(Video) Bhoja’s ChampuRamayanam – Sundarakandam – Vidhya Ramesh

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै |
King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai. https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ contains the detailed notes of the shlokas covered in the sessions. Here is the material in a word document Bhoja Raja_s Champu Ramayanam – Sundarakanda – Anvaya
Note – WORK IN PROGRESS – This is being updated after each session

भोजचम्पूरामायणम्

श्रीः

अथ सुन्दरकाण्डम्

ततो हनूमान्दशकण्ठनीतां सीतां विचेतुं पथि चारणानाम् ।

महेन्द्रशैलस्य खगेन्द्रवेगः प्रस्थादुदस्थात्प्रथमानवेगः ॥१॥

पदच्छेदः

ततः, हनूमान्, दशकण्ठनीताम्, सीताम्, विचेतुम्, पथि, चारणानाम्,

महेन्द्रशैलस्य, खगेन्द्रवेगः, प्रस्थात्, उदस्थात्, प्रथमानवेगः ।

आकाङ्क्षा

  • उदस्थात् (उत्थितवान्)
    • कः ? हनूमान्
      • कीदृशः हनूमान् ? खगेन्द्रवेगः
      • पुनः कीदृशः हनूमान् ? प्रथमानवेगः
    • किं कर्तुम् उदस्थात् ? विचेतुम्
      • कां विचेतुम् ? सीताम्
        • कीदृशीं सीताम् ? दशकण्ठनीताम्
      • कुत उदस्थात् ? प्रस्थात्
        • कस्य प्रस्थात् ? महेन्द्रशैलस्य
      • कुत्र उदस्थात् ? पथि
        • केषां पथि ? चारणानाम्

अन्वयः

ततः खगेन्द्रवेगः प्रथमानवेगः हनूमान् दशकण्ठनीतां सीतां विचेतुं महेन्द्रशैलस्य प्रस्थात् चारणानां पथि उदस्थात् ।

प्रतिपदार्थः

  • ततः = तदनन्तरम्
  • खगेन्द्रवेगः = गरुडः इव वेगवान्
  • प्रथमानवेगः = प्रसिद्धवेगः / वर्धमानवेगः (यस्य वेगः क्रमशः वर्धते)
  • हनूमान् = आञ्जनेयः
  • दशकण्ठनीताम् = रावणापहृताम्
  • सीताम् = जानकीम्
  • विचेतुम् = अन्वेष्टुम्
  • महेन्द्रशैलस्य = महेन्द्रगिरेः
  • प्रस्थात् = शिखरात्
  • चारणानाम् = देवयोनिविशेषाः / गन्धर्व-विद्याधर-चारणादयः
  • पथि = मार्गे
  • उदस्थात् = उत्थितवान् ।

Word meaning

  • ततः = After that
  • हनूमान् = Anjaneya
  • प्रथमानवेगः = whose speed (वेग) keeps increasing (प्रथमान)
  • खगेन्द्रवेगः = who is swift (वेग) like Garuda (खगेन्द्र), the lord (इन्द्र) of the birds (खग)
  • उदस्थात् = rose up
  • विचेतुम् = to find
  • सीताम् = Sita
  • दशकण्ठनीताम् = who has been taken away (नीत) by Ravana, the ten (दश) headed (कण्ठ literally, neck) one
  • प्रस्थात् = from the peak
  • महेन्द्रशैलस्य = of the Mahendra (महेन्द्र) mountain (शैल)
  • पथि = in the path
  • चारणानाम् = of the demi-gods

भावार्थः

सम्पातितः सङ्केतं च जाम्बवतः प्रोत्साहनं च प्राप्य सीतान्वेषणाय सागरम् उल्लङ्घ्य लङ्कां प्रति गन्तव्यम् इति निश्चित्य हनूमान् महेन्द्रगिरेः शिखरं प्राप्तवान् । यस्य वेगः गरुडवेगः इव लोके प्रथितः सः हनूमान् गिरिशिखरात् आकाशे प्लवनाय उत्थितवान् ।

पदविवरणम्

  • खगेन्द्रवेगः
    • खगानाम् इन्द्रः खगेन्द्रः
    • खगेन्द्रवेगः खगेन्द्रस्य वेगः इव वेगः यस्य तथोक्तः
  • प्रथमानवेगः = प्रथमानः वेगः यस्य सः
  • हनूमान् = हनू अस्य स्तः इति
  • दशकण्ठनीतम्
    • दशकण्ठः = दश कण्ठाः यस्य सः
    • दशकण्ठनीताम् = दशकण्ठेन नीता, ताम्
  • विचेतुम् = वि + चि “चिञ्चयने” धातु + तुमुन्
  • महेन्द्रशैलस्य = महेन्द्रः इति शैलः, तस्य
  • चारणानाम् = प्रचारयति नृत्यगीतादिविद्यां तज्जन्यकीर्तिं वा इति चारणः – इति हलायुधकोशः
  • उदस्थात् = उत् + स्था “ष्ठागतिनिवृत्तौ” लुङ्, प्र.पु., ए.व. (अस्थात् अस्थाताम् अस्थुः)

तदानीमुदन्वदुल्लङ्घनदृढतरनिहितचरणनिष्पीडनं सोढुमक्षमः क्ष्माभृदेष निःशेषनिःसरन्निर्झरौघतया निरन्तरनिष्पतद्वाष्पवर्ष इव, इतस्ततो विततजीमूतवृन्दतया पारिप्लवशिथिलधम्मिल्ल इव, संत्रस्यमानकुञ्जरयूथतया संजातश्वयथुरिव, साध्वसधावमानहरिणगणचरणखरतरखुर-कोटिपाटनोद्धूतधातुधूलीपालिपाटलितविकटकटकतया क्षरितशोणित इव, तत्क्षणप्रबुद्धकण्ठीरवमुखरितकन्दरतया कृताक्रन्द इव, परिसरगह्वरनिबि-रीसनिःसृतसरीसृपतया निर्गलितान्त्रमालइव, घूर्णमानतरुविटपकोटि-ताडितजलदवृन्दस्यन्दितसीकरनिकरकोरकिताकारतया समुपजातस्वेद इव, स्फटिकतटोपलपतनदलितकीचकसुषिरसंमूर्छत्पवनफूत्कारपरिपूरितगगनतया प्रवर्धमानोर्ध्वश्वास इव वचसामविषयं दौःस्थ्यमभजत

पदच्छेदः

तदानीम्, उदन्वदुल्लङ्घन-दृढतर-निहितचरण-निष्पीडनम्, सोढुम्, अक्षमः, क्ष्माभृत्, एषः, निःशेष-निःसरन्निर्झरौघतया, निरन्तर-निष्पतद्-बाष्पवर्षः, इव, इतस्ततः, वितत-जीमूतवृन्दतया, पारिप्लव-शिथिल-धम्मिल्लः, इव, संत्रस्यमान-कुञ्जरयूथतया, संजातश्वयथुः, इव, साध्वसधावमान-हरिणगण-चरणखरतर-खुरकोटि-पाटनोद्धूत-धातुधूलीपाली-पाटलित-विकट-कटकतया, क्षरितशोणितः, इव, तत्क्षणप्रबुद्ध-कण्ठीरव-मुखरित-कन्दरतया, कृताक्रन्दः, इव, परिसर-गह्वर-निबिरीस-निःसृत-सरीसृपतया, निर्गलितान्त्रमालः, इव, घूर्णमान-तरुविटपकोटि-ताडित-जलदवृन्द-स्यन्दित-सीकरनिकर-कोरकिताकारतया, समुपजात-स्वेदः, इव, स्फटिकतटोपलपतन-दलित-कीचक-सुषिर-संमूर्छत्-पवन-फूत्कार-परिपूरित-गगनतया, प्रवर्धमानोर्ध्वश्वासः, इव, वचसाम्, अविषयम्, दौःस्थ्यम्, अभजत ।

अन्वयः प्रतिपदार्थश्च

  • अभजत [ प्राप्तवान् ]
    • कः अभजत ? क्ष्माभृत् [ क्ष्मा = पृथ्वी, भृत् = यः धरति, भूधरः, अत्र महेन्द्रपर्वतः ]
    • काम् अभजत ? दौःस्थ्यम् (दुरवस्थाम्)
      • कीदृशीं दौःस्थ्यम् ? अविषयम् (अशक्यम्)
        • कासाम् अविषयम् ? वचसाम् (वक्तुम्)
      • कदा अभजत ? तदानीम् [ यदा हनूमान् महेन्द्रगिरेः शिखरात् आकाशमार्गे प्लवनं कर्तुम् उत्थितवान् ]
      • कीदृशः सन् अभजत ? अक्षमः सन् (असमर्थः)
        • किं कर्तुम् अक्षमः ? सोढुम्
          • किं सोढुम् ? उदन्वदुल्लङ्घन-दृढतर-निहित-चरण-निष्पीडनम् [ सागरस्य उल्लङ्घनसमये हनूमता बलात् स्थापिताभ्यां चरणाभ्यां यत् निष्पीडनं सञ्जातं तत् | उदन्वान् = सागरः ; निहित = स्थापित ; निष्पीडन = विमर्दन (pressing) ]
        • कीदृशः इव भासमानः क्ष्माभृत् ? निरन्तर-निष्पतत्-बाष्पवर्षः इव [ पीडाम् असहमानस्य पर्वतस्य अश्रुमोचनम् इव प्रतीयते | बाष्पः = अश्रु ]
          • केन कारणेन तादृशः इव भासते ? निःशेष-निःसरत्-निर्झरौघतया [ समस्तनिर्झराः युगपत् उद्वेगेने यत् निर्गच्छन्ति, पीडाम् असहमानस्य पर्वतस्य अश्रुमोचनम् इव तत् प्रतीयते | निःशेष = समस्त ; निःसरत् = ये निःसरन्तः सन्ति ते; ओघः = प्रवाहः ]
        • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? पारिप्लव-शिथिल-धम्मिल्लः इव [ परिप्लव = तरल = चञ्चल ; शिथिल = मन्दबन्धन; धम्मिल्लः = बद्धः केशपाशः ]
          • केन कारणेन तादृशः इव भासते ? वितत-जीमूत-वृन्दतया [ विकीर्णाः मेघसमूहः | वितत = विकीर्ण ; जीमूतः = मेघः ; वृन्दम् = समूहः ]
            • कुत्र विततम् ? इतस्ततः (अत्र तत्र) [ मेघसमूहः अत्र तत्र विकीर्णः भवति तत् मन्ये पर्वतस्य केशपाशः तरलः शिथिलीभूतः इव ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? संजातश्वयथुः इव [ श्वयथुः = शोथः / उच्छूनता ; ]
            • केन कारणेन तादृशः इव भासते ? संत्रस्यमान-कुञ्जरयूथतया [ संत्रस्यमानः = भयम् अनुभवन्तः ; कुञ्जरः = गजः ; यूथः = गणः ; भीतः गजागणः यत् बहिरागच्छति तत् मन्ये पर्वतस्य गात्रम् उच्छूनम् इव | अङ्गेषु शोथः सञ्जातः इव ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? क्षरितशोणितः इव [ क्षरित = क्षर् सञ्चलने + क्त, स्रवति, निःसरति ; शोणितम् = रक्तम्]
            • केन कारणेन तादृशः इव भासते ? साध्वस-धावमान-हरिणगण-चरण-खरतर-खुरकोटि-पाटनोद्धूत-धातुधूली-पाली-पाटलित-विकट-कटकतया [ हरिणाः भयेन पलायमानाः सन्ति । तेषां निशित-पादाग्रभागैः पर्वतभूमेः विदारणं भवति । तस्मात् उत्थितैः सिन्दूरादि-धातुकणैः पर्वतस्य निम्नोन्नत-भूभागः रक्तरञ्जितः यत् भवति पर्वतनितम्बात् निःसृतरक्तप्रवाहः इव तत् प्रतीयते । साध्वसम् = भयम् ; खरतर = तीक्ष्णतर / निशिततर (sharp edged); कोटिः = अग्रभागः ; खुरकोटिः = शफः / गवां मृगाणां वा पादाग्रभागः (hoof) ; पाटनम् = विदारणम् (tearing apart) ; उद्धूत = उत्थित ; पाली = पङ्क्तिः ; पाटलित = अरुणित ; विकट = निम्नोन्नत (uneven) ; कटकः = पर्वतस्य पक्षे नितम्बः गिरिजालम् (mountainous ridge) भवति, पुरुषस्य पक्षे नितम्बः कट्याः पृष्ठभागः भवति ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? कृताक्रन्दः इव [ आक्रन्दः = उच्चैः रोदनम् / चीत्कारः ]
            • केन कारणेन तादृशः इव भासते ? तत्क्षणप्रबुद्ध-कण्ठीरव-मुखरितकन्दरतया [ जागरितानां सिंहानां गर्जनं गह्वरेषु प्रतिध्वनितं भवति मन्ये तत् पीडां सोढुम् अशक्तस्य पर्वतस्य चीत्कारः इति । प्रबुद्ध = जागरित ; कण्ठीरवः = सिंहः ; मुखरित = शब्दायमान ; कन्दरः = गह्वरम् / गुहा ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? निर्गलितान्त्रमालः इव [ निर्गलितान्त्रमालः = निर्गलिता आन्त्रमाला यस्मात् सः, आन्त्रमाला = अन्त्र-संबन्धा माला ; अन्त्रम् = गुदः (intestines) ]
            • केन कारणेन तादृशः इव भासते ? परिसरगह्वरनिबिरीस-निःसृतसरीसृपतया [ परिसरकन्दरेभ्यः असङ्ख्याकाः सर्पाः निर्गताः मन्ये गिरेः उदरस्था आन्त्रमाला बहिरागता इव | परिसर = परीवृत ; कन्दरः = गह्वरम् / गुहा ; निबिरीसम् = निबिडम् / घनम्; निःसृत = अपगत; सरीसृपाः = सर्पादयः, सर्पन्ति इति सरीसृपाः (reptiles) ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? समुपजात-स्वेदः इव [ स्वेदः = स्वेदजलम् (sweating) ]
            • केन कारणेन तादृशः इव भासते ? घूर्णमान-तरु-विटपकोटि-ताडित-जलदवृन्द-स्यन्दित-सीकर-निकर-कोरकिताकारतया [ चक्राकारेण चलतां वृक्षशाखानाम् अग्रभागैः मेघाः यत् ताड्यन्ते तस्मात् मेघवृन्दतः जलबिन्दवः निःस्यन्दन्ति । तेषां जलबिन्दूनाम् आवरणेन पर्वतः स्वेदलिप्तगात्रः इव दृश्यते । घूर्णमानः = परिभ्रमन् ; विटपः = शाखा ; विटपकोटिः = शाखाग्रभागः ; जलदवृन्दम् = मेघसमूहः / मेघनिवहः ; स्यन्दित = प्रवहित ; सीकर = जलबिन्दु ; निकरः = सन्दोहः / समूहः / निवहः / निचयः / वृन्दः / गणः ; सीकरनिकरः = जलबिन्दुसन्दोहः ; कोरकित = मुकुलित (budded) ; आकारः = शरीरम् ]
          • पुनः कीदृशः इव भासमानः क्ष्माभृत् ? प्रवर्धमानोर्ध्व-श्वासः इव
            • केन कारणेन तादृशः इव भासते ? स्फटिक-तटोपल-पतन-दलित-कीचकसुषिर-संमूर्छत्-पवन-फूत्कार-परिपूरितगगनतया [ स्फटिकमयशिखरतः पतन्तः प्रस्तराः वंशान् (वेणुविशेषान्) निर्दलन्ति । तस्मात् तेषु वंशदण्डेषु छिद्राणि जायन्ते । छिद्रेषु समीराः प्रसरन्ति । तेभ्यः छिद्रेभ्यः पवननिर्गमनकाले फूत्कारः यद् गगनं व्याप्नोति तत् महेन्द्रशैलस्य निःश्वासः इव । स्फटिकः = स्फटिकमयपर्वतः ; स्फटिकतट = स्फटिकमयपर्वतशिखर ; उपलः = शिलाखण्डः ; दलित = सम्मर्दित (crushed) ; कीचक = वंशः (bamboo) ; सुषिरम् = छिद्रम् (perforated) ; सम्मूर्छत् = प्रसरत्, प्रविशत् ; फूत्कार = निश्वासस्य शब्दः ; परिपूरित = पूरित ; गगन = आकाशः ]

Word Meaning

  • तदानीम् = At that time
  • उदन्वदुल्लङ्घन-दृढतर-निहितचरण-निष्पीडनम् = The pressure (निष्पीडन) caused due to the placement (निहित) of the feet (चरण) in a strong way (दृढतर) when Hanuman crossed (ल्लङ्घन) the ocean (उदन्वत्)
  • सोढुम् = to tolerate
  • अक्षमः = One who is incapable
  • क्ष्माभृत् = Mahendra Mountain, that which upholds(भृत्) the earth (क्ष्मा)
  • एषः = This one
  • निःशेष-निःसरन्निर्झरौघतया = due to the flow (ओघ) of the waterfalls (निर्झर) that are flowing out (निःसरत्) completely (निःशेष)
  • निरन्तर-निष्पतद्-बाष्पवर्षः = the mountain is incessantly (निरन्तर) shedding (निष्पतत्) the rains (वर्ष) of tears (बाष्प)
  • इव = as though
  • इतस्ततः = here and there
  • वितत-जीमूत-वृन्दतया = Due to the spreading of the clusters of clouds
  • पारिप्लव-शिथिल-धम्मिल्लः = the mountain has its loosened (शिथिल) hair (धम्मिल्ल) moving up and down (पारिप्लव)
  • इव = as though
  • संत्रस्यमान-कुञ्जर-यूथतया = Due to the frightened (संत्रस्यमान) herds (यूथ) of elephants (कुञ्जर) (being seen on the mountain)
  • संजात-श्वयथुः = swelling (श्वयथु) has come up (संजात) in the mountain
  • इव = as though
  • साध्वस-धावमान-हरिणगण-चरणखरतर-खुरकोटि-पाटनोद्धूत-धातुधूलीपाली-पाटलित-विकट-कटकतया = The scared (साध्वस) herds (गण) of deer (हरिण) are running (धावमान). Since they place the front parts of their hooves (खुरकोटि) of their sharp edged (खरतर) feet (चरण), the ground tears (पाटन) The series (पाली) of dust particles (धूली) of the minerals (धातु) rise up (उद्धूत). The uneven (विकट) mountain ridges (कटक) have been reddened (पाटलित) by these minerals.
  • क्षरितशोणितः = the mountain is oozing out (क्षरित) blood (शोणित)
  • इव = as though
  • तत्क्षणप्रबुद्ध-कण्ठीरव-मुखरित-कन्दरतया = due to the caves’ (कन्दर) echoing (मुखरित) of the sound made by the lions (कण्ठीरव) that woke up (प्रबुद्ध) just then (तत्क्षण)
  • कृताक्रन्दः = the mountain which made (कृत) a wailing sound (आक्रन्द)
  • इव = as though
  • परिसर-गह्वर-निबिरीस-निःसृत-सरीसृपतया = Since the snakes and the other reptiles (सरीसृप) were coming out (निःसृत) in huge numbers (निबिरीस), out of the surrounding (परिसर) caves (गह्वर)
  • निर्गलितान्त्रमालः = The garland of intestines (आन्त्रमाला) have come out (निर्गलित) of the mountain
  • इव = as though
  • घूर्णमान-तरुविटपकोटि-ताडित-जलदवृन्द-स्यन्दित-सीकरनिकर-कोरकिताकारतया = The top portion (कोटि) of the branches (विटप) of the trees (तरु) are swiftly shaking (घूर्णमान). They hit (ताडित) the cluster (वृन्द) of clouds (जलद). So the flowing (स्यन्दित) collection (निकर) of water droplets (सीकर) budded (कोरकित) in its body (आकार). Due to this.
  • समुपजात-स्वेदः = the sweat droplets (स्वेद) have arisen (समुपजात) in the mountain
  • इव = as though
  • स्फटिकतटोपलपतन-दलित-कीचक-सुषिर-संमूर्छत्-पवन-फूत्कार-परिपूरित-गगनतया = The stones (उपल) were falling (पतन) from the top (तट) of the crystal mountain (स्फटिक). The bamboo trees (कीचक) were pressed (दलित) by these stones and got perforated (सुषिर). The sky (गगन) was filled (परिपूरित) with the hissing sound (फूत्कार) of the air (पवन) that was penetrating (सम्मूर्छत्) these perforations on the bamboo trees.
  • प्रवर्धमानोर्ध्वश्वासः = The mountain was taking (प्रवर्धमान) a deep breath (ऊर्ध्वश्वास)
  • इव = as though
  • वचसाम् = for being expressed in words
  • अविषयम् = incapable
  • दौःस्थ्यम् = the pathetic condition
  • अभजत = experienced

Some Sandhis within the samastapadams

  • उदन्वदुल्लङ्घन = उदन्वत्+उल्लङ्घन
  • निःसरन्निर्झरौघतया = निःसरत्+निर्झर+ओघतया
  • पाटनोद्धूतधातु = पाटन+उद्धूतधातु
  • कृताक्रन्दः = कृत+आक्रन्दः
  • निर्गलितान्त्रमालः = निर्गलित+आन्त्रमालः
  • कोरकिताकारतया = कोरकित+आकारतया
  • स्फटिकतटोपलपतन = स्फटिकतट+उपलपतन
  • प्रवर्धमानोर्ध्वश्वासः = प्रवर्धमान+ऊर्ध्वश्वासः

कृत्वा मारुतिलङ्घनोत्थितरयात्तत्रानुयात्रां ततः

पर्यायात्पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः ।

मध्येवारिनिधि प्रकाशितशिखा सेतोः कृते भाविनः

सूत्रन्यासनिखातशङ्कुनिवहभ्रान्तिं पयोधौ दधौ ॥२॥

पदच्छेदः

कृत्वा, मारुति-लङ्घनोत्थित-रयात्, तत्र, अनुयात्राम्, ततः,पर्यायात्, पतिता, महेन्द्र-गहन-क्षोणीरुहाणाम्, ततिः, मध्येवारिनिधि, प्रकाशित-शिखा, सेतोः कृते, भाविनः, सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिम्, पयोधौ, दधौ ।

आकाङ्क्षा

  • दधौ [ अधरत् ]
    • का दधौ ? ततिः
    • केषां ततिः ? महेन्द्रगहनक्षोणीरुहाणाम्
    • कीदृशी ततिः ? पतिता
      • कदा पतिता ? ततः
      • कुत्र पतिता ? मध्येवारिनिधि
      • किं कृत्वा पतिता ? अनुयात्रां कृत्वा
        • कस्मात् हेतोः अनुयात्रां कृत्वा ? मारुति-लङ्घनोत्थित-रयात्
      • कथं पतिता ? पर्यायात्
    • कथम्भूता सती दधौ ? प्रकाशितशिखा (सती)
    • कुत्र दधौ ? पयोधौ
    • कां दधौ ? सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिम्
      • कस्य कृते भ्रान्तिम् ? सेतोः कृते
        • कीदृशस्य सेतोः ? भाविनः
      • कदा दधौ ? तत्र [ तस्मिन् समये ]

अन्वयः

तत्र मारुति-लङ्घनोत्थित-रयात् अनुयात्रां कृत्वा ततः मध्येवारिनिधि पर्यायात् पतिता महेन्द्रगहनक्षोणीरुहाणां ततिः प्रकाशितशिखा ‘सती’ भाविनः सेतोः कृते पयोधौ सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिं दधौ ।

अन्वयार्थः

  • तत्र = during that time
  • प्रकाशितशिखा (सती) = when the top portion became visible outside
  • ततिः = the rows
  • महेन्द्रगहनक्षोणीरुहाणाम् = of Mahendra (महेन्द्र) Mountain’s dense (गहन) trees (that grow in the land क्षोणीरुहा)
  • अनुयात्रां कृत्वा = having followed
  • मारुति-लङ्घनोत्थित-रयात् = Because of the speed (रय) with which Maruti rose (उत्थित) to jump / cross (लङ्घन)
  • ततः = then on
  • पतिता = had fallen
  • पर्यायात् = in order
  • मध्येवारिनिधि = in the middle of the ocean
  • भाविनः सेतोः कृते = for (कृते) the bridge (सेतु) that is going to be built (भाविन्)
  • पयोधौ = in the ocean
  • दधौ = had adored
  • सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिम् = an illusion (भ्रान्तिम्) of the array (निवह) of pillars (शङ्कु) that were fixed (निखात) by the threads (सूत्र) that were tied (न्यास)

अन्वयार्थः

  • तत्र = तस्मिन् समये
  • मारुति-लङ्घनोत्थित-रयात् = हनूमतः समुद्रप्लवनेन उत्पन्नात् वेगात्
  • अनुयात्रां कृत्वा = अनुगमनं कृत्वा
  • ततः = तदनन्तरम्
  • महेन्द्रगहनक्षोणीरुहाणाम् = महेन्द्रशैलस्थ-वृक्षाणाम्
  • ततिः = पङ्क्तिः
  • पर्यायात् = क्रमशः
  • मध्येवारिनिधि = सागरमध्ये
  • पतिता = भ्रष्टा
  • प्रकाशितशिखा सती = दृष्टाग्रभागा सती
  • भाविनः सेतोः कृते = भविष्यतः सेतोः कृते (श्रीरामेण करिष्यमाणस्य सेतोः कृते)
  • पयोधौ = समुद्रे
  • सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिम् = सूत्रबन्धनेन विन्यस्ता (व्यवस्थिता) रोपिता कीलमयी पङ्क्तिः इव भ्रमं
  • दधौ = धृतवती

भावार्थः

हनूमतः प्लवनजनितवेगात् महेन्द्रशैलभूमितः उत्पाटिताः वृक्षाः तम् अनुगत्य सागरे अपतन् । समुद्रजले मग्नभूयिष्ठाः, दृष्टाग्रभागाः केवलाः एते पङ्क्तौ स्थिताः वृक्षाः तथा भ्रमम् अजनयन् यथा आगामि काले रचयिष्यमाणाय सेतुबन्धनाय पूर्वसज्जतारूपेण श्रेणीबद्धानां स्तम्भानां ततिः समुद्रे विन्यस्ता इति ।

व्याकरणविषयः

  • मारुतिलङ्घनोत्थितरयात्
    • लङ्घनोत्थितः = लङ्घनेन उत्थितः
    • लङ्घनोत्थितरयः = लङ्घनोत्थितः च असौ रयः =
    • मारुतिलङ्घनोत्थितरयात् = मारुतेः लङ्घनोत्थितरयः, तस्मात्
  • मध्येवारिनिधि
    • वारीणां निधिः = वारिनिधिः
    • वारिनिधेः मध्ये = मध्येवारिनिधि
  • महेन्द्रगहनक्षोणीरुहाणाम्
    • क्षोण्यां रोहन्ति इति क्षोणीरुहाः
    • गहनाः च ते क्षोणीरुहाः गहनक्षोणीरुहाः
    • महेन्द्रगहनक्षोणीरुहाणाम् = महेन्द्रस्य (पर्वतस्य) गहनक्षोणीरुहाः, तेषाम्
  • प्रकाशितशिखा
    • प्रकाशितशिखा = प्रकाशिताः शिखाः यस्याः सा
  • सूत्रन्यास-निखात-शङ्कु-निवह-भ्रान्तिम्
    • सूत्रन्यास= सूत्रस्यन्यास
    • सूत्रन्यासनिखाताः = सूत्रन्यासेन निखाताः
    • सूत्रन्यासनिखातशङ्कवः = सूत्रन्यासनिखाताश्च ते शड़कवः
    • सूत्रन्यासनिखातशङ्कुनिवहः = सूत्रन्यासनिखातशङ्कूनाम् निवहः
    • सूत्रन्यासनिखातशङ्कुनिवहभ्रान्तिम् = सूत्रन्यासनिखातशङ्कुनिवहस्यभ्रान्तिः, ताम्

पक्षाभिघातरयरेचितवीचिमालात्-
पाथोनिधेः पवननन्दनविश्रमाय ।
उत्तुङ्गशृङ्गकुलकीलितनाकलोको
मैनाकभूभृदुदजृम्भत संभ्रमेण ॥३॥

पदच्छेदः

पक्षाभिघातरय-रेचित-वीचिमालात्, पाथोनिधेः, पवननन्दन-विश्रमाय, उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः, मैनाक-भूभृत्, उदजृम्भत, सम्भ्रमेण ।

आकाङ्क्षा

  • उदजृम्भत
    • कः उदजृम्भत ? मैनाकभूभृत्
      • कीदृशः मैनाकभूभृत् ? उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः
    • कस्मात् उदजृम्भत ? पाथोनिधेः
      • कीदृशात् पाथोनिधेः ? पक्षाभिघातरय-रेचित-वीचिमालात्
    • कथम् उदजृम्भत ? सम्भ्रमेण
    • किमर्थम् उदजृम्भत ? पवननन्दन-विश्रमाय

अन्वयः

उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः मैनाक-भूभृत् पक्षाभिघातरय-रेचित-वीचिमालात् पाथोनिधेः पवननन्दन-विश्रमाय सम्भ्रमेण उदजृम्भत ।

अन्वयार्थः

  • उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः = He whose tall (उत्तुङ्ग) peaks (शृङ्गकुल) touch (कीलित) the heaven (नाकलोक)
  • मैनाक-भूभृत् = The Mainaka (मैनाक) mountain (भूभृत्)
  • पाथोनिधेः = from the ocean
    • पक्षाभिघातरय-रेचित-वीचिमालात् = from that one whose series (माला) of tides (वीचि), were flung away (रेचित) due to the force (रय) of the striking (अभिघात) of the wings (पक्ष) of the mountain
  • पवननन्दन-विश्रमाय = for Hanuman to take rest
  • सम्भ्रमेण = with speed (also means for the sake of hospitality)
  • उदजृम्भत = expanded his limbs

अन्वयार्थः

  • उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः = येन अत्युच्छ्रितैः शिखरश्रेणीभिः स्वर्गलोकः व्याप्तः, तादृशः
  • मैनाक-भूभृत् = मैनाकनामकः पर्वतः
  • पक्षाभिघातरय-रेचित-वीचिमालात् = मैनाकशैलस्य पक्षयोः आघातवेगेन यस्य (समुद्रस्य) तरङ्गाः दूरं प्रक्षिप्ताः तादृशात्
  • पाथोनिधेः = समुद्रात्
  • पवननन्दन-विश्रमाय = मारुतये विश्रामप्रदानाय
  • सम्भ्रमेण = वेगेन (अतिथिसत्काराय तत्परः सन्)
  • उदजृम्भत = उदतिष्ठत् ।

भावार्थः

स्वर्गपर्यन्तं यस्य शिखराणां विततिः तादृशः मैनाकगिरिः सम्प्रति समुद्रस्य अन्तः निगूढः वर्तते । हनूमन्तं सेवितुम् उत्सुकः सः तस्मै विश्रान्तिं प्रदातुम् आत्मानं व्यतनोत् येन तस्य शिखरकुलं समुद्रजलस्य उपरि आगतम् । तस्मिन् उपरि आगच्छति सति तत्पक्षयोः वेगात् समुद्रतरङ्गाः प्रक्षिप्ताः भवन्ति ।

प्रदानं प्रच्छन्नम् गृहमुपगते सम्भ्रमविधिः – नीतिशतकं, भर्तृहरिः

व्याकरणविषयः

  • उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः
    • श्रुङ्गानां कुलम् = शृङ्गकुलम् ।
    • उत्तुङ्गं च तत् शृङ्गकुलम् = उत्तुङ्गशृङ्गकुलम् ।
    • नाकः इति लोकः = नाकलोकः
    • उत्तुङ्ग-शृङ्गकुल-कीलित-नाकलोकः = उत्तुङ्गशृङ्गकुलेन कीलितः नाकलोकः येन सः
  • मैनाकभूभृत्
    • भुवं बिभर्ति इति भूभृत् ।
    • मैनाकः इति भूभृत् ।
  • पक्षाभिघातरय-रेचित-वीचिमालात्
    • पक्षयोः अभिघातः = पक्षाभिघातः ।
    • पक्षाभिघातस्य रयः = पक्षाभिघातरयः ।
    • पक्षाभिघातरय-रेचित-वीचिमालात् = पक्षाभिघातरयेण रेचिताः वीचीमालाः यस्य सः = पक्षाभिघातरयरेचितवीचिमालः, तस्मात्।
  • पाथोनिधेः =पाथसां निधिः, तस्मात् ।
  • पवननन्दनविश्रमाय
    • पवनस्य नन्दनः = पवननन्दनः ।
    • पवननन्दनविश्रमाय = पवननन्दननस्य विश्रमः, तस्मै
  • उदजृम्भत – उत् + जृभि गात्रविनामे लङ्

तत्र यात्राप्रत्यूहः प्रत्युद्भूत इति वक्षसा तमधः पातयित्वा प्रयान्तमेनं सान्त्वयन्हिरण्यनाभो बभाषे ।

पदच्छेदः

तत्र, यात्राप्रत्यूहः, प्रत्युद्भूतः, इति, वक्षसा, तम्, अधः, पातयित्वा, प्रयान्तम्, एनम्, सान्त्वयन्, हिरण्यनाभः, बभाषे ।

अन्वयः

तत्र यात्राप्रत्यूहः प्रत्युद्भूतः इति वक्षसा तम् अधः पातयित्वा प्रयान्तम् एनं सान्त्वयन् हिरण्यनाभः बभाषे ।

Word Meaning:

  • तत्र = there
  • यात्राप्रत्यूहः= hindrance to the journey
  • प्रत्युद्भूतः= one that has arisen
  • इति= so thinking
  • वक्षसा= by using the chest
  • तम्= that (mountain)
  • पातयित्वा= after causing the fall
  • अधः = down
  • प्रयान्तम् = one who was proceeding on his journey
  • एनम्= this person, Hanuman
  • सान्त्वयन्= pacifying
  • हिरण्यनाभः= Mainaka
  • बभाषे = spoke

अन्वयार्थः

  • प्रत्यूहः = विघ्‍नः

भावार्थः

तस्मिन् समये मैनाके पुरतः स्थिते सति, समुद्रलङ्घनप्रयाणे विघ्नः उत्पन्नः इति मत्वा मारुतिः तं मैनाकं वक्षसा अधः क्षिप्त्वा अग्रे गतः । एवं विघ्नभयशङ्कया त्वरितवेगेन गच्छन्तं हनूमन्तं समाश्वासयन् मैनाकः अवदत् |

सागरेण कृतज्ञेन तवाध्वश्रान्तिशान्तये ।
मारुते प्रेरितोऽस्म्यद्य सौम्य विश्रम्य गम्यताम् ॥४॥

पदच्छेदः

सागरेण, कृतज्ञेन, तव, अध्वश्रान्तिशान्तये, मारुते ! प्रेरितः, अस्मि, अद्य, सौम्य ! विश्रम्य,गम्यताम् ।

आकाङ्क्षा

  • मारुते !
  • अस्मि ।
    • कः अस्मि ? (अहम्)
      • कीदृशः अहम् ? प्रेरितः
    • कदा ? अद्य
    • किमर्थम् (प्रयोजनम्) ? अध्वश्रान्तिशान्तये
      • कस्य अध्वश्रान्तिशान्तये ? तव
    • केन प्रेरितः अस्मि ? सागरेण
      • कीदृशेन सागरेण ? कृतज्ञेन
    • सौम्य !
    • गम्यताम् !
      • केन ? (त्वया)
      • किं कृत्वा ? विश्रम्य

अन्वयः

मारुते ! अद्य तव अध्वश्रान्तिशान्तये कृतज्ञेन सागरेण प्रेरितः अस्मि । सौम्य ! विश्रम्य गम्यताम् ।

Word Meaning

  • मारुते ! = Hey Maruti
  • अद्य = now
  • प्रेरितः अस्मि = I have been commanded
    • कृतज्ञेन सागरेण = by the ocean that remembers the help extended (by Rama’s forefather Sagara who brought Ganga to earth).
      • अध्वश्रान्तिशान्तये = for the pacification of the tiredness
        • तव = of you
      • सौम्य = O Gentle person
      • विश्रम्य = After taking rest
        • गम्यताम् = you may go

अन्वयार्थः

  • मारुते = पवनपुत्र
  • अद्य = सम्प्रति
  • तव = भवतः
  • अध्वश्रान्तिशान्तये = मार्गक्रमण-श्रमस्य अपनयनाय
  • कृतज्ञेन सागरेण = पूर्वं कृतम् उपकारं स्मरता समुद्रेण
  • प्रेरितः अस्मि = प्रचोदतः अस्मि ।
  • सौम्य = वत्स
  • विश्रम्य = विश्रान्तिं स्वीकृत्य / श्रमम् अपनीय
  • गम्यताम् = प्रयाताम्

भावार्थः

सागरः स्वोद्भवे कारणीभूतस्य इक्ष्वाकुचक्रवर्तिनः सगरस्य कृतज्ञः । स च सागरः इदानीं सगरमहाराजस्य उपकारं स्मरन् तद्वंशजस्य श्रीरामस्य सेवकं सत्कर्तुं मैनाकं प्रेरितवान् । आश्रयदातुः सागरस्य कृतज्ञः मैनाकपर्वतः हनूमन्तं – ‘मम शिखरे किञ्चित् विश्रम्य गच्छ’ इति तं प्रार्थयते ।

व्याकरणविषयः

  • अध्वश्रान्तिशान्तये
    • अध्वश्रान्ति: = अध्वन: श्रान्ति:
    • अध्वश्रान्तिशान्तये = अध्वश्रान्तेः शान्तिः अध्वश्रान्तिशान्तिः, तस्यै ।
  • कृतज्ञेन = कृतं जानाति इति कृतज्ञः, तेन

त्वत्पित्राहं परित्रातः पूर्वं पर्वतभेदिनः 

तास्मान्नास्मि विपक्षोऽद्य सपक्ष इति मां भज 

पदच्छेदः

त्वत्पित्रा, अहम्, परित्रातः, पूर्वम्, पर्वतभेदिनः, तस्मात्, न, अस्मि, विपक्षः, अद्य, सपक्षः, इति, माम्, भज ।

आकाङ्क्षा

  • परित्रातः (अभवम्)
    • कः परित्रातः ? (अहम्)
    • केन परित्रातः ? त्वत्पित्रा
    • कस्मात् परित्रातः ? पर्वतभेदिनः
    • कदा परित्रातः ? पूर्वम्
  • भज [ आश्रय, मयि तिष्ठ ]
    • कः भज ? (त्वम्)
    • कं भज ? माम्
    • किं कुर्वन् भज ? इति (भावयन्)
      • किं भावयन् ? विपक्षः न, (किन्तु) सपक्षः अस्मि इति
    • किमर्थं भज ? तस्मात् (हेतोः) (यत् पूर्वमुक्तम्)

अन्वयः

पूर्वम् अहं पर्वतभेदिनः त्वत्पित्रा परित्रातः (आसम्) । तस्मात् विपक्षः न अस्मि, सपक्षः (अस्मि) इति (भावयन्) मां भज ।

Word Meaning

  • पूर्वम् = Earlier
    • अहम् (आसम्) = I was
    • परित्रातः = one who was protected
    • पर्वतभेदिनः = from Indra
    • त्वत्पित्रा = by your father, Vayu
  • तस्मात् = So
  • विपक्षः न अस्मि = I am not the one without wings / I am not belonging to the enemy’s side
  • सपक्षः (अस्मि) = I am one with wings / I am on your side
  • इति (भावयन्) = considering in this way
  • मां भज = Seek me (for taking some rest)

अन्वयार्थः

  • पूर्वम् = पुरा
  • अहम् = मैनाकः
  • पर्वतभेदिनः = इन्द्रात्
  • त्वत्पित्रा = तव जनकेन (वायुदेवेन)
  • परित्रातः (आसम्) । रक्षितः
  • तस्मात् = अतः
  • विपक्षः न अस्मि = विरोधी पक्षविहीनः च नास्मि,
  • सपक्षः (अस्मि) = मित्रं पक्षवान् चास्मि
  • इति = इति (मां भावयन्)
  • मां भज = (यात्राश्रमापनयनाय) माम् आश्रय ।

भावार्थः

सागरः इक्ष्वाकुकुलस्य कृतज्ञः अतः मैनाकः आश्रयदातुः सागरस्य आज्ञां पालयन् पवनपुत्रं सेवितुमुत्थितः इति पूर्वमुक्तम् । मैनाकः हनूमतः आत्मनः च सम्बन्धं विज्ञापयन् अग्रे वदति – ‘हे पवनपुत्र ! रामकार्ये मां विघ्नकारकं मा भावय । तव हितचिन्तकोऽहम् अत्र साहाय्यम् आचरितुम् उत्थितः । पूर्वं यदा पर्वताः पक्षवन्तः सन्तः आकाशे डयन्ते स्म तदा तेषां पतनाशङ्कया देवर्षिगणाः प्राणिनः च भीताः अभवन् । ततः क्रुद्धः इन्द्रः पर्वतपक्षान् छिनत्ति स्म । किन्तु तव पितुः पवनदेवस्य कृपया सागरे प्रापितः अहं ततः प्रभृति अत्रैव सुरक्षितः निवसामि’ इति ।

व्याकरणविशेषाः

  • त्वत्पित्रा = तव पिता त्वत्पिता, तेन
  • पर्वतभेदिनः = पर्वतान् भिनत्ति इति पर्वतभेदी, तस्मात् ।
  • सपक्षः = समः पक्षः यस्य सः / पक्षाभ्यां सह वर्तमानः
  • विपक्षः = विषमः पक्षः यस्य सः / विगतौ पक्षौ यस्मात् सः

एवं प्रार्थयमानमेनं सम्मान्य कार्यगत्या गते सति हनूमति 

पदच्छेदः

एवम्, प्रार्थयमानम्, एनम्, सम्मान्य, कार्यगत्या, गते, सति, हनूमति ।

आकाङ्क्षा

  • (यत् अग्रिमपद्ये उत्क्तं तत् अभवत्)
    • कदा अभवत् ? गते सति
      • कस्मिन् गते सति? हनूमति
      • कथं गते सति ? कार्यगत्या
    • किंकृत्वा अभवत् ? सम्मान्य
      • कां सम्मान्य ? एनम्
        • कीदृशीम् एनम् ? प्रार्थयमानम्
          • कथं प्रार्थयमानम् ? एवम्

अन्वयः

एवं प्रार्थयमानं एनं सम्मान्य कार्यगत्या हनूमति गते सति (किमपि अभवत्) |

Word Meaning:

  • सम्मान्य = after respectfully treating
    • एनम् = this one, Mainaka mountain
      • प्रार्थयमानम् = one who was pleading (Hanuman to take rest)
        • एवम् = in this way
      • हनूमति गते सति = When Hanuman left
        • कार्यगत्या = in a duty-bound manner
      • (किमपि अभवत्) = (Something happened, that which is explained in the following shloka)

भावार्थः

‘सौम्य विश्रम्य गम्यताम्’ इति प्रार्थनां कुर्वन्तम् इमं मैनाकम् समादृत्य हनूमान् तं – ‘कार्यगतिः मां त्वरयति । श्रीरामकार्येऽस्मन् कालातिपातः न उचितः ।’ इति उक्त्वा अग्रे प्लुतवान् ।

“त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते ।
प्रतिज्ञा च मया दत्ता न स्थातव्यम् इहान्तरा ।” श्रीमद्वाल्मीकिरामायणम् १/१३१

अवलोक्य हिरण्यनाभमब्धौ वलमानं लमानमाथिवज्रः 
शतमन्युरपेतमन्युरासीत् वमानात्मजसेवनादमुष्मिन् 

पदच्छेदः

अवलोक्य, हिरण्यनाभम्, अब्धौ, वलमानम्, बल-मान-माथि-वज्रः, शतमन्युः, अपेतमन्युः, आसीत्, पवमानात्मज-सेवनात्, अमुष्मिन् ।

आकाङ्क्षा

  • आसीत् ।
    • कः आसीत् ? शतमन्युः
      • कीदृशः शतमन्युः ? बलमानमाथिवज्रः
      • पुनः कीदृशः शतमन्युः ? अपेतमन्युः
        • कस्मिन् अपेतमन्युः ? अमुष्मिन्
        • कस्मात् हेतोः अपेतमन्युः आसीत् ? पवमानात्मजसेवनात्
      • किं कृत्वा अपेतमन्युः आसीत् ? अवलोक्य
        • कम् अवलोक्य ? हिरण्यनाभम्
          • कीदृशं हिरण्यनाभम् ? वलमानम्
        • कुत्र अवलोक्य ? अब्धौ

अन्वयः 

अब्धौ वलमानं हिरण्यनाभम् अवलोक्य बलमानमाथिवज्रः शतमन्युः पवमानात्मजसेवनात् अमुष्मिन् अपेतमन्युः आसीत् ।

अन्वयार्थः

  • अब्धौ = समुद्रे
  • वलमानम् = सञ्चरन्तम्
  • हिरण्यनाभम् = मैनाकम्
  • अवलोक्य = दृष्ट्वा
  • बलमानमाथिवज्रः = बलनामक-दनुजस्य गर्वमन्थकं वज्रं यः धरति
  • शतमन्युः = इन्द्रः
  • पवमानात्मजसेवनात् = वयुपुत्रस्य रामकार्ये तत्परत्वात्
  • अमुष्मिन् = मैनाके
  • अपेतमन्युः = अपगतकोपः
  • आसीत् = अभवत्

Word meaning

  • अवलोक्य = Having seen
    • हिरण्यनाभम् = the Mainaka mountain
    • वलमानम् = the one who is moving around
    • अब्धौ = in the ocean
  • शतमन्युः = Indra, the performer of 100 yagnas
    • बलमानमाथिवज्रः = The one who adorns the weapon, Vajra, which is capable of destroying the pride of the asura named Bala
  • आसीत् = became
  • अपेतमन्युः = One whose anger has gone away
    • अमुष्मिन् = in him, i.e., (anger) towards Mainaka
  • पवमानात्मजसेवनात् = since it was in the service of Hanuman, the son of Vayu

भावार्थः

पूर्वं पर्वतानां पक्षच्छेदकः इन्द्रः पक्षवन्तं मैनाकं दृष्ट्वापि तस्मै नाक्रुध्यत् । यतः समुद्रस्य अन्तः यस्य वासः सोऽयं पर्वतः रामकार्यार्थिनः हनूमतः आतिथ्याय उद्गम्य सञ्चरन् अस्ति इति विदित्वा इन्द्रः तस्मिन् वज्रप्रहारं नाकरोत् ।

व्याकरणविशेषः

  • वलमानम् = वल् “वल्लँ संवरणे सञ्चरणे च” + शानच् प्रत्ययः, ‘वलमान’ शब्दः, पु. द्वि. ए.व.
  • हिरण्यनाभम् = हिरण्यं नाभौ यस्य सः – हिरण्यनाभः, तम्
  • बलमानमाथिवज्रः
    • (मानस्य मथनं प्रामुख्यमिति स्वीकुर्मः चेत्)
      • मानमाथि = मानस्य मथनं शीलं यस्य तत्
      • बलमानमाथि = बलस्य मानमाथि
    • (बलस्य एव मानं प्रामुख्यमिति स्वीकुर्मः चेत्)
      • बलमानम् = बलस्य मानम्
      • बलमानमाथि = बलमानस्य मथनं शीलं यस्य तत्
    • बलमानमाथिवज्रः = बलमानमाथि वज्रम् यस्य सः
  • शतमन्युः
    • शतमन्युः = शतं मन्यवः (यागाः) अस्य इति ।
    • शतमन्युः = शते दैत्येषु मन्युः (क्रोधः) अस्य इति वा ।
  • अपेतमन्युः = अपेतः मन्युः यस्मात् सः ।
  • पवमानात्मजसेवनात्
    • पवमानस्य आत्मजः = पवमानात्मजः
    • पवमानात्मजसेवनात् = पवमानात्मजस्य सेवनम्, तस्मात् ।
  • अमुष्मिन् = अदस् शब्दः, पु., स.वि., ए.व. ।

शब्दालङ्कारः

  • “वलमानं बलमानमाथि”
  • “शतमन्युः अपेतमन्युः आसीत्”

तदनु यथापुरं लङ्कापुरं प्रति प्रधावतो हनूमतः सरणिमरुणदरुणसारथेः पदवीं विन्ध्य इव वदनं व्यादाय द्विरसनजननी रंहसा सुरसा 

पदच्छेदः

तदनु, यथापुरम्, लङ्कापुरम्, प्रति, प्रधावतः, हनूमतः, सरणिम्, अरुणत्, अरुणसारथेः, पदवीम्, विन्ध्यः, इव, वदनम्, व्यादाय, द्विरसनजननी, रंहसा, सुरसा ।

आकाङ्क्षा

  • अरुणत् ।
  • कः इव अरुणत् ? विन्ध्यः इव
  • काम् अरुणत् ? पदवीम्
    • कस्य पदवीम् ? अरुणसारथेः
  • किं कृत्वा अरुणत् ? व्यादाय
    • किं व्यादाय? वदनम्
    • कथं व्यादाय? रंहसा
  • का अरुणत् ? सुरसा
  • कदा अरुणत् ? तदनु

अन्वयः

तदनु यथापुरं लङ्कापुरं प्रति प्रधावतो हनूमतः सरणिं द्विरसनजननी सुरसा रंहसा वदनं व्यादाय अरुणसारथेः पदवीं विन्ध्यः इव अरुणत् ।

अन्वयार्थः

  • यथापुरम् = पूर्ववत्
  • सरणिम् = मार्गम्
  • द्विरसनजननी = सर्पमाता
  • रंहसा वेगेन

Word Meaning

  • तदनु = After that
  • सुरसा = Surasa
    • द्विरसनजननी = the mother of the snakes, who are two-tongued
  • व्यादाय = having opened widely
    • रंहसा = quickly
    • वदनम् = the mouth
  • अरुणत् = obstructed
  • सरणिम् = the path
    • हनूमतः = of Hanuman
      • प्रधावतः = one who was running or proceeding
      • यथापुरम् = as earlier
      • प्रति = towards
      • लङ्कापुरम् = the city of Lanka
    • इव = like
      • विन्ध्यः = the Vindhya Mountain
      • अरुणत् = obstructed
      • पदवीम् = the path
      • अरुणसारथेः = of the Sun, who has Aruna to be his chariot driver

भावार्थः

तदनन्तरं पूर्ववत् लङ्कानगरीं प्रति मारुतिः वेगेन उत्प्लुतः । तस्य बलं जिज्ञासमानानां देवानां प्रेरणया नागमाता सुरसा विघ्नम् आचरितुं व्यात्तवदना तस्य प्लवनमार्गे स्थिता । सुरसा मारुतेः मार्गं तथा अवरुद्धवती यथा सूर्यस्य मार्गं विन्ध्यः अवरुद्धवान् ।

विशेषविषयाः

  • “अरुणसारथेः पदवींविन्ध्यः इव”
    • पुरा मेरुपर्वतं परितः क्रममाणं सूर्यम् अवलोक्य तस्मै ईर्ष्यति स्म विन्ध्यः । सः स्पर्धाभावेन क्रमशः वर्धमानः सूर्यस्य मार्गमेव अरुणत् । तदा देवानां प्रार्थनाम् अङ्गीकृतवता अगस्त्यऋषिणा शिष्यः विन्ध्यः इत्थम् उक्तः “विन्ध्य, त्वम् अवनतः सन् दक्षिणां दिशं प्रति मम गमनाय मार्गं कल्पय । अपि च मम प्रत्यागमनपर्यन्तं तथैव तिष्ठेः” इति । किन्तु अगस्त्यऋषिः दक्षिणदेशतः न प्रत्यागच्छत्, आचार्यवचनात् बद्धः विन्ध्यः नावर्धत । मेरोः औन्नत्यमिव औन्नत्यं च नाप्नोत् ।

व्याकरणविशेषः

  • अरुणसारथिः = अरुणः सारथिः यस्य सः
  • द्विरसनजननी
    • द्वे रसने येषां ते = द्विरसनाः
    • द्विरसनजननी = द्विरसनानां जननी
  • व्यादाय = वि, आ + दा “दा दाने” + ल्यप् प्रत्ययः
  • अरुणत् = रुध् “रुधिँर् आवरणे” लट्., प्र.पु., ए.व.

उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः 
तस्योत्तमाङ्गमभवद् गगनस्रवन्तीवीचीचयस्खलितसीकरमालभारि 

पदच्छेदः

उज्जृम्भितस्य, तरसा, सुरसाम्, विजेतुम्, पादौ, पयोधिकलितौ, पवमानसूनोः, तस्य, उत्तमाङ्गम्, अभवत्, गगन-स्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारि ।

आकाङ्क्षा

  • अभूताम् (अध्याहृतम्)
    • कौ अभूताम् ? पादौ
      • कीदृशौ पादौ ? पयोधिकलितौ
      • कस्य पादौ ? पवमानसूनोः
        • कीदृशस्यपवमानसूनोः ? उज्जृम्भितस्य
          • कथम् उज्जृम्भितस्य ? तरसा
        • किं कर्तुम् अभूताम् ? विजेतुम्
          • कां विजेतुम् ? सुरसाम्
        • अभवत् ।
          • किम् अभवत् ? उत्तमाङ्गम्
            • कस्य उत्तमाङ्गम् ? तस्य
          • कीदृशम् अभवत् ? गगन-स्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारि

अन्वयः

तरसा सुरसां विजेतुं उज्जृम्भितस्य पवमानसूनोः पादौ पयोधिकलितौ (अभूताम्) । तस्य उत्तमाङ्गं गगन-स्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारि अभवत् ।

प्रतिपदार्थः

  • तरसा = वेगेन
  • सुरसां विजेतुम् = सर्पमातरम् अत्येतुम्
  • उज्जृम्भितस्य पवमानसूनोः = प्रवृद्धवपुषः वायुपुत्रस्य
  • पादौ = चरणौ
  • पयोधिकलितौ (अभूताम्) = समुद्रसंस्थितौ
  • तस्य = हनूमतः
  • उत्तमाङ्गम् = शिरः
  • गगनस्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारि= गङ्गा-तरङ्गेभ्यः पतितानां जलबिन्दूनां मालाभृत् (शिरः)
  • अभवत् = आसीत् ।

Word Meaning

  • विजेतुम् = to win
    • तरसा = quickly
    • सुरसाम् = Surasa
  • पादौ = the two feet
    • पवमानसूनोः = of Hanuman, the son of Vayu
    • उज्जृम्भितस्य = of him who has expanded his body
  • पयोधिकलितौ (अभूताम्) = the two that stood on the ocean
  • तस्य = his, i.e., Hanuman’s
  • उत्तमाङ्गम् = head
  • अभवत् = became
  • गगनस्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारि= That which adorned the garland (मालभारि) of tiny water droplets (सीकर) that had tripped (स्खलित) from the collection (चय) of waves (वीची) of Ganga, who flows (स्रवन्ती) in the heavens (गगन)

भावार्थः

यावत् विपुलं सुरसामुखं भवति मारुतिः स्वीयं शरीरं ततोऽपि विपुलतरं करोति । इत्थं सुरसां पराजेतुं यदा सः अतिमात्रेण उच्छ्रितः सञ्जातः तदा तस्य पादौ समुद्रजले न्यस्तौ अभवताम्, शिरस्तु आकाशगङ्गायाः च्यवद्भिः जलबिन्दुभिः भूषितं मौक्तिकमालाधरम् इव शोभाम् अवाप्नोत् ।

अन्यविषयः

  • ईदृशं किञ्चन वर्णनं स्वामिवेदान्तदेशिकेन विरचित-देहलीशस्तुतिः इति स्तोत्रे
    • भक्तप्रिय त्वयि तथा परिवर्धमाने मुक्तावितानविततिस्तव पूर्वमासीत् ।
      हारावलिः परमथो रशनाकलापः तारागणस्तदनु मौक्तिकनूपुरश्रीः ॥
    • गगने व्याप्तः नक्षत्रगणः क्रमशः विवर्धमानस्य त्रिविक्रमदेवस्य आदौ किरीटायते ततः हारायते, ततः रशनायते, ततश्च नूपुरयुगलायते ।

व्याकरणविशेषः

  • पयोधिकलितौ
    • पयांसि धीयन्ते अस्मिन् इति = पयोधिः
    • पयोधिकलितौ = पयोधौ कलितौ
  • गगनस्रवन्तीवीचीयस्खलितसीकरमालभारि
    • गगने स्रवन्ती = गगनस्रवन्ती
    • वीचीनां चयः =वीचीचयः
    • गगनस्रवन्त्याःवीचीचयः = गगनस्रवन्तीवीचीचयः
    • स्खलिताः सीकराः = स्खलितसीकराः
    • गगनस्रवन्तीवीचीचयात् स्खलितसीकराः = गगनस्रवन्तीवीचीयस्खलितसीकराः
    • माला अस्य अस्तीति – मालभारि
    • गगनस्रवन्तीवीचीयस्खलितसीकरणां मालभारि – स्खलितसीकरमालभारि
  • मालभारि
    • “इष्टकेषीकतूलानां चिततूलभारिषु” ६:३:६५
    • इष्टका इषीका माला- इति एतेभ्यः परं क्रमशः चित, तूल, भारिन् शब्देषु सत्सु, एते आकारान्ताः शब्दाः ह्रस्वान्ताः भवन्ति । यथा
      • इष्टकचितम् = इष्टकाभिः निर्मितम्
      • इषीकतूलम् = तृणविशेषस्य अग्रभागः
      • मालभारि = माला अस्य अस्ति इति / मालां धरति इति

अलङ्कारः 

  • उत्तमाङ्गं गगन-स्रवन्ती-वीचीचय-स्खलित-सीकर-मालभारिअभवत् – अत्र अतिशयोक्तिः अलङ्कार

तनुं तनूकृत्य तदा हनूमान्कृत्वा प्रवेशं जठरे तदीये 
ततो विनिष्क्रम्य स चक्रपाणेस्‍त्रिविक्रमस्य क्रममेव चक्रे 

पदच्छेदः

तनुम्, तनूकृत्य, तदा, हनूमान्, कृत्वा, प्रवेशम्, जठरे, तदीये, ततः, विनिष्क्रम्य, सः, चक्रपाणेः, त्रिविक्रमस्य, क्रमम्, एव, चक्रे ।

आकाङ्क्षा

  • चक्रे – कृतवान्
    • कः चक्रे ? हनूमान्
    • किं चक्रे ? क्रमम् एव
      • कस्य क्रमम् चक्रे ? चक्रपाणेः
        • कीदृशस्य चक्रपाणेः ? त्रिविक्रमस्य
      • किं कृत्वा चक्रे ? तनूकृत्य
        • कां तनूकृत्य ? तनुम्
      • पुनः किं कृत्वा चक्रे ? प्रवेशं कृत्वा
        • कुत्र प्रवेशं कृत्वा ? जठरे
          • कीदृशे जठरे ? तदीये
        • पुनः किं कृत्वा चक्रे ? विनिष्क्रम्य
          • कुतः विनिष्क्रम्य ? ततः (जठरात्)

अन्वयः

तदा हनूमान् तनुं तनूकृत्य तदीये जठरे प्रवेशं कृत्वा ततः विनिष्क्रम्य चक्रपाणेः त्रिविक्रमस्य क्रमम् एव चक्रे ।

अन्वयार्थः

  • तदा = अतिमात्रेण प्रवृद्धम् हनूमन्तं निगलितुं सुरसा स्वमुखम् इतोऽपि यदा अजृम्भत, तदा
  • हनूमान् = आञ्जनेयः
  • तनुं तनूकृत्य= स्वशरीरं सूक्ष्मं कृत्वा
  • तदीये जठरे = सुरसायाः उदरे
  • प्रवेशं कृत्वा = प्रविश्य
  • ततः = तस्याः उदरात्
  • विनिष्क्रम्य = निर्गत्य
  • चक्रपाणेः = विष्णोः
  • त्रिविक्रमस्य= वामनावतारात् परं भगवता स्वीकृतस्य त्रिविक्रमावतारस्य
  • क्रमम् एव= प्रकारम्
  • चक्रे= अकरोत् ।

Word Meaning

  • तदा = when, i.e., when Surasa opened her mouth even wider as Hanuman had grown huge
  • हनूमान् = Hanuman
  • तनूकृत्य= having shrunk
    • तनु = body
  • प्रवेशं कृत्वा = having entered
    • तदीये जठरे = in stomach of her (Surasa)
  • विनिष्क्रम्य = having returned
    • ततः = from there
  • चक्रे= performed (the act of expanding his form)
    • क्रमम् एव= in that very same order
    • चक्रपाणेः = of Vishnu, who holds the chakra in his hand
    • त्रिविक्रमस्य= of Trivikrama

भावार्थः

अतिमात्रेण प्रवृद्धवपुषं नाकस्पर्शिनं हनूमन्तं निगलितुं सुरसा स्वमुखम् इतोऽपि यदा व्यस्तारयत्, तदा हनूमान् सूक्ष्मवपुः भूत्वा सुरसायाः जठरं प्रविश्य झटितः ततः निरगत्य पूर्वतनं रूपं प्राप्नोत् । यथा बलिनिग्रहावसरे वामनः विष्णुः त्रीन् क्रमान् विधातुं महाकायः त्रिविक्रमः अभूत्, ततःपरं निजरूपं च प्राप्नोत् तथा कामरूपी हनूमान् विवृद्ध्य सङ्कुच्य च पुनः प्राग्रूपम् आप्नोत् ।

व्याकरणविशेषः

  • चक्रपाणेः = चक्रं पाणौ यस्य सः, चक्रपाणिः, तस्य
  • त्रिविक्रमस्य= त्रयः विक्रमाः (पदन्यासाः) यस्य सः त्रिविक्रमः, तस्य
  • तनूकृत्य = अतनुं तनुं कृत्वा (गतिसमासः)

अलङ्कारः

  • “चक्रपाणेस्‍त्रिविक्रमस्य क्रमम् एव चक्रे” – अत्र निदर्शना अलङ्कारः ।

अन्यविषयः

  • श्रीमद्वाल्मीकिरामायणसुन्दरकाण्डे सुरसापराजयवृत्तान्तम् – १/१४४-१८०

भूयोऽपि सोऽयं रघुनाथदूतश्चिच्छेद गच्छन्नखरैः खराग्रैः ।
नृसिंहरंहाः पथि सिंहिकाङ्गं छायानिरोधादुपपन्नमन्युः ॥९॥

पदच्छेदः

भूयः, अपि, सः, अयम्, रघुनाथदूतः, चिच्छेद, गच्छन्, नखरैः, खराग्रैः, नृसिंहरंहाः, पथि, सिंहिकाङ्गम्, छायानिरोधात्, उपपन्नमन्युः ।

आकाङ्क्षा

  • चिच्छेद
    • किं चिच्छेद ? सिंहिकाङ्गम् (कर्मपदम्)
    • कः चिच्छेद ? अयम् (हनूमान्)
      • कीदृशः अयम् ? सः
      • पुनः कीदृशः अयम् ? रघुनाथदूतः
      • पुनः कीदृशः अयम् ? उपपन्नमन्युः
        • कस्मात् उपपन्नमन्युः ? छायानिरोधात्
      • किं कुर्वन् चिच्छेद ? गच्छन्
        • कदा गच्छन् ? भूयः अपि
      • कुत्र चिच्छेद ? पथि
      • कीदृशः सन् चिच्छेद ? नृसिंहरंहाः (सन्)
      • कैः चिच्छेद ? नखरैः
        • कीदृशैः नखरैः ? खराग्रैः

अन्वयः

सः अयं रघुनाथदूतः भूयः अपि गच्छन् पथि छायानिरोधात् उपपन्नमन्युः नृसिंहरंहाः सिंहिकाङ्गं खराग्रैः नखरैः चिच्छेद ।

अन्वयार्थः

  • सः अयम् = मैनाकं सन्तोष्य सुरसां जित्वा अग्रे प्लुतः
  • रघुनाथदूतः = रामदूतः
  • भूयः अपि = पुनरपि
  • गच्छन् = प्लवमानः
  • पथि = मार्गे
  • छायानिरोधात्= स्वच्छायाग्रहणात्
  • उपपन्नमन्युः = जातरोषः
  • नृसिंहरंहाः= नरसिंहदेवः इव वेगवान् सन्
  • सिंहिकाङ्गम् = सिंहिकायाः शरीरम्
  • खराग्रैः नखरैः = तीक्ष्णैः नखैः
  • चिच्छेद = व्यदारयत्

Word Meaning

  • गच्छन् = while going
    • पथि = on the way
    • भूयः अपि = again
  • सः अयम् = That he, Hanuman
    • रघुनाथदूतः = the messenger of Rama
    • उपपन्नमन्युः = who was angered
      • छायानिरोधात्= because his shadow was grabbed
    • नृसिंहरंहाः= who was forceful like Narasimha
  • चिच्छेद = split
    • सिंहिकाङ्गम् = the body of Simhika
    • खराग्रैः नखरैः = with sharp nails

भावार्थः

मैनाकस्य सत्कारं स्नेहपूर्वकं सम्मान्य किन्तु कार्यत्वरया तत्र विश्रान्तिं परिहरन्, सुरसां चातुर्येण जित्वा पुनरपि वेगेन लङ्कायाः दिशि प्लुतः रामदूतः हनूमान् । मार्गे पुनः छायानिरोधरूपः विघ्नः समुत्पन्नः । कोऽयं मां आकर्षति, मम पुरोगतिं च बाधते इति दृष्टिं प्रसारितवान् हनूमान् राक्षसीं सिंहिकां अपश्यत् । क्रुद्धः सः यथा तीक्षणनखास्‍त्रैः नृसिंहः हिरण्यकशिपुं विदारयामास तथा छायाग्राहिण्याः सिंहिकायाः शरीरं छिन्नवान् ।

अन्यविषयः

श्रीमद्वाल्मीकिरामायणसुन्दरकाण्डे सिंहिकापराजयवृत्तान्तम् – १/१८३- २९३

व्याकरणविशेषः

  • रघुनाथदूतः
    • रघुनाथः = रघूणां नाथः
    • रघुनाथदूतः = रघुनाथस्य दूतः
  • छायानिरोधात्= छायायाः निरोधः छायानिरोधः, तस्मात्
  • उपपन्नमन्युः – उपपन्नः मन्युः यं सः
  • नृसिंहरंहाः= नृसिंहस्य रंहः इव रंहः यस्य सः
  • सिंहिकाङ्गम् = सिंहिकायाः अङ्गम्
  • खराग्रैः = खराः अग्राः खराग्राः, तैः
  • चिच्छेद = छिद् “छिदिँर् द्वैधीकरणे” लिट्., प्र.पु., ए.व. । लटि – छिनत्ति ।

अलङ्कारः

  • यथा “नृसिंहरंहाःसिंहिकाङ्गं खराग्रैः नखरैः चिच्छेद” इत्यत्र उपमा ।

तदनु पारावारस्य पारे लम्बशिखरिणि लम्बमानः प्रतनुतरवपुर्लङ्कापुरोत्तरगोपुरद्वारमासाद्य नितान्तचिन्तातन्तुसन्तानितान्तःकरणोऽभूत् ।

पदच्छेदः

तदनु, पारावारस्य, पारे, लम्बशिखरिणि, लम्बमानः, प्रतनुतरवपुः, लङ्कापुरोत्तरगोपुरद्वारम्, आसाद्य, नितान्तचिन्तातन्तुसन्तानितान्तःकरणः, अभूत्

आकाङ्क्षा

  • अभूत्
    • कथम् अभूत् ? नितान्तचिन्तातन्तुसन्तानितान्तःकरणः
    • किं कृत्वा अभूत् ? आसाद्य
      • किम् आसाद्य ? लङ्कापुरोत्तरगोपुरद्वारम्
    • कः अभूत् ? लम्बमानः
      • कुत्र लम्बमानः  ? लम्बशिखरिणि
        • कस्मिन् लम्बशिखरिणि  ? पारे
          • कस्य पारे ? पारावारस्य
        • कथम्भूतः सन् अभूत् ? प्रतनुतरवपुः
        • कदा अभूत् ? तदनु

अन्वयः

  • तदनु  पारावारस्य  पारे  लम्बशिखरिणि  लम्बमानः  प्रतनुतरवपुः  लङ्कापुरोत्तरगोपुरद्वारम् आसाद्य  नितान्तचिन्तातन्तुसन्तानितान्तःकरणःअभूत् |

अन्वयार्थः

  • पारावरः = समुद्रः
  • लम्बशिखरिणि = लम्बनामके पर्वते (त्रिकूटपर्वते)
  • लम्बमानः = अवरुह्य / अवतीर्णः सन्
  • आसाद्य = प्राप्य
  • प्रतनुतरवपुः = अतिलघुशरीरः
  • नितान्तचिन्तातन्तुसन्तानितान्तःकरणः = अत्यन्तं चिन्ताग्रस्तः
    • नितान्तम् = अत्यन्तम्
    • सन्तानितम् = आकुलम्

Word Meaning

  • तदनु = Then
  • लम्बमानः  = having climbed
    • लम्बशिखरिणि  = in the Trikuta mountain also called as the Lamba mountain
      • पारे = on the other side
      • पारावारस्य  = of the ocean
    • प्रतनुतरवपुः  = Hanuman, the one whose body (वपुस्) has been shrunk to the maximum extent (प्रतनुतर)
    • आसाद्य  = after climbing
      • लङ्कापुरोत्तरगोपुरद्वारम् = the door (द्वारम्) on the tower-gate (गोपुर) on the northern (उत्तर) side of the city (पुर) of Lanka (लङ्का)
    • अभूत् = became
    • नितान्तचिन्तातन्तुसन्तानितान्तःकरणः= one whose (अन्तःकरणः)  is agitated (सन्तानित) by the strings (तन्तु) of endless (नितान्त) thoughts (चिन्ता)

भावार्थः

श्रीरामदूतः सिंहिकां मारयित्वा समुद्रस्य अन्यतीरे त्रिकूटपर्वते अवतीर्य शत्रुदेशस्य प्रवेशविधानम् अचिन्तयत् । ततः सः आत्मनः शरीरं सूक्ष्मतरं कृत्वा लङ्कापुरस्य उत्तरगोपुरद्वारं प्राप्य अत्यन्तं चिन्ताकुलः सञ्जातः । तस्य चिन्तायाः हेतुः अग्रे विवक्ष्यते ।

व्याकरणविशेषः

  • लम्बशिखरिणि
    • शिखरम् अस्य अस्तीति शिखरी ।
    • लम्बः इति शिखरी, लम्बशिखरी, तस्मिन्
  • लङ्कापुरोत्तरगोपुरद्वारम्
    • लङ्कापुरम् = लङ्का इति पुरम्
    • लङ्कापुरोत्तरम् = लङ्कापुरस्य उत्तरम् (उत्तरदिगवस्थितम्)
    • लङ्कापुरोत्तरगोपुरम् = लङ्कापुरोत्तरस्य गोपुरम्
    • लङ्कापुरोत्तरगोपुरद्वारम् = लङ्कापुरोत्तरगोपुरस्य द्वारम्
  • नितान्तचिन्तातन्तुसन्तानितान्तःकरणः
    • चिन्तायाः तन्तुः = चिन्तातन्तुः
    • सन्तानितम् अन्तःकरणम् = सन्तानितान्तःकरणम्
    • नितान्तं चिन्तातन्तुना सन्तानितान्तःकरणम् यस्य सः =नितान्तचिन्तातन्तुसन्तानितान्तःकरणः

गद्यम्

मूलपाठः

वानरसेना कथं तरेदिममन्तरायं वितन्वन्तमुदन्वन्तम् तरतु नाम कथमुपयातु यातुधानराजधानीमिमाम्, सर्वथा वितथमनोरथो दाशरथिः, मोघीकृतार्णवलङ्घनः केवलमहमभवम्, जीविता वा न वेति न जानामि जानकीति तत्र भगवतीं सीतामवजिगमिषुराञ्जनेयः प्रच्छन्नसञ्चारहेतोरस्तमयं गभस्तिमालिनः केवलमभिललाष ॥

पदच्छेदः

वानरसेना, कथम्, तरेद्, इमम्, अन्तरायम्, वितन्वन्तम्, उदन्वन्तम्, तरतु, नाम, कथम्, उपयातु, यातुधानराजधानीम्, इमाम्, सर्वथा, वितथमनोरथः, दाशरथिः, मोघीकृतार्णवलङ्घनः, केवलम्, अहम्, अभवम्, जीविता, वा, न, वा, इति, न, जानामि, जानकी, इति, तत्र, भगवतीम्, सीताम्, अवजिगमिषुः, आञ्जनेयः, प्रच्छन्नसञ्चारहेतोः, अस्तमयम्, गभस्तिमालिनः, केवलम्, अभिललाष ।

पदच्छेदः अन्वयः भावार्थश्च

पदच्छेदः

वानरसेना कथम् तरेद्, इमम् अन्तरायम् वितन्वन्तम् उदन्वन्तम्,

अन्वयः

वानरसेना अन्तरायं वितन्वन्तम् इमम् उदन्वन्तम् कथं तरेद् ?

पदार्थः

अन्तरायः = विघ्‍नः, उदन्वान् = सागरः, वितन्वन् = कुर्वन्

भावार्थः

चिन्ताकुलस्य हनूमतः मनसि विचाराः उत्पन्नाः – राक्षससेनया सह योद्धुं सुग्रीवसैन्यं लङ्कां प्रति आगच्छेत् । वानराणाम् अत्र प्राप्तौ समुद्रः विघ्नायते । कथं वा ते इमं समुद्रं सन्तरेयुः?

Meaning

  • कथम्= How will
  • वानरसेना= the army of Monkeys
  • तरेत् = cross over
  • इमम्= this
  • उदन्वन्तम् = ocean
  • अन्तरायम्वितन्वन्तम् = the one that causes (वितन्वन्त) the hindrance (अन्तराय)

पदच्छेदः

तरतु नाम, कथम् उपयातु, यातुधानराजधानीम् इमाम्,

अन्वयः

तरतु नाम । यातुधानराजधानीम् इमां कथम् उपयातु?

पदार्थः

यातुधानाः = राक्षसाः

भावार्थः

कथञ्चित् सागरं तीर्त्वा लङ्कां प्राप्नुवन्ति चेदपि कथं वा राक्षसैः सुरक्षितां दुष्प्राप्यां इमां लङ्कापुरीं प्रविशेयुः?

Meaning

  • तरतुनाम = May be one crosses !
  • कथम्उपयातु = How will one enter
  • इमां यातुधानराजधानीम्= this capital (राजधानी) of demons (यातुधान)

पदच्छेदः

सर्वथा वितथमनोरथो दाशरथिः,

अन्वयः

दाशरथिः सर्वथा वितथमनोरथः (भवेत्)।

पदार्थः

वितथमनोरथः = व्यर्थः मनोरथः यस्य सः

भावार्थः

अप्राप्तायां सीतायां श्रीरामः नितरां हताशः भवेत् किल !

Meaning

दाशरथिः (भवेत्) = Rama might become

सर्वथा वितथमनोरथः = one whose desires (मनोरथः) have become futile (वितथ), by all means (सर्वथा)

पदच्छेदः

मोघीकृतार्णवलङ्घनः केवलम् अहम् अभवम्,

अन्वयः

अहं केवलम् मोघीकृतार्णवलङ्घनः अभवम् ।

पदविवरणम्

  • अर्णवस्य लङ्घनम् = अर्णवलङ्घनम्
  • मोघीकृतम् (विफलीकृतम्) अर्णवलङ्घनं यस्य सः –मोघीकृतार्णवलङ्घनः

भावार्थः

युद्धं न सम्पत्स्यते चेत् मम दूतकार्यार्थं समुद्रम् उल्लङ्घ्य अत्रागमनं निष्प्रयोजनं एव जातं किल !

Meaning

अहं केवलम् अभवम् = I have become only (केवलम्)

मोघीकृतार्णवलङ्घनः = one whose crossing (लङ्घन) of the ocean (अर्णव) has been futile (मोघीकृत)

पदच्छेदः

जीविता वा न वेति न जानामि जानकी

अन्वयः

जानकी जीविता वा न वा इति न जानामि !

भावार्थः

कोमलाङ्गी सीता रामवियोगात् सन्तप्ता क्रूरराक्षसैः सन्त्रस्ता च कथं वा प्राणान् धारयेत् ? सा सप्राणा वा गतप्राणा वा इत्यपि न जानामि !

Meaning

  • जानकी = Janaki
  • जीवितावा न वा इति = whether she is alive or not
  • नजानामि = I don’t know

पदच्छेदः

तत्र भगवतीम् सीताम् अवजिगमिषुः आञ्जनेयः, प्रच्छन्नसञ्चारहेतोः, अस्तमयम् गभस्तिमालिनः, केवलम् अभिललाष ।

अन्वयः

तत्र, भगवतीं सीताम् अवजिगमिषुः आञ्जनेयः प्रच्छन्नसञ्चारहेतोः गभस्तिमालिनः अस्तमयं केवलम् अभिललाष ।

पदार्थः

  • अवजिगमिषुः = अन्वेष्टुम् इच्छुः
  • प्रच्छन्नसञ्चारहेतोः = रहसि (प्रकाशाभावे) सञ्चाराय
  • गभस्तिमालिनः = सूर्यस्य (गभस्तिः – किरणः)

भावार्थः

लङ्कापुर्यां देवीं सीताम् अन्वेष्टुम् इच्छुः हनूमान् दिवा अटन्तं तं शत्रुः न पश्येत् इति धिया सूर्यास्तमनवेलां निरीक्षितवान् ।

Meaning

  • तत्र = there
  • भगवतींसीताम् अवजिगमिषुः = One who was searching for the noble Sita
  • आञ्जनेयः = Hanuman
  • प्रच्छन्नसञ्चारहेतोः = For (हेतु) roaming (सञ्चार) around in secrecy (प्रच्छन्न)
  • गभस्तिमालिनः अस्तमयम्= the setting (अस्तमय) of the sun (गभस्तिमालिन्)
  • केवलम्अभिललाष = He wished only (केवलम्)

गद्यम्

मूलपाठः
तदनु शातमखस्यागस्त्यसंनिधौ निक्षिप्तचापस्य प्रत्यासीदति प्रयोजनवेलेति प्रचेतसे कथयितुमिव प्रतीचीं दिशं प्रविशति भगवति भास्वति ।

पदच्छेदः

तदनु, शातमखस्य, अगस्त्यसंनिधौ, निक्षिप्तचापस्य, प्रत्यासीदति, प्रयोजनवेला, इति, प्रचेतसे, कथयितुम्, इव, प्रतीचीम्, दिशम्, प्रविशति, भगवति, भास्वति ।

अन्वयः

तदनु शातमखस्य अगस्त्यसंनिधौ निक्षिप्तचापस्य प्रयोजनवेला प्रत्यासीदति इति प्रचेतसे कथयितुम् इव प्रतीचीं दिशं भगवति भास्वति प्रविशति सति ।

पदार्थः

  • शातमखः = इन्द्रसम्बद्धः/ ऐन्द्रः
  • निक्षिप्त = न्यासीकृत (रक्षार्थम् अर्पित)
  • प्रत्यासीदति = संनिदधाति, समीपम् आगच्छति
  • प्रचेतसे = वरुणाय
  • प्रतीची दिक् = पश्चिमा दिशा
  • भास्वान् = सूर्यः

भावार्थः

समुद्रलङ्घनं लङ्काप्रवेशञ्च कथं वा कुर्याद् अस्मदीया वानरसेना इति आशङ्कमानः सूर्यास्तमनवेलां च निरीक्षमाणः हनूमान् तत्रैव लङ्कापुरस्य प्रवेशद्वारे यदा रहसि स्थितः तदा सूर्यास्तमनम् अभूत् । स च सूर्यदेवः – “वनमागच्छते रामाय प्रदातुं यद् ऐन्द्रं धनुः अगस्त्यमुनेः सकाशे न्यासीकृतम् आसीत् तस्य धनुषः प्रयोगावसरः इदानीं सन्निहितः” इति सन्देशं वरुणं श्रावयितुम् इव पश्चिमां दिशां प्राप्तवान् ।

पदविवरणम्

  • शातमखस्य – शतमखस्य अयं (चापः) शातमखः, तस्य
  • अगस्त्यसन्निधौ – अगस्त्यस्य सन्निधिः, तस्मिन्
  • प्रत्यासीदति – प्रति + आङ् + सद् विशरणगत्यवसादनेषु, लट्
  • निक्षिप्तस्य – नि + क्षिप् + क्त

Meaning

  • तदनु प्रतीचीं दिशं भगवति भास्वति प्रविशति सति = Then (तदनु) when the sun (भास्वत्) god (भगवत्) reached (प्रविशत्) the western (प्रतीची) direction (दिक्)
  • इति प्रचेतसे कथयितुम् इव = as if (इव) to remind (कथयितुम्) Varuna (प्रचेतस्) that (इति)
  • शातमखस्य अगस्त्यसंनिधौ निक्षिप्तचापस्य प्रयोजनवेला प्रत्यासीदति = the time (वेला) for using (प्रयोजन) has arrived (प्रत्यासीदति) for the bow (चाप) of Indra (शातमख) that was kept (निक्षिप्त) in the safe keeping (संनिधि) of Agastya (अगस्त्य)

गद्यम्

प्रस्तावना

सूर्यास्तमनवेलायां पश्चिमाद्रेः उपरि आकाशस्य ताम्रत्वं (पाटलत्वं) कथम् सम्प्राप्तम् इति अनेकधा सन्देहपूर्वकम् उत्प्रेक्ष्यते अत्र

मूलपाठः

गगनतलमिदमपरमहीधरकटककान्तारसमुद्भवदावपावकशिखाश्रेणिभिः किं शोणितम्, अथवा समीपसमापतत्पतङ्गरश्मिदृढतरवेष्टननिष्ठ्यूतानल-तटतपनोपलजालसमुल्लसज्ज्वालापटलैः किमापाटलितम्, आहोस्विदागताय मित्राय महार्घमर्घ्यं प्रदातुं प्रमुदितचेतसा प्रचेतसा तूर्णमर्णवोदरोद्गीर्यमाणमाणिक्यकिरणैः किमरुणितम्, आहोस्वित्तारापथतरङ्गिणीसलिलमपि रसयितुमुज्जृम्भितस्य चरमसागरौर्वाग्नेरर्चिःपुञ्जेन किमिह रञ्जितमिति सकलजनस्य संदेहसन्दोहं संदधाने संध्यारागे समुदञ्चिते, सरसीरुहश्रेणिषु पत्रपुटकपाटपिधानासु प्रतिकुमुदभवनं मकरन्दभिक्षामटत्सु मधुव्रतद्विजेषु,विकचकुवलयकलिकाकर्षणकषायेषु सायंतनवायुषु, तत इतः संचरत्सु तिमिरेषु, कालागरुधूमस्तोमश्यामलितेषु दिक्पालपुरगोपुरव्यूहेषु, प्रतिकमलाकरं प्रेङ्खिते विश्लेषवेदनापूर्वरङ्गे रथाङ्गविहङ्गदीनक्रेंकारे, नक्षत्रमालालङ्कृते गगनमतङ्गजे ।

पदच्छेदः

गगनतलम् इदम्, अपर-महीधर-कटककान्तार-समुद्भव-दावपावक-शिखाश्रेणिभिः किम् शोणितम्, अथवा, समीप-समापतत्-पतङ्गरश्मि-दृढतरवेष्टन-निष्ठ्यूतानल-तटतपनोपल-जाल-समुल्लसज्ज्वालापटलैः, किम् आपाटलितम् ? आहोस्वित्, आगताय मित्राय, महार्घम् अर्घ्यं प्रदातुम् प्रमुदितचेतसा, प्रचेतसा तूर्णम्, अर्णवोदरोद्गीर्यमाण-माणिक्यकिरणैः, किम् अरुणितम्? आहोस्वित्, तारापथ-तरङ्गिणी-सलिलम् अपि रसयितुम्, उज्जृम्भितस्य, चरम-सागरौर्वाग्‍नेः अर्चिःपुञ्जेन, किम् इह रञ्जितम्? इतिसकलजनस्य संदेहसन्दोहं संदधाने, संध्यारागे समुदञ्चिते, सरसीरुहश्रेणिषु पत्रपुट-कपाट-पिधानासु, प्रतिकुमुद-भवनं मकरन्द-भिक्षामटत्सु मधुव्रत-द्विजेषु, विकच-कुवलय-कलिकाकर्षण-कषायेषु सायंतन-वायुषु, ततः इतः संचरत्सु तिमिरेषु, कालागरु-धूमस्तोम-श्यामलितेषु दिक्पाल-पुरगोपुरव्यूहेषु, प्रतिकमलाकरम् प्रेङ्खिते विश्लेष-वेदनापूर्वरङ्गे रथाङ्ग-विहङ्ग-दीन-क्रेंकारे, नक्षत्र-मालालङ्कृते गगन-मतङ्गजे ।

पदच्छेदः अन्वयः भावार्थश्च

पदच्छेदः

गगनतलम् इदम्, अपर-महीधर-कटककान्तार-समुद्भव-दावपावक-शिखाश्रेणिभिः किम् शोणितम्

अन्वयः

इदं गगनतलम् अपर-महीधर-कटक-कान्तार-समुद्भव-दावपावक-शिखाश्रेणिभिः शोणितं किम् !

पदार्थः

  • अपर – पश्चिम
  • कटकः – पर्वतपार्श्वभागः
  • कान्तारः – वनम्
  • दावपावकः – वनाग्‍निः
  • शोणितम् – अरुणितम्

भावार्थः

पश्चिमाचलस्य सानुषु स्थित-वनेभ्यः उत्थितानां वनाग्‍निशिखानां प्रसृत्या किं सम्प्रति आकाशः रक्तरञ्जितः दृश्यते !

Meaning

  • इदंगगनतलम् = This sky
  • शोणितं किम्= Has it been reddened?
  • अपर-महीधर-कटक-कान्तार-समुद्भव-दावपावक-शिखाश्रेणिभिः= by the series (श्रेणि) of flames (शिखा) of the forest-fire (दावपावक) that has come up (समुद्भव) in the forests (कान्तार) on the slopes (कटक) of the mountain (महीधर) in the West (अपर)

पदच्छेदः

अथवा, समीप-समापतत्-पतङ्गरश्मि-दृढतरवेष्टन-निष्ठ्यूतानल-तटतपनोपलजाल-समुल्लसज्ज्वालापटलैः किम् आपाटलितम्

अन्वयः

अथवा, समीप-समापतत्-पतङ्गरश्मि-दृढतरवेष्टन-निष्ठ्यूतानल-तटतपनोपलजाल-समुल्लसज्ज्वालापटलैः आपाटलितं किम् ?

पदार्थः

  • पतङ्गः – सूर्यः
  • निष्ठ्यूत – विमुक्त / विसृष्ट
  • तपनोपलः – सूर्यकान्तमणिः

भावार्थः

कदाचित् निकटं समागच्छतः सूर्यस्य सान्द्र-किरणजालस्य (किरणजालरूपरज्ज्वा) संवलनात् पर्वतशिखरस्थाः सूर्यकान्तमणयः उद्दीप्ताः स्युः । तेषां मणीनां भ्राजमानैः ज्वालापुञ्जैः गगनं संरञ्जितं किम्?

Meaning

  • अथवा = Otherwise
  • आपाटलितं किम्? = Was it coloured in red colour?
  • समीप-समापतत्-पतङ्गरश्मि-दृढतरवेष्टन-निष्ठ्यूतानल-तटतपनोपलजाल-समुल्लसज्ज्वालापटलैः = by the multitude (पटल) of flames (ज्वाला), rising (समुल्लसत्) from the heaps (जाल) of the mountain-slopes’ (तट) sunstones (तपन+उपल), whose sparks (अनल) were being emitted out (निष्ठ्यूत) due to the strong (दृढतर) bonding (or turban) (वेष्टन) of the sun’s rays (पतङ्ग-रश्मि) that is coming (समापतत्) closer (समीप) to it?

पदच्छेदः

आहोस्वित् आगताय मित्राय महार्घम् अर्घ्यम् प्रदातुम् प्रमुदितचेतसा प्रचेतसा तूर्णम् अर्णवोदरोद्गीर्यमाण-माणिक्यकिरणैः किम् अरुणितम्

पदार्थः

  • महार्घम् – मूल्यवत्
  • उद्गीर्यमाण – उद्ध्रियमाण (उद्धरणं क्रियमाण)
  • तूर्णम् – शीघ्रम्

भावार्थः

स्वनिवासं प्रति आगतस्य सुहृदः सूर्यस्य सम्माननार्थं मूल्यवत् द्रव्यम् अर्पयितुं कदाचित् प्रसन्नमनाः वरुणदेवः सत्वरं गभीरसागरात् पद्मरागमणीन् उद्धृतवान् । किं तया पद्मरागद्युत्या आरक्तोऽयमाकाशः ?

Meaning

  • आहोस्वित् = Or is it this!
  • किम्अरुणितम् = has it been reddened ?
  • अर्णव+उदर+उद्गीर्यमाण-माणिक्य-किरणैः= by the rays (किरण) of the precious red-coloured gem (माणिक्य) that is being picked up (उद्गीर्य) from the middle (उदर) of the ocean (अर्णव)
    • तूर्णम्= quickly (i.e., being picked up quickly)
  • प्रचेतसा= by Varuna
    • प्रमुदितचेतसा= by one who is pleased
  • प्रदातुम्= to offer
    • महार्घम् = the most valuable
    • अर्घ्यम्= the welcome-drink
    • आगताय= for the one who has arrived
    • मित्राय= for the friend

पदच्छेदः

आहोस्वित् तारापथ-तरङ्गिणी-सलिलम् अपि रसयितुम् उज्जृम्भितस्य चरम-सागरौर्वाग्नेः अर्चिःपुञ्जेन किम् इह रञ्जितम् ?

पदार्थः

  • तारापथतरङ्गिणी – गङ्गा
  • चरम – पश्चिम
  • और्वाग्निः – वाडवाग्‍निः
  • अर्चिः – ज्वाला

भावार्थः

समुद्रसलिलस्य रसज्ञः वडवानलः सम्प्रति आकाशगङ्गातोयं कीदृशमिति कुतूहलात् तदास्वदितुम् उपरि उच्छ्रितः स्यात् । तस्य पश्चिमसमुद्र-वाडवाग्‍नेः ज्वालासन्ततीभिः किम् अत्र अम्बरम् अरुणितम् ?

Meaning

  • आहोस्वित्= Or is it this!
  • किम्इह रञ्जितम् ? Is it coloured
  • अर्चिःपुञ्जेन= by the multitude (पुञ्ज) of flames (अर्चिः)
  • चरम-सागर+और्वाग्नेः = of the fire inherent in water (और्वाग्नि) in the western (चरम) ocean (सागर)
    • उज्जृम्भितस्य= of that one which came up
      • अपिरसयितुम् = for tasting that too
        • तारापथ-तरङ्गिणी-सलिलम्= the water (सलिल) of Ganga, (the river तरङ्गिणी of the sky तारापथ, which is the path of the stars)

पदच्छेदः

इति सकलजनस्य संदेहसन्दोहम् संदधाने संध्यारागे समुदञ्चिते (सति)

पदार्थः

सन्दोह – आधिक्य, राशिः

सन्दधान – समुत्पादयन्

पदविवरणम्

समुदञ्चिते – सम् + उत् + अञ्च् “अचिँ गतौ याचने च” + क्त, समुच्छ्रिते सति

भावार्थः

इत्थं सर्वेषामपि आधिक्येन शङ्कां जनयन् यदा सायन्तन-नभसः ताम्रत्वम् इदं व्याप्तं तदा….

अलङ्कारः

गगनतलमिदं…………..समुदञ्चिते – अत्र उत्प्रेक्षानुप्राणितसन्देहालङ्कारः

Meaning

  • संध्यारागे= when the red colour glow (राग) of the evening (संध्या)
    • संदधाने= that which was creating
    • संदेहसन्दोहम्= a series (सन्दोह) of doubts (सन्देह)
      • सकलजनस्य= of all (सकल) the men (जन)
    • इति = in these ways (that have been described so far)
  • समुदञ्चिते (सति) = when it spread

पदच्छेदः

सरसीरुहश्रेणिषु पत्रपुटकपाटपिधानासु (सतीषु) प्रतिकुमुदभवनं मधुव्रतद्विजेषु मकरन्दभिक्षामटत्सु (सत्सु)

पदार्थः

  • पत्रपुटकपाटपिधानाः = कमलश्रेणयः
  • मधुव्रतद्विजाः = भृङ्गपक्षिणः (द्विः जायते इति द्विजः)

पदविवरणम्

  • पत्रपुट-कपाट-पिधानासु
    • पत्रपुट-कपाटानि = पत्रपुटानि एव कपाटानि
    • पत्रपुट-कपाट-पिधानासु = पत्रपुटकपाटानि पिधानानि यासु ताः, पत्रपुटकपाटपिधानाः, तासु

भावार्थः

अपि च सायं कमलपङ्क्तयः मुकुलिताः भवन्ति इत्यतः भ्रमराः यदा कुमुदवृन्देषु पुष्परसं याचमानाः सञ्चरन्ति स्म तदा….

Meaning

  • When the Brahmin mendicants (द्विज – twice born – birds and Brahmins) in the form of bees (which have vowed to consume only the nectar – मधुव्रतद्विज) went (अटत्) on begging (भिक्षाम्) nectar (मकरन्द) every (प्रति) house (भवन) in the form of the white water lilies (कुमुद)
    • When the rows (श्रेणि) of the lotuses (सरसीरुह) closed (पिधाना) the petals (पत्रपुट) which were its door (कपाट)

पदच्छेदः

विकच-कुवलय-कलिकाकर्षण-कषायेषु सायंतनवायुषु (सत्सु)

पदार्थः

  • विकच – विकसित
  • कलिकाकर्षण – कलिकानाम् अभिमर्शनम्
  • कषायः – सुरभिः

भावार्थः

ईषद्विकसित-कुमुदकलिकानां सम्पर्कात् सायन्तनवायुः यदा सुरभिमान् सञ्जातः तदा

Meaning

  • When the evening (सायंतन) breezes (वायु) became fragrant (कषाय) by the rubbing (कर्षण) with the just-now blossomed (विकच) lily (कुवलय) buds (कलिका)

पदच्छेदः

ततः इतः संचरत्सु तिमिरेषु (सत्सु)

भावार्थः

यदा अन्धकारः इतस्ततः प्रसरन् आसीत् तदा

Meaning

  • When darkness (तिमिर) was roaming (संचरत्) here (ततः) and there (इतः)

पदच्छेदः

कालागरु-धूमस्तोम-श्यामलितेषु दिक्पाल-पुर-गोपुर-व्यूहेषु (सत्सु)

पदार्थः

  • स्तोमः – राशिः

भावार्थः

दिक्पालानां यानि नगराणि सन्ति, तेषां बहिर्द्वार-पङ्क्तयः (सर्वाः दिशः इत्यर्थः) यदा कालागरूणां धूमराशिवत् कृष्णत्वं गताः तदा

Meaning

  • When the rows (व्यूह) of towers (गोपुर) in the cities (पुर) of the rulers (पाल) of the quarters (दिक्) became darkened (श्यामलित) by the collection (स्तोम) of the smoke (धूम) of the incense sticks (कालागरु)

पदच्छेदः

प्रतिकमलाकरं विश्लेषवेदनापूर्वरङ्गे रथाङ्गविहङ्ग-दीनक्रेंकारे प्रेङ्खिते (सति)

पदार्थः

  • प्रतिकमलाकरम् – प्रतिकमलवनम्
  • विश्लेषः – वियोगः
  • पूर्वरङ्गः – प्रस्तवाना
  • रथाङ्गविहङ्गः – चक्रवातपक्षी
  • क्रेङ्कारः – क्रन्दनम्
  • प्रेङ्खित – प्रकम्पित

भावार्थः

यदा सर्वकमलवने चक्रवातपक्षिणां वियोग-व्यथा-प्रस्तावनायाः (उपक्रमस्य) करुणक्रन्दनं स्पन्दते स्म तदा…

  • When the sad (दीन) ringing coos (क्रेंकार) of the Chakravaaha Bird, i.e., the ruddy geese (रथाङ्गविहङ्गः) reverberates (प्रेङ्खित) in every (प्रति) lotus (कमल) in the collection (आकर), as the prologue (पूर्वरङ्ग) for their misery (वेदना) of separation (विश्लेष)

पदच्छेदः

नक्षत्रमालालङ्कृते गगनमतङ्गजे (सति)

पदार्थः

  • नक्षत्रमाला – सप्तविंशतिमौक्तिकैः भूषितहारः इव तारकश्रेणी / गजस्य कण्ठाभरणविशेषः

पदविवरणम्

  • नक्षत्रमाला = नक्षत्राणि एव माला
  • गगनमतङ्गजः = गगनम् एव मतङ्गजः

भावार्थः

नक्षत्रावल्या भूषितः गगनरूपगजः यदा आकाशे शोभमानः आसीत् तदा

Meaning

  • नक्षत्रमालालङ्कृते गगनमतङ्गजे (सति) = When the sky (गगन), which is the elephant (मतङ्गज) became decorated (अलङ्कृत) by the stars (नक्षत्र), which are the garlands (माला)
  1. श्लोकः

मूलपाठः

आविर्बभूव पूर्वाद्रेः शृङ्गे शृङ्गारजीवितम्।
तमस्तमालकान्तारकुठारः शशलाञ्छनः ॥१०॥

पदच्छेदः

आविर्बभूव, पूर्वाद्रेः, शृङ्गे, शृङ्गारजीवितम्, तमस्तमाल-कान्तार-कुठारः, शशलाञ्छनः

आकाङ्क्षा

  • आविर्बभूव – प्राकटत् । उदितः अभवत् ।
    • कः आविर्बभूव ? शशलाञ्छनः
      • कीदृशः शशलाञ्छनः ? तमस्तमाल-कान्तार-कुठारः
      • कथम्भूतः शशलाञ्छनः ? शृङ्गारजीवितम्
    • कुत्र आविर्बभूव ? शृङ्गे
      • कस्य शृङ्गे ? पूर्वाद्रेः

अन्वयः

पूर्वाद्रेः शृङ्गे शृङ्गारजीवितं तमस्तमाल-कान्तारकुठारः शशलाञ्छनः आविर्बभूव ।

अन्वयार्थः

  • पूर्वाद्रेः शृङ्गे = पूर्वाचलस्य शिखरे
  • शृङ्गारजीवितम् = शृङ्गार-रस्यस्य जीवनभूतः / शृङ्गाररस्य पोषकः
  • तमस्तमालकान्तारकुठारः = तमालवनरूपस्य अन्धकारस्य परशुः (छेदकः)
  • शशलाञ्छनः = चन्द्रः
  • आविर्बभूव = उदितः अभवत्

भावार्थः

पश्चिमाचलस्य अधः सूर्ये अस्तङ्गते सति तमालवनरूपस्य अन्धकारस्य छेदनाय कुठाररूपः चन्द्रः पूर्वाचलस्य शिखरे उदितः ।

पदविवरणम्

  • शृङ्गारजीवितम् = शृङ्गारस्य जीवितम्
  • तमस्तमालकान्तारकुठारः
    • तमालबहुलः कान्तारः = तमालकान्तारः
    • तमः एव तमालकान्तारः = तमस्तमालकान्तारः
    • तमस्तमालकान्तारस्य कुठारः = तमस्तमालकान्तारकुठारः
  • शशलाञ्छनः= शशः इव लाञ्छनं (चिह्नं) यस्मिन् सः
  • आविर्बभूव = आविस् + भू“भू सत्तायाम्” लिट्., प्र.पु., ए.व.

विशेषः

  • शृङ्गारजीवितम्
    • शृङ्गाररसस्य रतिःस्थायिभावः ।
    • नायकः नायिका वाआलम्बनविभावः ।
    • मन्दसमीरचन्द्रादयःउद्दीपनविभावाः ।
    • अतः एव अत्र चन्द्रः ‘शृङ्गारजीवितम्’ इति उक्तम् ।

रामायणप्रसङ्गः

“श्रीमद्वाल्मीकिरामायणसुन्दरकाण्डे हनूमतः समुद्रपारप्राप्तिः” – द्वितीयः सर्गः

Meaning

  • शशलाञ्छनः = The moon, which has the symbol (लाञ्छन) of a hare (शश)
    • तमस्तमाल-कान्तारकुठारः = that which is the axe कुठारः for the Tamaala तमाल forests कान्तार in the form of darkness तमस्
      • शृङ्गारजीवितम् = that darkness which is the life of eroticism
    • आविर्बभूव = arose
    • पूर्वाद्रेः शृङ्गे = on the peak शृङ्गे of the western mountain पूर्वाद्रेः

11. श्लोकः

मूलपाठः

तत्करास्तमसा रुद्धा रेजिरे गगनाजिरे ।।  शैवालचयसंच्छन्नाः सरसीव बिसाङ्कुराः ॥११॥

पदच्छेदः

तत्कराः, तमसा, रुद्धाः, रेजिरे, गगनाजिरे, शैवाल-चय-संच्छन्नाः, सरसि, इव, बिसाङ्कुराः ।

आकाङ्क्षा

  • रेजिरे = अशोभन्त
    • के रेजिरे ?  तत्कराः
      • कीदृशाः तत्कराः ? रुद्धाः
        • केन रुद्धाः ? तमसा
      • कुत्र रेजिरे ? गगनाजिरे
      • कथम् इव रेजिरे ? सरसि शैवालचयसंच्छन्नाः बिसाङ्कुराः इव

अन्वयः

गगनाजिरे तमसा रुद्धाः तत्कराः सरसि शैवाल-चय-संच्छन्नाः बिसाङ्कुराः इव  रेजिरे ।

अन्वयार्थः

  • गगनाजिरे = आकाशप्राङ्गणे
  • तमसा रुद्धाः = अन्धकारेण खण्डिताः
  • तत्कराः = चन्द्रकिरणाः
  • सरसि = सरोवरे
  • शैवालचयसंच्छन्नाः = शैवालसमूहैः आवृताः
  • बिसाङ्कुराः इव = श्वेतकमलकिसलयाः इव
  • रेजिरे = शोभन्ते स्म ।

भावार्थः

नभसः प्राङ्गणे (गाढ) अन्धकारेण अवरुद्धाः चन्द्रस्य (उज्ज्वल) रश्मयः तथा अराजन्त यथा सरोवरे (गाढहरित) शैवालमये आस्तरणे (श्वेत) कमलकिसलयाः शोभन्ते ।

व्याकरणविशेषः

  • गगनाजिरे = गगनस्य अजिरम्, गगनाजिरम्, तस्मिन्
  • शैवालचयसंच्छन्नाः
    • शैवालानां चयः = शैवालचयः
    • शैवालचयसंच्छन्नाः = शैवालचयेन संच्छन्नाः
  • बिसाङ्कुराः = बिसानाम् अङ्कुराः
  • रेजिरे = राज् “राज दीप्तौ”, लिट्., प्र.पु., ब.व. | लटि राजते |

Meaning

  • तत्कराः = Its rays, i.e., the rays of the moon
  • रेजिरे = shone
  • गगनाजिरे = in the sky’s space
    • तमसा रुद्धाः = that was enveloped by darkness (तमः)
  • बिसाङ्कुराः इव = like the buds of the white lotus
    • शैवाल-चय-संच्छन्नाः = which were surrounded by the collection of mosses
    • सरसि = in the pond
  1. श्लोकः

मूलपाठः

तस्मिन् प्रदोषसमये सहसा हनूमान् कीर्तिच्छटायवनिकामपनीय शत्रोः ।
आविर्बभूव सुमनःपरितोषणाय लङ्काप्रवेशनवनाटकसूत्रधारः ॥१२॥

पदच्छेदः

तस्मिन्, प्रदोषसमये, सहसा, हनूमान्, कीर्तिच्छटा-यवनिकाम्, अपनीय, शत्रोः, आविर्बभूव, सुमनःपरितोषणाय, लङ्का-प्रवेश-नवनाटक-सूत्रधारः ।

आकाङ्क्षा

  • आविर्बभूव
    • कः ? हनूमान्
      • कीदृशः हनूमान् ? लङ्काप्रवेशनवनाटकसूत्रधारः
    • किं कृत्वा आविर्बभूव ? अपनीय
      • काम् अपनीय ? कीर्तिच्छटायवनिकाम्
        • कस्य कीर्तिच्छटायवनिकाम् ? शत्रोः
      • कदा आविर्बभूव? तस्मिन् प्रदोषसमये
      • कथम् आविर्बभूव ? सहसा
      • किमर्थम् आविर्बभूव ? सुमनःपरितोषणाय

अन्वयः

तस्मिन् प्रदोषसमये लङ्का-प्रवेश-नवनाटक-सूत्रधारः हनूमान् सुमनःपरितोषणाय सहसा शत्रोः कीर्तिच्छटा-यवनिकाम् अपनीय आविर्बभूव ।

अन्वयार्थः

  • तस्मिन् प्रदोषसमये = तस्मिन् निशारम्भकाले
  • लङ्का-प्रवेश-नवनाटक-सूत्रधारः = लङ्कायाः प्रवेशः इति यत् अकृतपूर्वं नाटकम्, तस्य प्रवर्तकः / नटमुख्यः
  • हनूमान् = आञ्जनेयः
  • सुमनःपरितोषणाय = देवानां प्रीणनाय / सामाजिकानां मनोरञ्जनाय
  • सहसा = शीघ्रमेव
  • शत्रोः = अरेः
  • कीर्तिच्छटा-यवनिकाम् = यशःप्रसृतिरूपां जवनिकां (प्रतिसीरां / तिरस्करिणीं)
  • अपनीय = अपसार्य
  • आविर्बभूव = प्रकटितः अभवत् ।

भावार्थः

रावणः स्वतपोबलेन ब्रह्मणः वरं प्राप्य पराक्रमे देवान् अपि निर्जित्य दुर्जेयः सञ्जातः। सूर्यः अग्‍निः वायुः समुद्रः चेति सर्वेऽपि देवाः अप्सरसः गन्धर्वाः अन्ये च तस्मात् बिभ्यति स्म । तादृशस्य रावणस्य कीर्तिं क्षित्वा देवानां सन्तोषाय आञ्जनेयः तस्मिन् प्रदोषकाले सहसा लङ्काप्रवेशरूपां अपूर्वां लीलाम् तथा अरचयत् यथा कश्चन सूत्रधारः रजनीमुखे (प्रदोषकाले) सामाजिकानां मनोरञ्जनाय यवनिकाम् अपसार्य रङ्गप्रवेशं करोति ।

व्याकरणविशेषः

  • लङ्काप्रवेशनवनाटकसूत्रधारः
    • लङ्कायाः प्रवेशः – लङ्काप्रवेशः
    • नवं नाटकम् – नवनाटकम्
    • लङ्काप्रवेशः एव नवनाटकम् – लङ्काप्रवेशनवनाटकम्
    • लङ्काप्रवेशनवनाटकसूत्रधारः – लङ्काप्रवेशनवनाटकस्य सूत्रधारः
  • सुमनःपरितोषणाय
    • शोभनं मनः यस्य सः सुमनाः ।
    • सुमनसां परितोषणम् – सुमनःपरितोषणं, तस्मै
  • कीर्तिच्छटा-यवनिकाम्
    • कीर्तेः छटा – कीर्तिच्छटा
    • कीर्तिच्छटा एव यवनिका – कीर्तिच्छटा-यवनिका, ताम्

अलङ्कारः

  • रूपकालङ्कारः

विशेषः

  • सुमनःपरितोषणाय
    • हनूमतः लङ्काप्रवेशः देवतानां सन्तोषाय अकल्पत ।
    • नाटके सूत्रधारस्य रङ्गप्रवेशः सहृदयानां सन्तोषाय कल्पते ।

Meaning

  • तस्मिन् प्रदोषसमये = During that (तत्) time (समय) of dusk (प्रदोष)
  • लङ्का-प्रवेश-नवनाटक-सूत्रधारः = the stage director (सूत्रधार) of the new (नव) drama (नाटक) of entering (प्रवेश) Lanka (लङ्का)
  • हनूमान् = Hanuman
    • अपनीय = Having brought down
      • शत्रोः कीर्तिच्छटा-यवनिकाम् = the curtain in the form of the enemies’
    • आविर्बभूव = appeared
      • सहसा = enthusiastically
      • सुमनःपरितोषणाय = (in the context of Hanuman), for the happiness (परितोषण) of Devas (सुमनस्), and (in the context of Drama), for the the pleasure (परितोषण) of the connoisseurs (सुमनस्)

गद्यम्

मूलपाठः

तत्काले लङ्काधिदेवतामात्मना सह विग्रहं विधातुं गृहीतयुवतिविग्रहां मार्गप्रसारस्यार्गलीभूय भूयसा तर्जयन्तीं निर्जित्य तया वानररचितावज्ञोपज्ञं निजनिलयविलयं सरसिजासनशासनादावेदयन्त्या विहितानुमतिर्मारुतिर्लङ्कायामविकलमेव मैथिलीं विचिन्वन्नैर्ऋतचक्रवर्तिनः प्रासादमाससाद ।

पदच्छेदः

तत्काले, लङ्काधिदेवताम्, आत्मना, सह, विग्रहम्, विधातुम्, गृहीत-युवति-विग्रहाम्, मार्गप्रसारस्य, अर्गलीभूय, भूयसा, तर्जयन्तीम्, निर्जित्य, तया, वानर-रचितावज्ञोपज्ञम्, निजनिलय-विलयम्, सरसिजासन-शासनात्, आवेदयन्त्या, विहितानुमतिः, मारुतिः, लङ्कायाम्, अविकलम्, एव, मैथिलीम्, विचिन्वन्, नैर्ऋतचक्रवर्तिनः, प्रासादम्, आससाद ।

आकाङ्क्षा

[ मुख्यक्रिया – आससाद | सहायकक्रियाः – निर्जित्य, विचिन्वन् ]

  • मारुतिः आससाद ।
    • कदा आससाद ? तत्काले
    • कुत्र आससाद ? नैर्ऋतचक्रवर्तिनः प्रासादम्
    • किं कृत्वा आससाद ? निर्जित्य
      • कां निर्जित्य ? लङ्काधिदेवताम्
        • कीदृशीं लङ्काधिदेवताम् ? गृहीत-युवति-विग्रहाम्
          • किं कर्तुं गृहीत-युवति-विग्रहाम् ? आत्मना सह विग्रहं विधातुम्
            • कथम्भूतं विग्रहं विधातुम् ? मार्गप्रसारस्य अर्गलीभूय (स्थिताम्)
          • पुनः कीदृशीं लङ्काधिदेवताम् ? भूयसा तर्जयन्तीम्
        • कीदृशः सन् आससादः ? विहितानुमतिः (सन्)
          • कया विहितानुमतिः ? तया
            • कीदृश्या तया ? आवेदयन्त्या
              • किम् आवेदयन्त्या ? वानर-रचितावज्ञोपज्ञं निजनिलय-विलयम्
            • कस्मात् ? सरसिजासन-शासनात्
          • किं कुर्वन् आससाद ? विचिन्वन्
            • काम् विचिन्वन् ? मैथिलीम्
            • कथं विचिन्वन् ? अविकलम् एव

अन्वयः

तत्काले मारुतिः आत्मना सह विग्रहं विधातुं गृहीतयुवतिविग्रहां, मार्गप्रसारस्य अर्गलीभूय (स्थितां), भूयसा तर्जयन्तीं, लङ्काधिदेवतां निर्जित्य, वानर-रचितावज्ञोपज्ञं निजनिलय-विलयं सरसिजासनशासनात् आवेदयन्त्या तया विहितानुमतिः (सन्), लङ्कायां मैथिलीम् अविकलम् एव विचिन्वन्, नैर्ऋतचक्रवर्तिनः प्रासादम् आससाद ।

अन्वयार्थः

  • विधातुम् – कर्तुम्
  • गृहीतयुवतिविग्रहा – स्वीकृततरुणीरूपा
  • मार्गप्रसारः = मार्गसञ्चारः
  • अर्गलः = विष्कम्भः (bolt)
  • भूयसा = भृशम् (अव्ययम्)
  • निर्जित्य = जित्वा
  • वानररचितावज्ञोपज्ञम्
    • वानरेण यः पराजयः रचितः तत्प्रथमज्ञानं यस्य तथोक्तः = वानररचितावज्ञोपज्ञः
    • अवज्ञा = अपमानः
    • उपज्ञा = प्रथमज्ञानम्
  • निजनिलयविलयः = स्ववासस्थानस्य नाशः
  • अविकलम् = निर्विघ्‍नम्
  • नैर्ऋतचक्रवर्तिनः = राक्षससार्वभौमस्य

भावार्थः

यदा हनूमान् प्रदोषसमये लङ्कां प्राविशत् तदा लङ्कायाः अधिष्ठात्री देवता लङ्किणी स्‍त्रीरूपं धृत्वा नगरप्रवेशद्वारस्य विष्कम्भत्वेन (अर्गलरूपेण) हनूमतः मार्गम् अवरुद्ध्य स्थिता । तेन सह योद्धुम् उद्यता सा हनूमन्तं भृशम् अगर्हत् । यदा हनूमान् तां (मुष्टिघातेन) पराजितवान् तदा सा राक्षसी साक्षात् ब्रह्मणः मुखात् तया श्रुतं वचनम् इदं ज्ञापितवती यत् – “यस्मिन् दिने केनचित् वानरेण तव पराजयः भवति तदा राक्षसपुर्याः लङ्कायाः नाशं निश्चितं विद्धि” इति । तस्याः लङ्किण्याः अनुमतिं प्राप्य सीतादेवीम् अन्विष्यन् हनूमान् राक्षसराजस्य राजभवनम् आप्‍नोत् ।

Meaning

  • तत्काले = During that time
  • निर्जित्य = having won over
    • लङ्काधिदेवताम् = the presiding deity (अधिदेवता) of Lanka
    • गृहीत-युवति-विग्रहाम् = who had taken (विग्रह) the form (विग्रह) of a young girl (युवति)
      • आत्मना सह विग्रहं विधातुम् = to carry out the fight (विग्रह) with self (i.e., with Hanuman) (आत्मना सह)
    • मार्गप्रसारस्य अर्गलीभूय = who having become (भू) the bolt (अर्गली) for the journey (मार्ग) on that path (प्रसार)
      • भूयसा तर्जयन्तीम् = who was repeatedly (भूयसा) threatening (तर्ज) him
    • मारुतिः = Hanuman
      • विहितानुमतिः = He who has been given (विहित) the permission (अनुमतिः)
        • तया = by her
          • आवेदयन्त्या = by her who announced
            • निजनिलय-विलयम् = the destruction (विलय) of one’s own (निज) place of residence (निलय)
            • वानर+रचित+अवज्ञ+उपज्ञम् = which was first known (उपज्ञ) by the insult (अवज्ञ) caused (रचित) by the monkey (वानर)
              • सरसिजासन-शासनात् = due to the instructions (शासन) of Brahma (सरसिजासन) (e., one whose seat (आसन) is the lotus (सरसिज))
            • मैथिलीम् विचिन्वन् = He who was searching (विचिन्वत्) for Sita (मैथिली)
              • अविकलम् एव = unimpaired (अविकल), without any hinderance (विकल)
                • लङ्कायाम् = in Lanka
              • आससाद = reached
                • नैर्ऋतचक्रवर्तिनः प्रासादम् = the palace (प्रासाद) of the emperor (चक्रवर्तिन्) of the demons (नैर्ऋत)
  1. श्लोकः

मूलपाठः

तत्र –

एषा राक्षससार्वभौमनगरी रक्षश्चमूरक्षिता तस्येदं सदनं सुवर्णशिखरं बिभ्राणमभ्रावलिम् ।                                                       एतत्पुष्पकमाहृतं धनपतेरित्यादरान्मारुते-स्तत्रादर्शयदिन्दुदीपकिरणप्रद्योतिताशा निशा ॥१३ ॥ ​

पदच्छेदः

तत्र, एषा, राक्षस-सार्वभौमनगरी, रक्षश्चमूरक्षिता, तस्य, इदम्, सदनम्, सुवर्णशिखरम्, बिभ्राणम्, अभ्रावलिम्, एतत्, पुष्पकम्, आहृतम्, धनपतेः, इति, आदरात्, मारुतेः, तत्र, अदर्शयत्, इन्दु-दीप-किरण-प्रद्योतित+आशा, निशा ।

आकाङ्क्षा

  • अदर्शयत्
    • का अदर्शयत् ? निशा
      • कीदृशी निशा ? इन्दु-दीप-किरण-प्रद्योतिताशा
    • कस्मात् हेतोः अदर्शयत् ? आदरात्
      • कस्य आदरात् ? मारुतेः
    • किं कुर्वन्ती अदर्शयत् ? … इति (कथयन्ती)
      • किमिति (कथयन्ती) ? एषा राक्षस-सार्वभौमनगरी
        • कीदृशी राक्षस-सार्वभौमनगरी ? रक्षश्चमूरक्षिता
      • पुनः किमिति (कथयन्ती) ? इदं तस्य सदनम्
        • कीदृशं सदनम् ? अभ्रावलिम्
        • पुनः कीदृशं सदनम् ? बिभ्राणम्
        • पुनः कीदृशं सदनम् ? सुवर्णशिखरम्
      • पुनः किमिति (कथयन्ती) ? एतत् पुष्पकम्
        • कीदृशं पुष्पकम् ? आहृतम्
          • कस्मात् आहृतम् ? धनपतेः

अन्वयः

तत्र मारुतेः आदरात् इन्दुदीपकिरणप्रद्योतिताशा निशा, एषा रक्षश्चमूरक्षिता राक्षस-सार्वभौमनगरी, इदम् तस्य अभ्रावलिं बिभ्राणं सुवर्णशिखरं सदनम्, एतत् धनपतेः आहृतम् पुष्पकम्, इति अदर्शयत् ।

अन्वयार्थः

  • तत्र = तस्मिन् समये
  • मारुतेः आदरात् = रामकार्ये प्रवृत्ते हनूमति बहुमानात्
  • इन्दुदीपकिरणप्रद्योतिताशा = चन्द्ररूपदीपस्य किरणैः प्रकाशिताः दिशाः यया (तादृशी निशा)
  • निशा = रात्रिः
  • एषा = इयं पुरः दृश्यमाना
  • रक्षश्चमूरक्षिता = राक्षससेनया परिरक्षिता
  • राक्षससार्वभौम-नगरी = राक्षसचक्रवर्तिनः नगरी
  • इदम् = एतत् च
  • तस्य = रावणस्य
  • अभ्रावलिं बिभ्राणम् = मेघमालां दधानम्
  • सुवर्णशिखरम् = यस्य प्रासादशृङ्गानि स्वर्णमयानि तादृशम् (भवनं)
  • सदनम् = भवनम्
  • एतत् = इदं च
  • धनपतेः = कुबेरात्
  • आहृतम् = बलात् आहृतम्
  • पुष्पकम् = पुष्पकविमानम्
  • इति अदर्शयत् = इत्थम् दर्शितवती ।

भावार्थः

लङ्कायां तस्यां रात्रौ चन्द्रक्रिरणैः दिक्षु प्रकाशितासु सतीषु हनूमान् राक्षससेनया पालितां लङ्कां, राक्षसाधीशस्य रावणस्य अत्युन्नतशृङ्गयुक्तं प्रासादं, रावणेन कुबेरात् आहृतं पुष्पकविमानम् इति सर्वं स्फुटं ददर्श ।

व्याकरणविशेषः

  • इन्दुदीपकिरणप्रद्योतिताशा
    • इन्दुः एव दीपः – इन्दुदीपः
    • इन्दुदीपस्य किरणाः – इन्दुदीपकिरणाः
    • इन्दुदीपकिरणप्रद्योतिताशा – इन्दुदीपकिरणैः प्रद्योतिताः आशाः यया सा
  • रक्षश्चमूरक्षिता
    • रक्षसां चमूः – रक्षश्चमूः ।
    • रक्षश्चमूरक्षिता – रक्षश्चम्वा रक्षिता ।
  • राक्षससार्वभौम-नगरी
    • राक्षसानां सार्वभौमः – राक्षससार्वभौमः
    • राक्षससार्वभौम-नगरी – राक्षससार्वभौमस्य नगरी
  • अभ्रावलिम् = अभ्राणाम् आवलिः, अभ्रावलिः, ताम्
  • सुवर्णशिखरम् = सुवर्णमयानि शिखराणि यस्य तत् (भवनम्)

अलङ्कारः

  • निशायाः प्रदर्शकस्य असम्बन्धे अपि तत्सम्बन्धाभिधानात्अतिशयोक्तिः ।

Meaning

  • तत्र = Then
  • मारुतेः आदरात् = Due to the respect (आदर) towards Hanuman (मारुति)
  • निशा = the night
    • इन्दुदीपकिरणप्रद्योतिताशा = who lights up (प्रद्योतित) the directions (आशा) by the rays (किरण) of the light (दीप) that is the moon (इन्दु)
  • इति अदर्शयत् = thus showed
    • एषा राक्षस-सार्वभौमनगरी = This (एषा) is the city (नगरी) of the emperor (सार्वभौम) of the demons (राक्षस)
      • रक्षश्चमूरक्षिता = that is protected (रक्षित) by the army (चमू) of the demons (रक्षस्)
    • इदं तस्य सदनम् = this (इदम्) is his (तस्य) residential palace (सदन)
      • सुवर्णशिखरम् = which had golden (सुवर्ण) towers (शिखर)
        • अभ्रावलिम् बिभ्राणम् = which were bearing (or touching) (भृञ्) the range (आवलि) of clouds (अभ्र)
      • एतत् पुष्पकम् = this (एतत्) is the pushpaka (पुष्पक) vimaana, the vehicle to travel in sky
        • धनपतेः आहृतम् = seized (आहृ) from Kubera, the lord (पति) of wealth (धन)

<DRAFT …… TO BE UPDATED>

11/01/2018

 अपि च –

आदित्यः कृतकृत्य एष भविता सीतापतेरीदृशं
​​साहाय्यं विरचय्य कीर्तिमतुलामादित्सुना सूनुना ।
इत्यालोच्य तदा किल स्वयमपि ख्यातिं ग्रहीतुं परां          

लङ्कायां रघुनाथदूतसरणौ चन्द्रेण दीपायितम् ॥१४॥
पदच्छेदः

अपि च –

आदित्यः, कृतकृत्यः, एषः, भविता, सीतापतेः, ईदृशम्,​​ साहाय्यम्, विरचय्य,  कीर्तिम्, अतुलाम्, आदित्सुना, सूनुना, इति, आलोच्य, तदा, किल, स्वयम्, अपि, ख्यातिम्,गृहीतुम्, पराम्, लङ्कायाम्, रघुनाथ-दूत-सरणौ, चन्द्रेण, दीपायितम् ।

 

आकाङ्क्षा

दीपायितम् – प्रकाशितम् आसीत्

केन दीपायितम् ? चन्द्रेण

किं कर्तुं (प्रयोजनम्) ? स्वयम् अपि ग्रहीतुम्

कां गृहीतुम् ? ख्यातिम्

कीदृशीं ख्यातिम् ? पराम्

कुत्र दीपायितम् ? लङ्कायां रघुनाथदूतसरणौ

किं कृत्वा दीपायितम् (हेतुः) ? आलोच्य

किम् इति आलोच्य ? भविता (भविष्यति) इति

कः भविता ? आदित्यः

कीदृशः आदित्यः ? एषः

पुनः कीदृशः आदित्यः ? कृतकृत्यः

केन (करणम्) कृतकृत्यः भविता ? सूनुना

कीदृशेन सूनुना ? आदित्सुना

काम् आदित्सुः (आदित्यसूनुः) ? कीर्तिम्

कीदृशीं कीर्तिम् ? अतुलाम्

किं कृत्वा कीर्तिम् आदित्सुः (भवति)? विरचय्य

किं विरचय्य ? साहाय्यम्

कस्य साहाय्यम् ? सीतापतेः

कीदृशं सहाय्यम् ? ईदृशम् (रघुनाथदूतसरणेः दीपनम्)

 

 

 

अन्वयः

सीतापतेः ईदृशं​​ साहाय्यं विरचय्य अतुलां कीर्तिम् आदित्सुना सूनुना एषः आदित्यः   कृतकृत्यः भविता इति आलोच्य तदा लङ्कायां रघुनाथदूतसरणौ स्वयम् अपि परां ख्यातिं ग्रहीतुं चन्द्रेण दीपायितं किल ।

 

अन्वयार्थः

सीतापतेः = श्रीरामस्य

ईदृशं​​ साहाय्यम्  = सीतान्वेषेणे श्रीरामस्य साहाय्यम्

विरचय्य = आचर्य

अतुलां कीर्तिम् = अपूर्वं यशः

आदित्सुना = प्राप्तुम् इच्छुकेण

सूनुना = पुत्रेण

एषः आदित्यः = अयं सूर्यः

कृतकृत्यः = संसिद्धः

भविता = भविष्यति

इति आलोच्य = इति विचिन्त्य

तदा = तस्मिन् प्रदोषकाले

लङ्कायाम् = लङ्कापुर्याम्

रघुनाथदूतसरणौ = रामदूतमार्गे

स्वयम् अपि = यथा सूर्यः तथा स्वयं चन्द्रः

परां ख्यातिम् = अनुत्तमां प्रसिद्धिम्

ग्रहीतुं = प्राप्तुम्

चन्द्रेण = शशिना

दीपायितं किल = दीपवत् आचरितं खलु ।

 

भावार्थः

“अप्रतिमं यशः लब्धुकामः सूर्यतनयः सुग्रीवः सीतान्वेषणकार्ये श्रीरामस्य साहाय्यम् आचरति । ईदृशेन स्वपुत्रेण सूर्यः संसिद्धिं प्राप्स्यति । “यदि अहमपि साहाय्यम् आचरेयं तर्हि उत्कृष्टं यशः लभेय” इति मन्यमानेन चन्द्रेण तस्यां रात्रौ लङ्कयां श्रीरामदूतस्य हनूमतः मार्गे दीपवत् आचरितम् ।

“यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्

अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति” ॥

 

 

व्याकरणविशेषः

रघुनाथदूतसरणौ –

दीपायितम् – दीपवत् आचरितम्

 

अत्र उत्प्रेक्षालङ्कारः

 

=================================

एवमेव पर्यटन्नस्वप्नसुन्दरीसौन्दर्यमुद्रां निद्रयाप्यतिशय्य शय्यागृहे कृतसंवेशं वेशयुवतिपरिवृतमवरोधवधूजनमप्यनिरोधेन निरीक्ष्य तत्र वितथमनोरथो मारुतिर्विरचितबहु-विधचिन्ताप्रकारः प्राकारादवप्लुतः सन्नशोकवनिकायामपि मैथिलीमन्वेष्टुमिष्टदेवताप्रणतिमतनुत ।
पदच्छेदः

एवमेव पर्यटन्, अस्वप्नसुन्दरी-सौन्दर्यमुद्राम् निद्रया अपि अतिशय्य, शय्यागृहे कृतसंवेशम्, वेशयुवति-परिवृतम्, अवरोधवधूजनम् अपि, अनिरोधेन निरीक्ष्य, तत्रवितथमनोरथः मारुतिः, विरचित-बहु-विध-चिन्ताप्रकारः, प्राकारात् अवप्लुतः सन्, अशोकवनिकायाम् अपि, मैथिलीम् अन्वेष्टुम्, इष्टदेवताप्रणतिम् अतनुत ।

 

आकाङ्क्षा

अतनुत ।

कः ? मारुतिः

मारुतिः किम् अतनुत ? इष्टदेवताप्रणतिम्

किं कुर्वन् अतनुत ? पर्यटन्

किं कर्तुं (प्रयोजनम्) ? अन्वेष्टुम्

काम् अन्वेष्टुम् ? मैथिलीम्

कुत्र (अपि) अन्वेष्टुम् ? अशोकवनिकायाम् अपि

कीदृशः सन् ? अवप्लुतः सन्

कुतः अवप्लुतः ? प्राकारात्

पुनः कीदृशः सन् ? वितथमनोरथः

किं कृत्वा वितथमनोरथः सन् ? निरीक्ष्य

पुनः कीदृशः सन् ? विरचितबहुविधचिन्ताप्रकारः (सन्)

कं निरीक्ष्य ? कृतसंवेशम्

कीदृशं कृतसंवेशम् ? वेशयुवति-परिवृतम्

कुत्र कृतसंवेशम् ? शय्यागृहे

पुनः कं (अपि) निरीक्ष्य ? अवरोधवधूजनम् अपि

कथम्भूतम् अवरोधवधूजनम् ? अतिशय्य (स्थितम्)

काम् अतिशय्य ? अस्वप्नसौन्दर्यमुद्राम्

कया अतिशय्य ? निद्रया अपि

कथं निरीक्ष्य ? अनिरोधेन

 

अन्वयः प्रतिपदार्थः च

एवम् एव पर्यटन् मारुतिः शय्यागृहे अस्वप्नसुन्दरीसौन्दर्यमुद्रां निद्रया अपि अतिशय्य  वेशयुवतिपरिवृतं कृतसंवेशम् अवरोधवधूजनम् अपि अनिरोधेन निरीक्ष्य तत्र (मैथिलीम् अपश्यन्) वितथमनोरथः (अतः) विरचितबहुविधचिन्ताप्रकारः (सन्) प्राकारात् अवल्पुतः सन् अशोकवनिकायाम् अपि मैथिलीम् अन्वेष्टुम् इष्टदेवताप्रणतिम्अतनुत ।

 

एवम् एव पर्यटन् मारुतिः = लङ्कायां सञ्चरन् पुष्पकविमानं राक्षसेन्द्रभवनम् इति                                             अवलोकमानः पवनपुत्रः

शय्यागृहे =                          शयनकक्षे

अस्वप्नसुन्दरीसौन्दर्यमुद्राम् =     देवलोकाङ्गनानां रूपसम्पदं

निद्रया अपि अतिशय्य  = निद्रादशायाम् अपि अतिरिच्य

वेशयुवतिपरिवृतम् = वेश्याजनपरिवेष्टितम्

कृतसंवेशम् = शयानम्

अवरोधवधूजनम् अपि = मन्दोदर्यादिम् अन्तःपुरस्‍त्रीसमुदायम्

अनिरोधेन निरीक्ष्य = निर्बाधं दृष्ट्वा

तत्र वितथमनोरथः = तद्भवने (मैथिलीम् अपश्यन्) विफलाभिलाषः (अतः)

विरचितबहुविधचिन्ताप्रकारः (सन्) = सीतादेवी कीदृशीं दुर्दशाम् आपन्ना स्यात्                                                       इति चिन्ताकुलः सन्

प्राकारात् अवल्पुतः सन् = रावणप्रासाद-परिधिं लङ्घित्वा

अशोकवनिकायाम् अपि = अशोकवाटिकायाम् अपि

मैथिलीम् अन्वेष्टुम् = जनकसुतां विचेतुम्

इष्टदेवताप्रणतिम् अतनुत = आराध्यदेववन्दनम् अकरोत् ।

 

भावार्थः

 

 

असौ जनकनन्दिनीं तत इतो विचिन्वन्क्षणा-
​​दशोकवनिकामगादपगतान्यमार्गभ्रमः ।
परामभिलषन्गतिं शमधनो यथा निर्मम-
​​स्त्रयीमखिलकिल्बिषप्रशमनैकदिव्यौषधिम्  ॥१५ ॥
पदच्छेदः

असौ ,जनकनन्दिनीम्, ततः, इतः, विचिन्वन्, क्षणात्, अशोकवनिकाम्, अगात्, अपगतान्यमार्गभ्रमः, पराम्, अभिलषन्, गतिम्, शमधनः, यथा, निर्ममः,
​​त्रयीम्, अखिल-किल्बिष-प्रशमनैकदिव्यौषधिम् ।

 

आकाङ्क्षा

अगात् – अगच्छत्

कः ? असौ

कुत्र अगात् ? अशोकवनिकाम्

कदा अगात् ? क्षणात्

किं कुर्वन् अगात् ? विचिन्वन्

कां विचिन्वन् ? जनकनन्दिनीम्

कुत्र विचिन्वन् ? ततः इतः

कीदृशः असौ ? अपगतान्यमार्गभ्रमः

कथम् इव अगात् ? यथा निर्ममः शमधनः पराम् अभिलषन्                                                         अखिलकिल्बिषप्रशमनैकदिव्यौषधिं त्रयीम् (गच्छति) ।

 

अन्वयः

असौ जनकनन्दिनीं इतः ततः विचिन्वन् अपगतान्यमार्गभ्रमः (सन्) शमधनः निर्ममः पराम् अभिलषन् अखिलकिल्बिषप्रशमनैकदिव्यौषधिं त्रयीं यथा (गच्छति) तथा  क्षणात् अशोकवनिकाम् अगात् ।

 

अन्वयार्थः

असौ = हनूमान्

जनकनन्दिनीम्  = जानकीम्

इतः ततः विचिन्वन् = इतस्ततः अन्विष्यन्

अपगतान्यमार्गभ्रमः (सन्) = मार्गान्तरसञ्चारं परितज्य / शमधनपक्षे अनन्यगतिकः

शमधनः = वशी / शान्तचित्तः

निर्ममः = ममत्वरहितः

पराम् अभिलषन् = परां गतिम् (मोक्षम्) इच्छन्

अखिलकिल्बिषप्रशमनैकदिव्यौषधिम् = समस्तपापानां विनाशे अद्वितीयं दिव्यभेषजं

त्रयीम् = वेदं / ब्रह्मविद्यां

यथा (गच्छति) तथा  = यथा प्राप्नोति

क्षणात् = शीघ्रमेव

अशोकवनिकाम् = अशोकतरुबहुलां वाटिकां

अगात् = अगच्छत् ।

 

भावार्थः

 

==========

ततस्तस्यां नागपुंनागतालहिन्तालतमालकृतमालसरलबकुलवञ्जुलतिलकामलक-कुटजलिकुचकतक-कक्कोलाङ्कोललवङ्गविकङ्कतकेतकीकदंबोदुम्बरकपित्थाश्वत्थ-कुरवकमरुवकमाकन्दकुन्दतिन्दुक-चन्दनस्यन्दनचम्पकचाम्पेयपनसवेतसपलाश-पाटलारसालप्रियालुप्रायैरनेकैरनोकहनिवहैः परिवृतायां परिभ्रमन्नभ्रङ्कषविकट-विटपनिबिडितगगनप्रपञ्चां काञ्चन काञ्चनमयीं शिंशपामारुरोह ।

 

पदच्छेदः

ततस्तस्याम्, नाग-पुन्नाग-ताल-हिन्ताल-तमाल-कृतमाल-सरल-बकुल-वञ्जुल-तिलकामलक-कुटज-लिकुच-कतक-कक्कोल-अङ्कोल-लवङ्ग-विकङ्कत-केतकी-कदंम्बोदुम्बर-कपित्थ-अश्वत्थ-कुरवक-मरुवक-माकन्द-कुन्द-तिन्दुक-चन्दन-स्यन्दन-चम्पक-चाम्पेय-पनस-वेतस-पलाश-पाटल-रसाल-प्रियालु-प्रायैः, अनेकैः अनोकहनिवहैःपरिवृतायाम्, परिभ्रमन्, अभ्रङ्कष-विकटविटप-निबिडित                                         गगन-प्रपञ्चाम्, काञ्चन, काञ्चनमयीम्, शिंशपाम्, आरुरोह ।

 

अकाङ्क्षा

ततः आरुरोह

कः आरुरोह ? (मारुतिः)

कीदृशः (मारुतिः) ? परिभ्रमन्

कुत्र परिभ्रमन् ? तस्याम् (अशोकवनिकायाम्)

कीदृश्यां तस्याम् ? परिवृतायाम्

कैः परिवृतायाम् ? अनोकहनिवहैः

कीदृशैः अनोकहनिवहैः ? अनकैः

पुनः कीदृशैः अनोकहनिवहैः ?  नागपुंनाग………….प्रियालुप्रायैः

काम् आरुरोह ? काञ्चन शिंशपाम्

कीदृशीं शिंशपाम् ? काञ्चनमयीम्

पुनः कीदृशीं शिंशपाम् ? अभ्रङ्कषविकटविटपनिबिडितगगनप्रपञ्चाम्

 

अन्वयः

ततः (सः मारुतिः) नाग-पुन्नाग-ताल-हिन्ताल-तमाल-कृतमाल-सरल-बकुल-वञ्जुल-तिलक-आमलक-कुटज-लिकुच-कतक-कक्कोल-अङ्कोल-लवङ्ग-विकङ्कत-केतकी-कदंम्बोदुम्बर-कपित्थ-अश्वत्थ-कुरवक-मरुवक-माकन्द-कुन्द-तिन्दुक-चन्दन-स्यन्दन-चम्पक-चाम्पेय-पनस-वेतस-पलाश-पाटल-रसाल-प्रियालु-प्रायैः, अनेकैः अनोकहनिवहैः परिवृतायां तस्यां (अशोकवनिकायाम्) परिभ्रमन् अभ्रङ्कष-विकट-विटप-निबिडित-गगन-प्रपञ्चां काञ्चन काञ्चनमयीं शिंशपाम् आरुरोह ।

 

अन्वयार्थः

ततः = अशोकवनिकाप्राप्त्यनन्तरम्

(सः मारुतिः)

नागः = नागकेसरः                 पुन्नागः = देववल्लभः

तालः = तृणराजः                   हिन्तालः = श्रीतालः

तमालः = तापिच्छः                कृतमालः = आरग्वघः

सरलः = देवदारुः                   बकुलः = मौलिश्रीवृक्षः

वञ्जुलः = अशोकः         तिलकः = क्षुरकः

आमलकः = तिष्यफलः             कुटजः = गिरिमल्लिकातरुः

लिकुचः = लकुचः                  कतकः = जलशोधकफलत्वेन प्रसिद्धः वृक्षविशेषः

कक्कोलः = कोशगलः               अङ्कोलः = निकोचकः

लवङ्गः =                            विकङ्कतः = स्रुवावृक्षः

केतकी = तृणद्रुमविशेषः           कदंम्बः = नीपः

उदुम्बरः = जन्तुफलः               कपित्थः = दधिफलः

अश्वत्थः = पिप्पलः                 कुरबकः = रक्तकुरण्टकः

मरुबकः = पिण्डीतकः             माकन्दः = रसालवृक्षः

कुन्दः = माध्यपुष्पतरुः             तिन्दुकः = स्फूर्जकवृक्षः

चन्दनः = मलयजतरुः              स्यन्दनः = तिनिशः

चम्पकः = हेमपुष्पतरुः             चाम्पेयः = केसरः

पनसः = कण्टकिफलः              वेतसः = वेत्रलता

पलाशः = किंशुकः                 पाटलः = मुष्ककः

रसालः = आम्रः                     प्रियालु-प्रायैः = राजादनः

 

अनेकैः = एतन्मुख्यैः नानाविधैः

अनोकहनिवहैः = वृक्षसमूहैः

परिवृतायाम् तस्याम् =  परिपूर्णायाम् अशोकवनिकायाम्

परिभ्रमन् = सञ्चरन्

अभ्रङ्कष-विकट-विटप-निबिडित-गगन-प्रपञ्चाम् = गगनस्पर्शिभिः विशालवृक्षैः

घनीभूताम् गगनमण्डलं व्याप्नुवतीं

काञ्चन काञ्चनमयीम् = कामपि स्वर्णमयीं

शिंशपाम् = शिंशपातरुम्

आरुरोह  = आरूढवान् ।

 

व्याकरणविशेषः

अनोकहनिवहैः
तत्र तत्पत्रसंछन्नगात्रः पुत्रो नभस्वतः ।
न्यग्रोधदलसंलीनजनार्दनदशां दधौ ॥१६ ॥

पदच्छेदः
तत्र, तत्पत्रसञ्छन्नगात्रः, पुत्रः, नभस्वतः, न्यग्रोध-दल-संलीन-जनार्दन-दशाम्,                     दधौ ।

आकाङ्क्षा

दधौ = प्राप

कः ? पुत्रः

कस्य पुत्रः ? नभस्वतः

कीदृशः नभस्वतः पुत्रः ? तत्पत्रसंछन्नगात्रः

कुत्र दधौ ? तत्र

कां दधौ ? न्यग्रोध-दल-संलीन-जनार्दन-दशाम्

 

अन्वयः

तत्र तत्पत्रसञ्छन्नगात्रः नभस्वतः पुत्रः न्यग्रोधदलसंलीनजनार्दनदशां दधौ ।

 

अन्वयार्थः   

तत्र = तस्मिन् शिंशपातरौ

तत्पत्रसञ्छन्नगात्रः = तद्वृक्षस्य पर्णैः आच्छादितशरीरः सन्

नभस्वतः पुत्रः = वायुसुतः

न्यग्रोधदलसंलीनजनार्दनदशाम् = वटपत्रे शयानस्य विष्णोः अवस्थाम्

दधौ =  प्राप

 

भावार्थः

 

व्याकरणविशेषः

तत्पत्रसञ्छन्नगात्रः =

नभस्वतः =

न्यग्रोधदलसंलीनजनार्दनदशाम् =

 
पुनरयमेनामालोक्यैवं चिन्तां ततान ।

 

पदच्छेदः

पुनः,अयम्, एनाम्, आलोक्य, एवम्, चिन्ताम्, ततान ।

 

भावार्थः

एनां सीतां दृष्ट्वा भूयोऽपि अयं हनूमान् वक्ष्यमाणप्रकारेण चिन्तामकरोत् ।

 

ज्योत्स्नां विनापि निवसेन्निशि शीतभानु-        

श्छायां विनापि विलसेद्दिवसेश्वरोऽपि               

एनां विना रघुपतिः परिगृह्य धैर्यं                

सप्राण एव वसतीति विचित्रमेतत् ॥१८ ॥

 

पदच्छेदः

ज्योत्स्नाम्, विना, अपि, निवसेत्, निशि, शीतभानुः, छायाम्, विना, अपि, विलसेत्, दिवसेश्वरः, अपि,  एनाम्, विना, रघुपतिः, परिगृह्य, धैर्यम्, सप्राणः, एव, वसति, इति,विचित्रम्, एतत् ।
अकाङ्क्षा

निवसेत्

कः निवसेत् ? शीतभानुः

कां विना अपि निवसेत् ? ज्योत्स्नां विनापि

कदा निवसेत् ? निशि

विलसेत्

कः ? दिवसेश्वरः

कां विना अपि ? छायाम् विनापि

(अस्ति)

किम् अस्ति ? एतत् विचित्रम् अस्ति

किम् करोति ‘इति’ एतत् विचित्रम् ? वसति इति

कः वसति ? रघुपतिः

कीदृशः वसति ? सप्राणः

कां विना ? एनां विना

किं कृत्वा ? परिगृह्य

किं परिगृह्य ? धैर्यं

 

अन्वयः

शीतभानुः निशि ज्योत्स्नां विनापि निवसेत्, दिवसेश्वरः छायां विनापि विलसेत्, एनाम् विना रघुपतिः धैर्यं परिगृह्य सप्राणः अपि वसति इति एतत् विचित्रम् एव ।

 

अन्वयार्थः

शीतभानुः = चन्द्रः

निशि = रात्रौ

ज्योत्स्नां विनापि = चन्द्रिकां विनापि

निवसेत् = तिष्ठेत्

दिवसेश्वरः = सूर्यः

छायां विनापि = छायानामिकां स्वभार्यां विनापि

विलसेत् = प्रकाशेत

एनाम् विना = सीतां विना

रघुपतिः = श्रीरामः

धैर्यं परिगृह्य = दार्ढ्यम् अवलम्ब्य

सप्राणः अपि = सजीवः

वसति इति = तिष्ठति इति

एतत् विचित्रम् एव = आश्चर्यकरम् एव ।

 

भावार्थः

 

व्याकरणविशेषः 

References:

  1. Weekly online classes conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai.
    https://youtu.be/srOz9iBNEws?list=PLTWf5ZhGT3626J-nV5_kCc1f3i4fOyGkX
  2. Champu-ramayana, Chaukhamba Amarabharati Prakashan
    श्रीभोजराजसार्वभौमविरचितं चम्पूरामायणम्, कल्याणी संस्कृत-हिन्दिव्याख्याद्वयोपितम्, (सुन्दरकाण्डम्), व्याख्याकारः – पण्डित रामनाथत्रिपाठी शास्त्री,
    चौखम्बा अमरभारती प्रकाशन, वाराणसी, १९७९
    champu
  3. Original Text (is being updated in wikisource after each class) https://sa.wikisource.org/wiki/चम्पूरामायणम्/सुन्दरकाण्डः
  4. English translation
    http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html
  5. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up

 

Advertisements