Yaadavaabhyudayam2

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh

Second Part for Shlokas 1.51 to 1.70

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ 

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

51. श्लोकः

मूलपाठः

निराधारनिजस्थेम्नो निरुपाधिकशेषिणः ।

निरपेक्षनियन्तुस्ते निस्समाभ्यधिका गुणाः ॥ ५१ ॥

पदच्छेदः

निराधारनिजस्थेम्नः निरुपाधिकशेषिणः निरपेक्षनियन्तुः ते निस्समाभ्यधिकाः गुणाः ।

अन्वयरचना

  • गुणाः (सन्ति)
    • कस्य गुणाः ? ते
      • कीदृशस्य ते ? निराधारनिजस्थेम्नः
      • पुनः कीदृशस्य ते ? निरुपाधिकशेषिणः
      • पुनः कीदृशस्य ते ? निरपेक्षनियन्तुः
    • कीदृशाः गुणाः ? निस्समाभ्यधिकाः

अन्वयः

निराधारनिजस्थेम्नः निरुपाधिकशेषिणः निरपेक्षनियन्तुः ते गुणाः निस्समाभ्यधिकाः ।

तात्पर्यम्

यस्य स्थैर्यम् आधारनिरपेक्षं, यः स्वभावादेव सकलजगत्प्रधानभूतः, यस्य जगन्नियामकत्वम् इतर-सहकारि-निरपेक्षं तादृशस्य ते गुणाः समाभ्यधिकरहिताः ।

पदार्थः

  • निराधारनिजस्थेम्नः = स्थेमा = स्थैर्यम् । निजः = आत्मनः
  • आधारनिरपेक्षस्थैर्यवतः
  • निरुपाधिकशेषिणः = स्वभावादेव सकलजगत्प्रधानस्य
  • निरपेक्षनियन्तुः = सहकार्यन्तर-निरपेक्षः यथा तथा जगन्नियामकस्य
  • ते गुणाः = तव कल्याणगुणाः
  • निस्समाभ्यधिकाः = समः = सदृशः । अभ्यधिकः = अतिशयानः, समातिशयनरहितः । यत्सदृशः यदतिवर्ती वा नान्यः ।

विशेषः

  • निरुपाधिकशेषित्वम्
    • स्वभावात् एव सकलजगत्प्रधानत्वम् / निरतिशय-स्वाम्यम्
    • स्वभवादेव इत्यत्र नित्यत्वम् अनन्याधीनत्वम् विविक्षितम्
    • शेष्यन्तराधीनं वा कारणान्तराधीनं वा न भवति ।
    • मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः । गीता ९.४
  • निस्समाभ्यधिकाः
    • न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभावः ॥ गीता ११.४३

पदविवरणम्

  • निराधारनिजस्थेम्नः =
    • निर्गतः आधारः यस्मात् सः निराधारः ।
    • निजः स्थेमा = निजस्थेमा ।
    • निराधारः निजस्थेमा यस्य सः निराधारनिजस्थेमा, तस्य ।
  • निरुपाधिकशेषिणः =
    • निर्गतः उपाधिः यस्मात् सः निरुपाधिकः
    • शेषः अस्यास्तीति शेषी
    • निरुपाधिकः शेषी = निरुपाधिकशेषी, तस्य
  • निरपेक्षनियन्तुः =
    • निःशेषं सर्वान् यमयति इति नियन्ता
    • निर्गता अपेक्षा यस्मात् सः निरपेक्षः
    • निरपेक्षः नियन्ता = निरपेक्षनियन्ता, तस्य
  • निस्समाभ्यधिकाः =
    • समाः च अभ्यधिकाः च समाभ्यधिकाः
    • निर्गताः समाभ्यधिकाः येभ्यः ते = निःसमाभ्यधिकाः (गुणाः)

52. श्लोकः

मूलपाठः

अनाविलधियामन्तश्चिन्तामणिरिव स्फुरन् ।

दिशस्यभिमतं सर्वमतिरस्कार्यदीधितिः ॥ ५२ ॥

पदच्छेदः

अनाविलधियाम्, अन्तः, चिन्तामणिः, इव, स्फुरन्, दिशसि, अभिमतम्, सर्वम्, अतिरस्कार्यदीधितिः ।

अन्वयरचना

  • (त्वं) दिशसि
    • कीदृशः त्वम् ? अतिरस्कार्यदीधितिः
    • किं दिशसि ? अभिमतम्
      • कीदृशम् अभिमतम् ? सर्वम्
    • कः इव दिशसि ? चिन्तामणिः
      • किं कुर्वन् चिन्तामणिः ? स्फुरन्
    • कुत्र दिशसि ? अन्तः
      • केषाम् अन्तः ? अनाविलधियाम्

अन्वयः

अतिरस्कार्यदीधितिः अनाविलधियाम् अन्तः स्फुरन् चिन्तामणिः इव सर्वम् अभिमतं दिशसि ।

तात्पर्यम्

अप्रतिमप्रकाशः त्वम् अकलुषबुद्धीनां हृदये प्रकाशमानः चिन्तामणिः इव सर्वाभीष्टं वितरसि ।

पदार्थः

  • अतिरस्कार्यदीधितिः
    • दीधितिः = तेजः
    • अतिरस्कार्यदीधितिः = तेजोऽन्तरैः अनभिभवनीयः प्रकाशः
  • अनाविलधियाम् = अकलुषितबुद्धीनाम्
  • अन्तः = हृदये
  • स्फुरन् = प्रकाशमानः
  • चिन्तामणिः इव = दिव्यरत्नम् इव
  • सर्वम् अभिमतम् = सर्वम् अभीष्टम्
  • दिशसि = प्रयच्छसि

पदविवरणम्

  • अतिरस्कार्यदीधितिः =
    • न तिरस्कार्या = अतिरस्कार्या
    • अतिरस्कार्या दीधितिः यस्य सः = अतिरस्कार्यदीधितिः
  • अनाविलधियाम् =
    • न आविलाः = अनाविलाः
    • अनाविलाः धियः येषां ते = अनाविलधियः, तेषाम्
  • दिशसि = दिश् अतिसर्जने लट्., म.पु., ए.व.

53. श्लोकः

मूलपाठः

संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।

त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ ५३ ॥

पदच्छेदः

संसारमरुकान्तारे परिश्रान्तस्य देहिनः त्वद्भक्त्यमृतवाहिन्याम् आदिष्टम् अवगाहनम् ।

अन्वयरचना

  • आदिष्टम्
    • किम् आदिष्टम् ? अवगाहनम्
      • कस्याम् अवगाहनम् ? त्वद्भक्त्यमृतवाहिन्याम्
      • कस्य अवगाहनम् ? देहिनः
        • कीदृशस्य देहिनः ? परिश्रान्तस्य
          • कस्मिन् परिश्रान्तस्य ? संसारमरुकान्तारे

अन्वयः

संसारमरुकान्तारे परिश्रान्तस्य देहिनः त्वद्भक्त्यमृतवाहिन्याम् अवगाहनम् आदिष्टम् ।

तात्पर्यम्

संसाररूप-मरुस्थल्याः दुर्गमपथे अटनेन शरीरिणः क्लान्ताः भवन्ति । तत्श्रमापनोदनाय भवद्भक्तिसुधारूपनद्यां स्नानम् उपदिशति भक्तिशास्त्रम् ।

पदार्थः

  • संसारमरुकान्तारे = कान्तारम् – दुर्गमं वर्त्म । संसाररूप-मरुप्रदेशस्य दुर्गमवर्त्मनि
  • परिश्रान्तस्य = गतागताभ्यां खिन्नस्य
  • देहिनः = शरीरिणः
  • त्वद्भक्तयमृतवाहिन्याम् = तव भक्तिः एव सुधानदी, तस्याम्
  • अवगाहनम् = स्नानम्
  • आदिष्टम् = श्रमापनोदकत्वेन उपदिष्टम् ।

विशेषः

  • भक्तिमुखेन मोक्षप्रदत्वम् उक्तं भगवतः ।

भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ गीता ११/५४

मरुशब्देन निर्जलप्रदेशकथनात् तत्र कथं वृक्षसमूहत्वरूपं कान्तारत्वम् इति शङ्का उत्पद्येत । अत्र दुर्गमं वर्त्म इत्यर्थः कान्तारशब्दस्य ।

  • कान्तारम् – वनम्, दुर्गमं वर्त्म

पदविवरणम्

  • संसारमरुकान्तारे = संसारः एव मरुः । संसारमरोः कान्तारं, तस्मिन्
  • देहिनः = देहः अस्य अस्ति इति देही, तस्य
  • त्वद्भक्तयमृतवाहिन्याम् = अमृतस्य वाहिनी – अमृतवाहिनी । तव भक्तिः – त्वद्भक्तिः । त्वद्भक्तिः एव अमृतवाहिनी, तस्याम्

54. श्लोकः

मूलपाठः

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसम्पन्नस्तारकस्त्वं प्लवो महान् ॥ ५४ ॥

पदच्छेदः

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः समग्रगुणसम्पन्नः  तारकः त्वम् प्लवः महान् ।

अन्वयरचना

  • असि
    • कः ? त्वम्
    • कीदृशः त्वम् ? समग्रगुणसम्पन्नः
    • पुनः कीदृशः त्वम् ? तारकः
      • कस्य तारकः ? दुःख्यतः
        • कीदृशस्य दुःख्यतः ? घूर्णमानस्य
        • कुत्र घूर्णमानस्य ? दुरितोदन्वदावर्ते
      • कथम्भूतः तारकः ? प्लवः
        • कीदृशः प्लवः ? महान्

अन्वयः

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः (देहिनः) समग्रगुणसम्पन्नः  तारकः महान् प्लवः त्वम् (एव) ।

तात्पर्यम्

यथा जलावर्ते परिभ्रमतः क्लेशम् अनुभवतः देहिनः सम्यक्सूत्रबद्धः पोतः तारकः भवति तथा संसारसमुद्रे दुःखमनुभवतः जनस्य भवान् तादृशः तारकः भवति ।

पदार्थः

  • दुरितोदन्वदावर्ते = आवर्तः = अम्भसां भ्रमः । पापरूपसमुद्रस्य जलभ्रमे
  • घूर्णमानस्य = परिभ्राम्यतः
  • दुःख्यतः = क्लिश्यतः / क्लेशमनुभवतः
  • समग्रगुणसम्पन्नः = समग्राः = अपरिच्छिन्नाः । ज्ञान-शक्ति-वात्सल्य-स्वामित्वादयः एव गुणाः (सूत्राणि), तैः समृद्धः ।
  • तारकः = तारयिता
  • महान् प्लवः = महान् पोतः / महती नौः
  • त्वम् (एव) = भवान् एव

विशेषः

पूर्वत्र भक्तेः मुक्त्युपायत्वम् उक्तम् ।

इह तु प्रपत्तेः इति भेदः ।

साध्योपायः

  • तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्।
    ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ गीता १०.१० ॥

सिद्धोपायः

  • निजकर्मादि भक्त्यन्तं कुर्यात् प्रीत्यैव कारितः ।

उपायतां परित्यज्य न्यस्येद्देवेतु ताममभीः ॥ स्तोत्ररत्नम् ३१ ॥

  • विषमविषयतोये मज्जतामप्लवानां

भवतु शरणमेको विष्णुपोतो नराणाम् ॥ मुकुन्दमाला १२ ॥

  • सोत्तीर्णा खलु पाण्डवै रणनदी कैवर्तकः केशवः । गीताध्यानश्लोकः

पदविवरणम्

    • दुरितोदन्वदावर्ते = उदकम् अस्य अस्ति इति उदन्वान् । उदन्वतः आवर्तः = उदन्वदावर्तः । दुरितम् एव उदन्वदावर्तः = दुरितोदन्वदावर्तः, तस्मिन्
    • घूर्णमानस्य = घूर्ण-भ्रमणे । शानजन्तं पदम् । घूर्णमान, पुं., ष.वि. ए.व.
    • दुःख्यतः = दुःखशब्दस्य कण्ड्वादिषु पाठात् यक् प्रत्ययः ।
    • समग्रगुणसम्पन्नः = समग्राः गुणाः = समग्रगुणाः । समग्रगुणैः सम्पन्नः ।
    • तारकः = तारयति इति तारकः । कर्त्रथे ण्वुल् ।

55. श्लोकः

मूलपाठः

अपरिच्छिद्यमानस्य देशकालादिभिस्तव ।

निदर्शनं त्वमेवैकस्त्वदन्यद्वयतिरेकतः ॥ ५५ ॥

पदच्छेदः

अपरिच्छिद्यमानस्य देशकालादिभिः तव निदर्शनम् त्वम् एव एकः त्वदन्यत् व्यतिरेकतः ।

अन्वयरचना

  • निदर्शनम् अस्ति
    • कः निदर्शनम् ? त्वम्
      • कीदृशः त्वम् ? एकः एव
    • कस्य निदर्शनम् ? तव
      • कीदृशस्य तव ? अपरिच्छिद्यमानस्य
        • कैः अपरिच्छिद्यमानस्य ? देशकालादिभिः
      • निदर्शनम् (भवति)
        • किं निदर्शनम् ? त्वदन्यत्
        • कस्य निदर्शनम् ? तव
        • कथम्भूततया निदर्शनम् ? व्यतिरेकतः

अन्वयः

देशकालादिभिः अपरिच्छिद्यमानस्य तव त्वम् एकः एव निदर्शनम् । त्वदन्यत् व्यतिरेकतः निदर्शनम् ।

तात्पर्यम्

देश-काल-वस्त्वादिभिः लक्षययितुं अशक्यः त्वम् । अतः तव दृष्टान्तः त्वमेव । त्वत्तः अन्यत् व्यापित्वादिना प्रसिद्धं गगनादि व्यतिरेकदृष्टान्तः एव भवति । गगनादिविलक्षणः त्वम् इति कथयितुम् एव गगनादि उपमानत्वेन गृह्यते इत्यर्थः ।

पदार्थः

  • देशकालादिभिः = विभुत्वात् देशेन, नित्यवात् कालेन, सर्वात्मकतया वस्तुना च ।
  • अपरिच्छिद्यमानस्य = लक्षयितुम् अशक्यस्य / अमेयस्य ।
  • तव = भवतः ।
  • त्वम् एकः एव निदर्शनम् = भवान् अद्वितीयः दृष्टान्तः ।
  • त्वदन्यत् = त्वत्तः अन्यत् व्यापित्वादिना प्रसिद्धं गगनादिकम् ।
  • व्यतिरेकतः = वैलक्षण्येन ।
  • निदर्शनम् = दृष्टान्तः भवति ।

विशेषः

  • तव निदर्शनं त्वमेव –
    • स्वस्य स्वेन एव सादृश्यत्वात् अनन्वयः अलङ्कारः ।
    • उदा.
      • गगनं गगनाकारं सागरः सागरोपमः ।
        रामरावणयोर्युद्धं रामरावणयोरिव ॥
    • एकस्य एव वस्तुनः उपमानत्व-उपमेयत्वम् च विवक्ष्यते ।
  • त्वदन्यत् व्यतिरेकः (निदर्शनम्) –
    • अत्र भगवदुत्कर्षवर्णनात् व्यतिरेकः अलङ्कारः ।
    • व्यतिरेको विशेषश्चेदुपमानोपमेययोः ।
      शैला इवोन्नता सन्तः किन्तु प्रकृतिकोमलाः ॥
    • उपमानोपमेययोः व्यतिरेकः (वैलक्षण्यं) वर्णितः चेत् व्यतिरेकालङ्कारः ।
    • अत्र प्रकृतिकोमलाः इति प्रयोगेण उपमानभूतशैलेभ्यः उपमेयभूतसज्जनानां वैलक्षण्यं वर्णितम् इति व्यतिरेकलक्षणसमन्वयः ।
    • तयोः अन्योन्यानुप्राणितत्वेन सङ्करः ।

पदविवरणम्

      • देशकालादिभिः = देशः कालः च आदी येषां ते देशकालादयः, तैः
      • अपरिच्छिद्यमानस्य = परिच्छिद्यते इति परिच्छिद्यमानः ।
      • न परिच्छिद्यमानः अपरिच्छिद्यमानः, तस्य
      • त्वदन्यत् = त्वत्तः अन्यत्
      • व्यतिरेकतः = वि अति रिच् घञ् व्यतिरेकः + तस् । रिच् (विरेचने) रिणक्ति / रिङ्क्ते

56. श्लोकः

मूलपाठः

अकर्तुमखिलं कर्तुमन्यथाकर्तुमप्यलम् ।
सङ्कल्पसचिवः काले शक्तिलेशस्स तावकः ॥ ५६ ॥

पाठभेदः

काले / कालः

पदच्छेदः

अकर्तुम् अखिलम् कर्तुम् अन्यथाकर्तुम् अपि अलम् सङ्कल्पसचिवः काले शक्तिलेशः सः तावकः ।

अन्वयरचना

  • अस्ति
    • कः अस्ति ? सः कालः
    • कथम्भूतः अस्ति ? अलम् (पर्याप्तः)
    • कः अलम् ? शक्तिलेशः सः
      • कीदृशः शक्तिलेशः ? तावकाः
      • पुनः कीदृशः शक्तिलेशः सः ? सङ्कल्पसचिवः
    • किं कर्तुम् अलम् ? अकर्तुम्
      • किम् अकर्तुम् ? अखिलम्
      • कदा अकर्तुम् ? काले
    • पुनः किं कर्तुम् अलम् ? कर्तुम्
    • पुनः किं कर्तुम् अलम् ? अन्यथाकर्तुम् अपि

अन्वयः

अखिलम् काले अकर्तुं, कर्तुम्, अन्यथाकर्तुम् अपि तावकः शक्तिलेशः सः (कालः) सङ्कल्पसचिवः सन् अलम् ।

तात्पर्यम्

प्रपञ्चं तत्तत्काले कर्तुम् अकर्तुम् अन्यथा कर्तुं च समर्थः त्वत्सङ्कल्पसहायः कालः अपि त्वच्छक्त्यंशः एव । तव शक्तिलेशः एव जगद्‍व्यापाराय पर्याप्तः । तवपरिपूर्णशक्तिः कथं लक्ष्यते इति भावः ।

पदार्थः

  • अखिलम् = प्रपञ्चम्
  • काले = तत्तदुचितकाले
  • अकर्तुम् = प्रलयकाले अकर्तुम्
  • कर्तुम् = सर्गादिषु कर्तुम्
  • अन्यथाकर्तुम् अपि = मन्वन्तरभेदेषु पूर्वेन्द्राद्यधिकारं विनवर्त्य इन्द्राद्यन्तराणां स्थापनक्रमेण अन्यथाकर्तुं च
  • तावकः शक्तिलेशः सः (कालः) = त्वदीयः शक्तिलवरूपः सः कालः
  • सङ्कल्पसचिवः सन् = सङ्कल्पसहायः सन्
  • अलम् = पर्याप्तः / समर्थः एव ।

विशेषः

  • ततः कालात्मको योऽसौ स चांशः कथितो हरेः ।

विष्णुपुराणम् १/६/१४

पदविवरणम्

  • अखिलम् = न विद्यते खिलं यस्य तत् ।
  • अन्यथा = अन्यत् इव । ‘अन्यप्रकारे’ इत्यर्थः । अन्यशब्दात् प्रकारवचने थाल् ५.३.२३ इति ‘थाल्’ प्रत्ययः ।
  • सङ्कल्पसचिवः = सङ्कल्पः एव सचिवः ।
  • तावकः = तव अयम् (अण् – तद्धितप्रत्ययः) । युष्मत् स्थाने ‘तवक’- आदेशः ।
  • शक्तिलेशः = शक्तेः लेशः ।

57. श्लोकः

मूलपाठः

यन्मूलमखिलं कार्यं यदमूलमधीयते ।
लक्ष्यं तदसि योगानां लक्ष्मीकौस्तुभलक्षणम् ॥ ५७

पदच्छेदः

यन्मूलम् अखिलम् कार्यम् यत् अमूलम् अधीयते लक्ष्यम् तत् असि योगानाम् लक्ष्मीकौस्तुभलक्षणम् ।

अन्वयरचना

  • अधीयते (उपनिषत्सु पठ्यते)
    • किम् अधीयते ? तत् (कर्मपदम्)
    • कथम्भूतम् इति अधीयते ? यत् मूलम् (इति)
    • पुनः कथम्भूतम् इति अधीयते ? यत् अमूलम् (इति)
  • तत् (त्वम्) असि
    • कथम्भूतं त्वम् ? लक्ष्यम्
      • केषां लक्ष्यम् ? योगानाम्
    • पुनः कथम्भूतं त्वम् ? लक्ष्मीकौस्तुभलक्षणम्

अन्वयः

अखिलं कार्यं यन्मूलं यत् (च) अमूलम् अधीयते लक्ष्मीकौस्तुभलक्षणं योगानां लक्ष्यं तत् (त्वम्) असि ।

[येन यत् अधीयते । यः यत् अधीते । त्वं तत् असि । त्वया तत् भूयते ।]

तात्पर्यम्

कृत्स्नस्य जगतः कारणं यत्, यस्य च कारणं न विद्यते, तत् श्रीकौस्तुभाङ्कितवक्षः, दहरादि-परविद्यानाम् (उपासकानां) ध्येयं, परं ब्रह्म त्वम् असि  ।

पदार्थः

  • अखिलं कार्यम् = समग्रं वियदादि कार्यम्
  • यन्मूलम् = यत् कारणकम्
  • यत् अमूलम् = अकारणञ्च
  • अधीयते = उपनिषत्सु पठ्यते
  • लक्ष्मीकौस्तुभलक्षणम् = श्रीः च कौस्तुभाख्यः मणिविशेषश्च चिह्नं यस्य तथाभूतम्
  • योगानां लक्ष्यम् = दहरादि-परविद्यानाम् उद्देश्यभूतम्
  • तत् = परं ब्रह्म
  • असि= भवसि

विशेषः

  • यन्मूलं अखिलं कार्यम्, यदमूलम् अधीयते
    • न चास्य कश्चिज्जनिता न चाधिपः॥ ६/९ (श्वेताश्वतरोपनिषत्)
    • ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
    • पुरुषायादिबीजाय परेशायाभिधीमहि ॥
    • यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
    • योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥ श्रीमद्भागवतम् – ८.३.२,३
  • कौस्तुभम्
    • कौस्तुभाख्यमभूद् रत्नं पद्मरागो महोदधेः ।
    • तस्मिन्हरिः स्पृहां चक्रे वक्षोऽलङ्करणे मणौ ॥ ॥ श्रीमद्भागवतम् ८.८.५
    • कौस्तुभे लक्ष्मीतुल्य-प्रीतेः कथनात् सर्वजीवोद्धारेदम्परत्वं व्यज्यते ।
  • लक्ष्मीः
    • लक्ष् दर्शनाङ्कनयोः – लक्षयति पश्यति नीतिज्ञम् / उद्योगिनं वा ।
  • योगानां लक्ष्यम्
    • दहरोपासनादि-परविद्यानां लक्ष्यम् –
    • “लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम्”

पदविवरणम्

    • अखिलम् = न विद्यते खिलं यस्य तत्
    • अमूलम् = न विद्यते मूलं यस्य तत्
    • लक्ष्मीकौस्तुभलक्षणम् = लक्ष्मीः च कौस्तुभम् च – लक्ष्मीकौस्तुभे
    • लक्ष्मीकौस्तुभे लक्षणे यस्य तत् – लक्ष्मीकौस्तुभलक्षणम् ।
    • लक्ष्यम् = लक्ष्यते इति
    • अधीयते = अधि + इण् कर्मणि लट् प्र.पु. ए.व.

58. श्लोकः

मूलपाठः
त्रिवर्गमपवर्गं वा प्रतिलब्धुं प्रयस्यताम् ।
प्रलयेष्वपि दीर्घायुः प्रतिभूस्त्वदनुग्रहः ॥ ५८ ॥

पदच्छेदः
त्रिवर्गम्, अपवर्गम्, वा, प्रतिलब्धुम्, प्रयस्यताम्, प्रलयेषु, अपि, दीर्घायुः, प्रतिभूः, त्वदनुग्रहः ।
अन्वयरचना

      • (भवति)
        • कः भवति ? त्वदनुग्रहः
        • केषां त्वदनुग्रहः ? प्रयस्यताम्
          • किं कर्तुं प्रयस्यताम् ? प्रतिलब्धुम्
            • किं प्रतिलब्धुम् ? त्रिवर्गम् अपवर्गं वा
          • कथम्भूतः त्वदनुग्रहः भवति ? प्रतिभूः
            • कीदृशः प्रतिभूः ? दीर्घायुः
          • कदा प्रतिभूः भवति ? प्रलयेषु अपि

अन्वयः

त्रिवर्गम् अपवर्गं वा प्रतिलब्धुं प्रयस्यतां त्वदनुग्रहः प्रलयेषु अपि दीर्घायुः प्रतिभूः ।

तात्पर्यम्

यथा वृद्ध्याजीवाः प्रतिभुवं विश्वस्य वृद्ध्यर्थं धनं प्रयुञ्जते तथा सन्तः त्वत्प्रसादमेव कल्पान्तरेष्वपि फलप्रदं विश्वस्य त्रिवर्गापवर्गार्थानि कर्माणि अनुतिष्ठन्ति ; अग्न्यादितत्तत्कर्मदेवतानां कल्पान्तरेषु असम्भवात् इति भावः ।

पदार्थः

      • त्रिवर्गम् = धर्मार्थकामान्
      • अपवर्गं वा = मोक्षं / निर्वाणं / अवसानम् वा
      • प्रतिलब्धुं प्रयस्यतां = प्राप्तुं प्रयतमानानां
      • त्वदनुग्रहः = तव प्रसादः
      • प्रलयेषु अपि = प्रलयसमयेषु अपि / कल्पान्तरेषु अपि
      • दीर्घायुः = चिरस्थायी
      • प्रतिभूः = लग्नकः (धनिकस्य अधमर्णस्य च अन्तरे यः तिष्ठति विश्वासार्थं स प्रतिभूः) [धनदाता धनग्रहीता]

पदविवरणम्

      • त्रिवर्गम् = त्रयाणां वर्गाणां समाहारः
      • अपवर्गम् = अपवृज्यते संसारः मुच्यते अनेन, तम्
      • प्रतिलब्धुम् = प्रति + लभ् + तुमुन्
      • प्रयस्यताम् = यस् प्रयत्ने प्रयस्यति शत्रन्तं पदम्, प्रयस्यत् शब्दः, ष.वि., ब.व.
      • त्वदनुग्रहः = तव अनुग्रहः
      • दीर्घायुः = दीर्घम् आयुः यस्य सः
      • प्रतिभूः = प्रतिरूपः प्रतिनिधिर्वा भवति इति ।

59. श्लोकः

मूलपाठः

यदेकमक्षरं ब्रह्म सर्वाम्नायसमन्वितम् ।
तारकं सर्वजन्तूनां तत्
त्वं तव च वाचकम् ॥ ५९

पदच्छेदः

यत्, एकम्, अक्षरम्, ब्रह्म, सर्वाम्नायसमन्वितम्, तारकम्, सर्वजन्तूनाम्, तत्, त्वम्, तव, च, वाचकम् ।

अन्वयरचना

      • यद् एकम् अक्षरं ब्रह्म तत् त्वम् असि ।
        • कीदृशम् तत् ? सर्वाम्नायसमन्वितम्
        • पुनः कीदृशं ब्रह्म ? तारकम्
        • केषां तारकम् ? सर्वजन्तूनाम्
      • यत् एकम् अक्षरं ब्रह्म तत् अस्ति ।
        • कीदृशं तत् ? वाचकम्
          • कस्य ? तव

अन्वयः

सर्वाम्नायसमन्वितं सर्वजन्तूनां तारकं यत् एकम् अक्षरं ब्रह्म तत् त्वं (तत्) तव च वाचकम् ।

तात्पर्यम्

सर्वजन्तुतारकप्रणवरूपतया प्रणवशब्दवाच्यतया च वर्णितं परं ब्रह्म त्वमेव इति ।

पदार्थः

      • सर्वाम्नायसमन्वितम् = सर्वेषु वेदेषु आद्यन्तयोः स्थितम् ।
      • सर्वजन्तूनाम् = सर्वेषां प्राणिनाम्
      • तारकम् = भवार्णवतरणोपायभूतम्
      • यत् एकं अक्षरं ब्रह्म = एकाक्षररूपं शब्दब्रह्म
      • तत् त्वं तव च वाचकम् = तत् त्वं तव अभिधानं च ।

विशेषः

      • ‘ब्रह्मणः प्रणवं कुर्यात् आदौ अन्ते च सर्वदा’ इति स्मृतिः ।
        • ब्रह्मणः प्रणवं कुर्यात् आदौ अन्ते च सर्वदा

स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥ मनु. २.७४

      • प्रणवरूपतया प्रणववाच्यतया च वर्णितं परं ब्रह्म त्वमेव ।
        • श्रीभगवान् उवाच –
        • ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
          यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥गीता 13 ॥
        • श्रीभगवान् उवाच –
        • ऊँ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ॥गीता 23 ॥
        • ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्।
          यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥गीता 13 ॥
      • एकम् अक्षरं ब्रह्म
        • द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ गीता १५.१६ ॥

      • यस्मात् क्षरमतीतोऽहम् अक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ गीता १५.१८ ॥

पदविवरणम्

      • सर्वाम्नायसमन्वितम् = सर्वे आम्नायाः सर्वाम्नायाः सर्वाम्नायेषु समन्वितम् ।
      • सर्वजन्तूनाम् = सर्वे जन्तवः सर्वजन्तवः तेषाम् ।
      • तारकम् = तारयति इति । कर्त्रर्थे ण्वुल् प्रत्ययः ।
      • अक्षरम् = क्षरति इति क्षरम् । न क्षरम् ।

60. श्लोकः

मूलपाठः

त्वदालम्बितहस्तानां भवादुन्मज्जतां सताम् ।
मज्जतः पापजातस्य नास्ति हस्तावलम्बनम् ॥६०॥

पदच्छेदः

त्वदालम्बितहस्तानाम्, भवात्, उन्मज्जताम्, सताम्, मज्जतः, पापजातस्य, न, अस्ति, हस्तावलम्बनम् ।

अन्वयरचना

  • न अस्ति
    • किं नास्ति ? हस्तावलम्बनम्
      • कस्य हस्तावलम्बनं नास्ति ? पापजातस्य
        • कीदृशस्य पापजातस्य ? मज्जतः
        • केषां पापजातस्य ? सताम्
          • कीदृशानां सताम् ? त्वदालम्बिहस्तानाम्
          • पुनः कीदृशानां सताम् ? उन्मज्जताम्
            • कुतः उन्मज्जताम् ? भवात्

अन्वयः

त्वदालम्बितहस्तानां भवात् उन्मज्जतां सतां मज्जतः पापजातस्य हस्तावलम्बनम् नास्ति ।

तात्पर्यम्

“तेषामहं समुद्धर्ता मृत्युसंसारसागरात् । भवामि नचिरात् पार्थ ! मय्यावेशितचेतसाम् (गीता 12.7)” इति भगवता उक्तप्रकारेण तदीयम् अनुग्रहं प्राप्य सत्पुरुषाः विधूतपुण्यपापाः सन्तः संसारबन्धात् मुक्ताः भवन्ति । पुनर्भवाय हेतुभूतस्य कर्मराशेः अशेषतया नाशात् तेषां संसारे पुनरावर्तनं न भवति ।

पदार्थः

  • त्वदालम्बितहस्तानाम् = त्वया उद्धरणाय गृहीतहस्तानाम्
  • भवात् उन्मज्जतां सताम् = अत एव संसारकूपात् मुच्यमानां ब्रह्मविदाम्
  • मज्जतः = निमज्जतः
  • पापजातस्य = तत्सम्बन्धि-पापसमूहस्य
  • हस्तावलम्बनम् = उपरि उद्धरणाय हस्तदानम्
  • नास्ति = न भवति किल

विशेषः

  • भवात् उन्मज्जतां सतां तव हस्तावलम्बनं विद्यते –

“ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा” – गीता ४.३७

इत्युक्तरीत्या ज्ञानेन पापविनाशाभिप्रायेण तत्सुकृतदुष्कृते विधूनुते ।

  • मज्जतः पापजातस्य हस्तालम्बनं न विद्यते –

“तस्य प्रिया ज्ञातयः सुकृतमुपयुञ्जन्ति अप्रियाः दुष्कृतम्”

इत्युक्तरीत्या अन्यत्र निवेशनाभिप्रायेण च पापजातस्य मज्जनमुक्तम् ।

एतेन भगवन्तं प्राप्तानां संसारबीजकर्माभावात् ब्रह्मादीन् प्राप्तानाम् इव पुनरावृत्तिः नास्ति इति सूच्यते ।

https://nivedita2015.wordpress.com/tattvabodhah/ – किञ्च ये ज्ञानिनं स्तुवन्ति भजन्त्यर्चयन्ति तान्प्रति ज्ञानिकृतमागामि पुण्यं गच्छति। ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति ।

पदविवरणम्

  • त्वदालम्बितहस्तानाम्
    • तव आलम्बिताः त्वदालम्बिताः
    • त्वदालम्बिताः हस्ताः येषां ते – त्वदालम्बितहस्ताः, तेषाम् ।
  • उन्मज्जताम् = उत् + मस्ज् शुद्धौ शत्रन्तं पदम् । तकारान्तः पुं. उन्मज्जत् शब्दः ष. बहु.व.
  • मज्जतः = तकारान्तः नपुं. मज्जत् शब्दः ष. ए.व.
  • पापजातस्य = पापानां जातम् (समूहः) पापजातम् तस्य ।
  • हस्तावलम्बनम् = हस्तेन अवलम्बनम्

परिणामालङ्कारः

परिणामः क्रियार्थश्चेद्विषयी विषयात्मना
प्रसन्नेन दृगब्जेन वीक्षते मदिरेक्षणा ॥

  • विषयी = उपमानम्
  • विषयात्मना = उपमेयात्मना
  • क्रियार्थः चेत् = प्रकृतकार्योपयोगी चेत्
  • परिणामः = परिणामालङ्कारः

  • मदिरेक्षणा – सुन्दरलोचना तन्वी
  • प्रसन्नेन दृगब्जेन – निर्मलेन दृग् एव अब्जं दृगब्जं तेन
  • वीक्षते – पश्यति ।
  • अत्र दृशि = लोचने अब्जत्वम् आरोपितम् । तस्य च प्रकृतवीक्षणक्रिया स्वरूपतः न सम्भवति इति उपमेयदृगात्मना परिणामः भवति । स च परिणामः किमर्थः ? कार्योपयोगाय । परिणामः इति अन्वर्थं नाम ।

ब्रह्मादिस्तम्बपर्यन्तविचित्राङ्कुरशालिनाम् ।
सलिलं कर्मकन्दानां क्रीडैव तव केवलम् ॥ ५० ॥

  • विषयी – उपमानम् – सलिलम्
  • विषयः – उपमेयम् – भगवत्क्रीडा
  • क्रिया – प्रपञ्चाङ्कुर-जननम् 

संसारमरुकान्तारे परिश्रान्तस्य देहिनः ।
त्वद्भक्त्यमृतवाहिन्यामादिष्टमवगाहनम् ॥ ५३ ॥

  •  विषयी – उपमानम् – वाहिनी (नदी)
  • विषयः – उपमेयम् – भक्तिः
  • क्रिया – संसारमार्ग-श्रान्तस्य देहिनः श्रमहरणम्

दुरितोदन्वदावर्ते घूर्णमानस्य दुःख्यतः ।
समग्रगुणसम्पन्नस्तारकस्त्वं प्लवो महान् ॥ ५४ ॥

  • विषयी – उपमानम् –  प्लवः
  • विषयः – उपमेयम् –  तारकः
  • क्रिया –   आवर्ते भ्रममाणस्य देहिनः दुःखप्रशमनम्

61. श्लोकः

मूलपाठः

अनन्यरक्षाव्रतिनं चातकव्रतचारिणः ।
भवन्तमवलम्बन्ते निरालम्बनभावनम् ॥ ६१ ॥

पदच्छेदः

अनन्यरक्षाव्रतिनम् चातकव्रतचारिणः भवन्तम् अवलम्बन्ते निरालम्बनभावनम्  ।

अन्वयरचना

  • अवलम्बन्ते
    • के अवलम्बन्ते ? चातकव्रतचारिणः (कर्तृपदम्)
    • कम् अवलम्बन्ते ? भवन्तम् (कर्मपदम्)
      • कीदृशं भवन्तम् ? अनन्यरक्षाव्रतिनम्
    • कथम् अवलम्बन्ते ? निरालम्बनभावनम्

अन्वयः

अनन्यरक्षाव्रतिनं भवन्तं चातकव्रतचारिणः निरालम्बनभावनम् अवलम्बन्ते ।
चातकव्रतचारिणः भवन्तं अवलम्बन्ते ।
चातकव्रतचारिभिः भवान् अवलम्ब्यते ।

तात्पर्यम्

अनन्यगतिकानाम् आश्रयितारं त्वां त्वदेकायतचित्ताः (प्रपन्नाः) आकिञ्चन्यभावेन  प्रपद्यन्ते ।

पदार्थः

  • अनन्यरक्षाव्रतिनम्
    • अनन्याः = एकान्तिनः ।
    • अनन्यरक्षाव्रतिनम् = अनन्यानां रक्षा एव व्रतम् अस्य, अनन्यरक्षाव्रती, तम्
  • भवन्तम् = त्वाम्
  • चातकव्रतचारिणः =
    • चातकाः = शकुन्ताः ।
    • चातकव्रतचारिणः = यथा चातकाः जलधरैकसेवनपराः तथा त्वदेकाश्रिताः
  • निरालम्बनभावनम् =
    • निरालम्बना = भक्तियोगाद्युपायान्तरालम्बनरहिता
    • भावना =मनोव्यापारः ।
    • निरालम्बनभावनम् = उपायान्तरालम्बनरहिता भावना यस्मिन् कर्मणि तत् निरालम्बनभावनम् । अनन्याधीनत्व-भावना-व्यञ्जक-कर्मणा वा ।
  • अवलम्बन्ते = प्रपद्यन्ते

विशेषः

अनन्याश्रितव्रतिनम् इत्यनेन श्लोकेन प्रपत्तिः उच्यते ।

अयं निरालम्बनः इति भावना भगवतः आश्रितेषु यथा स्यात् तथा अवलम्बन्ते । ये अनन्यगतिकत्वम् आकिञ्चन्यम् च आविष्कुर्वन्ति तेषां गोप्तृत्वव्रती भगवान् इति भावः  –

त्वयि रक्षति रक्षकैः किमन्यैः

त्वयिचारक्षति रक्षकैः किमन्यैः ।

इति निश्चितधीः श्रयामि नित्यं

नृहरे वेगवतीतटाश्रयं त्वाम् ॥8॥  स्वामिदेशिकविरचितं कामासिकाष्टकम्

पदविवरणम्

  • अनन्यरक्षाव्रतिनम्
    • अविद्यमानः अन्यः येषां ते अनन्याः ।
    • अनन्यानां रक्षा = अनन्यरक्षा ।
    • अनन्यरक्षाव्रतिनम् = अनन्यरक्षा एव व्रतं यस्य सः अनन्यरक्षाव्रती, तम् ।
  • चातकव्रतचारिणः = चातकस्य व्रतम् (एकान्तित्वम्) चरितुं शीलम् एषां , तथोक्ताः
  • निरालम्बनभावनम्
    • निर्गता च सा आलम्बना निरालम्बना ।
    • निरालम्बनभावनम् = निरालम्बना भावना यस्मिन् कर्मणि तत् निरालम्बनभावनम् । (क्रियाविशेषणम् )
  • अवलम्बन्ते = अव + लम्ब् ‘अवस्रंसने’ । आत्मनेपदी । लट्., प्र.पु., ब.व.

62. श्लोकः

मूलपाठः

अनिदम्पूर्वनिद्राणामनस्तमयभानुमान् ।
आपादयसि पुंसां त्वमपुनस्स्वापजागरम् ॥ ६२ ॥

पदच्छेदः

अनिदम्पूर्वनिद्राणाम्, अनस्तमयभानुमान्, आपादयसि, पुंसाम्, त्वम्, अपुनस्स्वापजागरम् ।

अन्वयरचना

  • आपादयसि
  • कः आपादयसि ? त्वम् (कर्तृपदम्)
    • कीदृशः त्वम् ? अनस्तमयभानुमान्
      • केषाम् अनस्तमयभानुमान् ? पुंसाम्
        • कीदृशानां पुंसाम् ? अनिदम्पूर्वनिद्राणाम्
      • किम् आपादयसि ? अपुनस्स्वापजागरम्

अन्वयः

अनिदम्पूर्वनिद्राणां पुंसाम् अनस्तमयभानुमान् त्वम् अपुनस्स्वापजागरम् आपादयसि ।
त्वम् अपुनस्स्वापजागरम् आपादयसि ।
त्वया अपुनस्स्वापजागरम् आपाद्यते ।

तात्पर्यम्

यथा उदयमानः भास्वान् निद्रितान् प्रबोधयति एवम् अस्तमयरहितसूर्यः त्वं हृदये स्फुरन् संसारिणः मोचयसि ।

पदार्थः

  • अनिदम्पूर्वनिद्राणाम्
    • अनिदम्पूर्वा = अनादिकालप्रवृत्ता
    • निद्रा = संसृतिः
    • अनिदम्पूर्वनिद्राणाम् = अनादिकालप्रवृतं संसरणं येषां ते अनिदम्पूर्वनिद्राः, तेषाम्
  • पुंसाम् = नराणाम्
  • अनस्तमयभानुमान् त्वम् = अस्तमय-रहित-सूर्यः त्वम्
  • अपुनस्स्वापजागरम् = पुनरावृत्तिरहितम् अपवर्गम्
  • आपादयसि= प्रयच्छसि ।

विशेषः

  • अस्मिन् श्लोके भक्ति-प्रपत्ति-भाजाम् इष्टप्रदायकः भगवान् इत्याह ।

पदविवरणम्

  • अनिदम्पूर्वनिद्राणाम्
    • इयं पूर्वा निद्रा येषां ते = इदम्पूर्वनिद्राः
    • अनिदम्पूर्वनिद्राणाम् = न इदम्पूर्वनिद्राः अनिदम्पूर्वनिद्राः, तेषाम्
  • पुंसाम् = सकारान्तः पुं. पुंस् शब्दः, ष.वि., ब.व.
  • अनस्तमयभानुमान्
    • भानवः (रश्मयः) अस्य सन्ति इति भानुमान् ।
    • अविद्यमानः अस्तमयः अस्य इति अनस्तमयः ।
    • अनस्तमयभानुमान् = अनस्तमयः च असौ भानुमान् च अनस्तमयभानुमान् ।
  • अपुनःस्वापजागरम्
    • स्वापश्च जागरश्च स्वापजागरौ
    • पुनःपुनः स्वापजागरौ = पुनस्स्वापजागरौ
    • अपुनःस्वापजागरम् = अविद्यमानौ पुनस्स्वापजागरौ यस्मिन् कर्मणि तत् तथा (क्रिवाविशेषणम्)
  • आपादयसि = आङ् + पद् गतौ + णिच्

अलङ्कारः

  • अत्र जीवस्य संसारापवर्गौ निद्राजागरभावेन अध्यवसीयेते इति अतिशयोक्तिः ।
  • भगवति सूर्यत्वारोपस्य जागरण-प्रकृतकार्योपयोगित्वात् परिणामः ।
  • सूर्यास्तमयस्य अनन्तरभावि-पुनस्स्वापराहित्ये हेतुः इति पदार्थहेतुकं काव्यलिङ्गम् इति एतेषां सङ्करः ।

63. श्लोकः

मूलपाठः

त्वदेकशरणानां त्वं शरणागतजीवनः ।
विपदं नः क्षिप क्षिप्रं तमिस्रामिव भास्करः ॥ ६३ ॥

पदच्छेदः

त्वदेकशरणानाम्, त्वम्, शरणागतजीवनः,विपदम्, नः, क्षिप, क्षिप्रम्, तमिस्राम्, इव, भास्करः ।

अन्वयरचना

  • क्षिप
    • कः क्षिप ? त्वम्
      • कीदृशः त्वम् ? शरणागतजीवनः
    • कां क्षिप ? विपदम्
      • केषां विपदम् ? नः
        • कीदृशानां नः ? त्वदेकशरणानाम्
      • कथं क्षिप ? क्षिप्रम्
        • कथम् इव क्षिप ?तमिस्रां भास्करः इव

अन्वयः

शरणागतजीवनः त्वं त्वदेकशरणानां नः विपदं, तमिस्रां भास्करः इव क्षिप्रं क्षिप  ।

तात्पर्यम्

आश्रितरक्षकः भवान् सूर्यः अन्धकारम् इव रक्षकान्तर-रहितानाम् उपायान्तर-रहितानाम् च अस्माकम् आपदं तूर्णम् अपहरतु ।

पदार्थः

  • शरणागतजीवनः त्वम् = प्रपन्नानां त्राता त्वम्
  • त्वदेकशरणानां नः = त्वदन्यरक्षकरहितानाम् अस्माकम्
  • विपदम् = आपदम्
  • तमिस्रां भास्करः इव = अन्धकारं सूर्यः इव
  • क्षिप्रं क्षिप = शीघ्रं अपाकुरु ।

विशेषः

  • त्वदेकशरणानाम् = शरणम् = उपायः । उपायान्तरविहीनानाम्
  • भक्तत्राणप्रतिज्ञा भगवतः श्रीकृष्णस्य –
  • क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
    कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ गीता 31 ॥

पदविवरणम्

  • शरणागतजीवनः
    • शरणम् आगताः शरणागताः ।
    • शरणागतजीवनः = शरणागतान् जीवयति इति शरणागतजीवनः ।
  • त्वदेकशरणानां = त्वम् एकः शरणं येषां ते त्वदेकशरणाः, तेषाम्
  • तमिस्रा = या तामसी (तमोयुक्ता) रात्रिः सा तमिस्रा इति अमरकोषः
  • भास्करः = भाः करोति इति

अलङ्कारः

  • उपमा

64. श्लोकः

मूलपाठः

सति सूर्ये समुद्यन्तः प्रतिसूर्या इवासुराः ।
जगद्बाधाय जायन्ते जहि तान् स्वेन तेजसा ॥ ६४ ॥

पदच्छेदः

सति, सूर्ये, समुद्यन्तः, प्रतिसूर्याः, इव, असुराः, जगद्बाधाय, जायन्ते, जहि, तान्, स्वेन, तेजसा ।

अन्वयरचना

  • जायन्ते
    • के जायन्ते ? असुराः
    • के इव जायन्ते ? प्रतिसूर्याः इव
      • कीदृशाः प्रतिसूर्याः ? समुद्यन्तः
        • कदा जायन्ते ? सूर्ये सति
      • किमर्थं जायन्ते ? जगत्-बाधाय
    • (त्वं) जहि
      • कान् जहि ? तान्
      • केन जहि ? तेजसा
        • कीदृशेन तेजसा ? स्वेन

अन्वयः

सूर्ये सति समुद्यन्तः प्रतिसूर्याः इव असुराः जगद्बाधाय जायन्ते । तान् स्वेन तेजसा जहि ।

तात्पर्यम्

आकाशे सूर्यस्य उपस्थितौ एव उदयमानाः प्रतिसूर्याः इव असुराः जायन्ते ये च  लोकपीडकाः भवन्ति । यथा सूर्यः स्वतेजसा तान् अवरोपयति तथा स्वप्रभावेन तान् असुरान् संहर ।

पदार्थः

  • सूर्ये सति = भास्करे विद्यमाने
  • समुद्यन्तः = उदयमानान्
  • प्रतिसूर्याः इव = सूर्यस्य प्रतिभटाः इव
  • असुराः = कंसादिरूपिणः
  • जगत्-बाधाय = लोकस्य उपद्रवाय
  • जायन्ते = भवन्ति
  • तान् = कंसादीन्
  • स्वेन तेजसा = स्वशक्त्या
  • जहि = संहर ।

पदविवरणम्

  • समुद्यन्तः = सम् उत् + इण् गतौ – (शत्रन्तं रूपं) समुद्यत् शब्दः प्र.पु. बहु.व.
  • जगद्-बाधाय = जगतः बाधः जगद्बाधः तस्मै ।
  • जहि = हन् हिंसागत्योः लोट् म.पु. ए.व. लट् – हन्ति हतः घ्नन्ति ।

अलङ्कारः

  • उपमालङ्कारः

65. श्लोकः

मूलपाठः

स दैत्यहत्यामिच्छद्भिस्सुरैरेवमभिष्टुतः ।
अनन्यदृश्यस्सहसा दयया दर्शनं ददौ ॥ ६५ ॥

पदच्छेदः

सः, दैत्यहत्याम्, इच्छद्भिः, सुरैः, एवम्, अभिष्टुतः, अनन्यदृश्यः, सहसा, दयया, दर्शनम्, ददौ ।

अन्वयरचना

  • ददौ
    • कः ददौ ? सः (कर्तृपदम्)
    • सः किं ददौ ? दर्शनम्
    • कीदृशः सः ? अनन्यदृश्यः
      • पुनः कीदृशः सः ? अभिष्टुतः
        • कैः अभिष्टुतः ? सुरैः
          • कीदृशैः सुरैः ? इच्छद्भिः
            • काम् इच्छद्भिः ? दैत्यहत्याम्
          • कथम् अभिष्टुतः ? एवम्
        • कथं ददौ ? सहसा
        • केन हेतुना ददौ ? दयया

अन्वयः

दैत्यहत्याम् इच्छद्भिः सुरैः एवम् अभिष्टुतः अनन्यदृश्यः सः सहसा दयया दर्शनं ददौ ।

तात्पर्यम्

कंसादि-दैत्यविनाशं काङ्क्षन्तः देवाः पूर्वोक्तप्रकारेण भगवन्तम् अस्तुवन् । इत्थं सम्प्रार्थितः परमैकान्तिभिः एव द्रष्टुं शक्यः सः पुरुषोत्तमः सपदि करुणया तेषां पुरस्तात् आविरभूत्  ।

पदार्थः

  • दैत्यहत्यामिच्छद्भिः सुरैः = कंसादीनां विनाशं कामयमानैः देवैः
  • एवम् अभिष्टुतः = उक्तप्रकारेण प्रकीर्तितः
  • अनन्यदृश्यः = एकान्तिभिः एव दर्शनीयः
  • सः = पुरुषोत्तमः
  • सहसा = अतर्कितम्
  • दयया = करुणया
  • दर्शनम् ददौ = दर्शनं प्रायच्छत् ।

विशेषः

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ गीता ११/ ५२

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ११/५३

भक्त्या त्वनन्या शक्य अहमेवंविधोऽर्जुन ।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥ ११ / ५४

पदविवरणम्

  • दैत्यहत्याम् = दैत्यानां हत्या दैत्यहत्या ताम् ।
  • इच्छद्भिः = इच्छत् शब्दः तृ वि. बहु.व.
  • अभिष्टुतः = अभि + स्तु (ष्टुञ्) स्तुतौ + क्त
  • अनन्यदृश्यः = अविद्यमानः अन्यः येषां ते अनन्याः । द्रष्टुं योग्यः दृश्यः । अनन्यैः दृश्यः ।
  • सहसा = अतर्किते तु सहसा । (अतर्कितार्थे सहसा) इत्यमरः ।
  • ददौ = दा धातुः लिट् प्र.पु. ए.व.

66. श्लोकः

मूलपाठः

ततस्तं ददृशुर्देवाः शेषपर्यङ्कमास्थितम् ।
अधिरूढशरन्मेघमन्यादृशमिवाम्बुदम् ॥ ६६ ॥

पदच्छेदः

ततः, तम्, ददृशुः, देवाः, शेषपर्यङ्कम्, आस्थितम्, अधिरूढशरन्मेघम्, अन्यादृशम्, इव, अम्बुदम् ।

अन्वयरचना

  • ददृशुः
    • के ददृशुः ? देवाः
    • कं ददृशुः ? तम्
      • कीदृशं तम् ? आस्थितम्
        • कुत्र आस्थितम् ? शेषपर्यङ्कम्
        • कथम् इव ददृशुः ? अधिरूढशरन्मेघम् अन्यादृशम् अम्बुदम् इव
      • कदा ददृशुः ? ततः

अन्वयः

ततः देवाः शेषपर्यङ्कम् आस्थितम् अधिरूढशरन्मेघम् अन्यादृशम् अम्बुदम् इव तं ददृशुः ।

तात्पर्यम्

ते ब्रह्मादयः शेषपर्यङ्कशायिनः विष्णोः दर्शनं प्राप्तवन्तः  ।

शरत्कालीन-घनस्य उपरि स्थितं वर्षर्तुमेघम् इव धवलादिशेषम् अधिरूढं नीलाभं विष्णुं ते अपश्यन् । 

पदार्थः

  • ततः = सुरैः अभिष्टुतः भगवान् यदा सहसा दर्शनं ददौ तदा
  • देवाः = ब्रह्मादयः
  • शेषपर्यङ्कम् आस्थितम् = शेषरूपां शय्याम् अधिरूढम्
  • अधिरूढशरन्मेघम् = शरन्मेघस्य उपरि
  • अन्यादृशम् = विलक्षणम् / लोकोत्तरम्
  • अम्बुदम् इव = मेघम् इव
  • तं ददृशुः = विष्णुम् अपश्यन्

विशेषः

  • शेषस्य धवलत्वात् शरन्मेघरूपता । मेघोपरि मेघस्थितिः उत्प्रेक्ष्यते अत्र कविवरेण । शरन्मेघेन सह वर्षर्तुमेघस्थितिं सम्भाव्य एवम् उक्तम् ।

पदविवरणम्

  • शेषपर्यङ्कम् = शेषः एव पर्यङ्कः शेषपर्यङ्कः तम्
  • आस्थितम् = आङ् + स्था + क्त । अकारान्तः पुं. आस्थित शब्दः द्वि. वि. ए.व.
  • अधिरूढशरन्मेघम्
    • शरदः मेघः = शरन्मेघः
    • अधिरूढशरन्मेघम् = अधिरूढः शरन्मेघः येन सः अधिरूढशरन्मेघः, तम्
  • अन्यादृशम् = अन्यस्य सदृशः अन्यादृशः तम्
  • अम्बुदम् = अम्बूनि ददाति इति अम्बुदः तम्
  • ददृशुः = दृश् धातुः लिट् प्र.पु बहु.

अलङ्कारः

  • शरन्मेघस्य उपरि वर्षर्तुमेघस्य अप्रसिद्धस्थितिः सम्भाव्यते इति सम्भावनारूपोत्प्रेक्षालङ्कारः ।

67. श्लोकः    

मूलपाठः

पत्न्या सह निषेदुष्या पद्मलक्षणलक्ष्यया ।
स्वेच्छयैव शरीरिण्या सूचितैश्वर्यसंपदम् ॥ ६७ ॥

पदच्छेदः

पत्न्या, सह, निषेदुष्या, पद्मलक्षणलक्ष्यया, स्वेच्छया, एव, शरीरिण्या, सूचितैश्वर्यसंपदम् ।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम् ? सूचितैश्वर्यसंपदम्
      • कया सूचितैश्वर्यसंपदम् ? पत्न्या
        • कीदृश्या पत्न्या ? निषेदुष्या
      • केन सह निषेदुष्या ? (स्वेन) सह
    • पुनः कीदृश्या पत्न्या ? पद्मलक्षणलक्ष्यया
    • पुनः कीदृश्या पत्न्या ? शरीरिण्या
      • कथम्भूतया शरीरिण्या ? स्वेच्छया एव

अन्वयः

(स्वेन) सह निषेदुष्या पद्मलक्षणलक्ष्यया स्वेच्छया एव शरीरिण्या पत्न्या सूचितैश्वर्यसंपदं (तं ददृशुः) ।

तात्पर्यम्

शेषशय्याम् अधिरूढया, पद्महस्तया, स्वेच्छया शरीरधारिण्या, स्वभर्तुः परत्वख्यापिकया, वल्लभया सहितं महाविष्णुं ते देवाः अपश्यन्  ।

पदार्थः

  • सह निषेदुष्या = (स्वेन) साकं निषण्णया
  • पद्मलक्षणलक्ष्यया = पद्मम् एव चिह्नं, तेन दृश्यया / पद्महस्तया
  • स्वेच्छया एव = कर्मवश्यतां विना स्वेच्छामात्रेण
  • शरीरिण्या = शरीरधारिण्या
  • पत्न्या = श्रीमहालक्ष्म्या
  • सूचितैश्वर्यसम्पदम्
    • ऐश्वर्यसम्पत् = सुजनसार्वभौमराजभावः ।
    • सूचितैश्वर्यसम्पदम् = (महालक्ष्म्या) यस्य परत्वं / जगत्पतित्वं प्रख्यापितं, तादृशः सूचितैश्वर्यसम्पत्, तम्
  • (तं ददृशुः = विष्णुम् अपश्यन्)

विशेषः

  • मानवं शरीरं कर्माधीनम् । श्रीमहालक्ष्म्याः तु कर्माभावेऽपि स्वेच्छाकृतम् ।
  • ‘ह्रीश्च ते लक्ष्मीश्च पत्न्यौ’ इति पुरुषसूक्तप्रकारेण लक्ष्मीपतित्वमेव विष्णोः परत्वभावद्योतकम् ।

पदविवरणम्

  • निषेदुष्या = नि + सद् + क्वसु + ङीप् (षद्लृ विषरणादौ) । भाषायां सद-वस-श्रुवः ३.२.१०८ । सद वस श्रु इत्येतेभ्यः परस्य लिटः क्वसुप्रत्ययः । “स्थितः स्थिताम् उच्चलितः प्रयातां निषेदुषीमासनबन्धधीरः” रघु. २. ६
  • पद्मलक्षणलक्ष्यया
    • पद्ममेव लक्षणम् पद्मलक्षणम् ।
    • पद्मलक्षणलक्ष्यया = पद्मलक्षणेन लक्ष्या पद्मलक्षणलक्ष्या, तया
  • स्वेच्छया = स्वस्य इच्छा स्वेच्छा, तया
  • शरीरिण्या = शरीरमस्याः अस्तीति शरीरिणी, तया
  • सूचितैश्वर्यसम्पदम् = सूचिता ऐश्वर्यसम्पत् यस्य सः सूचितैश्वर्यसम्पत्, तम्

68. श्लोकः

68. श्लोकः

मूलपाठः

सुकुमारसुखस्पर्शसुगन्धिभिरलङ्कृतम् ।

स्वविग्रहगुणारामप्रसूनैरिव भूषणैः ॥ ६८ ॥

पदच्छेदः

सुकुमारसुखस्पर्शसुगन्धिभिः, अलङ्कृतम्, स्वविग्रहगुणारामप्रसूनैः, इव, भूषणैः ।

अन्वयरचना

  • (देवाः तं ददृशुः)
    • कीदृशं तम् ? अलङ्कृतम्
      • कैः अलङ्कृतम् ? भूषणैः
      • कीदृशैः भूषणैः ? सुकुमारसुखस्पर्शसुगन्धिभिः
        • कैः इव भूषणैः ? स्वविग्रहगुणारामप्रसूनैः इव

अन्वयः

सुकुमारसुखस्पर्शसुगन्धिभिः स्वविग्रहगुणारामप्रसूनैः इव भूषणैः अलङ्कृतं (तं ददृशुः) ।

तात्पर्यम्

भगवतः विग्रहः एव सौन्दर्यादि-गुणानाम् उद्यानम् । तस्मिन् विकसितैः कोमलैः सुखकरस्पर्शवद्भिः सुगन्धयुक्तैः पुष्पैः इव दिव्याभरणैः विभूषितं विष्णुं ते देवा अपश्यन्  ।

पदार्थः

  • सुकुमार-सुखस्पर्श-सुगन्धिभिः = कोमलैः, सुखदायिस्पर्शवद्भिः, सुगन्धयुक्तैः च
  • स्वविग्रहगुणारामप्रसूनैः इव = स्व-शरीरम् एव गुणानाम् उपवनं, तस्य पुष्पाणि इव स्थितैः
  • भूषणैः = दिव्याभरणैः
  • अलङ्कृतम् = विभूषितम्
  • (तं ददृशुः) ।

विशेषः

  • अतिमनोहर-किरीट-मकुट-चूडाऽवतंस-मकरकुण्डल-ग्रैवेयक-हार-केयूर-कटक-श्रीवत्स-कौस्तुभ-मुक्तादामोदरबन्धन-पीताम्बर-काञ्चीगुण-नूपुरादिभिः अत्यन्त-सुखस्पर्शैः दिव्यगन्धैः दिव्यभूषणैः भूषितम् । श्रीमत्या वैजयन्त्या वनमालया विराजितम् ; शङ्खचक्रगदासिशार्ङ्गादि-दिव्यायुधैः सेव्यमानम् ;

– श्रीरामानुजाचार्यविरचिते श्रीवैकुण्ठगद्ये

पदविवरणम्

  • सुकुमारसुखस्पर्शसुगन्धिभिः
    • सुखः स्पर्शः येषां तानि सुखस्पर्शानि
    • शोभनः गन्धः येषां तानि सुगन्धीनि
    • सुकुमारसुखस्पर्शसुगन्धिभिः = सुकुमाराणि च सुखस्पर्शानि च सुगन्धीनि च सुकुमारसुखस्पर्शसुगन्धीनि, तैः
  • स्वविग्रहगुणारामप्रसूनैः
    • स्वस्य विग्रहः स्वविग्रहः
    • गुणानाम् आरामः गुणारामः
    • स्वविग्रहः एव गुणारामः स्वविग्रहगुणारामः
    • स्वविग्रहगुणारामप्रसूनैः = स्वविग्रहगुणारामस्य प्रसूनानि स्वविग्रहगुणारामप्रसूनानि, तैः

अलङ्कारः

  • रूपकम् उत्प्रेक्षा च ।
    • स्वविग्रहे गुणारामाभेदारोपात् रूपकम् ।
    • तत्प्रसूनतुल्यत्वोत्प्रेक्षणात् उत्प्रेक्षा च ।

69. श्लोकः

मूलपाठः

आरञ्जितजगन्नेत्रैरन्योन्यपरिकर्मितैः ।

अङ्गैरमितसौन्दर्यैरनुकल्पितभूषणम् ॥ ६९ ॥

पदच्छेदः

आरञ्जितजगन्नेत्रैः, अन्योन्यपरिकर्मितैः, अङ्गैः, अमितसौन्दयैः, अनुकल्पितभूषणम् ।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम् ? अनुकल्पितभूषणम्
      • कैः अनुकल्पितभूषणम् ? अङ्गैः
      • कीदृशैः अङ्गैः ? अमितसौन्दर्यैः
      • पुनः कीदृशैः अङ्गैः ? अन्योन्यपरिकर्मितैः
      • पुनः कीदृशैः अङ्गैः ? आरञ्जितजगन्नेत्रैः

अन्वयः

आरञ्जितजगन्नेत्रैः अन्योन्यपरिकर्मितैः अमितसौन्दयैः अङ्गैः अनुकल्पितभूषणं (तं ददृशुः) ।

तात्पर्यम्

अतुल्यसौन्दर्येण परस्परं प्रसाधयद्भिः सकलजगन्मोहकैः अत एव आभरणेभ्योऽपि सुन्दरतरैः अङ्गैः शोभमानं तं विष्णुं देवा ददृशुः।

पदार्थः

  • आरञ्जितजगन्नेत्रैः = अनुरक्तीकृत-लोक-लोचनैः । (स्वाङ्गशोभया पश्यतः लोकान् रमयति / मोहयति इत्यर्थः)
  • अन्योन्यपरिकर्मितैः
    • परिकर्म = कुङ्कुमादिना अङ्गसंस्कारः
    • अन्योन्यपरिकर्मितैः = परस्परं सञ्जातप्रसाधनैः
  • अमितसौन्दर्यैः = अपरिमिताभिरूप्यैः
  • अङ्गैः = अवयवैः
  • अनुकल्पितभूषणम् = अमुख्य-कल्पीकृताभरणं (गुणीभूतानि भूषणानि यस्य, तम्)
  • तं ददृशुः ।

विशेषः

  • अन्योन्यपरिकर्मितैः अमितसौन्दर्यैः अङ्गैः – परिकर्मित
    • परिकर्म + इतच् (इत) प्रत्ययः ।
    • तदस्य सञ्जातम् इत्यर्थे ‘इतच्’ तद्धितप्रत्ययः ।
    • यथा तारकाः अस्य सञ्जाताः इति तारकितं नभः ।
    • फलानि अस्य सञ्जातानि इति फलितः वृक्षः ।
    • परिकर्माणि एषां सञ्जातानि इति परिकर्मितानि अङ्गानि ।
    • (मुकुल-खण्ड-पल्लव-मुद्रा-सुख-दुःख-भर-तरङ्ग-इत्यादिपदानि अस्मिन् तारकादि-गणे पठ्यन्ते ।)
  • आरञ्जितजगन्नेत्रैः अन्योन्यपरिकर्मितैः अमितसौन्दयैः अङ्गैः
    • आत्मकान्त्या विश्वमाप्यायन्त्या……आत्मानुरूपया श्रिया सहासीनम् ;

प्रत्यग्रोन्मीलित-सरसिज-सदृश-नयनयुगलम् ;

स्वच्छ-नील-जीमूत-सङ्काशम् ;

स्वया-प्रभया-अतिनिर्मलया-अतिशीतलया-स्वच्छमाणिक्याभया कृत्स्नं जगद्-भासयन्तम् ;

अचिन्त्य-दिव्याद्भुत-नित्य-यौवन-स्वभाव-लावण्यमयामृतसागरम् ;

अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाण-ललाट-फलक-दिव्यालकावली-विराजितम्;

प्रबुद्ध-मुग्धाम्बुज-चारुलोचनम् ;

सविभ्रम-भ्रूलतम् ;

उज्ज्वलाधरम् ;

शुचिस्मितम् ;

कोमलगण्डमुन्नसम् ;

उदग्र-पीनांस-विलम्बि-कुण्डल-अलकावली-बन्धुर-कम्बु-कन्धरम् ;….

अतिकोमल-दिव्य-रेखालङ्कृताताम्र-करतलम् ; …

अतिकोमल-दिव्यनखावली-विराजित-अतिरक्ताङ्गुलीभिः अलङ्कृतम् ;

तत्क्षणोन्मीलित-पुण्डरीक-सरसिज-सदृश-चरण-युगलम् ;

– श्रीरामानुजाचार्यविरचिते श्रीवैकुण्ठगद्ये

पदविवरणम्

  • आरञ्जितजगन्नेत्रैः = आरञ्जितानि जगतां नेत्राणि यैः तानि आरञ्जितजगन्नेत्राणि, तैः ।
  • अन्योन्यपरिकर्मितैः
    • परिकर्माणि एषां सञ्जातानि इति परिकर्मितानि ।
    • अन्योन्यपरिकर्मितैः = अन्योन्यं परिकर्मितानि = अन्योन्यपरिकर्मितानि, तैः ।
  • अमितसौन्दयैः
    • अविद्यमानं मितं यस्य तत् अमितम् ।
    • अमितसौन्दयैः =अमितं सौन्दर्यं येषां तानि अमितसौन्दर्याणि, तैः ।
  • अनुकल्पितभूषणम् = अनुकल्पितानि भूषणानि येन सः अनुकल्पितभूषणः तम् । मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः इत्यमरः ।

अलङ्कारः

  • अत्र अमितसौन्दर्यादि अङ्गविशेषणं भूषणानाम् अनुकल्पितत्वे हेतुभावं भजते इति पदार्थहेतुकं काव्यलिङ्गालङ्कारः ।

70. श्लोकः

70. श्लोकः

मूलपाठः

उत्तेजितजयोत्साहमायुधैरनघोद्यमैः ।

शौर्यविक्रमशक्त्याद्यैस्सहजैः स्वगुणैरिव ॥ ७० ॥

पदच्छेदः

उत्तेजितजयोत्साहम्, आयुधैः, अनघोद्यमैः, शौर्यविक्रमशक्त्याद्यैः, सहजैः, स्वगुणैः, इव।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम् ? उत्तेजितजयोत्साहम्
    • कैः उत्तेजितजयोत्साहम् ? आयुधैः
    • कीदृशैः आयुधैः इव ? स्वगुणैः इव
      • कीदृशैः स्वगुणैः ? शौर्यविक्रमशक्त्याद्यैः
      • पुनः कीदृशैः स्वगुणैः ? सहजैः
      • पुनः कीदृशैः स्वगुणैः? अनघोद्यमैः

अन्वयः

अनघोद्यमैः शौर्यविक्रमशक्तयाद्यैः सहजैः स्वगुणैः इव आयुधैः उत्तेजितजयोत्साहं (तं ददृशुः) ।

तात्पर्यम्

भगवतः शौर्य-पराक्रम-सामर्थ्यादयः गुणाः अवितथाः । एवमेव तदीयाः सुदर्शनादयः हेतयः अमोघोद्यमाः ।                                                                                                                                                                                                                                                                                   तासां हेतीनां दर्शनमात्रेण सुराणां जयोत्साहः समेधितः । तादृशम् उद्धूत-जयोत्साहं भगवन्तं ते देवाः ददृशुः ।

पदार्थः

  • अनघोद्यमैः = अवितथोद्योगैः / अमोघप्रयोगैः
  • शौर्यविक्रमशक्त्याद्यैः = शूरत्व-पराक्रम-सामर्थ्य-प्रभृतिभिः
  • सहजैः = स्वभावसिद्धैः
  • स्वगुणैः इव = आत्मीयगुणैः इव
  • आयुधैः = हेतिभिः
  • उत्तेजितजयोत्साहम् = उत्कटीभूतसुरजयोद्योगं / भाविकाले सुराणां निश्चितजयं द्योतयन्तम्

विशेषः

  • शौर्यविक्रमशक्त्याद्यैः
    • शौर्यम् – बलम् ।
    • शौर्यस्य विषयेषु प्रयोगः – विक्रमः ।
    • “विचक्रमे जगत् तेन विक्रमः ।
      विना (गरुडेन) क्रमते इति विक्रमः ।” (विः = पक्षी)
      – शङ्कराचार्यस्य श्रीविष्णुसहस्रनाम-भाष्ये
    • शक्तिः – सामर्थ्यम् ।
  • आयुधैः = आयुध्यते अनेन इति आयुधः । (आङ् + युध्)
    • आयुधानां त्रयः भेदाः
      • प्रहरणानि – खड्गादीनि
      • पाणिमुक्तानि – चक्रादीनि
      • मन्त्रमुक्तानि – शरादीनि
    • षोडशायुधस्तोत्रे एते आयुधाः प्रोक्ताः स्वामिदेशिकेन –
      • चक्रम् (सुदर्शनम्)
      • परशुः
      • कुन्तः
      • दण्डः
      • अङ्कुशः
      • शतवक्त्राग्निः
      • खड्गः (नन्दकः)
      • शक्तिः
      • शङ्खः (पाञ्चजन्यः)
      • धनुः (शार्ङ्गम्)
      • पाशः
      • सीरः (हलः)
      • वज्रम् (अदधीच्यस्थिसम्भवम्)
      • गदा (कौमोदकी)
      • मुसलः
      • त्रिशूलम्

पदविवरणम्

  • अनघोद्यमैः = अनघाः उद्यमाः येषां ते अनघोद्यमाः तैः ।
  • शौर्यविक्रमशक्त्याद्यैः
    • आदौ भवाः आद्याः ।
    • शूरस्य भावः शौर्यम् ।
    • शौर्यं विक्रमः शक्तिः च शौर्यविक्रमशक्तयः ।
    • शौर्यविक्रमशक्त्याद्यैः = शौर्यविक्रमशक्तयः आद्याः येषां ते शौर्यविक्रमशक्त्याद्याः, तैः
  • स्वभावसिद्धैः = स्वभावेन सिद्धाः स्वभावसिद्धाः, तैः
  • स्वगुणैः = स्वस्य गुणाः स्वगुणाः, तैः
  • उत्तेजितजयोत्साहम्
    • जयनिमित्तकः उत्साहः जयोत्साहः
    • उत्तेजितजयोत्साहम् = उत्तेजितः जयोत्साहः यस्य सः उत्तेजितजयोत्साहः, तम्

अलङ्कारः

  • आयुधानां गुणसादृश्यवर्णनात् उपमालङ्कारः

References: