Bhoja’s ChampuRamayanam – Balakandam 3

भोजचम्पूरामायणम् – बालकाण्डम् – श्रीमती. सौम्या कृष्णपुर् – व्योमा संस्कृतपाठशाला
King Bhoja’s Champu-Ramayanam – Balakandam – (File #3) Weekly online classes being conducted by Smt. Sowmya Krishnapur, Vyoma Labs.

View the playlist “Champuramayana – Baalakaanda” in YouTube Channel “vyoma-samskrta-pathasala

Downloadable files are available here
Word Document files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

PDF files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

चम्पूरामायणे बालकाण्डम्

कक्ष्या ४१ – १२.११.२०१८

गद्यम्

मूलपाठः

तत्र दशरथः सीतापरिणयकृतनिश्चयजनकप्रहितदूताहूतः पुरोहिताभ्युपगमान्मिथिलामुपागमत्

पदच्छेदः

तत्र, दशरथः, सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूत-आहूतः, पुरोहित-अभ्युपगमात्, मिथिलाम्, उपागमत्

अन्वयार्थः

  • तत्र = तस्मिन् समये
  • दशरथः = अयोध्याधिपतिः
  • सीतापरिणयकृतनिश्चयजनकप्रहितदूताहूतः = रामेण सह सीतायाः विवाहस्य निश्चयं कृत्वा जनकेन प्रेषितैः दूतैः आहूतः सन्
  • पुरोहिताभ्युपगमात् = कुलगुरोः वसिष्ठस्य अनुमत्या
  • मिथिलाम् = जनकराजधानीम्
  • उपागमत् = प्राप्तवान्

अन्वयः

तत्र सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूत-आहूतः दशरथः पुरोहित-अभ्युपगमात् मिथिलाम् उपागमत्

आकाङ्क्षा

  • उपागमत्
    • कः उपागमत् ? दशरथः
      • कथंभूतः दशरथः ? सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूत-आहूतः
    • कदा उपागमत् ? तत्र
    • कस्मात् हेतोः उपागमत् ? पुरोहित-अभ्युपगमात्
    • कुत्र उपागमत् ? मिथिलाम्

तात्पर्यम्

जनकः सीतारामयोः विवाहं कर्तुं निश्चित्य दशरथम् आह्वातुं दूतान् प्रेषयामास । दशरथः कुलगुरोः वसिष्ठस्य अनुज्ञया मिथिलां प्राप्तः ।

पदविवरणम्

  • सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूत-आहूतः
    • सीता-परिणयः = सीतायाः परिणयः
    • कृत-निश्चयः = कृतः निश्चयः
    • सीता-परिणय-कृत-निश्चयः = सीता-परिणये कृत-निश्चयः
    • सीता-परिणय-कृत-निश्चय-जनकः = सीता-परिणय-कृत-निश्चयः जनकः
    • सीता-परिणय-कृत-निश्चय-जनक-प्रहिताः = सीता-परिणय-कृत-निश्चय-जनकेन प्रहिताः
    • सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूताः = सीता-परिणय-कृत-निश्चय-जनक-प्रहिताः दूताः
    • सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूत-आहूतः = सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूतैः आहूतः

Word-Meaning

  • तत्र = At that time
  • दशरथः = Dasharatha
    • सीता-परिणय-कृत-निश्चय-जनक-प्रहित-दूताहूतः = one who was invited (आहूत) by the messengers (दूत) sent (प्रहित) by Janaka (जनक) who had taken (कृत) the decision (निश्चय) regarding Sita’s (सीता) marriage (परिणय) with Rama
  • पुरोहिताभ्युपगमात् = upon the approval (अभ्युपगम) of the guru, i.e., the royal priest (पुरोहित)
  • उपागमत् = reached
  • मिथिलाम् = Mythilaa (मिथिला) city
  1. श्लोकः

मूलपाठः

यत्कीर्तिस्तिलकायते सुरवधूसङ्गीतगोष्ठीमुखे
येनाद्यः पितृमान्पुमान्वसुमती येनैव राजन्वती ।
इन्द्रः सङ्गरसङ्कटेषु विजहौ वीरस्य यस्योन्मुख-
प्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनाद्दुर्दशाम् ॥ १०६ ॥

पदच्छेदः

यत्-कीर्तिः, तिलकायते, सुर-वधू-सङ्गीत-गोष्ठी-मुखे, येन, आद्यः, पितृमान्, पुमान्, वसुमती, येन, एव, राजन्वती इन्द्रः, सङ्गर-सङ्कटेषु, विजहौ, वीरस्य, यस्य, उन्मुख-प्रेङ्खत्-स्यन्दन-केतन-अम्बर-दशा-सन्दर्शनात्, दुर्-दशाम्

अन्वयार्थः

  • तिलकायते = अलङ्कारभूतमस्ति
  • यत्कीर्तिः = दशरथस्य यशः
  • सुरवधूसङ्गीतगोष्ठीमुखे = अप्सरस्त्रीणां गानसभासु प्रारम्भे एव
  • येन [अस्ति] = दशरथेन
  • आद्यः पुमान् = आदिपुरुषः नारायणः
  • पितृमान् = जनकवान्
  • येन एव [अस्ति] = दशरथेन एव
  • वसुमती = भूमिः
  • राजन्वती = सुराजयुक्ता
  • विजहौ = त्यक्तवान्
  • इन्द्रः = देवराजः
  • दुर्दशाम् = दुरवस्थाम्
  • सङ्गरसङ्कटेषु = युद्धस्य कष्टकाले
  • उन्मुखप्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनात्‌
    • उन्मुखम् = अभिमुखम्, प्रेङ्खन्त्यः = वायुना चलन्त्यः, स्यन्दनस्य = रथस्य, केतनानाम् = ध्वजानाम्, अम्बरदशाः = वस्त्राञ्चलानि, तेषां सन्दर्शनात् = वीक्षणात्
  • यस्य वीरस्य = पराक्रमिणः दशरथस्य

अन्वयः

यत्कीर्तिः सुरवधूसङ्गीतगोष्ठीमुखे तिलकायते, येन आद्यः पुमान् पितृमान्, येनैव वसुमती राजन्वती, यस्य वीरस्य उन्मुखप्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनात् इन्द्रः सङ्गरसङ्कटेषु दुर्दशां विजहौ [सः दशरथः मिथिलामुपागमत्]

आकाङ्क्षा

  • उपागमत्
    • कः उपागमत् ? दशरथः
      • कीदृशः दशरथः ? यत्कीर्तिः तिलकायते
        • कुत्र तिलकायते ? सुरवधूसङ्गीतगोष्ठीमुखे
      • पुनः कीदृशः दशरथः ? येन [अस्ति]
        • कथम्भूतः अस्ति ? पितृमान्
        • कः अस्ति ? आद्यः पुमान्
      • पुनः कीदृशः दशरथः ? येन एव [अस्ति]
        • कथम्भूता अस्ति ? राजन्वती
        • का अस्ति ? वसुमती
      • पुनः कीदृशः दशरथः ? यस्य वीरस्य उन्मुखप्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनात्‌ विजहौ
        • कः विजहौ ? इन्द्रः
        • कां विजहौ ? दुर्दशाम्
        • कस्मिन् सन्दर्भे विजहौ ? सङ्गरसङ्कटेषु
        • कस्मात् कारणात् विजहौ ? उन्मुखप्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनात्‌

तात्पर्यम्

स्वर्गे अप्सरस्त्रीणां गानसभासु दशरथस्य यशोगीतानि एव आदौ गीयन्ते । आदिपुरुषस्य नारायणस्यापि पितृभूतः अयम् । सत्स्वपि बहुषु राजसु, दशरथस्य कारणेनैव भूमिः “राजन्वती” (सुराजयुक्ता) इति कथ्यते । देवासुरसमरेषु कष्टदशायां स्थितः इन्द्रः साहाय्यार्थमागच्छतः पराक्रमिणः दशरथस्य रथध्वजानां दर्शनेन सन्तुष्टो भवति ।

पदविवरणम्

  • तिलकायते = तिलकः इव आचरति । तिलक + क्यङ् – नामधातुः । लट्., प्र.पु., ए.व.
  • सुरवधूसङ्गीतगोष्ठीमुखे
    • सुरवध्वः = सुराणां वध्वः
    • सङ्गीतगोष्ठ्यः = सङ्गीतस्य गोष्ठ्यः
    • सुरवधूसङ्गीतगोष्ठ्यः = सुरवधूनां सङ्गीतगोष्ठ्यः
    • सुरवधूसङ्गीतगोष्ठीमुखे = सुरवधूसङ्गीतगोष्ठीनां मुखम्, तस्मिन्
  • पितृमान् = पिता अस्य अस्ति । पितृ+मतुप् (तद्धितः) । तकारान्तः, पुं., प्र.वि., ए.व.
  • पुमान् = सकारान्तः, पुं., “पुंस्” शब्दः, प्र.वि., ए.व.
  • वसुमती = “सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा” (अमरः)
  • राजन्वती = राजा अस्याः अस्ति । “सुराज्ञि देशे राजन्वान् स्यात् ततोऽन्यत्र राजवान्” (अमरः) । “राजन्वान् सौराज्ये” (८.२.१४)
  • सङ्गरसङ्कटेषु = सङ्गरस्य सङ्कटाः, तेषु ।
  • विजहौ = वि + हा “ओहाक् त्यागे” – लिट्., प्र.पु., ए.व.

अलङ्कारः

  • लुप्तोपमा – समासे इव इति शब्दः लुप्तः
  • रूपकम् – मुखम्, तिलकम्
  • उपमारूपकयोः सङ्करः

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु गु गु गु गु गु

Word-Meaning

  • दशरथः = Dasharatha
    • यत्कीर्तिः = one whose (यत्) fame (कीर्ति)
      • तिलकायते = is given importance as though decorating the face with tilaka
      • सुरवधूसङ्गीतगोष्ठीमुखे = in the beginning (मुख) of the musical (सङ्गीत) congragetion (गोष्ठी) of the women (वधू) folk of the Devas (सुर)

Alternate Interpretation – The musical congragetion of the apsaras is metaphorically taken as the face and Dasharatha’s fame is the tilaka on it.

  • येन [अस्ति] = one by whom
    • आद्यः पुमान् = the Supreme Person
    • पितृमान् = became a person having a father
  • येन एव [अस्ति] = one by whom only
    • वसुमती = the earth
    • राजन्वती = became one having a good king
  • यस्य वीरस्य उन्मुखप्रेङ्खत्स्यन्दनकेतनाम्बरदशासन्दर्शनात्‌ = due to the sight (सन्दर्शन) of the upward (उन्मुख) fluttering (प्रेङ्खत्) border (दशा) of the cloth (अम्बर) of the flag staff (केतन) of the chariot (स्यन्दन) of which (यत्) valorous person (वीर)
    • इन्द्रः = Indra
      • विजहौ = gave up
      • दुर्दशाम् = his miserable (दुस्) state (दशा)
      • सङ्गरसङ्कटेषु = during the difficult (सङ्कट) times of battles (सङ्गर)
    • उपागमत् = reached
    • मिथिलाम् = Mythilaa (मिथिला) city
  1. श्लोकः

मूलपाठः

जनकः स्वकनीयांसमाजुहाव कुशध्वजम् ।
हत्वा युधि सुधन्वानं साङ्काश्ये स्थापितं पुरे ॥ १०७ ॥

पाठभेदः

  • पुरं इति पदस्य स्थाने पुरा इति पाठभेदः

पदच्छेदः

जनकः, स्व-कनीयांसम्, आजुहाव, कुशध्वजम्, हत्वा, युधि, सुधन्वानम्, साङ्काश्ये, स्थापितम्, पुरे

अन्वयार्थः

  • आजुहाव = आकारितवान्, आहूतवान्
  • जनकः = सीतायाः पिता
  • कुशध्वजम् = कुशध्वजनामकम्
  • स्वकनीयांसम् = अनुजम्
  • स्थापितम् = प्रतिष्ठापितम्
  • साङ्काश्ये पुरे = साङ्काश्यनगरे
  • हत्वा = मारयित्वा
  • सुधन्वानम् = सुधन्वनामकं राजानम्
  • युधि = युद्धे

अन्वयः

जनकः सुधन्वानं युधि हत्वा साङ्काश्ये पुरे स्थापितं स्वकनीयांसं कुशध्वजम् आजुहाव

आकाङ्क्षा

  • आजुहाव
    • कः आजुहाव ? जनकः
    • कम् आजुहाव ? कुशध्वजम्
      • कीदृशं कुशध्वजम् ? स्वकनीयांसम्
      • पुनः कीदृशं कुशध्वजम् ? स्थापितम्
        • कुत्र स्थापितम् ? साङ्काश्ये पुरे
        • किं कृत्वा स्थापितम् ? हत्वा
        • कं हत्वा ? सुधन्वानम्
        • कुत्र हत्वा ? युधि

तात्पर्यम्

सुधन्वनामकं राजानं युद्धे मारयित्वा साङ्काश्यनगरे प्रतिष्ठापितं स्वस्य अनुजं कुशध्वजं जनकः मिथिलां प्रति आकारितवान्

पदविवरणम्

  • स्वकनीयांसम् = स्वस्य कनीयान्, तम् । सकारान्तः, पुं., द्वि.वि., ए.व. । “द्विवचनविभज्योपपदे तरबीयसुनौ” ५.३.५७
  • आजुहाव = आ + ह्वे “ह्वेञ् स्पर्धायां शब्दे च” । लिट्, प्र.पु., ए.व. । लट्लकारे आह्वयति ।
  • युधि = धकारान्तः, स्त्री., स.वि., ए.व.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • जनकः = King Janaka
    • आजुहाव = invited
    • कुशध्वजम् = Kushadvaja
    • स्वकनीयांसम् = his younger brother
      • स्थापितम् = who was established (as the King)
        • साङ्काश्ये पुरे = in the city of Saankaashya
      • हत्वा = after killing
        • सुधन्वानम् = Sudhanvaan
        • युधि = in the battle

गद्यम्

मूलपाठः

तदनु ताभ्यामभ्यर्चितः सपुरोहितो दशरथस्तत्र पुत्राणां गोदानमङ्गलं निर्वर्तयामास ।

पदच्छेदः

तत्-अनु, ताभ्याम्, अभ्यर्चितः, स-पुरोहितः, दशरथः, तत्र, पुत्राणाम्, गो-दान-मङ्गलम्, निर्वर्तयामास

अन्वयार्थः

  • तदनु = ततः
  • ताभ्याम् = जनक-कुशध्वजाभ्याम्
  • अभ्यर्चितः = सत्कृतः
  • सपुरोहितः दशरथः = वसिष्ठसहितः दशरथः
  • तत्र = मिथिलायाम्
  • पुत्राणाम् = राम-लक्ष्मण-भरत-शत्रुघ्नानाम्
  • गोदानमङ्गलम् = गोदानरूपं विवाहदीक्षाङ्गं कर्म । “गावः = लोमानि, दीयन्ते = खण्ड्यन्ते” – विवाहात्पूर्वं केशकर्तनसंस्कारः ।
  • निर्वर्तयामास = विहितवान्

अन्वयः

तदनु ताभ्याम् अभ्यर्चितः स-पुरोहितः दशरथः तत्र पुत्राणां गो-दान-मङ्गलं निर्वर्तयामास ।

आकाङ्क्षा

  • निर्वर्तयामास
    • किं निर्वर्तयामास ? गो-दान-मङ्गलम्
      • केषां गो-दान-मङ्गलम् ? पुत्राणाम्
    • कुत्र निर्वर्तयामास ? तत्र
    • कः निर्वर्तयामास ? दशरथः
      • कीदृशः दशरथः ? सपुरोहितः
      • पुनः कीदृशः दशरथः ? अभ्यर्चितः
        • काभ्याम् ? ताभ्याम्
      • कदा निर्वर्तयामास ? तदनु

तात्पर्यम्

जनक-कुशध्वजाभ्यां सत्कृतः वसिष्ठसहितः दशरथः विवाह-दीक्षाङ्गतया पुत्राणां केशकर्तन-संस्कारं विहितवान्

Word-Meaning

  • तदनु = Then
  • दशरथः = Dasharatha
    • सपुरोहितः = one who is accompanied (सह) by the royal priest (पुरोहित), Vashishta
    • अभ्यर्चितः = one who was formally honoured
      • ताभ्याम् = by those two, Janaka and Kushadhvaja
    • तत्र = there
    • निर्वर्तयामास = carried out
      • गोदानमङ्गलम् = the auspicious (मङ्गल) ritual of tonsuring (दान) the hair (गो) (associated with the marriage ceremony)
        • पुत्राणाम् = of his sons (पुत्र)
  1. श्लोकः

मूलपाठः

जग्राह जनकात्सीतां तातादेशेन राघवः
आम्नायशासनेनार्चां यजमानादिवानलः
॥ १०८ ॥
पदच्छेदः

जग्राह, जनकात्, सीताम्, तात-आदेशेन, राघवः, आम्नाय-शासनेन, अर्चाम्, यजमानात्, इव, अनलः

अन्वयार्थः

  • जग्राह = स्वीकृतवान्
  • राघवः = श्रीरामः
  • जनकात् सीताम् = जनकात् जानकीम्
  • तातादेशेन = पितुः दशरथस्य आज्ञया
  • अनलः इव = अग्निः इव
  • अर्चाम् = सत्क्रियाम्
  • यजमानात् = यजनकर्तुः गृहस्थात्
  • आम्नायशासनेन = श्रुतिवचनेन

अन्वयः

अनलः आम्नायशासनेन यजमानात् अर्चाम् इव राघवः तातादेशेन जनकात् सीतां जग्राह ।

आकाङ्क्षा

  • जग्राह
    • कः जग्राह ? राघवः
      • कां जग्राह ? सीताम्
      • कस्मात् जग्राह ? जनकात्
      • केन जग्राह ? तातादेशेन
    • कः इव जग्राह ? अनलः इव
      • काम् इव जग्राह ? अर्चाम्
      • कस्मात् इव जग्राह ? यजमानात्
      • केन इव जग्राह ? आम्नायशासनेन

तात्पर्यम्

यथा अग्निः श्रुतिवचनेन अनुमतः यजनकर्तुः गृहस्थात् होमादिसत्क्रियां स्वीकरोति, तथा श्रीरामः पितुः दशरथस्य अनुज्ञया जनकमहाराजात् सीतां स्वीचकार । (परिणीतवान् इत्यर्थः)

पदविवरणम्

  • जग्राह = ग्रह् “ग्रह उपादाने” – लिट्, प्र.पु., ए.व. । जग्राह, जगृहतुः, जगृहुः.
  • तातादेशेन = तातस्य आदेशः, तेन । “तातस्तु जनकः पिता” (अमरः)
  • आम्नायशासनेन = आम्नायस्य शासनम्, तेन । “श्रुतिः स्त्री वेद आम्नायः” (अमरः)
  • अनलः = “कृशानुः पावकोऽनलः” (अमरः)

अलङ्कारः

  • उपमालङ्कारः – पूर्णोपमा

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • राघवः = Raghava (राधव) e., Raghurama
  • जग्राह = accepted
    • सीताम् = Sita (सीता)
    • जनकात् = from Janaka (जनक)
    • तातादेशेन = by the orders (आदेश) of his father (तात), Dasharatha
  • अनलः इव = like (इव) the Fire-god (अनल)
    • (स्वीकरोति) = (accepts)
    • अर्चाम् = the offering (अर्चा)
    • यजमानात् = from the performer of the sacrifice (यजमान)
    • आम्नायशासनेन = by the directives (शासन) of the Vedas (आम्नाय)
  1. श्लोकः

मूलपाठः

आश्चर्यमेतत् ।
गुणमनिमिषचापे कञ्चिदारोप्य सीतां
कुशिकतनयवाक्यादग्रहीद्रामभद्रः

तदनु तदनुजन्मा मैथिलेन्द्रस्य चित्ते
निहितबहुगुणः सन्नूर्मिलां लक्ष्मणोऽपि
॥ १०९ ॥
पदच्छेदः

आश्चर्यम्, एतत् ।

गुणम्, अनिमिष-चापे, कञ्चित्, आरोप्य, सीताम्, कुशिक-तनय-वाक्यात्, अग्रहीत्, रामभद्रः, तत्-अनु, तत्-अनु-जन्मा, मैथिल-इन्द्रस्य, चित्ते, निहित-बहु-गुणः, सन्, ऊर्मिलाम्, लक्ष्मणः, अपि ।

सन्धिः

  • सन्नूर्मिलाम् = सन् + ऊर्मिलाम् – ङमुडागमसन्धिः

अन्वयार्थः

  • अग्रहीत् = स्वीकृतवान्
  • रामभद्रः = सकलकल्याणस्वरूपः, विवाहकर्मदीक्षितः श्रीरामः
  • सीताम् = जानकीम्
  • आरोप्य = निक्षिप्य
  • कञ्चित् गुणम् = एकां मौर्वीम्
  • अनिमिषचापे = दिव्यधनुषि
  • कुशिकतनयवाक्यात् = विश्वामित्रस्य आज्ञया
  • तदनु = ततः
  • [अग्रहीत्]
  • लक्ष्मणः अपि
  • तदनुजन्मा = श्रीरामस्य अनुजः
  • ऊर्मिलाम् = जनकस्य पुत्रीम्
  • निहितबहुगुणः सन् = निक्षिप्त-नानाविध-सद्गुणः
  • चित्ते = हृदये
  • मैथिलेन्द्रस्य = जनकस्य

अन्वयः

कुशिकतनयवाक्यात् अनिमिषचापे कञ्चित् गुणम् आरोप्य रामभद्रः सीताम् अग्रहीत् । तदनु तदनुजन्मा लक्ष्मणः अपि मैथिलेन्द्रस्य चित्ते निहितबहुगुणः सन् ऊर्मिलाम् (अग्रहीत्)

आकाङ्क्षा

  • अग्रहीत्
    • कः अग्रहीत् ? रामभद्रः
    • काम् अग्रहीत् ? सीताम्
    • किं कृत्वा अग्रहीत् ? आरोप्य
      • कम् आरोप्य ? कञ्चित् गुणम्
      • कस्मिन् आरोप्य ? अनिमिषचापे
      • कस्मात् कारणात् आरोप्य ? कुशिकतनयवाक्यात्
    • तदनु = ततः
    • [अग्रहीत्]
      • कः अपि अग्रहीत् ? लक्ष्मणः अपि
        • कीदृशः लक्ष्मणः ? तदनुजन्मा
      • काम् अग्रहीत् ? ऊर्मिलाम्
      • कथम्भूतः सन् अग्रहीत् ? निहितबहुगुणः सन्
        • कस्मिन् निहितबहुगुणः सन् ? चित्ते
          • कस्य चित्ते ? मैथिलेन्द्रस्य

तात्पर्यम्

श्रीरामः विश्वामित्रस्य वचनात् मूर्ते दिव्यधनुषि एकां मौर्वीं निक्षिप्य सीतां परिणीतवान् । ततः तस्य अनुजः लक्ष्मणः तु अमूर्ते जनकस्य हृदये बहून् गुणान् (विद्याविनयादीन्) निक्षिप्य तस्य अपरां सुताम् ऊर्मिलां परिणीतवान् ।

पदविवरणम्

  • गुणः = “मौर्व्यां द्रव्याश्रिते सत्त्वशौर्यसन्ध्यादिके गुणः” (अमरः)
  • अनिमिषचापे = अनिमिषाणां चापः, तस्मिन् । “सुरमत्स्यावनिमिषौ” (अमरः)
  • अग्रहीत् = ग्रह्“ग्रहँ उपादाने” – लुङ्., प्र.पु., ए.व. । लट्लकारे गृह्णाति ।
  • अनुजन्मा = अनु (पश्चात्) जन्म यस्य सः । नकारान्तः पुं., प्र.वि., ए.व.
  • मैथिलेन्द्रस्य
    • मैथिलः = मथिलायाः अयम्
    • मैथिलेन्द्रस्य = मैथिलानाम् इन्द्रः मैथिलेन्द्रः, तस्य
  • निहितबहुगुणः = निहिताः बहवो गुणाः येन सः

अलङ्कारः

  • श्लेषः – गुणशब्दे
  • व्यतिरेकः – “व्यतिरेको विशेषश्चेदुपमानोपमेययोः” – figure of speech conveying the contrast between Rama’s action and Lakshman’s action

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • रामभद्रः = The auspicious (भद्र) Rama (राम), i.e., one who is the embodiment of auspiciousness or the one who has performed the auspicious activities associated with the marriage ceremony.
    • अग्रहीत् = accepted
    • सीताम् = Sita
    • आरोप्य = Having tied
    • कञ्चित् गुणम् = a random (कञ्चित्) string (गुण)
    • अनिमिषचापे = in the bow (चाप) of the devas (अनिमिष), who don’t blink their eyes, i.e., the divine bow
    • कुशिकतनयवाक्यात् = by the words (वाक्य) or orders of Vishwamitra, the son (तनय) of Kushika (कुशिक)
  • तदनु = Then
  • तदनुजन्मा = his (तत्) younger brother (अनुजन्मन्), i.e., Rama’s younger brother
    • लक्ष्मणः अपि [अग्रहीत्] = Lakshma (लक्ष्मण) also (अपि) accepted
    • ऊर्मिलाम् = Urmilaa (ऊर्मिला)
    • निहितबहुगुणः सन् = being one who has placed (निहित) numerous (बहु) good qualities (गुण)
    • चित्ते = in the heart (चित्त)
    • मैथिलेन्द्रस्य = of Janaka, the king (इन्द्र) of citizens (मैथिल) of Mithila (मिथिला)
  1. श्लोकः

मूलपाठः

ततो भरतशत्रुघ्नौ कुशध्वजनियोगतः ।
माण्डवीश्रुतकीर्तिभ्यामभूतां गृहमेधिनौ ॥ ११० ॥

पदच्छेदः

ततः, भरत-शत्रुघ्नौ, कुशध्वज-नियोगतः, माण्डवी-श्रुतकीर्तिभ्याम्, अभूताम्, गृह-मेधिनौ

अन्वयार्थः

  • ततः = रामलक्ष्मणयोः विवाहानन्तरम्
  • अभूताम् = आस्ताम्
  • भरतशत्रुघ्नौ
  • गृहमेधिनौ = गृहस्थौ
  • माण्डवी-श्रुतकीर्तिभ्याम्
  • कुशध्वजनियोगतः = जनकानुजस्य कुशध्वजस्य आज्ञया

अन्वयः

ततः भरतशत्रुघ्नौ कुशध्वजनियोगतः माण्डवीश्रुतकीर्तिभ्यां गृहमेधिनौ अभूताम्

आकाङ्क्षा

  • अभूताम्
    • कौ अभूताम् ? भरतशत्रुघ्नौ
    • कीदृशौ अभूताम् ? गृहमेधिनौ
    • काभ्याम् अभूताम् ? माण्डवी-श्रुतकीर्तिभ्याम्
    • कस्मात् कारणात् अभूताम् ? कुशध्वजनियोगतः
    • कदा अभूताम् ? ततः

तात्पर्यम्

तदनन्तरं भरतशत्रुघ्नौ जनकानुजस्य कुशध्वजस्य आज्ञया तत्पुत्र्यौ माण्डवी-श्रुतकीर्त्याख्ये कन्यके परिणीय गृहस्थौ अभूताम् ।

पदविवरणम्

  • अभूताम् = भू“भू सत्तायाम्” । लुङ्., प्र.पु., द्वि.व. । अभूत्, अभूताम्, अभूवन् ।
  • गृहमेधिनौ = नकारान्तः, पु., प्र.वि., द्वि.व. । गृहमेधी, गृहमेधिनौ, गृहमेधिनः ।

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • ततः = Then
  • अभूताम् = both became
  • भरतशत्रुघ्नौ = Bharata (भरत) and Shatrughna (शत्रुघ्न)
  • गृहमेधिनौ = the two householders (गृहमेधिन्) or husbands
  • माण्डवी-श्रुतकीर्तिभ्याम् = of Maandavee (माण्डवी) and Shrutakeerti (श्रुतकीर्ति)
  • कुशध्वजनियोगतः = by the orders (नियोग) of Kushadhvaja (कुशध्वज)

कक्ष्या ४२ – १९.११.२०१८

गद्यम्

मूलपाठः

अथ दशरथः स्वतनयैः सह कृतविवाहैर्विदेहेभ्यः प्रतिनिवर्तमानो संवर्तसमयसमुज्जृम्भितहुतवहदुःसहरोषं भीषणदुर्वारपराक्रमं क्षत्रवर्गगर्वसर्वंकषपरश्वधधाराधीनरुधिरधाराकल्पितपितृतर्पणं दर्पवतामग्रेसरमुग्रप्रतापिनं तपःसमुचितवल्कलवसानमपि वासनावशादनतिपरिमुषितयुद्धश्रद्धं मध्येमार्गं भार्गवं मुनिं राममद्राक्षीत् ।

पदच्छेदः

अथ, दशरथः, स्व-तनयैः, सह, कृत-विवाहैः, विदेहेभ्यः, प्रतिनिवर्तमानः, संवर्त-समय-समुज्जृम्भित-हुतवह-दुःसह-रोषम्, भीषण-दुर्वार-पराक्रमम्, क्षत्र-वर्ग-गर्व-सर्वंकष-परश्वध-धारा-अधीन-रुधिर-धारा-कल्पित-पितृ-तर्पणम्, दर्पवताम्, अग्रेसरम्, उग्र-प्रतापिनम्, तपः-समुचित-वल्कल-वसानम्, अपि, वासना-वशात्, अनति-परिमुषित-युद्ध-श्रद्धम्, मध्ये-मार्गम्, भार्गवम्, मुनिम्, रामम्, अद्राक्षीत्

अन्वयार्थः

  • अथ = विवाहानन्तरम्
  • दशरथः
  • कृतविवाहैः = विहितपरिणयैः
  • स्वतनयैः = पुत्रैः रामादिभिः
  • सह = साकम्
  • विदेहेभ्यः = विदेहदेशात्
  • प्रतिनिवर्तमानः = अयोध्यां प्रत्यागच्छन्
  • मध्येमार्गम् = पथि
  • भार्गवम् = भृगुवंशोत्पन्नम्
  • मुनिम्
  • रामम् = परशुरामम्
  • अद्राक्षीत् = अवलोकितवान्
  • संवर्तसमयसमुज्जृम्भितहुतवहदुःसहरोषम्
    • संवर्तसमये = प्रलयकाले, समुज्जृम्भितः = जाज्वल्यमानः यः हुतवहः = प्रलयाग्निः, तद्वत् दुःसहः = सोढुम् अशक्यः, रोषः = क्रोधः यस्य तादृशम् । परशुरामस्य कोपः प्रलयाग्निः इव भयङ्करः इत्यर्थः ।
  • भीषणदुर्वारपराक्रमम्
    • भीषणः = भयङ्करः, दुर्वारः = निवारयितुम् अशक्यः, पराक्रमः = भुजबलं यस्य तादृशम् ।
  • क्षत्रवर्गगर्वसर्वंकषपरश्वधधाराधीनरुधिरधाराकल्पितपितृतर्पणम्
    • क्षत्रवर्गस्य = क्षत्रियसमूहस्य यः गर्वः = अहङ्कारः, तस्य सर्वङ्कषा = समूलतः विनाशिका या परश्वधधारा = परशोः निशिताग्रभागः, तदधीना = तदायत्ता, तया निष्पादिता या रुधिरधारा = रक्तप्रवाहः, तया कल्पितम् = अनुष्ठितम्, पितृतर्पणम् = पितुः निवापोदकं येन तादृशम् । भार्गवरामः स्वस्य परशुना सर्वेषां क्षत्त्रियाणां गर्वं समूलम् उत्पाट्य तेषां रक्तप्रवाहेन पितुः जमदग्नेः तर्पणं चकार ।
  • दर्पवताम् अग्रेसरम् = शौर्यमदोद्धतम्
  • उग्रप्रतापिनम् = प्रचण्डप्रभावम्
  • तपःसमुचितवल्कलवसानम् = तपश्चर्यानुकूलं वृक्षत्वग्वस्त्रं धरन्तम्
  • अपि = तथापि
  • वासनावशात् = पुरातनसंस्कारबलेन
  • अनतिपरिमुषितयुद्धश्रद्धम् = सम्पूर्णतः अनपगता युद्धेच्छा यस्य तादृशम्

अन्वयः

अथ कृत-विवाहैः स्व-तनयैः सह विदेहेभ्यः प्रतिनिवर्तमानः, दशरथः, मध्ये-मार्गं, संवर्त-समय-समुज्जृम्भित-हुतवह-दुःसह-रोषं, भीषण-दुर्वार-पराक्रमं, क्षत्र-वर्ग-गर्व-सर्वंकष-परश्वध-धारा-अधीन-रुधिर-धारा-कल्पित-पितृ-तर्पणं, दर्पवताम् अग्रेसरम्, उग्र-प्रतापिनं, तपः-समुचित-वल्कल-वसानम् अपि वासना-वशात् अनति-परिमुषित-युद्ध-श्रद्धं, भार्गवं मुनिं रामम् अद्राक्षीत् ।

आकाङ्क्षा

  • अद्राक्षीत्
    • कदा अद्राक्षीत् ? अथ
    • कः अद्राक्षीत् ? दशरथः
    • कम् अद्राक्षीत् ? भार्गवम् रामम्
      • कीदृशम् अद्राक्षीत् ? मुनिम्
      • पुनः कीदृशं भार्गवम् ? मध्ये-मार्गम्
      • पुनः कीदृशं भार्गवम् ? प्रतिनिवर्तमानः
        • कैः सह प्रतिनिवर्तमानः ? स्व-तनयैः सह
          • कीदृशैः स्व-तनयैः सह ? कृत-विवाहैः
        • कस्मात् / केभ्यः प्रतिनिवर्तमानः ? विदेहेभ्यः
      • पुनः कीदृशं भार्गवम् ? संवर्त-समय-समुज्जृम्भित-हुतवह-दुःसह-रोषम्
      • पुनः कीदृशं भार्गवम् ? भीषण-दुर्वार-पराक्रमम्
      • पुनः कीदृशं भार्गवम् ? क्षत्र-वर्ग-गर्व-सर्वंकष-परश्वध-धारा-अधीन-रुधिर-धारा-कल्पित-पितृ-तर्पणम् दर्पवताम् अग्रेसरम्
      • पुनः कीदृशं भार्गवम् ? उग्र-प्रतापिनम्
      • पुनः कीदृशं भार्गवम् ? अनति-परिमुषित-युद्ध-श्रद्धम्
        • कथंभूतमपि अनति-परिमुषित-युद्ध-श्रद्धम् ? तपः-समुचित-वल्कल-वसानम् अपि
        • किमर्थम् अनति-परिमुषित-युद्ध-श्रद्धम् ?वासना-वशात्

तात्पर्यम्

दशरथः पुत्राणां विवाहोत्तरं सपरिवारम् अयोध्यां प्रत्यागच्छन् मार्गमध्ये जामदग्न्यं परशुरामं दृष्टवान् । तस्य परशुरामस्य क्रोधः प्रलयाग्निरिव भयङ्करः; तस्य भुजबलम् अत्युग्रं निवारयितुम् अशक्यं च; सः दुष्टानां क्षत्त्रियाणाम् अहङ्कारं समूलम् उत्पाट्य तेषां रक्तस्य प्रवाहेण स्वपितुः जमदग्नेः तर्पणं विहितवान् आसीत्; शौर्यमदोद्धतः, प्रचण्डप्रभावश्च सः मुनिवेषं धरन् अपि संस्कारबलात् युद्धासक्तः एव ।

Word-Meaning

  • अथ = Then
  • दशरथः = Dasharatha
  • कृतविवाहैः स्वतनयैः सह = along with (सह) his (स्व) sons (तनय) whose marriage (विवाह) has been carried out (कृत)
    • प्रतिनिवर्तमानः = one who is returning
      • विदेहेभ्यः = from the place, Videha (विदेह)
    • मध्येमार्गम् = on the way
    • अद्राक्षीत् = saw
    • रामम् = Rama (राम), i.e., Parasurama
      • भार्गवम् = Bhargava (भार्गव), the desendent of Bhrgu
      • मुनिम् = the sage
      • संवर्त-समय-समुज्जृम्भित-हुतवह-दुःसह-रोषम् = one whose anger is (रोष) is incapable of being tolerated (दुःसहः), as that of (तद्वत्), the fire that is blazing (समुज्जृम्भित), during the time (समय) of the ultimate dissolution (संवर्त)
      • भीषणदुर्वारपराक्रमम् = one who has such a strength (पराक्रम), which is fearful (भीषण) and which cannot be put down or turned away (दुर्वार) by anybody
      • क्षत्रवर्गगर्वसर्वंकषपरश्वधधाराधीनरुधिरधाराकल्पितपितृतर्पणम् = one who performed (कल्पित) the ancestral offering rites (तर्पण) for his forefathers (पितृ) with the flow (धारा) of blood (रुधिर) generated (अधीन) from the sharp edge (धारा) of his Parashu, the axe weapon (परश्वध), which destroyed completely (सर्वङ्कष) the pride (गर्व) of the community (वर्ग) of enemies (क्षत्र)
      • दर्पवताम् अग्रेसरम् = one who is in the forefront (अग्रेसर) among those who have arrogant (दर्पवत्) due to their strength
      • उग्रप्रतापिनम् = strong (उग्र) splendor (प्रतापिन्)
      • तपःसमुचितवल्कलवसानम् = one who adores the garment (वसान) made of bark (वल्कल), that is suitable (समुचित) for penance (तपस्)
      • अपि = Even though
      • वासनावशात् = influenced (वश) by the past mental impressions (वासना)
      • अनतिपरिमुषितयुद्धश्रद्धम् = the fervour (श्रद्ध) to fight (युद्ध) which has not gone completely (अनतिपरिमुषित)

गद्यम्

मूलपाठः

अप्राक्षीच्च तन्निरीक्षणादेव प्रक्षीणहर्षोऽपि महर्षिभिः सह विधाय सपर्यामार्यशील कुशलमिति ।

पदच्छेदः

अप्राक्षीत्, च, तत्-निरीक्षणात्, एव, प्रक्षीण-हर्षः, अपि, महर्षिभिः, सह, विधाय, सपर्याम्, आर्य-शील, कुशलम्, इति

अन्वयार्थः

  • तन्निरीक्षणात् = परशुरामस्य दर्शनात्
  • एव
  • प्रक्षीणहर्षः = न्यूनीकृतानन्दः
  • अपि
  • महर्षिभिः = वसिष्ठादिभिः
  • सह = साकम्
  • सपर्याम् = पूजाम्
  • विधाय = कृत्वा
  • आर्यशील = महानुभाव
  • कुशलम् = क्षेमं [ क्षेमं वा इति द्वनिना प्रश्नः बुध्यते – काकुः ]
  • इति अप्राक्षीत् = एवं पृष्टवान्

अन्वयः

अप्राक्षीत् च तन्निरीक्षणात् एव प्रक्षीण-हर्षः अपि महर्षिभिः सह विधाय सपर्याम् आर्य-शील कुशलम् इति

आकाङ्क्षा

  • अप्राक्षीत् च
    • कः अप्राक्षीत् ? (दशरथः)
      • कथंभूतः (दशरथः) ? प्रक्षीण-हर्षः अपि
        • किमर्थं प्रक्षीण-हर्षः ? तन्निरीक्षणात् एव
      • किं कृत्वा अप्राक्षीत् ? विधाय
        • किं विधाय ? सपर्याम्
        • कैः सह विधाय ? महर्षिभिः सह
      • किमिति ? … इति
        • (हे) आर्य-शील ।
        • कुशलम् (वा) ?

तात्पर्यम्

परशुरामस्य दर्शनादेव दशरथस्य मनसि भयमुत्पन्नम् । तथापि वसिष्ठादिभिः सह समुचितां पूजां कृत्वा दशरथः परशुरामस्य कुशलप्रश्नं कृतवान् ।

पदविवरणम्

  • अप्राक्षीत् = प्रच्छ / प्रछ् “प्रछँ ज्ञीप्सायाम्” – लुङ्, प्र.पु., ए.व.
  • प्रक्षीणहर्षः = प्रक्षीणः हर्षः यस्य सः
  • सपर्याम् = “पूजा नमस्या-अपचितिः सपर्या-अर्चा-अर्हणाः समाः” (अमरः)

Word-Meaning

  • (दशरथः) = Dasharatha
    • अपि = even though
    • प्रक्षीणहर्षः = becoming one whose happiness (हर्ष) has diminished (प्रक्षीण)
      • तन्निरीक्षणात् एव = due to his (तत्) sight (निरीक्षण) itself (एव)
    • विधाय = having performed
      • सपर्याम् = adoration
      • महर्षिभिः सह = along with (सह) Maharishis (महर्षि) like Vashishta
    • इति अप्राक्षीत् = asked thus (इति)
      • आर्यशील = O one with noble (आर्य) character (शील)
      • कुशलम् (वा ?) = are you well (कुशलम्) ?
  1. श्लोकः

मूलपाठः

अथ दशरथवाणीं तामशृण्वन्प्रसन्नां
भृगुपतिरिदमूचे प्रश्रितं रामभद्रम् ।
अवजिगमिषुरासं जीर्णचापात्तकीर्ते-
रविदितपरशोस्ते दोर्मदं कार्मुकेऽस्मिन् ॥ १११ ॥

पदच्छेदः

अथ, दशरथ-वाणीम्, ताम्, अशृण्वन्, प्रसन्नाम्, भृगु-पतिः, इदम्, ऊचे, प्रश्रितम्, रामभद्रम्, अवजिगमषुः, आसम्, जीर्ण-चाप-आत्त-कीर्तेः, अविदित-परशोः, ते, दोर्मदम्, कार्मुके, अस्मिन्

अन्वयार्थः

  • अथ = कुशलप्रश्नानन्तरम्
  • ऊचे = अब्रवीत्
  • भृगुपतिः = परशुरामः
  • अशृण्वन् = न गणयन्
  • तां दशरथवाणीम् = दशरथेन कृतं कुशलप्रश्नम्
  • प्रसन्नाम् = श्राव्याम्
  • रामभद्रम् = श्रीरामम्
  • प्रश्रितम् = विनयान्वितम्
  • इदम् = एतद् वचनम्
  • आसम् = अभवम्
  • अवजिगमिषुः = ज्ञातुम् इच्छुः
  • दोर्मदम् = भुजयोः दर्पम्
  • ते = तव, रामस्य
  • जीर्णचापात्तकीर्तेः = शिथिलस्य शिवधनुषः भङ्गेन प्राप्तयशसः
  • अविदितपरशोः = मम आयुधस्य परशोः प्रभावम् अजानतः
  • कार्मुके अस्मिन् = पुरःस्थिते वैष्णवधनुषि

अन्वयः

अथ तां प्रसन्नां दशरथवाणीम् अशृण्वन् भृगुपतिः प्रश्रितं रामभद्रम् इदम् ऊचे – “अविदितपरशोः, जीर्णचापात्तकीर्तेः ते दोर्मदम् अस्मिन् कार्मुके अवजिगमिषुः आसम्”

आकाङ्क्षा

  • ऊचे
    • कदा ऊचे ? अथ
    • कः ऊचे ? भृगुपतिः
    • किं कृत्वा ऊचे ? अशृण्वन्
      • काम् अशृण्वन् ? तां दशरथवाणीम्
        • कीदृशीं दशरथवाणीम् ? प्रसन्नाम्
      • कम् ऊचे ? रामभद्रम्
        • कीदृशं रामभद्रम् ? प्रश्रितम्
      • किम् ऊचे ? इदम्
        • किम् इति ऊचे ? आसम्
          • कथम्भूतः आसम् ? अवजिगमिषुः
            • कम् अवजिगमिषुः ? दोर्मदम्
              • कस्य दोर्मदम् ? ते
                • कीदृशस्य ते ? जीर्णचापात्तकीर्तेः
                • पुनः कीदृशस्य ते ? अविदितपरशोः = मम आयुधस्य परशोः प्रभावम् अजानतः
              • कुत्र ऊचे ? कार्मुके अस्मिन्

तात्पर्यम्

दशरथस्य श्राव्यं कुशलप्रश्नं न गणयन् परशुरामः विनयान्वितं श्रीरामम् इत्थम् अकथयत् – “हे राम! त्वं मम आयुधस्य परशोः प्रभावं न जानासि । शिथिलस्य शिवधनुषः भङ्गमात्रेण यशः प्राप्तवानसि । इदानीं तव भुजयोः वस्तुतः किं बलम् इति अस्मिन् वैष्णवधनुषि परीक्षितुम् इच्छामि” इति ।

पदविवरणम्

  • अशृण्वन् = न शृण्वन् । तकारान्तः, पुं., प्र.वि., ए.व.
  • भृगुपतिः = भृगूणां पतिः
  • प्रश्रितम् = “निभृत-विनीत-प्रश्रिताः समाः” (अमरः)
  • अवजिगमिषुः = अवगन्तुम् इच्छुः । अव + गम् “गमॢ गतौ” + सन् + उ ।
  • जीर्णचापात्तकीर्तेः
    • जीर्णचापः = जीर्णः चापः
    • जीर्णचापात्ता = जीर्णचापेन आत्ता
    • जीर्णचापात्तकीर्तेः = जीर्णचापात्ता कीर्तिः यस्य सः, तस्य
  • अविदितपरशोः
    • अविदितः = न विदितः
    • अविदितपरशोः = अविदितः परशुः येन सः, तस्य
  • दोर्मदम् = दोष्णोः मदः, तम्
  • कार्मुके = “धनुश्चापौ धन्व-शरासन-कोदण्ड-कार्मुकम्

छन्दः

  • मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु

Word-Meaning

  • अथ = After that
  • अशृण्वन् = not hearing,e., ignoring
    • तां दशरथवाणीम् = those (सा) words (वाणी) of Dasharata (दशरथ)
    • प्रसन्नाम् = which were kind and pleasant (प्रसन्न)
  • भृगुपतिः = Parashurama
  • ऊचे = spoke
  • इदम् = this
  • रामभद्रम् = to the Holy (भद्र) Rama (राम)
    • प्रश्रितम् = one who was humble
  • आसम् = I was
    • अवजिगमिषुः = one who is interested to know
      • दोर्मदम् = the pride (मद) of the arms (दोस्)
        • ते = of you (Rama’s)
        • जीर्णचापात्तकीर्तेः = of you, one whose the praise (कीर्ति) is obtained (आत्त) by breaking a worn out (जीर्ण) bow (चाप)
      • अविदितपरशोः = of you, one who does not know (अविदित) the (strength of my weapon) Parashu (परशु)
      • अस्मिन् = in this
      • कार्मुके = in bow (in this Vishnu’s bow)
  1. श्लोकः

मूलपाठः

आदाय तत्सगुणमाशु विधाय तत्र
सन्धाय बाणमवधार्य तपोधनत्वम् ।
तज्जीवितस्य दयमानमना मनीषी
सम्भूतघोरसमराद्विरराम रामः ॥ ११२ ॥

पदच्छेदः

आदाय, तत्, सगुणम्, आशु, विधाय, तत्र, सन्धाय, बाणम्, अवधार्य, तपो-धनत्वम्, तत्-जीवितस्य, दयमान-मनाः, मनीषी, सम्भूत-घोर-समरात्, विरराम, रामः

अन्वयार्थः

  • विरराम = विरतः अभूत्
  • रामः
  • आदाय = स्वीकृत्य
  • तत् = वैष्णवं धनुः
  • विधाय = कृत्वा
  • सगुणम् = मौर्वीसहितम्
  • आशु = झटिति
  • सन्धाय = योजयित्वा
  • बाणम् = शरम्
  • तत्र = तस्मिन् धनुषि
  • अवधार्य = विचिन्त्य
  • तपोधनत्वम् = तपस्वी अयम् (अतः अवध्यः)
  • मनीषी = विवेकसम्पन्नः
  • दयमानमनाः = करुणापूरितचित्तः
  • तज्जीवितस्य = परशुरामस्य प्राणानां विषये
  • सम्भूतघोरसमरात् = समुपस्थितात् दारुणयुद्धात्

अन्वयः

मनीषी रामः तत् आदाय, आशु सगुणं विधाय, तत्र बाणं सन्धाय, तपोधनत्वम् अवधार्य, तज्जीवितस्य दयमानमनाः सम्भूतघोरसमराद् विरराम

आकाङ्क्षा

  • विरराम
    • किं कृत्वा विरराम ? आदाय
      • किम् आदाय ? तत्
    • पुनः किं कृत्वा विरराम ? विधाय
      • तत् किं विधाय ? सगुणम्
      • कथं विधाय ? आशु
    • पुनः किं कृत्वा विरराम ? सन्धाय
      • कं सन्धाय ? बाणम्
      • कुत्र सन्धाय ? तत्र
    • पुनः किं कृत्वा विरराम ? अवधार्य
      • किम् अवधार्य ? तपोधनत्वम्
    • कः विरराम ? रामः
      • कीदृशः रामः ? मनीषी
      • पुनः कीदृशः रामः ? दयमानमनाः
        • कस्य दयमानमनाः ? तज्जीवितस्य
      • कस्मात् विरराम ? सम्भूतघोरसमरात्

तात्पर्यम्

विवेकसम्पन्नः श्रीरामः परशुरामात् वैष्णवं धनुः स्वीकृत्य, झटिति तत्र मौर्वीम् आरोप्य, शरं योजितवान् । किन्तु परशुरामः तपस्वी, अतः अवध्यः इति विचार्य, तस्य प्राणेषु करुणापरः सन् समुपस्थितात् दारुणयुद्धात् विरतः अभूत् ।

पदविवरणम्

  • सगुणम् = गुणेन सहितम्
  • आशु = “सत्वरं चपलं तूर्णमविलम्बितमाशु च” (अमरः)
  • दयमानमनाः = दयमानं मनः यस्य सः । सकारान्तः, पुं, प्र.वि., ए.व.
  • मनीषी = मनीषा अस्य अस्ति । नकारान्तः, पुं, प्र.वि., ए.व.
  • विरराम = वि + रम् “रमुँक्रीडायाम्” / “रमँ क्रीडायाम्”– लिट्, प्र.पु., ए.व. ।आत्मनेपदी, लिटि रेमे, रेमाते, रेमिरे । “व्याङ्परिभ्यो रमः” (१ ।३ ।८३) इति परस्मैपदित्वम् । विरमति, आरमति, परिरमति ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु

Word-Meaning

  • रामः = Rama
    • आदाय = upon accepting
      • तत् = that, Parashuraama’s Bow of Vishnu
    • विधाय = upon making it
      • सगुणम् = be with (सह) the string (गुण)
      • आशु = immediately
    • सन्धाय = upon connecting
      • बाणम् = a arrow
        • तत्र = in it
      • अवधार्य = upon thinking
        • तपोधनत्वम् = about the greatness (धनत्व) of his penance (तपस्)
      • मनीषी = being a thoughtful person
      • दयमानमनाः = being one who heart (मनस्) is filled with compassion (दयमान)
        • तज्जीवितस्य = towards his (तत्) (parashurama’s) life (जीवित)
      • विरराम = ceased
        • सम्भूतघोरसमरात् = from the upcoming (सम्भूत) terrific (घोर) battle (समर)
  1. श्लोकः

मूलपाठः

तावुभौ च भृगुवंशसम्भवौ
चापदण्डजमदग्निसम्भवौ ।
प्रह्वभावमवलम्ब्य केवलं
राघवार्पितगुणौ बभूवतुः ॥ ११३ ॥

पदच्छेदः

तौ, उभौ, च, भृगु-वंश-सम्भवौ, चाप-दण्ड-जमदग्नि-सम्भवौ, प्रह्व-भावम्, अवलम्ब्य, केवलम्, राघव-अर्पित-गुणौ, बभूवतुः

अन्वयार्थः

  • बभूवतुः = अभवताम्
  • उभौ तौ
  • चापदण्डजमदग्निसम्भवौ = धनुर्यष्टिः, परशुरामश्च
  • भृगुवंशसम्भवौ = भृगुवंशे सञ्जातौ (परशुरामः भृगुमहर्षेः वंशे जातः, चापः भृगोः = शैलप्रपातस्य वंशे = वेणौ जातः)
  • राघवार्पितगुणौ – राघवेण = श्रीरामेण अर्पितः गुणः = मौर्वी / साधुत्वं च ययोः तौ
  • अवलम्ब्य = प्राप्य
  • प्रह्वभावम् = नम्रत्वम्
  • केवलम् = अत्यन्तम्

अन्वयः

तौ उभौ भृगुवंशसम्भवौ चापदण्ड-जमदग्निसम्भवौ केवलं प्रह्वभावम् अवलम्ब्य राघवार्पितगुणौ बभूवतुः

आकाङ्क्षा

  • बभूवतुः
    • कौ बभूवतुः ? उभौ तौ
      • कौ तौ ? चापदण्डजमदग्निसम्भवौ
      • कीदृशौ तौ ? भृगुवंशसम्भवौ
    • कथम्भूतौ बभुवतुः ? राघवार्पितगुणौ
    • किं कृत्वा बभुवतुः ? अवलम्ब्य
      • कम् अवलम्ब्य ? प्रह्वभावम्
        • कीदृशं प्रह्वभावम् ? केवलम्

तात्पर्यम्

शुक्रवंशे जातः परशुरामः, प्रपातवेणौ जातः धनुर्दण्डः च अत्यन्तं नम्रत्वं प्राप्य श्रीरामेण आरोपितगुणौ (मौर्वी, साधुत्वगुणश्च) अभवताम्

पदविवरणम्

  • भृगुवंशसम्भवौ = “भृगुर्दैत्यगुरौ शम्भौ जमदग्नि-प्रपातयोः” (नानार्थरत्नमाला)
  • राघवार्पितगुणौ
    • राघवार्पितः = राघवेण अर्पितः
    • राघवार्पितगुणौ = राघवार्पितः गुणः ययोः तौ ।

अलङ्कारः

  • श्लेषः
  • तुल्ययोगिता – “प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता” – both are in context and both are comparable to each other

छन्दः

  • रथोद्धता वृत्तम् – “रान्नराविह रथोद्धता लगौ” – ११ अक्षराणि – र-न-र-ल-गु – like the gait of a chariot
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु
ता वु भौ भृ गु वं म्भ वौ
चा ण्ड ग्नि म्भ वौ

Word-Meaning

  • बभूवतुः = both of them were in this way
  • उभौ तौ = those two
  • चापदण्डजमदग्निसम्भवौ = the bow’s stick and Parashurama, the offspring of Jamadagni
  • भृगुवंशसम्भवौ = the two born out of the Vamsha of Bhrgu
    • as the bow’s stick was created (भृगु) out of the bamboos (वंश) of the mountain slopes (भृगु)
    • and Parashurama was born (सम्भव) in the lineage (वंश) of Rshi Bhrgu (भृगु)
  • राघवार्पितगुणौ = the two in which Guna was placed by Rama (राघव)
    • as the string (गुण) was placed (अर्पित) in the bow stick
    • and the good quality (गुण) was inserted (अर्पित) in Parashurama
  • अवलम्ब्य = having obtained
  • प्रह्वभावम् = the state (भाव) of being bent (प्रह्व) / being humbled (प्रह्व)
  • केवलम् = severely / extremely
  1. श्लोकः

मूलपाठः

युगपत्प्राप्तगुणयोश्चापभार्गवरामयोः ।
ऋजुता वक्रतां प्राप वक्रतापि तथार्जवम् ॥ ११४ ॥

पदच्छेदः

युगपत्, प्राप्त-गुणयोः, चाप-भार्गव-रामयोः, ऋजुता, वक्रताम्, प्राप, वक्रता, अपि, तथा, आर्जवम्

अन्वयार्थः

  • प्राप = आप्नोत्
  • ऋजुता = आर्जवम्
  • वक्रताम् = नम्रत्वम्
  • तथा = अपि च
  • वक्रता अपि = नम्रत्वम् अपि
  • आर्जवम् = ऋजुताम्
  • चापभार्गवरामयोः = धनुषः, परशुरामस्य च
  • प्राप्तगुणयोः = मौर्वीम्, सद्गुणं च प्राप्तयोः
  • युगपत् = समानकाले

अन्वयः

युगपत् प्राप्तगुणयोः चाप-भार्गवरामयोः ऋजुता वक्रतां प्राप, तथा वक्रता अपि आर्जवं प्राप

आकाङ्क्षा

  • प्राप
    • का प्राप ? ऋजुता
      • कां प्राप ? वक्रताम्
    • तथा पुनः का अपि प्राप ? तथा वक्रता अपि
      • कां प्राप ? आर्जवम्
    • कयोः ऋजुता वक्रता वा ? चापभार्गवरामयोः
      • कीदृशयोः चापभार्गवरामयोः ? प्राप्तगुणयोः
        • कदा प्राप्तगुणयोः ? युगपत्
      • कां प्राप ? आर्जवम्

तात्पर्यम्

धनुः, परशुरामश्च समानकाले गुणम् (मौर्वीम्, सद्गुणं च) प्राप्तवन्तौ । किन्तु तेन ऋजु धनुः (रामेण अवनमितः) नम्रत्वं प्राप्नोत्, अहङ्कारेण वक्रः परशुरामः श्रीरामस्य पराक्रमं विज्ञाय आर्जवं प्राप्नोत् ।

पदविवरणम्

  • प्राप्तगुणयोः = प्राप्तः गुणः याभ्यां तौ
  • ऋजुता = आर्जवम् । ऋजोः भावः । ऋजु + तल्, ऋजु + अण्
  • वक्रता = वक्रस्य भावः

अलङ्कारः

  • काव्यलिङ्गालङ्कारः = “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्”, Poetical Reason, a figure of speech in which a reason is implied. Here प्राप्तगुणयोः indicates the reason for these two transformations.
  • अतिशयोक्तिः = There are different kinds of atishayokti. Sambandha-atishayokti is the specific kind present in this shloka, wherein the poet describes a sambandha, where there is no sambandha. Bhoja is relating the two events – chaapa getting strung and parashuraama getting sadguNa, by yaugapadya (happening at the same time), when there was actually no yaugapadya. They did not happen at the same time – First Rama strung the bow, and later, because of that, Parashurama’s arrogance was broken. Hence, this is sambandha-atishayokti.
  • विरोधाभासः = Paradox, a figure of speech, where there is seemingly contradictory statements. Here, straightness and crookedness changing vice versa are the contradictions.

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • ऋजुता = straightness
    • प्राप = obtained
    • वक्रताम् = crookedness (i.e., the bow was bent)
  • तथा = in the same way
  • वक्रता अपि = crookedness
    • प्राप = obtained
    • आर्जवम् = straightness (i.e., Parashurama lost his arrogance)
  • चापभार्गवरामयोः = of the bow (चाप) and Parashurama (भार्गवराम)
  • प्राप्तगुणयोः = of those that had received (प्राप्त) the guna (गुण)
    • In the context of the bow, the string (गुण)
    • In the context of Parashurama, the good quality (गुण)
  • युगपत् = at the very same time

कक्ष्या ४३ – २६.११.२०१८

गद्यम्

मूलपाठः

ततस्तत्क्षणममोघेन राघवः शरेण भार्गवस्य स्वर्गतिं रुरोध ।

पदच्छेदः

ततः, तत्-क्षणम्, अमोघेन, राघवः, शरेण, भार्गवस्य, स्वर्गतिम्, रुरोध

अन्वयार्थः

  • ततः = तदनन्तरम्
  • राघवः = श्रीरामः
  • अमोघेन = अव्यर्थेन
  • शरेण = बाणेन
  • भार्गवस्य = परशुरामस्य
  • स्वर्गतिम् = स्वर्लोकगमनं
  • तत्क्षणम् = तस्मिन्नेव क्षणे
  • रुरोध = अवरुद्धवान्

अन्वयः

ततः राघवः भार्गवस्य स्वर्गतिम् अमोघेन शरेण, तत्-क्षणम् रुरोध

आकाङ्क्षा

  • रुरोध
    • कदा रुरोध ? ततः
      • पुनः कदा रुरोध ? तत्-क्षणम्
    • केन रुरोध ? शरेण
      • कीदृशेन शरेण ? अमोघेन
    • कां रुरोध ? स्वर्गतिम्
      • कस्य स्वर्गतिम् ? भार्गवस्य

तात्पर्यम्

झटिति श्रीरामः स्वस्य अव्यर्थेन बाणेन परशुरामस्य स्वर्लोकगमनम् अवरुद्धवान्

पदविवरणम्

  • अमोघेन = न मोघः अमोघः, तेन । “मोघं निरर्थकं” (अमरः)
  • रुरोध = रुध् “रुधिँर् आवरणे” – लिट्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • बालकाण्डम् ७६ सर्गः

इमां पादगतिं राम तपोबलसमार्जितान् । लोकानप्रतिमान् वा ते हनिष्यामि यदिच्छसि ॥

न ह्ययं वैष्णवो दिव्यश्शरः परपुरञ्जयः । मोघः पतति वीर्येण बलदर्पविनाशनः ॥

काश्यपाय मया दत्ता यदा पूर्वं वसुन्धरा । विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥

तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव । मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥

Word-Meaning

  • ततः = After that
  • राघवः = Srirama, Raghava (राघव) Rama
  • अमोघेन = that which does not go waste
  • शरेण = by the arrow
  • भार्गवस्य = of Parashuraama, Bhargava (भार्गव) Rama
  • स्वर्गतिम् = the path to Svarga or heaven
  • तत्क्षणम् = in that moment itself
  • रुरोध = obstructed

गद्यम्

मूलपाठः

स्थाने हि तत्

पदच्छेदः

स्थाने, हि, तत्

अन्वयार्थः

  • स्थाने = युक्तम् । “युक्ते द्वे सांप्रतं स्थाने” (अमरः)
  • हि = निश्चयेन
  • तत् = परशुरामस्य स्वर्गतिरोधः

अन्वयः

तत् स्थाने हि

आकाङ्क्षा

  • तत् अस्ति हि
    • कथं अस्ति तत् ? स्थाने

तात्पर्यम्

तत् स्थाने हि

Word-Meaning

  • तत् = That
  • (अस्ति) = is
  • हि = indeed
  • स्थाने = appropriate
  1. श्लोकः

मूलपाठः

नूनं जनेन पुरुषे महति प्रयुक्त-
मागः परं तदनुरूपफलं प्रसूते

कृत्वा रघूद्वहगतेः क्षणमन्तरायं
यद्भार्गवः परगतेर्विहतिं प्रपेदे
॥ ११५ ॥
पदच्छेदः

नूनम्, जनेन, पुरुषे, महति, प्रयुक्तम्, आगः, परम्, तत्-अनुरूप-फलम्, प्रसूते, कृत्वा, रघूद्वह-गतेः, क्षणम्, अन्तरायम्, यत्-भार्गवः, परगतेः, विहतिम्, प्रपेदे

अन्वयार्थः

  • नूनम् = निश्चयेन
  • प्रसूते = जनयति
  • आगः = अपराधः
  • प्रयुक्तम् = आचरितम्
  • महति पुरुषे = महानुभावे
  • जनेन = केनचित् नरेण
  • तदनुरूपफलम् = तस्य अपराधस्य अनुगुणं फलम्
  • परम् = अत्यन्तम्
  • यत् = यस्मात् कारणात्
  • प्रपेदे = प्राप्तवान्
  • भार्गवः = परशुरामः
  • विहतिम् = हानिम्
  • परगतेः = स्वर्लोकप्राप्तेः
  • कृत्वा = विधाय
  • अन्तरायम् = विघ्नम्
  • रघूद्वहगतेः = श्रीरामगमनस्य
  • क्षणम् = क्षणमात्रम्

अन्वयः

जनेन महति पुरुषे प्रयुक्तम् आगः नूनं परं तदनुरूपफलं प्रसूते, यत् भार्गवः रघूद्वहगतेः क्षणम् अन्तरायं कृत्वा परगतेः विहतिं प्रपेदे ।

आकाङ्क्षा

  • प्रसूते
    • कथं प्रसूते ? नूनम्
    • किं (कर्तृपदं) प्रसूते ? आगः
      • कीदृशम् आगः ? प्रयुक्तम्
        • कस्मिन् प्रयुक्तम् ? पुरुषे
          • कीदृशे पुरुषे ? महति
        • केन प्रयुक्तम् ? जनेन
      • किं (कर्मपदं) प्रसूते ? तदनुरूपफलम्
        • कीदृशं तदनुरूपफलम् ? परम्
      • तेन किं ? यत् प्रपेदे
        • कः प्रपेदे ? भार्गवः
        • कां प्रपेदे ? विहतिम्
          • कस्याः विहतिम् ? परगतेः
        • किं विधाय प्रपेदे ? कृत्वा
          • कं कृत्वा ? अन्तरायम्
            • कस्याः अन्तरायम् ? रघूद्वहगतेः
          • कियत्कालं कृत्वा ? क्षणम्

तात्पर्यम्

केनचित् नरेण महानुभावस्य विषये विहितः अपराधः निश्चयेन अत्यन्तं तदनुगुणं फलं जनयति । अत एव श्रीरामगमनस्य क्षणमात्रं विघ्नं प्रकल्प्य परशुरामः स्वर्लोकगमनस्य हानिं प्राप्तवान् ।

पदविवरणम्

  • आगः = सकारान्तः, नपुंसकलिङ्गः “आगस्” शब्दः, प्र.वि., ए.व. । “आगोऽपराधो मन्तुश्च” (अमरः) । आगः आगसी आगांसी ।
  • प्रसूते = प्र + सू “षूङ् प्राणिगर्भविमोचने” । लट्, प्र.पु., ए.व. ।
  • रघूद्वहगतेः
    • रघूद्वहः = रघूणाम् उद्वहः । “तोकापत्यं च प्रसव-उद्वह-नन्दनः” (कोशः)
    • रघूद्वहगतेः = रघूद्वहस्य गतिः, तस्याः ।
  • विहतिम् = वि + “हन हिंसागत्योः” + क्तिन् (कृत्) – इकारान्तः, स्त्री, द्वि.वि., ए.व.
  • प्रपेदे = प्र + पद “पद गतौ” / पद् “पदँ गतौ” – आत्मनेपदे लिट्., प्र.पु., ए.व.

अलङ्कारः

  • अर्थान्तरन्यासः । “उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः” । Make a general statement (सामान्यनियमः) and support the statement with a specific example (विशेषः). The standard example given is हनूमानब्धिमतरद् दुष्करंकिं महात्मनाम् ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु

Word-Meaning

  • आगः = The offence (आगस्)
    • प्रयुक्तम् = inflicted
    • महति पुरुषे = on a great (महत्) person (पुरुष)
    • जनेन = by any person (जन)
  • नूनम् = definitely
  • प्रसूते = creates
    • परम् = the ultimate
    • तदनुरूपफलम् = fruits (फल) appropriate (अनुरूप) to that (तत्) offence
  • यत् = hence
  • भार्गवः = Parashurama
  • कृत्वा = having done
    • अन्तरायम् = the intervention
    • रघूद्वहगतेः = of the path (गति) of Rama, who is eminent (उद्वाह) among the descendents of Raghu (रघु)
    • क्षणम् = for just a moment
  • प्रपेदे = obtained
    • विहतिम् = deprivation
    • परगतेः = of reaching the svarga (परगति)

गद्यम्

मूलपाठः

अथ सङ्क्रान्तया जामदग्न्यशक्तिसम्पदा सम्पन्नं पन्नगपरिवृढभोग-भुजाभिरामं राममविरलमालिङ्ग्य मूर्ध्न्युपाघ्राय दशरथः परिखयेव परिसरे परिसरन्त्या सरयूसरितानुविद्धामयोध्यां दारकान्सदारान् सादरमवलोकयन्तीनां पौरपुरन्ध्रीणां नीरन्ध्रितगवाक्षैः कटाक्षैः सौन्दर्यवञ्चिततापिञ्छैः पिञ्छातपत्रायमाणधवलातपत्रः प्रविवेश ।

पदच्छेदः

अथ, सङ्क्रान्तया, जामदग्न्य-शक्ति-सम्पदा, सम्पन्नम्, पन्नग-परिवृढ-भोग-भुज-अभिरामम्, रामम्, अविरलम्, आलिङ्ग्य, मूर्ध्नि, उपाघ्राय, दशरथः, परिखया, इव, परिसरे, परिसरन्त्या, सरयू-सरिता, अनुविद्धाम्, अयोध्याम्, दारकान्, स-दारान्, सादरम्, अवलोकयन्तीनाम्, पौर-पुरन्ध्रीणाम्, नीरन्ध्रित-गवाक्षैः, कटाक्षैः, सौन्दर्य-वञ्चित-तापिञ्छैः, पिञ्छ-आतपत्रायमाण-धवल-आतपत्रः, प्रविवेश ।

अन्वयार्थः

  • अथ = परशुरामस्य निर्गमनानन्तरम्
  • दशरथः
  • सङ्क्रान्तया = सङ्गतया
  • जामदग्न्यशक्तिसम्पदा = परशुरामस्य तपःप्रभावसम्पत्त्या
  • सम्पन्नम् = समृद्धम्
  • पन्नगपरिवृढभोगभुजाभिरामम्
    • पन्नगपरिवृढस्य = भुजगेन्द्रस्य, भोगः = कायः, तत्सदृशाभ्यां भुजाभ्याम् = बाहुभ्याम् अभिरामम् = मनोहरम्
  • रामम्
  • अविरलम् = गाढम्
  • आलिङ्ग्य = आश्लिष्य
  • मूर्ध्नि = शिरसि
  • उपाघ्राय = आघ्राणं कृत्वा । [शिरसः आघ्राणं वात्सल्यप्रदर्शकम्]
  • परिखया इव = जलदुर्गेण इव
  • परिसरे = पर्यन्तभुवि
  • परिसरन्त्या = प्रवहन्त्या
  • सरयूसरिता = सरयूनद्या
  • अनुविद्धाम् = आवेष्टिताम्
  • अयोध्याम्
  • सदारान् = पत्नीसहितान्
  • दारकान् = पुत्रान् रामादीन्
  • सादरम् = साभिमानम्
  • अवलोकयन्तीनाम् = पश्यन्तीनाम्
  • पौरपुरन्ध्रीणाम् = नगरस्त्रीणाम्
  • नीरन्ध्रितगवाक्षैः = निरन्तरीकृत-गवाक्षमार्गैः
  • सौन्दर्यवञ्चिततापिञ्छैः = रूप-निर्जित-तमालपुष्पैः
  • कटाक्षैः = अपाङ्गावलोकनैः
  • पिञ्छातपत्रायमाणधवलातपत्रः = बर्हमयच्छत्रम् इव आचरता श्वेतच्छत्रेण युक्तः सन्
  • प्रविवेश = प्रविष्टवान्

अन्वयः

अथ जामदग्न्य-शक्ति-सम्पदा सङ्क्रान्तया सम्पन्नं, पन्नग-परिवृढ-भोग-भुज-अभिरामं, रामम् अविरलम् आलिङ्ग्य, मूर्ध्नि उपाघ्राय, दशरथः, परिखया इव, परिसरे परिसरन्त्या, सरयू-सरिता, अनुविद्धाम्, अयोध्यां, सदारान् दारकान्, सादरम् अवलोकयन्तीनां, पौर-पुरन्ध्रीणां, नीरन्ध्रित-गवाक्षैः, कटाक्षैः, सौन्दर्य-वञ्चित-तापिञ्छैः, पिञ्छ-आतपत्रायमाण-धवल-आतपत्रः प्रविवेश ।

आकाङ्क्षा

  • प्रविवेश
    • किं कृत्वा प्रविवेश ? आलिङ्ग्य
      • कथम् आलिङ्ग्य ? अविरलम्
      • कम् आलिङ्ग्य ? रामम्
        • कीदृशं रामम् ? पन्नग-परिवृढ-भोग-भुज-अभिरामम्
        • पुनः कीदृशं रामम् ? सम्पन्नम्
          • कया सम्पन्नम् ? सङ्क्रान्तया
            • कीदृशया सङ्क्रान्तया ? जामदग्न्य-शक्ति-सम्पदा
          • पुनः किं कृत्वा प्रविवेश ? उपाघ्राय
            • कुत्र उपाघ्राय ? मूर्ध्नि
          • कः प्रविवेश ? दशरथः
            • कीदृशः दशरथः ? पिञ्छ-आतपत्रायमाण-धवल-आतपत्रः
              • कैः पिञ्छ-आतपत्रायमाण-धवल-आतपत्रः ? कटाक्षैः
                • कीदृशैः कटाक्षैः ? सौन्दर्य-वञ्चित-तापिञ्छैः
                • पुनः कीदृशैः कटाक्षैः ? नीरन्ध्रित-गवाक्षैः
                • कासां कटाक्षैः ? अवलोकयन्तीनाम्
                  • कथम् अवलोकयन्तीनाम् ? सादरम्
                  • कान् अवलोकयन्तीनाम् ? दारकान्
                    • कथम्भूतान् दारकान् ? सदारान्
                  • कुत्र प्रविवेश ? अयोध्याम्
                    • कीदृशीं अयोध्याम् ? अनुविद्धाम्
                      • कया अनुविद्धाम् ? सरयू-सरिता
                        • कीदृशया सरयू-सरिता ? परिसरन्त्या
                          • कुत्र परिसरन्त्या ? परिसरे
                        • कथम्भूतया इव सरयू-सरिता ? परिखया इव
                      • कदा प्रविवेश ? अथ

तात्पर्यम्

भुजगेन्द्रस्य कायसदृशाभ्यां महद्भ्यां बाहुभ्यां मनोहरः श्रीरामः आत्मानं सङ्गतया परशुरामस्य तपःप्रभावसम्पत्त्या समृद्धः । तादृशं पुत्रं दशरथः दृढम् आलिङ्ग्य प्रीत्या शिरसि आघ्रातवान् । ततः ते सर्वे अयोध्यां प्राप्तवन्तः । अयोध्यां परितः सरयूनदी जलदुर्ग इव प्रवहति स्म । तत्र प्रविष्टान् पत्नीसहितान् राजपुत्रान् पौरनार्यः साभिमानं वीक्षितवत्यः । तासां कटाक्षैः गृहाणां गवाक्षाः पूरिताः । किञ्च, तमालपुष्पवत् सुन्दरैः तैः कटाक्षैः दशरथस्य श्वेतातपत्रं बर्हमयच्छत्रम् इव बभूव ।

पदविवरणम्

  • आलिङ्ग्य = आङ् + लिग् / लिङ्ग “लिगिँ गत्यर्थाः” + ल्यप्
  • उपाघ्राय = उप + आङ् + घ्रा “गन्धोपादाने घ्राणे” + ल्यप्

Word-Meaning

  • अथ = after that,
  • आलिङ्ग्य = after embracing
    • अविरलम् = tightly
    • रामम् = Rama
      • पन्नगपरिवृढभोगभुजाभिरामम् = one who is charming (अभिराम) and whose arms (भुजा) were strong like the superior (परिवृढ) serpent’s (पन्नग) coils (भोग)
      • सम्पन्नम् = One who was endowed
        • सङ्क्रान्तया = with the transfer (सङ्क्रान्ता)
          • जामदग्न्यशक्तिसम्पदा = with that, which is of the wealth (सम्पत्) in form of the penance (शक्ति) of Parashurama (जामदग्न्य), the off-spring of Jamadagni (जमदग्नि)
        • उपाघ्राय = and after smelling
          • मूर्ध्नि = in the head indicating parental affection
        • दशरथः = Dasharatha
          • पिञ्छातपत्रायमाणधवलातपत्रः = he whose white (धवल) umbrella (आतपत्र), indicating sovereignty, seemed to be an umbrella being formed (आतपत्रायमाण) of peacock feathers (पिञ्छ), taking on the blackness, leaving the whiteness
            • कटाक्षैः = due to the glances
              • सौन्दर्यवञ्चिततापिञ्छैः = by those that were conquering (वञ्चित) the beauty (सौन्दर्य) of the the navy-blue colored flowers of the Tamaala tree called Taapincha (तापिञ्छ)
              • नीरन्ध्रितगवाक्षैः = due to those that caused the windows (गवाक्ष) to be completely closed (नीरन्ध्रित) without leaving any cavity (रन्ध्र)
                • पौरपुरन्ध्रीणाम् = of those ladies of the city
                  • अवलोकयन्तीनाम् = of those who were watching
                    • सादरम् = with reverence
                    • दारकान् = the sons (दारक)
                      • सदारान् = along with (सह) their wives (दारा)
                    • प्रविवेश = entered
                    • अयोध्याम् = Ayodhya
                      • अनुविद्धाम् = that which is surrounded (अनुविद्धा)
                      • सरयूसरिता = by the Sarayu (सरयू) river (सरित्)
                      • परिसरन्त्या = by that which is flowing (परिसरन्ती)
                        • परिसरे = in the surrounding area (परिसर)
                      • परिखया इव = by it, which is like (इव) a mote (परिखा), the deep ditch filled with water that surrounds a fort
  1. श्लोकः

मूलपाठः

लज्जावशादविशदस्मरविक्रियाभि-
स्ताभिर्वधूभिरतिवेलमवाप्तसौख्यान् ।
इक्ष्वाकुनाथतनयान्प्रथमो रसानां
तारुण्ययोगचतुरश्चतुरः सिषेवे ॥ ११६ ॥

पदच्छेदः

लज्जा-वशात्, अविशद-स्मर-विक्रियाभिः, ताभिः, वधूभिः, अतिवेलम्, अवाप्त-सौख्यान्, इक्ष्वाकु-नाथ-तनयान्, प्रथमः, रसानाम्, तारुण्य-योग-चतुरः, चतुरः, सिषेवे

अन्वयार्थः

  • सिषेवे = सेवितवान्
  • रसानां प्रथमः = नवरसेषु आद्यः शृङ्गाररसः
  • तारुण्ययोगचतुरः = यौवनावस्थायां निपुणः
  • इक्ष्वाकुनाथतनयान् = दशरथपुत्रान्
  • चतुरः = चतुःसंख्याकान्
  • अवाप्तसौख्यान् = प्राप्तानन्दान्
  • ताभिः वधूभिः = सीतादिभिः नवोढाभिः
  • अविशदस्मरविक्रियाभिः = अस्फुटमन्मथचेष्टाभिः, मुग्धाभिः
  • लज्जावशात् = त्रपायाः
  • अतिवेलम् = अत्यन्तम्

अन्वयः

लज्जावशात् अविशदस्मरविक्रियाभिः ताभिः वधूभिः अतिवेलम् अवाप्तसौख्यान् चतुरः इक्ष्वाकुनाथतनयान् तारुण्ययोगचतुरः रसानां प्रथमः सिषेवे ।

आकाङ्क्षा

  • सिषेवे
    • कः सिषेवे ? रसानां प्रथमः
      • कीदृशः रसानां प्रथमः ? तारुण्ययोगचतुरः
    • कान् सिषेवे ? इक्ष्वाकुनाथतनयान्
      • कियतः इक्ष्वाकुनाथतनयान् ? चतुरः
      • कीदृशान् इक्ष्वाकुनाथतनयान् ? अवाप्तसौख्यान्
        • काभिः अवाप्तसौख्यान् ? ताभिः वधूभिः
          • कीदृशीभिः वधूभिः ? अविशदस्मरविक्रियाभिः
            • कस्मात् कारणात् अविशदस्मरविक्रियाभिः ? लज्जावशात्
          • कथम् अवाप्तसौख्यान् ? अतिवेलम्

तात्पर्यम्

सत्रपाभिः मुग्धाभिः नवोढाभिः भार्याभिः सह अत्यन्तम् आनन्दं प्राप्तवतः चतुःसंख्याकान् दशरथतनयान् यौवनावस्थानिपुणः शृङ्गाररसः सेवितवान् । [ते पत्नीभिः सह शृङ्गारसुखम् अनुभूतवन्तः इत्यर्थः]

पदविवरणम्

  • अविशदस्मरविक्रियाभिः
    • स्मरविक्रियाः = स्मरस्य विक्रियाः । “कामः पञ्चशरः स्मरः” (अमरः)
    • अविशदस्मरविक्रियाभिः = अविशदाः स्मरविक्रियाः यासां ताभिः
  • अवाप्तसौख्यान् = अवाप्तं सौख्यं यैः, तान्
  • रसानां प्रथमः = “शृङ्गार-वीर-करुण-रौद्र-हास्य-भयानकाः । बीभत्स-अद्भुत-शान्ताख्याः रसाः पूर्वैरुदाहृताः”
  • तारुण्ययोगचतुरः =
    • तारुण्यस्य योगः = तारुण्यस्य योगः,
    • तारुण्ययोगचतुरः = तारुण्ययोगे चतुरः ।
  • चतुरः = रेफान्तः पुंलिङ्गः “चतुर्” शब्दः, द्वि.वि., ब.व. । चत्वाराः प्र.वि., ब.व. ।
  • सिषेवे = सेव् “षेवृँ सेवने” । लिट्, प्र.पु., ए.व. ।

अलङ्कारः

  • यमकालङ्कारः – a single word or phrase is repeated, but in two different senses. तारुण्य-योग-चतुरः, चतुरः । One indicated expertise and another indicated the count of four.

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु

Word-Meaning

  • रसानां प्रथमः = Shringaara Rasa or the sentiment of love, the foremost (प्रथम) among the sentiments (रस)
    • तारुण्ययोगचतुरः = the one that blooms in youth, i.e. the one that is proficient (चतुर) on attaining (योग) youthfulness (तारुण्य)
  • सिषेवे = served
  • इक्ष्वाकुनाथतनयान् = the sons (तनय) of Dasharatha, the Lord (नाथ) of the Ikshvaakus (इक्ष्वाकु)
    • चतुरः = the four of them
      • अवाप्तसौख्यान् = those who had obtained happiness
        • अतिवेलम् = beyond limits (अति-वेलम्)
        • ताभिः वधूभिः = due to those newly-wed brides
          • अविशदस्मरविक्रियाभिः = due to those naive girls, whose activities or gestures (विक्रिया) of love or love-god (स्मर) were indistinct or not evident (अ-विशद)
            • लज्जावशात् = since they were under the control (वश) of shyness (लज्जा)
  1. श्लोकः

मूलपाठः

विद्ययेव त्रयीदृष्ट्या दर्भपत्राग्रधीः सुधीः ।
राजपुत्र्या तया रामः प्रपेदे प्रीतिमुत्तमाम् ॥ ११७ ॥

पदच्छेदः

विद्यया, इव, त्रयी-दृष्ट्या, दर्भ-पत्र-अग्र-धीः, सुधीः, राज-पुत्र्या, तया, रामः, प्रपेदे, प्रीतिम्, उत्तमाम्

अन्वयार्थः

  • प्रपेदे = प्राप्तवान्
  • रामः
  • सुधीः = विद्वान्
  • दर्भपत्राग्रधीः = कुशाग्रमतिः
  • प्रीतिम् = आनन्दम्
  • उत्तमाम् = परमाम्
  • तया = सीतया
  • राजपुत्र्या = जनकमहाराजस्य दुहित्रा
  • सुधीः इव = विद्वान्
  • दर्भपत्राग्रधीः = निशितबुद्धिः
  • विद्यया = ज्ञानेन
  • त्रयीदृष्ट्या = वेदपर्यालोचनजनितेन

अन्वयः

दर्भपत्राग्रधीः सुधीः रामः तया राजपुत्र्या त्रयीदृष्ट्या विद्यया इव उत्तमां प्रीतिं प्रपेदे ।

आकाङ्क्षा

  • प्रपेदे
    • कः प्रपेदे ? रामः
      • कीदृशः रामः ? सुधीः
      • पुनः कीदृशः रामः ? दर्भपत्राग्रधीः
    • कां प्रपेदे ? प्रीतिम्
      • कीदृशीं प्रीतिम् ? उत्तमाम्
    • कया प्रपेदे ? तया
      • कीदृश्या तया ? राजपुत्र्या
    • कः इव प्रपेदे ? सुधीः इव
      • कीदृशः सुधीः ? दर्भपत्राग्रधीः
    • कया इव प्रपेदे ? विद्यया
      • कीदृश्या विद्यया ? त्रयीदृष्ट्या

तात्पर्यम्

यथा कश्चित् निशितबुद्धिः विद्वान् वेदपर्यालोचनजनितेन ज्ञानेन परमानन्दं प्राप्नोति, एवं कुशाग्रमतिः श्रीरामः सीतया परमानन्दं प्राप्तवान् ।

पदविवरणम्

  • त्रयीदृष्ट्या = त्रय्याः दृष्टिः, तया । “श्रुतिः स्त्री वेद आम्नायः त्रयी” (अमरः)
  • दर्भपत्राग्रधीः
    • दर्भपत्रम् = दर्भस्य पत्रम्
    • दर्भपत्राग्रम् = दर्भपत्रस्य अग्रम्
    • दर्भपत्राग्रधीः = दर्भपत्राग्रम् इव धीः यस्य सः । ईकारान्तः, पुं., प्र.वि., ए.व.
  • सुधीः = शोभना धीः यस्य सः । ईकारान्तः, पुं., प्र.वि., ए.व. । “विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदो बुधः” (अमरः) । सुधीः, सुधियौ, सुधियः

रामायणप्रसङ्गः

  • [“मधुमयफणितीनां मार्गदर्शी महर्षिः”]
  • रामस्तु सीतया सार्धं विजहार बहूनृतून् ।
    मनस्वी तद्गतस्तस्याः नित्यं हृदि समर्पितः ॥
  • तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते ।
    अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा ॥

अलङ्कारः

  • उपमालङ्कारः

छन्दः

  • अनुष्टुप् (श्लोकः)

Word-Meaning

  • रामः = Rama
    • सुधीः = an intelligent person
    • दर्भपत्राग्रधीः = he whose intellect (धी) is sharp as the edge (अग्र) of the Darbha grass (दर्भ-पत्र)
  • प्रपेदे = obtained
    • उत्तमाम् = supreme
      • प्रीतिम् = happiness
    • तया = with Sita
      • राजपुत्र्या = with her, who is the daughter of King Janaka
    • सुधीः इव = like an intelligent person
      • दर्भपत्राग्रधीः = he whose intellect (धी) is sharp as the edge (अग्र) of the Darbha grass (दर्भ-पत्र)
      • विद्यया = with knowledge (विद्या)
        • त्रयीदृष्ट्या = with that which is got on perceiving (दृष्टि) and studying the Vedas (त्रयी)

इति विदर्भराजविरचिते चम्पूरामायणे बालकाण्डं समाप्तम् ।

Thus (इति) ends (समाप्तम्) the Balakanda (बालकाण्डम्) in the Champuramayana (चम्पूरामायण) written (विरचित) by the king (राज) of Vidarbha (विदर्भ).

References:

  1. http://sanskritfromhome.in/course/champuramayana

Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. In all, there were 43 sessions, in a span of over a year’s time, from 23rd October 2017 till 26th November 2018. Online classes were held on Mondays, between 10.00 AM and 11.00 AM IST.

  1. English translation
    http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html
  2. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF – https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up
  3. Original Text (included in wikisource based on Smt. Sowmya’s material) — wikisource.org/wiki/चम्पूरामायणम्/बालकाण्डः
  4. Downloadable file with these notes are also available in https://nivedita2015.wordpress.com/sanskrit-kavyas/bhojas-champuramayanam-balakandam/

Other References:

  1. Word-Meanings – http://spokensanskrit.org/
  2. Word-Meanings – http://sanskritdictionary.com/
  3. Dhatu – http://ashtadhyayi.com/dhatu/
  4. Morphological Analyzer – http://sanskrit.uohyd.ac.in/scl/
  5. Chandas – https://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/