(Video) Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh3

https://www.youtube.com/playlist?list=PLTWf5ZhGT362dCx4-a-wqb7f7B-Fj1SKU Amar Chitra Katha रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (Raghuvamsha Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions. Link to the main reference book – Raghuvamsha of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft  More references are given at the end.
Downloadable file is available here. –> https://drive.google.com/open?id=15xOL_e_3BA-yk5bdVlUdeUNFD3-c-eew

द्वितीयः सर्गः – नन्दिनीवरप्रदानः – Part 3

Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh – Part 3

Here is the playlist with all the sessions.

 

रघुवंशमहाकाव्यम् – द्वितीयः सर्गःश्रीमती. विद्या रमेशःसंस्कृतभारतीचेन्नै

(Raghuvamsa Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page will contain the detailed notes of all the 75 shlokas (to be) covered in these sessions.

Link to the main reference book – Raghuvamsa of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft 

More references are given at the end. Downloadable file is available here.

द्वितीयः सर्गः – नन्दिनीवरप्रदानः

52.         श्लोकः

मूलपाठः

निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनरप्युवाच ।
धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः ।। २.५२ ।।

पदच्छेदः

निशम्य, देवानुचरस्य, वाचम्, मनुष्यदेवः, पुनः, अपि, उवाच, धेन्वा, तदध्यासितकातराक्ष्या, निरीक्ष्यमाणः, सुतराम्, दयालुः

अन्वयार्थः

  • देवानुचरस्य = परमेश्वरकिङ्करस्य सिंहस्य
  • वाचं निशम्य= वचः श्रुत्वा
  • मनुष्यदेवः= नरेशः दिलीपः
  • तदध्यासितकातराक्ष्या धेन्वा= सिंहाक्रमणेन भयाकुलनयना या धेनुः, तया
  • निरीक्ष्यमाणः= अवलोक्यमानः
  • सुतरां दयालुः (सन्)=  अत्यन्तं कारुणिकः सन्
  • पुनः अपि उवाच= भूयोऽप्यभाषत

अन्वयः

देवानुचरस्य वाचं निशम्य, तदध्यासितकातराक्ष्या धेन्वा निरीक्ष्यमाणः, (अतः) सुतरां दयालुः (सन्), मनुष्यदेवः, पुनः अपि उवाच ।

आकाङ्क्षा

  • पुनः अपि उवाच
    • कः उवाच? मनुष्यदेवः
    • किं कृत्वा उवाच ? निशम्य
    • कां निशम्य ? वाचम्
    • कस्य वाचम् ? देवानुचरस्य
      • कीदृशःमनुष्यदेवः ? निरीक्ष्यमाणः
        • कयानिरीक्ष्यमाणः ? धेन्वा
          • कीदृश्याधेन्वा ? तदध्यासितकातराक्ष्या
        • कथम्भूतःसन् उवाच ? सुतरां दयालुः सन्

तात्पर्यम्

‘तद्रक्ष कल्याणपरम्पराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहम् (२/५०)’ इति महादेवकिङ्करस्य सिंहस्य वचनं श्रुत्वा दिलीपः भूयः अपि अभाषत । सः दयार्द्रभावेन वक्तुम् आरब्धवान् यतः सिंहाक्रमणेन भयापन्ना धेनुः तं अधीरनयनाभ्यां अवलोकयन्ती स्थिता ।

तदध्यासितकातराक्ष्या – किं वा वक्ष्यति इति भीत्या एवं स्थिता

पदविवरणम्

  • निशम्य= नि + शम् “शमुँ उपशमे” + ल्यप् । लटि शाम्यति ।
  • देवानुचरस्य = देवस्य अनुचरः देवानुचरः, तस्य
  • वाचम् =चकारान्तः स्त्री. वाच् शब्दः द्वितीया.ए.व
  • मनुष्यदेवः= मनुष्येषु देवः
  • तदध्यासितकातराक्ष्या
    • तदध्यासितम् = तेन अध्यासितम्
    • तदध्यासितकातराक्ष्या = तदध्यासितेन कातरे अक्षिणी यस्याः सा तदध्यासितकातराक्षी, तया
  • निरीक्ष्यमाणः= निर् + ईक्ष् दर्शने + कर्मणि शानच् निरीक्ष्यते – प्र.वि ए.व
  • दयालुः= दया + आलुच् मत्वर्थीयः तद्धितप्रत्ययः दया अस्य अस्ति इति
  • उवाच= वच् परिभाषणे लिट् प्र.पु. ए.व

अन्यविषयाः

  • मनुष्यदेवः
    • बालोऽपि नावमन्तव्यो मनुष्य इति भूमिपः ।
      महती देवता ह्येषा नररूपेण तिष्ठति ।” मनु. ७/८
  • तदध्यासितकातराक्ष्या = तदध्यासितकातराक्षी, तया
    • ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्’
      • स्वाङ्गवाची यः ‘सक्थि’ शब्दः ‘अक्षि’ शब्दः तदन्तात् बहुव्रीहेः षच् प्रत्ययः भवति ।
        • उदा. दीर्घेसक्थिनी यस्य सः दीर्घसक्थः ।
        • उदा. विशालेअक्षिणी यस्याः सा विशालाक्षी ।
      • स्वाङ्गवाची ? स्थूलाक्षिः इक्षुः । दीर्घसक्थि शकटम् ।

सन्धिः

  • पुनरप्युवाच = पुनः अपि उवाच ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • देवानुचरस्य वाचं निशम्य = Having heard (नि+शम्) the words (वाच्) of the servant (अनुचर) of Lord Shiva (देव)
  • मनुष्यदेवः = Dilipa, the Lord (देव) of men (मनुष्य)
  • तदध्यासितकातराक्ष्या धेन्वा निरीक्ष्यमाणः = one who is being looked at (निः+ईक्ष) by the cow (देनु), whose eyes (अक्षि) are frightened (कातर) as she was inhabited (अध्यासित) (i.e., captivated) by it (तत्), the lion
  • सुतरां दयालुः = extremely compassionate person
  • पुनः अपि उवाच = once again spoke

53.         श्लोकः

मूलपाठः

क्षतात्किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ।। २.५३ ।।

पदच्छेदः

क्षतात्, किल, त्रायते, इति, उदग्रः, क्षत्रस्य, शब्दः, भुवनेषु, रूढः, राज्येन, किम्, तद्विपरीतवृत्तेः, प्राणैः, उपक्रोशमलीमसैः, वा

अन्वयार्थः

  • उदग्रः = उन्नतः / महान् / उच्चः
  • क्षत्रत्स्य शब्दः= क्षत्त्रवर्णस्य वाचकः
  • क्षतात्त्रायते इति (व्युत्पत्त्या) = क्षणोति क्षण् हिंसायाम्, क्षतः । अपायात् रक्षति इति
  • भुवनेषु रूढःकिल = लोकेषु प्रसिद्धः खलु
  • तद्विपरीतवृत्तेः= तस्य क्षत्त्रशब्दस्य विरुद्धव्यापारस्य (क्षतात् त्राणम् अकुर्वतः पुंसः)
  • राज्येनकिं (प्रयोजनम्) = राजभावेन किं प्रयोजनम् । न प्रयोजनं किमपीत्यर्थः
  • उपक्रोशमलीमसैः प्राणैः वा (किम्)= निन्दया मलिनैः असुभिः वा किं प्रयोजनम्

अन्वयः

उदग्रः क्षत्रस्य शब्दः क्षतात् त्रायते इति (व्युत्पत्या) भुवनेषु रूढः किल । तद्विपरीतवृत्तेः राज्येन किं (प्रयोजनम्) उपक्रोशमलीमसैः प्राणैः वा (किम्) ?

आकाङ्क्षा

  • रूढःअस्ति किल
    • कःरूढः ? शब्दः
      • कस्य शब्दः ? क्षत्त्रस्य
      • कीदृशः शब्दः ? उदग्रः
    • कयारूढः ? क्षतात् त्रायते इति (व्युत्पत्त्या)
    • कुत्ररूढः ? भुवनेषु
  • किम् (प्रयोजनं भवति) ?
    • केन किम् ? राज्येन
  • वा(किम् प्रयोजनं भवति) ?
    • कैः किम् ? प्राणैःवा
      • कीदृशैः प्राणैः ? उपक्रोशमलीमसैः
      • कस्य प्राणैः ? तद्विपरीतवृत्तेः

तात्पर्यम्

एकातपत्रं  (४७) अथैकधेनोः (४८) इति श्लोकद्वयेन सिंहेन यदुक्तं तस्य प्रत्युत्तरं दिलीपेन अत्र प्रदीयते – “विपदः यः त्रायते सः क्षत्रियः इति जगति प्रसिद्धम् ।” एवं वर्णधर्मं राजधर्मं च पालयता मया वर्तितव्यम् ननु । तस्मात् विरुद्धाचरणं यदि कुर्यां तर्हि गर्हितो भवेयम् । तादृशस्य गर्हितस्य पुंसः राज्यं (एकातपत्रं प्रभुत्वं जगतः), जीवनं (नवं वयः कान्तं वपुः चेदपि) च व्यर्थम् एव ।” अतः सुविचारितोऽयं मदीयदेहार्पणनिष्क्रयेण गोरक्षणोपायः इति भावः ।

पदविवरणम्

  • उदग्रः = उद्गतं अग्रं यस्य सः उदग्रः
  • क्षत्रस्य= क्षतात् त्रायते इति क्षत्त्रः तस्य
  • राज्येन= राज्ञः भावः / कर्म वा राज्यम्, तेन
  • तद्विपरीतवृत्तेः= तस्य विपरीता वृत्तिः यस्य सः तद्विपरीतवृत्तिः, तेन
  • उपक्रोशमलीमसैः
    • उपक्रोशो जुगुप्सा च कुत्सानिन्दा च गर्हणे इत्यमरः
    • मलीमसं तु मलिनं कच्चरं मलदूषितम् इत्यमरः
    • उपक्रोशमलीमसैः= उपक्रोशेन मलीमसाः उपक्रोशमलीमसाः, तैः

अन्यविषयाः

क्षत्रस्य शब्दः क्षतात् त्रायते इति (व्युत्पत्या) भुवनेषु रूढः ।

  • ब्राह्मणानां क्षतत्राणात् ततः क्षत्रिय उच्यते । महा. शान्तिपर्व ५९/१२६
  • क्षत्रियस्य च रक्षणम् । मनु. १०/८१
  • ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
    सर्वस्यापि यथान्यायं कर्तव्यं परिरक्षणम् ॥ मनु. ७/२

“उपक्रोशमलीमसैः प्राणैः किं (प्रयोजनम्)”

  • अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
    सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते । श्रीमद्भगवद्गीता २/३४
  • स्वधर्मे निधनं श्रेयः ॥ श्रीमद्भगवद्गीता ३/३५

सन्धिः

  • त्रायत इत्युदग्रः = त्रायते इति उदग्रः ।
  • शब्दो भुवनेषु = शब्दः भुवनेषु ।
  • प्राणैरुपक्रोशमलीमसैर्वा = प्राणैः उपक्रोशमलीमसैः वा ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • भुवनेषु = In this world
    • उदग्रः क्षत्रस्य शब्दः = the illustrious name of the Kashtriyas
    • रूढः = is conventionally termed so
    • क्षतात् त्रायते इति (व्युत्पत्या) = (i.e., etymologically derived) since they protect (त्रै) from danger (क्षत)
  • किल = isn’t it so?
  • राज्येन किं (प्रयोजनम्) = What for is the kingdom?
    • तद्विपरीतवृत्तेः = with the conduct (वृत्ति) being against (विपरीत) it (तत्) (i.e., against protection from danger)
  • उपक्रोशमलीमसैः प्राणैः वा (किम्) = what for is the life (प्राण) which is tarnished (मालीमस) by disgrace (उपक्रोश)

54.         श्लोकः

मूलपाठः

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनीनां ।
इमां अनूनां सुरभेरवेहि रुद्रौजसा तु
प्रहृतं त्वयास्याम् ।। २.५४ ।।

पदच्छेदः

कथम्, नु, शक्यः, अनुनयः, महर्षेः, विश्राणनात्, च, अन्यपयस्विनीनाम्, इमाम्, अनूनाम्, सुरभेः, अवेहि, रुद्रौजसा, तु, प्रहृतम्, त्वया, अस्याम्

अन्वयार्थः

  • महर्षेः= वसिष्ठमुनेः
  • अनुनयः च= क्रोधापनयः (कथं वा स्यात्)
  • अन्यपयस्विनीनाम्= अन्यासां दोग्ध्रीणां (गवाम्)
  • श्राणनात्= दानात् / वितरणात्
  • कथं नु शक्यः= न शक्यः इत्यर्थः
  • इमां सुरभेः= एतां गां कामधेनोः
  • नूनाम्अवेहि = अन्यूनां जानीहि ।
  • अस्याम् = एतस्यां गवि
  • याप्रहृतम्  = त्वया कृतम् आक्रमणम्
  • तु रुद्रौजसा = ईश्वरसामर्थ्येन न तु स्वप्रभावेण

अन्वयः

महर्षेः अनुनयः च अन्यपयस्विनीनां विश्राणनात् कथं नु शक्यः । इमां सुरभेः अनूनाम् अवेहि । अस्यां त्वया प्रहृतं तु रुद्रौजसा ।

आकाङ्क्षा

  • कथं नु शक्यः (भवति) ?
    • कः कथं नु शक्यः ? अनुनयः च
      • कस्य अनुनयः ? महर्षेः
    • कस्मात् हेतोः शक्यः ? विश्राणनात्
      • कासां विश्राणनात् ? अन्यपयस्विनीनाम्
  • अवेहि
    • काम् अवेहि ? इमाम्
    • कीदृशीम् इमाम् ? अनूनाम्
      • कस्याः अनूनाम् ? सुरभेः
  • (अभवत्)
    • किम् अभवत् ? प्रहृतम्
      • कस्यां प्रहृतम् ? अस्याम्
      • केन प्रहृतम् ? त्वया तु

तात्पर्यम्

अथैकधेनोरपराधचण्डाद्‍गुरोः…..गाः कोटिशः स्पर्शयता घटोध्नीः २/४९ इति सिंहकथनस्य प्रयुक्तिः इयं – “प्रशस्तानां धेनूनां वितरणेन गुरोः क्रोधशान्तिः भवितुं नार्हति यतः कामधेनुसमाम् इमां सामान्यां धेनुं मा मन्यस्व ।  हि तादृशप्रभावशालिन्याम् अस्यां गवि सिंहस्य तवाक्रमणं परमेश्वरस्य तेजोविशेषेण न तु तव सामर्थ्येन ।”

पदविवरणम्

  • महर्षेः= महान् ऋषिः महर्षिः, तस्य
  • अनुनयः = अनु + नी + भावे अच् (कोपोपनयः / प्रणतिः)
  • अन्यपयस्विनीनाम्
    • पयस्विन्यः = पयः आसां अस्ति इति पयस्विन्यः ।
    • अन्यपयस्विनीनाम् = अन्याः पयस्विन्यः अन्यपयस्विन्यः, तासाम् ।
  • विश्राणनात्= वि + श्रण् दाने + ल्युट्, विश्राणनम्, तस्मात् । लटि श्राणयति ।
  • सुरभेः = ‘पञ्चमी विभक्ते’ इति सूत्रेण (पृथग्भूतस्य गुणान्तरकथने)
  • अनूनाम्= न ऊना अनूना, ताम्
  • अवेहि =  अव + इण् गतौ, लोट्., म.पु., ए.व. ।
    • एतु / इतात्, इताम्, यन्तु
    • इहि / इतात्, इतम्, इत
    • अयानि, अयाव, अयाम
  • प्रहृतम्  = प्र + हृ हरणे + भावे क्त
  • रुद्रौजसा = रुद्रस्य ओजः रुद्रौजः, तेन

अन्यविषयाः

  • “इमामनूनां सुरभेरवेहि रुद्रौजसातु प्रहृतं त्वयास्याम्”
    • इयं नन्दिनी कामधेनुतुल्या तर्हि कथम् अस्याः परिभवः अभूत् इत्याह – रुद्रौजसा इति ।

सन्धिः

  • शक्योऽनुनयो = शक्यः, अनुनयः
  • महर्षेर्विश्राणनाच्चान्यपयस्विनीनाम् = महर्षेः, विश्राणनात्, च, अन्यपयस्विनीनाम्
  • सुरभेरवेहि = सुरभेः, अवेहि
  • त्वयास्याम् = त्वया, अस्याम्

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • कथं नु शक्यः महर्षेः अनुनयः च = Also how (कथम् नु) is getting Maharishi Vashishta’s (महर्षि) reconciliation (अनुनय) possible (शक्य)
    • अन्यपयस्विनीनां विश्राणनात् = by the gift (विश्राणन) of other ordinary milch-cows (अन्यपयस्विनी)
  • इमां सुरभेः अनूनाम् अवेहि = Know (अव+इण्) her (इदम्) to be comparable (अनूना) to the divine cow, Surabhi (सुरभि)
  • अस्यां त्वया प्रहृतं तु रुद्रौजसा = That she (इदम्) has been attacked (प्रहृत) by you (त्वम्) is verily by the power (ओजस्) of Lord Shiva or Rudra (रुद्र)

55.         श्लोकः

मूलपाठः

सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः ।
न पारणा स्याद्विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः ।। २.५५ ।।

पदच्छेदः

सा, इयम्, स्वदेहार्पणनिष्क्रयेण, न्याय्या, मया, मोचयितुम्, भवत्तः, न, पारणा, स्यात्, विहता, तव, एवम्, भवेत्, अलुप्तः, च, मुनेः, क्रियार्थः

अन्वयार्थः

  • सा इयम्= सुरभेः अनूना सा इयं गौः
  • मया= मया (दिलीपेन)
  • स्वदेहार्पणनिष्क्रयेण= स्वशरीरप्रदान-विनिमयेन
  • भवत्तः मोचयितुं न्याय्या= त्वत्तः त्याजयतुं युक्ता ।
  • एवं (सति)= यदि एवं क्रियते तर्हि ।
  • तव पारणाविहता न स्यात्= तव व्रतान्तभोजनं नष्टं न भवेत् ।
  • मुनेः क्रियार्थःअलुप्तः चभवेत् = वसिष्ठमहर्षेः होमादेः विधिः रक्षितः भवेत् ।

अन्वयः

सा इयं मया स्वदेहार्पणनिष्क्रयेण भवत्तः मोचयितुं न्याय्या । एवं (सति) तव पारणा विहता न स्यात् । मुनेः क्रियार्थः अलुप्तः च भवेत् ।

अन्वयरचना

  • न्याय्या अस्ति
    • का न्याय्या अस्ति ? इयम्
      • कीदृशी इयम् ? सा (धेनुः)
    • किं कर्तुं न्याय्या अस्ति ? मोचयितुम्
      • कस्मात् मोचयितुम् ? भवत्तः
      • केन कर्त्रा मोचयितुम् ? मया
      • केन प्रकारेण / करणेन मोचयितुम् ? स्वदेहार्पणनिष्क्रयेण
    • एवं (सति), न स्यात्
      • का न स्यात् ? पारणा
        • कस्य पारणा ? तव
      • कथंभूता न स्यात् ? विहता
    • च भवेत्
      • कः भवेत् ? क्रियार्थः
        • कस्य क्रियार्थः ? मुनेः
        • क्रियार्थः कीदृशः भवेत् ? अलुप्तः

तात्पर्यम्

“हे सिंह ! मम शरीरप्रदानपण्येन त्वत्तः धेनोः विमोचनं सर्वथा युक्तं मन्येऽहम् । अनेन क्षुधितस्य तव व्रतान्तभोजनं पूज्यस्य गुरोः होमसाधनं चेत्युभयमपि विलुप्तं न स्यात् । किञ्च गुरोः सम्पदः रक्षणे मया लोपः न कार्यः।” स्वप्राणव्ययेनापि स्वामिगुरुधनं संरक्ष्यमिति भावः ।

पदविवरणम्

  • स्वदेहार्पणनिष्क्रयेण
    • स्वस्य देहः = स्वदेहः
    • स्वदेहस्य अर्पणम् = स्वदेहार्पणम्
    • स्वदेहार्पणनिष्क्रयेण= स्वदेहार्पणम् एव निष्क्रयः स्वदेहार्पणनिष्क्रयः, तेन
  • भवत्तः = भवत् + तसिल् (पञ्चम्याः तसिल्)
  • मोचयितुम् = मुञ्च् “मुचॢँ मोक्षणे” + तुमुन् । लटि मुञ्चति, णिचि मोचयति ।
  • न्याय्या= न्यायाद् अनपेता
  • विहता = वि + हन् “हनँ हिंसागत्योः” + क्त, आकारान्तः, स्त्री., प्र.वि., ए.व.
  • क्रियार्थः= क्रिया एव अर्थः
  • अलुप्तः= न लुप्तः

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सा इयम् = This person, Nandini
    • न्याय्या = ought fairly
    • भवत्तः मोचयितुम् = to be liberated (मोचयितुम्) from you (भवत्)
    • मया स्वदेहार्पणनिष्क्रयेण = by me by offering (अर्पण) my (स्व) body (देह) as a barter (निष्क्रय)
  • एवं (सति) = In this way
    • तव पारणा = your meals after fasting
    • विहता न स्यात् = will not be deprived of
  • मुनेः क्रियार्थः = The sage’s (मुनि) means (अर्थ) of rites (क्रिया)
    • अलुप्तः च भवेत् = will also not (न) be destroyed (लुप्त)

56.         श्लोकः

मूलपाठः

भवानपीदं परवानवैति महान्हि यत्नस्तव देवदारौ ।
स्थातुं नियोक्तुर्नहि शक्य
म् अग्रे विनाश्य रक्ष्यं स्वयम् अक्षतेन ।। २.५६ ।।

पदच्छेदः

भवान्, अपि, इदम्, परवान्, अवैति, महान्, हि, यत्नः, तव, देवदारौ, स्थातुम्, नियोक्तुः, नहि, शक्यम्, अग्रे, विनाश्य, रक्ष्यम्, स्वयम्, अक्षतेन

अन्वयार्थः

  • परवान्भवान्= परतन्त्रः / पराधीनः / नाथवान् भवान्
  • अपि इदम् अवैति= अपि इदं वक्ष्यमाणं जानाति
  • हि= यस्मात् हेतोः
  • तव देवदारौ महान् यत्नः= देवदारुवृक्षरक्षणे तव अतिशयितः प्रयासः
  • रक्ष्यं विनाश्य= पालनीयं वस्तु क्षपयित्वा (विनाशदशां प्रापय्य)
  • स्वयम् अक्षतेन= स्वयम् अव्रणेन
  • नियोक्तुः अग्रे= स्वामिनः पुरतः
  • स्थातुंनहि शक्यम्= स्थातुं नैव अर्ह्यते (सेवकेन)

अन्वयः

परवान् भवान् अपि इदम् अवैति हि तव देवदारौ महान् यत्नः । रक्ष्यं विनाश्य स्वयम् अक्षतेन नियोक्तुः अग्रे स्थातुं शक्यं नहि ।

अन्वयरचना

  • अवैति हि
    • कः अवैति ? भवान् अपि
      • कीदृशः भवान् ? परवान्
    • किम् अवैति ? इदम्
  • (अस्ति)
    • कः अस्ति ? यत्नः
      • कीदृशः यत्नः ? महान्
      • कस्य यत्नः ? तव
      • कस्मिन् यत्नः ? देवदारौ
    • नहि शक्यम्
      • केन नहि शक्यम् ? स्वयम्
        • कीदृशेन स्वयम् ? अक्षतेन
      • किं कृत्वा नहि शक्यम्? विनाश्य
        • किं विनाश्य? रक्ष्यम्
      • किं कर्तुं नहि शक्यम्? स्थातुम्
        • कुत्र स्थातुम्? अग्रे
          • कस्य अग्रे? नियोक्तुः

तात्पर्यम्

दिलीपराजः अवदत् –  “स्वामिना परमशिवेन अस्य देवदारुतरोः रक्षणे नियुक्तः भवान् एव अत्र प्रमाणं यत् रक्षणीयं वस्तु नाशं गमयित्वा स्वयं अव्रणितः सन् स्वामिनः पुरतः कथं वा स्थातुम् अर्हति सेवकः इति । अतः किल महता यत्नेन एनं वृक्षं रक्षति भवान् ।” आवयोः स्थितिः समाना, एवं सति गुरुधनस्य रक्षणे कथं नु प्रयत्नवान् न स्याम् अहम् इत्यर्थः ।

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः  २/४० इति

सिंहोक्तिः अत्र स्मर्तुं योग्यम्  ।

पदविवरणम्

  • परवान्= परः अस्य अस्ति इति परवान्
  • अवैति= अव + इण् “इण् गतौ”, लट्., प्र.पु., ए.व.
  • हि= अव्ययम् – हेतौ अवधारणे इत्यमरः
  • रक्ष्यम् = रक्षितुं योग्यम्
  • विनाश्य= वि + नश् “णशँ अदर्शने” + णिच् + ल्यप्, लटि. णिचि. विनाशयति
  • स्वयम्= अव्ययम्
  • अक्षतेन= न क्षतः – अक्षतः तेन
  • नियोक्तुः= नियोक्तृ शब्दः ऋकारान्तः पु., ष.वि., ए.व. । कर्त्रर्थे तृच् ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • भवान् अपि = You too
    • परवान् = who is one having a superior person (पर) over him
    • अवैति हि = definitely know
    • इदम् = this
  • तव महान् यत्नः = Your effort is great
    • देवदारौ = in (taking care of) Devadaaru
  • शक्यं नहि = It is not possible
    • नियोक्तुः अग्रे स्थातुम् = to stand in front of the employer
    • रक्ष्यं विनाश्य = after having lost that which had to be protected
    • स्वयम् अक्षतेन = himself being unhurt

57.         श्लोकः

मूलपाठः

किप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः ।
एकान्तविधंसिषु मद्विधानां पिण्डेष्वनास्था खलु भौतिकेषु ।। २.५७ ।।

पदच्छेदः

किम्, अपि, अहिंस्यः, तव, चेत्, मतः, अहम्, यशःशरीरे, भव, मे, दयालुः, एकान्तविधंसिषु, मद्विधानाम्, पिण्डेष्वनास्था, खलु, भौतिकेषु

अन्वयार्थः

  • किम्अपि= किं वा अहम्
  • तवअहिंस्यः मतःचेत् = अवध्यः इति त्वं चिन्तयसि चेत्
  • मे = मम
  • यशःशरीरे = यशः एव शरीरं तस्मिन्
  • दयालुःभव = कारुणिकः भव
  • मद्विधानाम्= मादृशानां विवेकिनां
  • एकान्तविध्वंसिषु = अवश्यं विनाशशीलेषु
  • भौतिकेषु = पृथिव्यादीनां विकाराः तेषु
  • पिण्डेषु= शरीरेषु
  • अनास्था खलु = अनपेक्षा एव

अन्वयः

किम् अपि अहम् तव अहिंस्यः मतः चेत् मे यशःशरीरे दयालुः भव । मद्विधानाम् एकान्तविधंसिषु भौतिकेषु पिण्डेषु अनास्था खलु ।

अन्वयरचना

  • मतः (अस्ति)
    • कस्य मतः? तव
    • कीदृशः मतः? अहिंस्यः अहम् (इति)
  • भव
    • कः ? त्वम्
    • कीदृशः त्वम् ? दयालुः
      • कस्मिन् दयालुः ? यशःशरीरे
        • कस्य यशःशरीरे ? मे
      • (अस्ति)खलु
        • का अस्ति? अनास्था
          • केषाम् अनास्था? मद्विधानाम्
          • केषु अनास्था? पिण्डेषु
            • कीदृशेषुपिण्डेषु ? भौतिकेषु
            • पुनः कीदृशेषुपिण्डेषु ? एकान्तविध्वंसिषु

तात्पर्यम्

दिलीपः आह – अहम् अवध्यः इति चिन्तयसि चेत् सकृत् मम यशसि कारुणिको भव (यशः एव शरीररूपं धृतवत् अस्ति) । ननु मुख्यम् उपेक्ष्य अमुख्यशरीरे कोऽभिनिवेशः ? अतः आह – आत्मानात्मविवेकयुक्ताः मादृशाः  नश्वरशरीरस्य विषये आसक्ताः नैव भवन्ति ।

पदविवरणम्

  • किम्अपि= किं वा अहम्
  • तवअहिंस्यः मतःचेत् = अवध्यः इति त्वं चिन्तयसि चेत्
  • मे = मम
  • यशःशरीरे = यशः एव शरीरं तस्मिन्
  • दयालुःभव = कारुणिकः भव ।
  • मद्विधानाम्= मादृशानां विवेकिनां
  • एकान्तविध्वंसिषु = अवश्यं विनाशशीलेषु
  • भौतिकेषु = पृथिव्यादीनां विकाराः तेषु
  • पिण्डेषु= शरीरेषु
  • अनास्था खलु = अनपेक्षा एव

अन्यविषयाः

  • दया
    • आत्मवत् सर्वभूतेषु यो हिताय शुभाय च ।
    • वर्तते सततं हृष्टः क्रिया ह्येषा दया स्मृता ॥ मत्स्यपुराणम्
  • यशः
    • अश्नुते व्याप्नोति इति यशः ।
    • कीर्तिः – दानादिप्रभवा कीर्तिः शौर्यादिप्रभवं यशः ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • किम् अपि = somehow (or) on the other hand
    • मतः चेत् = if your opinion is that
    • अहम् तव अहिंस्यः = I am not to be harmed by you
    • मे यशःशरीरे दयालुः भव = (then) (I pray to you to) become compassionate towards my body, that is representing my fame. Commentary — “The king means to say that his fame will remain untarnished even if his corporal body is devoured, but he will have no face to show if he lives and allows the cow to be eaten up”.
      • मद्विधानाम् = (because) on the part of persons like myself (मत्+विध)
        • अनास्था खलु = there is disregard (न आस्था)
        • एकान्तविधंसिषु भौतिकेषु पिण्डेषु = in these bodies, which are lumps (पिण्ड), made of the five material elements (भौतिक), which are necessarily (lit., with only one ending) (एकन्त) perishable (विधंसी)

58.  श्लोकः

मूलपाठः

म्बन्धमाभाषणपूर्वमाहुर्वृत्तः स नौ सङ्गतयोर्वनान्ते ।
तद्भूतनाथानुग नार्हसि त्वं स
म्बन्धिनो मे प्रणयं विहन्तुम् ।। २.५८ ।।

पदच्छेदः

सम्बन्धम्, आभाषणपूर्वम्, आहुः, वृत्तः, सः, नौ, सङ्गतयोः, वनान्ते, तद्, भूतनाथानुग, न, अर्हसि, त्वम्, सम्बन्धिनः, मे, प्रणयम्, विहन्तुम्

अन्वयार्थः

  • सम्बन्धम् आभाषणपूर्वम् आहुः = सख्यं परस्परालापजनितं वदन्ति (बुधाः)।
  • वनान्ते सङ्गतयोः नौ = वनप्रदेशे मिलितयोः आवयोः
  • सः वृत्तः = सः (सम्बन्धः) सञ्जातः ।
  • तद् = तस्मात्
  • भूतनाथानुग = शिवानुचर !
  • सम्बन्धिनः मे प्रणयम् = सख्युः मम याच्ञा, प्रीत्या प्रार्थनम्
  • विहन्तुम् = नाशयितुम्
  • त्वं न अर्हसि = भवान् नार्हति

अन्वयः

सम्बन्धम् आभाषणपूर्वम् आहुः । सः वनान्ते सङ्गतयोः नौ वृत्तः । तद् भूतनाथानुग त्वं सम्बन्धिनः मे प्रणयं विहन्तुं न अर्हसि ।

अन्वयरचना

  • हे भूतनाथानुग
  • आहुः
    • कम्आहुः? सम्बन्धम्
      • कीदृशं सम्बन्धम् ? आभाषणपूर्वम्
    • वृत्तः (अवर्तत)
      • कः वृत्तः ? सः (सम्बन्धः)
        • कयोः सः ? नौ
          • कीदृशयोः नौ ? सङ्गतयोः
            • कुत्र सङ्गतयोः ? वनान्ते
          • तद् न अर्हसि
            • कः न अर्हसि ? त्वम्
            • किं कर्तुं न अर्हसि ? विहन्तुम्
              • किं विहन्तुम् ? प्रणयम्
                • कस्य प्रणयम् ? मे
                  • कीदृशस्य मे ? सम्बन्धिनः

तात्पर्यम्

परस्परालापजनितं हि सख्यम् इति बुधैः उच्यते । अस्मिन् वनप्रदेशे परस्परं संवदमानयोः आवयोः तत्सख्यम् अजायत । एवं सति हे शिवानुचर ! “यशःशरीरे भव मे दयालु:” इति त्वत्सख्युः मम प्रार्थनां विफलीकर्तुं नार्हसि त्वम् ।

भूतनाथानुग – एतेन तस्य महत्त्वं सूचयति ।

पदविवरणम्

  • सम्बन्धः = सम्बध्यते इति सम्बन्धः – हलायुधकोशे । सख्यम्, मैत्री
  • आभाषणपूर्वम्
    • आभाषणम् = आलापः
    • आभाषणपूर्वम् = आभाषणं पूर्वं यस्य सः आभाषणपूर्वः (सम्बन्धः) तम् ।
  • वनान्ते = वनस्य अन्तः वनान्तः, तस्मिन्
  • वृत्तः = वृत् “वृतुँ वर्तने”, कर्मणि क्तप्रत्ययान्तरूपम् । अकारान्तः, पुं., प्र.वि., ए.व. । लटि वर्तते ।
  • तद् = तस्मात् । हेत्वर्थकमव्ययम्
  • भूतनाथानुग
    • भूतनाथः = भूतानां नाथः ।
    • अनुगः = अनु पश्चात् गच्छति इति ।
    • भूतनाथानुग = भूतनाथस्य अनुगः भूतनाथानुगः, तत्सम्बुद्धौ
  • सम्बन्धिनः = सम्बन्धः अस्य अस्तीति सम्बन्धी, तस्य
  • विहन्तुम् = वि + हन् “हनँहिंसागत्योः” + तुमुन् । लटि हन्ति, आहते ।
  • अर्हसि = अर्ह् “अर्हँ पूजायाम्”, लट्, म.पु., ए.व. । लटि अर्हयति, अर्हयते ।
  • प्रणयः = सख्यम्, प्रार्थना

अन्यविषयाः

  • सम्बन्धः
    • सम्बन्धो येषु येषां यः सर्वजातिषु सर्वतः ।
    • तं त्वां ब्रवीमि वेदोक्तं ब्रह्मणा कथितं पुरा ॥
    • सम्बन्धस्त्रिविधः पुंसां विप्रेन्द्र ! जगतीतले ।
    • विद्याजो योनिजश्चैव प्रीतिजश्च प्रकीर्तितः ।
    • मित्रं तु प्रीतिजं ज्ञेयं स सम्बन्धः सुदुर्लभः ॥
    • मित्रमाता मित्रभार्या मातृतुल्या न संशयः । इति ब्रह्मवैवर्ते ब्रह्मखण्डे ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • आहुः = (The wise men) say
    • सम्बन्धम् आभाषणपूर्वम् = Friendship is preceded by conversation
  • सः नौ वृत्तः = That has happened to us
    • सङ्गतयोः = to those who have got together
    • वनान्ते = in the interiors (अन्त) of the forest (वन)
  • भूतनाथानुग = O the servant (अनुग) of Shiva, the Lord (नाथ) of the beings (भूत)
  • तद् = Therefore,
    • त्वं न अर्हसि = you ought not
    • विहन्तुम् = reject
    • प्रणयम् = the request / friendship
      • सम्बन्धिनः मे = of me, who is your friend

59. श्लोकः

मूलपाठः

तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्टम्भविमुक्तबाहुः ।
स न्यस्तशस्त्रो हरये स्वदेह
मुपानयत्पिण्डमिवामिषस्य ।। २.५९ ।।

पदच्छेदः

तथा, इति, गाम्, उक्तवते, दिलीपः, सद्यः, प्रतिष्टम्भविमुक्तबाहुः, सः, न्यस्तशस्त्रः, हरये, स्वदेहम्, उपानयत्, पिण्डम्, इव, आमिषस्य

अन्वयार्थः

  • तथा इति= एवमस्तु इति
  • गाम्= वचः
  • उक्तवते हरये= कथितवते सिंहाय
  • सद्यः= तत्क्षणे
  • प्रतिष्टम्भविमुक्तबाहुः= बन्धात् विमुक्तः बाहुः यस्य
  • सः दिलीपः= सः चक्रवर्तिदिलीपः
  • न्यस्तशस्त्रः (सन्)= त्यक्तायुधः सन् / हेतिं परित्यज्य
  • स्वदेहम्= स्वशरीरम्
  • आमिषस्य पिण्डम् इव= मांसस्य ग्रासम् / कवलम् इव
  • उपानयत्= उपाहरत्, समर्पितवान्

अन्वयः

तथा इति गाम् उक्तवते हरये सद्यः प्रतिष्टम्भविमुक्तबाहुः सः दिलीपः न्यस्तशस्त्रः (सन्) स्वदेहम् आमिषस्य पिण्डम् इव उपानयत् ।

अन्वयरचना

  • उपानयत्
    • कः उपानयत् ? दिलीपः
      • कीदृशः दिलीपः ? सः
      • पुनः कीदृशः दिलीपः ? प्रतिष्टम्भविमुक्तबाहुः
        • कदा प्रतिष्टम्भविमुक्तबाहुः ? सद्यः
      • कथंभूतः सन् दिलीपः ? न्यस्तशस्त्रः (सन्)
    • कम् उपानयत् ? स्वदेहम्
    • कमिव उपानयत् ? पिण्डम् इव
      • कस्य पिण्डम् इव ? आमिषस्य
    • कस्मै उपानयत् ? हरये
      • कीदृशाय हरये ? उक्तवते
        • काम् उक्तवते ? गाम्
        • किमिति गाम् ? तथा इति

तात्पर्यम्

“नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम्” इति प्रार्थितवन्तं दिलीपं ‘तथा (अस्तु)’ इति वचनम् अब्रवीत् सिंहः । तत्क्षणे एव बाणमूले संसक्तः दिलीपबाहुः शिथीलीभूतः । सोऽपि सशरं चापं पार्श्वे निक्षिप्य सिंहाय अर्पयितुं स्वशरीरं मांसपिण्डम् इव उपाहरत् । नितरां निर्ममः सन् सिंहमुपागच्छत् इति भावः ।

पदविवरणम्

  • गाम्= ओकारान्तः, स्त्री., गो शब्दः, द्वि. वि., ए.व.
  • उक्तवते= तकारान्तः, पुं., उक्तवत् शब्दः, च. वि., ए.व.
  • हरये= कपौ सिंहे सुवर्णे च वर्णे विष्णौ हरिं विदुः इति शाश्वतः
  • सद्यः= समाने अहनि अथवा तत्क्षणे इत्यर्थे अव्ययम् ।
  • प्रतिष्टम्भविमुक्तबाहुः
    • स्तभ्नाति इति स्तम्भः (जडत्वम्)
    • प्रतिष्टम्भविमुक्तबाहुः= प्रतिष्टम्भात् विमुक्तः बाहुः यस्य सः
  • न्यस्तशस्त्रः = न्यस्तं शस्त्रं येन सः
  • स्वदेहम्= स्वस्य देहः स्वदेहः, तम्
  • आमिषम् = पललं क्रव्यमामिषम् इत्यमरः
  • उपानयत्= उप + अनयत् । नी“णीञ् प्रापणे” उभयपदी लङ्., प्र.पु., ए.व. । लटि. नयति, नयते ।

अन्यविषयाः

  • हरये – हरति इति हरिः, सिंहः
  • स्वदेहम् उपानयत् पिण्डम् इवामिषस्य – तस्य निर्ममत्वं सूच्यते अनेन ।
  • स्तभ् – स्तभ्नाति, स्था – तिष्ठति
    • इकारान्तात् उकारान्तात् उपसर्गात् अथवा अव-उपसर्गात् परं स्तभ् धातोः स् – ष् । प्रतिष्टम्भः, विष्टम्भः, अवष्टम्भः ।
    • इकारान्तात् उकारान्तात् उपसर्गात् परं स्था धातोः स् – ष् । अधिष्ठानम्, अनुष्ठानम् । अवस्थानम् ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः दिलीपः = That Dileepa
  • सद्यः प्रतिष्टम्भविमुक्तबाहुः = one whose arms were released
  • न्यस्तशस्त्रः (सन्) = becoming one who has laid his weapons aside
  • उपानयत् = presented
  • स्वदेहम् = his body
  • आमिषस्य पिण्डम् इव = like a mere lump of flesh
  • हरये = to the lion
  • तथा (अस्तु) इति गाम् उक्तवते = to it which uttered (उक्तवत्) the words (गो) “So be it” (तथा अस्तु)

60.         श्लोकः

मूलपाठः

तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम्
अवाङ्मुख
स्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ।। २.६० ।।

पदच्छेदः

तस्मिन्क्षणे, पालयितुः, प्रजानाम्, उत्पश्यतः, सिंहनिपातम्, उग्रम्, अवाङ्मुखस्य, उपरि, पुष्पवृष्टिः, पपात, विद्याधरहस्तमुक्ता

अन्वयार्थः

  • तस्मिन् क्षणे = यदा दिलीपः स्वदेहार्पणाय सिंहम् उपागच्छत् तदा
  • उग्रं सिंहनिपातम् = भयङ्करं सिंहस्य आक्रमणम् / अवपतनम्
  • उत्पश्यतः = उत्प्रेक्षमाणस्य
  • अवाङ्मुखस्य = अधोमुखस्य
  • प्रजानां पालयितुः उपरि = नराणां पत्युः उपरिष्टात्
  • विद्याधरहस्तमुक्ता = विद्याधराः इति देवयोनिविशेषाः । तेषां करैः अवकीर्णम् । विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः।पिशाचोगुह्यकः सिद्धो भूतोऽमी देवयोनयः – इत्यमरः
  • पुष्पवृष्टिः पपात = पुष्पवर्षणम् अपतत् ।

अन्वयः

तस्मिन् क्षणे उग्रं सिंहनिपातम् उत्पश्यतः अवाङ्मुखस्य प्रजानां पालयितुः उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात ।

अन्वयरचना

  • पपात
    • का पपात ? पुष्पवृष्टिः
      • कीदृशी पुष्पवृष्टिः ? विद्याधरहस्तमुक्ता
    • कुत्र पपात ? उपरि
      • कस्य उपरि ? पालयितुः
        • कासां पालयितुः ? प्रजानाम्
        • कीदृशस्य पालयितुः ? अवाङ्मुखस्य
        • पुनः कीदृशस्य पालयितुः ? उत्पश्यतः
          • कम् उत्पश्यतः ? सिंहनिपातम्
            • कीदृशं सिंहनिपातम् ? उग्रम्
          • कदा पपात ? तस्मिन् क्षणे

तात्पर्यम्

स्वदेहार्पणं कृत्वा धेनोः संरक्षणे तत्परः दिलीपराजः आमिषस्य पिण्डम् इव स्वशरीरं सिंहाय उपानयत् । तस्मिन् क्षणे अधोमुखः दिलीपः भयङ्करं सिंहाक्रमणं प्रतीक्षमाणः आस्ते । किन्तु अहो आश्चर्यम् इदं प्रवृत्तं यत् विद्याधराणां हस्तैः मुक्तं कोमलं पुष्पवर्षणं तस्योपरि अपतत् ।

“उग्रे सिंहनिपाते शङ्किते सति पुष्पवृष्टिः पपात इति वैचित्र्यम् ।”

पदविवरणम्

  • सिंहनिपातम् = सिंहस्य निपातः सिंहनिपातः, तम्
  • उत्पश्यतः = ऊर्ध्वं पश्यति इति उत्पश्यति । तकारान्तः पुं., उत्पश्यत् शब्दः, शतृ, ष.वि., ए.व.
  • अवाङ्मुखस्य = अवाक् मुखं यस्य सः अवाङ्मुखः, तस्य
  • पालयितुः = ऋकारान्तः पुं., पालयितृ शब्दः, ष.वि., ए.व.
  • विद्याधरहस्तमुक्ता
    • विद्याधराणां हस्ताः = विद्याधरहस्ताः
    • विद्याधरहस्तमुक्ता = विद्याधरहस्तैः मुक्ता
  • पुष्पवृष्टिः = पुष्पाणां वृष्टिः
  • पपात = पत् “पतॢँ गतौ”, लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • विद्यां मन्त्रादिकं धरति इति विद्याधरः ।
  • कामरूपी खेचरः ।
  • देवयोनिविशेषः ।
  • लोकेऽस्मिन् गणशस्तानि मन्त्रविद्याविचारिणाम् ।

विद्याधरास्तथान्येऽपि विद्याबलसमन्विताः ॥ वह्निपुराणम्

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तस्मिन् क्षणे = At that moment
    • पुष्पवृष्टिः = a shower (वृष्टि) of flowers (पुष्प)
      • विद्याधरहस्तमुक्ता = that were released (मुक्त) by the hands (हस्त) of Vidyadharas (विद्याधर), who are the celestial beings holding knowledge
    • पपात = fell
    • उपरि = on top
    • प्रजानां पालयितुः = of him, the protector (पालयितृ) of the subjects (प्रजा),
      • उत्पश्यतः = of him, who was looking forward, (उत्पश्यत्)e., expecting
        • उग्रं सिंहनिपातम् = the terrible (उग्र) leap (निपात) of the lion (सिंह)
      • अवाङ्मुखस्य = of him, who was facing (मुख) downwards (अवाङ्)

61.         श्लोकः

मूलपाठः

उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन् ।
ददर्श राजा जननी
मिव स्वां गाग्रतः प्रस्रविणीं न सिंहम् ।। २.६१ ।।

पदच्छेदः

उत्तिष्ठ, वत्स, इति, अमृतायमानम्, वचः, निशम्य, उत्थितम्, उत्थितः, सन्, ददर्श, राजा, जननीम्, इव, स्वाम्, गाम्, अग्रतः, प्रस्रविणीम्, न, सिंहम्

अन्वयार्थः

  • राजा = दिलीपचक्रवर्ती
  • अमृतायमानम् = अमृतम् इव आचरति इति अमृतायमानं तत्
  • उत्थितम् = उत्पन्नम्
  • “वत्स ! उत्तिष्ठ” इति वचः = हे पुत्र ! उत्तिष्ठ इति वचनम्
  • निशम्य = श्रुत्वा
  • उत्थितः सन् = उत्थाय स्थितः सन्
  • अग्रतः = अग्रे / पुरतः
  • प्रस्रविणीं गाम् = क्षीरस्राववतीम् ।
  • यस्याः ऊधसः पयः सहसा स्रवति तादृशीं गाम्
  • स्वां जननीम् इव = आत्मीयां मातरम् इव
  • ददर्श = अपश्यत्
  • सिंहं न = केसरिणं न ददर्श

अन्वयः

“उत्तिष्ठ वत्स” इति उत्थितम् अमृतायमानं वचः निशम्य राजा उत्थितः सन् अग्रतः प्रस्रविणीं गां स्वां जननीम् इव ददर्श सिंहं न (ददर्श) ।

अन्वयरचना

  • ददर्श
    • कः ददर्श ? राजा
    • किं कृत्वा ददर्श ? निशम्य
      • किं निशम्य ? वचः
        • किम् इति वच ? उत्तिष्ठ वत्स इति
          • कीदृशं वचः ? उत्थितम्
          • पुनः कीदृशं वचः ? अमृतायमानम्
        • राजा कथम्भूतः सन् ददर्श ? उत्थितः सन्
        • कां ददर्श ? गाम्
          • कीदृशीं गाम् ? प्रस्रविणीम्
          • काम् इव गाम् ? स्वां जननीम् इव
        • कुत्र ददर्श ? अग्रतः
        • कं न ददर्श ? सिंहं न

तात्पर्यम्

अवाङ्मुखस्य सिंहनिपातं प्रतीक्षमाणस्य दिलीपराजस्य उपरि विद्याधराः पुष्पवृष्टिम् अकुर्वन् । ततः यशोधनः सः यदा ‘उत्तिष्ठ वत्स’ इति अमृतोपमं धेनुवाक्यं श्रुत्वा उत्थितः तदा सिंहः तत्र नैव दृष्टः । दृष्टा तेन स्वजननीव

क्षीरस्राववती नन्दिनी ।

पदविवरणम्

  • अमृतायमानम् = अमृतम् इव आचरति इति अमृतायमानं तत्

उपमानादाचारे – ३/१/१० कर्तुः क्यङ् सलोपश्च ३/१/११। उपमानात् आचारेऽर्थे क्यच् ततः शानच् ।

  • उत्थितम् = अकारान्तः नपुं., उत्थित शब्दः, द्वि.वि., ए.व.
  • उत्तिष्ठ = उत् + स्था “ष्ठा गतिनिवृत्तौ” लोट्., म.पु., ए.व.
  • वत्सः = गोशिशुः, पुत्रः
  • वचः = सकारान्तः नपुं., वचस् शब्दः, द्वि.वि., ए.व.
  • निशम्य = नि + शम् “शमुँउपशमे” + ल्यप् । लटि शाम्यति ।
  • प्रस्रविणीं = प्रस्रवः अस्याः अस्तीति प्रस्रविणी, ताम् । जलादेः (अत्रः क्षीरस्य) निःसृत्य प्रवहणम् ।
  • स्वाम् = आकारान्तः स्त्री. स्वा शब्दः, द्वि.वि., ए.व. । स्वकीयाम् इत्यर्थः ।
  • जननीम् = जनयति इति जननी, ताम्
  • ददर्श = दृश् “दृशिँर्प्रेक्षणे” लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • प्रस्रिविणी –

राज्ञः सत्त्वोत्कर्षं दृष्ट्वा तस्मिन् धेनोः अपत्यस्नेहः तथा प्रकटीबभूव यथा तस्याः स्तनमण्डलात् क्षीरधाराः सहसा प्रावर्तन्त इति भावः ।

“प्रस्रवस्तु स्नेहवशात् जनन्याः अपि स्यात् ।”

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • राजा = The King, Dileepa
    • उत्थितः सन् = raising up
    • निशम्य = upon hearing
    • “वत्स ! उत्तिष्ठ” इति वचः = the words (वचस्), “O child (वत्स)! Get up (उत्तिष्ठ)”
      • उत्थितम् = that was uttered
      • अमृतायमानम् = that was (delightful) like the nectar (अमृत)
    • ददर्श = saw
      • अग्रतः = in front of him
      • गाम् = the cow
        • प्रस्रविणीम् = from whose udder milk was dripping down
      • स्वां जननीम् इव = like one’s own mother
    • सिंहं न = Not the lion; i.e., He did not see the lion

62.         श्लोकः

मूलपाठः

तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि ।
ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं कि
मुतान्यहिंस्राः ।। २.६२ ।।

पदच्छेदः

तम्, विस्मितम्, धेनुः, उवाच, साधो, मायाम्, मया, उद्भाव्य, परीक्षितः, असि, ऋषिप्रभावात्, मयि, न, अन्तकः, अपि, प्रभुः, प्रहर्तुम्, किमुत, अन्यहिंस्राः

अन्वयार्थः

  • विस्मितं तम् = आश्चर्यं गतं तं दिलीपम्
  • धेनुः उवाच = नन्दिनी अवदत्
  • साधो = हे सज्जन
  • मया मायाम् उद्भाव्य = अहं मायां कल्पयित्वा
  • (त्वं) परीक्षितः असि = त्वां परीक्षितवती ।
  • ऋषिप्रभावात् = वसिष्ठमुनेः तेजसः
  • मयि अन्तकः अपि = मयि यमः अपि
  • प्रहर्तुं न प्रभुः = हन्तुं न समर्थः
  • अन्यहिंस्राः किमुत ? = अन्ये घातुकाः / हन्तारः सुष्ठु न प्रभवः ।

अन्वयः

विस्मितं तं धेनुः उवाच “साधो मया मायाम् उद्भाव्य (त्वं) परीक्षितः असि । ऋषिप्रभावात् मयि अन्तकः अपि प्रहर्तुं न प्रभुः । अन्यहिंस्राः किमुत ।”

अन्वयरचना

  • उवाच
    • का उवाच ? धेनुः
    • कम् उवाच ? तम्
      • कीदृशं तम् ? विस्मितम्
    • किम् उवाच ? “साधो । (त्वं) परीक्षितः असि ।”
      • कया परीक्षितः ? मया
      • किं कृत्वा परीक्षितः ? उद्भाव्य
        • कां उद्भाव्य ? मायाम्
      • पुनः किम् उवाच ? न प्रभुः (भवति)
        • कः अपि न प्रभुः ? अन्तकः अपि
        • किं कर्तुं न प्रभुः ? प्रहर्तुम्
          • कस्मिन् प्रहर्तुम् ? मयि
        • कस्मात् कारणात् न प्रभुः ? ऋषिप्रभावात्
      • पुनः किम् उवाच ? अन्यहिंस्राः किमुत ।

तात्पर्यम्

सिंहस्य अदर्शनात् विस्मयापन्नं दिलीपं धेनुः अब्रवीत् – ‘साधो केसरिरूपां मायां* विधाय तव परीक्षा कृता । वसिष्ठऋषेः तेजसः प्रतापात् मयि यमराजः अपि आक्रमणं कर्तुं न समर्थः सिंहादयस्तु सुतराम् असमर्थाः ।’

*मायां मयोद्भाव्य परीक्षितोऽसि –

अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरं आविवेश ।। २.२६ ।।

पदविवरणम्

  • विस्मितम्= वि + स्मि “ष्मिङ् ईषद्धसने” + कर्तरि क्त
  • उद्भाव्य= उत् + भू “भू सत्तायाम्” + णिच् + ल्यप् । ‘भावि’ उद्भावयति ।
  • परीक्षितः= परि + ईक्ष् “ईक्षँ दर्शने” + कर्मणि क्त
  • ऋषिप्रभावात्= ऋषेः प्रभावः ऋषिप्रभावः, तस्मात्
  • अन्तकः= अन्तं करोति इति अन्तकः
  • प्रहर्तुम् = प्र + हृ “हृञ् हरणे” + तुमुन्
  • प्रभुः = प्रभवति इति प्रभुः
  • अन्यहिंस्राः
    • हिंस्रः = हिनस्तीति हिंस्रः । हिंसन्ति इति हिंस्राः । शरारुः, घातुकः, हिंसकः – पर्यायपदानि ।
    • अन्यहिंस्राः = अन्ये हिंस्राः
  • किमुत = सुष्ठु । ‘बलवत्सुष्ठु किमुत स्वस्त्यतीव च निर्भरे’ – षट् अतिशयस्य इत्यमरः । (अस्मिन् सन्दर्भे अतिशयार्थे) । प्रश्न-वितर्क-विकल्पातिशादयः किमुतेत्यस्यार्थाः – इति अव्ययकोशः । ‘प्राकृतोऽपि पुमान् नावमन्तव्यः किमुत राजा’

अन्यविषयाः

  • साधुः कः ?

न प्रहृष्यति सम्माने नावमानेन कुप्यति ।

न ऋद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥ (गारुडे ११३/४२)

  • माया का ?

विचित्रकार्यकारणा अचिन्तितफलप्रदा ।

स्वप्नेन्द्रजालवल्लोके माया तेन प्रकीर्तिता ॥ (देवीपुराणे)

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • धेनुः उवाच = The cow (धेनु) spoke
  • विस्मितं तम् = to him, who was wonderstruck (विस्मित)
    • साधो = O good man (साधु)
    • मया परीक्षितः असि = You have been tested (परीक्षित) by me
      • मायाम् उद्भाव्य = upon creating an illusion (माया)
    • ऋषिप्रभावात् = Due to the power of the sage
    • अन्तकः अपि = even the god of death (अन्तक)
    • मयि प्रहर्तुं न प्रभुः = is not capable of striking me
    • अन्यहिंस्राः किम् उत = much less (capable are) the other (अन्य) destructive animals (हिंस्र)

63.         श्लोकः

मूलपाठः

भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व ।
न केवलानां पयसां प्रसूति
वेहि मां कामदुघां प्रसन्नाम् ।। २.६३ ।।

पदच्छेदः

भक्त्या, गुरौ, मयि, अनुकम्पया, च, प्रीता, अस्मि, ते, पुत्र, वरम्, वृणीष्व, न, केवलानाम्, पयसाम्, प्रसूतिम्, अवेहि, माम्, कामदुघाम्, प्रसन्नाम्

अन्वयार्थः

  • पुत्र = वत्स
  • गुरौ भक्त्या = महर्षिवसिष्ठे अनुरक्त्या
  • मयि अनुकम्पया च = मयि (नन्दिन्यां) दयया च
  • ते = तुभ्यम्
  • प्रीता अस्मि = प्रसन्ना अस्मि ।
  • वरं वृणीष्व = वरणीयम् अर्थं स्वीकुरु
  • माम् = नन्दिनीम्
  • केवलानां पयसां प्रसूतिम् = दुग्धमात्रस्य कारणम् (प्रसूतिः = उत्पत्तिस्थानम्)
  • न अवेहि = न विद्धि
  • प्रसन्नां माम् = प्रीतां माम्
  • कामदुघाम् अवेहि = मनोरथानां पूरयित्रीं विद्धि

अन्वयः

पुत्र ! गुरौ भक्त्या मयि अनुकम्पाय च ते प्रीता अस्मि । वरं वृणीष्व । मां केवलानां पयसां प्रसूतिं न अवेहि । प्रसन्नां मां कामदुघाम् अवेहि ।

अन्वयरचना

  • पुत्र !
  • (अहम्) अस्मि
    • कीदृशी (अहम्) ? प्रीता
      • कस्मै प्रीता ? ते (तुभ्यम्)
      • कया प्रीता ? भक्त्या
        • कस्मिन् भक्त्या ? गुरौ
      • पुनः कया प्रीता ? अनुकम्पाय च
        • कस्याम् अनुकम्पाय ? मयि
      • (त्वं) वृणीष्व
        • किं वृणीष्व ? वरम्
      • (त्वं) न अवेहि
        • कां न अवेहि ? माम्
        • कीदृशीं मां न अवेहि ? प्रसूतिम्
          • केषां प्रसूतिम् ? पयसाम्
            • कीदृशानांपयसाम् ? केवलानाम्
          • (त्वम्) अवेहि
            • काम् अवेहि ? माम्
              • कीदृशीं माम् ? प्रसन्नाम्
              • पुनः कीदृशीं माम् ? कामदुघाम्

तात्पर्यम्

मुनिहोमधेनुः नन्दिनी आत्मानुचरस्य दिलीपस्य सेवया समर्पणेन प्रसन्ना सती तम् अवदत् – “हे पुत्र, गुरौ तव भक्तिं मयि च तव दयाम् अवेक्ष्य प्रसन्नाहम् । वरं स्वीकुरु । केवला क्षीरदायिनी इति मद्विषये मा चिन्तय । यदि अहं प्रसन्ना तर्हि सकलवरदायिनी भवेयम् इति जानीहि ।”

पदविवरणम्

  • अनुकम्पा = कृपा, दया, अनुकम्पा, अनुक्रोशः (अमरकोशे)
  • वृणीष्व = वृ “वृङ् सम्भक्तौ” । आत्मनेपदी लोट्., म.पु., ए.व. । लटि वृणीते।
  • प्रसूतिः = प्रसूयते इति प्रसूतिः ।
  • अवेहि = अव + इ “इण् गतौ” । अव + इहि । लोट् म.पु. ए.व. लटि एति ।
  • प्रसन्ना = प्र + सद् “षदॢँविशरणगत्यवसादनेषु” + क्त । लटि प्रसीदति ।
  • कामदुघाम् = कामान् दोग्धि इति कामदुघा, ताम्

अन्यविषयाः

  • वृङ् सम्भक्तौ – क्र्यादिगणः आत्मनेपदी
    • लट्
      • वृणीते वृणाते वृणुते
      • वृणीषे वृणाथे वृत्णीध्वे
      • वृणे वृणीवहे वृणीमहे
    • लोट्
      • वृणीताम् वृणाताम् वृणताम्
      • वृणीष्व वृणाथाम् वृत्णीध्वम्
      • वृणै वृणावहै वृणामहै
    • वृञ् वरणे – स्वादिगणः उभयपदी
      • लट् परस्मैपदि
        • वृणोति वृणुतः वृण्वन्ति
        • वृणोषि वृणुथः वृणुथ
        • वृणोमि वृणुवः / वृण्वः वृणुमः / वृण्मः
      • लोट् परस्मैपदि
        • वृणोतु / वृणुतात् वृणुताम् वृण्वन्तु
        • वृणु / वृणुतात् वृणुतम् वृणुत
        • वृणवानि वृणवाव वृणवाम
      • लट् आत्मनेपदि
        • वृणुते वृण्वाते वृण्वते
        • वृणुषे वृण्वाथे वृणुध्वे
        • वृण्वे वृणुवहे /वृण्वहे वृणुमहे /वृण्महे
      • लोट् आत्मनेपदि
        • वृणुताम् वृण्वाताम् वृण्वताम्
        • वृणुष्व वृण्वाथाम् वृणुध्वम्
        • वृणवै वृणवावहै वृणवावहै

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • पुत्र = My son!
  • भक्त्या = Due to your devotion (भक्ति)
    • गुरौ = towards your preceptor (गुरु)
  • अनुकम्पाय च = and due to your compassion (अनुकम्पा)
    • मयि = towards me
  • प्रीता अस्मि = I am pleased
    • ते = with you
  • वरं वृणीष्व = Ask me for a boon
  • माम् अवेहि = Know me
    • केवलानां पयसां प्रसूतिं न = not to be a producer (प्रसूति) of milk (पयस्) alone (केवल)
  • माम् अवेहि = Know me
    • कामदुघाम् = to be the wish-fulfilling Kamadhenu (कामदुघा)
    • प्रसन्नाम् = when I am pleased

64.         श्लोकः

मूलपाठः

ततः समानीय स मानितार्थी हस्तौ स्वहस्तार्जितवीरशब्दः ।
वंशस्य कर्तार
नन्तकीर्तिं सुदक्षिणायां तनयं ययाचे ।। २.६४ ।।

पदच्छेदः

ततः, समानीय, सः, मानितार्थी, हस्तौ, स्वहस्तार्जितवीरशब्दः, वंशस्य, कर्तारम्, अनन्तकीर्तिं, सुदक्षिणायाम्, तनयम्, ययाचे

अन्वयार्थः

  • ततः = अनन्तरम् । पुत्र, प्रीतास्मि ते वरं वृणीष्व इति धेनुवचनश्रवणात् परम्
  • मानितार्थी = येन याचकाः सत्कृताः तादृशः (दाता)
  • स्वहस्तार्जितवीरशब्दः = येन स्वकराभ्यां वीरः इति शब्दः अर्जितः / येन पराक्रमी इति पदवी प्राप्ता सः । (वशी / अदीनः)
  • सः = दिलीपराजः
  • हस्तौ समानीय = अञ्जलिं बद्ध्वा
  • वंशस्य कर्तारम् = कुलस्य प्रवर्तयितारम्
  • अनन्तकीर्तिं तनयम् = स्थिरयशसं पुत्रम्
  • सुदक्षिणायां ययाचे = स्वभार्यायां प्रार्थितवान्

अन्वयः

ततः मानितार्थी स्वहस्तार्जितवीरशब्दः सः हस्तौ समानीय वंशस्य कर्तारम् अनन्तकीर्तिं तनयं सुदक्षिणायां ययाचे ।

अन्वयरचना

  • ययाचे
    • कः ययाचे ? सः
      • कीदृशः सः ? स्वहस्तार्जितवीरशब्दः
      • पुनः कीदृशः सः ? मानितार्थी
    • किं कृत्वा ययाचे ? समानीय
      • कौ समानीय ? हस्तौ
    • कदा ययाचे ? ततः
    • कं ययाचे ? तनयम्
      • कीदृशं तनयम् ? कर्तारम्
        • कस्य कर्तारम् ? वंशस्य
      • पुनः कीदृशं तनयम् ? अनन्तकीर्तिम्
    • कस्यां तनयं ययाचे ? सुदक्षिणायाम्

तात्पर्यम्

‘उत्तिष्ठ वत्स’ २/६१, ‘ते प्रीतास्मि’ ‘वरं वृणीष्व’ ‘प्रसन्नां मां कामदुघाम् अवेहि’ २/६३ इति नन्दिन्याः अमृततुल्यां वाचम् आकर्ण्य, अग्रतः स्वजननीम् इव ताम् आलोक्य, ‘प्रीता कामदुघा हि सा’ १/८१ इति गुरोः वसिष्ठस्य वचनं संस्मृत्य प्रार्थयितॄणां तोषकः वीरकर्मा दिलीपचक्रवर्ती अञ्जलिं बद्ध्वा कामधेनुसुतां कुलप्रवर्तकं यशस्विनं पुत्रं सुदक्षिणायां याचितवान् ।

पदविवरणम्

  • मानितार्थी
    • अर्थिनः = अर्थयन्ते इति अर्थिनः
    • मानितार्थी= मानिताः अर्थिनः येन सः
  • स्वहस्तार्जितवीरशब्दः
    • स्वस्य हस्तः = स्वहस्तः
    • वीरः इति शब्दः = वीरशब्दः
  • स्वहस्तार्जितवीरशब्दः= स्वहस्तेन अर्जितः वीरशब्दः येन सः
  • समानीय= सम् + आङ् + नी “णीञ्प्रापणे” + ल्यप्
  • अनन्तकीर्तिम्
    • अनन्ता = न विद्यते अन्तः यस्याः सा ।
    • अनन्तकीर्तिम् = अनन्ता कीर्तिः यस्य सः अनन्तकीर्तिः, तम्
  • तनयम् =तनोति विस्तारयति कुलम् इति तनयः
  • ययाचे= याच् “टुयाचृँ याच्ञायाम्” लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • मानितार्थी स्वहस्तार्जितवीरशब्दःअनेन पदद्वयेन दातृत्वं, दैन्यराहित्यं चोक्तम्
  • न केवलानां पयसां प्रसूतिः – गोः पयोदाने सामर्थ्यं, नन्दिन्याः तु वरदानेऽपि
  • वंशस्य कर्तारं ययाचे – पूर्वम् इक्ष्वाकुवंशः इति नाम्ना ख्यातः सः वंशः ततः परं रघुवंशः इति प्रसिद्धः जातः ।
  • सुदक्षिणायां तनयं ययाचे –
  • कलत्रवन्तमात्मानमविरोधेमहत्यपि । तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः ॥ रघु १/३२
  • तस्यामात्मानुरूपायामात्मजन्मसमुत्सुकः । १/३३
  • किन्तु वध्वां तवैतस्यामदृष्टसदृशप्रजम् । न मामवति सद्वीपा रत्नसूरपि मेदिनी ॥ १/ ६५ ॥

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • ततः = Then
    • सः = he, Dileepa
    • मानितार्थी = he who is honoured (मानित) by supplicants (आर्थी) or he who had honoured the supplicants
    • स्वहस्तार्जितवीरशब्दः = he who had earned (अर्जित) the title (शब्द) of a great warrior (वीर) by his own (स्व) hands (हस्त)
    • समानीय = bringing together
      • हस्तौ = both his hands
    • ययाचे = begged (for)
      • सुदक्षिणायां तनयम् = a son (तनय) in Sudhakshinaa (सुदक्षिणा)
      • वंशस्य कर्तारम् = one who would be founder (कर्तृ) of a dynasty (वंश)
      • अनन्तकीर्तिम् = one who would have endless (अनन्त) fame (कीर्ति)

65.         श्लोकः

मूलपाठः

न्तानकामाय तथेति कामं राज्ञे प्रतिश्रुत्य पयस्विनी सा ।
दुग्ध्वा पयः पत्त्रपुटे मदीयं पु
त्रोभुङ्क्ष्वेति तमादिदेश ।। २.६५ ।।

पदच्छेदः

सन्तानकामाय, तथा, इति, कामम्, राज्ञे, प्रतिश्रुत्य, पयस्विनी, सा, दुग्ध्वा, पयः, पत्त्रपुटे, मदीयम्, पुत्र, उपभुङ्क्ष्व, इति, तम्, आदिदेश

अन्वयार्थः

  • सा पयस्विनी= कामदुघासा प्रशस्तक्षीरवती गौः
  • सन्तानकामाय राज्ञे= प्रजार्थिने चक्रवर्तिने
  • तथा इति= ‘यथेच्छसि तथा भवति’ इति
  • कामं प्रतिश्रुत्य= वरं प्रतिज्ञाय
  • पुत्र= हे वत्स
  • मदीयं पयः= मम स्तननिःसृतं क्षीरम्
  • पत्त्रपुटे दुग्ध्वा= पर्णनिर्मिते पात्रे (क्षीरस्य) दोहनं कृत्वा
  • उपभुङ्क्ष्व इति=पिब इति
  • तम् आदिदेश= दिलीपम् आज्ञापितवती

 

अन्वयः

सा पयस्विनी सन्तानकामाय राज्ञे तथा इति कामं प्रतिश्रुत्य पुत्र मदीयं पयः पत्त्रपुटे दुग्ध्वा उपभुङ्क्ष्व इति तम् आदिदेश ।

अन्वयरचना

  • आदिदेश
    • का आदिदेश ? सा
      • कीदृशी सा ? पयस्विनी
    • किं कृत्वा आदिदेश ? प्रतिश्रुत्य
      • कं प्रतिश्रुत्य ? कामम्
      • किमिति प्रतिश्रुत्य ? तथा इति
      • कस्मै कामं प्रतिश्रुत्य ? राज्ञे
        • कीदृशाय राज्ञे ? सन्तानकामाय
      • कम् आदिदेश ? तम्
      • किमिति आदिदेश ? पुत्र ! (त्वम्) उपभुङ्क्ष्व ।
        • किम् उपभुङ्क्ष्व ? पयः
          • कीदृशं पयः ? मदीयम्
        • किं कृत्वा उपभुङ्क्ष्व ? दुग्ध्वा
          • कुत्र दुग्ध्वा ? पत्त्रपुटे

तात्पर्यम्

वंशस्य कर्तारं सुदक्षिणायां तनयं प्रार्थितवते दिलीपराजाय सा प्रस्रविणी धेनुः तथास्तु इति वरं प्रदाय ‘पर्णैः निर्मिते पात्रे मम पयसः दोहनं कृत्वा तत् पिब’ इति तम् आज्ञापितवती ।

पदविवरणम्

  • पयस्विनी= प्रशस्तं पयः अस्याः अस्तीति
  • सन्तानकामाय= सन्तानं कामयते इति सन्तानकामः, तस्मै
  • कामम् = काम्यते इति कामः (वरः)
  • प्रतिश्रुत्य= प्रति + श्रु “श्रु श्रवणे” + ल्यप् । लटि. शृणोति ।
  • मदीयम् = मम इदं मदीयम्, तत्
  • पत्त्रपुटे
    • पत्त्रम् = पतनात् त्रायते ।
    • पत्त्रपुटे= पत्राणां पुटः पत्त्रपुटः, तस्मिन् ।
  • दुग्ध्वा= दुह् “दुहँप्रपूरणे” + क्त्वा । लटि. दोग्धि, दुग्धः, दुहन्ति ।
  • उपभुङ्क्ष्व=उप + भुज् “भुजँ पालनाभ्यवहारयोः”, लोट्., म.पु., ए.व. । लटि. भुङ्क्ते । पालनार्थे परस्मैपदी । अभ्यवहारः / भोजनार्थे आत्मनेपदी ।
  • आदिदेश= आ + दिश् “दिशँ अतिसर्जने” + लिट्., प्र.पु., ए.व. । लटि. आदिशति ।

अन्यविषयाः

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • प्रतिश्रुत्य = Having promised
    • कामम् = the desired boon
    • तथा इति = by saying “So be it”
    • राज्ञे = to the king (राजन्)
      • सन्तानकामाय = to one who wished (काम) for progeny (सन्तान)
    • सा पयस्विनी = that milch-cow
      • आदिदेश = instructed
      • तम् = him
      • इति = saying these:
        • पुत्र = O my son!
        • दुग्ध्वा = Having extracted
        • मदीयं पयः = my milk
        • पत्त्रपुटे = in a vessel (पुट) of leaves (पत्त्र)
        • उपभुङ्क्ष्व = drink it

66.         श्लोकः

मूलपाठः

वत्सस्य होमार्थविधेश्च शेषमृषेरनुज्ञाधिगम्य मातः ।
धस्यमिच्छामि तवोपभोक्तुं ष्ठांशमुर्व्या इव रक्षितायाः ।। २.६६ ।।

पदच्छेदः

वत्सस्य, होमार्थविधेः, च, शेषम्, ऋषेः, अनुज्ञाम्, अधिगम्य, मातः, औधस्यम्, इच्छामि, तव, उपभोक्तुम्, षष्ठांशम्, उर्व्याः, इव, रक्षितायाः

अन्वयार्थः

  • मातः= जननि
  • वत्सस्य (शेषम्) = वत्सपीतावशिष्टम्
  • होमार्थविधेः चशेषम् = यागानुष्ठानावशिष्टम् च
  • तव औधस्यम् = भवत्याः दुग्धम्
  • रक्षितायाःउर्व्याः= पालितायाः पृथिव्याः
  • षष्ठांशम्इव= षष्ठं भागम् इव
  • ऋषेः अनुज्ञाम्= वसिष्ठमुनेः अनुमतिम्
  • अधिगम्य = प्राप्य
  • उपभोक्तुम्इच्छामि= पातुम् अभिलषामि ।

अन्वयः

मातः ! वत्सस्य होमार्थविधेः च शेषं तव औधस्यं रक्षितायाः उर्व्याः षष्ठांशम् इव ऋषेः अनुज्ञाम् अधिगम्य उपभोक्तुम् इच्छामि ।

अन्वयरचना

  • मातः
  • (अहम्) इच्छामि
    • किं कर्तुम् इच्छामि ? उपभोक्तुम्
      • किं कृत्वा उपभोक्तुम्? अधिगम्य
        • काम्अधिगम्य ? अनुज्ञाम्
          • कस्य अनुज्ञाम्? ऋषेः
        • किम्उपभोक्तुम् ? औधस्यम्
          • कस्याःऔधस्यम् ? तव
          • कीदृशम्औधस्यम् ? शेषम्
            • कस्यशेषम् ? वत्सस्य
            • पुनः कस्यशेषम् ? होमार्थविधेः च
            • कथं इवशेषम् ? षष्ठांशम् इव
              • कस्याः षष्ठांशम्? उर्व्याः
                • कीदृश्याःउर्व्याः ? रक्षितायाः

तात्पर्यम्

दिलीपः धेनुमुवाच – मातः ! वत्सपानावशिष्टं यागावशिष्टं च तत् दुग्धं पालितायाः भूमेः षष्ठांशम् इव गुरोः अनुमतिं प्राप्य भोक्तुम् इच्छामि ।

मातःयथा राजा भूत्वा पृथिवीतः उत्पन्नस्य धान्यादेः लाभांशस्य षष्ठम् अंशम् ग्रहीतुम् अर्हामि तथा वत्सस्य क्षीरपानस्य यागकर्मणः च अनन्तरम् अवशिष्टं तव क्षीरं गुरोः अनुमत्या उपभोक्तुम् इच्छामि ।

पदविवरणम्

  • होमार्थविधेः
    • होमार्थः = होमः एव अर्थः (प्रयोजनम्)
    • होमार्थविधेः= होमार्थस्य विधिः होमार्थविधिः, तस्य
  • औधस्यम् = ऊधसि भवं, औधस्यम्
  • रक्षितायाः = रक्ष्“रक्षँ पालने”+ क्त, आकारान्त., स्त्री., ष.वि., ब.व. । रक्षति
  • षष्ठांशम्
    • षण्णां पूरणः = षष्ठः
    • षष्ठांशम्= षष्ठः अंशः षष्ठांशः, तम्
  • अधिगम्य = अधि + गम् “गमॢँ गतौ” + ल्यप्
  • उपभोक्तुम्= उप + भुज् “भुजँ पालनाभ्यवहारयोः” + तुमुन्

अन्यविषयाः

  • उर्व्याः – उर्वी
    • भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
    • धरा धरित्री धरणी क्षोणी ज्या काश्यपी क्षितिः ॥
    • सर्वसहा वसुमती वसुधोर्वी वसुन्धरा
    • गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ २७ भूमेः
  • उर्व्याः षष्ठांशम् ।
    • अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥ रघु. १/३० ॥
    • यथाल्पाल्पमदन्त्याद्यं वार्योको-वत्स-षट्पदाः ।
    • तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ मनु. ७/१२९ ॥
    • —-
    • मधुदोहं दुहेद् राष्ट्रं भ्रमरा इव पादपम् ।
    • वत्सापेक्षी दुहेच्चैव स्तनांश्च न विकुट्टयेत् ॥ शान्ति/राजधर्मानुशासन/८८/४
    • पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
    • धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ मनु. १३० ॥
    • आददीताथ षड्भागं द्रु-मांस-मधु-सर्पिषाम् ।
    • गन्धौषधि-रसानां च पुष्प-मूल-फलस्य च ॥ १३१ ॥
    • पत्र-शाक-तृणानां च चर्मणां वैदलस्य च ।
    • मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३२ ॥

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • मातः = O mother !
  • अधिगम्य = After obtaining
    • अनुज्ञाम् = the permission
      • ऋषेः = of Rishi Vasishta
    • इच्छामि = I wish
      • उपभोक्तुम् = to drink
        • तव औधस्यम् = your milk (औधस्य) that is produced in your udder (ऊधस्)
        • शेषम् = that which is leftover
          • वत्सस्य = after the calf’s (वत्स) consumption
          • होमार्थविधेः च = and after the consumption for the sacrificial rites (होमार्थविधि)
          • षष्ठाम्शम् इव = like (इव) the one-sixth (षष्ठ) portion (अम्श)
            • उर्व्याः = of the produce of the land (उर्वि), (that is collected as tax)
              • रक्षितायाः = of that which is being protected (रक्षित) by me

67.         श्लोकः

मूलपाठः

इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव ।
तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रम
श्रमेण ।। २.६७ ।।

पदच्छेदः

इत्थम्, क्षितीशेन, वसिष्ठधेनुः, विज्ञापिता, प्रीततरा, बभूव, तदन्विता, हैमवतात्, च, कुक्षेः, प्रत्याययौ, आश्रमम्, अश्रमेण

अन्वयार्थः

  • इत्थम्= अनेन प्रकारेण
  • क्षितीशेन= भूपतिना दिलीपेन
  • विज्ञापिता वसिष्ठधेनुः=निवेदिता नन्दिनीधेनुः
  • प्रीततरा बभूव= अतिसन्तुष्टा अभवत् ।
  • तदन्विता= दिलीपेन युक्ता (सती)
  • हैमवतात् कुक्षेः= हिमालयसम्बन्धिन्याः गुहायाः सकाशात्
  • अश्रमेण=अनायासेन
  • आश्रमं प्रत्याययौ च= वसिष्ठमुनेः तपोवनं प्रत्यागता ।

अन्वयः

इत्थं क्षितीशेन विज्ञापिता वसिष्ठधेनुः प्रीततरा बभूव । तदन्विता हैमवतात् कुक्षेः अश्रमेण आश्रमं प्रत्याययौ च ।

अन्वयरचना

  • बभूव
    • का बभूव ? वसिष्ठधेनुः
      • कीदृशी वसिष्ठधेनुः ? विज्ञापिता
        • केन विज्ञापिता ? क्षितीशेन
        • कथं विज्ञापिता ? इत्थम्
      • कीदृशी बभूव ? प्रीततरा
    • प्रत्याययौ च
      • का प्रत्याययौ ? तदन्विता
      • कुत्र प्रत्याययौ ? आश्रमम्
      • कथं प्रत्याययौ ? अश्रमेण
      • कस्मात् प्रत्याययौ ? कुक्षेः
        • कीदृशात् कुक्षेः ? हैमवतात्

तात्पर्यम्

‘वत्सस्य होमार्थविधेः च शेषं तव औधस्यम् ऋषेः अनुज्ञामधिगम्य  उपभोक्तुम् इच्छामि’ इति दिलीपेन निवेदितं वचनमाकर्ण्य नन्दिनी नितरां सन्तुष्टा अभूत् । ततः सा हिमाद्रेः गुहातः प्रस्थाय मुनेः आश्रमं प्रत्यागच्छत् । दिलीपोऽपि ताम् अनुगतः ।

पूर्वं शुश्रूषया प्रीता । सम्प्रति अनया विज्ञापनया अतिशयेन प्रीता इत्यर्थः ।

पदविवरणम्

  • इत्थम्= तद्धितान्तम् अव्ययम् । अनेन प्रकारेण ।
  • क्षितीशेन
    • क्षितिः = क्षियति वसत्यस्याम् । क्षि “क्षि निवासगत्योः” ।
    • क्षितीशेन= क्षितेः ईशः क्षितीशः, तेन ।
  • विज्ञापिता= वि + ज्ञा “ज्ञा नियोगे” + क्त, कर्मणि । लटि. आज्ञापयति ।
  • वसिष्ठधेनुः=वसिष्ठस्य धेनुः
  • प्रीततरा= अत्यन्तं प्रीता । तद्धितान्त., तरप्-प्रत्ययान्तं पदम् । आ., स्त्री., प्र.वि., ए.व. ।
  • बभूव= भू “भू सत्तायाम्”, लिट्., प्र.पु., ए.व. ।
  • तदन्विता= तेन अन्विता ।
  • हैमवतात्= हिमवतः अयम् हैमवतः, तस्मात् । हिमवान् ।
  • अश्रमेण=न श्रमः अश्रमः, तेन । क्रियाविशेषणम् ।
  • आश्रमम्= आङ् + श्रम् + घञ् । मुनेः वासस्थानम् ।
  • प्रत्याययौ  = प्रति + आङ् + या “या प्रापणे”, लिट्., प्र.पु., ए.व. ।

अन्यविषयाः

  • आश्रमम्
    • आसमन्तात् श्राम्यन्ति स्वं स्वं तपः चरन्ति अत्र इति आश्रमः ।
    • ब्रह्मचर्यं गार्हस्थं वानप्रस्थं संन्यासं चेति ।
  • इत्थम् = तद्धितान्तम् अव्ययम् ।
  • ‘इदम्’ शब्दात् प्रकारवचने ‘इदमस्थमुः’ ५.३.२४ इति थमु प्रत्यये सति इदम् इत्यस्य इत् आदेशे च सति इत्थम् इति रूपं सम्पद्यते ।
  • इदम्-शब्दात् परे प्रत्ययस्य आदिवर्णः रेफः चेत्
  • इदम् शब्दस्य ‘एत’ आदेशः भवति । उदा. एतर्हि । (इदम् + र्हिल्)
  • इदम्-शब्दात् परे प्रत्ययस्य आदिवर्णः थकारः चेत्
  • इदम् शब्दस्य ‘इत्’ आदेशः भवति । उदा. इत्थम् । (इदम् + थम्)

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • वसिष्ठधेनुः = Nandinee, the sage Vasishta’s (वसिष्ठ) cow (धेनु)
    • विज्ञापिता = she who was been requested
    • इत्थम् = thus
    • क्षितीशेन = by Dileepa, the lord (ईश) of the land (क्षिति)
    • बभूव = became
    • प्रीततरा = even more happier
  • प्रत्याययौ च = She also returned
    • तदन्विता = being one who is followed (अन्वित) by him (तद्), Dileepa
    • आश्रमम् = to the ashram
    • अश्रमेण = without any fatigue
    • कुक्षेः = from the caves
      • हैमवतात् = from those belonging to Himavaan (हैमवत)

68.         श्लोकः

मूलपाठः

तस्याः प्रसन्नेन्दुमुखः प्रसादं गुरुर्नृपाणां गुरवे निवेद्य ।
प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव ।। २.६८ ।।

पदच्छेदः

तस्याः, प्रसन्नेन्दुमुखः, प्रसादम्, गुरुः, नृपाणाम्, गुरवे, निवेद्य, प्रहर्षचिह्नानुमितम्, प्रियायै, शशंस, वाचा, पुनः, उक्तया, इव

अन्वयार्थः

  • प्रसन्नेन्दुमुखः= विमलचन्द्राननः / प्रसन्नवदनः
  • नृपाणां गुरुः=भूपालानां चक्रवर्ती दिलीपः । भूपालानां माननीयः गुरुः – चक्रवर्ती / सम्राट् ।
  • प्रहर्षचिह्नानुमितम् = मुखरागादि-लक्षणैः ऊहितम्
  • तस्याः प्रसादम् = धेनोः अनुग्रहम्
  • पुनः उक्तया इव वाचा=  भूयः कथितया इव वाण्या
  • गुरवे निवेद्य (पश्चात्)= वसिष्ठाचार्याय विज्ञाप्य(पश्चात्)
  • प्रियायै शशंस= सुदक्षिणायैअकथयत् ।

अन्वयः

प्रसन्नेन्दुमुखः नृपाणां गुरुः प्रहर्षचिह्नानुमितं तस्याः प्रसादं पुनः उक्तया इव वाचा गुरवे निवेद्य (पश्चात्) प्रियायै शशंस ।

अन्वयरचना

  • शशंस
    • कः शशंस ? प्रसन्नेन्दुमुखः
      • कीदृशः प्रसन्नेन्दुमुखः ? गुरुः
        • केषां गुरुः ? नृपाणाम्
      • कस्यै शशंस ? प्रियायै
      • कं शशंस ? प्रसादम्
        • कस्याः प्रसादम् ? तस्याः
        • कीदृशं प्रसादम् ? प्रहर्षचिह्नानुमितम्
      • कया शशंस ? वाचा
        • कीदृशी इव वाचा ? पुनः उक्तया इव
      • किं कृत्वा शशंस ? निवेद्य
        • कस्मै निवेद्य ? गुरवे

तात्पर्यम्

वनात् प्रतिनिवृत्तां धेनुम् अनुगतः दिलीपचक्रवर्ती प्रसन्नवदनः सन् गुरोः सन्निधौ उपस्थितः । तस्य मुखरागादिलक्षणैः एव वसिष्ठगुरुणा ज्ञातं यत् सः धेनोरनुग्रहपात्रतां यातः इति । अतः प्रहृष्टत्वात् मुखविकासादिना एव अभिव्यज्यमानम् तं धेनुप्रसादं भूयोऽपि वाचा पूर्वं गुरवे विज्ञाप्य पश्चात् सुदक्षिणायै अकथयत् दिलीपः ।

कथितस्य एव कथनं पुनरुक्तिः । न च इह तदस्ति । किन्तु चिह्नैः कथितप्रायत्वात् ‘पुनरुक्तया इव स्थितया इति उत्प्रेक्षा ।

पदविवरणम्

  • प्रसन्नेन्दुमुखः
    • प्रसन्नः इन्दुः = प्रसन्नेन्दुः
    • प्रसन्नेन्दुमुखः= प्रसन्नेन्दुः इव मुखं यस्य सः
  • नृपाणाम् = नॄन् पान्ति इति नृपाः, तेषाम्
  • प्रहर्षचिह्नानुमितम्
    • प्रकृष्टाः हर्षाः = प्रहर्षाः
    • प्रहर्षाणां चिह्नानि = प्रहर्षचिह्नानि
    • प्रहर्षचिह्नानुमितम् = प्रहर्षचिह्नैः अनुमितःप्रहर्षचिह्नानुमितः (प्रसादः), तम्
  • प्रसादः = प्र + सद् “षदॢँ विषरणगत्यवसादनेषु” / सद् “षदॢँ विषरणगत्यवसादनेषु” + घञ् । लटि. सीदति ।
  • पुनः= पुनर् अव्ययम् ।
    • भूयः अर्थविशेषः – अर्थद्वयम् ।
    • पुनरुक्ता वाक् ।
    • किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा (गीता-९/३३)
  • उक्तया= वच् “वचँपरिभाषणे” + क्त (कर्मणि), आ., स्त्री., उक्ता शब्दः तृ.वि., ए.व. ।
  • वाचा= चकारान्तः स्त्रीलिङ्गः वाच् शब्दः, तृ.वि., ए.व. ।
  • निवेद्य= नि + विद् “विदँ ज्ञाने” + ल्यप् ।
  • शशंस= शंस् “शन्सुँ स्तुतौ”, लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • ‘प्रहर्षचिह्नानुमितम्’
    • आकारैरिङितैर्गत्या चेष्टया भाषितेन च ।

नेत्रवक्त्रविकारैश्च गृह्यतेन्तर्गतं मनः ॥ मनु. ८/२६

  • आकारः – देहभव-स्वेद-रोमाञ्चादिः
  • इङ्गितम् – अधोनिरीक्षणादि
  • चेष्टा – हस्तास्फालनादिः

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • नृपाणां गुरुः = Dileepa, the leader (गुरु) among the kings (नृप)
    • प्रसन्नेन्दुमुखः = he, being one whose face (मुख) was beaming with joy (प्रसन्न) like that of the moon (इन्दु)
    • निवेद्य = informed
      • प्रसादम् = about this blessing
        • तस्याः = of her, Nandinee
        • प्रहर्षचिह्नानुमितम् = this, which could be inferred (अनुमित) from the external signs (चिह्न) of ecstatic joy (प्रहर्ष)
      • गुरवे = to the preceptor, Vasishta
    • (पश्चात्) शशंस = and later narrated
      • प्रियायै = to his wife (प्रिया)
      • वाचा = by means of words (वाक्)
        • पुनः उक्तया इव = by those which seemed to be a repetition

69.         श्लोकः

मूलपाठः

स नन्दिनीस्तन्यनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषं ।
पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्रं यशो मूर्त
मिवातितृष्णः ।। २.६९ ।।

पदच्छेदः

सः, नन्दिनीस्तन्यम्, अनिन्दितात्मा, सद्वत्सलः, वत्सहुतावशेषम्, पपौ, वसिष्ठेन, कृताभ्यनुज्ञः, शुभ्रम्, यशः, मूर्तम्, इव, अतितृष्णः

अन्वयार्थः

  • अनिन्दितात्मा= अगर्हितस्वभावः
  • सद्वत्सलः= सज्जनेषु प्रेमवान्
  • वसिष्ठेन कृताभ्यनुज्ञः सः= वसिष्ठगुरुणा कृतानुमतिः दिलीपराजः
  • वत्सहुतावशेषम् = वत्सपीतस्य हुतस्य च अवशिष्टम्
  • नन्दिनीस्तन्यम् = धेनुक्षीरम्
  • शुभ्रं मूर्तं यशः इव= शुक्लां मूर्तिमतीं कीर्तिम् इव
  • अतितृष्णः (सन्)= अतिपिपासितः सन् (आशावान् भूत्वा)
  • पपौ= अपिबत्

अन्वयः

अनिन्दितात्मा सद्वत्सलः वसिष्ठेन कृताभ्यनुज्ञः सः वत्सहुतावशेषं नन्दिनीस्तन्यं शुभ्रं मूर्तं यशः इव अतितृष्णः (सन्) पपौ ।

अन्वयरचना

  • पपौ
    • कः पपौ ? सः
      • कीदृशः सः ? अनिन्दितात्मा
      • पुनः कीदृशः सः ? सद्वत्सलः
      • पुनः कीदृशः सः ? कृताभ्यनुज्ञः
        • केन कृताभ्यनुज्ञः ? वसिष्ठेन
      • कथम्भूतः सन् पपौ ? अतितृष्णः (सन्)
      • किं पपौ ? नन्दिनीस्तन्यम्
        • कीदृशं नन्दिनीस्तन्यम् ? वत्सहुतावशेषम्
      • किमिव पपौ ? यशः इव
        • कीदृशं यशः ? मूर्तम्
          • कीदृशं मूर्तम् ? शुभ्रम्

तात्पर्यम्

गुरोः वसिष्ठस्य अनुमतिं प्राप्य अगर्हितः सज्जनानुरागी दिलीपराजः वत्सपीतावशिष्टं हुतावशिष्टं च नन्दिन्याः औधस्यं नितरां तृषितः सन् अपिबत् । दिलीपस्य अक्षुण्णं यशः एव मूर्तं धवलं क्षीररूपं प्राप्तवत् इव प्रतिभाति स्म ।

पदविवरणम्

  • अनिन्दितात्मा
    • निन्दितः = निन्दा अस्य सञ्जाता इति
    • अनिन्दितः = न निन्दितः
    • अनिन्दितात्मा= अनिन्दितः आत्मा (स्वभावः) यस्य सः
  • सद्वत्सलः=सत्सु वत्सलः
  • कृताभ्यनुज्ञः= कृता अभ्यनुज्ञा यस्य सः
  • वत्सहुतावशेषम्
    • वत्सहुते = वत्सः च हुतं च ।
    • वत्सहुतावशेषम् = वत्सहुतयोः अवशेषं वत्सहुतावशेषं, तत् ।
  • नन्दिनीस्तन्यम्
    • स्तने भवं स्तन्यम् ।
    • नन्दिनीस्तन्यम् = नन्दिन्याः स्तन्यम्
  • अतितृष्णः = अतिशयिता तृष्णा यस्य सः
  • पपौ = पा “पा पाने”, लिट्., प्र.पु., ए.व. । लटि. पिबति ।

अन्यविषयाः

  • शुभ्रं मूर्तं यशः इव पपौ
    • “यशसि धवलता वर्ण्यते हासकीर्त्योः”
  • वत्सलः
    • वत्सांसाभ्यां कामबले ५/२/९८ इति सूत्रेण लच् प्रत्ययः।
    • वत्सम् = कामः इत्यस्मिन् अर्थे प्रयुज्यमानः ।
    • अंसः = बलम् इत्यस्मिन् अर्थे प्रयुज्यमानः ।
    • ‘वत्स’ च ‘अंस’ च इत्येतौ शब्दौ लच् प्रत्ययं प्राप्नुतः ।
    • वत्सलः = कामवान् । अंसलः = बलवान् ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः = He, Dileepa,
    • अनिन्दितात्मा = one of unblemished (अनिन्दित) character (आत्मन्)
    • सद्वत्सलः = one who is kind (वत्सल) to the virtuous (सत्)
    • कृताभ्यनुज्ञः = one who has (कृत) been permitted (अभ्यनुज्ञा)
      • वसिष्ठेन = by Vasishta
    • अतितृष्णः (सन्) = being one who is extremely thirsty
    • पपौ = drank
    • नन्दिनीस्तन्यम् = the milk (स्तन्य) of Nandinee (नन्दिनी)
      • वत्सहुतावशेषम् = that which was remaining (अवशेष) after the calf (वत्स) and the homa (हुत)
    • इव = as though it was
    • शुभ्रं मूर्तं यशः = his spotless (शुभ्र) fame (यशस्) embodied (मूर्त)

70.         श्लोकः

मूलपाठः

प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य
तौ दम्पती स्वां प्रति राजधानीं प्रस्थापया
मास वशी वसिष्ठः ।। २.७० ।।

पदच्छेदः

प्रातः, यथोक्तव्रतपारणान्ते, प्रास्थानिकम्, स्वस्त्ययनम्, प्रयुज्य, तौ, दम्पती, स्वाम्, प्रति, राजधानीम्, प्रस्थापयामास, वशी, वसिष्ठः

अन्वयार्थः

  • वशीवसिष्ठः= जितेन्द्रियः वसिष्ठमुनिः
  • प्रातः= प्रभाते
  • यथोक्तव्रतपारणान्ते= गोसेवायाः अङ्गभूतं यद् व्रतम् अनुष्ठितं तस्यपारणायाः अवसाने
  • प्रास्थानिकंस्वस्त्ययम् = प्रस्थानकालिकं शुभावहम् आशीर्वादम्
  • प्रयुज्य= वितीर्य
  • तौ दम्पती = तौ राज्ञीराजानौ सुदक्षिणादिलीपौ
  • स्वां राजधानीं प्रति = स्वकीयां राजधानीम् अयोध्यां प्रति
  • प्रस्थापयामास= प्रेषयामास

अन्वयः

वशी वसिष्ठः प्रातः यथोक्तव्रतपारणान्ते प्रास्थानिकं स्वस्त्ययनं प्रयुज्य तौ दम्पती स्वां राजधानीं प्रति प्रस्थापयामास ।

अन्वयरचना

  • प्रस्थापयामास
    • कः प्रस्थापयामास ? वसिष्ठः (कर्तृपदम्)
      • कीदृशः वसिष्ठः ? वशी
    • कदा प्रस्थापयामास ? प्रातः
      • प्रातः कदा ? यथोक्तव्रतपारणान्ते
    • कौ प्रस्थापयामास ? तौ दम्पती (कर्मपदम्)
    • किं कृत्वा प्रस्थापयामास ? प्रयुज्य
      • किं प्रयुज्य ? स्वस्त्ययनम्
        • कीदृशं स्वस्त्ययनम् ? प्रास्थानिकम्
      • कां प्रति प्रस्थापयामास ? राजधानीं प्रति
        • कीदृशीं राजधानीम् ? स्वाम्

तात्पर्यम्

गुरोराज्ञानुसारेण सपत्नीकः दिलीपः सन्तत्यर्थम् आ प्रसादात् धेनोः तत्सेवाव्रतम् अनुष्ठितवान् । प्रसन्ना नन्दिनी तस्मै अभीष्टं प्रतिश्रुत्य मदीयं क्षीरं पत्त्रपुटे दुग्ध्वा उपभुङ्क्ष्व इति तम् आदिष्टवती । प्रहृष्टः दिलीपः गुरोः अनुमतिं प्राप्य वत्सपीतहुतावशिष्टं तदीयं क्षीरम् अतितृषितः सन् पीतवान् । इत्थं पारणायाम् समनुष्ठितायां सत्यां गुरुवसिष्ठः प्रस्थानकालोचितं शुभाशीर्वादं दत्त्वा सुदक्षिणादिलीपौ अयोध्यां प्रति प्रेषयामास ।

पदविवरणम्

  • वशी= वशः अस्य अस्ति इति वशी । मत्वर्थे इनि । वशः = इन्द्रियाणां स्वाधीनता
  • यथोक्तव्रतपारणान्ते
    • उक्तम् अनतिक्रम्य = यथोक्तम्
    • यथोक्तं व्रतम् = यथोक्तव्रतम्
    • यथोक्तव्रतस्य पारणा = यथोक्तव्रतपारणा
    • यथोक्तव्रतपारणान्ते= यथोक्तव्रतपारणायाः अन्तः यथोक्तव्रतपारणान्तः, तस्मिन्
  • प्रास्थानिकम् = प्रस्थाने भवम्
  • स्वस्त्ययनम्
    • स्वस्ति = अव्ययम् । पुण्याशीः । क्षेममङ्गल-प्रत्यभिवादनेषुईयते प्राप्यते अनेन इति अयनम् ।
    • स्वस्त्ययनम् = स्वस्तिअयनं, स्वस्त्ययनं, तत्
  • प्रयुज्य= प्र + युज्“युजिँर् योगे” + ल्यप् । लटि. प्रयुङ्क्ते ।
    • युञ्ज् धातुः उभयपदी । युनक्ति, युङ्क्ते ।
    • प्र उपसर्गपूर्वकः तु आत्मनेपदी एव ।
  • तौ = सः च सा च तौ, तौ (द्वितीया)
  • दम्पती = जाया च पतिश्च दम्पती
  • स्वाम् = आकारान्त ‘स्वा’ शब्दः, द्वि.वि., ए.व.
  • राजधानीम्
    • धीयन्ते अस्याम् इति धानी ।
    • राजधानीम् = राज्ञां धानी = राजधानी ।
  • प्रातः / प्रातर् (अव्ययम्) = सूर्योदयावधिकः त्रिमुहूर्तकालः (उषःकालः)`
  • प्रस्थापयामास= प्र + स्था “ष्ठा गतिनिवृत्तौ” + णिच् (प्रस्थापयति), लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • स्वस्ति
    • नमः स्वस्ति-स्वाहा-स्वधालम्-वशड्-योगाच्च (२.३.१६)
    • एभ्यः चर्तुर्थी ।
    • हरये नमः(नमनम् इत्यर्थे)
    • प्रजाभ्यः स्वस्ति (पुण्याशीर्वादः)
    • अग्नये स्वाहा (देवहविर्दाने)
    • पितृभ्यः स्वधा (पितृसम्प्रदाने)
    • अलं हरिः असुरेभ्यः (अलम् इत्यस्य अत्र पर्यप्त्यर्थग्रहणम्)
    • इन्द्राय वषट् (देवतोद्देश्यकहविर्दाने)

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • प्रातः = The next morning
    • यथोक्तव्रतपारणान्ते = after the conclusion (अन्त) of the meal at the end (पारण) of the prescribed (यथोक्त) vow (व्रत)
    • वसिष्ठः = Vasishta
      • वशी = the self-restrained one
    • प्रयुज्य = having conferred
      • स्वस्त्ययनम् = the benediction (स्वस्ति) for the journey (अयन)
        • प्रास्थानिकम् = that which is done at the time of departure
      • तौ = on both of them
        • दम्पती = on the couple
      • प्रस्थापयामास = caused them to start the journey
        • स्वां राजधानीं प्रति = towards their own capital (राजधानी)

71.         श्लोकः

मूलपाठः

प्रदक्षिणीकृत्य हुतं हुताशनन्तरं भर्तुररुन्धतीं च ।
धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ।। २.७१ ।।

पदच्छेदः

प्रदक्षिणीकृत्य, हुतम्, हुताशम्, अनन्तरम्, भर्तुः, अरुन्धतीम्, च, धेनुम्, सवत्साम्, च, नृपः, प्रतस्थे, सन्मङ्गलोदग्रतरप्रभावः

अन्वयार्थः

  • नृपः = दिलीपराजः
  • हुतं हुताशं = तर्पितम् अग्निम्
  • भर्तुः अनन्तरम् = स्वामिनः वसिष्ठस्य प्रदक्षिणानन्तरम्
  • अरुन्धतीं च = वसिष्ठपत्नीं च
  • सवत्सां धेनुं च = वत्सेन सह वर्तमानां नन्दिनीधेनुं च
  • प्रदक्षिणीकृत्य = परिक्रम्य
  • सन्मङ्गलोदग्रतरप्रभावः (सन्) = मङ्गलाचारैः विवृद्धतेजाः सन्
  • प्रतस्थे = उपक्रान्तवान् ।

अन्वयः

नृपः हुतं हुताशं भर्तुः अनन्तरम् अरुन्धतीं च सवत्सां धेनुं च प्रदक्षिणीकृत्य सन्मङ्गलोदग्रतरप्रभावः (सन्) प्रतस्थे ।

अन्वयरचना

  • प्रतस्थे
    • कः प्रतस्थे ? नृपः
    • कथम्भूतः सन् प्रतस्थे ? सन्मङ्गलोदग्रतरप्रभावः (सन्)
    • किं कृत्वा प्रतस्थे ? प्रदक्षिणीकृत्य
      • कं प्रदक्षिणीकृत्य ? हुताशम्
        • कीदृशं हुताशम् ? हुतम्
      • पुनः कां प्रदक्षिणीकृत्य ? अरुन्धतीं च
        • कदा प्रदक्षिणीकृत्य ? अनन्तरम्
          • कस्य अनन्तरम् ? भर्तुः
        • पुनः कां प्रदक्षिणीकृत्य ? धेनुं च
          • कीदृशीं धेनुम् ? सवत्साम्

तात्पर्यम्

अपगतशापः दिलीपराजः तर्पिताग्निं, गुरुं, गुरुपत्नीं, वत्सान्वितां धेनुं च इति एतान् सर्वान् क्रमशः प्रदक्षिणक्रियया पूजयित्वा सद्भिः मङ्गलाचारैः समृद्धपौरुषः सन् आश्रमतः राजधानीं प्रति प्रतस्थे ।

पदविवरणम्

  • नृपः= नॄन् पाति इति नृपः
  • हुतम् = हु “हु दानादनयोः” + कर्मणि क्त, लटि., जुहोति ।
  • हुताशम् = हुतम् अश्नाति इति हुताशः तम्
  • भर्तुः= ऋकारान्तः पु., भर्तृ-शब्दः, ष.वि., ए.व. । ‘भृ’ – धारणपोषणयोः बिभर्ति पोषयति धारयति पालयति वा
  • सवत्साम् = वत्सेन सह विद्यमाना – सवत्सा, ताम्
  • प्रदक्षिणीकृत्य
    • प्रदक्षिणम् = प्रगतो दक्षिणम् ।
    • प्रदक्षिणीकृत्य = अप्रदक्षिणं प्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य
  • सन्मङ्गलोदग्रतरप्रभावः
    • सत् मङ्गलम् /सन्ति मङ्गलानि = सन्मङ्गलानि
    • अतिशयेन उदग्रः = उदग्रतरः
    • सन्मङ्गलोदग्रतरप्रभावः= सन्मङ्गलैः उदग्रतरः प्रभावः यस्य सः
  • प्रतस्थे =प्र + स्था “ष्ठा गतिनिवृत्तौ” लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • सन्मङ्गलोदग्रतरप्रभावः –
    • मङ्गति सर्पति दुरदृष्टम् इति मङ्गलम् ।
    • ईप्सितं तदवज्ञानाद्विद्धि सार्गलमात्मनः ।
      प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः ॥ रघु. १/७९
    • इति हेतोः सर्वान् प्रदक्षिणीकरोति स्म इति भावः ।

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • नृपः = The king
    • प्रदक्षिणीकृत्य = after circumabulating
      • हुताशम् = the sacrificial fire
        • हुतम् = one to which offerings have been made
      • अरुन्धतीं च = and Arundatee (अरुन्धती)
        • भर्तुः अनन्तरम् = after (अनन्तरम्) her husband (भर्तृ), Vasishta
      • धेनुं च = and the cow, Nandinee
        • सवत्साम् = she who is with her calf
      • सन्मङ्गलोदग्रतरप्रभावः (सन्) = becoming one whose glory (प्रभाव) has been augmented (उदग्रतर) by auspicious omens or auspicious ceremonies (सन्मङ्गल)
      • प्रतस्थे = started on his journey

72.         श्लोकः

मूलपाठः

श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः ।
ययावनुद्घातसुखेन मार्गं स्वेनेव पूर्णेन मनोरथेन ।। २.७२ ।।

पदच्छेदः

श्रोत्राभिरामध्वनिना, रथेन, सः, धर्मपत्नीसहितः, सहिष्णुः, ययौ, अनुद्घातसुखेन, मार्गम्, स्वेन, इव, पूर्णेन, मनोरथेन

अन्वयार्थः

  • धर्मपत्नीसहितः = सपत्नीकः / सुदक्षिणासहितः
  • सहिष्णुः सः = व्रतादि-दुःखसहनशीलः दिलीपराजः
  • श्रोत्राभिरामध्वनिना = कर्णाह्लादकरस्वनेन
  • अनुद्घातसुखेन = पाषाणादि-प्रतिघात-रहित-सुखकरेण । अनुद्घातः = पादस्खलनं विना ।
  • रथेन = स्यन्दनेन
  • स्वेन पूर्णेन मनोरथेन इव = स्वकीयेन सफलेन मनोरथेन इव
  • मार्गं ययौ = अध्वानम् अगच्छत्
  • मनोरथ-पक्षे
    • श्रोत्राभिराम-ध्वनिना = कर्णाह्लादकर-श्रुत्या (मनोरथ-सिद्धि-श्रवणम् इत्यर्थः)
    • अनुद्घातः = प्रतिबन्धनिवृत्तिः / विघ्नराहित्यम् ।

अन्वयः

धर्मपत्नीसहितः सहिष्णुः सः श्रोत्राभिरामध्वनिना अनुद्घातसुखेन रथेन स्वेन पूर्णेन मनोरथेन इव मार्गं ययौ ।

अन्वयरचना

  • ययौ
    • कः ययौ ? सः
      • कीदृशः सः ? धर्मपत्नीसहितः
      • पुनः कीदृशः सः ? सहिष्णुः
    • कं ययौ ? मार्गम्
    • केन ययौ ? रथेन
      • कीदृशेन रथेन ? श्रोत्राभिरामध्वनिना
      • पुनः कीदृशेन रथेन ? अनुद्घातसुखेन
    • केन इव ययौ ? स्वेन पूर्णेन मनोरथेन इव

तात्पर्यम्

प्रजार्थी दिलीपः गुरोराज्ञया गोसेवारूपं व्रतं बद्धश्रद्धः सन् पर्यपालयत् । गौः प्रसन्ना सती तस्मै वरं प्रायच्छत् । ततः राजधानीं प्रति प्रस्थानात् प्राक् सः हुतं हुताशं, होतारं वसिष्ठं, गुरुपत्नीम् अरुन्धतीं, गां नन्दिनीं च प्रदक्षिणीकृतवान् । तस्य सेवया गुरोः अनुग्रहेण धेनोः प्रसादात् च तस्य अभीष्टप्राप्त्यां स्थितः प्रतिबन्धः अपगतः । ततः सपत्नीकः सः रथारूढः प्रस्थितः । रथस्य स्तिमितगतिः स्निग्धस्वनः च तथा सुखयति स्म यत् प्रयाणं तद् दिलीपस्य सफलमनोरथेन सम्पन्नम् इव ।

पदविवरणम्

  • धर्मपत्नीसहितः = धर्मपत्न्या सहितः
  • श्रोत्राभिरामध्वनिना = श्रोत्रयोः अभिरामः ध्वनिः यस्य सः (रथः) श्रोताभिरामध्वनिः, तेन
  • अनुद्घातसुखेन
    • उद्घातः = उत् + हन् + घञ्
    • अनुद्घातः = न उद्घातः ।
    • अनुद्घातसुखेन = अनुद्घातेन सुखयति इति – अनुद्घातसुखः (रथः), तेन
  • रथेन = रम्यते अनेन अत्र वा इति रथः ।
  • मनोरथेन = मनः रथः इव – मनोरथः, तेन
  • मार्गः = अयनम्, वर्त्म, मार्गः, अध्वा, पन्थाः, पदवी, सृतिः, सरणी, पद्धतिः, पद्या, वर्तनी, एकपदी – द्वादश मार्गस्य ।
  • ययौ = या “या प्रापणे” लिट्., प्र.पु., ए.व.

अन्यविषयाः

  • मार्गः
    • अयनम् – ईयते अनेन
    • वर्त्म, वर्तनी – वर्तन्ते अनेन
    • मार्गः – मार्ग्यते / मृज्यते वितृणीक्रियते पादैः
    • अध्वा – अत्ति / गमनेन बलं नाशयति (पथिकानाम्)
    • पन्थाः – पथन्ते अनेन
    • पदवी – पद्यते अनया
    • सृतिः, सरणी – सरन्ति अनया
    • पद्धतिः – पादाभ्यां हन्यते
    • पद्या – पादाय हिता
    • एकपदी – एकः पादः अस्याम्

अलङ्कारः

  • उत्प्रेक्षा (स्वेन सफलने मनोरथेन प्रयाति इव)

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सहिष्णुः सः = He, Dileepa, who was tolerant (सहिष्णु)

धर्मपत्नीसहितः = who was accompanied (सहित) by his wife (धर्मपत्नी)

  • ययौ = journeyed
  • मार्गम् = along the road
  • रथेन = by the chariot
    • श्रोत्राभिरामध्वनिना = by that whose sound (ध्वनि) was pleasing (अभिराम) to the ears (श्रोत)
    • अनुद्घातसुखेन = by that which was pleasurable (सुख) without ups and downs (अनुद्घात)
  • इव = as if (being transported)
    • स्वेन पूर्णेन मनोरथेन = by his own fulfilled (पूर्ण) desire (मनोरथ)

73.         श्लोकः

मूलपाठः

माहितौत्सुक्यदर्शनेन प्रजाः प्रजार्थव्रतकर्शिताङ्गम्
नेत्रैः पपुस्तृप्ति
नाप्नुवद्भिर्नवोदयं नाथमिवौषधीनाम् ।। २.७३ ।।

पदच्छेदः

तम्, आहितौत्सुक्यम्, अदर्शनेन, प्रजाः, प्रजार्थव्रतकर्शिताङ्गम्, नेत्रैः, पपुः, तृप्तिम्, अनाप्नुवद्भिः, नवोदयम्, नाथम्, इव, ओषधीनाम्

अन्वयार्थः

  • अदर्शनेन = प्रवासनिमित्तेन अनवलोकनेन
  • आहितौत्सुक्यम् = जनितदर्शनोत्कण्ठम् (यः प्रजासु दर्शनस्य उत्सुकताम् अजनयत्, तम्)
  • प्रजार्थव्रतकर्शिताङ्गम् = सन्तानप्राप्त्यै पालितेन व्रतेन कृशीभूतम् यस्य अङ्गं, तम्
  • प्रजाः = जनाः
  • तृप्तिम् अनाप्नुवद्भिः नेत्रैः = सन्तोषम् अलभमानैः नयनैः / तृप्तिम् अलभमानैः अतिगृध्नुभिः नेत्रैः
  • नवोदयम् = नवाभ्युदयम्
  • ओषधीनां नाथम् इव = सोमम् इव / वनस्पतीनां स्वामिनम् इव
  • तम् = प्रजानाथं तं राजानम्
  • पपुः = सतृष्णम् अवलोकितवत्यः / अत्यास्थया ददृशुः ।
  • चन्द्रपक्षे –
    • अदर्शनम् = कलाक्षयनिमित्तेन अदर्शनेन
    • प्रजार्थम् = लोकहितार्थम्
    • व्रतकर्शिताङ्गम् = व्रतं, देवताभ्यः कलादाननियमः तेन कृशीभूतगात्रम्
    • नवोदयम् = नवीनाविर्भावम्

अन्वयः

अदर्शनेन आहितौत्सुक्यं प्रजार्थव्रतकर्शिताङ्गं प्रजाः तृप्तिम् अनाप्नुवद्भिः नेत्रैः नवोदयम् ओषधीनां नाथम् इव तं पपुः ।

अन्वयरचना

  • पपुः
    • काः पपुः ? प्रजाः
    • कं पपुः ? तम्
      • कीदृशं तम् ? आहितौत्सुक्यम्
        • केन (हेतुना) आहितौत्सुक्यम् ? अदर्शनेन
      • पुनः कीदृशं तम् ? प्रजार्थव्रतकर्शिताङ्गम्
    • कैः पपुः ? नेत्रैः
      • कीदृशैः नेत्रैः ? अनाप्नुवद्भिः
        • काम् अनाप्नुवद्भिः ? तृप्तिम्
      • कथम् इव पपुः ? ओषधीनां नवोदयं नाथम् इव

तात्पर्यम्

यथा कृष्णपक्षे चन्द्रस्य अदर्शनात् उत्कण्ठा भवति तथा राज्ञः अदर्शनात् प्रजाः उत्कण्ठिताः आसन् । पुनः कृष्णपक्षे यथा कलानां क्रमशः क्षयात् चन्द्रः कृशत्वम् आप्नोति तथा प्रजार्थं व्रतम् आचरितवान् दिलीपः कृशकायः सञ्जातः ।

अधुना वरप्राप्त्या नवाविर्भूतं तं राजानं प्रजाः शुक्लपक्षस्य द्वितीयायाम् उदितं चन्द्रम् इव अत्यास्थया दृष्टवत्यः ।

पदविवरणम्

  • अदर्शनेन = न दर्शनम् अदर्शनम्, तेन
  • आहितौत्सुक्यम्
    • उत्सुकस्य भावः औत्सुक्यम्
    • आहितौत्सुक्यम् = आहितम् (कारितम्) औत्सुक्यं येन सः आहितौत्सुक्यः, तम्
  • प्रजार्थव्रतकर्शिताङ्गम्
    • प्रजा एव अर्थः यस्य तत् (व्रतं) प्रजार्थम् ।
    • प्रजार्थं व्रतम् = प्रजार्थव्रतम् ।
    • प्रजार्थव्रतकर्शिताङ्गम् = प्रजार्थव्रतेन कर्शितम् अङ्गं यस्य सः, तम्
  • अनाप्नुवद्भिः = न आप्नुवन्तः अनाप्नुवन्तः, तैः
  • नवोदयम् = नवः उदयः यस्य सः नवोदयः, तम्
  • पपुः = पा “पा पाने” लिट्., प्र.पु., ब.व.

अन्यविषयाः

  • ओषधीनां नाथम् इव
  • चन्द्रो हि उदितः सन्नोषधीः स्वकिरणैः संवर्धयति ।
  • अतः स ओषधीनाथ इत्युच्यते । श्री R. काळे-व्याख्यानम्
  • पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः । गीता १५/१३
  • प्रजार्थव्रतकर्शिताङ्गम् = लोकहितार्थं व्रतम्, देवताभ्यः कलादाननियमः तेन
  • कृशीभूतगात्रम् –
    • पारमात्मिकोपनिषदन्तर्गतं सोमोत्पत्तिस्तोत्रम्
    • कलाः षोडश सोमस्य शुक्ले वर्धयते रविः ।
    • अमृतेनामृतं कृष्णे पीयते देवतैः क्रमात् ॥
    • ….
    • तं च सोमं पपुर्देवाः पर्यायेणानुपूर्वशः ॥ ६
    • प्रथमां पिबते वह्निः द्वितीयां पिबते रविः । ७
    • ….
    • चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः ।
    • निष्पीत एककलाशेषः चन्द्रमा न प्रकाशते ॥ ११
    • ….
    • तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् ।
    • यत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥ १३ ॥
    • हुतमग्निषु यज्ञेषु पुनराप्ययते शशी ।
    • दिने दिने कलावृद्धिः पौर्णमस्यां तु पूर्णतः ॥ १४ ॥

अलङ्कारः

  • उपमा

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • प्रजाः = The subjects
    • पपुः = (as though) drank
    • तम् = him, Dileepa
      • प्रजार्थव्रतकर्शिताङ्गम् = one whose body (अङ्ग) has emaciated (कर्शित) due to the vow (व्रत) for obtaining progeny (प्रजार्थ)
      • अदर्शनेन आहितौत्सुक्यम् = one who produced (आहित) eagerness (औत्सुक्य) due to being absent from sight (अदर्शन)
    • नेत्रैः = with their eyes
      • तृप्तिम् अनाप्नुवद्भिः = which were not getting satisfaction
    • इव = as if he were
    • नवोदयम् ओषधीनां नाथम् = the newly-risen (नव-उदय) moon, the lord (नाथ) of the vegetable world (ओषधी)

74.         श्लोकः

मूलपाठः

पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः ।
भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेर्धु
रमाससञ्ज ।। २.७४ ।।

पदच्छेदः

पुरन्दरश्रीः, पुरम्, उत्पताकम्, प्रविश्य, पौरैः, अभिनन्द्यमानः, भुजे, भुजङ्गेन्द्रसमानसारे, भूयः, सः, भूमेः, धुरम्, आससञ्ज

अन्वयार्थः

  • पुरन्दरश्रीः = इन्द्रः इव ऋद्धिमान्
  • सः = दिलीपचक्रवर्ती
  • पौरैः = अयोध्यावासिभिः
  • अभिनन्द्यमानः = आशंस्यमानः
  • उत्पताकं पुरम् = उच्छ्रितध्वजं नगरम् / यस्मिन् नगरे ध्वजाः समुच्छ्रिताः, तत्
  • प्रविश्य = अभ्येत्य / उपागत्य
  • भुजङ्गेन्द्रसमानसारे = सर्पराजेन आदिशेषेण तुल्यबले
  • भुजे = बाहौ
  • भूयः = पुनः
  • भूमेः धुरम् = पृथिव्याः भारम्
  • आससञ्ज = स्थापितवान्

अन्वयः

पुरन्दरश्रीः सः पौरैः अभिनन्द्यमानः उत्पताकं पुरं प्रविश्य भुजङ्गेन्द्रसमानसारे भुजे भूयः भूमेः धुरम् आससञ्ज ।

अन्वयरचना

  • आससञ्ज
    • कः आससञ्ज ? सः
      • कीदृशः सः ? पुरन्दरश्रीः
      • पुनः कीदृशः सः ? अभिनन्द्यमानः
        • कैः अभिनन्द्यमानः ? पौरैः
      • कम् आससञ्ज ? धुरम्
        • कस्याः धुरम् ? भूमेः
      • कथम् आससञ्ज ? भूयः
      • कस्मिन् आससञ्ज ? भुजे
        • कीदृशेन भुजे ? भुजङ्गेन्द्रसमानसारे
      • किं कृत्वा आससञ्ज ? प्रविश्य
        • कं प्रविश्य ? पुरम्
          • कीदृशं पुरम् ? उत्पताकम्

तात्पर्यम्

अनुष्ठितव्रतः प्राप्तवरः दिलीपः राजधानीं प्रत्यागत्य भूयः राज्यभारं स्वभुजे आरोपितवान् । समृद्धौ देवेन्द्रेण सदृशं बले भुजगेन्द्रेण च सदृशं तं नृपं दृष्ट्वा नितरां तुष्टाः प्रजाः जयघोषैः तम् अभिनन्दन्ति स्म ।

भूयः — पुत्रप्राप्त्यर्थम् अनुष्ठानं कर्तुं आश्रमगमनात् पूर्वं स्वभुजाद् राज्यभारम् अवतार्य सचिवेषु तम् निक्षिप्तवान् आसीत् दिलीपः ।

सन्तानार्थाय विधये स्वभुजादवतारिता ।

तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे ॥ रघु. १/३४

पदविवरणम्

  • पुरन्दरश्रीः
    • पुरः असुराणां दारयति इति पुरन्दरः । (इन्द्रः)
    • पुरन्दरश्रीः = पुरन्दरस्य श्रीरिव श्रीः यस्य सः
  • पौरैः = पुरे भवाः पौराः, तैः
  • अभिनन्द्यमानः = अभि + नन्द् “टुनदिँ समृद्धौ” + यत् + शानच् (कर्मणि शानच्)
  • उत्पताकम् = उच्छ्रिताः पताकाः यस्मिन् तत् उत्पताकम्, तत्
  • प्रविश्य = प्र + विश्“विशँप्रवेशने” + ल्यप्
  • भुजः = भुजो कौटिल्ये । भुजति वक्रीभवति ।
  • भुजङ्गेन्द्रसमानसारे
    • भुजः (वक्रः) सन् गच्छति इति = भुजङ्गः
    • भुजङ्गानाम् इन्द्रः = भुजङ्गेन्द्रः
    • भुजङ्गेन्द्रसमानसारे = भुजङ्गेन्द्रेण समानः सारः यस्य सः, तम्
  • भूयः = पुनः
  • धुरम् = रेफान्तः धुर् शब्दः, द्वि.वि., ए.व. । धूः धुरौ धुरः ।
  • आससञ्ज = आङ् + सञ्ज्“षञ्जँसङ्गे”, लिट्., प्र्.पु., ए.व. ।
    लट् – सजति सजतः सजन्ति । लिट् – ससञ्ज ससञ्जतुः ससञ्जुः

अन्यविषयाः

  • पुरन्दरः, भूमेः धुरम्
    • धुर् / पुर् – रेफान्तौ स्त्रीलिङ्गशब्दौ
    • धुरं धारयति इति धुरन्धरः ।
    • पुरः दारयति इति पुरन्दरः ।
  • पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् इत्यमरः ।
    • पताका वैजयन्ती केतनम् ध्वजम् । ध्वजः – पुंनपुंसकयोः
  • सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु ।
    • बले, स्थिरांशे – सारः । स्थिरांशः = वृक्षादेः कठोरभागः ।
    • न्याय्ये – सारः / सारम् । न्याय्ये = न्यायाद् अनपेते
  • वरे = श्रेष्ठे, त्रिषु लिङ्गेषु

सन्धिः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः = He, Dileepa
    • पुरन्दरश्रीः = who had the majestic glory (श्री) of Indra (पुरन्दर), the breaker (दर) of citadels (पुर)
    • अभिनन्द्यमानः = being one who was greeted
      • पौरैः = by the citizens
    • प्रविश्य = after entering
      • पुरम् = the city
        • उत्पताकम् = one in which the banners were flying aloft
      • भूयः = again
      • आससञ्ज = took upon
      • भूमेः धुरम् = the burden (धर) of the earth (भूमि)
      • भुजे = on his arm (भुज)
        • भुजङ्गेन्द्रसमानसारे = which was equal (समान) in strength (सार) to Adishesha, the lord (इन्द्र) of serpents (भुजङ्ग), which is expected to be carrying the earth on its head

75.         श्लोकः

मूलपाठः

अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः सुरसरिदिव तेजो वह्निनिष्ठ्यूतमेम्
नरपतिकुलभूत्यै गर्भ
माधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः ।। २.७५ ।।

पदच्छेदः

अथ, नयनसमुत्थम्, ज्योतिः, अत्रेः, इव, द्यौः, सुरसरित्, इव, तेजः, वह्निनिष्ठ्यूतम्, ऐशम्, नरपतिकुलभूत्यै, गर्भम्, आधत्त, राज्ञी, गुरुभिः, अभिनिविष्टम्, लोकपालानुभावैः

अन्वयार्थः

  • TODO

अन्वयः

अथ द्यौः अत्रेः नयनसमुत्थं ज्योतिः इव सुरसरित् वह्निनिष्ठ्यूतम् ऐशं तेजः इव राज्ञी नरपतिकुलभूत्यै गुरुभिः लोकपालानुभावैः अभिनिविष्टं गर्भम् आधत्त ।

अन्वयरचना

  • आधत्त
    • का आधत्त ? राज्ञी
    • कम् आधत्त ? गर्भम्
      • कीदृशं गर्भम् ? अभिनिविष्टम्
        • किमर्थम् अभिनिविष्टम् ? नरपतिकुलभूत्यै
        • कैः सह अभिनिविष्टम् ? लोकपालानुभावैः
          • कीदृशैः लोकपालानुभावैः ? गुरुभिः
        • कथम् आधत्त ? द्यौः ज्योतिः इव
          • कीदृशं ज्योतिः ? नयनसमुत्थम्
            • कस्य नयनसमुत्थम् ? अत्रेः
          • पुनः कथम् आधत्त ? सुरसरित् तेजः इव
            • कीदृशं तेजः ? ऐशम्
            • पुनः कीदृशं तेजः ? वह्निनिष्ठ्यूतम्
          • कदा आधत्त ? अथ

References

Other references