(Video) Kalidasa’s Raghuvamsam – First Sarga – 89 – 95 Vidhya

Refer this page for the link to the playlist of all the sessions and the detailed notes:

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-first-sarga-vidhya-ramesh/

 

Advertisements

Raghuvamsam – 1.11 to 1.20 – Answers to Practice Questions

Here are the answers to https://nivedita2015.wordpress.com/2016/12/02/raghuvamsam-1-11-to-1-20-practice-questions/

Thanks to Smt. Vidhya and Smt. Muthulakshmi.

क)      पद्यभागः   – प्रश्नान् उत्तरत ।

१.         चक्रवर्तिदिलीपस्य नृपोचितगुणान् स्वशब्दैः वर्णयत ?

२.         महाकाव्यस्य अस्मिन् भागे अद्यतनप्रशासकेभ्यो  नेतृभ्यश्च कः सन्देशः निहितः अस्ति ?

 

 

॥ रघुवंशं सर्ग १ कालिदासकृतम् ॥

वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् । आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव ॥ १-११॥

तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥ १-१२॥

व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभुजः । आत्मकर्मक्षमं देहं क्षात्रो धर्म इवाश्रितः ॥ १-१३॥

सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना । स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना ॥ १-१४॥

आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः । आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥ १-१५॥

भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् । अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः ॥ १-१६॥

रेखामात्रमपि क्षुण्णादा मनोर्वर्त्मनः परम् । न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ॥ १-१७॥

प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् । सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ १-१८॥

सेना परिच्छदस्तस्य द्वयमेवार्थसाधनम् । शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता ॥ १-१९॥

तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥ १-२०॥

ख)       शब्द-सम्पद्भागः ।

  1. एतेषां पर्यापदानि (अमरकोषतः) लिखत ।
    • मुनिः = वाचंयमः, वाग्यतः (ब्रह्मवर्गः १४३६)
    • राजा = राट्, पार्थिवः, क्ष्माभृत्, नृपः, भूपः, महीक्षित् (क्षत्रियवर्गः १४७२)
    • इन्दुः = हिमांशुः, चन्द्रमाः, चन्द्रः……..क्षपाकरः ( २०पदानि, दिग्वर्गः १७१,१७४)
      • हिमांशुः, शशधरः, इन्दुः, सुधांशुः, निशापतिः, सोमः, कलानिधिः, नक्षत्रेशः, चन्द्रमाः, कुमुदबान्धवः, शुभ्रांशुः, अब्जः, ग्लौः, द्विजराजः, क्षपाकरः, चन्द्रः, विधुः, ओषधीशः, जैवातृकः, मृगाङ्कः(२०)
    • सेना = ध्वजिनी, वाहिनी……….अनीकम् (११, क्षत्रियवर्गः १६२३,१६२४)
      • https://sa.wiktionary.org/wiki/सेना
      • सेना, ध्वजिनी २ वाहिनी ३ पृतना ४ अनीकिनी ५ चमूः ६ वरूथिनी ७ बलम् ८ सैन्यम् ९ चक्रम् १० अनीकम् ११ ।
    • उर्वी =  भूः, भूमिः, अचला, अनन्ता…………….मही (२७, भूमिवर्गः ५६०-६३)
      • https://sa.wiktionary.org/wiki/पृथिवी
      • पृथिवी, भूः २ भूमिः ३ अचला ४ अनन्ता ५ रसा ६ विश्वम्भरा ७ स्थिरा ८ धरा ९ धरित्री १० धरणी ११ क्षौणी १२ ज्या १३ काश्यपी १४ क्षितिः १५ सर्व्वंसहा १६ वसुमती १७ वसुधा १८ उर्व्वी १९ वसुन्धरा २० गोत्रा २१ कुः २२ पृथ्वी २३ क्ष्मा २४ अवनिः २५ मेदिनी २६ मही २७।
    • देहः = कलेवरम्, गात्रम्, वपुः…….. तनूः (१२, मनुष्यवर्गः, १२१३-१५)
      • https://sa.wiktionary.org/wiki/शरीर
      • शरीरम्, कलेवरम् २ गात्रम् ३ वपुः ४ संहननम् ५ वर्ष्म ६ विग्रहः ७ कायः ८ देहः ९ मूर्त्तिः १० तनुः ११ तनूः १२ ।
  1. समानार्थकं पदं लिखत ।
  • मनीषिणाम् = विचक्षणानाम्, बुद्धिमताम्, धीमताम्, प्राज्ञानाम्, विदुषाम्
    • वैवस्वतो मनुर्नाम माननीयो मनीषिणाम् – ११
  • क्षीरनिधौ = क्षीरसागरे, दुग्दोदधौ
    • दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव – १२
  • सर्वोन्नतेन = उन्नतमेन, सर्वप्रांशुना
    • स्थितः सर्वोन्नतेनोर्वीं क्रान्त्वा मेरुरिवात्मना – १४
  • उपजीविनाम् = आश्रितानाम्
    • भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् – १६
  • नियन्तुः = नियामकस्य
    • न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः – १७
  • भूत्यर्थम् = कल्याणार्थम्
    • प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत् – १८
  • आदत्ते = गृह्णाति
    • सहस्रगुणमुत्स्रष्टुम् आदत्ते हि रसं रविः – १८
  • अकुण्ठिता = उज्ज्वला, प्रखरा, निर्विघ्ना, अव्याहता, महान्विश्वासः
    • शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता – १९
  • धनुषि = चापे
    • शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी धनुषि चातता – १९
  • संवृतम् = गूढम्, प्रच्छन्नम्, गुप्तम्
    • तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च – २०
  1. 3. ‘रसः’ इति पदस्य विविधार्थ-ज्ञापक-वाक्यानि लिखत ।

१. इक्षुरसः अत्यन्तं स्वादुः । रसः – फलरसः | रसः = कुसुमम् / पुष्परसम् |

२. रसः स्यन्दते, एकत्र न तिष्ठति । रसः –द्रवः, द्रव्यम् |  रसः = जलम्

३. रसपानं बुद्धिं कुण्ठयति । दुर्व्यसनमिदं महते हानये भवति, अतः रसविक्रयः निषेद्धव्यः । रसः – सुरापानम् |

४. कट्वम्लमधुरलवणतिक्तकषायाः इति षड्-रसाः रसनेन्द्रियेण गृह्यन्ते । रसः –आस्वादः |

५. रामायणं करुणरसप्रधानं काव्यम् । शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-भीभत्स-अद्भुताः इति अष्टरसाः नाट्यशास्त्रे भरतमुनिना उक्ताः । रसः –काव्ये दृश्यमानः भावः |

६.  सहृदयाः एव काव्यस्य रसास्वादनं कर्तुं पारयन्ति । रसः –काव्ये दृश्यमानः भावः |

७.  लुब्धाः अमात्याः तीक्ष्णरसदानेन राजानं हन्तुं प्रयत्तवन्तः । तीक्ष्णरसः –विषः / विषम् |

८.  कौशलविहीनं पाठनं नीरसतां जनयति । निरसता – निःस्वादुत्त्वम् |

९.  वैद्याः आयुर्वर्धकं रसायनं निर्मान्ति । रसायनम् – रासायनिकः वस्तुः |  (रसधातुः – mercury)

१०. वितण्डावादिनः तत्त्वस्य रसं त्यक्त्वा व्यर्थं विवदन्ते । रसम् – सारः / सारम् |

  1. विलोम-पदानि लिखत ।
  1. अग्रहीत् (लुङ्) X  अमुञ्चत् / अमुचत् (लुङ्) उत्सृजेत्
  2. अनुमेया X अननुमेया
  3. प्राक्तनम् X अद्यतनम् / इदानीन्तनम् / अदुनातनम्
  4. कर्मक्षमम् X कर्माक्षमम्
  5. आद्यः X अन्त्यः

 5. यथोदाहरणम् अन्यपदानि लिखत । जलजम् (ज)-कर्मजम्, स्वेदजः, आत्मजा, मूर्धजाः इत्यादीनि

  1.  तोयनिधिः (निधिः) – तपोनिधिः, ज्ञाननिधिः, दयानिधिः, गुणनिधिः, क्षीरनिधिः, प्रतिनिधिः
  2. महाभुजः (महा) – महेशः, महेश्वासः, महोरस्कः, महाबाहुः, महाकालः, महाकाव्यम्, महात्मा
  3. सर्वोन्नतः (सर्व) – सर्वश्रेष्ठः, सर्वसम्मतम्, सर्वधिकम्, सर्वयापि, सर्वगतम्,
  4. सहस्रगुणम्(गुणम्) – द्विगुणम्, त्रिगुणम्, चतुर्गुणम् (विशेषणम्)
  5. प्राक्तनम् (तन) – पूर्वतनम्, अद्यतनी, इदानीन्तनः, ह्यस्तनम्, श्वस्तनः
  6. आदत्ते (आङ्-उपसर्गः) – आवर्तते, आकारयति, आह्वयति, आलोकते, आदिशति, आक्षिपति,आपूर्यते, आकृतिः

ग 1)   व्याकरण-भागः – श्लोकेभ्यः अन्विष्य लिखत ।

क्तान्त-रूपाणि  (धातुं, क्रियापदस्य लट्-रूपं च निर्दिशत) ।

  1. आश्रितः = आ + श्रि “श्रिञ् सेवायाम्” + क्तप्रत्ययः | श्रयति / श्रयते |
  2. स्थितः = स्था “ष्ठा गतिनिवृत्तौ” + क्तप्रत्ययः | तिष्ठति |
  3. आतता = आ + तन् “तनुँ॑ विस्तारे” + क्तप्रत्ययः | तनोति |
  4. कुण्ठिता = कुण्ठ् “कुठिँ प्रतिघाते” + क्तप्रत्ययः | कुण्ठति । अकुण्ठिता – न कुण्ठिता – नञ्तत्पुरुषः |
  5. संवृतः = सम् + वृत् “वृतुँ वर्तने” + क्तप्रत्ययः | संवर्तते |
  6. इङ्गितस्य = इङ्ग् “इगिँ गतौ” + क्तप्रत्ययः | इङ्गति |
  7. प्रसूतः = प्र + षू / सू “षूङ् प्राणिगर्भविमोचने” + क्तप्रत्ययः | सूते सुवाते सुवते |
  8. उन्नतः = उत् + नम् “णमँ प्रहत्वे शब्दे च” + क्तप्रत्ययः | नमति |

मतुबर्थे तद्धितपदानि  (विग्रहवाक्यं निर्दिशत) ।

  1. मनीषिणाम् = मनीषा एषाम् अस्तीति मनीषिणः, तेषाम् । (मतुबर्थे इनि-प्रत्ययः )
  2. शुद्धिमति = शुद्धिः अस्य (अन्वयस्य / वंशस्य) अस्तीति शुद्धिमान्, तस्मिन् (मतुप्-प्रत्ययः)
  3. सर्वतेजोऽभिभाविना = सर्वान् तेजसा अभिभवति (पराजयते) तेजोऽभिभावी (इनि-प्रत्ययः)

कृदन्ताव्ययानि । (धातुं, क्रियापदस्य लट्-रूप च निर्दिशत)।

  1. क्रान्त्वा = क्रम् “क्रमुँ पादविक्षेपे” + क्त्वा । क्रमते, क्रामति |
  2. आधृष्य = आ + धृष् “ञिधृषाँ प्रागल्भ्ये” + ल्यप् । धृष्णोति ।
  3. अभिगम्य = अभि+ गम् “गमॢँ गतौ” + ल्यप् | गच्छति |
  4. उत्स्रष्टुम् = उत् + सृज् “सृजँ विसर्गे” + तुमुन् | सृजति |

क्रिया-पदानि चिनुत । (धातुं, क्रियापदस्य लट्-रूपं च निर्दिशत)।

  1. आसीत् (लङ्लकारः) = अस् “असँ भुवि” | अस्ति ।
  2. बभूव (लिट्लकारः) = भू “भू सत्तायाम्” | भवति ।
  3. व्यतीयुः (लिट्लकारः) = वि + अति + इण् “इण् गतौ” |
    1. लट्लकारः – एति इतः यन्ति |
    2. लिट्लकारः – इयाय ईयतुः ईयुः |
  4. अग्रहीत् (लुङ्लकारः) = ग्रह् “ग्रहँ उपादाने” |
    1. लट्लकारः – वर्धमानकालं निदर्शयति (गच्छति), गृह्णाति / गृह्णीते |
    2. लङ्लकारः – अनद्यतनभूतकालं निदर्शयति (अगच्छत्), अगृह्णात् / अगृह्णीत |
    3. लुङ्लकारः – सामान्यभूतकालं निदर्शयति (अगमत्), अग्रहीत् / अग्रहीष्ट |
    4. लिट्लकारः – परोक्षभूतकालं निदर्शयति (जगाम), जग्राह / जगृहे |
  5. आदत्ते (लट्लकारः) = आ + दा “दा दाने” | ददाति दत्तः ददति / दत्ते ददाते ददते |

अव्ययीभावसमस्तपदानि विग्रवाक्यानि च लिखत ।

  1. आमनोः =  मनुम् आरभ्य (अभिविध्यर्थे) [ in the sense of inclusion ] “आङ् मर्यादाऽभिविध्योः” इति अव्ययीभावसमासः।

2)         सन्धिविच्छेदं प्रदर्श्य सन्धिनाम लिखत । (https://nivedita2015.wordpress.com/2016/05/29/notes-for-shikshaa-level-3-sandhi/)
(http://sanskrit.uohyd.ac.in/scl/ )

  • आसीन्महीक्षितामाद्यःप्रणवश्छन्दसामिव ।
    • आसीत् महीक्षिताम्  = आसीन्महीक्षिताम् – अनुनासिकसन्धिः |
      • यरोऽनुनासिकेऽनुनासिको वा (8।4।45)
    • आद्यः प्रणवः = आद्य><प्रणवः – उपध्मानीयः |
      • कुप्वो><क><पौ च (8।3।37)
    • प्रणवः छन्दसाम् = प्रणवश्छन्दसाम् – सत्व-> श्चुत्व-सन्धिः |
      • विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
    • दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ।
      • दिलीपः इति = दिलीप इति – विसर्गलोपः
        • रुत्व -> यत्व-> लोप | ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)
      • राजेन्दुः इन्दुः = राजेन्दुरिन्दुः – विसर्गरेफः
        • रेफ-सन्धिः | ससजुषो रुः (8।2।66)
      • क्षीरनिधौ इव = क्षीरनिधाविव – यान्तवान्तसन्धिः
    • क्षात्रो धर्म इवाश्रितः
      • क्षात्रः धर्मः क्षात्रो धर्म – विसर्गस्य उत्वः, गुणः
        • रुत्व-> उत्व-> गुण-सन्धिः | ससजुषो रुः (8।2।66)-> हशि च (6।1।114)-> आद् गुणः (6।1।87)
      • धर्मः इव = धर्म इव – विसर्गलोपः
        • ससजुषो रुः (8।2।66)-> भोभगो अघो अपूर्वस्य योऽशि (8।3।17)-> लोपः शाकल्यस्य (8।3।19)
      • भीमकान्तैर्नृपगुणैः स बभूवोपजीविनाम् ।
        • भीमकान्तैः नृपगुणैः = भीमकान्तैर्नृपगुणैः – विसर्गरेफः |
          • ससजुषो रुः (8।2।66)
        • बभूव उपजीविनाम् = बभूवोपजीविनाम् – गुणः |
          • आद् गुणः (6।1।87)
        • अधृष्यश्चाभिगम्यश्च यादोरत्नैरिवार्णवः |
          • अधृष्यः च = अधृष्यश्च –सत्व-> श्चुत्व-सन्धिः |
            • विसर्जनीयस्य सः (8।3।34)-> स्तोः श्चुना श्चुः (8।4।40)
          • च अभिगम्यः = चाभिगम्यः – सवर्णदीर्घः |
            • अकः सवर्णे दीर्घः (6।1।101)
          • यादोरत्नैः इव = यादोरत्नैरिव – विसर्गरेफः|
            • रेफ-सन्धिः | ससजुषो रुः (8।2।66)
          • इव अर्णवः = इवार्णवः – सवर्णदीर्घः |
            • अकः सवर्णे दीर्घः (6।1।101)

शुभम्