Gita Govindam Sarga 1 Anvaya

Click here for the downloadable file of Sarga 1 

॥ गीतगोविन्दम् ॥ ॥ अष्टपदी ॥

॥ प्रथमः सर्गः ॥ ॥ सामोददामोदरः ॥

॥ अथ प्रथमः सन्दर्भः ॥

1 श्लोकः

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै
र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय
इत्थं नन्दनिदेशतश्चलितयोः प्रत्यध्वकुञ्जद्रुमं
राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः

पदच्छेदः

मेघैः मेदुरम् अम्बरम् वन+भुवः श्यामाः तमाल+द्रुमैः
नक्तम् भीरुः अयम् त्वम् एव तत् इमम् राधे गृहम् प्रापय
इत्थम् नन्द+निदेशतः चलितयोः प्रति+अध्व+कुञ्ज+द्रुमम्
राधा+माधवयोः जयन्ति यमुना+कूले रहस्+केलयः

सन्धिः

(https://nivedita2015.wordpress.com/2019/01/14/sandhi-summary)

अन्वयः

“अम्बरं मेघैः मेदुरम् । वनभुवः तमालद्रुमैः श्यामाः । अयं (कृष्णः) नक्तं भीरुः । तत्, (हे) राधे, त्वम् एव इमं गृहं प्रापय” इत्थं नन्दनिदेशतः प्रत्यध्वकुञ्जद्रुमं (लक्षीकृत्य) चलितयोः राधामाधवयोः यमुनाकूले रहःकेलयः जयन्ति ।

आकाङ्क्षा

  • जयन्ति
    • काः जयन्ति ? रहःकेलयः
      • कुत्र कृताः रहःकेलयः ? यमुनाकूले
      • कयोः रहःकेलयः ? राधामाधवयोः
        • कथंभूतयोः राधामाधवयोः ? चलितयोः
          • कुत्र चलितयोः / कं (लक्षीकृत्य) चलितयोः ? प्रत्यध्वकुञ्जद्रुमम्
          • किमर्थं चलितयोः ? नन्दनिदेशतः
            • किमिति नन्दनिदेशतः ? … इत्थम्
              • मेदुरम् अस्ति ।
                • किं मेदुरम् अस्ति ? अम्बरम्
                • कैः मेदुरम् अस्ति ? मेघैः
              • श्यामाः सन्ति ।
                • के श्यामाः सन्ति ? वनभुवः
                • कैः श्यामाः सन्ति ? तमालद्रुमैः
              • भीरुः अस्ति ।
                • कः भीरुः अस्ति ? अयम् (कृष्णः)
                • कदा भीरुः अस्ति ? नक्तम्
              • तस्मात् किम् ? तत् …
                • (हे) राधे ।
                • प्रापय
                  • का प्रापय ? त्वम् एव
                  • कं प्रापय ? इमम्
                  • कुत्र / किं प्रति प्रापय ? गृहम्

पदपरिचयः

  • सामोददामोदरः
    • आमोदः = आनन्दः ।
    • सामोदः = आमोदेन सह वर्तते ।
    • दामोदरः = दाम उदरे यस्य सः ।
    • सामोददामोदरः = सामोदः च असौ दामोदरः ।
  • रहःकेलयः = विजन+विहाराः । रहसः केलयः / रहसि केलयः |
  • प्रत्यध्वकुञ्जद्रुमम्
    • द्रुमः = वृक्षः
    • कुञ्जद्रुमाः = कुञ्जेन उपलक्षिताः द्रुमाः
    • अध्वा = मार्गः । अध्वन् शब्दः पुल्लिङ्गः । प्रथमा – अध्वा अध्वानौ अध्वानः । षष्ठी – अध्वनः अध्वनोः अध्वनाम् ।
    • अध्वकुञ्जद्रुमाः = अध्वनः कुञ्जद्रुमाः
    • प्रत्यध्वकुञ्जद्रुमम् = अध्वकुञ्जद्रुमम् अध्वकुञ्जद्रुमं प्रति । प्रत्येकम् अध्वकुञ्जद्रुमम् ।
  • मेदुरम् = घनम् / निबिडम् । मेदुर – त्रिषु लिङ्गेषु विशेषणम् ।
  • नक्तम् = रात्रौ । सप्तम्यन्तम् अव्ययम् ।
  • नन्दनिदेशतः
    • नन्दनिदेशतः = नन्दस्य निदेशः, तस्मात् । नन्द + निदेश + तसिल् प्रत्ययः ।
      • (१) नन्दः = कृष्णस्य पिता । नन्दनिदेशः = नन्दस्य निदेशः । तस्य आज्ञा ।
      • (२) नन्दति इति नन्दः । नन्दनिदेशः = नन्दः च असौ निदेशः । (राधासखीनां) तादृशं वचनम् ।
    • प्रापय = प्र + आप् “आपॢँ व्याप्तौ” । परस्मै. । कर्तरि लोट्., णिजन्तः, म.पु., ए.व. । लटि – आप्नोति ।
    • जयन्ति = जि “जि जये अभिभवे च” । लट्., प्र.पु., ब.व. ।

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु
मे घै र्मे दु म्ब रं भु वः श्या मा स्त मा द्रु मैः
क्तं भी रु यं त्व मे दि मं रा धे गृ हं प्रा
त्थं न्द नि दे श्च लि योः प्र त्य ध्व कु ञ्ज द्रु मं
रा धा मा यो र्ज न्ति मु ना कू ले हः के यः

Word Meaning

Note: The literal meaning of these verses can be misleading. There are numerous commentaries available that explain the intent of Kavi Jayadeva. Refer the references section at the end. Only some of the complex words have been elaborated here.

  • तमालद्रुमैः = by the trees (द्रुम) of Tamaala (तमाल)
  • प्रत्यध्वकुञ्जद्रुमम् = at each (प्रति) tree (द्रुम) seen along with the bowers (कुञ्ज) on the pathway (अध्वन्)
  • रहःकेलयः
    • १. Pastimes (केलि) carried out in secrecy (रहस्)
    • २. Plays (केलि) of passion (रहस्)
  • जयन्ति = they (these pastimes) win! Here it means let them be transcendentally exquisite.
  • दामन् = Daaman refers to the rope used for tying cows. Krishna got this name दामोदरः as Yashoda had tied him to the mortar with the rope in his stomach.

2 श्लोकः

वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती
श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम्

पदच्छेदः

वाक्+देवता+चरित+चित्रित+चित्त+सद्मा पद्मावती+चरण+चारण+चक्रवर्ती
श्री+वासुदेव+रति+केलि+कथा+समेतम् एतम् करोति जयदेव+कविः प्रबन्धम्

अन्वयः

वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती जयदेवकविः श्रीवासुदेवरतिकेलिकथासमेतम् एतं प्रबन्धं करोति ।

आकाङ्क्षा

  • करोति
    • कं करोति ? एतं प्रबन्धम्
      • कीदृशं प्रबन्धम् ? श्रीवासुदेवरतिकेलिकथासमेतम्
    • कः करोति ? जयदेवकविः
      • कीदृशः जयदेवकविः ? पद्मावतीचरणचारणचक्रवर्ती
      • पुनः कीदृशः जयदेवकविः ? वाग्देवताचरितचित्रितचित्तसद्मा

पदपरिचयः

  • There are numerous interpretations. Just a few are given here in these notes.
  • श्रीवासुदेवरतिकेलिकथासमेतम्
    • केलयः = क्रीडाः
    • रतिः = सुरतविषयः
    • रतिकेलिकथा
      • १. रतिकेलिः = रतौ केलिः । (रतिकेलिनां कथा रतिकेलिकथा)
      • २. रतिकेलिः = रतिः च केलिः च । रतिकली । (तयोः कथा रतिकेलिकथा)
    • श्रीवासुदेवरतिकेलिः
      • १. श्रीवासुदेवः = श्रीयुक्तः वासुदेवः ।
        श्रीवासुदेवरतिकेलिः = श्रीवासुदेवस्य रतिकेलिः ।
      • २. श्रीवासुदेवौ = श्रीश्च वासुदेवश्च तौ ।
        श्रीवासुदेवरतिकेलिः = श्रीवासुदेवयोः रतिकेलिः ।
    • श्रीवासुदेवरतिकेलिकथा = श्रीवासुदेवरतिकेलेः कथा ।
    • श्रीवासुदेवरतिकेलिकथासमेतम् = श्रीवासुदेवरतिकेलिकथया समेतः, तम्
  • पद्मावतीचरणचारणचक्रवर्ती
    • पद्मावती = पद्मम् अस्य अस्ति इति । लक्ष्मीः ।
    • पद्मावतीचरणौ = पद्मावत्याः चरणौ ।
    • चारणाः
      • १. आकाशे ये कायकाः चरन्ति ते चारणाः ।
      • २. सेवकाः, यथा गाः पालयन्ति चेत् गोचारणाः ।
    • चारणचक्रवर्ती = चारणानां चक्रवर्ती । चारणाश्रेष्ठः ।
    • पद्मावतीचरणचारणचक्रवर्ती
      • पद्मावतीचरणचारणचक्रवर्ती = पद्मावतीचरणयोः चारणचक्रवर्ती
      • जयदेवस्य पत्न्याः पद्मावत्याः चरणयोः चारणं नृत्यम्, तेन चक्रवर्ती
    • वाग्देवताचरितचित्रितचित्तसद्मा
      • वाग्देवता = वाचां देवता । सरस्वती ।
      • वाग्देवताचरितम् = वाग्देवतायाः चरितम् ।
      • सद्मा = भवनम् । सद्मन् शब्दः ।
      • चित्रितचित्तम् = चित्रितं चित्तम् ।
      • वाग्देवताचरितचित्रितचित्तम् = वाग्देवताचरितेन चित्रितचित्तम् ।
      • वाग्देवताचरितचित्रितचित्तसद्मा = वाग्देवताचरितचित्रितचित्तम् एव सद्मा यस्य सः । नकारान्तः पु., प्र.वि., ए.व. । सर्वविद्याविशारदः ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु
वा ग्दे ता रि चि त्रि चि त्त द्मा
द्मा ती चा क्र र्ती
श्री वा सु दे ति के लि था मे तं
तं रो ति दे विः प्र न्धं

Word Meaning

  • सद्मा = abode
  • जयदेवकविः एतं प्रबन्धं करोति = Poet (कवि) Jayadeva (जयदेव) creates this (एतत्) literary work (प्रबन्ध)

3 श्लोकः

यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम्
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम्

पदच्छेदः

यदि हरि+स्मरणे सरसम् मनः यदि विलास+कलासु कुतूहलम् मधुर+कोमल+कान्त+पद+आवलीम् शृणु तदा जयदेव+सरस्वतीम्

सन्धिः

अन्वयः

यदि हरिस्मरणे मनः सरसं (कर्तुम् इच्छेः स्यात्), यदि विलासकलासु कुतूहलं (स्यात्), तदा मधुरकोमलकान्तपदावलीं जयदेवसरस्वतीं (त्वं) शृणु ।

आकाङ्क्षा

  • शृणु
    • कः शृणु ? (त्वम्)
    • कां शृणु ? जयदेवसरस्वतीम्
      • कीदृशीं जयदेवसरस्वतीम् ? मधुरकोमलकान्तपदावलीम्
    • कदा शृणु ? यदि सरसं (कर्तुम् इच्छेः स्यात्)
      • कस्य सरसम् ? मनः
      • कस्मिन् विषये सरसम् ? हरिस्मरणे
    • पुनः कदा शृणु ? यदि कुतूहलं (स्यात्)
      • कासु कुतूहलम् ? विलासकलासु

पदपरिचयः

  • शृणु = श्रु “श्रु श्रवणे” । परस्मै., लोट्., म.पु., ए.व. । लटि शृणोति । लोटि प्र.पु. – शृणोतु / शृणुतात्, शृणुताम्, शृण्वन्तु । म.पु., – शृणु / शृणुतात्, शृणुतम्, शृणुत ।
  • सरसम् = रसेन सह वर्तते इति ।
  • विलासकलासु = विलासस्य कलाः, तासु । रासलीलायाः चेष्टासु ।
  • मनः = मनस् शब्दः, नपुं., अत्र ष.वि., ए.व. ।
  • मधुरकोमलकान्तपदावलीम्
    • मधुरा = माधुर्यगुणयुक्ता
    • कोमला = सरसा
    • कान्ता = मनोज्ञा
    • आवली = पङ्क्तिः । स्त्री. । आव(लि)ली ¦ स्त्री आ + बल + इन् वा ङीप् । अथः प्रथमा – आवली, आवल्यौ, आवल्यः । प्रथमा – आवलिः, आवली, आवलयः अपि अस्ति
    • पदावली = पदानां आवली । पदानां पङ्क्तिः ।
    • मधुरकोमला = मधुरा च सा कोमला ।
    • मधुरकोमलकान्ता = मधुरकोमला च सा कान्ता ।
    • मधुरकोमलकान्तपदावलीम् = मधुरकोमलकान्ताः पदावलयः यस्याम् अस्ति सा मधुरकोमलकान्तपदावली, ताम् ।

छन्दः

  • द्रुतविलम्बितम् – “द्रुतविलम्बितमाहो नभौ भरौ”
  • न-भ-भ-राः। “।।। – ऽ।। – ऽ।। – ऽ।ऽ”
1 2 3 4 5 6 7 8 9 10 11 12
गु गु गु गु
दि रि स्म णे सं नो
दि वि ला ला सु कु तू लं
धु को का न्त दा लीं
शृ णु दा दे स्व तीं

 

 

 

 

 

 

 

 

 

Word Meaning

  • शृणु = You listen
    • जयदेवसरस्वतीम् = to the poems (सरस्वती) of Jayadeva (जयदेव)

4 श्लोकः

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः

पदच्छेदः

वाचः पल्लवयति उमापतिधरः सन्दर्भ+शुद्धिम् गिराम् जानीते जयदेवः एव शरणः श्लाघ्यः दुर्+ऊह+द्रुते शृंगार+उत्तर+सत्+प्रमेय+रचनैः आचार्य+गोवर्धन+स्पर्धी कः अपि न विश्रुतः श्रुतिधरः धोयी कवि+क्ष्मा+पतिः

सन्धिः

अन्वयः

उमापतिधरः वाचः पल्लवयति । शरणः दुरूहद्रुते श्लाघ्यः । शृङ्गारोत्तरसत्प्रमेयरचनैः कः अपि आचार्यगोवर्धनस्पर्धी (तेन तुल्यः) न विश्रुतः । कविक्ष्मापतिः धोयी श्रुतिधरः । जयदेवः एव गिरां सन्दर्भशुद्धिम् जानीते ।

आकाङ्क्षा

  • पल्लवयति
    • कः पल्लवयति ? उमापतिधरः
    • कां पल्लवयति ? वाचः
  • श्लाघ्यः (अस्ति)
    • कः श्लाघ्यः ? शरणः
    • किस्मिन् विषये श्लाघ्यः ? दुरूहद्रुते
  • न विश्रुतः (अस्ति)
    • कः न विश्रुतः ? कः अपि
    • कीदृशः न विश्रुतः ? (तेन तुल्यः)
      • केन तुल्यः ? आचार्यगोवर्धनस्पर्धी
    • कैः कारणैः ? शृङ्गारोत्तरसत्प्रमेयरचनैः
  • श्रुतिधरः अस्ति ।
    • कः श्रुतिधरः ? धोयी
      • कीदृशः धोयी ? कविक्ष्मापतिः
    • १. जयदेव एव गिरां सन्दर्भशुद्धिम् जानीते ।
      • जानीते
        • कः जानीते ? जयदेवः एव
        • कां जानीते ? सन्दर्भशुद्धिम्
          • कासां सन्दर्भशुद्धिम् ? गिराम्
        • २. गिरां सन्दर्भशुद्धिम् जयदेव एव जानीते किम् ? न जानीते ।

पदपरिचयः

  • वाचः = वाक्यानि । वाच् इति स्त्रीलिङ्गः । द्वि.वि., ब.व. । प्रथमा – वाक् / वाग्, वाचौ, वाचः, द्वितीया – वाचम्, वाचौ, वाचः । वाच् = वच् “वचँ परिभाषणे” + क्विप् ।
  • गिराम् = गिर् स्त्रीलिङ्गः । ष.वि., ब.व. । प्रथमा – गीः, गिरौ, गिरः । षष्ठी – गिरः, गिरोः, गिराम् ।
  • जानीते = ज्ञा “ज्ञा अवबोधने” । लट्., प्र.पु., ए.व. । धातुपाठे अयम् धातुः परस्मैपदी पाठ्यते । लटि – जानाति । कर्त्रभिप्राये क्रियाफले अस्य आत्मनेपदस्य रूपाणि भवन्ति । लटि – जानीते, जानाते, जानते ।
  • सन्दर्भशुद्धिम्
    • शुद्धिः = शुद्धता, साधुता, दोषरहितत्वम् ।
    • सन्दर्भः = संलग्नः ।
    • सन्दर्भशुद्धिम् = सन्दर्भस्य शुद्धिः, ताम् । स्त्री. द्वि.व., ए.व. । तत्तद्रासानुगुणपदैः विलासः ।
  • उमापतिधरः, शरणः, आचार्यगोवर्धनस्पर्धी, धोयी च कवयः ।
  • कविक्ष्मापतिः = कवीनां क्ष्मापतिः भूपतिः ।
  • दुरूहद्रुते
    • दुरूहः = दुस्+ऊहः । दुःखेन ऊह्यते तर्कयते इति । तादृशानि पदानि ।
    • द्रुतः = शीघ्रत्वम्
    • दुरूहद्रुते = दुरूहानां द्रुतः, तस्मिन् ।
  • पल्लवयति = अत्र बहुवर्णनया विस्तारयति
  • शृङ्गारोत्तरसत्प्रमेयरचनैः
    • शृङ्गारोत्तराणि = शृङ्गाररसप्रधानानि
    • सत्प्रमेयरचनानि = ग्रथितानि
    • शृङ्गारोत्तरसत्प्रमेयरचनैः = शृङ्गारोत्तराणि च तानि सत्प्रमेयरचनानि, तैः

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

Word Meaning

  • जयदेवः एव गिरां सन्दर्भशुद्धिम् जानीते = Only (एव) Jayadeva (जयदेव) knows (ज्ञा) the correctness or clearness (शुद्धि) of coherence (सन्दर्भ) of words (गिर्)

॥ प्रबन्धः १ ॥

मालवगौडरागेण रूपकतालेन गीयते ।

1.1 अष्टपदी

प्रलयपयोधिजले धृतवानसि वेदम् विहितवहित्रचरित्रमखेदम्
केशव धृतमीनशरीर जयजगदीशहरे

पदच्छेदः

प्रलय+पयोधि+जले धृतवान् असि वेदम् विहित+वहित्र+चरित्रम् अखेदम् केशव धृत+मीन+शरीर जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतमीनशरीर । प्रलयपयोधिजले विहितवहित्रचरित्रम् अखेदं वेदं धृतवान् असि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतमीनशरीर ।
  • धृतवान् असि
    • कं धृतवान् असि ? वेदम्
    • कुत्र धृतवान् असि ? प्रलयपयोधिजले
    • कथं धृतवान् असि ? विहितवहित्रचरित्रम्
    • पुनः कथं धृतवान् असि ? अखेदम्
  • हे जगदीश ।
  • हे हरे ।
  • (त्वं) जय ।

पदपरिचयः

  • धृतमीनशरीर = स्वीकृतं मीनशरीरं येन सः, धृतमीनशरीरः, सम्बुद्धि ।
  • विहितवहित्रचरित्रम्
    • विहितम् = स्वीकृतम्
    • वहित्रचरित्रम् = वहित्रस्य अर्णवपोतस्य चरित्रं व्यवहारः
    • विहितवहित्रचरित्रम् = विहितं वहित्रचरित्रं यस्मिन् तत्
  • अखेदम् = अनायासम्
  • असि = अस् “अस भुवी”, प.प., लट्., म.पु., ए.व. । प्रथमे अस्ति ।
  • जय = जि “जि जये अभिभवे च”, प.प., लोट्., म.पु., ए.व. । प्रथमे लोटि जयतु । प्रथमे लटि जयति ।

Word Meaning

  • वहित्रम् = ship

1.2 अष्टपदी

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे धरणिधरणकिणचक्रगरिष्ठे
केशव धृतकच्छपरूप जय जगदीश हरे

पदच्छेदः

क्षितिः अति+विपुलतरे तव तिष्ठति पृष्ठे धरणि+धरण+किण+चक्र+गरिष्ठे केशव धृत+कच्छप+रूप जय जगत्+ईश हरे

सन्धिः

अन्वयः

हे केशव । हे धृतकच्छपरूप । क्षितिः धरणिधरणकिणचक्रगरिष्ठे अतिविपुलतरे तव पृष्ठे तिष्ठति । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतकच्छपरूप ।
  • तिष्ठति
    • का तिष्ठति ? क्षितिः
    • कुत्र तिष्ठति ? पृष्ठे
      • कस्य पृष्ठे ? तव
      • कीदृशे पृष्ठे ? अतिविपुलतरे
      • पुनः कीदृशे पृष्ठे ? धरणिधरणकिणचक्रगरिष्ठे
    • हे जगदीश ।
    • हे हरे ।
    • (त्वं) जय ।

पदपरिचयः

  • क्षितिः = मेदिनी
  • धरणिधरणकिणचक्रगरिष्ठे
    • धरणिधरणम् = धारण्याः धरणम्
    • किणचक्रम् = कठिनीभूतत्वक्समूहः
    • धरणिधरणकिणचक्रम् = धरणिधरणेन किणचक्रम्
    • गरिष्ठम् = सुदृढम्
    • धरणिधरणकिणचक्रगरिष्ठे = धरणिधरणकिणचक्रेण गरिष्ठं, तस्मिन्
  • विपुल = विशाल
  • तिष्ठति = स्था “ष्ठा गतिनिवृत्तौ” । प.प., लट्., प्र.पु., ए.व. ।

Word Meaning

  • किणचक्रम् = The hardened shell of the tortoise

1.3 अष्टपदी

वसति दशनशिखरे धरणी तव लग्ना
शशिनि कलङ्ककलेव निमग्ना
केशव धृतसूकररूप जय जगदीश हरे

पदच्छेदः

वसति दशन+शिखरे धरणी तव लग्ना शशिनि कलङ्क+कला इव निमग्ना केशव धृत+सूकर+रूप जय जगत्+ईश हरे

सन्धिः

अन्वयः

हे केशव । हे धृतसूकररूप । तव दशनशिखरे लग्ना धरणी शशिनि निमग्ना कलङ्ककला इव वसति । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतसूकररूप ।
  • वसति
  • का वसति ? धरणी
    • कथंभूता धरणी ? लग्ना
      • कुत्र लग्ना ? दशनशिखरे
        • कस्य दशनशिखरे ? तव
      • का इव वसति ? कलङ्ककला इव
        • कथम्भूता कलङ्ककला ? निमग्ना
        • कुत्र निमग्ना ? शशिनि
      • हे जगदीश ।
      • हे हरे ।
      • (त्वं) जय ।

पदपरिचयः

  • सूकरः = वराहः
  • शिखरम् = अग्रम्
  • शशी = चन्द्रः
  • वसति = वस् “वास निवासे” प.प., लट्., प्र.पु., ए.व.

Word Meaning

  • सूकरः = wild boar

1.4 अष्टपदी

तव करकमलवरे नखमद्भुतशृङ्गम्
दलितहिरण्यकशिपुतनुभृङ्गम्
केशव धृतनरहरिरूप जय जगदीश हरे

पदच्छेदः

तव कर+कमल+वरे नखम् अद्भुत+शृङ्गम् दलित+हिरण्यकशिपु+तनु+भृङ्गम् केशव धृत+नर+हरि+रूप जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतनरहरिरूप । दलितहिरण्यकशिपुतनुभृङ्गं नखम् तव करकमलवरे अद्भुतशृङ्गम् (अस्ति) । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतनरहरिरूप ।
  • अद्भुतशृङ्गम् (अस्ति) ।
    • किं अद्भुतशृङ्गम् ? नखम्
    • कुत्र अद्भुतशृङ्गम् ? करकमलवरे
      • कस्य करकमलवरे ? तव
    • कथम्भूतं नखम् ? दलितहिरण्यकशिपुतनुभृङ्गम्
  • हे जगदीश ।
  • हे हरे ।
  • (त्वं) जय ।

पदपरिचयः

  • दलितहिरण्यकशिपुतनुभृङ्गम्
    • भृङ्गः = भ्रमरः
    • दलित = विदारित
    • तनुः = शरीरम्
    • हिरण्यकशिपुतनुः = हिरण्यकशिपोः तनुः
    • हिरण्यकशिपुतनुभृङ्गः = हिरण्यकशिपुतनुः एव भृङ्गः
    • दलितहिरण्यकशिपुतनुभृङ्गम् = दलितः हिरण्यकशिपुतनुभृङ्गः येन तत्

Word Meaning

  • भृङ्गः = Honey bee
  • दलिता = crushed

1.5 अष्टपदी

छलयसि विक्रमणे बलिमद्भुतवामन
पदनखनीरजनितजनपावन
केशव धृतवामनरूप जय जगदीश हरे

पदच्छेदः

छलयसि विक्रमणे बलिम् अद्भुत+वामन पद+नख+नीर+जनित+जन+पावन केशव धृत+वामन+रूप जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतवामनरूप । हे पदनखनीरजनितजनपावन । हे अद्भुतवामन । विक्रमणे (त्वं) बलिं छलयसि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतवामनरूप ।
  • हे पदनखनीरजनितजनपावन ।
  • हे अद्भुतवामन ।
  • छलयसि ।
    • कः छलयसि ? (त्वम्)
    • कं छलयसि ? बलिम्
    • कस्मिन् सन्दर्भे छलयसि ? विक्रमणे
  • हे जगदीश ।
  • हे हरे ।
  • (त्वं) जय ।

पदपरिचयः

  • छलयसि = वञ्चयसे । छलम् करोषि । छलः = छलम् = व्याजः । प.प., म.पु., ए.व. । लटि. प्रथमे छलयति ।
  • विक्रमणे = त्रिविक्रमावस्थायाम् विक्रमत्रयकरणे । हेतुगर्भविशेषणम् ।
  • पदनखनीरजनितजनपावन
    • नीरम् = जलम्
    • पदनखनीरम् = वामनस्य पदनखसंबन्धिं यत् नीरं, गङ्गाजलम्
    • जनपावन = जनानां पावनम्
    • जनितम् = उत्पादितम्
    • पदनखनीरजनितम् = पदनखनीरेण जनितम्
    • पदनखनीरजनितजनपावन = पदनखनीरजनितं जनपावनं येन सः, सम्बुद्धौ

Word Meaning

  • छलयसि = you deceive
  • विक्रमणम् = stride

1.6 अष्टपदी

क्षत्रियरुधिरमये जगदपगतपापम् स्नपयसि पयसि शमितभवतापम्
केशव धृतभृघुपतिरूप जय जगदीश हरे

पाठान्तरम्

धृतरघुपतिरूप

पदच्छेदः

क्षत्रिय+रुधिरमये जगत् अपगत+पापम् स्नपयसि पयसि शमित+भव+तापम् केशव धृत+भृघुपति+रूप जय जगत्+ईश हरे

सन्धिः

अन्वयः

हे केशव । हे धृतभृघुपतिरूप । क्षत्रियरुधिरमये पयसि अपगतपापं शमितभवतापं जगत् स्नपयसि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतभृघुपतिरूप ।
  • स्नपयसि ।
    • किं स्नपयसि ? जगत्
      • कीदृशं जगत् ? शमितभवतापम्
      • पुनः कीदृशं जगत् ? अपगतपापम्
        • कुत्र अपगतपापम् ? पयसि
          • कीदृशे पयसि ? क्षत्रियरुधिरमये
        • हे जगदीश ।
        • हे हरे ।
        • (त्वं) जय ।

पदपरिचयः

  • स्नपयसि = स्नै “ष्णै वेष्टने” + कर्तरी णिच् । प.प., लट्., म.पु., ए.व. । प्रथमे लटि स्नायति ।
  • पयसि = पयस् सकारान्तः, नपुं., स.वि., ए.व. । प्रथमे पयः, पयसी, पयांसि । सप्तम्यां पयसि, पयसोः, पयस्सु ।
  • क्षत्रियरुधिरमये
    • रुधिरम् = रक्तम्
    • क्षत्रियरुधिरम् = क्षत्रियाणां रुधिरम् ।
    • क्षत्रियरुधिरमये = क्षत्रियरुधिरम् + मयट् प्रत्ययः । स.वि., ए.व. ।

Word Meaning

  • पयसि = in the waters
  • जगत् स्नपयसि = you cause the world to bath

1.7 अष्टपदी

वितरसि दिक्षु रणे दिक्पतिकमनीयम् दशमुखमौलिबलिं रमणीयं
केशव धृतरामशरीर जय जगदीश हरे

पदच्छेदः

वितरसि दिक्षु रणे दिक्पति+कमनीयम् दशमुख+मौलि+बलिम् रमणीयम् केशव धृत+राम+शरीर जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतरामशरीर । रणे दिक्पतिकमनीयं दिक्षु रमणीयं दशमुखमौलिबलिं (त्वं) वितरसि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतरामशरीर ।
  • (त्वं) वितरसि ।
    • कं वितरसि ? दशमुखमौलिबलिम्
      • कीदृशं दशमुखमौलिबलिम् ? रमणीयम्
        • कुत्र / केषु रमणीयम् ? दिक्षु
      • पुनः कीदृशं दशमुखमौलिबलिम् ? दिक्पतिकमनीयम्
    • कुत्र वितरसि ? रणे
  • हे जगदीश ।
  • हे हरे ।
  • (त्वं) जय ।

पदपरिचयः

  • दशमुखमौलिबलिम्
    • मौलिः = मुण्डम्
    • दशमुखमौलयः = दशमुखस्य मौलयः
    • दशमुखमौलिबलिम् = दशमुखमौलयः एव बलिः, तम्
  • दिक्पतिकमनीयम्
    • दिक्पतयः = दिशां पतयः
    • दिक्पतिकमनीयम् = दिक्पतीनां कमनीयः, तम्
  • वितरसि = वि + तॄ “तॄ प्लवनतरणयोः” । ददासि । प.प., लट्., म.पु., ए.व. । प्रथमे तरति ।

Word Meaning

  • दिक्पतिकमनीयम् = That which was desired (कमनीय) by the lords (पति) of the directions (दिक्)
  • दशमुखमौलिबलिम् = That gift (बलि) in the form of the ten heads (मौलि) of the ten-headed (दशमुख) Ravana

1.8 अष्टपदी

वहसि वपुषि विशदे वसनं जलदाभम् हलहतिभीतिमिलितयमुनाभम्
केशव धृतहलधररूप जय जगदीश हरे

पदच्छेदः

वहसि वपुषि विशदे वसनम् जलदाभम् हल+हति+भीति+मिलित+यमुनाभम् केशव धृत+हलधर+रूप जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतहलधररूप । विशदे वपुषि जलदाभं हलहतिभीतिमिलितयमुनाभं वसनं (त्वं) वहसि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतहलधररूप ।
  • (त्वं) वहसि
    • किं वहसि ? वसनम्
      • कीदृशं वसनम् ? जलदाभम्
      • पुनः कीदृशं वसनम् ? हलहतिभीतिमिलितयमुनाभम्
    • कुत्र वहसि ? वपुषि
      • कीदृर्शे वपुषि ? विशदे
    • हे जगदीश ।
    • हे हरे ।
    • (त्वं) जय ।

पदपरिचयः

  • विशदे = शुभ्रः, शुक्लवर्णः, तस्मिन् । नपुं., स.वि., ए.व. ।
  • वपुषि = वपुस् सकारान्तः । नपुं., स.वि., ए.व. । देहः । प्रथमे वपुः, वपुषी, वपूंषि । सप्तम्यां वपुषि, वपुषोः, वपुःषु / वपुष्षु ।
  • वहसि = वह् “वहँ प्रापणे” । उ.प., अत्र प.प., लट्., म.पु., ए.व. । प्रथमे वहति, वहते च ।
  • हलहतिभीतिमिलितयमुनाभम्
    • हलहतिः = हलस्य लाङ्गलस्य हतिः आघातः
    • हलहतिभीतिः = हलहत्या भीतिः
    • हलहतिभीतिमिलिता = हलहतिभीत्या मिलिता शरणागता
    • हलहतिभीतिमिलितयमुना = हलहतिभीतिमिलिता च सा यमुना
    • हलहतिभीतिमिलितयमुनाभम् = हलहतिभीतिमिलितयमुनायाः भाः दीप्तिः यस्य सः, तम्

Word Meaning

  • जलदाभम् = the dark one, i.e., resembling (आभ) the clouds, which is the giver (दा) of rains (जल)

1.9 अष्टपदी

निन्दसि यज्ञविधेरहह श्रुतिजातम् सदयहृदयदर्शितपशुघातम्
केशव धृतबुद्धशरीर जय जगदीश हरे

पदच्छेदः

निन्दसि यज्ञ+विधेः अहह श्रुति+जातम् सदय+हृदय दर्शित+पशु+घातम् केशव धृत+बुद्ध+शरीर जय जगत्+ईश हरे

सन्धिः

अन्वयः

हे केशव । हे सदयहृदय । हे धृतबुद्धशरीर । अहह । यज्ञविधेः श्रुतिजातं दर्शितपशुघातं (त्वं) निन्दसि । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे सदयहृदय ।
  • हे धृतबुद्धशरीर ।
  • अहह ।
  • (त्वं) निन्दसि
    • किं निन्दसि ? दर्शितपशुघातम्
      • कथम्भूतं दर्शितपशुघातम् ? श्रुतिजातम्
        • कस्य श्रुतिजातम् ? यज्ञविधेः
      • हे जगदीश ।
      • हे हरे ।
      • (त्वं) जय ।

पदपरिचयः

  • निन्दसि = निन्द् “णिदिँ कुत्सायाम्” । प.प., लट्., म.पु., ए.व. । प्रथमे निन्दति ।
  • अहह = “अहह इति अद्भुते खेदे” इत्यमरः ।
  • दर्शितपशुघातम्
    • घातः = मारणम्
    • पशुघातः = पशूनां घातः
    • दर्शितः = विहितः
    • दर्शितपशुघातम् = दर्शितः पशुघातः यस्मिन् तत्
  • सद्यम् = दया सहितम्
  • श्रुतिजातम्
    • श्रुतिः = वेदः
    • जातम् = समूहः
    • श्रुतिजातम् = श्रुतीनाम् जातम्
  • यज्ञविधेः = यज्ञानां विधिः, तस्मिन्

Word Meaning

  • निन्दसि = you condemn

1.10 अष्टपदी

म्लेच्छनिवहनिधने कलयसि करवालम् धूमकेतुमिव किमपि करालम्
केशव धृतकल्किशरीर जय जगदीश हरे १०

पदच्छेदः

म्लेच्छ+निवह+निधने कलयसि करवालम् धूमकेतुम् इव किम् अपि करालम् केशव धृतकल्किशरीर जय जगत्+ईश हरे

अन्वयः

हे केशव । हे धृतकल्किशरीर । म्लेच्छनिवहनिधने धूमकेतुम् इव करालं करवालम् अपि (त्वं) कलयसि किम् । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतकल्किशरीर ।
  • (त्वं) कलयसि ।
    • कं कलयसि ? करवालम्
      • कीदृशं करवालम् ? करालम्
        • कियत् करालम् ? किम् अपि
      • कमिव करवालम् ? धूमकेतुम् इव
        • कस्मिन् विषये ? म्लेच्छनिवहनिधने
      • हे जगदीश ।
      • हे हरे ।
      • (त्वं) जय ।

पदपरिचयः

  • धृतकल्किशरीर
    • कल्किशरीरम् = कल्किनः शरीरम्
    • धृतकल्किशरीर = धृतं कल्किशरीरं येन सः, सम्बुद्धौ
  • कलयसि = धारयसि । कल “कल गतौ सङ्ख्याने च” । प.प., लट्., म.पु., ए.व. ।
  • करवालः = खङ्गः
  • किम् अपि करालः = अतिशयेन भयानकः । अपि = अपि इति निश्चये ।
  • म्लेच्छनिवहनिधने
    • म्लेच्छाः = क्रुराचाराः
    • निवहः = समूहः
    • निधनम् = वधनम्
    • म्लेच्छनिवहः = म्लेच्छानां निवहः
    • म्लेच्छनिवहनिधने = म्लेच्छनिवहस्य निधनम्, तस्मिन्

Word Meaning

  • म्लेच्छाः = barbarians
  • धूमकेतुः = thunderbolt

1.11 अष्टपदी

श्रीजयदेवकवेरिदमुदितमुदारम् शृणु सुखदं शुभदं भवसारम्
केशव धृतदशविधरूप जय जगदीश हरे ११

पदच्छेदः

श्रीजयदेव+कवेः इदम् उदितम् उदारम् शृणु सुखदम् शुभदम् भवसारम् केशव धृत+दश+विध+रूप जय जगत्+ईश हरे

सन्धिः

अन्वयः

हे केशव । हे धृतदशविधरूप । श्रीजयदेवकवेः उदितम् सुखदं शुभदम् उदारं भवसारम् इदम् (त्वं) शृणु । हे जगदीश । हे हरे । (त्वं) जय ।

आकाङ्क्षा

  • हे केशव ।
  • हे धृतदशविधरूप ।
  • (त्वं) शृणु ।
    • किं शृणु ? इदम् उदितम्
      • कस्य उदितम् ? श्रीजयदेवकवेः
      • कीदृशम् इदम् ? सुखदम्
      • पुनः कीदृशम् इदम् ? शुभदम्
      • पुनः कीदृशम् इदम् ? उदारम्
      • पुनः कीदृशम् इदम् ? भवसारम्
    • हे जगदीश ।
    • हे हरे ।
    • (त्वं) जय ।

पदपरिचयः

  • उदितम् = भणितम्
  • भवसारम्
    • भवः = संसारः
    • १. भवसारम् = भेव सारम्
    • २. भवसारम् = भवस्य उच्छेदकहेतुमध्ये सारम् । मध्यमपदलोपी समासः ।

Word Meaning

  • उदितम् = That which has been articulated

5 श्लोकः

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः

पदच्छेदः

वेदान् उद्धरते जगत् निवहते भूगोलम् उद्बिभ्रते दैत्यम् दारयते बलिम् छलयते क्षत्रक्षयम् कुर्वते पौलस्त्यम् जयते हलम् कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दश+आकृति+कृते कृष्णाय तुभ्यम् नमः

सन्धिः

अन्वयः

वेदान् उद्धरते जगत् निवहते भूगोलम् उद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते म्लेच्छान् मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ।

आकाङ्क्षा

  • नमः (अस्तु) ।
    • कस्मै नमः ? कृष्णाय तुभ्यम्
    • कीदृशाय कृष्णाय ? उद्धरते
      • कान् उद्धरते ? वेदान्
    • पुनः कीदृशाय कृष्णाय ? निवहते
      • किं निवहते ? जगत्
    • पुनः कीदृशाय कृष्णाय ? उद्बिभ्रते
      • कम् उद्बिभ्रते ? भूगोलम्
    • पुनः कीदृशाय कृष्णाय ? दारयते
      • कं दारयते ? दैत्यम्
    • पुनः कीदृशाय कृष्णाय ? छलयते
      • कं छलयते ? बलिम्
    • पुनः कीदृशाय कृष्णाय ? कुर्वते
      • कं कुर्वते ? क्षत्रक्षयम्
    • पुनः कीदृशाय कृष्णाय ? जयते
      • कं जयते ? पौलस्त्यम्
    • पुनः कीदृशाय कृष्णाय ? कलयते
      • किं कलयते ? हलम्
    • पुनः कीदृशाय कृष्णाय ? आतन्वते
      • किम् आतन्वते ? कारुण्यम्
    • पुनः कीदृशाय कृष्णाय ? मूर्च्छयते
      • कान् मूर्च्छयते ? म्लेच्छान्
    • पुनः कीदृशाय कृष्णाय ? दशाकृतिकृते

पदपरिचयः

  • उद्धरते = उत् + धृ “धृञ् धारणे” + शतृ । उभय. । पु., च.वि., ए.व. । लटि. प्रथमे धरति धरते च । शत्रन्तः प्रथमे धरन् ।
  • निवहते = नि + वह् “वहँ प्रापणे” + शतृ । उभय. । पु., च.वि., ए.व. । लटि. प्रथमे वहति वहते च । शत्रन्तः प्रथमे वहन् ।
  • भूगोलः = भूमिः
  • उद्बिभ्रते = उत् + भृ “डुभृञ् धारणपोषणयोः” + शतृ । उभय. । पु., च.वि., ए.व. । लटि. प्रथमे बिभर्ति बिभृते च । शत्रन्तः प्रथमे बिभ्रत् ।
  • दारयते = दॄ “दॄ भये” + कर्तरी णिच् + शतृ । प.प. । पु., च.वि., ए.व. । लटि. प्रथमे दरति । शत्रन्तः प्रथमे दारयन् ।
  • छलयते = छल + णिच् + शतृ । प.प. । पु., च.वि., ए.व. । लटि. प्रथमे छलयति । शत्रन्तः प्रथमे छलयन् । छलः = छलम् = व्याजः ।
  • पौलस्त्यः = रक्षवंशः
  • कलयते = कल “कल गतौ सङ्ख्याने च” + शतृ । उभय. । पु., च.वि., ए.व. । लटि. प्रथमे कलयति कलयते च । शत्रन्तः प्रथमे कलयन् ।
  • आतन्वते = आङ् + तन् “तनुँ विस्तारे” + शतृ । उभय. । पु., च.वि., ए.व. । लटि. प्रथमे तनोति तनुते च । शत्रन्तः प्रथमे तन्वन् । आतनोति = विवर्धते ।
  • मूर्च्छयते = मूर्च्छ् “मुर्छाँ मोहसमुच्छ्राययोः” + कर्तरी णिच् + शतृ । प.प. । पु., च.वि., ए.व. । लटि. प्रथमे मूर्च्छति । शत्रन्तः प्रथमे णिजन्तः मूर्च्छयन् । मूर्च्छति = मूर्छां कलयति ।
  • दशाकृतिकृते
    • आकृतिः = रूपम्
    • दशाकृतीः = दश आकृतीः
    • दशाकृतिकृते = दशाकृतीः यः करोति तस्मै । दशाकृति + कृ “डुकृञ् करणे” + क्विप् । पु., च.वि., ए.व. । प्रथमे दशाकृतिकृत् ।

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

Word Meaning

  • मूर्च्छयते = To one who causes others to faint

 

॥ अथ द्वितीयः सन्दर्भः ॥

॥ प्रबन्धः २ ॥

गुर्ज्जरीरागेण निःसारलालेन गीयते ।

2.1 अष्टपदी

श्रितकमलाकुचमण्डल धृतकुण्डल
कलितललितवनमाल जय जय देव हरे

पदच्छेदः

श्रित+कमला+कुच+मण्डल धृत+कुण्डल कलित+ललित+वनमाल जय जय देव हरे

अन्वयः

हे श्रितकमलाकुचमण्डल । हे धृतकुण्डल । हे कलितललितवनमाल । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे श्रितकमलाकुचमण्डल । हे धृतकुण्डल । हे कलितललितवनमाल ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • श्रितकमलाकुचमण्डल = श्रितम् (आश्रितं वा धृतं वा) कमलायाः कुचमण्डलं स्तनयुगलं येन सः, सम्बुद्धौ ।
  • धृतकुण्डल = धृते कुण्डले येन सः, सम्बुद्धौ ।
  • कलितललितवनमाल = कलिता धृता ललिता सुन्दरी वनमाला येन सः, सम्बुद्धौ ।
  • जय = जि “जि जये अभिभवे च”, प.प., लोट्., म.पु., ए.व. । प्रथमे लोटि जयतु । प्रथमे लटि जयति ।
  • जय जय = अतिशयप्रतिपादनार्थं द्विरुक्तिः ।

2.2 अष्टपदी

दिनमणीमण्डलमण्डन भवखण्डन
मुनिजनमानसहंस जय जय देव हरे

पदच्छेदः

दिनमणी+मण्डल+मण्डन भव+खण्डन मुनि+जन+मानस+हंस जय जय देव हरे

अन्वयः

  • हे दिनमणीमण्डलमण्डन । हे भवखण्डन । हे मुनिजनमानसहंस । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे दिनमणीमण्डलमण्डन । हे भवखण्डन । हे मुनिजनमानसहंस ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • दिनमणीमण्डलमण्डन = दिनमणीमण्डलेन सवितृमण्डलेन मण्डितः भूषितः, सम्बुद्धौ ।
  • भवखण्डन = भवं संसारं खण्डयति इति, सम्बुद्धौ ।
  • मुनिजनमानसहंस
    • मुनिजनमानसानि = मुनिजनानां मानसानि
    • मुनिजनमानसहंस = मुनिजनमानसेषु हंसः इव, सम्बुद्धौ ।

2.3 अष्टपदी

कालियविषधरगञ्जन जनरञ्जन
यदुकुलनलिनदिनेश जय जय देव हरे

पदच्छेदः

कालिय+विष+धर+गञ्जन जन+रञ्जन यदुकुल+नलिन+दिनेश जय जय देव हरे

अन्वयः

हे कालियविषधरगञ्जन । हे जनरञ्जन । हे यदुकुलनलिनदिनेश । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे कालियविषधरगञ्जन । हे जनरञ्जन । हे यदुकुलनलिनदिनेश ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • कालियविषधरगञ्जन
    • गञ्जनम् = दमनम् ।
    • विषधरः = सर्पः । विषं धरति इति ।
    • कालियविषधरः = कालियः इति विषधरः ।
    • कालियविषधरगञ्जन = कालियविषधरस्य गञ्जनः, सम्बुद्धौ ।
  • जनरञ्जन = जनान् रञ्जयति इति जनरञ्जनः, सम्बुद्धौ ।
  • यदुकुलनलिनदिनेश
    • नलिनम् = कमलम् ।
    • यदुकुलनलिनानि = यदुकुलानि एव नलिनानि ।
    • दिनेशः = सूर्यः । दिनानां ईशः ।
    • यदुकुलनलिनदिनेश = यदुकुलनलिनानां दिनेशः, सम्बुद्धौ ।

2.4 अष्टपदी

मधुमुरनरकविनाशन गरुडासन
सुरकुलकेलिनिदान जय जय देव हरे

पदच्छेदः

मधुमुरनरकविनाशन गरुडासन सुरकुलकेलिनिदान जय जय देव हरे

अन्वयः

हे मधु+मुर+नरक+विनाशन । हे गरुड+आसन । हे सुरकुलकेलिनिदान । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे मधुमुरनरकविनाशन । हे गरुडासन । हे सुरकुलकेलिनिदान ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • मधुमुरनरकविनाशन
    • मधुमुरनरकाः = मुधुः मुरः नरकः च इति असुराः ।
    • मधुमुरनरकविनाशन = मधुमुरनरकानां विनाशकृत् इति, सम्बुद्धौ ।
  • गरुडासन = गरुडः आसनं यस्य सः, सम्बुद्धौ ।
  • सुरकुलकेलिनिदान
    • सुरकुलम् = सुराणां कुलम्
    • सुरकुलकेलिः = सुरकुलस्य केलिः सच्छन्दविहारः
    • निदानम् = कारणम्
    • सुरकुलकेलिनिदान = सुरकुलकेलेः निदानः, सम्बुद्धौ ।

2.5 अष्टपदी

अमलकमलदललोचन भवमोचन
त्रिभुवनभवननिधान जय जय देव हरे

पाठान्तरम्

त्रिभुवनभवननिदान

पदच्छेदः

अमल+कमल+दल+लोचन भव+मोचन त्रि+भुवन+भवन+निधान जय जय देव हरे

अन्वयः

हे अमलकमलदललोचन । हे भवमोचन । हे त्रिभुवनभवननिधान । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे अमलकमलदललोचन । हे भवमोचन । हे त्रिभुवनभवननिधान ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • अमलकमलदललोचन
    • अमलकमलम् = अमलं निर्मलं च तत् कमलम् ।
    • अमलकमलदलम् = अमलकमलस्य दलं पत्रम् ।
    • अमलकमलदललोचन = अमलकमलदले इव लोचने यस्य सः, सम्बुद्धौ ।
  • भवमोचन = संसारव्यतिरिक्तः । भवं मुञ्चति इति भवमोचनः, सम्बुद्धौ ।
  • त्रिभुवनभवननिधान
    • त्रिभुवनम् = त्रयाणां भुवनानां समाहारः ।
    • त्रिभुवनभवनम् = त्रिभुवनम् एव भवनम् ।
    • निधानम् = निधिः । (निदानम् = कारणम् )
    • त्रिभुवनभवननिधान = त्रिभुवनभवनं निधानं यस्य सः, सम्बुद्धौ ।

2.6 अष्टपदी

जनकसुताकृतभूषण जितदूषण
समरशमितदशखण्ठ जय जय देव हरे

पदच्छेदः

जनक+सुता+कृत+भूषण जित+दूषण समर+शमित+दशखण्ठ जय जय देव हरे

अन्वयः

हे जनकसुताकृतभूषण । हे जितदूषण । हे समरशमितदशखण्ठ । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे जनकसुताकृतभूषण । हे जितदूषण । हे समरशमितदशखण्ठ ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • जनकसुताकृतभूषण
    • जनकसुता = सीता ।
    • भूषणम् = अलङ्कारः ।
    • जनकसुताकृतभूषण = जनकसुतया कृतं भूषणं यस्य सः, अथवा जनकसुतायाः कृतं भूषणं येन सः, सम्बुद्धौ ।
  • जितदूषण = जितः दूषणः इति राक्षसः येन सः, सम्बुद्धौ ।
  • समरशमितदशखण्ठ = समरे युद्धे शमितः नाशितः दशखण्ठः येन सः, सम्बुद्धौ ।

2.7 अष्टपदी

अभिनवजलधरसुन्दर धृतमन्दर
श्रीमुखचन्द्रचकोर जय जय देव हरे

पदच्छेदः

अभिनव+जलधर+सुन्दर धृत+मन्दर श्री+मुख+चन्द्र+चकोर जय जय देव हरे

अन्वयः

हे अभिनवजलधरसुन्दर । हे धृतमन्दर । हे श्रीमुखचन्द्रचकोर । (त्वं) जय, जय । हे देव । हे हरे ।

आकाङ्क्षा

  • हे अभिनवजलधरसुन्दर । हे धृतमन्दर । हे श्रीमुखचन्द्रचकोर ।
  • (त्वं) जय, जय ।
  • हे देव । हे हरे ।

पदपरिचयः

  • अभिनवजलधरसुन्दर
    • अभिनवजलधराः = नूतनाः मेघाः । अभिनवाः जलधराः ।
    • अभिनवजलधरसुन्दर = अभिनवजलधरवत् सुन्दरः, सम्बुद्धौ ।
  • धृतमन्दर = धृतः मन्दरः इति गिरिः येन सः, सम्बुद्धौ ।
  • श्रीमुखचन्द्रचकोर
    • श्रीमुखम् = श्रियाः मुखम् ।
    • श्रीमुखचन्द्रः = श्रियाः मुखम् एव चन्द्रः ।
    • श्रीमुखचन्द्रचकोर = श्रीमुखचन्द्रस्य चकोरः, सम्बुद्धौ ।

2.8 अष्टपदी

श्रीजयदेवकवेरिदं कुरुते मुदम्
मङ्गलमुज्ज्वलगीतं जय जय देव हरे

पदच्छेदः

श्रीजयदेवकवेः इदम् कुरुते मुदम् मङ्गलम् उज्ज्वल+गीतम् जय जय देव हरे

सन्धिः

अन्वयः

इदम् श्रीजयदेवकवेः मङ्गलम् उज्ज्वलगीतं, (गायतां शृण्वतां च) मुदं कुरुते । (त्वं) जय, जय । हे देव । हे हरे । (There are different interpretations. One of it is given here).

आकाङ्क्षा

  • कुरुते
    • किं कुरुते (कर्मपदम्) ? मुदम्
      • कस्य मुदम् ? (गायतां शृण्वतां च, अथवा तव, अथवा श्रीजयदेवकवेः)
    • किं कुरुते (कर्तृपदम्) ? इदम् उज्ज्वलगीतम्
      • कस्य उज्ज्वलगीतम् ? श्रीजयदेवकवेः
      • कीदृशं उज्ज्वलगीतम् ? मङ्गलम्
    • (त्वं) जय, जय ।
    • हे देव । हे हरे ।

पदपरिचयः

  • मुदम् = हर्षम्
  • उज्ज्वलगीतम् = उज्ज्वलं च तत् गीतम्
  • कुरुते = कृ “डुकृञ् करणे” उभ., अत्र आ.प., लट्., प्र.पु., ए.व.

6 श्लोकः

पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६ ॥

पदच्छेदः

पद्मा+पयोधर+तटी+परिरम्भ+लग्न+काश्मीर+मुद्रितम् उरः मधुसूदनस्य व्यक्त+अनुरागम् इव खेलदनङ्ग+खेद+स्वेदाम्बुपूरम् अनुपूरयतु प्रियम् वः

सन्धिः

 

अन्वयः

पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितम् मधुसूदनस्य उरः व्यक्तानुरागम् इव खेलदङ्गखेदस्वेदाम्बुपूरम् वः प्रियम् अनुपूरयतु ।

आकाङ्क्षा

  • अनुपूरयतु ।
    • किम् अनुपूरयतु (कर्मपदम्) ? प्रियम्
      • केषां प्रियम् ? वः
    • किम् अनुपूरयतु (कर्तृपदम्) ? उरः
      • कस्य उरः ? मधुसूदनस्य
      • कीदृशं उरः ? पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितम्
        • कथमिव पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितम् ? व्यक्तानुरागम् इव
      • पुनः कीदृशं उरः ? खेलदनङ्गखेद-स्वेदाम्बुपूरम्

पदपरिचयः

  • अनुपूरयतु = पूर्तिं नयतु । अनु + पूर् “पूरीँ आप्यायने” + णिच् । उभय. अत्र प.प., कर्तरी लोट्., म.पु., ए.व. । लटि. प.प., पूरति / पूरयति । लटि. आ.प., पूरयते ।
  • वः = युष्मद् शब्दः । दिव्तीया, चतुर्ती, षष्ठी । अत्र षष्ठी । युष्माकम् ।
  • उरः = वक्षः । उरस् शब्दः सकारान्तः नपुं., प्र.वि., ए.व. । प्रथमे उरः, उरसी, उरांसी ]
  • पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितम्
    • पयोधरतटी = पयोधराणां तटी
    • पद्मापयोधरतटी = पद्मायाः पयोधरतटी
    • पद्मापयोधरतटीपरिरम्भः = पद्मापयोधरतट्याः परिरम्भः
    • पद्मापयोधरतटीपरिरम्भलग्नम् = पद्मापयोधरतटीपरिरम्भेन लग्नम्
    • पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरम् = पद्मापयोधरतटीपरिरम्भलग्नम् च तत् काश्मीरम्
    • पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरमुद्रितम् = पद्मापयोधरतटीपरिरम्भलग्नकाश्मीरेण मुद्रितम्
  • खेलदनङ्गखेदस्वेदाम्बुपूरम्
    • खेलदनङ्गः = खेलन् क्रीडन् यः अनङ्गः = अनङ्गक्रीडा
    • खेलदनङ्गखेदः = खेलदनङ्गेन खेदः आयासः
    • स्वेदाम्बुपूरः = स्वेदाम्बोः पूरः प्रवाहः
    • खेलदनङ्गखेद-स्वेदाम्बुपूरम् = खेलदनङ्गखेदेन स्वेदाम्बुपूरः यस्मिन् तत्

Word Meaning

  • तटी = the slope or projection, the perimeter

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु

॥ अथ तृतीयः सन्दर्भः ॥

7 श्लोकः

वसन्ते वासन्तीकुसुमसुकुमारैरवयवैर्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमूचे सहचरी ॥ ७ ॥

पाठान्तरम्

बलद्बाधाम्

पदच्छेदः

वसन्ते वासन्ती+कुसुम+सुकुमारैः अवयवैः भ्रमन्तीम् कान्तारे बहु+विहित+कृष्ण+अनुसरणाम् अमन्दम् कन्दर्प+ज्वर+जनित+चिन्ता+आकुलतया वलद्+बाधाम् राधाम् स+रसम् इदम् ऊचे सह+चरी

 

सन्धिः

अन्वयः

(काचित्) सहचरी वसन्ते वासन्तीकुसुमसुकुमारैः अवयवैः कान्तारे भ्रमन्तीम् बहुविहितकृष्णानुसरणाम् अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां इदं सरसम् ऊचे ।

आकाङ्क्षा

  • ऊचे
    • कथम् ऊचे ? सरसम्
    • किम् ऊचे ? इदम्
    • काम् ऊचे ? राधाम्
      • कीदृशीं राधाम् ? भ्रमन्तीम्
        • कुत्र भ्रमन्तीम् ? कान्तारे
        • कैः सह भ्रमन्तीम् ? अवयवैः
          • कीदृशैः अवयवैः ? वासन्तीकुसुमसुकुमारैः
        • कदा भ्रमन्तीम् (/ उचे) ? वसन्ते
      • पुनः कीदृशीं राधाम् ? बहुविहितकृष्णानुसरणाम्
      • पुनः कीदृशीं राधाम् ? वलद्बाधाम्
        • कया वलद्बाधाम् ? कन्दर्पज्वरजनितचिन्ताकुलतया
        • कथं वलद्बाधाम् ? अमन्दम्
      • का ऊचे ? (काचित्) सहचरी

पदपरिचयः

  • वासन्तीकुसुमसुकुमारैः
    • वासन्तीकुसुमम् = वासन्ती इति लता, तस्याः कुसुमं पुष्पम्
    • सुकुमार = कोमल । विशेषणम्
    • वासन्तीकुसुमसुकुमारैः = वासन्तीकुसुमानि इव सुकुमाराणि, तैः
  • बहुविहितकृष्णानुसरणाम्
    • बहुविहितम् = बहुवारं विहितं कृतम् । विशेषणम् ।
    • कृष्णानुसरणम् = कृष्णस्य अनुसरणम्
    • बहुविहितकृष्णानुसरणाम् = बहुविहितं कृष्णानुसरणं यया सा, ताम्
  • वलद्बाधाम्
    • वलत् = परिवर्द्धमान, बाहुल्यम् उपगच्छत् । विशेषणम् । वल् “वलँ संवरणे सञ्चरणे च” + शानच् । स्त्रीलिङ्गे वलन्ती ।
    • वलद्बाधाम् = वलत् + बाधाम् । वलन्ती बाधा यस्याः सा, ताम् ।
  • कन्दर्पज्वरजनितचिन्ताकुलतया
    • कन्दर्पज्वरः = कन्दर्पस्य कामदेवस्य ज्वरः तापः । अथवा कन्दर्पः एव ज्वरः ।
    • कन्दर्पज्वरजनिता = कन्दर्पज्वरात् जनिता । विशेषणम् ।
    • कन्दर्पज्वरजनितचिन्ता = कन्दर्पज्वरजनिता च सा चिन्ता ।
    • कन्दर्पज्वरजनितचिन्ताकुलतया = कन्दर्पज्वरजनितचिन्तया आकुलता सम्भ्रमः, तया
  • कान्तारे = वने । कान्तार शब्दः, नपुं., स.वि., ए.व. ।
  • ऊचे = ब्रू “ब्रूञ् व्यक्तायां वाचि”, उभय. अत्र आत्.प., लिट्., प्र.पु., ए.व. ।
    • लट् आत्.प., – प्र.पु., आह / ब्रवीति । प.प. – ब्रूते ।
    • लिट् आत्.प. – प्र.पु. ऊचे, ऊचाते, ऊचिरे । उ.पु., ऊचे. ऊचिवहे, ऊचिमहे ।
    • लिट् प.प. – प्र.पु., उवाच ।

छन्दः

  • शिखरिणी – ‘रसैः रुद्रैश्छिन्ना यमनसभला गः शिखरिणी’
  • यगण, मगण, नगण, सगण, भगण, लघु, गुरु – । ऽ ऽ ऽ ऽ ऽ । । । । । ऽ ऽ । । । ऽ
  • प्रतिपादं १७ अक्षराणि । य-म-न-स-भ-लघु-गुरुः । षष्टमाक्षरानन्तरम् एकादशाक्षरानन्तरं च यतिः।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु गु गु गु गु
न्ते वा न्ती कु सु सु कु मा रै वै
र्भ्र न्तीं का न्ता रे हु वि हि कृ ष्णा नु णाम्
न्दं न्द र्प ज्व नि चि न्ता कु या
द्बा धां रा धां मि मू चे री

 

Word Meaning

  • वलद्बाधाम् = She whose suffering (बाधा) has been increasing (वलत्)

॥ प्रबन्धः ३ ॥

वसन्तरागेण यतिलालेन गीयते ।

3.1 अष्टपदी

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे
विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते

पदच्छेदः

ललित+लवङ्ग+लता+परिशीलन+कोमल+मलय+समीरे मधुकर+निकर+करम्बित+कोकिल+कूजित+कुञ्ज+कुटीरे
विहरति हरिः इह स+रस+वसन्ते नृत्यति
युवति+जनेन समम् सखि विरहि+जनस्य दुरन्ते

सन्धिः

अन्वयः

(अयि) सखि । ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे विरहिजनस्य दुरन्ते इह सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • (अयि) सखि ।
  • विहरति, नृत्यति (च) ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? दुरन्ते
        • कस्य दुरन्ते ? विरहिजनस्य
      • कीदृशे सरसवसन्ते ? ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
      • पुनः कीदृशे सरसवसन्ते ? मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे

पदपरिचयः

  • सखि = सखी ईकारान्तः स्त्री., ए.व., सम्बोदने ।
    • प्रथमा – सखीः/सखा, सख्यौ/सखायौ, सख्यः/सखायः
  • दुरन्ते = कष्टकरे । विशेषणम् । पुं., स.वि., ए.व.
  • ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे
    • ललितलवङ्गलता = ललिता (मनोहरा) च सा लवङ्गलता ।
    • ललितलवङ्गलतापरिशीलनम् = ललितलवङ्गलतायाः परिशीलनं स्पर्शनम् ।
    • ललितलवङ्गलतापरिशीलनकोमलम् = ललितलवङ्गलतापरिशीलनेन कोमलम् । विशेषणम् ।
    • मलयसमीरः = मलयस्य मलयपर्वतस्य समीरः मन्दमारुतः ।
    • ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे = ललितलवङ्गलतापरिशीलनकोमलः मलयसमीरः, तस्मिन्
  • मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे
    • मधुकरः = मधुमक्षिका, भ्रमरः ।
    • मधुकरनिकरः = मधुकराणां निकरः समूहः ।
    • मधुकरनिकरकरम्बित = मधुकरनिकरे करम्बित मिश्रित । विशेषणम् ।
    • मधुकरनिकरकरम्बितकोकिलाः = मधुकरनिकरकरम्बिताः कोकिलाः ।
    • मधुकरनिकरकरम्बितकोकिलकूजितः = मधुकरनिकरकरम्बितकोकिलैः कूजितः । विशेषणम् ।
    • कुटीरः = कुटी + स्वल्पार्थे रः । क्षुद्रगृहम् ।
    • कुञ्जः = निकुञ्जः । उपरि चतुर्दिक्षु च लतादिभिः आच्छादितस्य स्थानस्य मध्ये शून्यदेशः
    • कुञ्जकुटीरः = कुञ्जः एव कुटीरः
    • मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे = मधुकरनिकरकरम्बितकोकिलकूजितः कुञ्जकुटीरः, तस्मिन् ।

Word Meaning

  • कुञ्जकुटीरः = bower, a pleasant shady place under trees or climbers in a garden or in the woods.
  • परिशीलनम् = literally examining. Here touch is intended.

3.2 अष्टपदी

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे
अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे

पाठान्तरम्

-वकुलकलापे

पदच्छेदः

उत्+मद+मदन+मनोरथ+पथिक+वधू+जन+जनित+विलापे
अलि+कुल+सङ्कुल+कुसुम+समूह+निराकुल+बकुल+कलापे

अन्वयः

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे (सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? उन्मदमदनमनोरथपथिकवधूजनजनितविलापे
      • पुनः कीदृशे सरसवसन्ते ? अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे

पदपरिचयः

  • उन्मदमदनमनोरथपथिकवधूजनजनितविलापे
    • मदः = गर्वः हर्षः वा
    • मदनः = कामः
    • उन्मदमदनमनोरथः (One of the slightly different interpretations is taken here).
      • उन्मदः = उद्गतः मदः यस्मिन् सः । उत्कृष्टः मदः यस्य सः ।
      • उन्मदमदनः = उन्मदः मदनः ।
      • उन्मदमदनमनोरथः = उन्मदमदनः मनोरथः यस्य सः ।
    • पथिकवधूजनः = पथिकानां वधूजनः ।
    • उन्मदमदनमनोरथपथिकवधूजनाः = उन्मदमदनमनोरथाः च ते पथिकवधूजनाः
    • उन्मदमदनमनोरथपथिकवधूजनजनितविलापे = उन्मदमदनमनोरथपथिकवधूजनेन जनितः विलापः यस्मिन् सः, तस्मिन् । अथवा उन्मदमदनमनोरथपथिकवधूजने जनितः विलापः येन सः, तस्मिन् ।
  • अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे
    • अलिकुलम् = भ्रमरसमूहः
    • अलिकुलसंकुलः = अलिकुलेन संकुलः व्याप्तः आकीर्णः
    • अलिकुलसङ्कुलकुसुमसमूहः = अलिकुलसंकुलः कुसुमसमूहः
    • निराकुलः = नितराम् आकुलः, व्याप्तः
    • अलिकुलसङ्कुलकुसुमसमूहनिराकुलः = अलिकुलसङ्कुलकुसुमसमूहेन निराकुलः
    • बकुलकलापः = बकुल द्रुमाणां वृक्षाणां समूहः
    • अलिकुलसङ्कुलकुसुमसमूहनिराकुलबकुलकलापे = अलिकुलसङ्कुलकुसुमसमूहनिराकुलः बकुलकलापः यस्मिन् सः

Word Meaning

  • पथिकवधूजनः = The young ladies whose husbands have gone on a journey
  • संकुलः = crowded
  • निराकुलः = Full of, filled or covered with
  • बकुलः = A kind of tree, Mimusops Elengi, (said according to the convention of poets to put forth blossoms when sprinkled by young women with monthfuls of wine).

3.3 अष्टपदी

मृगमदसौरभरभसवशंवदनवदलमालतमाले
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले

पाठान्तरम्

-वशम्ब

पदच्छेदः

मृग+मद+सौरभ+रभस+वशंवद+नव+दल+माल+तमाले युव+जन+हृदय+विदारण+मनसिज+नख+रुचि+किंशुक+जाले

अन्वयः

मृगमदसौरभरभसवशंवदनवदलमालतमाले युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? मृगमदसौरभरभसवशंवदनवदलमालतमाले
      • पुनः कीदृशे सरसवसन्ते ? युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले

पदपरिचयः

  • मृगमदसौरभरभसवशंवदनवदलमालतमाले
    • मृगमदः = कस्तूरी
    • सौरभम् = सौगन्ध्यम्
    • सौरभरभसः = सुगन्धस्य प्रसरनवेगः
    • मृगमदसौरभरभसः = मृगमदस्य सौरभरभसः
    • वशंवदा = वशवर्त्तिनी, अनुकारिणी
    • मृगमदसौरभरभसवशंवदा = मृगमदसौरभरभसस्य वशंवदा
    • नवदलमाला = नवदलानां माला
    • मृगमदसौरभरभसवशंवदनवदलमालः = मृगमदसौरभरभसवशंवदा नवदलमाला यस्मिन् सः
    • तमालः = तापिच्छवृक्षः (यः कृष्णवर्णे भवति)
    • मृगमदसौरभरभसवशंवदनवदलमालतमाले = मृगमदसौरभरभसवशंवदनवदलमालाः तमालाः यस्मिन् सः, तस्मिन्
  • युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले
    • युवजनहृदयम् = युवजनस्य हृदयम्
    • युवजनहृदयविदारणाः = युवजनहृदयस्य विदारणाः भेदकराः
    • मनसिजनखाः = मनसिजस्य मन्मदस्य नखाः
    • युवजनहृदयविदारणमनसिजनखाः = युवजनहृदयविदारणाः च ते मनसिजनखाः
    • युवजनहृदयविदारणमनसिजनखरुचयः = युवजनहृदयविदारणमनसिजनखानां इव रुचिः कान्तिः येषां ते
    • युवजनहृदयविदारणमनसिजनखरुचिकिंशुकाः = युवजनहृदयविदारणमनसिजनखरुचयः किंशुकाः (ये रक्तवर्णाः)
    • युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले = युवजनहृदयविदारणमनसिजनखरुचिकिंशुकानां जालं समूहः यस्मिन् सः, तस्मिन्

Word Meaning

  • वशंवद = under the influence of

3.4 अष्टपदी

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे

पदच्छेदः

मदन+मही+पति+कनक+दण्ड+रुचि+केसर+कुसुम+विकासे
मिलित+शिली+मुख+पाटलि+पटल+कृत+स्मर+तूण+विलासे

अन्वयः

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे
      • पुनः कीदृशे सरसवसन्ते ? मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे

पदपरिचयः

  • मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे
    • मदनमहीपतिः = मदनः एव महीपतिः
    • कनकदण्डः = कनकमयः दण्डः
    • कनकदण्डरुचिः = कनकदण्डस्य रुचिः
    • मदनमहीपतिकनकदण्डरुचिः = मदनमहीपतेः कनकदण्डरुचिः इव रुचिः यस्य सः
    • केशरकुसुमम् = नागकेसरपुष्पम्
    • केशरकुसुमविकासः = केशरकुसुमानां विकासः
    • मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे = मदनमहीपतिकनकदण्डरुचिः केशरकुसुमविकासः यस्मिन् सः, तस्मिन्
  • मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे
    • शिलीमुखाः = भ्रमराः । अवधेयम् – शराः इत्यपि अर्थः ।
    • मिलितशिलीमुखानि = मिलिताः शिलीमुखाः भ्रमराः येषु तानि
    • पाटलिपटलानि = पाटलिनां पाटलाकुसुमानां पटलानि निकराः
    • मिलितशिलीमुखपाटलिपटलानि = मिलितशिलीमुखानि पाटलिपटलानि
    • स्मरतूणः = स्मरस्य मदनस्य तूणः तूणीरः
    • स्मरतूणविलासः = स्मरतूणस्य विलासः विब्रमः
    • मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे = मिलितशिलीमुखपाटलिपटलैः कृतः स्मरतूणविलासः यस्मिन् सः, तस्मिन्

Word Meaning

  • तूणः = quiver

3.5 अष्टपदी

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे

पदच्छेदः

विगलित+लज्जित+जगत्+अवलोकन+तरुण+करुण+कृत+हासे
विरहि+निकृन्तन+कुन्त+मुख+आकृति+केतक+दन्तुरित+अशे

अन्वयः

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे
      • पुनः कीदृशे सरसवसन्ते ? विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे

पदपरिचयः

  • विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे
    • लज्जितम् = लज्जा एव लज्जितम् इति भावे क्तः । विशेषणम् ।
    • विगलितलज्जितम् = विगलितं गतं लज्जितं यस्य तत् ।
    • विगलितलज्जितजगत् = विगलितलज्जितं च तत् जगत् ।
    • लज्जितजगदवलोकनम् = विगलितलज्जितजगतः अवलोकनम्
    • करुणः = करुणः इति वृक्षविशेषः
    • तरुणकरुणः = तरुणः नवः करुणः ।
    • कृतहासः = कृतः हासः येन सः
    • तरुणकरुणकृतहासः = तरुणकरुणैः कृतहासः
    • विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे = विगलितलज्जितजगदवलोकनेन तरुणकरुणकृतहासः येन सः, तस्मिन्
  • विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे
    • विरहि- = विरहिन् शब्दः, पुं., स्त्री., नपुं. (-ही-हिणी-हि)
    • निकृन्तनम् = विदारणं, खण्डनम् । विशेषणम् ।
    • विरहिनिकृन्तनम् = विरहिणां निकृन्तनम्
    • कुन्तः = कुन्तः इति आयुधम्
    • विरहिनिकृन्तनकुन्तः = विरहिनिकृन्तनाय कुन्तः
    • मुखाकृतिः = मुखस्य अग्रभागस्य आकृतिः
    • कुन्तमुखाकृतिः = कुन्तस्य मुखाकृतिः इव आकृतिः यस्य सः
    • केतकः = केतकीवृक्षः
    • विरहिनिकृन्तनकुन्तमुखाकृतिकेतकः = विरहिनिकृन्तनकुन्तमुखाकृतिः च असौ केतकः
    • विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिता = विरहिनिकृन्तनकुन्तमुखाकृतिकेतकेन दन्तुरिता व्याप्ता
    • विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे = विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिता आशा दिशा यस्मिन् सः, तस्मिन्

 

Word Meaning

  • कृतहासः = The blossoming of the flowers give an impression that they are smiling
  • तरुणः = Tender. There is also slesha based on its other meaning, namely youth.
  • विरही = one who is separated from one’s spouse / lover

3.6 अष्टपदी

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ

पदच्छेदः

माधविका+परिमल+ललिते नव+मालिक+जाति+सुगन्धौ
मुनि+मनसाम् अपि मोहन+कारिणि तरुण+अ+कारण+बन्धौ

अन्वयः

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ मुनिमनसाम् अपि मोहनकारिणि तरुणाकारणबन्धौ सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? माधविकापरिमलललिते
      • पुनः कीदृशे सरसवसन्ते ? नवमालिकजातिसुगन्धौ
      • पुनः कीदृशे सरसवसन्ते ? मोहनकारिणि
        • केषां अपि मोहनकारिणि ? मुनिमनसाम् अपि
      • पुनः कीदृशे सरसवसन्ते ? तरुणाकारणबन्धौ

पदपरिचयः

  • माधविकापरिमलललिते
    • माधविका = माधवीलता
    • माधविकापरिमलः = माधविकायाः परिमलः गन्धविशेषः
    • माधविकापरिमलललिते = माधविकापरिमलेन ललितः मनोहरः, तस्मिन्
  • नवमालिकजातिसुगन्धौ
    • मालिका = मल्लिकापुष्पम्
    • नवमालिका = नवा च सा मालिका
    • जातिः = मालती इति पुष्पविशेषः
    • नवमालिकजातयः = नवमालिकाः जातयः च
    • नवमालिकजातिसुगन्धौ = नवमालिकजातीनां सुगन्धः यस्मिन् सः, तस्मिन्
  • तरुणाकारणबन्धौ
    • तरुणाः = तरुणः तरुणीः च इति एकशेषः
    • अकारणबन्घुः = कारणं विना अपि सुहृद्
    • तरुणाकारणबन्धौ = तरुणानां अकारणबन्घुः, तस्मिन्

Word Meaning

  • अकारणबन्घुः = spontaneously a friend, without any specific reason

3.7 अष्टपदी

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते

पदच्छेदः

स्फुरत्+अतिमुक्त+लता+परिरम्भण+मुकुलित+पुलकित+चूते
बृन्दावन+विपिने परिसर+परिगत+यमुना+जल+पूते

अन्वयः

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते सरसवसन्ते हरिः युवतिजनेन समं विहरति, नृत्यति (च) ।

आकाङ्क्षा

  • विहरति, नृत्यति च ।
    • केन साकं विहरति ? युवतिजनेन समम्
    • कः विहरति ? हरिः
    • कदा विहरति ? इह सरसवसन्ते
      • कीदृशे सरसवसन्ते ? स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
    • कुत्र विहरति ? बृन्दावनविपिने
      • कीदृशे बृन्दावनविपिने ? परिसरपरिगतयमुनाजलपूते

पदपरिचयः

  • स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते
    • स्फुरदतिमुक्तलता = स्फुरन्ती चलन्ती अतिमुक्तलता माधवीलता
    • परिरम्भणम् = आलिङ्गनम्
    • स्फुरदतिमुक्तलतापरिरम्भणम् = स्फुरदतिमुक्तलतायाः परिरम्भणम्
    • मुकुलितम् = मञ्जरीयुक्तम्, कलिकायुक्तम्, पुष्पितम् । विशेषणम् ।
    • मुकुलितपुलकितः = मुकुलितः पुलकितः जातरोमाञ्चः च ।
    • मुकुलितपुलकितचूतः = मुकुलितपुलकितः चूतः आम्रवृक्षः
    • स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते = स्फुरदतिमुक्तलतापरिरम्भणेन मुकुलितपुलकितचूताः यस्मिन् सः, तस्मिन्
  • बृन्दावनविपिने = बृन्दावनस्य विपिने वने
  • परिसरपरिगतयमुनाजलपूते
    • परिसरः = नद्यादिसमीपभूमिः इत्यमरः
    • परिगतः = परितः गतः । विशेषणम् ।
    • परिसरपरिगतः = परिसरे परिगतः
    • यमुनाजलम् = यमुनायाः जलम्
    • परिसरपरिगतयमुनाजलम् = परिसरपरिगतम् यमुनाजलम्
    • परिसरपरिगतयमुनाजलपूते = परिसरपरिगतयमुनाजलेन पूतम्, तस्मिन्

Word Meaning

  • मुकुलितम् = having buds

3.8 अष्टपदी

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम्
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम्

पाठान्तरम्

दयतु

पदच्छेदः

श्री+जयदेव+भणितम् इदम् उदयति हरि+चरण+स्मृति+सारम्
सरस+वसन्त+समय+वन+वर्णनम् अनु+गत+मदन+विकारम्

अन्वयः

श्रीजयदेवभणितम् इदम् अनुगतमदनविकारं हरिचरणस्मृतिसारं सरसवसन्तसमयवनवर्णनम् उदयति ।

आकाङ्क्षा

  • उदयति
    • किं उदयति ? इदम् श्रीजयदेवभणितं (गीतम्)
      • कीदृशं गीतम् ? अनुगतमदनविकारम्
      • पुनः कीदृशं गीतम् ? हरिचरणस्मृतिसारम्
      • पुनः कीदृशं गीतम् ? सरसवसन्तसमयवनवर्णनम्

पदपरिचयः

  • उदयति = उदयं प्राप्नोति
  • अनुगतमदनविकारम्
    • मदनविकारः = मदनस्य विकारः विक्रिया
    • अनुगतमदनविकारम् = अनुगतं मदनविकारं यस्मिन् तत्

Word Meaning

  • विकारः = transformation, agitation

8 श्लोकः

दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।

इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८ ॥

पदच्छेदः

दर+विदलित+मल्ली+वल्लि+चञ्चत्+पराग+प्रकटित+पटवासैः वासयन् काननानि
इह हि दहति चेतः केतकी+गन्ध+बन्धुः प्रसरत्+असम+बाण+प्राणवत् गन्धवाहः

सन्धिः

  • दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् = दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैः वासयन् | विसर्गसन्धिः रेफादेशः |
  • प्रसरदसमबाणप्राणवद्गन्धवाहः = प्रसरदसमबाणप्राणवत् गन्धवाहः | जश्त्वसन्धिः |

अन्वयः

इह केतकीगन्धबन्धुः प्रसरदसमबाण-प्राणवत् गन्धवाहः दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैः काननानि वासयन् (वियोगिनां) चेतः दहति हि ।

आकाङ्क्षा

  • दहति हि
    • किं दहति ? चेतः
      • कथंभूतं चेतः ? १. प्रसरदसमबाणप्राणवत्
    • कः दहति ? गन्धवाहः
      • कीदृशः गन्धवाहः ? केतकी-गन्ध-बन्धुः
      • पुनः कीदृशः गन्धवाहः? २. प्रसरदसमबाणप्राणवत्
      • किं कुर्वन् गन्धवाहः ? वासयन्
        • कुत्र वासयन् ? काननानि
        • कैः वासयन् ? दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैः
      • कुत्र / कदा दहति ? इह

पदपरिचयः

  • प्रसरदसमबाण-प्राणवत्
    • प्रसरन् = (मनोरथं प्रति) गच्छन् । प्रतिदेशं सञ्चरन्
    • असमबाणप्राणवत् = असमबाणस्य मन्मदस्य प्राणवत्
    • प्रसरदसमबाणप्राणवत् = प्रसरन् च असमबाणप्राणवत् च
  • दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैः
    • दरविदलित = दर ईषद् विदलिता विकशित । विशेषणम्
    • मल्लीवल्ली = मल्लीपुष्पस्य वल्ली लता
    • दरविदलितमल्लीवल्ली = दरविदलिता च सा मल्लीवल्ली
    • चञ्चत्परागः = चञ्चन् गच्छन् परागः पुष्परेणुः
    • दरविदलितमल्लीवल्लिचञ्चत्परागाः = दरविदलितमल्लीवल्लीनां चञ्चत्परागाः
    • पटवासः = वासचूर्णम्, सुगन्धचूर्णम्
    • प्रकटितपटवासाः = प्रकटिताः प्रकाशिताः पटवासाः
    • दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैः = दरविदलितमल्लीवल्लिचञ्चत्परागाः एव प्रकटितपटवासाः, तैः
  • वासयन् = सुरभीकुर्वन् । वास “वास उपसेवायाम्” + शतृ ।

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु
वि लि ल्ली ल्लि ञ्च त्प रा
प्र टि वा सै र्वा न्का ना नि
हि ति चे तः के की न्ध न्धुः
प्र बा प्रा द्ग न्ध वा हः

 

Word Meaning

  • असमबाणः = Kama, as he is having an odd number of (i.e. five) arrows

9 श्लोकः

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः
नीयन्ते पथिकैः कथङ्कथमपि ध्यानावधानक्षणप्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः

पाठान्तरम्

-ध्यानानुधानक्षण

पदच्छेदः

उन्मीलत्+मधु+गन्ध+लुब्ध+मधुप+व्याधूत+चूत+अङ्कुर+
क्रीडत्+कोकिल+काकली+कलकलैः उद्गीर्ण+कर्ण+ज्वराः
नीयन्ते पथिकैः कथम् कथम् अपि ध्यान+अवधान+क्षण+
प्राप्त+प्राण+समा+समागम+रस+उल्लासैः अमी वासराः

सन्धिः

  • उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः = उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैः उद्गीर्णकर्णज्वराः | विसर्गसन्धिः रेफादेशः |
  • कथङ्कथम् = कथम् कथम् | परसवर्णसन्धिः |
  • ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी = ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैः अमी | विसर्गसन्धिः रेफादेशः |

अन्वयः

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैः उद्गीर्णकर्णज्वराः
अमी वासराः ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैः पथिकैः कथं कथम् अपि नीयन्ते ।

आकाङ्क्षा

  • नीयन्ते
    • कैः (कर्मणि कर्तृपदं) नीयन्ते ? पथिकैः
    • कथं नीयन्ते ? कथं कथम् अपि
    • कीदृशैः प्रकारैः नीयन्ते ? ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैः
    • के (कर्मणि कर्मपदं) नीयन्ते ? अमी वासराः
      • कथम्भूताः वासराः ? उद्गीर्णकर्णज्वराः
        • कैः उद्गीर्णकर्णज्वराः ? उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैः

पदपरिचयः

  • उन्मीलन्मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-क्रीडत्-कोकिल-काकली-कलकलै:
    • गन्धः = गन्धम्
    • उन्मीलन्मधु-गन्धः = उन्मीलत् प्रसरत् मधुगन्धः मकरन्दगन्धः
    • उन्मीलन्मधुगन्ध-लुब्धाः = उन्मीलन्मधुगन्धेषु लुब्धाः अभिलाषुकाः, लोलुपाः । विशेषणम्
    • उन्मीलन्मधुगन्धलुब्ध-मधुपाः = उन्मीलन्मधुगन्धलुब्धाः मधुपाः भ्रमराः
    • चूतः = आम्रवृक्षः
    • चूताङ्कुरः = चूतस्य प्रवालः, नूतनोत्पन्नतृणादिः, मुकुलम्, ईषद्विकसितकलिका
    • व्याधूतचूताङ्कुराः = व्याधूताः कम्पिताः चूताङ्कुराः
    • उन्मीलन्मधुगन्धलुब्धमधुप-व्याधूतचूताङ्कुराः = उन्मीलन्मधुगन्धलुब्धमधुपैः व्याधूतचूताङ्कुराः
    • उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडन् = उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरेषु क्रीडन्
    • कोकिलः = कोकिलः (स्त्री. कोकिला) इति पक्षिविशेषः
    • उन्मीलन्मधु-गन्ध-लुब्ध-मधुप-व्याधूत-चूताङ्कुर-क्रीडत्-कोकिलाः = उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडन्तः कोकिलाः
    • काकली = सूक्ष्ममधरास्फटध्वनिः
    • काकलीकलकलः = काकली एव कोलाहलः
    • उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिल-काकलीकलकलाः
    • उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुरक्रीडत्कोकिलानां काकलीकलकलाः, तैः
  • उद्गीर्णकर्णज्वरा: = उद्रगीर्णा: उत्पादिताः कर्णज्वरा: श्रोत्रपीडा: यैः ते
  • ध्यानावधानक्षणप्राप्त-प्राणसमा-समागम-रसोल्लासै:
    • ध्यानावधानम् = ध्याने स्वप्रियचिन्तने अवधानम् तत्परता
    • ध्यानावधानक्षणम् = ध्यानावधाने क्षणं समयम्
    • ध्यानावधानक्षणप्राप्तः = ध्यानावधानक्षणे प्राप्तः
    • प्राणसमा = जीवतुल्या कान्ता
    • समागम-रसः = समागमः एव रसः । समागमरूपः रसः
    • प्राणसमा-समागमरसः = प्राणसमायाः समागमरसः
    • ध्यानावधानक्षणप्राप्त-प्राणसमासमागमरसः = ध्यानावधानक्षणप्राप्तः च असौ प्राणसमासमागमरसः
    • ध्यानावधानक्षणप्राप्त-प्राणसमा-समागम-रसोल्लासै: = ध्यानावधानक्षणप्राप्त-प्राणसमासमागमरसः तस्मात् उत्पान्ना ये उल्लासाः उत्साहाः, तैः
  • अमी = एते । अदस् शब्दः । पुल्लिङ्गे प्रथमाविभ्क्यां असौ, अमू, अमी ।
  • वासरा: = दिवसा:
  • कथं कथमपि = अत्र महता कष्टेन इत्यर्थः
  • नीयन्ते = समाप्यन्ते

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु
न्मी न्म धु न्ध लु ब्ध धु व्या धू चू ता ङ्कु
क्री त्को कि का ली लै रु द्गी र्ण र्ण ज्व राः
नी न्ते थि कैः थं पि ध्या ना धा क्ष
प्रा प्त प्रा मा मा सो ल्ला सै मी वा राः

 

Word Meaning

  • उन्मीलत् = that which is spreading

॥ अथ चतुर्थः सन्दर्भः ॥

10 श्लोकः

अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारिविलासलालसम्
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् १०

पदच्छेदः

अनेक+नारी+परिरम्भ+सम्भ्रम+स्फुरत्+मनोहारि+विलास+लालसम्
मुर+अरिम् आरात् उपदर्शयन्ति असौ सखी समक्षं पुनः आह राधिकाम्

सन्धिः

अन्वयः

असौ सखी आरात् अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसं मुरारिम् उपदर्शयन्ती पुनः राधिकाम् आह ।

आकाङ्क्षा

  • पुनः आह
    • काम् आह ? राधिकाम्
    • का आह ? असौ सखी
      • किं कुर्वन्ती सखी ? उपदर्शयन्ती
        • कम् उपदर्शयन्ती ? मुरारिम्
          • कीदृशं मुरारिम् ? अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम्
        • कुत्र उपदर्शयन्ती ? आरात्

पदपरिचयः

  • आह = ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्र.पु., ए.व.
    • प्रथमे – ब्रवीति / आह, ब्रूत: / आहतु:, ब्रुवन्ति / आहु: ।
  • उपदर्शयन्ती = उप + दृश्“दृशिँर् प्रेक्षणे” + शतृ, स्त्री. प्र.वि., ए.व.
  • आरात् = निकटः। अव्ययम् ।
  • अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम्
    • अनेक-नारी = अनेकाः नार्यः
    • अनेकनारी-परिरम्भः = अनेकनारीणां परिरम्भः आलिङ्गनम्
    • अनेकनारीपरिरम्भ-सम्भ्रमः = अनेकनारीपरिरम्भेन यः सम्भ्रमः त्वरा
    • अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्तः = अनेकनारीपरिरम्भसम्भ्रमेन स्फुरन्तः
    • अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारिणः = अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्तः मनोहारिणः मनोहराणि
    • अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारि-विलासाः = अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारिणः च ते विलासाः लीलाः, स्त्रीणां श्रृङ्गारभावजाः क्रियाः
    • अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारिविलासलालसम् = अनेकनारीपरिरम्भसम्भ्रमस्फुरन्मनोहारिविलासेषु लालसा उत्सुकता यस्य सः, तम्

छन्दः

  • वंशस्थंवृत्तम् या वंशस्थविल: – “वदन्ति वंशस्थविलं जतौ जरौ” । प्रतिपादं १२ अक्षराणि । ज-त-ज-र । — । ऽ । – ऽ ऽ । – । ऽ । – ऽ । ऽ

 

1 2 3 4 5 6 7 8 9 10 11 12
न्ति वं स्थ वि लं तौ रौ
गु गु गु गु गु गु
ने ना री रि म्भ म्भ्र
स्फु न्म नो हा रि वि ला ला
म्मु रा रि मा रा दु र्श न्त्य सौ
खी क्षं पु रा रा धि काम्

 

Word Meaning

॥ प्रबन्धः ४ ॥

रामकिरीरागेण यतितालेन गीयते ।

4.1 अष्टपदी

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे

पाठान्तरम्

-कलेबर-

पदच्छेदः

चन्दन-चर्चित-नील-कलेवर-पीत-वसन-वनमाली

केलि-चलत्-मणि-कुण्डल-मण्डित-गण्ड-युग-स्मित-शाली

हरिः इह मुग्ध-वधू-निकरे विलासिनि विलसति केलि-परे

सन्धिः

अन्वयः

हे विलासिनि । इह विलासिनि केलिपरे मुग्धवधूनिकरे केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली हरिः विलसति ।

आकाङ्क्षा

  • हे विलासिनि
  • विलसति
    • कः विलसति ? हरिः
      • कीदृशः हरिः ? चन्दनचर्चितनीलकलेवरपीतवसनवनमाली
      • पुनः कीदृशः हरिः ? केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली
    • कुत्र विलसति ? इह मुग्धवधूनिकरे (वसन्ते अथवा वृन्दावने)
      • कीदृशे मुग्धवधूनिकरे ? केलिपरे
      • पुनः कीदृशे मुग्धवधूनिकरे ? विलासिनि

पदपरिचयः

  • विलासिनि = विलासवती, सम्बोदने
  • मुग्धवधूनिकरे
    • मुग्धवधूः = मुग्धा मनोहारिणी वधूः
    • मुग्धवधूनिकरे = मुग्धवधूनां निकरः समूहः यस्मिन् तत्, तस्मिन्
  • चन्दनचर्चितनीलकलेवरपीतवसनवनमाली
    • चर्चित = चन्दनादिना कृतलेपेदेहादौ । विशेषणम् ।
    • चन्दनचर्चितम् = चन्दनेन चर्चितम् ।
    • नीलकलेवरम् = नीलं च तत् कलेवरं शरीरम्
    • चन्दनचर्चितनीलकलेवरः = चन्दनचर्चितं नीलकलेवरं यस्य सः
    • पीतवसनः = पीतं वसनम् यस्य सः
    • वनमाली = वनमाला अस्य अस्ति इति
    • चन्दनचर्चितनीलकलेवरपीतवसनः = चन्दनचर्चितनीलकलेवरः च असौ पीतवसनः च
    • चन्दनचर्चितनीलकलेवरपीतवसनवनमाली = चन्दनचर्चितनीलकलेवरपीतवसनः च असौ वनमाली
  • केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली
    • केलिचलती = केलिषु चालती कम्पमाने द्वे
    • मणिकुण्डलम् = मणेः कुण्डलम् अथवा मनियुक्तं कुण्डलम्
    • केलिचलन्मणिकुण्डले = केलिचलती द्वे मणिकुण्डले
    • केलिचलन्मणिकुण्डलमण्डितम् = केलिचलन्मणिकुण्डलाभ्यां मण्डितम् अलङ्कृतम्
    • गण्डयुगम् = गण्डयोः कपोलयोः युगं युगलम्
    • केलिचलन्मणिकुण्डलमण्डितगण्डयुगः = केलिचलन्मणिकुण्डलमण्डितं गण्डयुगं यस्य सः
    • स्मितशाली = स्मितम् अस्य अस्ति इति
    • केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली = केलिचलन्मणिकुण्डलमण्डितगण्डयुगः च असौ स्मितशाली
  • केलिपरे = केलिः एव परं यस्य सः, तस्मिन्

Word Meaning

  • चर्चितः = Anointed, smeared, perfumed, scented

4.2 अष्टपदी

पीनपयोधरभारभरेण हरिं परिरभ्य सरागम्
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम्

पाठान्तरम्

परिरम्य

पदच्छेदः

पीन+पयस्+धर+भार+भरेण हरिम् परि+रभ्य स+रागम्
गोप+वधूः अनु+गायति काचित् उत्+अञ्चित+पञ्चम+रागम्

सन्धिः

अन्वयः

काचित् गोपवधूः पीनपयोधरभारभरेण सरागं हरिं परिरभ्य उदञ्चितपञ्चमरागम् अनुगायति ।

आकाङ्क्षा

  • अनुगायति
    • किम् अनुगायति ? उदञ्चितपञ्चमरागम्
    • का अनुगायति ? गोपवधूः
      • का गोपवधूः ? काचित्
    • किं कृत्वा अनुगायति ? परिरभ्य
      • कथं परिरभ्य ? सरागम्
      • कं परिरभ्य ? हरिम्
      • केन कारणेन परिरभ्य ? पीनपयोधरभारभरेण

पदपरिचयः

  • पीनपयोधरभारभरेण
    • पीनः = स्थूलः। विशेषणम् ।
    • पयोधरः = धरतीति धरः । पयसो दुग्धस्य जलस्य वा धरः ।
    • पीनपयोधरः = पीनः पयोधरः
    • पीनपयोधरभारः = पीनपयोधरयोः भारः
    • पीनपयोधरभारभरेण = पीनपयोधरभारस्य भरणम्, तेन
  • उदञ्चितपञ्चमरागम्
    • उदञ्चितः = ऊर्द्ध्वं गतः । उत् + अन्च् “अचिँगतौ याचने च” + क्त । विशेषणम् ।
    • पञ्चमरागः = पञ्चमः रागः अथवा पञ्चमाख्यः रागः ।
    • उदञ्चितपञ्चमरागम् = उदञ्चितः पञ्चमरागः, तम्
  • परिरभ्य = निर्भरम् आलिङ्ग्य । परि + रभ् “रभँ राभस्ये” + ल्यप् । लटि रभते । अयं धातुः प्रायः “आङ्” पूर्वकः एव प्रयुज्यते । अतः लटि आरभते ।

Word Meaning

  • उदञ्चितः = heightened

4.3 अष्टपदी

कापि विलासविलोलविलोचनखेलनजनितमनोजम्
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम्

पदच्छेदः

का अपि विलास+विलोल+वि+लोचन+खेलन+जनित+मनोजम् ध्यायति मुग्ध+वधूः अधिकम् मधु+सूदन+वदन+सरोजम्

सन्धिः

अन्वयः

का अपि मुग्धवधूः विलासविलोलविलोचनखेलनजनितमनोजं मधुसूदनवदनसरोजम् अधिकं ध्यायति।

आकाङ्क्षा

  • ध्यायति
    • कियत् ध्यायति ? अधिकम्
    • का ध्यायति ? मुग्धवधूः
      • का मुग्धवधूः ? का अपि
    • कं ध्यायति ? मधुसूदनवदनसरोजम्
      • कीदृशं मधुसूदनवदनसरोजम् ? विलासविलोलविलोचनखेलनजनितमनोजम्

पदपरिचयः

  • मुग्धवधूः
    • मुग्धः = मूढः । विशेषणम्
    • मुग्धवधूः = मुग्धा वधूः
  • विलासविलोलविलोचनखेलनजनितमनोजम्
    • विलासविलोलम् = विलासेन चेष्टाविशेषेण विलोलं चञ्चलम् । विशेषणम् ।
    • विलासविलोलविलोचने = विलासविलोले द्वे विलोचने ।
    • विलासविलोलविलोचनखेलनम् = विलासविलोलविलोचनयोः खेलनम् ।
    • विलासविलोलविलोचनखेलनजनितम् = विलासविलोलविलोचनखेलनेन जनितम् उत्पादितम् । विशेषणम् ।
    • विलासविलोलविलोचनखेलनजनितमनोजम् = विलासविलोलविलोचनखेलनजनितः मनोजः कामः येन तत्

Word Meaning

  • विलास- = playful action or gesture

4.4 अष्टपदी

कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले

पदच्छेदः

का अपि कपोल+तले मिलिता लपितुम् किम् अपि श्रुति+मूले चारु चुचुम्ब नितम्बवती दयितम् पुलकैः अनुकूले

सन्धिः

अन्वयः

का अपि नितम्बवती किम् अपि लपितुं श्रुतिमूले मिलिता पुलकैः अनुकूले कपोलतले दयितं चारु चुचुम्ब ।

आकाङ्क्षा

  • चुचुम्ब ।
    • कथं चुचुम्ब ? चारु
    • कं चुचुम्ब ? दयितम्
    • कुत्र चुचुम्ब ? कपोलतले
      • कथंभूते कपोलतले ? अनुकूले
      • कैः अनुकूले ? पुलकैः
    • का चुचुम्ब ? नितम्बवती
      • का नितम्बवती ? का अपि
      • कथंभूता नितम्बवती ? मिलिता
        • कुत्र मिलिता ? श्रुतिमूले
        • किमर्थं मिलिता ? लपितुम्
          • किं लपितुम् ? किम् अपि

पदपरिचयः

  • नितम्बवती
    • नितम्बः = स्त्रीकट्याः पश्चाद्भागः
    • नितम्बवती = प्रशस्तनितम्बा । नितम्ब+वतुप् प्रशंसायां मतुप् ।
  • लपितुम् = कथितुम्
  • श्रुतिमूले = श्रुतेः करणस्य मूले अन्ते
  • दयितम् = पतिः अथवा प्रियः, तम्
  • चुचुम्ब = चुम्ब् “चुबिँ वक्त्रसंयोगे” प.प., लिट्., अत्र प्र.पु., ए.व. । चुचुम्ब = लिट्., म.पु., ब.व. । चुचुम्ब = लिट्., उ.पु., ए.व. ।

Word Meaning

  • नितम्बवती = She who has beautiful hips (Apte)

4.5 अष्टपदी

केलिकलाकुतुकेन काचिदमुं यमुनाजलकूले
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण दुकूले

पदच्छेदः

केलि+कला+कुतुकेन च काचित् अमुम् यमुना+जल+कूले मञ्जुल+वञ्जुल+कुञ्ज+गतम् वि+चकर्ष करेण दुकूले

सन्धिः

अन्वयः

काचित् केलिकलाकुतुकेन च यमुनाजलकूले मञ्जुलवञ्जुलकुञ्जगतम् अमुं करेण दुकूले विचकर्ष ।

आकाङ्क्षा

  • विचकर्ष ।
    • कुत्र विचकर्ष ? दुकूले
    • केन विचकर्ष ? करेण
    • कं विचकर्ष ? अमुम्
      • कीदृशम् अमुम् ? मञ्जुलवञ्जुलकुञ्जगतम्
      • कुत्र मञ्जुलवञ्जुलकुञ्जगतम् ? यमुनाजलकूले
    • केन कारणेन विचकर्ष ? केलिकलाकुतुकेन च
    • का विचकर्ष ? काचित्

पदपरिचयः

  • विचकर्ष = वि + कृष्“कृषँ विलेखने”, प.प., लिट्., अत्र प्र.पु., ए.व. ।
    • लिट्., प्र.पु., चकर्ष, चकृषतुः, चकृषुः । चकर्ष = लिट्., उ.पु., ए.व. अपि ।
    • लटि., प्र.पु., कर्षति, कर्षतः, कर्षन्ति ।
  • दुकूले = क्षौमवसत्रे । दुकूलम् नपुं., स.वि., ए.व. ।
  • अमुम् = एतम् । अदस् सकारान्तः सर्वनामशब्दः, द्वि.वि., ए.व. । प्रथमा – असौ, अमू, अमी । द्वितीया – अमुम्, अमू, अमून्

Word Meaning

  • दुकूले = in the fine cloth

4.6 अष्टपदी

करतलतालतरलवलयावलिकलितकलस्वनवंशे
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे

पदच्छेदः

कर+तल+ताल+तरल+वलय+आवलि+कलित+कल+स्वन+वंशे रास+रसे सह+नृत्य+परा हरिणा युवतिः प्रशशंसे

अन्वयः

करतलतालतरलवलयावलिकलितकलस्वनवंशे रासरसे सहनृत्यपरा युवतिः हरिणा प्रशशंसे ।

आकाङ्क्षा

  • प्रशशंसे
    • केन प्रशशंसे ? हरिणा
    • का प्रशशंसे ? युवतिः
      • कथंभूता युवतिः ? सहनृत्यपरा
        • कस्मिन् विषये सहनृत्यपरा ? रासरसे
          • कीदृशे रासरसे ? करतलतालतरलवलयावलिकलितकलस्वनवंशे

पदपरिचयः

  • प्रशशंसे = प्र + शन्स् / शंस् “शन्सुँस्तुतौ” कर्मणि प्रयोगः । धातुः प.प., कर्मणि प्रयोगे आ.प. । लिट् कर्मणि प्रथमा – शशंसे, शशंसाते, शशंसिरे । लट् कर्मणि प्रथमा – शश्यते, शश्येते, शश्यन्ते । लट् कर्तरि प्रथमा – शंसति, शंसतः, शंसन्ति ।
  • करतलतालतरलवलयावलिकलितकलस्वनवंशे
    • करतलतालः = करतलयोः तालः
    • करतलतालतरलम् = करतलतालेन तरलं चलनम् । विशेषणम् ।
    • करतलतालतरलवलयः = करतलतालतरलः वलयः हस्तकटकः
    • करतलतालतरलवलयावलिः = करतलतालतरलवलयानाम् आवलिः श्रेणी
    • करतलतालतरलवलयावलिकलितम् = करतलतालतरलवलयावलिना कलितं मिश्रितम् । विशेषणम् ।
    • कलस्वम् = मधुरध्वनिः । विशेषणम् ।
    • कलस्वनवंशः = कलस्वनः वंशः ।
    • करतलतालतरलवलयावलिकलितकलस्वनवंशे = करतलतालतरलवलयावलिकलितः कलस्वनवंशः, तस्मिन्

Word Meaning

  • कलस्व = having a charming voice (as a bird) [Monier-Williams]

4.7 अष्टपदी

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम्
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम्

पदच्छेदः

श्लिष्यति काम् अपि चुम्बति काम् अपि काम् अपि रमयति रामाम् पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम्

अन्वयः

(हरिः) काम् अपि श्लिष्यति । काम् अपि चुम्बति । काम् अपि रामां रमयति । सस्मितचारुपरां पश्यति । अपरां वामाम् अनुगच्छति ।

आकाङ्क्षा

  • श्लिष्यति ।
    • कः श्लिष्यति ? (हरिः)
    • कां श्लिष्यति ? काम् अपि
  • चुम्बति ।
    • कां चुम्बति ? काम् अपि
  • रमयति ।
    • कां रमयति ? रामाम्
      • कीदृशीं रामाम् ? काम् अपि
    • पश्यति ।
      • कां पश्यति ? सस्मितचारुपराम्
    • अनुगच्छति ।
      • काम् अनुगच्छति ? वामाम्
        • कीदृशीं वामाम् ? अपराम्

पदपरिचयः

  • श्लिष्यति = आलिङ्गति । श्लिष् “श्लिषँ आलिङ्गने” प.प., लट्., प्र.पु., ए.व. । लटि. –श्लिष्यति श्लिष्यतः श्लिष्यन्ति ।
  • चुम्बति = चुम्ब् “चुबिँ वक्त्रसंयोगे”, प.प., लट्., प्र.पु., ए.व. । लटि. – चुम्बति, चुम्बतः, चुम्बन्ति
  • रमयति = रम्“रमुँ क्रीडायाम्” + णिच्, आ.प., लट्., प्र.पु., ए.व. । लटि. – रमते, रमेते, रमन्ते
  • रामाम् = उत्कृष्टस्त्रीविशेषःरामा, ताम् । स्त्री., द्वि.वि., ए.व. ।
  • वामाम् = सामान्या स्त्री वामा, ताम् । स्त्री., द्वि.वि., ए.व. ।
    • वामा = वामस्वभावा, कोपवती
  • अपराम् = अन्या । अपर शब्दः त्रि. । अपरा शब्दः, स्त्री., द्वि.वि., ए.व. ।

Word Meaning

4.8 अष्टपदी

श्रीजयदेवभणितमिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८ ॥

पाठान्तरम्

कवेरिदमद्भुत

पदच्छेदः

श्रीजयदेव+भणितम् इदम् अद्भुत+केशव+केलि+रहस्यम् वृन्दावन+विपिने ललितम् वितनोतु शुभानि यशस्यम्

अन्वयः

श्रीजयदेवभणितम् वृन्दावनविपिने ललितं यशस्यम् इदम् अद्भुतकेशवकेलिरहस्यम् शुभानि वितनोतु ।

आकाङ्क्षा

  • वितनोतु ।
    • कानि (कर्मपदं) वितनोतु ?
    • किं (कर्तृपदं) वितनोतु ? इदम् अद्भुतकेशवकेलिरहस्यम्
      • कीदृशम् अद्भुतकेशवकेलिरहस्यम् ? यशस्यम्
      • पुनः कीदृशम् अद्भुतकेशवकेलिरहस्यम् ? ललितम्
        • कुत्र ललितम् ? वृन्दावनविपिने
      • पुनः कीदृशम् अद्भुतकेशवकेलिरहस्यम् ? श्रीजयदेवभणितम्

पदपरिचयः

  • वितनोतु = विस्तारयतु । वि + तन् “तनुँ विस्तारे” प.प., लोट्., प्र.पु., ए.व. । लटि – तनोति, तनुतः, तन्वन्ति । लोटि – तनोतु / तनुतात्, तनुताम्, तन्वन्तु

Word Meaning

  • अद्भुतकेशवकेलिरहस्यम् = The astonishing (अद्भुत) mystery (रहस्य) of Keshava’s (केशव) amorous sports (केलि)

11 श्लोकः

विश्वेषामनुरञ्जने जनयन्नानन्दमिन्दीवर
श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम्
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः
शृङ्गारः सखि मूर्तिमानिव मधौ मुग्धो हरिः क्रीडति ११

पदच्छेदः

विश्वेषाम् अनु+रञ्जनेन जनयन् आनन्दम् इन्दीवर+श्रेणी+श्यामल+कोमलैः उप+नयन् अङ्गैः अनङ्ग+उत्सवम् स्व+च्छन्दम् व्रज+सुन्दरीभिः अभितः प्रति+अङ्गम् आलिङ्कितः शृङ्गारः सखि मूर्तिमान् इव मधौ मुग्धः हरिः क्रीडति

सन्धिः

अन्वयः

(हे) सखि । अनुरञ्जनेन विश्वेषाम् आनन्दं जनयन्, इन्दीवरश्रेणीश्यामलकोमलैः अङ्गैः अनङ्गोत्सवम् उपनयन्, अभितः व्रजसुन्दरीभिः स्वच्छन्दं प्रत्यङ्गम् आलिङ्कितः मूर्तिमान् शृङ्गारः इव मधौ मुग्धः हरिः क्रीडति ।

आकाङ्क्षा

  • (हे) सखि ।
  • क्रीडति
    • कः क्रीडति ? हरिः
      • कीदृशः हरिः ? मुग्धः
      • किं कुर्वन् हरिः? जनयन्
        • कं जनयन् ? आनन्दम्
          • केषां आनन्दम् ? विश्वेषाम्
        • केन जनयन् ? अनुरञ्जनेन
      • पुनः किं कुर्वन् हरिः? उपनयन्
        • कुत्र उपनयन् ? अनङ्गोत्सवम्
        • कैः उपनयन् ? अङ्गैः
          • कीदृशैः अङ्गैः ? इन्दीवरश्रेणीश्यामलकोमलैः
        • कथं भूतः सन् हरिः ? आलिङ्कितः
          • किम् आलिङ्कितः ? प्रत्यङ्गम्
          • कथम् आलिङ्कितः ? स्वच्छन्दम्
          • काभिः आलिङ्कितः ? व्रजसुन्दरीभिः
          • कुत्र आलिङ्कितः ? अभितः
        • कस्मिन् क्रीडति ? मधौ
        • कः इव भूत्वा हरिः ? मूर्तिमान् इव
          • कः मूर्तिमान् ? शृङ्गारः

पदपरिचयः

  • मुग्धः = सुन्दरः
  • इन्दीवरश्रेणीश्यामलकोमलैः
    • इन्दीवरम् = नीलोत्पलम्
    • इन्दीवरश्रेणी = इन्दीवराणां श्रेणी
    • इन्दीवरश्रेणीश्यामलकोमलैः = इन्दीवरश्रेणी इव श्यामला च कोमला च, तैः
  • मधौ = वसन्ते
  • अनङ्गोत्सवम् = कामस्य उल्लासम्
  • स्वच्छन्दम् = यथा स्यात् तथा

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

 

Word Meaning

  • स्वच्छन्दम् = uncontrolled, at will.

12 श्लोकः

नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशादिवेशाचलं
प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः
किं स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया
दुन्मीलन्ति कुहूः कुहूरिति कलोत्तालाः पिकानां गिरः १२

पाठान्तरम्

अद्योत्सङ्ग

पदच्छेदः

नित्य+उत्सङ्गवसद्भुजङ्गकवलक्लेशात् इव ईशाचलम् प्रालेयप्लवनेच्छया अनुसरति श्रीखण्डशैलानिलः किम् च स्निग्ध+रसाल+मौलि+मुकुलानि आलोक्य हर्ष+उदयात् उन्मीलन्ति कुहूः कुहूः इति कलोत्तालाः पिकानाम् गिरः

सन्धिः

अन्वयः

नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशात् प्रालेयप्लवनेच्छया इव श्रीखण्डशैलानिलः ईशाचलं अनुसरति । किं च । पिकानां कुहूः कुहूः इति स्निग्धरसालमौलिमुकुलानि आलोक्य हर्षोदयात् कलोत्तालाः गिरः उन्मीलन्ति ।

आकाङ्क्षा

  • अनुसरति
    • कः अनुसरति ? श्रीखण्डशैलानिलः
    • कम् अनुसरति ? ईशाचलम्
    • कया इव अनुसरति ? प्रालेयप्लवनेच्छया इव
      • कस्मात् प्रालेयप्लवनेच्छया ? नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशात्
    • उन्मीलन्ति
      • कः उन्मीलन्ति ? गिरः
        • कीदृशः गिरः ? कलोत्तालाः
          • किमर्थं कलोत्तालाः ? हर्षोदयात्
          • किं कृत्वा हर्षोदयात् ? आलोक्य
            • कानि आलोक्य ? स्निग्धरसालमौलिमुकुलानि

पदपरिचयः

  • श्रीखण्डशैलानिलः = मलयपर्वतसम्बन्धी वायुः
  • ईशाचलम् = रुद्रस्य अचलं, हिमाचलम्
  • नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशात्
    • नित्योत्सङ्गः = नित्यम् उत्सङ्गः
    • नित्योत्सङ्गवसन् = नित्योत्सङ्गे क्रोडे वसन्
    • नित्योत्सङ्गवसद्भुजङ्गकः = नित्योत्सङ्गवसन् भुजङ्गः
    • नित्योत्सङ्गवसद्भुजङ्गकवलम् = नित्योत्सङ्गवसद्भुजङ्गानां कवलम् आश्लेषः
    • नित्योत्सङ्गवसद्भुजङ्गकवलक्लेशात् = नित्योत्सङ्गवसद्भुजङ्गकवलयात् क्लेशः, तस्मात्
  • प्रालेयप्लवनेच्छया
    • प्रालेयः = तुषारः, हिमम्
    • प्रालेयप्लवनम् = प्रालेये प्लवनं स्नानम्
    • प्रालेयप्लवनेच्छया = प्रालेयप्लवनस्य इच्छा, तया
  • स्निग्धरसालमौलिमुकुलानि
    • स्निग्धरसालाः = स्निग्धाः रसालाः आम्रवृक्षाः ।
    • स्निग्धरसालमौलयः = स्निग्धरसालानां मौलयः अग्रभागः ।
    • स्निग्धरसालमौलिमुकुलानि = स्निग्धरसालमौलिषु मुकुलानि
  • उन्मीलन्ति = प्रादुर्भवन्ति

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु
नि त्यो त्स ङ्ग द्भु ङ्ग क्ले शा दि वे शा लं
प्रा ले प्ल ने च्छ या नु ति श्री ण्ड शै ला नि लः
किं स्नि ग्ध सा मौ लि मु कु ला न्या लो क्य र्षो या
दु न्मी न्ति कु हूः कु हू रि ति लो त्ता लाः पि का नां गि रः

 

Word Meaning

  • उत्सङ्गः = Hollow, Cavity. Here the hollows of the sandle wood trees.
  • कवलम् = swallowing, here, the contact.Here the suffering of the separated lovers is suggested to be increased by the wind in which the snake’s poisonous breath is mixed.
  • कलोत्तलाः = sweet (कल) and loud (उत्ताल)
  • उन्मीलन्ति = they manifest

13 श्लोकः

रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवा
मभ्यर्णं परिरम्य निर्भरमुरः प्रेमान्धया राधया
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुति
व्याजादुद्भटचुम्बितः स्मितमनोहरी हरिः पातु वः १३
इति श्रीजयदेवकृतौ गीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः

पदच्छेदः

रास+उल्लास+भरेण विभ्रम+भृताम् आभीर+वाम+भ्रुवाम् अभ्यर्णं परिरम्य निर्भरम् उरः प्रेमान्धया राधया साधु त्वद्वदनम् सुधामयम् इति व्याहृत्य गीतस्तुतिव्याजात् उद्भटचुम्बितः स्मितमनोहरी हरिः पातु वः

सन्धिः

अन्वयः

रासोल्लासभरेण विभ्रमभृताम् आभीरवामभ्रुवाम् अभ्यर्णं निर्भरम् उरः परिरम्य प्रेमान्धया राधया त्वद्वदनं साधु सुधामयम् इति व्याहृत्य गीतस्तुतिव्याजात् उद्भटचुम्बितः स्मितमनोहरी हरिः पातु वः

आकाङ्क्षा

  • पातु
    • कान् पातुः ? वः
    • कः पातुः ? हरिः
      • कीदृशः हरिः ? स्मितमनोहरी
      • किमर्थं स्मितमनोहरी (अथवा पुनः कथंभूतः हरिः) ? (यतः) उद्भटचुम्बितः
        • कया उद्भटचुम्बितः ? राधया
          • कथंभूतया राधया ? प्रेमान्धया
        • किं कृत्वा उद्भटचुम्बितः ? परिरम्य
          • किं परिरम्य ? उरः
          • कथं परिरम्य ? निर्भरम्
          • कुत्र परिरम्य ? अभ्यर्णम्
            • कासाम् अभ्यर्णम् ? आभीरवामभ्रुवाम्
              • कीदृशीनाम् आभीरवामभ्रुवाम् ? विभ्रमभृताम्
                • केन कारणेन विभ्रमभृताम् ? रासोल्लासभरेण
              • पुनः किं कृत्वा उद्भटचुम्बितः ? व्याहृत्य
                • कस्मात् व्याहृत्य ? गीतस्तुतिव्याजात्
                • किमिति व्याहृत्य ? साधु सुधामयम् इति
                  • किं सुधामयम् ? त्वद्वदनम्

पदपरिचयः

  • वः = युष्मान् । युष्मद् शब्दः, त्रि., अत्र द्वि.वि., ब.व. । द्वितीया – त्वाम्/त्वा, युवाम्/वाम्, युष्मान्/वः । चतुर्थी – तुभ्यम्/ते, युवाभ्याम्/वाम्, युष्मभ्यम्/वः । षष्ठी – तव/ते, युवयोः/वाम्, युष्माकम्/वः
  • उद्भटचुम्बितः = उद्भटं तीव्रं चुम्बितः
  • परिरम्य = परि + रम्“रमुँ क्रीडायाम्” + ल्यप् । लटि. – रमते, रमेते, रमन्ते
  • निर्भरम् = अतिशयेन, गाढम्
  • अभ्यर्णम् = निकटम्, समीपे
  • आभीरवामभ्रुवाम्
    • आभीरः = गोपालः । आभीरी = गोपस्त्री ।
    • वामभ्रू = महिला, ललना
  • आभीरवामभ्रुवाम् = आभीराणां वामभ्रू, तासाम् । स्त्री., ष.वि., ब.व. । प्रथमा = वामभ्रूः, वामभ्रुवौ, वामभ्रुवः । षष्ठी = वामभ्रुवाः / वामभ्रुवः, वामभ्रुवोः, वामभ्रूणाम् / वामभ्रुवाम् ।
  • विभ्रमभृताम्
    • विभ्रमः = स्त्रीणाम् श्रृङ्गारभावजाः क्रिया, हावभावः ।
    • विभ्रमभृताम् = हावभावसमन्विताम् । स्त्री. ष.वि., ब.व.
  • व्याहृत्य = वि + आङ् + हृ “हृञ्हरणे” + ल्यप् । लटि – हरति, हरतः, हरन्ति ।

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः pause।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

Word Meaning

  • विभ्रमः = One of the classes of feminine actions proceeding from the passion of love, flurry, confusion.

Appendix – Dhyana shlokas

॥ श्री गोपालक ध्यानम् ॥

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम्
यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः

॥ श्री जयदेव ध्यानम् ॥

राधामनोरमरमावररासलीलगानामृतैकभणितं कविराजराजम्
श्रीमाधवार्च्चनविधवनुरागसद्मपद्मावतीप्रियतमं प्रणतोस्मि नित्यम्

श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम्
लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः
तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम्

 

References (listed here, with a deep sense of gratitude):

Renderings

Other References

https://sa.wikipedia.org/wiki/छन्दांसि

Thanks to my teachers and friends who have been supporting me in this endeavour – Sri M.V. Mohan, Smt. Vidhya Ramesh, Smt. Lalitha, Smt. Harini, Sri. V. Anand, Sri B. Neelesh; Sri. P.N. Nambhoodiri

More videos:

  • 1st Ashtapadi (pralaya payodhi) Dance – Dashavatar

https://www.youtube.com/watch?v=YMOMEHOx2_g

https://www.youtube.com/watch?v=ZYUkPBc8Xak

  • 4th – chandana charchita 989294

https://www.youtube.com/watch?v=2B4RSEq1EKE
https://www.youtube.com/watch?v=vRYqlCOdZL0