(Video) Kalidasa’s Raghuvamsam – First Sarga – 40 – 43 Vidhya

Classes in Simple Sanskrit — Raghuvamsam – by Smt. Vidhya Ramesh, Samskrita Bharati – Chennai.

Please refer the notes in https://nivedita2015.wordpress.com/video-kalidasas-raghuvamsam-first-sarga-vidhya-ramesh/

Advertisements

(Video) Ramayanam Class 1 Mohan MV

रामायणम्

मूलश्लोकः-1

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्‌।। 1।।

श्लोकान्वयः-

तपस्वी वाल्मीकि: तप:स्वाध्यायनिरतं वाग्विदां वरं मुनिपुङ्गवं नारदं परिपप्रच्छ ।।1।।

मूलश्लोकः-2

को न्वस्मिन्‌ साम्प्रतं लोके गुणवान्‌ कश्च वीर्यवान्‌। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:।। 2।।

श्लोकान्वयः-

साम्प्रतम्‌ अस्मिन्‌ लोके क: नु गुणवान्‌ ? क: च वीर्यवान्‌ ? क: धर्मज्ञ: कृतज्ञ: सत्यवाक्य: दृढव्रत: च (अस्ति) ?।।2।।

मूलश्लोकः-3

चारित्रेण च को युक्त: सर्वभूतेषु को हित:। विद्वान्‌ क: क: समर्थश्च कश्चैकप्रियदर्शन:।। 3।।

श्लोकान्वयः-

क: च चारित्रेण युक्त: ? क: सर्वभूतेषु हित: ? क: विद्वान्‌ ? क: च समर्थ: ? क: च एकप्रियदर्शन: (अस्ति) ?।।3।।

मूलश्लोकः-4

आत्मवान्‌ को जितक्रोधो द्युतिमान्‌ कोऽनसूयक:। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे।।4।।

श्लोकान्वयः-

क: आत्मवान्‌ ? क: जितक्रोध: द्युतिमान्‌ अनसूयक: (च अस्ति) ? संयुगे जातरोषस्य कस्य देवा: च बिभ्यति ?।।4।।

मूलश्लोकः-5

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे । महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्‌।। 5।।

श्लोकान्वयः-

महर्षे ! अहम्‌ एतत्‌ श्रोतुम्‌ इच्छामि, हि मे परं कौतूहलम्‌ (अस्ति)। त्वं (च) एवंविधं नरं ज्ञातुं समर्थ: असि।।5।।

सन्दर्भाः

1. Jan 25, 2017 दिनांके मोहनमहोदयेन पाठिताः श्लोकाः

2. http://sanskrit.uohyd.ac.in/scl/sankshepa_ramayanam/ramayana-interface/index.html

 

 

(Video) Sankshepa Ramayanam Class 16 Anand V (Last of the series)

 

http://sanskrit.uohyd.ac.in/scl/e-readers/sankshepa_ramayanam/ramayana-interface/index.html

मूलश्लोकः-91

न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषा: क्वचित्‌। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता:।।91।।

श्लोकान्वयः –

केचिद् (अपि) पुरुषा: क्वचित्‌ पुत्रमरणं न द्रक्ष्यन्ति। नार्य: नित्यम्‌ अविधवा: पतिव्रता: च भविष्यन्ति।।91।।

मूलश्लोकः-92

न चाग्निजं भयं किञ्चन्‌ नाप्सु मज्जन्ति जन्तव:। न वातजं भयं किञ्चन्‌ नापि ज्वरकृतं तथा।।92।।

श्लोकान्वयः –

न च अग्निजं किञ्चिद् भयम्‌, न (च) अप्सु जन्तव: मज्जन्ति न किञ्चिद् वातजं भयम्‌, न अपि ज्वरकृतं तथा।।92।।

मूलश्लोकः-93-94

न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च।। 93।। नित्यं प्रमुदिता: सर्वे यथा कृतयुगे तथा।।94।।

श्लोकान्वयः –

न च अपि तत्र क्षुद्भयम्‌, तथा (एव) तस्करभयम्‌ (अपि) न। नगराणि राष्ट्राणि च धनधान्ययुतानि। सर्वे तथा प्रमुदिता: यथा कृतयुगे।।93-94।।

मूलश्लोकः-94-96

अश्वमेधशतैरिष्ट्‌वा तथा बहुसुवर्णकै:।। 94।। गवां कोट्‌ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्‌। असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशा:।। 95।। राजवंशाञ्छतगुणान्‌ स्थापयिष्यति राघव:। चातुर्वर्ण्यं च लोकेऽस्मिन्‌ स्वे-स्वे धर्मे नियोक्ष्यति ।।96।।

श्लोकान्वयः –

महायशा: राघव: अश्वमेधशतै: बहुसुवर्णकै: इष्ट्‌वा गवां कोट्‌ययुतं असंख्येय धनं (च) विद्वद्भ्य: ब्राह्मणेभ्य: विधिपर्वूकं दत्त्वा राजवंशान्‌ शतगुणान्‌ स्थापयिष्यति। अस्मिन्‌ लोके चातुर्वर्ण्यं स्वे-स्वे धर्मे नियोक्ष्यति च।।94-96।।

मूलश्लोकः-97

दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति।।97।।

श्लोकान्वयः –

राम: दशवर्षसहस्राणि दशवर्षशतानि च राज्यम्‌ उपासित्वा ब्रह्मलोकं प्रयास्यति।।97।।

मूलश्लोकः-98

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्‌ । य: पठेद् रामचरितं सर्वपापै: प्रमुच्यते।। 98।।

श्लोकान्वयः –

इदं पवित्रं पापघ्नं पुण्यं वैदेश्च सम्मितं रामचरितं य: पठेत्‌ सर्वपापै: प्रमुच्यते।।98।।

मूलश्लोकः-99

एतदाख्यानमायुष्यं पठन्‌ रामायणं नर:। सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते।। 99।।

श्लोकान्वयः –

एतद् आयुष्यम्‌ आख्यानं रामायणं पठन्‌ नर: सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते।।99।।

मूलश्लोकः-100

पठन्‌ द्विजो वागृषभत्वमीयात्‌ स्यात्‌ क्षत्रियो भूमिपतित्वमीयात्‌। वणिग्जन: पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्‌।।100।।

श्लोकान्वयः –

द्विज: पठन्‌ वागृषभत्वम्‌ ईयात्‌ स्यात्‌ क्षत्रिय: भूमिपतित्वम्‌ ईयात्‌ वणिग्जन: पण्यफलत्वम्‌ ईयात्‌ शूद्र: जन: च अपि महत्त्वम्‌ ईयात्‌।।100।।

(Video) Sankshepa Ramayanam Class 15 Anand V

मूलश्लोकः-81

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । राम: सीतामनुप्राप्य परां व्रीडामुपागमत्‌।।81।।

श्लोकान्वयः –

राम: तेन (सेतुना) लङ्कां पुरीं गत्वा आहवे रावणं हत्वा सीताम्‌ अनुप्राप्य परां व्रीडाम्‌ उपागमत्‌।।81।।

मूलश्लोकः-82

तामुवाच ततो राम: परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती।। 82।।

श्लोकान्वयः –

तत: राम: जनसंसदि तां परुषम्‌ उवाच। (तत्‌) अमृष्यमाणा सा सती सीता ज्वलनं विवेश।।82।।

मूलश्लोकः-83-84

ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्‌ । कर्मणा तेन महता त्रैलोक्यं सचराचरम्‌।।83।। सदेवर्षिगणं तुष्टं राघवस्य महात्मन:। बभौ राम: संप्रहृष्ट: पूजित: सर्वदैवतै:।। 84।।

श्लोकान्वयः –

तत: अग्निवचनात्‌ सीतां विगतकल्मषां ज्ञात्वा राम: (अङ्गीचकार)। महात्मन: राघवस्य तेन महता कर्मणा सचराचरं त्रैलोक्यं तुष्टम्‌। सर्वदैवतै: पूजित: राम: सम्प्रहृष्ट:।।83-84।।

मूलश्लोकः-85

अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्‌ । कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह।।85।।

श्लोकान्वयः –

तदा राक्षसेन्द्रं विभीषणं लङ्कायाम्‌ अभषिच्य कृतकृत्यः विज्वर: च राम: प्रमुमोद ह।।85।।

मूलश्लोकः-86

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्‌ । अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्-वृत:।।86।

श्लोकान्वयः –

सुहृद्वृत: राम: देवताभ्य: वरं प्राप्य वानरान्‌ समुत्थाप्य च पुष्पकेण अयोध्यां प्रस्थित:।।86।।

मूलश्लोकः-87

भरद्वाजाश्रमं गत्वाराम: सत्यपराक्रम:। भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्‌।।87।।

श्लोकान्वयः –

आराम: सत्यपराक्रम: राम: भरद्वाजाश्रमं गत्वा भरतस्य अन्तिके हनूमन्तम्‌ व्यसर्जयत्‌।।87।।

मूलश्लोकः-88

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा। पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा।।88।।

श्लोकान्वयः –

तदा सुग्रीवसहित: (राम:) तत्‌ पुष्पकं पुन: समारुह्य आख्यायिकाम्‌ जल्पन्‌ तदा नन्दिग्रामं ययौ।।88।।

मूलश्लोकः-89

नन्दिग्रामे जटां हित्वा भ्रातृभि: सहितोऽनघ:। राम: सीतामनुप्राप्य राज्यं पुनरवाप्तवान्‌।।89।।

श्लोकान्वयः –

अनघ: राम: भ्रातृभि: सहित: नन्दिग्रामे जटां हित्वा सीताम्‌ अनुप्राप्य राज्यं पुन: अवाप्तवान्‌।।89।।

मूलश्लोकः-90

प्रहृष्टमुदितो लोकस्तुष्ट: पुष्ट: सुधार्मिक:। निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित:।। 90।।

श्लोकान्वयः –

लोक: हि (राज्यम्‌ अधिरूढे रामे) प्रहृष्टमुदित: तुष्ट: पुष्ट: सुधार्मिक: निरामय: अरोग: दुर्भिक्षभयवर्जित: च भविष्यति।।90।।

(Video) Sankshepa Ramayanam Class 14 Anand V

मूलश्लोकः-73

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्‌ । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्‌।।73।।

श्लोकान्वयः –

(हनुमान्‌) रावणपालितां लङ्कां पुरीं समासाद्य तत्र अशोकवनिकां गतां (रामं) ध्यायन्तीं सीतां ददर्श।।73।।

मूलश्लोकः-74

निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्‌।।74।।

श्लोकान्वयः –

(ततश्च हनुमान्‌) अभिज्ञानं निवेदयित्वा* प्रवृत्तिं च (रामस्य) विनिवेद्य वैदहीं समाश्वास्य च तोरणं मर्दयामास।।74।।

 

 

 

 

 

sdfsdfsdfsd

 

 

 

मूलश्लोकः-75

पञ्च सेनाग्रगान्‌ हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्‌।।75।।

श्लोकान्वयः –

(स: हनुमान्‌) पञ्च सेनाग्रगान्‌ सप्त मन्त्रिसुतान्‌ च हत्वा शूरम्‌ अक्षम्‌ अपि निष्पिष्य ग्रहणं समुपागमत्‌।।75।।

मूलश्लोकः-76

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्‌। मर्षयन्‌ राक्षसान्‌ वीरो यन्त्रिणस्तान्‌ यदृच्छया।।76।।

श्लोकान्वयः –

(बन्धनानन्तरं हनुमान्‌) पैतामहात्‌ वरात्‌ अस्त्रेण आत्मानम्‌ उन्मुक्तं ज्ञात्वा यन्त्रिण: तान्‌ राक्षसान्‌ यदृच्छया मर्षयन्‌ (रावणं प्राप्तवान्‌)।।76।।

मूलश्लोकः-77

ततो दग्ध्वा पुरीं लङ्काम्‌ ऋते सीतां च मैथिलीम्‌। रामाय प्रियमाख्यातुं पुनरायान्‌ महाकपि:।।77।।

श्लोकान्वयः –

तत: महाकपि: मैथिलीं सीताम्‌ ऋते लङ्कां पुरीं दग्ध्वा रामाय प्रियमाख्यातुं पुन: आयात्‌।।77।।

मूलश्लोकः-78

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्‌। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत:।।78।।

श्लोकान्वयः –

अमेयात्मा स: (महाकपि:) महात्मानम्‌ रामम्‌ अभिगम्य प्रदक्षिणं (च) कृत्वा सीता तत्त्वत: दृष्टा इति न्यवेदयत्‌।।78।।

 

मूलश्लोकः-79

तत: सुग्रीवसहितो गत्वा तीरं महोदधे:। समुद्रं क्षोभयामास शरैरादित्यसन्निभै:।।79।।

श्लोकान्वयः –

तत: सुग्रीवसहित: (राम:) महोदधे: तीरं गत्वा आदित्यसन्निभै: शरै: समुद्रं क्षोभयामास।।79।।

 

मूलश्लोकः-80

दर्शयामास चात्मानं समुद्र: सरितां पति:। समुद्रवचनाच्चैव नलं सेतुमकारयत्‌।।80।।

श्लोकान्वयः –

सरितां पति: समुद्र: आत्मानं दर्शयामास (राम:) समुद्रवचनात्‌ एव च नलं सेतुम्‌ अकारयत्‌।।80।।।