Kathopanishad – Sriram Mahadevan

Here is the material related to the Kathopanishad shlokas covered in the online sessions taken by Sri. Sriram Mahadevan. 

ॐ अथ कठोपनिषद्
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।

अध्याय १

वल्ली १

१.१.१ श्लोक:

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

ह वै वाजश्रवसः उषन् सर्ववेदसं ददौ। तस्य ह नचिकेताः नाम पुत्र आस |

ह वै (द्वौ निपातौ) किमपि विशेषः अर्थ: न विद्यते |

वाजश्रवसः – वाजम् = अन्नम्; श्रव: = यश: ; वाजम् अन्नं तद् दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा | तस्य अपत्यम् अथवा गोत्रो जात: वाजश्रवसः | वाजश्रवस: इति महामुनिः आसीत् यस्य पूर्वजै: अन्नदानेन यश: प्राप्त: |

नचिकेताः = नचिकेतस् शब्दः

उशन् – संतोषम् अनुभवन् |

There is a story in Mahabharata about how the sage Uddaalaka curses his son, who came late when he was sent by his father to bring some things to while Uddaalaka was performing some homa kriyaa at the banks of the river. He falls unconscious. Then when he gets up, Uddaalaka could notice that he has come back from a different dimension. “के लोकाः जिताः त्वया” – asks the father.

तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । सोऽमन्यत ॥ २ ॥  

कुमारं सन्तं तं दक्षिणासु नीयमानसु श्रद्धा आविवेश ह । सः अमयन्त ।

कुमारः =  बाल-युवक्योः मध्ये भवति |

श्रद्धा = आस्तिक्य बुद्धिः, “शास्त्रस्य गुरुवाक्यस्य सत्यबुद्वधि-अवधारणम्, सा सद्धभिः श्रद्धा कथिता यया वस्तु उपलभ्यते।” – विवेक-चूडामणि |

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌ ॥ ३ ॥ 

पीतोदकाः जग्धतृणाः दुग्धदोहाः निरिन्द्रियाः ताः ददत् सः तान् गच्छति ते लोकाः अनन्दाः नाम |

अनन्दाः = आनन्द रहिताः |

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

सः पितरम् उवाच ह तत कस्मै मां दास्यसि इति। द्वितीयं तृत्रीयं। तं ह पिता उवाच त्वा मृत्यवे ददामि इति |

भावमण्डले सः यमलोकं गच्छति | शरीरम् अत्र एव आसीत् |

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥ 

बहूनां प्रथमः एमि। बहूनां मध्यमः एमि । यमस्य किंस्वित् कर्तव्यं यत् मया अद्य करिष्यति ।

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

पूर्वे यथा अनुपश्य। तथा अपरे प्रतिपश्य। मर्त्यः सत्यम् इव पच्यते पुनः सत्यम् इव अजायते ।

मर्त्यः = मरणशीलः |

“पालय सत्यम् । मां यमालयं  प्रतिप्रेषयतु |” इति व्याक्ये अस्ति |

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्‌ । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्‌ ॥ ७ ॥ 

ब्राह्मणः अतिथिः सन् वैश्वानरः इव गृहान् प्रविशति। तस्य एतां शान्तिं कुर्वन्ति । वैवस्वत उदकं हर |

वैश्वानरः = अग्निः | उदकम् = जलम् |

आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्वे पुत्रपशूंश्च सर्वान्‌ । एतद्‌ वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥

ब्राह्मणः अनश्नन् यस्य गृहे वसति तस्य अल्पमेधसः पुरुषस्य आशाप्रतिक्षे सङ्गतम् सुनृताम् इष्टापूर्ते पुत्रपशून् सर्वान् एतत् सर्वं वृङ्क्ते |

तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९ ॥

ब्रह्मन् अतिथिः त्वं नमस्यः यत् मे गृहे तिस्रः रात्रीः अनश्नन् अवात्सीः तस्मात् प्रति त्रीन् वरान् वृणीष्व। ब्रह्मन् ते नमः अस्तु । मे स्वस्ति अस्तु |

मे स्वस्ति अस्तु = अहं स्वस्थतया भवेयम्  |

शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥

मृत्यो गौतमः शान्तसङ्कल्पः सुमनाः मा अभि वीतमन्युः यथा स्यात् प्रतीतः त्वत्प्रसृष्टं अभिवदेत् एतत् त्रयाणां प्रथमं वरं वृणे |

वीतमन्युः = कोपः गच्छेत् |

यथा पुरस्ताद्‌ भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्‌ ॥ ११ ॥ 

आरुणिः औद्दालकिः पुरस्तात् त्वयि यथा मत्प्रसृष्टः तथैव प्रतीतः भविता । सः त्वां मृत्युमुखात् प्रमुक्तं ददृशिवान् वीतमन्युः रात्रीः सुखं शयिता |

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥ 

स्वर्गे लोके किञ्चन भयं न अस्ति । तत्र त्वं न असि न जरया बिभेति। उभे अशनायापिपासे तीर्त्वा शोकातिगः स्वर्गेलोके मोदते ।

अशनाया = बुभुक्षा ।

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्‌ ।
स्वर्गलोका अमृतत्वं भजन्त एतद्‌ द्वितीयेन वृणे वरेण ॥ १३ ॥ 

मृत्यो सः त्वं स्वर्ग्यम् अग्निम् अध्येषि तं श्रद्धधानाय मह्यं प्रब्रूहि । स्वर्गलोकाः अ

मृतत्वं भजन्ते । एतत् द्वितीयेन वरेण वृणे ।

अग्निकार्यविषये स्वगलूकानां विषये च मां वदतु |

अन्तः विद्यमानः a plane of existence आविर्भवति. It is not to be taken that there are physical planes of existence.

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्‌ ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्‌ ॥ १४ ॥ 

अहं स्वर्ग्यम् अग्निं प्रजानं प्रब्रवीमि तत् उ मे निबोध । नचिकेतः त्वम् एतम् अनन्तलोकाप्तिम् अथो प्रतिष्ठानां गुहायां निहितं विद्धि ।

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥

यमः तस्मै लोकादिं तम् अग्निम् उवाच। याः यावतीः वा इष्टकाः यथा वा सः च अपि तत् यथोक्तं प्रत्यवदत्। अथ मृत्युः अस्य तुष्टः पुन एव आह ॥

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥

महात्मा प्रीयमाणः तम् अव्रवीत् इह एव अद्य तव भूयः वरं ददामि। अयम् अग्निः तव एव नाम्ना भविता। इमाम् अनेकरूपां सङ्कां च गृहाण ॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १७॥

त्रिभिः सन्धिम् एत्य त्रिणचिकेतः त्रिकर्मकृत् जन्ममृत्यू तरति। ईड्यं ब्रह्मजज्ञं देवं विदित्वा निचाय्य इमाम् अत्यन्तं शान्तिम् एति ॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्‌।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८॥

यः त्रिणाचिकतः विद्वान् एतत् त्रयं विदित्वा नाचिकेतम् एव चिनुते स पुरतः मृत्युपाशान् प्रणोद्य शोकतिगः स्वर्गलोके मोदते ॥

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्श्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥

नचिकेतः एषः ते स्वर्ग्यः अग्निः यम् द्वितीयन वरेन अवॄणीथाह्। जनासः एतम् अग्निं तव एव नाम्ना प्रवक्षामि। नचिकेतः अथ तॄतीयं वरं वृणीस्व ॥

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २०॥

मनुष्य प्रेते या इयं विचिकित्सा एके अयम् अस्ति इति आहुः एके अयं न सति इति च आहुः । त्वया अनुशिष्टः एतत् अहं विद्याम् एषः वराणां तॄतीयः वरः ॥

विचिकित्सा = सन्देहः |

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्‌ ॥ २१॥

देवैः अपि अत्र पुरा विचिकित्सितं हि इदं न सुज्ञेयम्। एषः धर्मः अणुः नचिकेतः अन्यं वरं वृणिष्व। मा मा उपरोत्सीः। मा एवम् अतिसृज ॥

अणुः  = सूक्ष्मः |   मा उपरोत्सीः = don’t importune / urge me |

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्‌ ॥ २२॥

अत्र देवैः अपि विचिकित्सितं किल मृत्यो यत् च त्वं न सुज्ञेयम्। अथ त्वादृक् अन्यः अस्य वक्ता च न लम्यः। अतः एतस्य तुल्यः अन्यः कश्चित् वरः न अस्ति ॥

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्‌।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥

शतायुषः पुत्रपौत्रान् वृणीष्व। अहून् पशून् हस्तिहिरण्यम् अश्वान् भूमेः महत् आयतनं वॄणिष्व। स्वयं च यावत् शरदः जीवितुम् इछसि तावत् जीव ॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाजं करोमि ॥ २४॥

यदि एतत् तुल्यं वरं मन्यसे यथा वित्तं चिरजीविकां च वृणिस्व। नचिकेतः महाभुमौ त्वम् एधिः। त्वा कामानां कामभाजं करोमि ॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्शीः ॥ २५॥

ये ये कामाः मर्त्यलोके दुर्लभः तान् सर्वान् कामान् छन्दतः प्रार्तयस्व। इमं सरथाः सतूर्याः रामाः ईदृशाः मनुष्यैः नहि लम्भनीयाः मत्प्रत्तभिः अभिः परिचारयस्व। नचिकेतः मरणम् मा अनुप्राक्षिः ॥

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६॥

अन्तक त्वदुक्ताः भोगः श्वोभाबाः किञ्च मर्त्यस्य सर्वेन्द्रियाणां यत् तेजः एतत् जरयन्ति अपि सर्वम् जीवितम् अल्पम् एव। तव वाहाः नृत्यगीते तव एव तिष्ठन्तु ॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७॥

मनुष्यः वित्तेन न तर्पणीयः। वयं त्वा अद्राक्षाम चेत् वित्तं लप्स्यामहे। तथा यावत् त्वं ईशिष्यति जीविष्यामः। सः तु वरः एव मे वरणीयः ॥

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्‌।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८॥

अजीर्यताम् अमॄतानां सकाशं उपेत्य प्रजानम् क्वधस्थः जीर्यन् कः मर्त्यः अपि च वर्णरतिप्रमोदान् अभिध्यायन् अतिदिर्घे जीविते रमेत ॥

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्‌।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥

मृत्यो यस्मिन् महति साम्पराये यत् इदं विचिकित्सन्ति नः तत् ब्रूहि। यः अयं गूढम् अनुप्रविष्टः वरः विद्यते नचिकेताः तस्मात् अन्यम् न वृणिते ॥

अध्याय १               वल्ली २

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥

अन्यत् श्रेयः उत अन्यत् एव प्रेयः। ते उभे नानार्थे सती पुरुषं सिनीतः। तयोः श्रेयः आददानस्य साधु भवति उ सः अर्थात् हीयते यः प्रेयः वृणीते ॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्‌वृणीते ॥ २ ॥

श्रेयः च प्रेयः च मनुष्यम् एतः। धीरः तौ सम्परीत्य विविनक्ति। धीरः हि प्रेयसः श्रेयः अभिवृणीते। मन्दः योगक्षेमात् प्रेयः वृणिते ॥

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥

नचिकेतः सः त्वं प्रियान् प्रियरूपान् च कामान् अभिध्यायन् अत्यस्नाक्षीः वित्तमयीम् एतां सङ्कां न अवाप्तः यस्यां बहवः मनुष्याः मज्जन्ति ॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥

या च अविद्या विद्या इति च या ज्ञाता एते दूरं वीपरिते विषुची। नचिकेतसं विद्याभीप्सिनं मन्ये। यतः बहवः कामाः त्वा न अलोलुपन्त ॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥

अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः दन्द्रम्यमाणाः मूढाः परियन्ति यथा अन्धेन एव नीयमानाः अन्धाः ॥

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्‌ । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥

साम्परायः वित्तमोहेन मूढं वित्तमोहेन प्रमाद्यन्तं बालं न प्रतिभाति। अयं लोकः अस्ति परः न अस्ति इति मानी पुनः पुनः मे वशम् आपद्यते ॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥

यः बहुभिः श्रवणाय अपि न लम्यः बहवः शृण्वन्तः अपि यम् न विद्युः अस्य वक्ता आश्चर्यः अस्य लब्धा कुशलः कुशलानुशिष्टः ज्ञाता आश्चर्यः ॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्‌ ॥ ८ ॥

एषः अवरेण नरेण प्रोक्तः न सुविज्ञेयः भवति अनन्यप्रोक्ते अत्र गतिः न अस्ति। हि एषः अणुप्रमाणात् अणीयान् अपि च अतर्क्यम् ॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥

प्रेष्ठ त्वं याम् आप एषा मतिः तर्केण न आपनेया भवति । अन्येन प्रोक्ता सुज्ञानाय एव भवति । नचिकेतः सत्यधृतिः असि बत। नः त्वादृक् प्रष्टा भूयात् ॥

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्‌ । ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥ १० ॥

शेवधिः अनित्यं इति अहं जानामि हि धृवम् हि तत् अधृवैः न हि प्राप्यते। ततः मया अनित्यैः द्रव्यैः नचिकेतः अग्निः चितः तेन नित्यं प्राप्तवान् अस्मि ॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्‌ । स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥

नचिकेतः कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोः आनन्त्यम् अभयस्य पारं स्तोमम् महत् उरुगायं प्रतिष्ठां दृष्ट्वा त्वं धृत्या तत् अत्यस्नाक्षीः ॥

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्‌ । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

दुर्दर्शं गूधम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं तम् देवं अध्यात्मयोगाधिगमेन मत्वा धीरः हर्षशोकौ जहाति ॥

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥

मर्त्यः एतत् श्रुत्वा अणुम् धर्म्यम् प्रब्रुह्य सम्परिगृह्य सः एतम् आप्य मोदनीयम् लब्ध्वा मोदते हि नचिकेतसम् प्रति सद्म विवृतम् मन्ये ॥

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌ । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥

धर्मात् अन्यत्र अधर्मात् अन्यत्र अस्मात् कृतकृतात् अन्यत्र भूयात् भव्यात् अन्यत्र यत् पश्यसि तत् वद ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्‌ ॥ १५ ॥

सर्वे वेदाः यत् पदम् आमनन्ति सर्वाणि तपांसि च यत् वदन्ति यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण ब्रवीमि ॐ इति एतत् ॥

एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं परम्‌ । एतद्‌ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥ १६ ॥

एतेत् एव हि अक्षरं ब्रह्म एतत् एव हि अक्षरं परम्। एतत् एव हि अक्सरं ज्ञात्वा यः यत् इच्छति तस्य तत् सिध्यति ॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌ । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

एतत् श्रेष्ठम् आलम्बनं। एतत् परम् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्‌ । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥

विपश्चित् न जायते म्रियते वा। अयं कुतश्चित् न बभूब। अस्मात् न कश्चित् बभूब । अयम् अजः नित्यः शाश्वतः पुराणः। शरीरे हन्यमाने न हन्यते ॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्‌ । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

हन्ता हन्तुं मन्यते चेत् हतः हतं मन्यते चेत् तौ उभौ न विजानीतः। अयं न हन्ति न हन्यते ॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्‌ । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥

अणोः अणीयान् महतः महीयान् आत्मा अस्य जन्तोः गुहायां निहितः। अक्रतुः वीतशोकः धातुप्रसादात् आत्मनः तं महिमानं पश्यति ॥

आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

अनवस्थेषु शरीरेसु अवस्थितम् अशरीरं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌ । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

अनवस्थेषु शरीरेसु अवस्थितम् अशरीरं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ २३ ॥

अयम् आत्मा प्रवचनेन न लभ्यः। न मेधया न बहुधा श्रुतेन। एषः यम् एव वृणुते तेन लभ्यः। तस्य एषः आत्मा त्वां तनूं विवृणुते ॥

एषः (आत्मा) यम् एव वृणुते तेन लभ्यः। तस्य एषः आत्मा त्वां तनूं विवृणुते  – The one chosen by Aatma will only be able to obtain.    

Shankara Bhaashyam – यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते? तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत्। निष्कामश्चात्मानमेव प्रार्थयते। आत्मनैवात्मा लभ्यत इत्यर्थः।

यम् एव, that (Self) indeed  which is his (i.e. aspirant’s) own Self; which एषः, this one-the aspirant; वृणुते, prays to; तेन, by that-by that very Self which is the seeker (himself); the Self Itself is लभ्यः , can be known, i.e. It becomes known to be such and such. The meaning is that to a desireless man who seeks for the Self alone, the Self becomes known of Its one accord.

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्‌ ॥ २४ ॥

दुश्चरितां न अविरतः न अशान्तः न असमाहितः न वा अशान्तमानसः प्रज्ञानेन अपि एनम् आप्नुयात् ॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥

यस्य ब्रह्म च क्षत्रं च उभे ओदनः भवतः। यस्य मृत्युः उपसेचनं। सः यत्र अस्ति तत् इत्या कः वेदः ॥

 

Selected verses

कठोपनिषद्            अध्याय १    वल्ली ३                  Verse १

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥

लोके सुकृतस्य ऋतम् पिवन्तौ परमे परार्धे गुहां प्रविष्टौ तौ तिष्ठतः । ब्रह्मविदः तौ छायातपौ इव वदन्ति। ये च पञ्चाग्नयः त्रिणाचिकेताः ॥

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्‌।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥

ईजानानां यः सेतुः नचिकेतं शकेमहि। अपि च तितीर्षताम् अभयम् पारं यत् अक्षरं परं ब्रह्म ॥ 

आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥

आत्मानं रथिनं विद्धि। शरीरं तु रथं एव। बुद्धिं तु सारथिं विद्धि। मनः च प्रग्रहम् एव ॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्‌।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् आत्मेन्द्रियमनोयुक्तं तम् आत्मनं भोक्ता इति मनीषिणः आहुः ॥

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥

यः तु सदा अयुक्तेन मनसा अविज्ञातवान् भवति सारथेः दुष्टाश्वाः इव तस्य इन्द्रियाणि अवश्यानि भवन्ति ॥

Note: Mahabharatam

नदीज लङ्केशवनारिकेतुर्
नगाह्वयो नाम नगारिसूनुः
एषोऽङ्गनावेषधरः किरीटी

नदीज = भीष्म ! लङ्केश-वन-अरि-केतुः = अनूमत्ध्वजः | नग-आह्वयः = वृक्षस्य नामधारी | नग-अरिसूनुः = इन्द्रस्य पुत्रः अर्जुनः |

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥

यः तु सदा युक्तेन मनसा विज्ञानवान् भवति सारथेः सदश्वाः इव तस्य इन्द्रियाणि वश्यानि भवन्ति ॥

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥७॥

यः तु अविज्ञानवान् अमनस्कः सदा अशुचिः भवति सः तत्पदं न आप्नोति। संसारं च अधिगच्छति ॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥८॥

यः तु विज्ञानवान् समनस्कः सदा शुचिः भवति सः तु तत् पदं आप्नोति। यस्मात् भुयः न जायते ॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ ॥९॥

यः तु विज्ञानसारथि प्रग्रहवान् नरः सः अध्वनः पारम् आप्नोति तद् विष्णोः परं पदम् ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥१०॥

इन्द्रिभेयः अर्थाः पराः अर्थेभ्यः च मनः परम्। मनसः तु बुद्धिः बुद्धेः महान् आत्मा परः ॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥११॥

महतः अव्यक्तं परम्। अव्यक्तात् पुरुषः परः। पुरुषात् परं न किंचित् अस्ति । सा काष्ठा। सा परा गतिः ॥

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥

सर्वेषु भूतेसु गूढः एषः आत्मा न प्रकासते। सुक्ष्मदर्शिभिः अग्र्यया सुक्ष्मया बुद्ध्या एषः आत्मा तु दॄश्यते ॥

पराञ्चिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्‌।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन्‌ ॥ 2.1.1.

स्वयम्भूः खानि पराञ्चि व्यतृणत् तस्मात् पराङ् पस्यति। न अन्तरान्मन्। कश्चित् धीरः अमृतत्वम् इच्छन् आवृत्तचक्षुः प्रत्यगात्मानम् (ऐक्षत्) ॥

ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ 2.3.1

ऊर्ध्वमूलः अवाक्शाखः एषः सनातनः अश्वत्थः। तत् एव शुक्रं। तत् ब्रह्म। तत् एव अमृतम् उच्यते। सर्वे लोकाः तस्मिन् श्रिताः। तत् उ कश्चन न अत्येति। एतत् वै तत् ॥

।।2.3.1।। ….. अविच्छिन्न-जन्म-जरा-मरण-शोकादि-अनेक-अनर्थात्मकः | प्रतिक्षणम् अन्यथास्वभावः| माया-मरीच्युदक-गन्धर्व-नगरादिवत् दृष्टनष्टस्वरूपत्वात् | अवसाने च वृक्षवदभावात्मकः | कदलीस्तम्भवन्निःसारः | अनेकशतपाषण्डबुद्धिविकल्पास्पदः | तत्त्वविजिज्ञासुभिः अनिर्धारित-इदन्तत्त्वः | वेदान्तनिर्धारितपरब्रह्ममूलसारः |अविद्या-काम-कर्म-अव्यक्तबीजप्रभवः | अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः  |सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुति-स्मृति-न्याय-विद्योपदेश-पलाशः यज्ञ-दान-तप आदि-अनेक-क्रिया-सुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीवि-अनन्तफलः तत्तृष्णासलिलावसेकप्ररूढजटिलीकृत-दृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूत-पक्षिकृतनीडः प्राणिसुख-दुःखोद्भूत-हर्ष-शोक-जात-नृत्य-गीत-वादित्र-क्ष्वेलित-आस्फोटित-हसित-आक्रुष्ट-रुदित-हाहा-मुञ्च-मुञ्च-इत्यादि अनेक-शब्द-कृत-तुमुलीभूत-महारवः वेदान्तविहित-ब्रह्मात्मदर्शन-असङ्गशस्त्र-कृतोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत् काम-कर्म-वातेरित-नित्यप्रचलितस्वभावः । स्वर्ग-नरक-तिर्यक्-प्रेतादिभिः शखाभिः अवाक्शाखः । अवाञ्चः शाखाः यस्य सः । सनातनः वृक्षः अनादित्वात् चिरं प्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं तदेव ब्रह्म सर्वमहत्त्वात्। तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात्। वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम्। तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु। तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः। एतद्वै तत्।।

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ 1.3.14

उतिष्ठत जग्रत वरान् प्राप्य तत् निबोधत। निशिता क्षुरस्य धारा दुरत्यया दुर्गं तत् पथः इति कवयः वदन्ति ॥

।।1.3.14।। एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः? अतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः? आत्मज्ञानाभिमुखा भवत जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत। कथम् प्राप्य उपगम्य वरान् प्रकृष्टानाचार्यांस्तत्त्वविदः? तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधत अवगच्छत न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत्? अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य। किमिव सूक्ष्मबुद्धिरिति? उच्यते — क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया। यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसंपाद्यमित्येतत् पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति। ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वदन्तीत्यभिप्रायः।।

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्‌ प्रमुच्यते ॥ 1.3.15

यत् अशव्दम् अस्पर्शम् अरुपम् अव्ययं तथा अरसं नित्यम् अगन्धवत् च भवति अनाद्यनन्तम् महतः परं धृवं तत् निचाय्य मॄत्युमुखात् प्रमुच्यते ॥

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्‌।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ 1.3.16

मेधावी इदं मॄत्युप्रोक्तं सनातनं नाचिकेतम् उपाख्यानम् उक्त्वा श्रुत्वा च ब्रह्मलोके महीयते ॥

Reference:

Vivekachoodaamani – Adi Shankaraacharya – Shlokas 1 to 23

विवेकचूडामणिः – Classes by Sri. Sriram Mahadevan

This page also includes Smt. Kousalya’s notes in Sanskrit for the shlokas 1 to 23 that were covered in this series.  Here is the link to the playlist !

विवेकचूडामणिवर्गः – श्रीरामः महोदयः – भाष्यम् संस्कृतशिक्षणकेन्द्रम्

In this Sanskrit Lecture Series, Sri. Sriram Mahadevan of Samskrita Bharati, Tamilnadu, explains Vivekachudamani, a Vedantic text by Shree Aadi Shankaraachaaryaa. This lecture series is available in Bhashyam Sikshana Kendram’s facebook page – https://www.facebook.com/bhashyamsiks… https://nivedita2015.wordpress.com/2020/04/19/vivekachoodaamani-adi-shankaraacharya/

॥ श्रीहरिः॥

श्रीमदाद्यशंकाराचार्यविरचित-विवेक-चूडामणिः

सदाशिवसमारम्भाम् शङ्कराचार्यमध्यमाम् अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥

श्रीशङ्कराचार्यः अद्वैतवेदान्तस्य  भाष्यकारः । उपनिषदः, भगवद्गीता, ब्रह्मसूत्रं प्रस्थानत्रयम् इति विद्यन्ते ।  एतानि ‘शास्त्राणि’ इति वर्तन्ते । ये ग्रन्थाः तेषु विद्यमानानां पदानाम् अर्थबोधकाः भवन्ति, ते प्रकरणग्रन्थाः। उदाहरणानि – विवेकचूडामणिः, उपदेशसहस्री, आत्मबोधः, अपरोक्षानुभूतिः, दशश्लोकी, शतश्लोकी, वाक्यवृत्तिः, प्रबोधसुधाकरः, तत्त्वबोधः । तेषु विवेकचूडामणिः चूडामणिः इव एव वर्तते ।

विवेकचूडामणिः अध्यात्मिकजीवनस्य कवाटग्रन्थः । जीवनस्य लक्ष्यं, तत् प्राप्तुं मार्गं व्यवस्थापितमस्ति अत्र श्रीशङ्कराचार्येण । विवेकः एव चूडामणिः इति विवेकचूडामणिः । विवेकः इति विषये लिखितः ग्रन्थः । विवेकः बुद्धेः अलङ्कारः । गुरोः कृपाशक्तिः बुद्धेः मलं निष्काशयित्वा मायां नाशयति । गुरूपदेशेन बुद्धेः चेष्टाः त्यक्त्वा, शिष्यः स्वस्मिन्नेव लयं प्राप्नोति ।

एषः प्रकरणग्रन्थः| वेदान्तज्ञानं प्राप्तुं या पद्धतिः अपेक्षिता, प्रकरणग्रन्थः तां पद्धतिं दर्शयति | सिद्धान्तः दण्डः इव आश्रयः भवति । तं गृहीत्वा संसारे दृढविश्वासेन  चरामः, तरामः च ।

सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् ।
गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥

पदच्छेदः – सर्व-वेदान्त-सिद्धान्त-गोचरम् तम् अगोचरम् गोविन्दम् परमानन्दम् सद्गुरुम् प्रणतः अस्मि अहम् |

अन्वयः – अगोचरं सर्व-वेदान्त-सिद्धान्त-गोचरं परमानन्दं तं सद्गुरुं गोविन्दम् अहं प्रणतः अस्मि  |

पदविवरणम् – गोभिः इन्द्रियैः वेद्यते इति गोचरः | अगोचरम् = इन्द्रियैः न वेद्यते | सर्व-वेदान्त-सिद्धान्त-गोचरः = सर्व-वेदान्त-सिद्धान्तैः एव सः वेद्यते |  सर्व-वेदान्त-सिद्धान्तः = सर्व-वेदान्तानां सिद्धान्तः, निश्चयः, स्पष्टता, श्रुति-युक्ति-अनुभवैः प्राप्तं ज्ञानम्, दृढप्रज्ञा | गोविन्दः = गोभिः महावाक्यैः विन्दते इति गोविन्दः | परमानन्दः = अलौकिकः आनन्दः यस्य सः |

 

Class #1 – Shloka 1

In this first class, an introduction is provided to Vedantic Knowledge, Jagadguru Sri Adi Shankaraachaarya and the qualities expected in the seekers of this knowledge.

 

Class #2 – Shloka 1

In this second class, the importance of Guru is being dealt with, as Shankara starts his work with respects to his Guru. सर्ववेदान्तसिद्धान्तगोचरं तमगोचरम् । गोविन्दं परमानन्दं सद्गुरुं प्रणतोऽस्म्यहम् ॥ १ ॥ While approaching the Guru, one should go with humility. Ego never vanishes on its own. Only by God’s grace, the Ego is destroyed. It block acquisition of the knowledge. Guru out of kindness would show the right path. How to approach a Guru is mentioned in Mundakopanishad in this way – परीक्ष्य लोकान्‌ कर्मचितान्‌ ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्‌ समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्‌ ॥ Understanding that I cannot attain mukti by performing activities, the disciple offers himself to the Guru. A true aspirant will be able to identify a genuine guru. The Atman chooses to reveal itself. नायमात्मा प्रवचनेन लभ्योन मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यःतस्यैष आत्मा विवृणुते तनूँ स्वाम् ॥ १.२.२३ ॥ Katopanishad न अयम् आत्मा प्रवचनेन लभ्य: न मेधया न बहुना श्रुतेन । यम् एव एष: वृणुते तेन लभ्यः तस्य एष आत्मा विवृणुते तनूँ स्वाम् | न अयम् आत्मा This Atman is not प्रवचनेन लभ्यः attained through study न मेधया nor by intelligence न बहुना श्रुतेन or by much hearing of sacred literature. यम् he whom एव alone एष the Self वृणुते chooses तेन लभ्यः It is attained by such a person तस्य Its एष this आत्मा Atman विवृणुते reveals तनूं स्वाम् Its true nature. The sadhaka would be having a clear mind with the only intent to gain knowledge. the saadhaka sees the guru as the Brahman. At the age of 8, Shankara went to his Guru, walking for such a long distance. In this shloka praising him, he is not describing the aspects in the physical plane of the Guru, in this first shloka of Vivekachoodaamani.

Class #3 – Shloka 1

In this third class, the aspects covered are the importance of Vedantic knowledge in providing us a cure for our sorrows, the mastery of Adi Shankaracharya, who spread this knowledge across the country through his numerous works in Sanskrit promoting Gnaana and Bhakti, the greatness of Vivekachoodaamani in providing the vedantic knowledge in a simple language and the specialty of the commentary on this by Sri Chandrashekarendra Bharati Swamigal of Shringeri Mutt.

Class #4 – Shloka 1

In this fourth class, Sri. Sriram Mahadevan provides an introduction to this text and explains the first shloka. Viveka Choodamani means one for which the discrimination itself is the crest jewel! This discrimination is required to give up ignorance. This text is a Prakarana Grantha, as it illustrates the steps in the process for gaining Vedantic knowledge. Shaastra has to studied in a specific way that has come down through the ages. It has to be learnt from a guru practicing the steps of Shravanam, Mananam, Nitiddhyaasanam.

Class #5 – Shloka 1

Reference:

https://sa.wikisource.org/wiki/विवेकचूडामणिः

Devanagari Text, Transliteration, Word-for-Word Meaning,
and a Lucid English Translation — Translated by Achyarya Pranipata Chaitanya – 538 Pages
https://arshabodha.org/wp-content/uploads/abc/teachings/adiShankara/Vivekachudamani_eBook.pdf 

Lecture notes – 955 Pages
https://vedantastudents.com/wp-content/uploads/2018/10/01-Vivekachudamani-Volume-01.pdf

1921 – Swami Madhavaananda – The Advaita Ashrama, Mayavati, Himaalayas. — Shloka and English translation – 269 Pages https://estudantedavedanta.net/VivekaChudamani-of-Sri-Shankaracharya.pdf

https://en.wikisource.org/wiki/Page:Vivekachudamani.djvu/10

Click to access VivekaChudamani-of-Sri-Shankaracharya.pdf