Pravesha parichaya shiksha kovida Question Paper Feb 2019

Pravesha Feb 2019 – https://drive.google.com/open?id=1POjnA8KJ9iDMOViGhOMyz2L26MTyQ1W_

Parichaya Feb 2019 – https://drive.google.com/open?id=1v1b4mMxcQ4kxZUssyEGLQ5jTUO3NLASA

Shiksha Feb 2019 – https://drive.google.com/open?id=14tjHjqlY2zTlvSbApuEgfW5w7KzYLg2V

Kovida Feb 2019 – https://drive.google.com/open?id=199UGfjl3TArhknH9h_amX2-JCZ-6_1WV

For many more papers and other study material, see

https://nivedita2015.wordpress.com/2015/09/22/pravesha-parichaya-shiksha-kovida-additional-study-material/

 

 

(Video) Samskrita Geetam – Kriya Siddhih

 

क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे |
सेवादीक्षित | चिरप्रतिज्ञ | मा विस्मर भोः सूक्तिम् ||

न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साहः
आवृणोतु वा विध्नवारिधिस्त्वं मा विस्मर सूक्तिम् ||

आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः
क्वचिदपि मा भूदात्मविस्मृतिः न स्याल्लक्ष्याच्च्यवनम्
आसाद्य जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम् ||

अरुणसारथिं विकलसाधनं सूर्यं समस्म नित्यं
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
सामान्येतरदृग्भ्यः सोदर सिद्ध्यति कार्यमपूर्वम् ||
— जनार्दनहेग्डे

– * –

Downloadable filekriyaa siddhi satve bhavati  [click here]

– * –

गीतम् – क्रियासिद्धिस्सत्त्वे भवति

रचयिता – जनार्दनहेग्डे-महोदयः

पल्लवि

क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे ।
सेवादीक्षित ! चिरप्रतिज्ञ ! मा विस्मर भोस्सूक्तिम् ॥

पदच्छेदः

क्रिया+सिद्धिः सत्त्वे भवति महताम् न उपकरणे सेवा+दीक्षित चिर+प्रतिज्ञ मा विस्मर भोः सूक्तिम्

अन्वयः

महतां क्रियासिद्धिः सत्त्वे भवति । न उपकरणे । हे सेवादीक्षित ! हे चिरप्रतिज्ञ ! भोः ! (त्वं) सूक्तिं मा विस्मर ।

आकाङ्क्षा

  • भवति
    • का भवति ? क्रियासिद्धिः
      • केषां क्रियासिद्धिः ? महताम्
    • कुत्र भवति ? सत्त्वे
  • (क्रियासिद्धिः) न भवति
    • कुत्र न भवति ? उपकरणे
  • हे सेवादीक्षित !
  • हे चिरप्रतिज्ञ !
  • भोः !
  • (त्वं) मा विस्मर
    • किं मा विस्मर ? सूक्तिम्

पदपरिचयः

  • महताम् = महत्जनानाम् । महत् तकारान्तः शब्दः । पुं., ष.वि., ब.व. ।
  • क्रियासिद्धिः = कार्याणां फलनिष्पत्तिः । क्रियाणां सिद्धिः । स्त्री., प्र.वि., ए.व. ।
  • सत्त्वे = आत्मशक्त्याम् । नपुं., स.वि., ए.व. ।
  • भवति = भू “भू सत्तायाम्”, प.प., लट्., प्र.पु., ए.व. ।
  • उपकरणे = साधने । नपुं., स.वि., ए.व. ।
  • सेवादीक्षित = सेवासु दीक्षितः प्रविष्टः, सम्बुद्धौ ।
  • चिरप्रतिज्ञ = चिरा प्रतिज्ञा यस्य सः, सम्बुद्धौ ।
  • भोः = भोः शब्दः । अव्ययम् । सम्बोधनम् ।
  • सूक्तिम् = “क्रियासिद्धिस्सत्त्वे भवति महतां नोपकरणे” इति सूक्तिः, ताम् । स्त्री., प्र.वि., ए.व. ।
    [ पूर्णं सुभाषितम् अधः दत्तमस्ति । कृपया पश्यन्तु । ]
  • मा = निषेधार्थकः शब्दः । अव्ययम् ।
  • विस्मर = वि + स्मृ “स्मृ चिन्तायाम्”, प.प., लोट्., म.पु., ए.व. । लटि प्रथमपुरुषे – स्मरति, स्मरतः, स्मरन्ति । लोटि प्रथमपुरुषे – स्मरतु, स्मरताम्, स्मरन्तु । लोटि मध्यमपुरुषे – स्मर, स्मरतम्, स्मरत ।

१. चरणम्

न धनं न बलं नापि सम्पदा न स्याज्जनानुकम्पा
सिद्धा न स्यात् कार्यभूमिका न स्यादपि प्रोत्साह:
आवृणोतु वा विघ्नवारिधिस्त्वं मा विस्मर सूक्तिम् ॥

पदच्छेदः

न धनम् न बलम् न अपि सम्पदा न स्यात् जन+अनुकम्पा
सिद्धा न स्यात् कार्य+भूमिका न स्यात् अपि प्रोत्साहः
आवृणोतु वा विघ्न+वारिधिः त्वम् मा विस्मर सु+उक्तिम्

अन्वयः

धनं न (स्यात्) । बलं न (स्यात्) । सम्पदा अपि न (स्युः) । जनानुकम्पा न स्यात् । कार्यभूमिका सिद्धा न स्यात् । प्रोत्साहः अपि न स्यात् । विघ्नवारिधिः वा (त्वाम्) आवृणोतु । त्वं सूक्तिं मा विस्मर ।

आकाङ्क्षा

  • न (स्यात्)
    • किं न (स्यात्) ? धनम्
  • न (स्यात्)
    • किं न (स्यात्) ? बलम्
  • न (स्युः)
    • का न (स्युः) ? सम्पदा अपि
  • न स्यात्
    • का न स्यात् ? जनानुकम्पा
  • न स्यात्
    • का न स्यात् ? कार्यभूमिका
    • कथंभूता न स्यात् ? सिद्धा
  • न स्यात्
    • कः न स्यात् ? प्रोत्साहः अपि
  • (त्वाम्) आवृणोतु
    • का आवृणोतु ? विघ्नवारिधिः वा
  • त्वं मा विस्मर
    • किं मा विस्मर ? सूक्तिम्

पदपरिचयः

  • सम्पदा = सम्पदा आकारान्तः शब्दः । स्त्री., प्र.वि., ए.व. । सम्पत् इति स्त्रीलिङ्गः शब्दः अपि अस्ति । तत्र तृतीयाविभक्तौ सम्पदा इति भवति । अत्र तद् न ।
  • स्यात् = अस् “असँभुवि”, प.प., विधिलिङ्., प्र.पु., ए.व. । लटि प्रथमपुरुषे अस्ति, स्तः, सन्ति । विधिलिङि प्रथमपुरुषे स्यात्, स्याताम्, स्युः ।
  • जनानुकम्पा = जनानाम् अनुकम्पा करुणा । स्त्री. प्र.वि., ए.व. ।
  • सिद्धा = सज्जीकृता । स्त्री. प्र.वि., ए.व. ।
  • कार्यभूमिका = कार्याणां भूमिका प्रतिष्ठानम् । स्त्री. प्र.वि., ए.व. ।
  • प्रोत्साहः = उत्साहः । पुं., प्र.वि., ए.व. ।
  • विघ्नवारिधिः = विघ्नानां वारिधिः सागरः । इकारान्तः पुं., प्र.वि., ए.व. ।
  • आवृणोतु = आच्छादयतु । आङ् + वृ “वृ वरणे”, उभय., अत्र प.प., लोट्., प्र.पु., ए.व. । लटि प्रथमपुरुषे वृणोति, वृणुतः, वृण्वन्ति । लोटि प्रथमपुरुषे वृणोतु / वृणुतात्, वृणुताम्, वृण्वन्तु ।

२. चरणम्

आत्मबलं स्मर बाहुबलं धर परमुखप्रेक्षी मा भूः
क्वचिदपि मा भूदात्मविस्मृति: न स्याल्लक्ष्याच्च्यवनम् ।
आसादय जनमानसप्रीतिं सुचिरं संस्मर सूक्तिम् ॥

पदच्छेदः

आत्मबलम् स्मर बाहुबलम् धर परमुखप्रेक्षी मा (अ)भूः
क्वचित् अपि मा (अ)भूत् आत्म+विस्मृतिः न स्यात् लक्ष्यात् च्यवनम्
आसादय जन+मानस+प्रीतिम् सु+चिरम् संस्मर सूक्तिम्

अन्वयः

(त्वम्) आत्मबलं स्मर । (त्वं) बाहुबलं धर । (त्वं) परमुखप्रेक्षी मा (अ)भूः । आत्मविस्मृतिः क्वचित् अपि मा (अ)भूत् । लक्ष्यात् च्यवनं न स्यात् । (त्वं) जनमानसप्रीतिम् आसादय । (त्वं) सूक्तिं सुचिरं संस्मर ।

आकाङ्क्षा

  • (त्वं) स्मर
    • किं स्मर ? आत्मबलम्
  • (त्वं) धर
    • किं धर ? बाहुबलम्
  • (त्वं) मा अभूः
    • कीदृशः मा अभूः ? परमुखप्रेक्षी
  • मा अभूत्
    • का मा अभूत् ? आत्मविस्मृतिः
    • कुत्र मा अभूत् ? क्वचित् अपि
  • न स्यात्
    • किं न स्यात् ? च्यवनम्
      • कस्मात् च्यवनम् ? लक्ष्यात्
    • (त्वम्) आसादय
      • किम् आसादय? जनमानसप्रीतिम्
    • (त्वं) संस्मर
      • किं संस्मर ? सूक्तिम्
      • कथं संस्मर ? सुचिरम्

पदपरिचयः

  • आत्मबलम् = आत्मनः बलम् । नपुं., प्र.पु., ए.व. ।
  • स्मर = स्मृ “स्मृ चिन्तायाम्”, प.प., लोट्., म.पु., ए.व. । लटि प्रथमपुरुषे – स्मरति, स्मरतः, स्मरन्ति । लोटि प्रथमपुरुषे – स्मरतु, स्मरताम्, स्मरन्तु । लोटि मध्यमपुरुषे – स्मर, स्मरतम्, स्मरत ।
  • बाहुबलम् = बाहोः बलम् । नपुं., प्र.पु., ए.व. ।
  • धर = धृ “धृ धारणे”, प.प., लोट्., म.पु., ए.व. । लटि प्रथमपुरुषे – धरति, धरतः, धरन्ति । लोटि प्रथमपुरुषे – धरतु / धरतात्, धरताम्, धरन्तु । लोटि मध्यमपुरुषे – धर / धरतात्, धरतम्, धरत ।
  • परमुखप्रेक्षी
    • परमुखानि = परेषां मुखानि
    • परमुखप्रेक्षी = यः परमुखानि पश्यन् तिष्ठति, तादृशः । यस्य आत्मविश्वासः नास्ति, तादृशः । परमुखप्रेक्षिन् शब्दः, नकारान्तः, पुं., प्र.वि., ए.व. ।
  • मा (अ)भूः
    • अभूः = भू “भू सत्तायाम्” प.प., लुङ्., म.पु., ए.व. । अस् “असँ भुवि” इति धातुः अपि ।
    • मा अभूः = ‘मा ङि लुङ्’ इति सूत्रेण अभूः इति लोट्-अर्थबोधकं लुङ्-रूपं पदम् । “न माङ् योगे’ इति सूत्रेण मा भूः इति अडागमनिषेधः ।
  • क्वचित् = कस्मिंश्चित्, कुत्रचित्। अव्ययम् ।
  • मा (अ)भूत्
    • (अ)भूत् = भू “भू सत्तायाम्” प.प., लुङ्., प्र.पु., ए.व. । अस् “असँ भुवि” इति धातुः अपि ।
    • मा अभूत् = ‘मा ङि लुङ्’ इति सूत्रेण अभूत् इति लोट्-अर्थबोधकं लुङ्-रूपं पदम् । “न माङ् योगे’ इति सूत्रेण मा भूत् इति अडागमनिषेधः ।
  • च्यवनम् = चलनम् । नपुं., प्र.पु., ए.व. ।
  • आसादय = आङ् + षद् “षदँ पद्यर्थे” + णिच् । उभय. अत्र प.प., लोट्., म.पु., ए.व. । अयं धातुः नित्यम् “आङ्” पूर्वकः एव प्रयुज्यते । “आधृषाद् वा” अनेन गणसूत्रेण अस्मात् धातोः णिच् प्रत्ययः विकल्पेन भवति।
  • जनमानसप्रीतिम्
    • मानसा = मनसः इयम् ।
    • मानसप्रीतिः = मनसी उत्पन्ना प्रीतिः । मानसा च सा प्रीतिः ।
    • जनमानसप्रीतिम् = जनानां मानसप्रीतिः, ताम् । स्त्री., द्वि.वि., ए.व. ।
  • सुचिरम् = दीर्घकालम् । अव्ययम् ।
  • संस्मर = सम् + स्मृ “स्मृ चिन्तायाम्”, प.प., लोट्., म.पु., ए.व. । लटि प्रथमपुरुषे – स्मरति, स्मरतः, स्मरन्ति । लोटि प्रथमपुरुषे – स्मरतु, स्मरताम्, स्मरन्तु । लोटि मध्यमपुरुषे – स्मर, स्मरतम्, स्मरत ।

३. चरणम्

अरुणसारथिं विकलसाधनं सूर्यं संस्मर नित्यम्
शूरपूरुषान् दृढानजेयान् पदात्पदं स्मर गच्छन्
सामान्येतरदृग्भ्यस्सोदर, सिद्ध्यति कार्यमपूर्वम् ॥

पदच्छेदः

अरुण+सारथिम् विकल+साधनम् सूर्यं संस्मर नित्यम्
शूर+पूरुषान् दृढान् अ+जेयान् पदात् पदम् स्मर गच्छन्
सामान्य+इतर+दृग्भ्यः सोदर सिद्ध्यति कार्यम् अपूर्वम्

अन्वयः

(त्वं) नित्यम् अरुणसारथिं विकलसाधनं सूर्यं संस्मर । पदात् पदं गच्छन् (त्वं) दृढान् अजेयान् शूरपूरुषान् स्मर ।
(हे) सोदर । सामान्येतरदृग्भ्यः अपूरवं कार्यं सिध्यति ॥

आकाङ्क्षा

  • (त्वं) संस्मर ।
    • कं संस्मर ?
      • कीदृशं सूर्यम् ? अरुणसारथिं
      • पुनः कीदृशं सूर्यम् ? विकलसाधनं
    • कथं संस्मर ? नित्यम्
  • (त्वं) स्मर ।
    • कान् स्मर ? शूरपूरुषान्
      • कीदृशान् शूरपूरुषान् ? दृढान्
      • पुनः कीदृशान् शूरपूरुषान् ? अजेयान्
    • किं कुर्वतः सन् त्वम् ? गच्छन्
      • कुत्र गच्छन् ? पदम्
      • कस्मात् गच्छन् ? पदात्
    • (हे) सोदर ।
    • सिध्यति
      • किं सिध्यति ? कार्यम्
        • कीदृशं कार्यम् ? अपूरवम्
      • केभ्यः कारणेभ्यः ? सामान्येतरदृग्भ्यः

पदपरिचयः

  • अरुणसारथिम् = अरुणः सारथिः यस्य सः सूर्यः, तम् । पुं., द्वि.वि., ए.व. ।
  • विकलसाधनम् = विकलानि सदोषाणि साधनानि उपकरणानि यस्य सः, तम् । पुं., द्वि.वि., ए.व. ।
  • शूरपूरुषान् = शूराः च ते पुरुषाः, तान् । पुं., द्वि.वि., ब.व. ।
  • अजेयान् = यान् जेतुं न शक्यते तादृशाः अजेयाः, तान् । पुं., द्वि.वि., ब.व. ।
  • गच्छन् = गम् “गमॢँ गतौ” + शतृ, प.प. धातुः, पुं., प्र.वि., ए.व. ।
  • पदात् पदम् गच्छन् = यदा एकस्मात् कार्यात् अन्यकार्यं स्वीकुर्वन् अस्ति तदा । प्रतिसोपानेषु ।
  • सामान्येतरदृग्भ्यः
    • सामान्येतरम् = असाधारण । सामान्य + इतरम् । विशेषणपदम् ।
    • दृक् = पश्यति इति दर्शनम् । दृश् शब्दः शकारान्तः स्त्री. प्र.वि., ए.व. । प्रथमे दृक् / दृग्, दृशौ, दृशः ।
    • सामान्येतरदृग्भ्यः = तेषां विशिष्टं दर्शनम् अस्ति इति कारणात् । सामान्येतरा दृक् यस्य सः, सामान्येतरदृक्, तेभ्यः । हेतौ पञ्चमी । पुं., प.वि., ब.व. ।
  • सोदर = सोदरः शब्दः, सम्बोदने ।
  • सिद्ध्यति = सिध् ‘षिधु संराद्धौ’ । प.प., लट्., प्र.पु., ए.व. ।
  • अपूर्वम् = असाधारणम् । अपूर्व इति विशेषणपदम् । नपुं., प्र.वि., ए.व. ।

– * –

सुभाषितम्

रथस्यैकं चक्रं भुजगयमिताः सप्ततुरगाः निरालंबो मार्गश्चरणविकलो सारथिरपि।
रविर्यात्यंतं प्रतिदिनमपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे॥

पदच्छेदः

रथस्य एकम् चक्रम् भुजग+यमिताः सप्त+तुरगाः नि:+आलंबः मार्गः चरण+विकलः सारथिः अपि
रविः याति अन्तम् प्रति+दिनम् अपारस्य नभसः क्रियासिद्धिः सत्त्वे भवति महताम् न उपकरणे

अन्वयः

रथस्य एकं चक्रम् । सप्ततुरगाः भुजगयमिताः । मार्गः निरालंबः । सारथिः अपि चरणविकलः ।
प्रतिदिनं रविः अपारस्य नभसः अन्तं याति । महतां क्रियासिद्धिः सत्त्वे भवति । न उपकरणे ।

 

Kriya siddhih.jpeg

Geetam

 

 

Sandhi – Karthikeyanji’s PDF Files

Here are the learning and practice materials on Sandhi prepared by Sri. V.D. Karthikeyan of Samskrita Bharati, Chennai. This will be a very useful resource for students learning Sandhi. Students are also recommended to get a copy of the book, “Sandhi”, published by Samskrita Bharati.

You can download the files by clicking on the links below:

(). Sandhih – Prasthaavanaa r4     (). Sandhi vibaagah r1     (). Sandhi Bhedaah map

1. Yan Sandhi     1.1 Yan Sandhi Practice     1.2. Yan Sandhi map

2 Yaantaavaantaadesha     2.1 Yaantaavaantaadesha practice      2.2. Yaantaavaantaadesha map

3. Guna     3.1 Guna Practice     3.2. Guna map

4. Vruddhi     4.1 Vruddhi Practice     4.2. Vruddhi map

5. Savarnadeergha     5.1 Savarnadeergha practice     5.2. Savarnadeergha map

6. Poorvaroopa     6.1 Poorvaroopa practice     6.2. Poorvaroopa map

7. Pararoopa     7.1. Pararoopa map

8. Prakruti bhaava      8.1. Prakruti bhaava map

9. Swara Sandhi – Summary

Vyanjana Sandhi

1. श्चुत्वसन्धिः     1.1 श्चुत्वसन्धिः – अभ्यासः
2. ष्टुत्वसन्धिः     2.1 ष्टुत्वसन्धिः – अभ्यासः
3. जश्त्वसन्धिः     3.1 जश्त्वसन्धिः – अभ्यासः
4. चर्त्वसन्धिः     
5. अनुनासिकसन्धिः     5.1 अनुनासिकसन्धिः – अभ्यासः     5.2. अनुनासिकसन्धिः – Table
6. अनुस्वारसन्धिः     6.1 अनुस्वारसन्धिः – अभ्यासः
7. परसवर्णसन्धिः     7.1 परसवर्णसन्धिः – अभ्यासः
8 ङमुडागमसन्धिः      8.1 ङमुडागमसन्धिः – अभ्यासः
9. पूर्वसवर्णसन्धिः     9.1 पूर्वसवर्णसन्धिः – अभ्यासः
10. छत्वसन्धिः     10.1 छत्वसन्धिः – अभ्यासः
11. सत्वसन्धिः     11.1 सत्वसन्धि-अभ्यासः
12. यवलोपसन्धिः     12.1 यवलोप-सन्धि-अभ्यासः rev
13. तुगागमसन्धिः     13.1 तुगागमसन्धि-अभ्यासः

visarga sandhi

Visarga Sandhi Introduction         Visarga Sandhi
1. visarga lopa     1.1 visarga lopa practice
2. visarga ukaaraadesha     2.1 visaraga ukaaraadesha practice
3. visarga rephadesha     3.1 visarga rephadesha practice
4. visarga sakaaraadesha     4.1 visarga sakaaraadesha practice
5. visarga jihvaamooleeya     5.1 visarga jihvaamooleeya practice
6. visarga upadmaaneeya     6.1 visarga upadmaaneeya practice