्यासे)

स्मरन् – Remembering (स्मरत् , स्मृ चिन्तायाम् / स्मृ आध्याने)

खादन् – Eating (खादत् , खाद् खादृँ भक्षणे)

पिबन् – Drinking (पिबत् , पा पाने)

निद्रान् – Sleeping (निद्रात् , द्रा कुत्सायां गतौ)

[राम = राम इति प्रातिपदिकम्, पुल्लिङ्गः, सम्बोधन-प्रथमा विभक्तिः, एकवचनम्]

धावन् राम वद पतन्‌ राम वद चलन् राम वद राम राम राम ।

गृह्णन् राम वद क्षिपन् राम वद अन्विष्यन् राम वद राम राम राम ॥ ३ ॥

राम वद । Repeat ‘Raama’ (while doing other activities!)

धावन् – Running (धावत् , धाव् धावुँ गतिशुद्ध्योः)

पतन्‌ – Falling (पतत् , पत् पतॢँ गतौ)

चलन् – Moving (चलत् , चल् चलँ कम्पने)

गृह्णन् – Receiving (गृह्णत् , ग्रह् ग्रहँ उपादाने )

क्षिपन् – Throwing (क्षिपत् , क्षिप् क्षिपँ प्रेरणे)

अन्विष्यन् – Searching (अन्विष्यत् , अनु+इष् इषुँ इच्छायाम्)

[वद = वद् वदँ व्यक्तायां वाचि धातुः, लोट्लकारः, परस्मैपदम्, मध्यमपुरुषः, एकवचनम्]

क्रीडन् राम वद हसन् राम वद रुदन् राम वद राम राम राम ।

जयन् राम वद अपजयन् राम वद सर्वदा राम वद राम राम राम ॥ ४ ॥

राम वद । Repeat ‘Raama’ (while doing other activities!)

क्रीडन् – Playing (क्रीडत् , क्रीड् क्रीडृँ विहारे )

हसन् – Laughing (हसत् , हस् हसेँ हसने)

रुदन् – Crying (रुदत् , रुद् रुदिँर् अश्रुविमोचने)

जयन् – Winning (जयत् , जि जये )

अपजयन् – Losing (अपजयत् , अप + जि जये)

सर्वदा – Always (सर्वदा इति अव्ययः)

JagadaanandaKaaraka

जगदानन्दकारक

रचयिता – श्री. त्यागराजः

गायकाः – हरिणी-अगरम्,
आदिनारायण-अगरम्, अदिती-अगरम्

नाट्टै-रागः आदि-तालः

Composed by Sri. Tyaagaraaja

Sung by Dr. Harini Agaram, Chi. Adinarayan Agaram and Kum. Aditi Agaram

Naattai Raaga, Aadi Taala

[पल्लवी] (हे) जगत्-आनन्द-कारक !

(हे) जानकी-प्राण-नायक ! (त्वं) जय ।

जगदानन्दकारक
जय जानकी-प्राणनायक ।

[अनुपल्लवी] गगन-अधिप-सत्कुलज ! राज-राज-ईश्वर ! सुगुण-आकर ! सुर-सेव्य ! भव्य-दायक ! सदा सकल-(जगत्-आनन्द-कारक ! त्वं जय)

गगन-अधिप-सत्कुलजः = सूर्य-कुलोद्भवः ।
आकरः = खनिः । सुराः = देवाः। भव्यम् =शुभम् ।

गगनाधिपसत्कुलज राजराजेश्वर

सुगुणाकर सुरसेव्य भव्यदायक

सदा सकल ।

अमरतारकनिचय-कुमुदहित परिपूर्णानघ सुरसुरभूज

दधिपयोधिवासहरण सुन्दरतरवदन सुधामयवचोबृन्द

गोविन्द सानन्द मावराजराप्तशुभकरानेक ।

[चरणम्-१] अमर-तारक-निचय-कुमुद-हित ! परिपूर्ण ! अनघ ! सुर-सुरभूज ! दधि-पयोधि-वास-हरण ! सुन्दरतर-वदन ! सुधा-मय-वचो-बृन्द ! गोविन्द ! सानन्द ! मा-वर ! अजर ! आप्त-शुभकर ! अनेक-(जगत्-आनन्द-कारक! त्वं जय)

अमराः = देवाः । तारकानि = नक्षत्राणि । निचयः = समूहः । कुमुद-हितः = कुमुदपुष्पाणां मित्रं चन्द्रः । सुराः = देवाः । सुरभूजः = देवलोकस्थः कल्पतरुः ।
वासः = कलशः । सानन्दः = यः आनन्देन सह वर्तते । मा-वरः = लक्ष्मीपतिः ।

निगमनीरजामृतज-पोषकानिमिषवैरि-वारिदसमीरण

खगतुरङ्ग सत्कविहृदालयागणित-वानराधिपनताङ्घ्रियुग ।

[चरणम्-२] निगम-नीरज-अमृतज-पोषक ! अनिमिष-वैरि-वारिद-समीरण !

खग-तुरङ्ग ! सत्कवि-हृत्-आलय ! अगणित-वानर-अधिप-नत-अङ्घ्रि-युग !

(जगत्-आनन्द-कारक ! त्वं जय)

निगम-नीरजानि = वेदाः एव कमलानि । अमृतज-पोषकः = (तेषां) सारात् जनितस्य पोषकः । अनिमिषाः = देवाः । वारिदः = मेघः । समीरणः = वायुः । खग-तुरङ्गः = गरुड-वाहनः । अगणित-वानर-अधिपः = सुग्रीवः ।

इन्द्रनीलमणि-सन्निभापघन चन्द्रसूर्यनयनाप्रमेय

वागिन्द्रजनक सकलेश शुभ्र नागेन्द्रशयन शमनवैरिसन्नुत ।

[चरणम्-३]  इन्द्रनील-मणि-सन्निभ-अपघन ! चन्द्र-सूर्य-नयन ! अप्रमेय !

वाग्-इन्द्र-जनक ! सकल-ईश ! शुभ्र-नाग-इन्द्र-शयन ! शमन-वैरि-सन्नुत !

सन्निभः = समानम् । अपघनः = अङ्गम् । अप्रमेयः = प्रमातुं ज्ञातुं वा न योग्यः । वागिन्द्रः = ब्रह्मा । (शुभ्रः = उद्दीप्तः ।) शुभ्र-नागेन्द्रः = श्वेत-आदिशेषः ।
शमन-वैरिः = यमस्य शत्रुः शिवः ।

करधृत-शरजालासुर-मदापहरणावनीसुर-सुरावन

कवीनबिलजमौनिकृतचरित्रसन्नुत श्रीत्यागराजनुत ।

[चरणम्-४] कर-धृत-शर-जाल ! असुर-मद-अपहरण ! अवनी-सुर-सुर-अवन !

कवि-इन-बिलज-मौनि-कृत-चरित्र-सन्नुत ! श्री-त्यागराज-नुत !

जालम् = समूहः । मदः = गर्वः । अवनी-सुराः = पृथ्वयां देवाः ब्राह्मणाः ।
सुराः = देवाः । अवनः = रक्षकः । कवि-इनः = कवीनां सूर्यः ।
बिलज-मौनिः = बिलात् वल्मीकात् जनितः मुनिः वाल्मीकिः ।

सृष्टिस्थित्यन्त-कारकामित-कामितफलदासमानगात्र

शचीपति-नुताब्धि-मदहरानुराग-रागराजितकथासारहित ।

[चरणम्-५] सृष्टि-स्थिति-अन्त-कारक ! अमित-कामित-फलद ! असमान-गात्र !

शची-पति-नुत ! अब्धि-मद-हर ! अनुराग-राग-राजित-कथा-सार ! हित !

अमितम् = अपरिमितम् । शची-पतिः = इन्द्रः । अब्धिः = समुद्रः ।
अनुरागः = भक्तिः । रागः = स्वरः । राजिता = शोभिता ।
हितः = हितान्न यः संशृणुते ।

पाद-विजित-मौनि-शाप सव-परिपाल वर-मन्त्र-ग्रहण-लोल

परम-शान्त-चित्त जनकजा-अधिप सरोज-भव-वरद अखिल ।

[चरणम्-६] पाद-विजित-मौनि-शाप ! सव-परिपाल ! वर-मन्त्र-ग्रहण-लोल !

परम-शान्त-चित्त ! जनकजा-अधिप ! सरोज-भव-वरद !

अखिल-(जगत्-आनन्द-कारक ! त्वं जय)

पाद-विजितः = स्वचरणेन पराजितः । मौनि-शापः = गौतममुनेः शापः ।
सवः = यज्ञः । लोलः = सतृष्णः । जनकजा = जानकी । सरोज-भवः = ब्रह्मा ।

पुराणपुरुष नृवरात्मजाश्रितपराधीन खरविराधरावण-

विरावणानघ पराशरमनोहराविकृत त्यागराजसन्नुत ।

[चरणम्-७] पुराण-पुरुष ! नृ-वर-आत्मज ! अश्रित-पर-अधीन ! खर-विराध-

रावण-विरावण ! अनघ ! पराशर-मनो-हर ! अविकृत ! त्यागराज-सन्नुत !

नृवरः = नराणां श्रेष्ठः राजा दशरथः । आत्मजः = पुत्रः ।
विरावणः = (शत्रून् हत्वा येन) उत्क्रोशः कृतः । अनघः = न अघः यस्य सः, पाप-रहितः । अविकृतः = यस्य विकृतिः नास्ति । सन्नुतः = सम्यक् पूजितः ।

सज्जन-मानसाब्धि-सुधाकर कुसुमविमान सुरसारिपुकराब्ज-

लालितचरणावगुणासुरगण-मदहरण सनातनाजनुत ।

[चरणम्-८] सज्जन-मानस-अब्धि-सुधा-कर ! कुसुम-विमान ! सुरसा-रिपु-कर-

अब्ज-लालित-चरण ! अव-गुण-असुर-गण-मद-हरण ! सनातन ! अज-नुत !

सुधा-करः = चन्द्रः । कुसुम-विमानः = पुष्पकं इति विमानं यस्य सः ।
सुरसा-रिपुः = सुरसायाः शत्रुः हनुमान् । कर-अब्जम् = कर-कमलम् ।
अवगुणाः = दुष्ट-गुण-युक्ताः । सनातनः = शाश्वतः । अजः = ब्रह्मा ।

ओंकारपञ्जरकीर-पुरहरसरोजभवकेशवादिरूप

वासवरिपुजनकान्तक कलाधर कलाधराप्त घृणाकर

शरणागतजनपालन सुमनोरमण निर्विकार निगमसारतर ।

[चरणम्-९] ओंकार-पञ्जर-कीर-पुर-हर-सरोज-भव-केशव-आदि-रूप ! वासव-

रिपु-जनक-अन्तक ! कला-धर ! कला-धर-आप्त ! घृणा-कर ! शरण-आगत-जन-

पालन ! सुमनो-रमण ! निर्विकार ! निगम-सारतर ! (जगदानन्दकारक ! त्वं जय)

ओंकार-पञ्जर-कीरः = ओंकारपञ्जरशुकः शिवः । पुरहरः = शिवः । सरोज-भवः = ब्रह्मा । केशवः = विष्णुः । वासव-रिपुः = इन्द्रस्य शत्रुः इन्द्रजित् । वासवरिपुजनकः = रावणः । कलाधरः = यः चतुःषष्टिकलान् जानाति । कलाधराप्तः = शिवस्य आप्तः । घृणा = करुणा ।

अगणितगुण कनकचेल सालविदलनारुणाभ-समान-

चरणापारमहिमाद्भुत सुकविजनहृत्सदन सुरमुनिगणविहित-

कलश नीरनिधिजारमण पापगजनृसिंह वरत्यागराजादिनुत ।

[चरणम्-१०] अगणित-गुण ! कनक-चेल ! साल-विदलन ! अरुण-आभ-समान-

चरण! अपार-महिम-अद्भुत ! सुकवि-जन-हृत्सदन ! सुर-मुनि-गण-विहित-कलश!

नीरनिधि-जा-रमण ! पाप-गज-नृ-सिंह ! वर-त्यागराज-आदि-नुत !

कनक-चेलः = पीताम्बरः । साल-विदलनः = सप्तशालवृक्षाणां भञ्जकः । अरुणः = रक्तः । विहित-कलशः = तैः कृताभिषेकः । नीरनिधि-जा = सागरात् जनिता लक्ष्मीः ।
पाप-गज-नृ-सिंहः = पाप-रूप-गजस्य नर-रूप-सिंहः ।

ssnp,,ppssr-ssmmr|
smm,,,p,,,pmmpmm||
r,smrss,np,mgmp,|
s,s–nnsnn-snp,rsnp||
,snpm,npmr,pmrs,|
,pp–ss,npmrs,,rgm||
snpm,np,mrs-n,rs,|
snp-s,sr,srs-p,mnp||
snp-r,rs,psnp,mgm|
ppss,np,mrs-s,rgm||
p,np,npm-m,pm,pmg|
g,mg,mrs-n,sg,mp,||
p,npsnrs-m,rsnpm,|
gmp-snp–pnpmrs-srgm||
pmrsnps,s,,mrss,|
,pmrs,np,pmrs,pm||
pn,n-pnsr,r–mpnp,p|
snpmr,npmrs,,rgm||
,p,m,r,sp,mg,pm|
g,mpnpg,mp,mg,pm||
r,npmr,snpmr,rs,|
ps,mp,rgmp,s,npm||
p,np-mpn,pm,npmpn|
p,,mmpm,,gmpnp,p||
nsrs,s-p,p-mrsn,pm|
ss,npnsrr,,s,npm||
pp,npmnp-mm,pmgmr|
sr,smgpmnp,mgmpn||
ps,srsmrsr,snpm,|
gg,mpsnpmr,ssrgm||
s,npr,s-mrs-pp,mr-s|
gmpm,m-npp,nsrs,s||
p,mrsnp,snp,rsnp|
,mrsnp,ss,pp,mgm||
s,,s,s-s,rsn,,ssn|
ppss,n-pnsnpmr,np||
,mr,snpmrss,psnp|
,mrss,pp,p-ns,rg-m||
rg,mpnp-s,spss,m|
mrs,rn,spnmp,mgm||
ppnppnpp-mp,np,,n|
p-pmm,pm,npm,snpm||
,p,mgmp,,mrspmrs|
npmrs-snpmrs-pmp-sr||
s-p,nsrs,mrs-p,mrs|
np,psnp,rs,s,npm||

References:

Click to access jagadananda-new.pdf

http://thyagaraja-vaibhavam.blogspot.com/2008/07/thyagaraja-kriti-jagadananda-karaka.html

https://sanskritdocuments.org/doc_raama/rAmAShtottaramtyAgarAjA.html

GopaalaVimshatih Anvaya

गोपालविंशतिः – श्रीवेदान्तदेशिकैः विरचितम्
Gopaala-Vimshatih by Sri. Vedaantadeshika
नमस्क्रिया-श्लोकः
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
मङ्गलश्लोकः
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

1. श्लोकः

मूलपाठः
वन्दे वृन्दावनचरं वल्लवीजनवल्लभम् ।
जयन्तीसम्भवं धाम वैजयन्तीविभूषणम् ॥ १ ॥
पदच्छेदः
वन्दे वृन्दावन-चरम् वल्लवीजन-वल्लभम् जयन्ती-सम्भवम् धाम वैजयन्ती-विभूषणम् ।
अन्वयरचना
 (अहं) वन्दे ।
 कं वन्दे ? धाम (कृष्णम्)
 कीदृशं धाम ? वृन्दावन-चरम्
 पुनः कीदृशं धाम ? वल्लवीजन-वल्लभम्
 पुनः कीदृशं धाम ? जयन्ती-सम्भवम्
 पुनः कीदृशं धाम ? वैजयन्ती-विभूषणम्
अन्वयः
वृन्दावन-चरं वल्लवीजन-वल्लभं जयन्ती-सम्भवं वैजयन्ती-विभूषणं धाम (कृष्णम् अहं) वन्दे ।
छन्दः
Yugmavipulaa युग्मविपुला वृत्तम्
https://nivedita2015.wordpress.com/chandas-2/#yugmavipulaa
1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 ल in 15th place
व न्दे बृ न्दा व न च रं व ल्ल वी ज न व ल्ल भं
ज य न्ती स म्भ वं धा म वै ज य न्ती वि भू ष णं

2. श्लोकः

मूलपाठः
वाचं निजाङ्क-रसिकां प्रसमीक्षमाणो
वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः ।
वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके
बद्धासनो जयति वल्लव-चक्रवर्ती ॥ २ ॥
पदच्छेदः
वाचम् निजाङ्क-रसिकाम् प्रसमीक्षमाणः वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके बद्धासनः जयति वल्लव-चक्रवर्ती ।
अन्वयरचना
• जयति
o कः जयति ? वल्लव-चक्रवर्ती
o कीदृशः वल्लव-चक्रवर्ती ? प्रसमीक्षमाणः
 कां प्रसमीक्षमाणः ? वाचम्
• कीदृशीं वाचम् ? निजाङ्क-रसिकाम्
o पुनः कीदृशः वल्लव-चक्रवर्ती ? वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः
o पुनः कीदृशः वल्लव-चक्रवर्ती ? बद्धासनः
 कुत्र बद्धासनः ? वर-पुण्डरीके
• कीदृशे वर-पुण्डरीके ? वर्ण-त्रिकोण-रुचिरे
अन्वयः
निजाङ्क-रसिकां वाचं प्रसमीक्षमाणः, वक्त्रारविन्द-विनिवेशित-पाञ्चजन्यः, वर्ण-त्रिकोण-रुचिरे वर-पुण्डरीके बद्धासनः वल्लव-चक्रवर्ती जयति ।
छन्दः
Vasantatilakaa वसन्ततिलका –
https://nivedita2015.wordpress.com/chandas-2/#vasantatilakaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु ल गु ल ल ल गु ल ल गु ल गु गु
वा चं नि जा ङ्क र सि कां प्र स मी क्ष मा णो
व क्त्रा र वि न्द वि नि वे शि त पा ञ्च ज न्यः
व र्ण त्रि को ण रु चि रे व र पु ण्ड री के
ब द्धा स नो ज य ति व ल्ल व च क्र व र्ती

3. श्लोकः

आम्नाय-गन्धि-रुदित-स्फुरिताधरोष्ठम्‌
आस्राविलेक्षणमनुक्षण-मन्दहासम्‌ ।
गोपाल-डिम्भ-वपुषं कुहना-जनन्याः
प्राण-स्तनन्धयमवैमि परं पुमांसम्‌ ॥ ३ ॥
पदच्छेदः
आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्ठम्‌, आस्र-आविल-ईक्षणम्, अनुक्षण-मन्दहासम्, गोपाल-डिम्भ-वपुषम्, कुहना-जनन्याः, प्राण-स्तनन्धयम्, अवैमि, परम्, पुमांसम्‌ ।
अन्वयरचना
• अवैमि (अव+ई धातुः)
o कम् अवैमि ? पुमांसम्‌ (पुंस् शब्दः)
o कीदृशं पुमांसम्‌ ? परम्
o कीदृशं परं पुमांसम्‌ ? आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्ठम्‌
o पुनः कीदृशं परं पुमांसम्‌ ? आस्र-आविल-ईक्षणम्
o पुनः कीदृशं परं पुमांसम्‌ ? अनुक्षण-मन्दहासम्‌
o पुनः कीदृशं परं पुमांसम्‌ ? गोपाल-डिम्भ-वपुषम्
o पुनः कीदृशं परं पुमांसम्‌ ? प्राण-स्तनन्धयम्
 कस्याः प्राण-स्तनन्धयम् ? कुहना-जनन्याः
अन्वयः
आम्नाय-गन्धि-रुदित-स्फुरित-अधरोष्ठम्‌, आस्र-आविल-ईक्षणम्, अनुक्षण-मन्दहासं, गोपाल-डिम्भ-वपुषं, कुहना-जनन्याः प्राण-स्तनन्धयं, परं पुमांसम्‌ अवैमि ।
छन्दः
Vasantatilakaa वसन्ततिलका –
https://nivedita2015.wordpress.com/chandas-2/#vasantatilakaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु ल गु ल ल ल गु ल ल गु ल गु गु
आ म्ना य ग न्धि रु दि त स्फु रि ता ध रो ष्ठम्‌
आ स्रा वि ले क्ष ण म नु क्ष ण म न्द हा सम्‌
गो पा ल डि म्भ व पु षं कु ह ना ज न न्याः
प्रा ण स्त न न्ध य म वै मि प रं पु मां सम्‌

4. श्लोकः

आविर्भवत्वनिभृताभरणं पुरस्तात्‌
आकुञ्चितैक-चरणं निभृतान्य-पादम्‌ ।
दध्ना निमन्थ-मुखरेण निबद्ध-तालं
नाथस्य नन्द-भवने नवनीत-नाट्यम्‌ ॥ ४ ॥
पदच्छेदः
आविर्भवतु अनिभृत-आभरणम् पुरस्तात्‌ आकुञ्चित-एक-चरणम् निभृत-अन्यपादम्‌ दध्ना निमन्थ-मुखरेण निबद्ध-तालम् नाथस्य नन्दभवने नवनीत-नाट्यम्‌ ।
अन्वयरचना
• आविर्भवतु (आङ्-विश्-भू धातुः)
o कुत्र आविर्भवतु ? पुरस्तात्‌
o किं आविर्भवतु ? नवनीत-नाट्यम्‌
 कस्य नवनीत-नाट्यम्‌ ? नाथस्य
 कीदृशं नवनीत-नाट्यम्‌ ? अनिभृत-आभरणम्
 पुनः कीदृशं नवनीत-नाट्यम्‌ ? आकुञ्चित-एक-चरणम्
 पुनः कीदृशं नवनीत-नाट्यम्‌ ? निभृत-अन्यपादम्‌
 पुनः कीदृशं नवनीत-नाट्यम्‌ ? निबद्ध-तालम्
• केन निबद्ध-तालम् ? दध्ना
• कीदृशेन दध्ना ? निमन्थ-मुखरेण
 कुत्र (कृतं) नवनीत-नाट्यम्‌ ? नन्दभवने
अन्वयः
अनिभृत-आभरणम् आकुञ्चित-एक-चरणं निभृत-अन्यपादं दध्ना निमन्थ-मुखरेण निबद्ध-तालं नन्दभवने नाथस्य नवनीतनाट्यं पुरस्तात्‌ आविर्भवतु ।
छन्दः
Vasantatilakaa वसन्ततिलका –
https://nivedita2015.wordpress.com/chandas-2/#vasantatilakaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु ल गु ल ल ल गु ल ल गु ल गु गु
आ वि र्भ व त्व नि भृ ता भ र णं पु र स्तात्‌
आ कु ञ्चि तै क च र णं नि भृ ता न्य पा दम्‌
द ध्ना नि म न्थ मु ख रे ण नि ब द्ध ता लं
ना थ स्य न न्द भ व ने न व नी त ना ट्यम्‌

5. श्लोकः

हर्तुं कुम्भे विनिहित-करः स्वादु-हैयङ्गवीनं
दृष्ट्वा दाम-ग्रहण-चटुलां मातरं जात-रोषाम्‌ ।
पायादीषत् प्रचलित-पदो नापगच्छन्‌ न तिष्ठन्‌
मिथ्या-गोपः सपदि नयने मीलयन्‌ विश्व-गोप्ता ॥ ५ ॥
पदच्छेदः
हर्तुं कुम्भे विनिहित-करः स्वादु-हैयङ्गवीनम् दृष्ट्वा दाम-ग्रहण-चटुलाम् मातरम् जात-रोषाम्‌ पायात् ईषत् प्रचलित-पदः न अपगच्छन्‌ न तिष्ठन्‌ मिथ्या-गोपः सपदि नयने मीलयन्‌ विश्व-गोप्ता ।
अन्वयरचना
• पायात् ।
o कः पायात् ? विश्व-गोप्ता
o कीदृशः विश्व-गोप्ता ? मिथ्या-गोपः
o पुनः कीदृशः विश्व-गोप्ता ? विनिहित-करः
 कुत्र विनिहित-करः ? कुम्भे
 किं कर्तुं विनिहित-करः ? हर्तुम्
 किं हर्तुम् ? स्वादु-हैयङ्गवीनम्
o पुनः कीदृशः विश्व-गोप्ता ? प्रचलित-पदः
 कथं प्रचलित-पदः ? ईषत्
 किं कृत्वा प्रचलित-पदः ? दृष्ट्वा
 कां दृष्ट्वा ? मातरम्
• कीदृशीं मातरम् ? जात-रोषाम्
• पुनः कीदृशीं मातरम् ? दाम-ग्रहण-चटुलाम्
o किं कुर्वन् विश्व-गोप्ता ? न अपगच्छन्‌
o पुनः किं कुर्वन् विश्व-गोप्ता ? न तिष्ठन्‌
o पुनः किं कुर्वन् विश्व-गोप्ता ? मीलयन्‌
 के (द्वे) मीलयन्‌ ? नयने
 कदा मीलयन्‌ ? सपदि
अन्वयः
स्वादु-हैयङ्गवीनं हर्तुं कुम्भे विनिहित-करः, जात-रोषां दाम-ग्रहण-चटुलां मातरं दृष्ट्वा, ईषत् प्रचलित-पदः, न अपगच्छन्‌, न तिष्ठन्‌, सपदि नयने मीलयन्‌ मिथ्या-गोपः विश्व-गोप्ता पायात् ।
छन्दः
Mandaakraantaa मन्दाक्रान्ता
https://nivedita2015.wordpress.com/chandas-2/#mandaakraantaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु ल ल ल ल ल गु गु ल गु गु ल गु गु
ह र्तुं कु म्भे वि नि हि त क रः स्वा दु है य ङ्ग वी नं
दृ ष्ट्वा दा म ग्र ह ण च टु लां मा त रं जा त रो षाम्‌
पा या दी ष त्प्र च लि त प दो ना प ग च्छन्‌ न ति ष्ठन्‌
मि थ्या गो पः स प दि न य ने मी ल यन्‌ वि श्व गो प्ता

6. श्लोकः

व्रज-योषिदपाङ्ग-वेधनीयं
मधुरा-भाग्यमनन्य-भोग्यमीडे ।
वसुदेव-वधू-स्तनन्धयं तत्‌
किमपि ब्रह्म किशोर-भाव-दृश्यम्‌ ॥ ६ ॥

पदच्छेदः
व्रज-योषित्-अपाङ्ग-वेधनीयम् मधुरा-भाग्यम् अनन्य-भोग्यम् ईडे वसुदेव-वधू-स्तनन्धयम् तत्‌ किमपि ब्रह्म किशोर-भाव-दृश्यम्‌ ।

अन्वयरचना

  • (अहम्) ईडे (ईड् धातुः)
    • किं ईडे ? किमपि तत्
    • किं तत् ? ब्रह्म-किशोर-भाव-दृश्यम्‌
    • कीदृशं तत् ? व्रज-योषित्-अपाङ्ग-वेधनीयम्
    • पुनः कीदृशं तत् ? मधुरा-भाग्यम्
    • पुनः कीदृशं तत् ? अनन्य-भोग्यम्
    • पुनः कीदृशं तत् ? वसुदेव-वधू-स्तनन्धयम्

अन्वयः
व्रज-योषित्-अपाङ्ग-वेधनीयं मधुरा-भाग्यम् अनन्य-भोग्यं वसुदेव-वधू-स्तनन्धयं किशोर-भाव-दृश्यं किमपि तत्‌ ब्रह्म (अहम्) ईडे ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
व्र ज यो षि द पा ङ्ग वे ध नी यं
ल ल गु गु ल ल गु ल गु ल गु गु
म धु रा भा ग्य म न न्य भो ग्य मी डे
व सु दे व व धू स्त न न्ध यं तत्‌
कि म पि ब्र ह्म कि शो र भा व दृ श्यम्‌

7. श्लोकः

परिवर्तित-कन्धरं भयेन
स्मित-फुल्लाधर-पल्लवं स्मरामि ।
विटपित्व-निरासकं कयोश्चित्‌
विपुलोलूखल-कर्षकं कुमारम्‌ ॥ ७ ॥
पदच्छेदः
परिवर्तित-कन्धरम् भयेन स्मित-फुल्ल-अधर-पल्लवम् स्मरामि विटपित्व-निरासकम् कयोश्चित्‌ विपुल-उलूखल-कर्षकम् कुमारम्‌ ।
अन्वयरचना
• (अहं) स्मरामि
o कं स्मरामि ? कुमारम्
o कीदृशं कुमारम् ? विपुल-उलूखल-कर्षकं
o पुनः कीदृशं कुमारम् ? परिवर्तित-कन्धरम्
 केन कारणेन परिवर्तित-कन्धरम् ? भयेन
o पुनः कीदृशं कुमारम् ? स्मित-फुल्ल-अधर-पल्लवम्
o पुनः कीदृशं कुमारम् ? विटपित्व-निरासकम्
 कयोः विटपित्व-निरासकम् ? कयोश्चित्‌
अन्वयः
विपुल-उलूखल-कर्षकं, भयेन परिवर्तित-कन्धरं, स्मित-फुल्ल-अधर-पल्लवं, कयोश्चित्‌ विटपित्व-निरासकं, कुमारम् (अहं) स्मरामि ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
प रि व र्ति त क न्ध रं भ ये न
ल ल गु गु ल ल गु ल गु ल गु गु
स्मि त फु ल्ला ध र प ल्ल वं स्म रा मि
ल ल गु ल ल गु ल गु ल गु गु
वि ट पि त्व नि रा स कं क यो श्चित्‌
ल ल गु गु ल ल गु ल गु ल गु गु
वि पु लो लू ख ल क र्ष कं कु मा रम्‌

8. श्लोकः

निकटेषु निशामयामि नित्यं
निगमान्तैरधुनाऽपि मृग्यमाणम् ।
यमलार्जुन-दृष्ट-बाल-केलिं
यमुना-साक्षिक-यौवनं युवानम् ॥ ८ ॥
पदच्छेदः
निकटेषु निशामयामि नित्यम् निगमान्तैः अधुना अपि मृग्यमाणम् यमल-अर्जुन-दृष्ट-बालकेलिम् यमुना-साक्षिक-यौवनम् युवानम् ।
अन्वयरचना
• (अहं) निशामयामि
o कदा निशामयामि ? नित्यम्
o कुत्र निशामयामि ? निकटेषु
o कं निशामयामि ? युवानम्
 कीदृशं युवानम् ? मृग्यमाणम्
• कैः मृग्यमाणम् ? निगमान्तैः
• कदा मृग्यमाणम् ? अधुना अपि
 कीदृशं युवानम् ? यमल-अर्जुन-दृष्ट-बालकेलिम्
 पुनः कीदृशं युवानम् ? यौवनम्
• कीदृशं यौवनम् ? यमुना-साक्षिकम्
अन्वयः
निगमान्तैः अधुना अपि मृग्यमाणं यमल-अर्जुन-दृष्ट-बालकेलिं, यमुना-साक्षिकं यौवनं, युवानं निकटेषु नित्यं निशामयामि ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
नि क टे षु नि शा म या मि नि त्यं
नि ग मा न्तै र धु ना पि मृ ग्य मा णम्
य म ला र्जु न दृ ष्ट बा ल के लिं
य मु ना सा क्षि क यौ व नं यु वा नम्

9. श्लोकः

पदवीमदवीयसीं विमुक्तेः
अटवी-सम्पदमम्बु-वाहयन्तीम् ‌।
अरुणाधर-साभिलाष-वंशां
करुणां कारण-मानुषीं भजामि ॥ ९ ॥
पदच्छेदः
पदवीम् अदवीयसीम् विमुक्तेः अटवी-सम्पदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशाम् करुणाम् कारण-मानुषीम् भजामि ‌।
अन्वयरचना
• (अहं) भजामि
o कां भजामि ? करुणाम्
o कीदृशीं करुणाम् ? कारण-मानुषीम्
o पुनः कीदृशीं करुणाम् ? अरुण-अधर-साभिलाष-वंशाम्
o पुनः कीदृशीं करुणाम् ? अम्बु-वाहयन्तीम्
 कीदृशीं अम्बु-वाहयन्तीम् ? अटवी-सम्पदम्
o पुनः कीदृशीं करुणाम् ? पदवीम्
 कीदृशीं पदवीम् ? अदवीयसीम्
 कस्याः पदवीम् ? विमुक्तेः
अन्वयः
विमुक्तेः अदवीयसीं पदवीम् अटवी-सम्पदम् अम्बु-वाहयन्तीम् अरुण-अधर-साभिलाष-वंशां कारण-मानुषीं करुणां भजामि ‌।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
प द वी म द वी य सीं वि मु क्तेः
अ ट वी स म्प द म म्बु वा ह य न्तीम्
अ रु णा ध र सा भि ला ष वं शां
क रु णां का र ण मा नु षीं भ जा मि

10. श्लोकः

अनिमेष-निषेवणीयमक्ष्णोः
अजहद्यौवनमाविरस्तु चित्ते ।
कलहायित-कुन्तलं कलापैः
करणोन्मादक-विभ्रमं महो मे ॥ १० ॥
पदच्छेदः
अनिमेष-निषेवणीयम् अक्ष्णोः अजहत्-यौवनम् आविरस्तु चित्ते कलहायित-कुन्तलम् कलापैः करण-उन्मादक-विभ्रमम् महः मे ।
अन्वयरचना
• आविरस्तु (आङ्-विश्-अस् धातुः)
o किं आविरस्तु ? महः (महस् शब्दः)
 कीदृशं महः ? अनिमेष-निषेवणीयम्
• कयोः अनिमेष-निषेवणीयम् ? अक्ष्णोः
 पुनः कीदृशं महः ? अजहत्-यौवनम्
 पुनः कीदृशं महः ? कलापैः कलहायित-कुन्तलम्
• कैः कलहायित-कुन्तलम् ? कलापैः
 पुनः कीदृशं महः ? करण-उन्मादक-विभ्रमम्
o कुत्र आविरस्तु ? चित्ते
 कस्य चित्ते ? मे
अन्वयः
अक्ष्णोः अनिमेष-निषेवणीयम्, अजहत्-यौवनं, कलापैः कलहायित-कुन्तलं, करण-उन्मादक-विभ्रमं, महः मे चित्ते आविरस्तु ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
अ नि मे ष नि षे व णी य म क्ष्णोः
अ ज ह द्यौ व न मा वि र स्तु चि त्ते
क ल हा यि त कु न्त लं क ला पैः
क र णो न्मा द क वि भ्र मं म हो मे

11. श्लोकः

अनुयायि-मनोज्ञ-वंश-नालैः
अवतु स्पर्शित-वल्लवी-विमोहैः ।
अनघ-स्मित-शीतलैरसौ माम्‌
अनुकम्पा-सरिदम्बुजैरपाङ्गैः ॥ ११ ॥
पदच्छेदः
अनुयायि-मनोज्ञ-वंश-नालैः अवतु स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः असौ माम्‌ अनुकम्पा-सरित्-अम्बुजैः अपाङ्गैः ।
अन्वयरचना
• अवतु
o कः अवतु ? असौ (अदस् शब्दः)
o कम् अवतु ? माम्‌
o कैः अवतु ? अपाङ्गैः
 कीदृशैः अपाङ्गैः ? अनुयायि-मनोज्ञ-वंश-नालैः
 पुनः कीदृशैः अपाङ्गैः ? स्पर्शित-वल्लवी-विमोहैः
 पुनः कीदृशैः अपाङ्गैः ? अनघ-स्मित-शीतलैः
 पुनः कीदृशैः अपाङ्गैः ? अनुकम्पा-सरित्-अम्बुजैः
अन्वयः
अनुयायि-मनोज्ञ-वंश-नालैः स्पर्शित-वल्लवी-विमोहैः अनघ-स्मित-शीतलैः अनुकम्पा-सरित्-अम्बुजैः अपाङ्गैः असौ माम्‌ अवतु ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
अ नु या यि म नो ज्ञ वं श ना लैः
अ व तु स्प र्शि त व ल्ल वी वि मो हैः
अ न घ स्मि त शी त लै र सौ माम्‌
अ नु क म्पा स रि द म्बु जै र पा ङ्गैः

12. श्लोकः

अधराहित-चारु-वंश-नालाः
मकुटालम्बि-मयूर-पिञ्छ-मालाः ।
हरिनील-शिला-विभङ्ग-नीलाः
प्रतिभास्सन्तु ममान्तिम-प्रयाणे ॥ १२ ॥
पदच्छेदः
अधराहित-चारु-वंश-नालाः मकुट-आलम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः सन्तु मम अन्तिम-प्रयाणे ।
अन्वयरचना
• सन्तु
o कदा सन्तु ? अन्तिम-प्रयाणे
 कस्य अन्तिम-प्रयाणे ? मम
o काः सन्तु ? प्रतिभाः
 कीदृशाः प्रतिभाः ? अधराहित-चारु-वंश-नालाः
 पुनः कीदृशाः प्रतिभाः ? मकुट-आलम्बि-मयूर-पिञ्छ-मालाः
 पुनः कीदृशाः प्रतिभाः ? हरिनील-शिला-विभङ्ग-नीलाः
अन्वयः
अधर-आहित-चारु-वंश-नालाः मकुट-आलम्बि-मयूर-पिञ्छ-मालाः हरिनील-शिला-विभङ्ग-नीलाः प्रतिभाः मम अन्तिम-प्रयाणे सन्तु ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
अ ध रा हि त चा रु वं श ना लाः
म कु टा ल म्बि म यू र पि ञ्छ मा लाः
ह रि नी ल शि ला वि भ ङ्ग नी लाः
प्र ति भा स्स न्तु म मा न्ति म प्र या णे

13. श्लोकः

अखिलानवलोकयामि कालान्‌
महिलाधीन-भुजान्तरस्य यूनः ।
अभिलाष-पदं व्रजाङ्गनानाम्‌
अभिलाप-क्रम-दूरमाभिरूप्यम्‌ ॥ १३ ॥
पदच्छेदः
अखिलान् अवलोकयामि कालान्‌ महिला-अधीन-भुज-अन्तरस्य यूनः अभिलाष-पदम् व्रज-अङ्गनानाम्‌ अभिलाप-क्रम-दूरम् आभिरूप्यम्‌ ।
अन्वयरचना
• (अहम्) अवलोकयामि
o किम् अवलोकयामि ? आभिरूप्यम्‌
 कस्य आभिरूप्यम्‌ ? यूनः (युवन् शब्दः)
• कीदृशस्य यूनः ? महिला-अधीन-भुजान्तरस्य
 कीदृशम् आभिरूप्यम्‌ ? अभिलाष-पदम्
• केषाम् अभिलाष-पदम् ? व्रजाङ्गनानाम्‌
 पुनः कीदृशम् आभिरूप्यम्‌ ? अभिलाप-क्रम-दूरम्
o कदा अवलोकयामि ? कालान्‌ (सप्तम्यर्थे द्वितीयाविभक्तिः)
 कीदृशान् कालान्‌ ? अखिलान्
अन्वयः
व्रजाङ्गनानाम्‌ अभिलाष-पदम्, अभिलाप-क्रम-दूरं, महिला-अधीन-भुजान्तरस्य यूनः आभिरूप्यम्‌ अखिलान् कालान्‌ अवलोकयामि ।
छन्दः
Maalabhaarinee मालभारिणी / वसन्तमालिका /औपच्छन्दसिकम्
https://nivedita2015.wordpress.com/chandas-2/#maalabhaarinee
1 2 3 4 5 6 7 8 9 10 11 12
ल ल गु ल ल गु ल गु ल गु गु
ल ल गु गु ल ल गु ल गु ल गु गु
अ खि ला न व लो क या मि का लान्‌
म हि ला धी न भु जा न्त र स्य यू नः
अ भि ला ष प दं व्र जा ङ्ग ना नाम्‌
अ भि ला प क्र म दू र मा भि रू प्यम्‌

14. श्लोकः

हृदि मुग्ध-शिखण्ड-मण्डनो
लिखितः केन ममैष शिल्पिना ।
मदनातुर-वल्लवाङ्गना-
वदनाम्बोज-दिवाकरो युवा ॥ १४ ॥
पदच्छेदः
हृदि मुग्ध-शिखण्ड-मण्डनः लिखितः केन मम एषः शिल्पिना मदन-आतुर-वल्लव-आङ्गना-वदन-अम्बोज-दिवाकरः युवा ।
अन्वयरचना
• लिखितः (अस्ति) ।
• कुत्र लिखितः ? हृदि
o कस्य हृदि ? मम
• कः लिखितः ? एषः युवा
o कीदृशः युवा ? मुग्ध-शिखण्ड-मण्डनः
o पुनः कीदृशः युवा ? मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः
• केन लिखितः ? शिल्पिना
o केन शिल्पिना ? केन (किं शब्दः, क शब्दः च)
अन्वयः
मुग्ध-शिखण्ड-मण्डनः मदनातुर-वल्लवाङ्गना-वदनाम्बोज-दिवाकरः एषः युवा मम हृदि केन शिल्पिना लिखितः (अस्ति) ।
छन्दः
Prabodhitaa प्रबोधिता / अपरवक्त्रम्
https://nivedita2015.wordpress.com/chandas-2/prabodhitaa
1 2 3 4 5 6 7 8 9 10 11
ल ल गु ल ल गु ल गु ल गु
ल ल गु गु ल ल गु ल गु ल गु
हृ दि मु ग्ध शि ख ण्ड म ण्ड नो
लि खि तः के न म मै ष शि ल्पि ना
म द ना तु र व ल्ल वा ङ्ग ना
व द ना म्बो ज दि वा क रो यु वा

15. श्लोकः

महसे महिताय मौलिना
विनतेनाञ्जलिमञ्जनत्विषे ।
कलयामि विमुग्ध-वल्लवी-
वलया-भाषित-मञ्जु-वेणवे ॥ १५ ॥
पदच्छेदः
महसे महिताय मौलिना विनतेन अञ्जलिम् अञ्जनत्विषे कलयामि विमुग्ध-वल्लवी-वलया-भाषित-मञ्जु-वेणवे ।
अन्वयरचना
• कलयामि
o किं कलयामि ? अञ्जलिम्
o कथं कलयामि ? मौलिना
 कीदृशेन मौलिना ? विनतेन
o कस्मै कलयामि ? महसे (महस् शब्दः)
 कीदृशाय महसे ? महिताय
 पुनः कीदृशाय महसे ? अञ्जनत्विषे (त्विष् शब्दः)
 पुनः कीदृशाय महसे ? विमुग्ध-वल्लवी-वलया-भाषित-मञ्जु-वेणवे
अन्वयः
महिताय अञ्जनत्विषे विमुग्ध-वल्लवी-वलया-भाषित-मञ्जु-वेणवे महसे विनतेन मौलिना अञ्जलिं कलयामि ।
छन्दः
Prabodhitaa प्रबोधिता / अपरवक्त्रम्
https://nivedita2015.wordpress.com/chandas-2/#prabodhitaa

1 2 3 4 5 6 7 8 9 10 11
ल ल गु ल ल गु ल गु ल गु
ल ल गु गु ल ल गु ल गु ल गु
म ह से म हि ता य मौ लि ना
वि न ते ना ञ्ज लि म ञ्ज न त्वि षे
क ल या मि वि मु ग्ध व ल्ल वी
व ल या भा षि त म ञ्जु वे ण वे

16. श्लोकः

जयति ललित-वृत्तिं शिक्षितो वल्लवीनां
शिथिल-वलय-शिञ्जा-शीतलैर्हस्त-तालैः ।
अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः
अधर-मणि-सुधायामंशवान्‌ वंश-नालः ॥ १६ ॥
पदच्छेदः
जयति ललित-वृत्तिम् शिक्षितः वल्लवीनाम् शिथिल-वलय-शिञ्जा-शीतलैः हस्त-तालैः अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः अधर-मणि-सुधायाम् अंशवान्‌ वंश-नालः ।
अन्वयरचना
• जयति
o कः जयति ? वंश-नालः
 कीदृशः वंश-नालः ? अंशवान्‌
• कस्याम् अंशवान्‌ ? अधर-मणि-सुधायाम्
o कस्य अधर-मणि-सुधायाम् ? विष्णोः
o कीदृशस्य विष्णोः ? अखिल-भुवन-रक्षा-गोप-वेषस्य
 पुनः कीदृशः वंश-नालः ? शिक्षितः
• किं शिक्षितः ? ललित-वृत्तिम्
• कैः शिक्षितः ? हस्त-तालैः
o कीदृशैः हस्त-तालैः ? शिथिल-वलय-शिञ्जा-शीतलैः
o कासाम् ? वल्लवीनाम्
अन्वयः
वल्लवीनां शिथिल-वलय-शिञ्जा-शीतलैः हस्त-तालैः ललित-वृत्तिं शिक्षितः, अखिल-भुवन-रक्षा-गोप-वेषस्य विष्णोः अधर-मणि-सुधायाम् अंशवान्‌, वंश-नालः जयति ।
छन्दः
Maalinee मालिनी
https://nivedita2015.wordpress.com/chandas-2/#maalinee
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
ल ल ल ल ल ल ल गु गु ल गु गु ल गु गु
ज य ति ल लि त वृ त्तिं शि क्षि तो व ल्ल वी नां
शि थि ल व ल य शि ञ्जा शी त लै र्ह स्त ता लैः
अ खि ल भु व न र क्षा गो प वे ष स्य वि ष्णोः
अ ध र म णि सु धा या मं श वान्‌ वं श ना लः

17. श्लोकः

चित्राकल्पः श्रवसि कलयन्‌ लाङ्गली-कर्णपूरं
बर्होत्तंस-स्फुरित-चिकुरो बन्धुजीवं दधानः ।
गुञ्जा-बद्धा-मुरसि ललितां धारयन्‌ हार-यष्टिं
गोप-स्त्रीणां जयति कितवः कोऽपि कौमार-हारी ॥ १७ ॥
पदच्छेदः
चित्र-आकल्पः श्रवसि कलयन्‌ लाङ्गली-कर्णपूरम् बर्ह-उत्तंस-स्फुरित-चिकुरः बन्धुजीवं दधानः गुञ्जा-बद्धाम् उरसि ललितां धारयन्‌ हार-यष्टिम् गोप-स्त्रीणाम् जयति कितवः कोऽपि कौमार-हारी ।
अन्वयरचना
• जयति
o कः जयति ? कितवः
o कीदृशः कितवः ? कोऽपि
o पुनः कीदृशः कितवः ? कलयन्‌
 किं कलयन्‌ ? लाङ्गली-कर्णपूरं
 कुत्र कलयन्‌ ? श्रवसि
o पुनः कीदृशः कितवः ? बर्ह-उत्तंस-स्फुरित-चिकुरः
o पुनः कीदृशः कितवः ? दधानः
 किं दधानः ? बन्धुजीवम्
o पुनः कीदृशः कितवः ? धारयन्‌
 किं धारयन्‌ ? हार-यष्टिम्
• कीदृशीं हार-यष्टिम् ? ललिताम्
• पुनः कीदृशीं हार-यष्टिम् ? गुञ्जा-बद्धाम्
 कुत्र धारयन्‌ ? उरसि
o पुनः कीदृशः कितवः ? चित्र-आकल्पः
o पुनः कीदृशः कितवः ? कौमार-हारी
 कासां कौमार-हारी ? गोप-स्त्रीणाम्
अन्वयः
श्रवसि लाङ्गली-कर्णपूरं कलयन्‌, बर्ह-उत्तंस-स्फुरित-चिकुरः, बन्धुजीवं दधानः, उरसि गुञ्जा-बद्धां ललितां हार-यष्टिं धारयन्‌, चित्र-आकल्पः, गोप-स्त्रीणां कौमार-हारी, कोऽपि कितवः जयति ।
छन्दः
Mandaakraantaa मन्दाक्रान्ता
https://nivedita2015.wordpress.com/chandas-2/#mandaakraantaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु ल ल ल ल ल गु गु ल गु गु ल गु गु
चि त्रा क ल्पः श्र व सि क ल यन्‌ ला ङ्ग ली क र्ण पू रं
ब र्हो त्तं स स्फु रि त चि कु रो ब न्धु जी वं द धा नः
गु ञ्जा ब द्धा मु र सि ल लि तां धा र यन्‌ हा र य ष्टिं
गो प स्त्री णां ज य ति कि त वः को पि कौ मा र हा री

18. श्लोकः

लीला-यष्टिं कर-किसलये दक्षिणे न्यस्य धन्याम्‌
अंसे देव्याः पुलक-रुचिरे सन्निविष्टान्य-बाहुः ।
मेघ-श्यामो जयति ललितो मेखला-दत्त-वेणुः
गुञ्जापीड-स्फुरित-चिकुरो गोप-कन्या-भुजङ्गः ॥ १८ ॥
पदच्छेदः
लीला-यष्टिम् कर-किसलये दक्षिणे न्यस्य धन्याम्‌ अंसे देव्याः पुलक-रुचिरे सन्निविष्ट-अन्य-बाहुः मेघ-श्यामः जयति ललितः मेखला-दत्त-वेणुः गुञ्जापीड-स्फुरित-चिकुरः गोप-कन्या भुजङ्गः ।
अन्वयरचना
• जयति ।
o कः जयति ? गोप-कन्या-भुजङ्गः
o कीदृशः गोप-कन्या-भुजङ्गः ? सन्निविष्ट-अन्य-बाहुः
 कुत्र सन्निविष्ट-अन्य-बाहुः ? अंसे
• कीदृशे अंसे ? पुलक-रुचिरे
• कस्याः अंसे ? देव्याः
 किं कृत्वा सन्निविष्ट-अन्य-बाहुः ? न्यस्य
• किं न्यस्य ? लीला-यष्टिम्
o कीदृशीं लीला-यष्टिम् ? धन्याम्
• कुत्र न्यस्य ? कर-किसलये
o कस्मिन् कर-किसलये ? दक्षिणे
o पुनः कीदृशः गोप-कन्या-भुजङ्गः ? ललितः
o पुनः कीदृशः गोप-कन्या-भुजङ्गः ? मेखला-दत्त-वेणुः
o पुनः कीदृशः गोप-कन्या-भुजङ्गः ? गुञ्जापीड-स्फुरित-चिकुरः
o पुनः कीदृशः गोप-कन्या-भुजङ्गः ? मेघ-श्यामः
अन्वयः
दक्षिणे कर-किसलये धन्यां लीला-यष्टिं न्यस्य, देव्याः पुलक-रुचिरे अंसे सन्निविष्ट-अन्य-बाहुः, ललितः, मेखला-दत्त-वेणुः, गुञ्जापीड-स्फुरित-चिकुरः, मेघ-श्यामः, गोप-कन्या-भुजङ्गः जयति ।
छन्दः
Mandaakraantaa मन्दाक्रान्ता
https://nivedita2015.wordpress.com/chandas-2/#mandaakraantaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु ल ल ल ल ल गु गु ल गु गु ल गु गु
ली ला य ष्टिं क र कि स ल ये द क्षि णे न्य स्य ध न्याम्‌
अं से दे व्याः पु ल क रु चि रे स न्नि वि ष्टा न्य बा हुः
मे घ श्या मो ज य ति ल लि तो मे ख ला द त्त वे णुः
गु ञ्जा पी ड स्फु रि त चि कु रो गो प क न्या भु ज ङ्गः

19. श्लोकः

प्रत्यालीढ-स्थितिमधिगतां प्राप्त-गाढाङ्गपालिं
पश्चादीषन्मिलित-नयनां प्रेयसीं प्रेक्षमाणः ।
भस्रा-यन्त्र-प्रणिहित-करो भक्त-जीवातुरव्यात्‌
वारि-क्रीडा-निबिड-वसनो वल्लवी-वल्लभो नः ॥ १९ ॥
पदच्छेदः
प्रत्यालीढ-स्थितिम् अधिगताम् प्राप्त-गाढ-अङ्गपालिम् पश्चात् ईषत्-मिलित-नयनाम् प्रेयसीम् प्रेक्षमाणः भस्रा-यन्त्र-प्रणिहित-करः भक्त-जीवातुः अव्यात्‌ वारि-क्रीडा-निबिड-वसनः वल्लवी-वल्लभः नः ।
अन्वयरचना
• अव्यात्‌ ।
o कान् अव्यात्‌ ? नः
o कः अव्यात्‌ ? वल्लवी-वल्लभः
o कीदृशः वल्लवी-वल्लभः ? प्रेक्षमाणः
 कां प्रेक्षमाणः ? प्रेयसीम्
 कीदृशीं प्रेयसीम् ? अधिगताम्
• किम् अधिगताम् ? प्रत्यालीढ-स्थितिम्
 पुनः कीदृशीं प्रेयसीम् ? प्राप्त-गाढ-अङ्गपालिम्
• कदा प्राप्त-गाढ-अङ्गपालिम् ? पश्चात्
 पुनः कीदृशीं प्रेयसीम् ? ईषत्-मिलित-नयनाम्
o पुनः कीदृशः वल्लवी-वल्लभः ? भस्रा-यन्त्र-प्रणिहित-करः
o पुनः कीदृशः वल्लवी-वल्लभः ? वारि-क्रीडा-निबिड-वसनः
o पुनः कीदृशः वल्लवी-वल्लभः ? भक्त-जीवातुः
अन्वयः
प्रत्यालीढ-स्थितिम् अधिगतां पश्चात् प्राप्त-गाढ-अङ्गपालिं ईषत्-मिलित-नयनां प्रेयसीं प्रेक्षमाणः, भस्रा-यन्त्र-प्रणिहित-करः, वारि-क्रीडा-निबिड-वसनः, भक्त-जीवातुः, वल्लवी-वल्लभः नः अव्यात्‌ ।
छन्दः
Mandaakraantaa मन्दाक्रान्ता
https://nivedita2015.wordpress.com/chandas-2/#mandaakraantaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु ल ल ल ल ल गु गु ल गु गु ल गु गु
प्र त्या ली ढ स्थि ति म धि ग तां प्रा प्त गा ढा ङ्ग पा लिं
प श्चा दी ष न्मि लि त न य नां प्रे य सीं प्रे क्ष मा णः
भ स्रा य न्त्र प्र णि हि त क रो भ क्त जी वा तु र व्यात्‌
वा रि क्री डा नि बि ड व स नो व ल्ल वी व ल्ल भो नः

20. श्लोकः

वासो हृत्वा दिनकर-सुता-सन्निधौ वल्लवीनां
लीला-स्मेरो जयति ललितामास्थितः कुन्द-शाखाम्‌ ।
सव्रीडाभिस्तदनु वसने ताभिरभ्यर्थ्यमाने
कामी कश्चित्‌ कर-कमलयोरञ्जलिं याचमानः ॥ २० ॥
पदच्छेदः
वासः हृत्वा दिनकर-सुता-सन्निधौ वल्लवीनाम् लीला-स्मेरः जयति ललिताम् आस्थितः कुन्द-शाखाम्‌ सव्रीडाभिः तदनु वसने ताभिः अभ्यर्थ्यमाने कामी कश्चित्‌ कर-कमलयोः अञ्जलिम् याचमानः ।
अन्वयरचना
• जयति ।
o कः जयति ? कामी
o कीदृशः कामी ? कश्चित्‌
o पुनः कीदृशः कामी ? ललितां कुन्द-शाखाम्‌ आस्थितः
 किं कृत्वा आस्थितः ? हृत्वा
 किं हृत्वा ? वासः (वासस् शब्दः)
• कासां वासः ? वल्लवीनाम्
 कुत्र हृत्वा ? दिनकर-सुता-सन्निधौ
o पुनः कीदृशः कामी ? लीला-स्मेरः
o पुनः कीदृशः कामी ? याचमानः
 किं याचमानः ? अञ्जलिम्
• कयोः अञ्जलिम् ? कर-कमलयोः
 कदा याचमानः ? अभ्यर्थ्यमाने (सति)
• कस्मिन् अभ्यर्थ्यमाने (सति) ? वसने
• काभिः अभ्यर्थ्यमाने (सति) ? ताभिः
• कीदृशीभिः ताभिः ? सव्रीडाभिः
• कदा अभ्यर्थ्यमाने (सति) ? तदनु
अन्वयः
दिनकर-सुता-सन्निधौ वल्लवीनां वासः हृत्वा, ललितां कुन्द-शाखाम्‌ आस्थितः, तदनु सव्रीडाभिः ताभिः वसने अभ्यर्थ्यमाने (सति) कर-कमलयोः अञ्जलिं याचमानः, लीला-स्मेरः, कश्चित्‌ कामी जयति ।
छन्दः
Mandaakraantaa मन्दाक्रान्ता
https://nivedita2015.wordpress.com/chandas-2/#mandaakraantaa
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु ल ल ल ल ल गु गु ल गु गु ल गु गु
वा सो हृ त्वा दि न क र सु ता स न्नि धौ व ल्ल वी नां
ली ला स्मे रो ज य ति ल लि ता मा स्थि तः कु न्द शा खाम्‌
स व्री डा भि स्त द नु व स ने ता भि र भ्य र्थ्य मा ने
का मी क श्चित्‌ क र क म ल यो र ञ्ज लिं या च मा नः

21. श्लोकः

इत्यनन्य-मनसा विनिर्मितां
वेङ्कटेश-कविना स्तुतिं पठन्‌ ।
दिव्य-वेणु-रसिकं समीक्षते
दैवतं किमपि यौवत-प्रियम्‌ ॥ २१ ॥
पदच्छेदः
इति अनन्य-मनसा विनिर्मिताम् वेङ्कटेश-कविना स्तुतिम् पठन्‌ दिव्य-वेणु-रसिकम् समीक्षते दैवतम् किमपि यौवत-प्रियम्‌ ।
अन्वयरचना
• समीक्षते ।
o किं समीक्षते ? दैवतम्
 कीदृशं दैवतम् ? किमपि
 पुनः कीदृशं दैवतम् ? दिव्य-वेणु-रसिकम्
 पुनः कीदृशं दैवतम् ? यौवत-प्रियम्
o किं कुर्वन् समीक्षते ? पठन्‌
 कां पठन्‌ ? स्तुतिम्
• कीदृशीं स्तुतिम् ? विनिर्मिताम्
• कथं विनिर्मिताम् ? अनन्य-मनसा
• केन विनिर्मिताम् ? वेङ्कटेश-कविना
• किमिति विनिर्मिताम् ? इति
अन्वयः
इति वेङ्कटेश-कविना अनन्य-मनसा विनिर्मितां स्तुतिं पठन्‌. दिव्य-वेणु-रसिकं, यौवत-प्रियं, किमपि दैवतं समीक्षते ।
छन्दः
Rathoddhataa रथोद्धता
https://nivedita2015.wordpress.com/chandas-2/#rathoddhataa
1 2 3 4 5 6 7 8 9 10 11
गु ल गु ल ल ल गु ल गु ल गु
इ त्य न न्य म न सा वि नि र्मि तां
वे ङ्क टे श क वि ना स्तु तिं प ठन्‌
दि व्य वे णु र सि कं स मी क्ष ते
दै व तं कि म पि यौ व त प्रि यम्‌

Sanskrit Lecture Series by Smt. Sujatha Ramesh and Rendition by Smt. C.K. Sangeetha

GopaalaVimshatih

Raghuveeragadyam – Session #38

Raghuveeragadyam of Srimad Vedaantadeshika #38 – Yuddhakaandam – 8

Presented by Smt. Sujatha Ramesh

Paintings Copyrights @krishnafortoday.com and Sri. Keshav

प्रस्तोत्री – श्रीमती सुजाता रमेशः। भागः #38।

इन्द्रजित्हननम्, रावणस्य सीताहननयत्नः च ।

https://nivedita2015.wordpress.com/raghuveeragadyam3/#session38

#Raghuveeragadyam

Himagiritanaye

Himagiritanaye Hemalate

हिमगिरि-तनये हेमलते

रचयिता – श्री. हरिकेशनल्लूर् मुत्तैय्य भागवतर्  

हरिणी-अगरम्, आदिनारायण-अगरम्, अदिती-अगरम्

 शुद्धधन्यासी-रागः  आदि-तालः   

Composed by Sri.Harikeshanalloor Mutthiah Bhaagavatar
Sung by Dr. Harini Agaram,
Chi. Adinarayan Agaram and Kum. Aditi Agaram
Shuddha-Dhanyaasee Raagam, Aadi Taalam

हिमगिरि-तनये हेमलते ।

अम्ब ईश्वरि श्रीललिते मामव ।

[पल्लवी] (हे) हिमगिरि-तनये ! हेमलते ! अम्ब ! ईश्वरि ! श्रीललिते ! (त्वं) माम् अव ।

हिमगिरि-तनये O Paarvatee, the daughter (तनया) of Himavaan (हिमगिरि)! हेमलते O Hemalataa (हेमलता), who is tender and glowing like the golden (हेम) vine (लता)! अम्ब O Mother (अम्बा)! ईश्वरि O Goddess Eeshvaree (ईश्वरी)! श्रीललिते O Goddess Sreelalitaa (श्रीललिता)! अव You protect माम् me.
[अव – अव्., लोट्., म.पु. । माम् – अस्मद्, द्वि. वि. ।] 

रमा-वाणी-संसेविते सकले ।

राजराजेश्वरि राम-सहोदरि ।

[अनुपल्लवी] (हे) रमा-वाणी-संसेविते ! सकले ! राजराजेश्वरि ! राम-सहोदरि ! (त्वं माम् अव) ।

रमा-वाणी-संसेविते O one nicely served (संसेविता) by Lakshmee (रमा) and Saraswatee (वाणी)! सकले O complete one (सकला) having all the 16 divine qualities, Shoodashakalaa! राजराजेश्वरि O the Supreme Goddess Raajaraajeshvaree (राज-राज-ईश्वरी)! राम-सहोदरि O sister (सहोदरी) of Raama, who is Sriman Naaraayana (राम)! अव You protect माम् me.

पाशाङ्कुशेक्षुदन्डकरे अम्ब

परात्परे निज-भक्त-परे ।

[चरणम्…] पाशाङ्कुशेक्षुदन्डकरे ! अम्ब ! परात्परे ! निज-भक्त-परे !  …

पाश-अङ्कुश-इक्षुदन्डकरे  O one (पाश-अङ्कुश-इक्षुदन्डकरा) who has in her hand (कर) noose (पाश), hook (अङ्कुश) and the cane of Sugarcane (इक्षु-दन्ड) ! अम्ब O Mother (अम्बा) ! परात्परे O one who is superior than the best (परात्-परा) ! निज-भक्त-परे O one who is ever engaged (परा) in (taking care of) one’s (निज) devotees (भक्त)! ….

आशाम्बरे हरिकेश-विलासे

आनन्द-रूपे अमित-प्रतापे ।

[…चरणम्] … आशा-अम्बरे ! हरिकेश-विलासे ! आनन्द-रूपे ! अमित-प्रतापे ! (त्वं माम् अव) ।

… आशा-अम्बरे O Aashaambaraa (आशाम्बरा), the consort of Shiva (आशाम्बर), one for whom the directions (आशा) are the clothes (अम्बर)! हरिकेश-विलासे O one who delights (विलासा) Harikesha, the author of this song (हरिकेश)! आनन्द-रूपे O Embodiment (रूपा) of Bliss (आनन्द)! अमित-प्रतापे O one who possesses splendor (प्रतापा) that is limitless (अमित)! अव You protect माम् me.

Harikeshanalloor Mutthiah Bhaagavatar is a famous twentieth-century composers of almost 400 compositions in Telugu, Tamil, Sanskrit and Kannada. He had also created about 20 raagas. Sangeeta Kalpa Drumam is his treatise on musical theory. Tyagaraaja Vijaya Kaavya is his Sanskrit poetic work.

In this song, the different names of the Goddess (in Samboodhana Prathamaa Vibhakti or Vocative words) are being called out like a Naamaavali and Her blessings are sought.

हिमगिरि-तनया, हेमलता, अम्बा, ईश्वरी, श्रीललिता,

रमा-वाणी-संसेविता, सकला, राजराजेश्वरी, राम-सहोदरी,

पाश-अङ्कुश-इक्षुदन्ड-करा, परात्परा, निज-भक्त-परा,

आशा-अम्बरा, आनन्द-रूपा, अमित-प्रतापा !