How to type in Sanskrit?

Install Google input tools Sanskrit language from this site – https://www.google.com/inputtools . Once the Google Input Tools Sanskrit language is installed, it can be used in any application by choosing it.  The Windows Key + Space Bar keys combination can be used to select the required language.  The only issue with this option is that it is not easy to type the viramah symbol “।” at the end of the sentence.

Note that the viramah symbol comes when a period symbol is typed while typing in gmail using the Samskritam Phonetics keyboard.

How to type in Sanskrit using Google Input Tools Samskritam Phonetics in gmail?

  1. Open Gmail. You can only use input tools from a browser and not the Gmail app.
  2. In the top right, click Settings Settings.
  3. Click Settings.
  4. In the “Language” section, click Show all language options.
  5. Check the box next to “Enable input tools.”
  6. In the list of all languages, choose the language “Samskritam Phonetics” and move it to the right side.
  7. Click OK.
  8. At the bottom of the page, click Save Changes.
  9. Open your inbox.
  10. In the top right next to Settings Settings, click the language icon. If you have multiple input tools, use the down arrow to switch among them.

While typing use Alt+Shift+N to go to the next language. This keyboard shortcut can be changed.

For demonstrations with instructions in Sanskrit, please refer this playlist from (Vishvas Vasuki)  विश्वासो वासुकिजः

https://www.youtube.com/playlist?list=PL63uIhJxWbgg3yJqzeh8kCxMo55YUX50F

Side Note:  To convert from Devanagiri to Roman script (i.e., Sanskrit to English), you may use http://www.learnsanskrit.org/tools/sanscript

 

 

 

Panchatantram #1

पञ्चतन्त्रम् ०१

लेखक: – विष्णुशर्मा

कथामुखम्

<Initial portion – to be included – please check later (Sep 2017) >

… अथ तन्मध्यतः सुमतिः नाम सचिवः प्राह ।  …..

“तत् अत्र अस्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमः छात्रसंसदि लब्धकीर्तिः। तस्मै समर्पयतु एतान्। सः नूनं द्राक् प्रबुद्धान् करिष्यति” इति।

सः राजा तत् आकर्ण्य विष्णुशर्माणम् आहूय प्रोवाच । “भोः भगवन् |  मदनुग्रहार्थम् एतान् अर्थशास्त्रं प्रति द्राक् यथा अनन्यसदृशान् विदधासि तथा कुरु । तदा अहं त्वां शासनशतेन योजयिष्यामि”।

अथ विष्णुशर्मा तं राजानम् ऊचे – “देव | श्रूयतां मे तथ्यवचनम् । न अहं विद्याविक्रयं शासनशतेन अपि करोमि । पुनः एतान् तव पुत्रान् मासषट्केन यदि नीतिशास्त्रज्ञान् न करोमि ततः स्वनामत्यागं करोमि” ।

“किं बहुना | श्रूयतां मम एषः सिंहनादः | न अहम् अर्थलिप्सुः ब्रवीमि | मम अशीतिवर्षस्य व्यावृत्तसर्वेन्द्रियार्थस्य न किञ्चित् अर्थेन प्रयोजनम् | तवत्प्रार्थनासिद्धार्थे सरस्वतीविनोदं करिष्यामि | तत् लिख्यताम् अद्यतनः दिवसः | यदि अहं षण्मासाभ्यन्तरे तव पुत्रान् नयशास्त्रं प्रति अनन्यसदृशान् न करिष्यामि, ततः न अर्हति देवः देवमार्गं सन्दर्शयितुम्” |
<Notes: व्यावृत्तसर्वेन्द्रियार्थः – one who is separated from the purposes of the sense gratifications;  सर्वाणि इन्द्रियाणि सर्वेन्द्रियाणि | सर्वेन्द्रियाणाम् अर्थाः सर्वेन्द्रियार्थाः | व्यावृताः सर्वेन्द्रियार्थाः यस्मात् सः >

अथा असौ राजा तां ब्राह्मणस्य असम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टः विस्मयान्वितः तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिम् आजगाम ।

विष्णुशर्मणा अपि तान् आदाय तदर्थं मित्रभॆद-मित्रप्राप्ति-काकोलूकीय-लब्धप्रणाशा-ऽपरीक्षितकारकाणि च इति पञ्चतन्त्राणि रचयित्वा पाठिताः ते राजपुत्राः। ते अपि तान् अधीत्य मासषट्केन यथा उक्ताः संवृत्ताः। ततःप्रभृति एतत् पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम्। किं बहुना

अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च ।
न पराभवमवाप्नोति शक्रादपि कदाचन ॥०.७॥
<अन्वयः – यः इदं नीतिशास्त्रं नित्यम् अधीते शृणोति च, सः कदाचन शक्रात् अपि पराभवं न आप्नोति>

इति कथामुखम्।

 

मित्रभेदः

वर्धमानवृत्तान्तः

अथ अतः प्रारभ्यते मित्रभेदः नाम प्रथमं तन्त्रम् । यस्य अयम् आदिमः श्लोकः

वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥१.१॥
<अन्वयः – वने सिंहगोवृषयोः महान् स्नेहः वर्धमानः | पिशुनेन अतिलुब्धेन जम्बुकेन विनाशितः | >
<पिशुनः – one who talks evil speech and does back-biting>

तत् यथा अनुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवः वर्द्धमानकः नाम वणिक्पुत्रः बभूव। तस्य कदाचित् रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना यत् प्रभूते अपि वित्तेर्थोपायाः चिन्तनीयाः कर्तव्याः च इति। यतः उक्तं च –

नहि तद्विद्यते किञ्चिद्यदर्थेन न सिद्ध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥ १.२ ॥
<अन्वयः – यत् अर्थेन न सिद्ध्यति, किञ्चित् तत् न विद्यते हि | तस्मात् मतिमान् यत्नेन एकम् अर्थम् (एव) प्रसाधयेत् | >

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥ १.३ ॥
<अन्वयः – यस्य अर्थाः तस्य मित्राणि (भवन्ति) | यस्य अर्थाः तस्य बान्धवाः ।
यस्य अर्थाः सः (एव) लोके पुमान् | यस्य अर्थाः सः पण्डितः च | >

न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
न तत्स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥ १.४ ॥
<अन्वयः – याचकैः यत् न गीयते, धनिनां सा विद्या (विद्या) न, तत् दानं न, तत् शिल्पं न, सा कला न, तत् स्थैर्यं न हि | >

इह लोके हि धनिनां परोऽपि सुजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १.५ ॥
<अन्वयः – इह लोके धनिनां परः अपि सुजनायते हि । सर्वदा दरिद्राणां स्वजनः अपि दुर्जनायते | >

Reference

 

Kruti – Neelakandam bhajeham – Deekshitar

Ragam: Kedaragaulai  Author: Muthuswami Deekshitar Talam: Rupakam

Pallavi

नीलकण्डं भजेऽहं सततम् | नीरजासनादिनुतम् ||

Anupallavi

बालकुचाम्बासहितं बालचन्द्रसेवितम् | शीलगुरुगुहपूजितं श्रीकदम्बवननाथम् ||

Charanam

अक्षयरूपाखण्डकावेरी-तीरोत्तर-    अभिमुखं पञ्चमुखं रक्षितभक्तप्रमुखम् |

नक्षत्रेशशेखरं नामरूपविचित्रतर-    दक्षतरम् ईश्वरं केदारगौलप्रियकरम् ||

Madhyama kaala charanam

दक्षिणकाशीपुरं दण्डितकामत्रिपुरम् | दक्षद्वरहरं हरं दयाकरं कमलकरम् ||

—-

pallavi

neelakandam bhajeham satatam | neerajaasanaadinutam ||

anupallavi

baalakuchaambaasahitam baalachandrasevitam | sheelaguruguhapoojitam shreekadambavananaatham ||

charanam

akshayaroopaakhandakaaveree-teerottara-    abhimukham panchamukham rakshitabhaktapramukham |

nakshatreshashekharam naamaroopa-vichitratara    dakshataram eeshvaram kedaaragaulapriyakaram ||

madhyam kaala charanam

dakshinakaasheepuram danditakaamatripuram | dakshadvaraharam haram dayaakaram kamalakaram ||

Panchatantram – PUC 1st Year – Lesson 3

Panchatantram  – Karnataka PUC First Year – Lesson 3 – विवादः विनाशाय

Note: Since the PUC book has the original text with the lengthy conjoined words with the sandhis, the text is given here splitting the sandhis for easier reading.

कस्मिंश्चित् वृक्षे पुरा अहम् अवसम्। तत्राधस्तात् कोटरे कपिञ्जलः नाम चटकः प्रतिवसति स्म। अथ सदा एव अस्तमनवेलायाम् आगतयोः द्वयोः अनेक-सुभाषित-गोष्ठ्या देवर्षि-ब्रह्मर्षि-राजर्षि-पुराण-चरित-कीर्तनेन च पर्यटन-दृष्टानेक-कौतूहल-प्रकथनेन च परम-सुखम् अनुभवतोः कालः व्रजति। अथ कदाचित् कपिञ्जलः प्राण-यात्रार्थम् अनयैः चटकैः सह अन्यं पक्व-शालि-प्राञं देशं गतः। ततः यावत् निशा-समये अपि न आयातः तावत् अहं सोद्वेग-मनाः तद्-विप्रयोग-दुःखितः चिन्तितवान् – “अहो किम् अद्य कपिञ्जलः न आयातः । किं केन अपि पाशेन बद्धः? उत अहोस्वित् केनापि व्यापादितः ? सर्वथा यदि कुशलः भवति, तत् मां विना न तिष्ठति ।

एवं मे चिन्तयतः बहूनि अहानि व्यतिक्रान्तानि। ततः च तत्र कोटरे कदाचित् शीघ्रगः नाम शशकः अस्तमनवेलायाम् आगत्य प्रविष्टः । मया अपि कपिञ्जल-निराशत्वेन न निवारितः । अथ अन्यस्मिन् अहनि कपिञ्जलः शालि-भक्षणात् अतीव पीवर-तनुः स्वाश्रयं स्मृत्वा भूयः अपि अत्र एव समायातः । अथवा साधु इदम् उच्यते –

न तादृक् जायते सौख्यम् अपि स्वर्गे शरीरिणाम्।
दारिद्रियेपि हि यादृक् स्यात् स्व-देशे स्व-पुरे गृहे ॥ पञ्च_३.९२ ॥

(अन्वयः – शरीरिणां दारिद्रिये स्व-देशे स्व-पुरे गृहेयादृक् सौख्यं स्यात् हि तादृक् स्वर्गे अपि न जायते । )

अथ असौ कोटर-अन्तर्-गतं शशकं दृष्ट्वा साक्षेपम् आह “भोः शशक ! न त्वया सुन्दरं कृतं, यत् मम अवसथ-स्थाने प्रविष्टः असि। तत् शीघ्रं निष्क्रम्यताम्” ।

शशकः आह – “न तव इदं गृहम्, किंतु मम एव। तत् किं मिथ्या परुषाणि जल्पसि ?”  उक्तं च –

<Out of portion shlokas omitted>
“तत् मम एतद् गृहम्, न तव” इति।

कपिञ्जलः आह – “भोः! यदि स्मृतिं प्रमाणीकरोषि, तत् आगच्छ मया सह येन स्मृति-पाठकं पृष्ट्वा सः यस्य ददाति सः गृह्णातु” ।

तथा अनुष्ठिते मया अपि चिन्तितं “किम् अत्र भविष्यति ? मया द्रष्टव्यः अयं न्यायः”। ततः कौतुकात् अहम् अपि तौ अनुप्रस्थितः । अत्रा अन्तरे तीक्ष्णदंष्ट्रः नाम अरण्य-मार्जारः तयोः विवादं श्रुत्वा मार्गासन्नं नदी-तटम् आसाद्य कृत-कुशोपग्रहः निमीलित-नयनः ऊर्ध्व-बाहुः अर्ध-पाद-स्पृष्ट-भूमिः श्री-सूर्याभिमुखः इमां धर्मोपदेशनम् अकरोत् “अहो ! असारः अयं संसारः। क्षण-भंगुराः प्राणाः। स्वप्न-सदृशः प्रिय-समागमः। इंद्र-जालवत् कुटुंब-परिग्रहः अयम् । तत् धर्मं मुक्त्वा न अन्या गतिः अस्ति”। उक्तं च-

अनित्यानि शरीराणि विभवो नैव शाश्वतः ।
नित्यं संनिहितो मृत्युः कर्तव्यो धर्म-संग्रहः ॥ पञ्च_३.९६ ॥
<अन्वयः – शरीराणि अनित्यानि | विभवः शाश्वतः न एव | मृत्युः नित्यं संनिहितः | धर्म-संग्रहः कर्तव्यः | >

अन्यत् च –
<Out of portion shlokas omitted>

संक्षेपात् कथ्यते धर्मो जनाः किं विस्तरेण वः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥ पञ्च_३.१०३ ॥
<अन्वयः – धर्मः संक्षेपात् कथ्यते | हे जनाः | वः विस्तरेण किम् ? परोपकारः पुण्याय पर-पीडनं पापाय भवति | >

<Out of portion shlokas omitted>

अथ तस्य तां धर्मोपदेशनां श्रुत्वा शशकः आह “भोः भोः | कपिञ्जल ! एष नदी-तीरे तपस्वी धर्म-वादी तिष्ठति। तद् एनं पृच्छावः” ।

कपिञ्जलः आह “ननु स्वभावतः अस्माकं शत्रु-भूतः अयम् अस्ति। तत् दूरे स्थित्वा पृच्छावः। कदाचित् अस्य व्रत-वैकल्यं संपद्येत”। ततः दूरस्थितौ उचतुः “भोः | तपस्विन् ! धर्मोपदेशक ! आवयोः विवादः वर्तते । तत् धर्म-शास्त्र-द्वारेण अस्माकं निर्णयं कुरु। यः हीनवादी सः ते भक्ष्यः” इति।

सः आह “भद्रौ ! मा मा एवं वदतम् । निवृत्तः अहं नरक-पातक-मार्गात् । अहिंसा एव धर्म-मार्गः” । उक्तं च –

अहिंसा-पूर्वको धर्मो यस्मात् सद्भिरुदाहृतः ।
यूक-मत्कुण-दंशादीः तस्मात् तान् अपि रक्षयेत् ॥ पञ्च_३.१०५ ॥
< अन्वयः – यूक-मत्कुण-दंशादीः यस्मात् तान् अपि रक्षयेत् तस्मात् अहिंसा-पूर्वकःर्मः सद्भिः उदाहृतः >

 

<Out of portion shlokas omitted>

“एते अपि ये याज्ञिका यज्ञ-कर्मणि पशून् व्यापादयन्ति ते मूर्खाः। परमार्थं श्रुतेः न जानन्ति। तत्र किल एतद् उक्तम् – ‘अयैः यष्टव्यम्’ इति । अजा व्रीहयः तावत् सप्त-वार्षिकाः कथ्यन्ते | न पुनः पशु-विशेषाः” । <Out of portion shlokas omitted>

“तत् न अहं भक्षयामि। परं जय-पराजय-निर्णयं करिष्यामि। किन्तु अहं वृद्धः दूरात् न यवयोः भाषा अन्तरं सम्यक् न शुणोमि । एवं ज्ञात्वा मम समीप-वर्तिनौ भूत्वा मम अग्रे न्यायं वदतं, येन विज्ञाय, विवाद-परमार्थं वचः वदतः मे पर-लोक-बाधः न भवति। <Out of portion shlokas omitted>

तस्मात् विश्रब्धौ भूत्वा मम कर्णोपांतिके स्फुटं निवेदयतम्।

किं बहुना, तेन क्षुद्रेण तथा तौ पूर्णं विश्वासितौ यथा तस्योत्संग-वर्तिनौ सञ्जातौ। ततः च तेन अपि सम-कालम् एव एकः पादान्तेन आक्रांतः अन्यः दंष्ट्राक्रकचेन च | एवं द्वौ अपि गत-प्राणौ भक्षितौ इति।

References:

  1. पञ्चतन्त्रम्_०४ख in https://sa.wikisource.org/wiki/
  2. http://www.kar.nic.in/pue/PUE/support_html/academic/sylb.htm
  3. PDF of the PUC text book – https://drive.google.com/file/d/0B5WLdFVMntmtLUU1UEY1S2d0NEE/view?usp=drive_web