Gita Govindam Sarga 5 Anvaya

॥ पञ्चमः सर्गः – साकांक्षपुण्डरीकाक्षः ॥
स (सह) +आकांक्ष + पुण्डरीकाक्षः

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।

इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३

पदच्छेदः

अहम् इह निवसामि याहि राधाम् अनुनय मत्-वचनेन च आनयेथाः इति मधुरिपुणा सखी नियुक्‌ता स्वयम् इदम् एत्य पुनः जगाद राधाम्

अन्वयः

“अहम् इह निवसामि | (त्वम्) याहि | (त्वम्) राधां मद्वचनेन अनुनय | (त्वं ताम्) आनयेथाः” इति मधुरिपुणा नियुक्‌ता सखी स्वयं राधाम् एत्य पुनः इदं जगाद |

पदपरिचय:

  • जगाद [ गद्“गदँ व्यक्तायां वाचि”, लिट् लकारः, प्रथमपुरुषः, एकवचनम् ] (द्विकर्मकक्रिया)
    • का ? सखी
      • कीदृशी सखी ? नियुक्‌ता
        • केन नियुक्‌ता ? मधुरिपुणा
      • किं कृत्वा ? एत्य
        • कथम् एत्य ? स्वयम् पुनः
        • काम् ? राधाम्
      • किम् (वचनम्) ? इदम्
      • किमिति (वचनम्) ? … इति
        • निवसामि
          • कुत्र ? इह
          • कः ? अहम्
        • याहि
          • का ? (त्वम्)
        • अनुनय
          • काम् ? राधाम्
          • केन ? मद्वचनेन
          • का ? (त्वम्)
        • आनयेथाः [ आ + नि “णीञ् प्रापणे” + णिच्, आ. विधिलङ्. मपु. एक. ]
          • काम् ? (ताम्)
          • का ? (त्वम्)

॥ गीतम् १० ॥

वहति मलयसमीरे मदनमुपनिधाय ।

स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥

तव विरहे वनमाली सखि सीदति ॥ १ ॥

पदच्छेदः

वहति मलय-समीरे मदनम् उपनिधाय स्फुटति कुसुम निकरे विरहि हृदय-दलनाय तव विरहे वनमाली सखि सीदति |

अन्वयः

सखि | मदनम् उपनिधाय मलय-समीरे वहति (सति) कुसुम-निकरे विरहि-हृदय-दलनाय स्फुटति (सति) तव विरहे वनमाली सीदति |

पदपरिचय:

  • सखि
  • सीदति
    • कः ? वनमाली
    • कस्मिन् (विषये) ? विरहे
      • कस्याः ? तव
    • कदा ? वहति (सति)
      • कस्मिन् वहति (सति) ? मलय-समीरे
    • किं कृत्वा ? उपनिधाय
      • कम् ? मदनम्
    • पुनः कदा ? स्फुटति (सति) [ विकसति ]
      • किमर्थम् (स्फुटति) ? विरहि-हृदय-दलनाय
      • कस्मिन् स्फुटति (सति) ? कुसुम-निकरे [ निकरः – समूहः ]

दहति शिशिरमयूखे मरणमनुकरोति ।

पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥

पदच्छेदः

दहति शिशिर-मयूखे मरणम् अनुकरोति पतति मदन-विशिखे विलपति विकलतरः अति |

अन्वयः

शिशिर-मयूखे दहति (सति) मरणम् अनुकरोति | मदन-विशिखे पतति (सति) विकलतरः अति विलपति |

पदपरिचय:

  • अनुकरोति
    • कः ? वनमाली
    • किम् ? मरणम्
    • कदा ? दहति (सति)
      • कस्मिन् दहति (सति) ? शिशिर-मयूखे [ शिशिरः – शीतलः ; मयूखः – किरणः ; शिशिरमयूखः – चन्द्रः  ]
    • विलपति
      • कः ? (सः)
      • कथंभूतः ? अति-विकलतरः [ विकल – खिन्न ; तरप् प्रत्ययः ]
      • कदा ? पतति (सति)
        • कस्मिन् पतति (सति) ? मदन-विशिखे [ मदन-विशिखः = काम-बाणः ]

ध्वनति मधुपसमूहे श्रवणमपिदधाति

मनसि लितविरहे निशि निशि रुजमुपयाति ॥ ३ ॥

पदच्छेदः

ध्वनति मधुप-समूहे श्रवणम् अपिदधाति मनसि चलित-विरहे निशि निशि रुजम् उपयाति |

अन्वयः

मधुप-समूहे ध्वनति (सति) श्रवणम् अपिदधाति | निशि निशि चलित-विरहे मनसि रुजम् उपयाति |

पदपरिचय:

  • अपिदधाति [ आच्छादयति ]
    • कः ? (सः)
    • किम् ? श्रवणम् (कर्णं)
    • कदा ? ध्वनति (सति)
      • कस्मिन् ध्वनति (सति) ? मधुप-समूहे
    • उपयाति
      • कः ? (सः)
      • किम् ? रुजम् [ पीडाम् ]
      • कदा ? निशि निशि
      • कुत्र ? मनसि
        • कीदृशे मनसि ? चलित-विरहे (विरहात् मनसः क्षुब्धदशा) [ अत्र वलित-विरहे इति पाठभेदः अप्यस्ति | वलित = ]

वसति विपिनविताने त्यजति ललितधाम ।

लुठति धरणिशयने बहुविलपति तव नाम ॥ ४ ॥

पदच्छेदः

वसति विपिन-विताने त्यजति ललित-धाम लुठति धरणि-शयने बहु विलपति तव नाम |

अन्वयः

(सः) विपिन-विताने वसति | (सः) ललित-धाम त्यजति | (सः) धरणि-शयने लुठति | (सः) तव नाम बहु विलपति |

पदपरिचय:

  • वसति
    • कः ? (सः)
    • कुत्र ? विपिन-विताने [ विपिनम् = वनम् ; वितानः / वितानम् = गहनम् ]
  • त्यजति
    • कः ? (सः)
    • किम् ? ललित-धाम (धामन् शब्दः नकारान्तः नपुंसकः)
  • लुठति [ सञ्चलति ]
    • कः ? (सः)
    • कुत्र ? शयने
    • कीदृशे ? धरणि
  • विलपति
    • कः ? (सः)
    • कियत् ? बहु
    • किम् ? नाम
      • कस्याः ? तव

रणति पिकसमवाये प्रतिदिशमनुयाति ।
हसति मनुजनिचये विरहमपलपति नेति ॥ ५ ॥

पदच्छेदः

रणति पिक-समवाये प्रति-दिशम् अनुयाति हसति मनुज-निचये विरहम् अपलपति न इति |

अन्वयः

पिक-समवाये रणति (सति) प्रति-दिशम् अनुयाति |  मनुज-निचये हसति (सति) (सः) “न” इति विरहम् अपलपति |

पदपरिचय:

  • अनुयाति
    • कः ? (सः)
    • कुत्र ? प्रति-दिशम्
    • कदा ? रणति (सति) [ ध्वणति ]
      • कस्मिन् रणति (सति) ? पिक-समवाये [ पिकः – कोकिलः ]
    • अपलपति [ निगूहयति ]
      • कः ? (सः)
      • कम् ? विरहम्
      • किमिति ? “न” इति
      • कदा ? हसति (सति)
        • कस्मिन् हसति (सति) ? मनुज-निचये [ निचयः = समूहः ]

स्फुरति कलरवरावे स्मरति मणितमेव

तव रतिसुखविभवे गणयति सुगुणमतीव ॥ ६ ॥

पदच्छेदः

स्फुरति कलरव-रावे स्मरति मणितम् एव तव रति-सुख-विभवे गणयति सुगुणम् अतीव

अन्वयः  

कलरव-रावे स्फुरति (सति) मणितम् एव स्मरति | तव रति-सुख-विभवे अतीव सुगुणं गणयति |

पदपरिचय:

  • स्मरति
    • कः ? (सः)
    • किम् एव ? मणितम् एव [ कामकेलौ नार्याः गद्गदध्वनिः ]
    • कदा ? स्फुरति (सति) [ व्यक्तं भवति ]
      • कस्मिन् स्फुरति (सति) ? कलरव-रावे [ कलरवः – कपोतः / कोकिलः ; रावः – चीत्कारः ]
    • गणयति
      • कः ? (सः)
      • किम् ? सुगुणम्
        • कियत् ? अतीव
      • कस्मिन् विषये ? रति-सुख-विभवे
        • कस्याः ? तव

त्वदभिशुभमासं वदति नरि शृणोति ।

तमपि जपति सरसं युवतिषु न रतिमुपैति ॥ ७ ॥

पदच्छेदः

त्वत्-अभिध-शुभद-मासम् वदति नरि शृणोति तम् अपि जपति सरसम् युवतिषु न रतिम् उपैति

अन्वयः

नरि वदति (सति) त्वत्+अभिध+शुभद+मासं शृणोति | तम् अपि सरसं जपति | युवतिषु रतिं न उपैति |

पदपरिचय:

  • शृणोति
    • कः ? (सः)
    • किम् ? त्वदभिधशुभदमासम्
    • कदा ? वदति (सति)
      • कस्मिन् वदति (सति) ? नरि
    • जपति
      • कः ? (सः)
      • कथम् ? स-रसम्
      • कम् अपि ? तम् अपि
    • न उपैति
      • कः ? (सः)
      • काम् ? रतिम्
      • कासु ? युवतिषु

भणति कविजयदेवे विरहविलसितेन ।

मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ८ ॥

पदच्छेदः

भणति कवि-जयदेवे विरह-विलसितेन मनसि रभस-विभवे हरिः उदयतु सुकृतेन

अन्वयः 

कवि-जयदेवे विरह-विलसितेन भणति (सति) रभस-विभवे सुकृतेन मनसि हरिः उदयतु |

पदपरिचय:

  • उदयतु [ उत् + ई “ई गतौ” लोट्लकारः प्रथमपुरुषः ]
    • कः ? हरिः
    • कुत्र ? मनसि
      • कीदृशे ? रभस-विभवे [ प्रेमोत्साहः यत्र विभवति तादृशे ]
    • केन (कारणेन) उदयतु ? सुकृतेन (एतस्य काव्यस्य पठनेन श्रवणेन च)
    • केन (कारणेन) उदयतु ? विरह-विलसितेन (कारणेन) (जयदेवेन कृतेन एतेन विरह-विलसितेन वचनेन)
    • कदा ? भणति (सति (
      • कस्मिन् भणति (सति) ? कवि-जयदेवे

References:

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धयस्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।

ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमन्त्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३

पदच्छेदः

पूर्वम् यत्र समम् त्वया रतिपतेः आसादिताः सिद्धयः तस्मिन् एव निकुञ्ज-मन्मथ-महातीर्थे पुनः माधवः ध्यायन् त्वाम् अनिशम् जपन् अपि तव एव आलाप-मन्त्रावलीम् भूयः त्वत्-कुचकुम्भ-निर्भर-परीरम्भामृतम् वाञ्छति

अन्वयः

पूर्वं यत्र (कृष्णेन) त्वया समं (त्वया सह) रतिपतेः सिद्धयः आसादिताः पुनः तस्मिन् एव निकुञ्ज-मन्मथ-महातीर्थे माधवः त्वाम् अनिशं ध्यायन् तव एव आलाप-मन्त्रावलीं जपन् अपि भूयः त्वत्-कुच-कुम्भ-निर्भर-परीरम्भामृतं वाञ्छति |

पदपरिचय:

  • भूयः वाञ्छति
    • कः ? माधवः
    • किम् ? त्वत्-कुचकुम्भ-निर्भर-परीरम्भामृतम् [ कुचकुम्भौ – पयोधरौ ; निर्भर – अपरिमाण ; परिरम्भः – आलिङ्गनम् ;  निर्भरपरीरम्भामृतम् = निर्भरपरीरम्भं एव अमृतम् ]
    • किं कुर्वन् ? ध्यायन्
      • काम् ? त्वाम्
      • कदा ? अनिशम्
    • पुनः किं कुर्वन् ? जपन् अपि
      • किं जपन् ? आलापमन्त्रावलीम् [आलाप+मन्त्र+आवलीम्]
        • कस्य ? तव एव
      • कुत्र ? निकुञ्ज-मन्मथ-महातीर्थे
        • कीदृशे ? पुनः तस्मिन् एव
        • पुनः कीदृशे ? यत्र आसादिताः
          • काः आसादिताः ? सिद्धयः
            • कस्य ? रतिपतेः
          • कया समम् (कया सह) आसादिताः ? त्वया समम् (त्वया सह)
          • कदा आसादिताः ? पूर्वम्

अष्टपदि ११

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।

न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥

धीरसमीरे यमुनातीरे वसति वने वनमाली

गोपीपीनपयोधरमर्दनचञ्चलकरयुगशाली॥ १ ॥

पदच्छेदः

रति-सुख-सारे गतम् अभिसारे मदन-मनोहर-वेशम् न कुरु नितम्बिनि गमन-विलम्बनम् अनुसर तम् हृदय-ईशम् गोपी-पीन-पयोधर-मर्दन-चञ्चल-कर-युग-शाली धीर-समीरे यमुना-तीरे वसति वने वनमाली

अन्वयः  

(हे) नितम्बिनि | (त्वं) गमन-विलम्बनं न कुरु | (त्वं) रति-सुख-सारे अभिसारे (तत्र) गतं, मदन-मनोहर-वेशं, हृदयेशं, तम् अनुसर | धीर-समीरे यमुना-तीरे वने गोपी-पीन-पयोधर-मर्दन-चञ्चल-कर-युग-शाली वनमाली वसति |

पदपरिचय:

  • (हे) नितम्बिनि | [ नितम्बः  = जघनः ; निबिड-नितम्बः अस्ति इति इनि प्रत्ययः ]
  • न कुरु
    • किम् ? गमन-विलम्बनम्
    • का ? त्वम्
  • अनुसर
    • कम् ? तम्
      • कीदृशम् ? गतम्
        • कुत्र ? अभिसारे [ अभिसारः – सङ्केतस्थानः ]
          • कीदृशे ? रति-सुख-सारे
        • पुनः कीदृशम् ? हृदयेशम् [ हृदय+ईशम्]
        • पुनः कीदृशम् ? मदन-मनोहर-वेशम्
      • का ? त्वम्
    • वसति
      • कुत्र ? वने
        • कीदृशे ? यमुना-तीरे
          • कीदृशे यमुना-तीरे ? धीर-समीरे
        • कः ? वनमाली
          • कीदृशः ? गोपी-पीन-पयोधर-मर्दन-चञ्चल-कर-युग-शाली [ पीन – आपूरित ; मर्दन – पेषण ]

नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् ।
बहु मनुतेऽतनु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥
पदच्छेदः

नाम-समेतम् कृत-सङ्केतम् वादयते मृदु-वेणुम् बहु मनुते अतनु ते तनु-संगत-पवन-चलितम् अपि रेणुम्

अन्वयः

(तव) नाम-समेतं कृत-सङ्केतं मृदु-वेणुं वादयते | ते तनु-संगत-पवन-चलितं रेणुम् अपि बहु अतनु मनुते |

पदपरिचय:

  • वादयते
    • कः ? (सः)
    • कम् ? मृदु-वेणुम्
    • कथम् ? कृत-सङ्केतम् [ इङ्गिततया सूचितम्]
    • पुनः कथम्? (तव) नामसमेतम्
  • मनुते
    • कः ? (सः)
    • किमिति ? अतनु [ अतनु = अनल्पम् | ननु इति पाठभेदः | ननु = निश्चयेण ]
    • कियत् ? बहु
    • कम् अपि ? रेणुम् अपि [ रेणुः = धूलिः ]
      • कीदृशम् ? तनु-संगत-पवन-चलितम्
        • कस्याः ? ते

पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥

पदच्छेदः

पतति पतत्रे विचलति पत्रे शङ्कित-भवत्-उप-यानम् रचयति शयनम् स-चकित-नयनम् पश्यति तव पन्थानम्

अन्वयः

पतत्रे पतति (सति) पत्रे विचलति (सति) सः शङ्कित-भवत्-उपयानं स-चकित-नयनं तव पन्थानं पश्यति, शयनं रचयति |

पदपरिचय:

  • पश्यति
    • कः ? सः
    • कथम् ? स-चकित-नयनम्
    • पुनः कथम् ? शङ्कित-भवत्-उपयानम् [ शङ्कित – अनुमित ; उपयानम् – आगमनम् ]
    • कम् ? पन्थानम् [ पथिन् नकारान्तः पुल्लिङ्गः शब्दः | प्रथमाविभक्तौ – पन्थाः पन्थानौ पन्थानः; द्वितीया – पन्थानम् पन्थानौ पथः ]
      • कस्याः ? तव
    • कदा ? पतति (सति)
      • कस्मिन् पतति (सति) ? पतत्रे [ पतत्रम् – पिच्छम् ]
    • पुनः कदा ? विचलति (सति)
      • कस्मिन् विचलति (सति) ? पत्रे
    • पुनः सः किं करोति ? रचयति
      • किम् ? शयनम्

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिषुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥
पदच्छेदः

मुखरम् अधीरम् त्यज मञ्जीरम् रिपुम् इव केलिषु लोलम् चल सखि कुञ्जम् स-तिमिर-पुञ्जम् शीलय नील-निचोलम्

अन्वयः

हे सखि | केलिषु लोलम् अधीरं मुखरं मञ्जीरं रिपुम् इव त्यज | स-तिमिर-पुञ्जं कुञ्जं चल | नील-निचोलं शीलय |

पदपरिचय:

  • हे सखि
  • त्यज
    • का ? (त्वम्)
    • किं त्यज ? मञ्जीरम् [ नूपुरम् – anklet ]
      • कीदृशम् ? मुखरम् [ स-शब्दम् ]
      • पुनः कीदृशम् ? अधीरम् [ चञ्चलम् ]
      • पुनः कीदृशम् ? लोलम् [ अतिचपलम् ]
        • कस्मिन् समये ? केलिषु [ केलिः – रासक्रीडा ]
      • किमिव त्यज ? रिपुम् इव
    • चल
      • का ? (त्वम्)
      • कुत्र ? कुञ्जम्
        • कीदृशम् ? स-तिमिर-पुञ्जम्
      • शीलय (धारय)
        • का ? (त्वम्)
        • कं शीलय ? नील-निचोलम् [ निचोलः – वसनम् ]

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
डिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥
पदच्छेदः

उरसि मुरारेः उपहित-हारे घने इव तरल-बलाके तडित् इव पीते रति-विपरीते राजसि सुकृत-विपाके

अन्वयः

हे पीते | सुकृत-विपाके रति-विपरीते मुरारेः उपहित-हारे उरसि तरल-बलाके घने तडित् इव (त्वं) राजसि |

पदपरिचय:

  • हे पीते [ पीता – गौराङ्गी ]
  • राजसि [ ज्वलसि / ज्वलिष्यसि | “वर्तमानसामीप्ये वर्तमानात् वा” इति लट्लकारः ]
    • का राजसि ? (त्वम्)
    • कदा राजसि ? सुकृत-विपाके [ विपाकः – फलस्वरूपम् ]
    • पुनः कदा राजसि ? रति-विपरीते [ विपरीत – इतरथा (असामान्य) ]
    • कुत्र राजसि ? उरसि [ उरः – वक्षः | उरस् सकारान्तः नपुंसकलिङ्गः शब्दः | प्रथमाविभक्तौ उरः उरसी उरांसी ]
      • कीदृशे उरसि ? उपहित-हारे [ उपहितः – संयोजितः ; हारः – माला ]
      • कस्य उरसि ? मुरारेः
    • किमिव राजसि ? तडित् इव [ तडित् – विद्युत् | तडित् – तकारन्तः स्त्रीलिङ्गः शब्दः | प्रथमाविभक्तौ तडित् तडितौ तडितः ]
      • कुत्र तडित् इव ? घने [ घनः – मेघः ]
        • कीदृशे घने ? तरल-बलाके [ तरल – चञ्चल ; बलाकाः – वकपङ्क्तिः ]

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥
पदच्छेदः

विगलित-वसनम् परिहृत-रसनम् घटय जघनम् अपिधानम्

किसलय-शयने पङ्कज-नयने निधिम् इव हर्ष-निदानम्

अन्वयः

हे पङ्कज-नयने | किसलय-शयने विगलित-वसनं परिहृत-रसनम् अपिधानं जघनं निधिम् इव हर्ष-निदानं घटय |

पदपरिचय:

  • हे पङ्कज-नयने
  • घटय [ घट् “घट सङ्घाते” लोट्लकारः मध्यमपुरुषः एकवचनम् | अत्र कुरु इति अर्थः ]
    • का ? त्वम्
    • कथम् घटय ? हर्ष-निदानम् [ निदानम् – निकेतनम् ]
    • किमिव घटय ? निधिम् इव
    • किं घटय ? जघनम् [ कटिपुरोभागम् ]
      • कीदृशं जघनम् ? विगलित-वसनम् [ विगलति – स्रंसते ]
      • पुनः कीदृशं जघनम् ? परिहृत-रसनम् [ रशना – मेखला / काञ्ची ]
      • पुनः कीदृशं जघनम् ? अपिधानम् [अपिधानम् – अ-पिधानम् – आच्छादन-रहितम् ]
    • कुत्र ? किसलय-शयने [ किसलयम् – तरुणकम् / पल्लवः (sprout) | किशलय-शयने इति पाठभेदः ]

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥
पदच्छेदः

हरिः अभिमानी रजनिः इदानीम् इयम् अपि याति विरामम् कुरु मम वचनम् स-त्वर-रचनम् पूरय मधु-रिपु-कामम्

अन्वयः

हरिः अभिमानी (अस्ति) | इदानीम् इयं रजनिः अपि विरामं याति | मम स-त्वर-रचनं वचनं कुरु | मधु-रिपु-कामं पूरय |

पदपरिचय:

  • अस्ति
    • कथम् ? अभिमानी [ अतिशयेन त्वां मानयति इति अर्थः ]
    • कः ? हरिः
  • याति
    • किम् ? विरामम्
    • का ? रजनिः अपि [ रजनिः – रात्रिः ]
      • का रजनिः ? इयम्
    • कदा ? इदानीम्
  • कुरु
    • का ? (त्वम्)
    • कथं कुरु ? स-त्वर-रचनम् [ रचना – अनुष्ठानम् ]
    • किम् ? वचनम्
      • कस्याः ? मम

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥
पदच्छेदः

श्रीजयदेवे कृत-हरि-सेवे भणति परम-रमणीयम् प्रमुदित-हृदयम् हरिम् अति-सदयम् नमत सुकृत-कमनीयम्

अन्वयः

कृत-हरि-सेवे श्रीजयदेवे भणति (सति) प्रमुदित-हृदयं परम-रमणीयम् अति-सदयं सुकृत-कमनीयं हरिं (यूयं) नमत |

पदपरिचय:

  • नमत
    • के ? (यूयम्)
    • कम् ? हरिम्
      • कीदृशम् ? सुकृत-कमनीयम् [ सुकृतेन कमनीयः – शोभन-कार्यैः कारणैः वाञ्चनीयः ]
      • पुनः कीदृशम् ? अति-सदयम् [ स-दयः – कृपालुः ]
      • पुनः कीदृशम् ? परम-रमणीयम्
      • पुनः कीदृशम् ? प्रमुदित-हृदयम् [ प्रमुदित – सदा आनन्दित ]
    • कदा ? भणति (सति)
      • कस्मिन् भणति (सति) ? श्रीजयदेवे
      • कीदृशे श्रीजयदेवे ? कृत-हरि-सेवे

विकिरति मुहुः श्वासान्दिशाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३
पदच्छेदः

विकिरति मुहुः श्वासान् दिशाः प्रविशति मुहुः कुञ्जम् गुञ्जन् मुहुः बहु ताम्यति रचयति मुहुः शय्याम् पर्याकुलम् मुहुः ईक्षते मदन-कदन-क्लान्तः कान्ते प्रियः तव वर्तते

अन्वयः

हे कान्ते | तव प्रियः मुहुः श्वासान् विकिरति | मुहुः पुरः दिशाः ईक्षते | मुहुः गुञ्जन् सः कुञ्जम् प्रविशति | मुहुः बहु ताम्यति | मुहुः शय्याम् रचयति | मुहुः पर्याकुलम् ईक्षते | तव प्रियः मदन-कदन-क्लान्तः वर्तते |

पदपरिचय:

  • हे कान्ते
  • विकिरति [ विकिरति – विक्षिपति | वि + कॄ “कॄ विक्षेपे” ]
    • कथम् ? मुहुः [ पुनःपुनः ]
    • कान् ? श्वासान्
    • कः ? प्रियः
      • कस्याः ? तव
    • ईक्षते
      • कः ? (सः)
      • कथम् ? मुहुः
      • काः (कर्मपदम्) ? दिशाः [ आशाः इति पाठभेदः | आशाः – आशस् शब्दः – दिशः ]
        • कुत्र / कीदृशाः ? पुरः [ अग्रतः ]
      • प्रविशति
        • कः ? (सः)
        • कथम् ? मुहुः
        • किम् ? कुञ्जम्
      • ताम्यति [ ग्लायति – be uneasy and pained | तम् “तमुँ काङ्क्षायाम्” ]
        • कः ? (सः)
        • किं कुर्वन् ? गुञ्जन् [ buzzing ]
        • कथम् ? मुहुः
        • कियत् ? बहु
      • रचयति
        • कः ? (सः)
        • कथम् ? मुहुः
        • काम् ? शय्याम्
      • ईक्षते
        • कः ? (सः)
        • कथम् ? मुहुः
        • पुनः कथम् ? पर्याकुलम् [ परि+आकुलम् | परितः आकुलम् | आकुलम् – व्याकुलम् ]
      • वर्तते
        • कः ? प्रियः
          • कस्याः ? तव
        • कथम् ? मदन-कदन-क्लान्तः [ कदनम् – पीडा | क्लान्तः – श्रान्तः / कातरः ]

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो
गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३७
पदच्छेदः

त्वत्-वाम्येन समम् समग्रम् अधुना तिग्मांशुः अस्तम् गतः गोविन्दस्य मनोरथेन च समम् प्राप्तम् तमः सान्द्रताम् कोकानाम् करुण-स्वनेन सदृशी दीर्घा मत्-अभ्यर्थना तत् मुग्धे विफलम् विलम्बनम् असौ रम्यः अभिसार-क्षणः

अन्वयः

मुग्धे | अधुना त्वत्-वाम्येन समं (सह) समग्रं तिग्मांशुः अस्तं गतः | गोविन्दस्य मनोरथेन च समं (सह) तमः सान्द्रतां प्राप्तम् (अस्ति) | कोकानाम् करुण-स्वनेन सदृशी मत्-अभ्यर्थना दीर्घा (अस्ति) | तत् विलम्बनम् विफलम् (भवति) | असौ अभिसार-क्षणः रम्यः (भवति) |

पदपरिचय:

  • मुग्धे [ मुग्धा – मूढा ]
  • गतः
    • कः ? तिग्मांशुः [ सूर्यः ]
    • किम् / काम् अवस्थाम् ? अस्तम्
    • केन सह तिग्मांशुः ? त्वद्-वाम्येन समम् [ वाम्यम् – वामता – प्रतिकूलता ]
    • कियत् ? समग्रम्
    • कदा ? अधुना
  • प्राप्तम् (अस्ति)
    • किं प्राप्तम् [ कर्तृपदम् ] ? तमः [ तमस् इति सकारान्तः नपुंसकलिङ्गः ]
      • कस्य मनोरथेन ? गोविन्दस्य
    • केन सह तमः ? मनोरथेन समम् [ मनोरथः – अनुरागः ]
    • किं प्राप्तम् [ कर्मपदम् ] ? सान्द्रताम् [ सान्द्रता – निबिडता – denseness ]
  • दीर्घा (अस्ति)
    • का ? मत्-अभ्यर्थना [ अभ्यर्थना – प्रार्थना – अनुरोधना ]
      • केन सदृशी ? करुण-स्वनेन सदृशी [ करुणस्वनः – करुणामय-स्वरः ]
        • केषाम् ? कोकानाम् [ कोकाः – चक्रवाकपक्षिणः ]
      • विफलम् (भवति)
        • किम् ? विलम्बनम्
          • किं विलम्बनम् ? तत्
        • असौ रम्यः (भवति)
          • कः ? अभिसार-क्षणः [ क्षणः – कालः ]

सा माम् द्रक्ष्यति वक्ष्यति स्मरकथाम् प्रत्यङ्गमालिङ्गनैः

प्रीतिम् यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः।

स त्वाम् पश्यति वेपते पुलकयत्यानन्दति स्वेद्यति

प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे स्थितः॥ ३८ (उत्तरे एतद्श्लोकः ३८-तमः अस्ति)

पदच्छेदः

सा माम् द्रक्ष्यति वक्ष्यति स्मर कथाम् प्रति-अङ्गम् आलिङ्गनैः प्रीतिम् यास्यति रंस्यते सखि समागत्य इति चिन्ता+आकुलः सः त्वाम् पश्यति वेपते पुलकयति आनन्दति स्वेद्यति प्रति+उत्+गच्छति मूर्च्छति स्थिर-तमःपुञ्जे निकुञ्जे स्थितः

अन्वयः

सखि | सः स्थितः स्थिर-तमःपुञ्जे निकुञ्जे “सा समागत्य मां द्रक्ष्यति | स्मर-कथां वक्ष्यति | प्रत्यङ्गम् आलिङ्गनैः प्रीतिं यास्यति | रंस्यते” इति चिन्ताकुलः त्वां पश्यति | वेपते | पुलकयति | आनन्दति | स्वेद्यति | प्रत्युद्गच्छति | मूर्च्छति |

पदपरिचय:

  • सखि
  • पश्यति
    • काम् ? त्वाम्
    • कः ? सः
      • कीदृशः ? स्थितः
        • कुत्र ? निकुञ्जे
        • कीदृशे ? स्थिर-तमःपुञ्जे
      • कीदृशः ? चिन्ताकुलः
      • किमिति चिन्ताकुलः ? … इति
        • द्रक्ष्यति
          • कम् ? माम्
          • किं कृत्वा ? समागत्य
          • का ? सा
        • वक्ष्यति
          • किम् ? स्मर-कथाम्
          • का ? सा
        • यास्यति
          • किम् ? प्रीतिम्
          • कैः कारणेन ? आलिङ्गनैः
            • कथम् ? प्रत्यङ्गम्
          • का ? सा
        • रंस्यते
          • का ? सा
        • सः किं किं करोति ? पुलकयति वेपते आनन्दति स्वेद्यति प्रत्युद्गच्छति मूर्च्छति च |

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-
र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३ (दक्षिणे एतद्श्लोकः ३८-तमः अस्ति)

पदच्छेदः

आश्लेषात् अनु चुम्बनात् अनु नख-उल्लेखात् अनु स्वान्त-ज-प्र-उद्बोधात् अनु संभ्रमात् अनु रतारंभात् अनु प्रीतयोः अन्य-अर्थम् गतयोः भ्रमात् मिलितयोः सम्भाषणैः जानतोः दम्पत्योः इह कः न कः न तमसि व्रीडा-विमिश्रः रसः

अन्वयः

अन्यार्थम् गतयोः भ्रमात् मिलितयोः सम्भाषणैः जानतोः आश्लेषात् अनु चुम्बनात् अनु नखोल्लेखात् अनु स्वान्तजप्रोद्बोधात् अनु संभ्रमात् अनु रतारंभात् अनु प्रीतयोः दम्पत्योः इह तमसि व्रीडा-विमिश्रः रसः कः न (अस्ति) | कः (रसः) न (अस्ति) |

पदपरिचय:

  • कः रसः न (अस्ति) ? [ सर्वे रसाः सन्ति इत्यर्थः ]
    • कीदृशः रसः? व्रीडा-विमिश्रः [ व्रीडा – लज्जा ; विमिश्रः – मिश्रितः ]
      • कयोः ? दम्पत्योः
      • कीदृशयोः ? गतयोः
        • किमर्थम् (गतयोः) ? अन्यार्थम्
      • पुनः कीदृशयोः ? मिलितयोः
        • कस्मात् अनन्तरम् (मिलितयोः) ? भ्रमात् (भ्रमात् अनन्तरम्)
      • पुनः कीदृशयोः ? जानतोः
        • कैः कारणैः जानतोः ? सम्भाषणैः
      • पुनः कीदृशयोः ? प्रीतयोः [ परितोषं गतयोः ]
        • कस्मात् अनु प्रीतयोः ? रतारंभात् अनु [ रत+आरम्भः ]
        • कस्मात् अनु (रतारंभः) ? संभ्रमात् अनु [ संभ्रमः – विस्मयः ]
        • कस्मात् अनु (संभ्रमः) ? स्वान्तजप्रोद्बोधात् अनु [ स्व+अन्त+जम् – कामम् ; प्र+उत्+बोधः – प्रकाशनः ]
        • कस्मात् अनु (स्वान्तजप्रोद्बोधः) ? नखोल्लेखात् अनु [ नख+उत्+लेखात् ]
        • कस्मात् अनु (नखोल्लेखः) ? चुम्बनात् अनु
        • कस्मात् अनु (चुम्बनम्) ? आश्लेषात् अनु [ आश्लेषणम् = आलिङ्गनम् ]
      • कुत्र भवति ? इह
      • कदा भवति ? तमसि

सभयचकितं विन्यस्यन्तीं दृशौ तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ३
पदच्छेदः

स-भय-चकितं विन्यस्यन्तीं दृशौ तिमिरे पथि प्रति-तरुः मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् कथम् अपि रहः प्राप्ताम् अङ्गैः अनङ्ग-तरङ्गिभिः सुमुखि सुभगः पश्यन् सः त्वाम् उपैतु कृत-अर्थताम्
अन्वयः  

सुमुखि | सुभगः सः स-भय-चकितम्‌ तिमिरे दृशौ पथि विन्यस्यन्तीम्‌, प्रतितरुः मुहुः स्थित्वा, मन्दम्‌ पदानि वितन्वतीम्, अनङ्गतरङ्गिभिः अङ्गैः (उपलक्षितां), कथम् अपि, रहः प्राप्ताम्, त्वां पश्यन् कृतार्थताम् उपैतु

पदपरिचय:

  • सुमुखि
  • उपैतु [ प्राप्नोतु ]
    • काम् ? कृतार्थताम् [ साफल्यम् ]
    • कः ? सः
    • कीदृशः ? सुभगः [ भाग्यवान् ]
    • किं कुर्वन् सः ? पश्यन्
      • कां पश्यन् ? त्वाम्
      • कीदृशीं त्वाम् ? प्राप्ताम्
        • कुत्र ? रहः [ निर्जने स्थले / एकान्ते ]
        • पुनः कथम् (प्राप्ताम्) ? कथम् अपि
        • किं कृत्वा प्राप्ताम् ? स्थित्वा
          • कुत्र ? मुहुः प्रतितरु
        • किं कुर्वतीम् ? वितन्वतीम् [ वि+ तन् “तनुँ विस्तारे” + वतुप् प्रत्ययः | विक्षिपतीम् – stretching ]
          • कथम् ? मन्दम्
          • किम् ? पदम्
        • पुनः कीदृशीं त्वाम् ? अङ्गैः (अङ्गैः उपलक्षिताम्)
          • कीदृशैः अङ्गैः ? अनङ्ग-तरङ्गिभिः [ अनङ्गः – कामः ]
        • पुनः कीदृशीं त्वाम् ? विन्यस्यन्तीम्‌ [ निक्षिपन्तीम् ]
          • कथम् ? स-भय-चकितम्‌
          • के द्वे विन्यस्यन्तीम्‌ ? दृशौ [ नेत्रे ]
          • कुत्र ? पथि
          • कदा ? तिमिरे

राधामुग्धमुखारविन्दमधुपस्त्रैलोक्यमौलिस्थली

नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः।

स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः

कंसध्वंसनधूमकेतुरवतु त्वाम् देवकीनन्दनः॥ ४० ||

पदच्छेदः

राधा-मुग्ध-मुख-अरविन्द-मधुपः त्रैलोक्य-मौलि-स्थली नेपथ्य-उचित-नील-रत्नम् अवनी-भार-अवतार-अन्तकः स्वच्छन्दम् व्रज-सुन्दरी-जन-मनः-तोष-प्रदोष-उदयः कंस-ध्वंसन-धूमकेतुः अवतु त्वाम् देवकी-नंदनः

अन्वयः

राधा-मुग्ध-मुख-अरविन्द-मधुपः त्रैलोक्य-मौलि-स्थली नेपथ्य-उचित-नील-रत्नम् अवनी-भार-अवतार-अन्तकः स्वच्छन्दम् व्रज-सुन्दरी-जन-मनः-तोष-प्रदोष-उदयः कंस-ध्वंसन-धूमकेतुः देवकी-नंदनः त्वाम् अवतु |

पदपरिचय:

  • अवतु [ रक्षतु ]
    • कं / कां ? त्वाम्
    • कः ? देवकी-नंदनः
    • कीदृशः ? राधा-मुग्ध-मुख-अरविन्द-मधुपः [ मुग्ध – सुन्दर ; मधुपः – भ्रमरः ]
    • पुनः कथं भूतः ? त्रैलोक्य-मौलि-स्थली-नेपथ्य-उचित-नील-रत्नम् [ मौलि-स्थली – शिरोभागः ; नेपथ्योचित – अलङ्कारभुतम् ]
    • पुनः कीदृशः ? अवनी-भार-अवतार-अन्तकः [ अवनी – जगत् ; अन्तकः – नाशकः ]
    • पुनः कीदृशः ? व्रज-सुंदरी-जन-मनः-तोष-प्रदोष-उदयः [ प्रदोषः – सायङ्कालः ; प्रदोष-उदयः – चन्द्रः ]
      • कथम् उदयति ? स्वच्छन्दम् [ स्व-इच्छया ]
    • पुनः कीदृशः ? कंस-ध्वंसन-धूमकेतुः [ धूमकेतुः – केतुः comet, indicating a potential threat ]

॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥

॥ इति श्रीगीतगोविन्दे अभिसारिक-वर्णने स-आकाङ्क्ष-पुण्डरीकाक्षः नाम पञ्चमः सर्गः ॥

 

Advertisements