(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #18

 

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

 

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #17

The draft notes is placed here. Refer the page mentioned below for the updated notes.

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.

19/4/18 पुनःस्मारणम्

तदनु सरभसमारक्षिकरक्षोगणनिवेदितप्रमदावनकदनकुपितदशवदनप्रेषितान्पितृपति-किङ्कर-भयङ्करा४न्किङ्करान्प्रहस्तपुत्रेण जम्बुमालिना सह निहत्य चैत्यतोरणमुपगतवति हनूमति ।

पदच्छेदः

तदनु, सरभसम्, आरक्षिक-रक्षोगण-निवेदित-प्रमदावन-कदन-कुपित-दशवदन-प्रेषितान्, पितृपति-किङ्कर-भयङ्करान्, किङ्करान्, प्रहस्तपुत्रेण, जम्बुमालिना सह, निहत्य,चैत्यतोरणम्, उपगतवति, हनूमति ।

सरभसम्  = त्वरया / सत्वरम्

प्रमदः = अशोकः, हर्षः

कदनम् = नाशनम् (कद् वैक्लव्ये (कदते) + ल्युट्)

पितृपति-किङ्कर-भयङ्करान् =  यम-दूत-क्रूरान्

चैत्यतोरणम् = प्रासादद्वार्स्य उपरितनभागः

प्रहस्तः कः ?  सेनाध्यक्षः

 

पितृपतिकिङ्करभयङ्करान् –

“तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम्

निर्ययुर्भवनात् तस्मात् कूटमुद्गरपाणयः ।”

 

पुनरपि निशमितामितनिशिचरगणमारणो रावणः सचिवान्पञ्च पञ्चाननपराक्रमान्प्रहसन-प्रमुखान्वलीमुखं जीवग्राहं गृह्णीध्वमिति प्राहिणोत् ।

पदच्छेदः

पुनरपि, निशमित-अमित-निशिचर-गणमारणः, रावणः, सचिवान्, पञ्च, पञ्चानन-पराक्रमान्, प्रहसन-प्रमुखान्, वलीमुखम्, जीवग्राहम्, गृह्णीध्वम्, इति, प्राहिणोत् ।

 

निशमितम् = श्रुतम्

अमितनिशिचरगणमारणम् = असङ्ख्याक-राक्षस-समूह-वधः

निशमितम् अमितनिशिचरगणमारणं येन सः (रावणः)

सचिवान् पञ्च

पञ्चाननपराक्रमान् प्रहसनप्रमुखान् = सिंहसदृशशूरान् प्रहसनादीन् / प्रहस्तादीन्

वलीमुखः = वानरः (वल्यः (रेखाः) मुखे यस्य सः)

जीवग्राहम् (अव्ययम्) = जीवन्तम्

गृह्णीध्वम् = गृह्णन्तु ।

प्राहिणोत् = प्रेषितवान् । ‘हि’ गति वृद्धौ हिनोति

 

निशमितामितनिशिचरगणमारणः…..

न कश्चिदुदेशो यस्तेन न विनाशितः ।

यत्र सा जानकी देवी स तेन न विनाशितः ॥

 

सचिवान् पञ्च प्राहिणोत् –

स विरूपाक्ष-यूपाक्षौ दुर्धरं चैव राक्षसम् ।

प्रघसं भासकर्णं च पञ्च सेनाग्रनायकान् ॥ २/४६

सन्दिदेश दशग्रीवो वीरान् नयविशारदान् । ३/४६

 

तत्र तानपि तोरणपरिघेण पञ्च पञ्चतां नीत्वा मुहुर्मुहुर्दाशरथिदूतोऽहमित्यात्मानमुद्घोषयन्तं हनूमन्तं नियन्तुं नियन्ता निखिलरक्षसामध्यक्षमक्षकुमारमध्यक्षिपत् ।

पदच्छेदः

तत्र, तान्, अपि, तोरण-परिघेण, पञ्च, पञ्चताम्, नीत्वा, मुहु-र्मुहुः, दाशरथिदूतः, अहम्, इति, आत्मानम्, उद्घोषयन्तम्, हनूमन्तम्, नियन्तुम्, नियन्ता, निखिल-रक्षसाम्,अध्यक्षम्, अक्षकुमारम्, अध्यक्षिपत् ।

 

तोरणपरिघेण – तोरणे स्थितेन अर्गलेन

पञ्च – पञ्च सचिवान्

पञ्चतां नीत्वा = हत्वा

नियन्तुम् – निग्रहीतुम्

निखिलरक्षसां नियन्ता – सकलराक्षसानाम् अधिपतिः

अध्यक्षः – अक्ष्णोः पुरः अवस्थितः  (सेनाध्यक्षः)

अध्यक्षिपत् – निन्दितवान्

वक्षःसंघट्टचूर्णीकृतकनकमहाभित्तिचैत्योत्थधूल्या                                                                             नक्षत्राणामकाले सरणिमरुणयन्वीरलक्ष्म्या समेतः ।                                                                                   रक्षःशूराख्यशारां क्षितितलफलके क्षेपणीयां हनूमान्                                                          अक्षक्रीडां विधातुं दशमुखनगरीचत्वरे तत्वरेऽसौ  ॥३८॥

पदच्छेदः                           

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या, नक्षत्राणाम्, अकाले, सरणिम्, अरुणयन्, वीरलक्ष्म्या, समेतः, रक्षःशूराख्यशाराम्, क्षितितलफलके, क्षेपणीयाम्,हनूमान्, अक्षक्रीडाम्, विधातुम्, दशमुख-नगरी-चत्वरे, तत्वरे, असौ ।

प्रतिपदार्थः

वक्षःसंघट्ट-चूर्णीकृत-कनकमहाभित्ति-चैत्योत्थधूल्या = वक्षःस्थलस्य सङ्घर्षणेन                                                प्रासादस्य उन्नतस्वर्णभित्तयः चूर्णतां प्रापिताः                                                अभवन् । तस्मात् उद्गतेन स्वर्णमयेन रजसा,

नक्षत्राणाम् अकाले सरणिम् अरुणयन् =  निशावेलायाम् अनासन्नायाम् अपि                                                           तारकानां पदवीम् (आकाशम्) संरञ्जयन्

वीरलक्ष्म्या समेतः = महावीरः हनूमान्

रक्षःशूराख्यशाराम् = राक्षसयोधाः एव अक्षगुटिकाः यस्यां (अक्षकीडायाम्), तादृशीं

क्षितितलफलके = भूतलम् एव अक्षपटम्, तस्मिन्

क्षेपणीयाम् = निपातनीयाम्

हनूमान् = मारुतिः

अक्षक्रीडाम्  = अक्षकुमारसंहाररूपां क्रीडाम्

विधातुम् = रचयितुम्

दशमुख-नगरी-चत्वरे = लङ्कापुरस्य प्राङ्गणे

तत्वरे  = त्वरां कृतवान्

असौ = अयम् हनूमान् ।

आकाङ्क्षा

तत्वरे ।

कः तत्वरे ?

कीदृशः असौ ?

कुत्र तत्वरे ?

किं कर्तुं तत्वरे ?

कां विधातुम् ?

कुत्र विधातुम् ?

कीदृशीम् अक्षक्रीडाम् ?

पुनः कीदृशीम् अक्षक्रीडाम् ?

कीदृशः असौ तत्वरे ?

कया समेतः ?

पुनः कीदृशः असौ तत्वरे ?

काम् अरुणयन् ?

केषां सरणिम् ?

कदा अरुणयन् ?

कया अरुणयन् ?

विशेषः

 

================================

19/4/18 वर्गः

तत्क्षणं क्षणदाचराणां मिषतामेव निष्पादित-रङ्ग-निष्पेष-कृत्यश्चैत्य-प्रासादमुत्पाटित-स्तम्भ-जात-जातवेदसा दग्ध्वा भूयोप्युपाश्रिततोरणः समीरणसुतो बभूव । एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेर्युगपदेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोर्विंशतिदृष्टयः ।

पदच्छेदः

तत्क्षणम्, क्षणदाचराणाम्, मिषताम्, एव, निष्पादित-रङ्ग-निष्पेष-कृत्यः, चैत्यप्रासादम्, उत्पाटित-स्तम्भ-जात-जातवेदसा, दग्ध्वा, भूयः, अपि, उपाश्रित-तोरणः समीरणसुतः,बभूव । एनम्, अपि, वृत्तान्तम्, श्रुत्वा, कुपितस्य, निशाचरपतेः, युगपत्, एव, निपेतुः, पुत्रे, सुत्रामजिति, समितिहेतोः, विंशतिदृष्टयः ।

 

अन्वयः प्रतिपदार्थः च

निष्पादितरङ्गनिष्पेषकृत्यः = रणभूमौ अक्षसंहारः येन कृतः, तादृशः (हनूमान्)

तत्क्षणम् = सपदि एव

क्षणदाचराणां मिषताम् एव = राक्षसानां पश्यताम् (षष्ठी चानादरे), पश्यतः                                                    राक्षसान् अनादृत्य इति भावः

उत्पाटित-स्तम्भ-जात-जातवेदसा = स्तम्भस्य समुन्मूलनेन उत्पन्नाग्निना

चैत्यप्रासादम् दग्ध्वा = चैत्यगोपुरं भस्मीकृत्य

भूयः अपि = पुनरपि

उपाश्रित-तोरणः = तोरणान्तरम् आरूढः

समीरणसुतः = पवनपुत्रः

बभूव  = अभवत् ।

एनम् अपि वृत्तान्तं श्रुत्वा = अक्षकुमारवधं तोरणदहनं च आकर्ण्य

कुपितस्य निशाचरपतेः = रुष्टस्य राक्षसराजस्य

विंशतिदृष्टयः = विंशतिसङ्ख्याकानि नेत्राणि

युगपत् एव  = तस्मिन् क्षणे एव

समितिहेतोः = युद्धाय (युद्धस्य कृते)

पुत्रे सुत्रामजिति = सुते इन्द्रजिति

निपेतुः = अपतन् ।

भावार्थः

 

अनिमिषभुवने वा व्योम्नि वा भूतले वा

       समरमुपगतं त्वां वीक्षितुं कः समर्थः ।      

इति नुतिवचनेन श्लाघयन्मेघनादं

       प्लवगमिह नयेति प्राहिणोद्राक्षसेन्द्रः  ॥३९॥

पदच्छेदः

अनिमिष-भुवने, वा, व्योम्नि, वा, भूतले, वा, समरम्, उपगतम्, त्वाम्, वीक्षितुम्, कः, समर्थः, इति, नुति-वचनेन, श्लाघयन्, मेघनादम्, प्लवगम्, इह, नय, इति, प्राहिणोत्,राक्षसेन्द्रः ।

प्रतिपदार्थः

अनिमिषभुवने वा = देवलोके वा

व्योम्नि वा = आकाशे वा

भूतले वा = पृथिव्यां वा

समरम् उपगतं त्वाम् = युद्धभूमिं प्राप्तं त्वां

वीक्षितुम् = द्रष्टुम् (अपि)

कः समर्थः इति = कः शक्तः इति

नुति-वचनेन श्लाघयन् = प्रेरणावचसा प्रशंसन्

मेघनादम्  = पुत्रम् इन्द्रजितम्

प्लवगम् इह नय इति = वानरम् अत्र आनय इति

प्राहिणोत्  = प्रेषितवान्

राक्षसेन्द्रः  = निशाचरपतिः

अन्वयः

अनिमिष-भुवने वा व्योम्नि वा भूतले वा समरम् उपगतम् त्वाम् वीक्षितुम् कः समर्थः, (कोऽपि न समर्थः), इति नुति-वचनेन श्लाघयन् राक्षसेन्द्रः प्लवगम् इह नय इतिमेघनादं प्राहिणोत् ।

श्रीमद्वाल्मीकिरामायणे

त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः

सुरासुराणामपि शोकदाता ।

सुरेषु सेन्द्रेषु च दृष्टकर्मा

पितामहाराधनसञ्चितास्त्रः ॥ ४८/२

 

नेतुं शोकरसं निशाचरपतेर्हन्तुं चमूं रक्षसां

                     तस्यान्तःपुरयोषितां रचयितुं मानं विना रोदनम् ।  

सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीमग्निना  

                      शुद्धां कर्तुममुष्य वासवजिता जातो रणस्तोरणे  ॥४०॥

 

पदच्छेदः

नेतुम्, शोकरसम्, निशाचरपतेः, हन्तुम् ,चमूम्, रक्षसाम्, तस्य, अन्तःपुरयोषिताम्, रचयितुम्, मानम्, विना, रोदनम्, सूर्याचन्द्रमसोः, प्रवेशविकलाम्, लङ्कापुरीम्, अग्निना ,शुद्धाम्, कर्तुम्, अमुष्य, वासवजिता, जातः, रणः, तोरणे ।

  

 

प्रतिपदार्थः

नेतुम् शोकरसं निशाचरपतेः = प्रापयितुं विषादं रावणस्य

हन्तुम् चमूं रक्षसाम् = नाशयितुं सेनां राक्षसानाम्

तस्य अन्तःपुरयोषिताम् रचयितुम् = रावणस्य अवरोधस्‍त्रीणां कर्तुम्

मानं विना रोदनम् = सीमां विना क्रन्दनम्

सूर्याचन्द्रमसोः = दिवाकरनिशाकरयोः

प्रवेशविकलां लङ्कापुरीम् = प्रवेशदुर्लभां लङ्कानगरीम्

अग्निना शुद्धां कर्तुम् = वह्निना पावयितुम्

अमुष्य = अस्य (हनूमतः)

वासवजिता = मेघनादेन (सह)

जातः रणः = अभवद् युद्धम्

तोरणे = बहिर्द्वारे

आकाङ्क्षा

जातः (अभवत्) – मुख्यक्रिया

नेतुं, हन्तुं, रचयितुं, कर्तुम् – सहायकक्रियाः

कः जातः ? रणः

रणः कुत्र जातः ? तोरणे

कस्य ? अमुष्य (हनूमतः)

केन (सह) ? वासवजिता

किं कर्तुम् ? नेतुम्

कं (प्रति) नेतुम् ? शोकरसम्

कस्य ? निशाचरपतेः

पुनः किं कर्तुम् ? हन्तुम्

कां हन्तुम् ? चमूम्

केषां चमूम् ? रक्षसाम्

पुनः किं कर्तुम् ? रचयितुम्

किं रचयितुम् ? मानं विना रोदनम्

कासाम् ? अन्तःपुरयोषिताम्

कस्य अन्तःपुरयोषिताम् ? तस्य (रावणस्य)

पुनः किं कर्तुम् ? शुद्धां कर्तुम्

कां शुद्धां कर्तुम् ? लङ्कापुरीम्

कीदृशीं लङ्काम् ? प्रवेशविकलाम्

कयोः प्रवेशविकलाम् ? सूर्यचन्द्रमसोः

केन शुद्धां कर्तुम् ? अग्निना

 

अन्वयः

निशाचरपतेः शोकरसं नेतुं, रक्षसां चमूं हन्तुं, तस्य अन्तःपुरयोषितां मानं विना रोदनं रचयितुं, सूर्याचन्द्रमसोः प्रवेशविकलां लङ्कापुरीम् अग्निना शुद्धां कर्तुम्, अमुष्यवासवजिता तोरणे रणः जातः ।

संग्रामदुर्दिने तस्मिञ्जहर्ष शरवर्षिणि ।

बर्हीव मेघनादेन मेघनादेन मारुतिः ॥ ४१॥

 

पदच्छेदः

संग्राम-दुर्दिने, तस्मिन्, जहर्ष, शर-वर्षिणि, बर्ही, इव, मेघनादेन,                                         मेघनादेन, मारुतिः ।

प्रतिपदार्थः

संग्राम-दुर्दिने तस्मिन् = युद्धरूपमेघाच्छन्नदिवसे तस्मिन् (दुर्दिनम् – मेघाच्छन्नं                                                                                  दिनम)

जहर्ष =  हृष्टवान्

शर-वर्षिणि = शरान् वर्षति इति / शराणि वर्षति इति, तथोक्ते (शरवर्शिणि दुर्दिने)

(शरः = बाणः, शरम् = नीरम्)

बर्ही इव मेघनादेन  = मयूरः इव घनगर्जितेन

मेघनादेन मारुतिः = इन्द्रजिता हनूमान् ।

आकाङ्क्षा

जहर्ष

कः जहर्ष ? मारुतिः

केन जहर्ष ? मेघनादेन

कदा जहर्ष ? तस्मिन् सङ्ग्रामदुर्दिने

कीदृशे सङ्ग्रामदुर्दिने ? शरवर्षिणि

कः इव जर्ष ? बर्ही मेघनादेन इव

अन्वयः

तस्मिन् शरवर्षिणि सङ्ग्रामदुर्दिने बर्ही मेघनादेन इव मारुतिः मेघनादेन जहर्ष ।

 

श्रीमद्वाल्मीकिरामयणे

इन्द्रजित् स रथं दिव्यं तूर्णं=मिन्द्रध्वजं कपिः ।

ननाद च महानादं व्यवर्धत च वेगवान् ॥ ४८ /२४

 

तदनु यातुधानबलप्रधाननिधनक्रुद्धो विविधायुधवैतथ्यं विमृश्य विजयश्रीसंगतगन्धं गन्धवहनन्दनं सतानन्दास्त्रेण बबन्ध दशकन्धरात्मजः ।

पदच्छेदः

तदनु, यातुधान-बल-प्रधान-निधन-क्रुद्धः, विविधायुध-वैतथ्यम्, विमृश्य, विजयश्रीसंगत-गन्धम्, गन्धवह-नन्दनम्, सतानन्दास्‍त्रेण, बबन्ध, दशकन्धरात्मजः ।

अन्वयः

तदनु यातुधान-बल-प्रधान-निधन-क्रुद्धः दशकन्धरात्मजः विविधायुध-वैतथ्यं विमृश्य   विजयश्रीसंगतगन्धं गन्धवह-नन्दनं सतानन्दास्‍त्रेण बबन्ध ।

 

भावार्थः

ततः परं राक्षस-सेना-नायकानां संहारेण कुपितः दशग्रीवपुत्रः हनूमति नानाविधानाम् अस्‍त्राणाम् व्यर्थतां विगणय्य विजयलक्ष्म्याः सम्बन्धं प्राप्तवन्तं तं पवनपुत्रं ब्रह्मास्‍त्रेण निगृहीतवान् ।

Sri Sudarshanaashtakam – Anvaya, Meaning

श्रीसुदर्शनाष्टकम् – श्रीवेदान्तदेशिकेन कृतम्
Srisudarshanaashtakam by Swami Vedanta Desikan

Sudharshana

1.  श्लोकः

प्रतिभटश्रेणिभीषण वरगुणस्तोमभूषण जनिभयस्थानतारण जगदवस्थानकारण ।
निखिलदुष्कर्मकर्शन निगमसद्धर्मदर्शन जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

प्रतिभट-श्रेणि-भीषण, वर-गुण-स्तोम-भूषण, जनि-भय-स्थान-तारण, जगत्+अवस्थान-कारण, निखिल-दुष्कर्म-कर्शन, निगम-सत्+धर्म-दर्शन, जय, जय, श्री-सुदर्शन, जय, जय, श्री-सुदर्शन

आकाङ्क्षा

  • हे प्रतिभटश्रेणिभीषण ।
  • हे वरगुणस्तोमभूषण ।
  • हे जनिभयस्थानतारण ।
  • हे जगदवस्थानकारण ।
  • हे निखिलदुष्कर्मकर्शन ।
  • हे निगमसद्धर्मदर्शन ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

  • (हे) प्रतिभटश्रेणिभीषण । (हे) वरगुणस्तोमभूषण । (हे) जनिभयस्थानतारण । (हे) जगदवस्थानकारण । (हे) निखिलदुष्कर्मकर्शन । (हे) निगमसद्धर्मदर्शन । (त्वं) जय । (त्वं) जय । (हे) श्रीसुदर्शन । (त्वं) जय । (त्वं) जय । (हे) श्रीसुदर्शन ।

पदपरिचयः

  • प्रतिभटश्रेणिभीषण
    • प्रतिभटः = शत्रुः
    • श्रेणिः = गणः
    • प्रतिभटश्रेणिः = प्रतिभटानां श्रेणिः
    • भीषणः = भीषयते इति । भी ”ञिभी भये” + णिच् + सुक् + ल्यु
    • प्रतिभटश्रेणिभीषण = प्रतिभटश्रेण्याः भीषणः, संबोधनप्रथमा
  • वरगुणस्तोमभूषण
    • वर.. = श्रेष्ठ..
    • वरगुणाः = वराः गुणाः
    • वरगुणस्तोमः = वरगुणानां स्तोमः
    • भूषणः = भूषयति भक्तबृन्दमिति भूष्यतेऽनेनेति वा । भूष + ल्युः वा ल्युट् ।
    • वरगुणस्तोमभूषण
      • वरगुणस्तोमस्य भूषणः, संबोधने
      • (अथवा) वरगुणस्तोमः एव भूषणं यस्य सः, संबोधने
    • जनिभयस्थानतारण
      • जनिभयम् = जन्याः भयम्
      • जनिभयस्थानम् = जनिभयस्य स्थानम्
      • तारणः = तारयतीति । तॄ + णिच् + ल्युः ।
      • जनिभयस्थानतारण = जनिभयस्थानस्य तारणः, संबोधने
    • जगदवस्थानकारण
      • जगदवस्थानम् = जगतः अवस्थानम्
      • कारणः = कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति । कृ + णिच् + ल्यु
      • जगदवस्थानकारण = जगदवस्थानस्य कारणः, संबोधने
    • निखिलदुष्कर्मकर्शन
      • दुष्कर्म = दुरितम् कर्म / दुष्टम् कर्म
      • निखिलदुष्कर्माणि = निखिलानि दुष्कर्माणि / निखिलानां दुष्कर्माणि
      • कर्शनः / कर्षणः = कृश् / कृष् + भावे ल्युट् । कर्षति = पीडयति
      • निखिलदुष्कर्मकर्शन = निखिलदुष्कर्मणां कर्शनः, संबोधने
    • निगमसद्धर्मदर्शन
      • सद्धर्म = सत् च असौ धर्मः
      • निगमसद्धर्म = निगमानां सद्धर्म
      • दर्शनः = दृश्यतेऽनेनेति । दृश् + करणे ल्युट्
      • निगमसद्धर्मदर्शन = निगमसद्धर्माणां दर्शनः, संबोधने
    • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

छन्दः

Dhriti धृतिः (18×4, one of the 17 varieties of Dhriti)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18
गु गु गु गु गु गु
प्र ति श्रे णि भी गु स्तो भू
नि स्था ता स्था का
नि खि दु ष्क र्म र्श नि द्ध र्म र्श
श्री सु र्श श्री सु र्श

Word Meaning

  • प्रतिभटश्रेणिभीषण = O causer of fear (भीषण) to the groups (श्रेणि) of enemies (प्रतिभट), (i.e., warriors भट belonging to the opposite side प्रति)
  • वरगुणस्तोमभूषण = O one who is an ornament (भूषण) for the supreme god, who is a collection (स्तोम) of superior (वर) good qualities (गुण)
  • जनिभयस्थानतारण = O one who leads us to cross (तारण) the ocean of Samsara, which is the place (स्थान) of the fear (भय) of birth (जनि)
  • जगदवस्थानकारण = O one who is responsible (कारण) for the stability (अवस्थान) of the universe (जगत्)
  • निखिलदुष्कर्मकर्शन = O one who is the destroyer (कर्शन) of all (निखिल) the wicked actions (दुष्कर्म)
    • or the destroyer (कर्शन) of all (निखिल) doers of wicked actions (दुष्कर्मन्)
    • or the destroyer (कर्शन) of the wicked actions (दुष्कर्म) of all the people (निखिल)
  • निगमसद्धर्मदर्शन = O one who reveals (दर्शन) the good (सत्) Dharma (धर्म) of the Vedas (निगम)
  • (त्वं) जय । (हे) श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

2.  श्लोकः

शुभजगद्रूपमण्डन सुरगणत्रासखण्डन शतमखब्रह्मवन्दित शतपथब्रह्मनन्दित ।
प्रथितविद्वत्सपक्षित भजदहिर्बुध्न्यलक्षित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

शुभ-जगद्-रुप-मण्डन सुर-गण-त्रास-खण्डन शत-मख-ब्रह्म-वन्दित शत-पथ-ब्रह्म-नन्दित
प्रथित-विद्वत्-सपक्षित भजत्-अहिर्बुध्न्य-लक्षित जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे शुभजगद्रूपमण्डन ।
  • हे सुरगणत्रासखण्डन ।
  • हे शतमखब्रह्मवन्दित ।
  • हे शतपथब्रह्मनन्दित ।
  • हे प्रथितविद्वत्सपक्षित ।
  • हे भजदहिर्बुध्न्यलक्षित ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे शुभजगद्रूपमण्डन । हे सुरगणत्रासखण्डन । हे शतमखब्रह्मवन्दित । हे शतपथब्रह्मनन्दित । हे प्रथितविद्वत्सपक्षित । हे भजदहिर्बुध्न्यलक्षित । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • शुभजगद्रूपमण्डन
    • शुभजगत् = शुभं च तत् जगत्
    • शुभजगद्रूपः = शुभजगत् रूपं यस्य सः (विष्णुः)
    • मण्डनः = मण्ड्यते अनेन इति । मडि भूषे + करणे ल्युट् । भूषणम् ।
    • शुभजगद्रूपमण्डन = शुभजगद्रूपस्य मण्डनः, संबोधने
  • सुरगणत्रासखण्डन
    • सुरगणः = सुराणां गणः
    • सुरगणत्रासम् = सुरगणानां त्रासं भयम्
    • खण्डनः = खण्डयति इति । खडि भावे + ल्युट् । भञ्जनम् । भेदनम् । निराकरणम् । छेदनम् ।
    • सुरगणत्रासखण्डन = सुरगणत्रासस्य खण्डनः, संबोधने
  • शतमखब्रह्मवन्दित
    • मखः = यज्ञः
    • शतमखः = शतमखाः येन कृतं सः (इन्द्रः = शतक्रतुः)
    • शतमखब्रह्माणौ = शतमखः च ब्रह्मा च
    • वन्दितः = वन्द् “वदिँ अभिवादनस्तुत्योः” + क्त
    • शतमखब्रह्मवन्दित = शतमखब्रह्मभ्यां वन्दितः, संबोधने
  • शतपथब्रह्मनन्दित
    • शतपथब्रह्म = शतपथब्राह्मणम् इति शुक्लयजुर्वेदीयब्राह्मणम्
      • अथवा ऋग्वेदः यतः तस्य शताधिक शाकाः सन्ति, वेदस्य पर्यायपदम् अस्ति ब्रह्म
    • नन्दितः = नन्द् “टुनदिँ समृद्धौ” + क्त
    • शतपथब्रह्मनन्दित = शतपथब्रह्मनेन नन्दितः बहुमानितः, संबोधने
  • प्रथितविद्वत्सपक्षित
    • प्रथितविद्वांसः = प्रथिताः प्रसिद्धाः विद्वांसः
    • पक्षितः = पक्ष् “पक्षँ परिग्रहे” + क्त
    • प्रथितविद्वत्सपक्षित = प्रथितविद्वद्भिः सपक्षितः, संबोधने
  • भजदहिर्बुध्न्यलक्षित
    • अहिर्बुध्न्यः = शम्भुः शिवः
    • भजत्+अहिर्बुध्न्यः = भजतः सेवितः अहिर्बुध्न्यः
    • लक्षितः = लक्ष् “लक्षँ दर्शनाङ्कनयोः” + क्त
    • भजदहिर्बुध्न्यलक्षित = भजदहिर्बुध्न्येन लक्षितः साक्षात्कृतः, संबोधने
  • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

Word Meaning

  • शुभजगद्रूपमण्डन = O one who is adorned (मण्डन) by Vishnu, whose form (रूप) is verily the auspicious (शुभ) world (जगत्)
  • सुरगणत्रासखण्डन = O one who is shatters (खण्डन) into pieces the fear (त्रास) of the groups (गण) of Devas (सुर)
  • शतमखब्रह्मवन्दित = O one who is worshipped (वन्दित) by Indira, (शतमख), [e., the doer of a hundred (शत) yagnas (मख)] and Brahma (ब्रह्म)
  • शतपथब्रह्मनन्दित = O one who is respected (नन्दित) by the Satapatha Braahmanaa (शतपथब्रह्म), the text associated with the Shukla Yajur Veda
    • Or the Rig Veda ब्रह्म, which has over 100 (शत) branches (पथ)
  • प्रथितविद्वत्सपक्षित = O one who is taken into their side (सपक्षित) by the celebrated (प्रथित) wise men (विद्वत्)
  • भजदहिर्बुध्न्यलक्षित = O one who is recognized (लक्षित) by Shiva (अहिर्बुध्न्य), who was worshipping (भजत्) Sudharshana
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

3.  श्लोकः

स्फुटतटिज्जालपिञ्जर पृथुतरज्वालपञ्जर परिगतप्रत्नविग्रह परिमितप्रज्ञदुर्ग्रह ।
प्रहरणग्राममण्डित परिजनत्राणपण्डित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पाठभेदः

पतुतरप्रज्ञदुर्ग्रह

पदच्छेदः

स्फुट-तटित्-जाल-पिञ्जर पृथुतरज्वाल-पञ्जर परिगत-प्रत्न-विग्रह पतुतरप्रज्ञ-दुर्ग्रह
प्रहरण-ग्राम-मण्डित परिजन-त्राण-पण्डित जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे स्फुटतटिज्जालपिञ्जर ।
  • हे पृथुतरज्वालपञ्जर ।
  • हे परिगतप्रत्नविग्रह ।
  • हे परिमितप्रज्ञदुर्ग्रह / (पतुतरप्रज्ञदुर्ग्रह) ।
  • हे प्रहरणग्राममण्डित ।
  • हे परिजनत्राणपण्डित ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे स्फुटतटिज्जालपिञ्जर । हे पृथुतरज्वालपञ्जर । हे परिगतप्रत्नविग्रह । हे परिमितप्रज्ञदुर्ग्रह / (पतुतरप्रज्ञदुर्ग्रह) । हे प्रहरणग्राममण्डित । हे परिजनत्राणपण्डित । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • स्फुटतटिज्जालपिञ्जर
    • स्फुटतटित् = स्फुटं च तत् तटित्
    • स्फुटतटिज्जालः = स्फुटतटितः जालः
    • स्फुटतटिज्जालपिञ्जर = स्फुटतटिज्जालस्य पिञ्जरः, संबोधने
  • पृथुतरज्वालपञ्जर
    • पृथुतर = पृथु + तरप् प्रत्ययः । वरीयस् इत्यर्थः ।
    • पृथुतरज्वालः = पृथुतरः च असौ ज्वालः
    • पृथुतरज्वालपञ्जर = पृथुतरज्वालस्य पञ्जरः, संबोधने
  • परिगतप्रत्नविग्रह
    • परिगत = अभिगत
    • प्रत्न.. = पुरातन..
    • प्रत्नविग्रहः = प्रत्नः च असौ विग्रहः
    • परिगतप्रत्नविग्रह = परिगताः प्रत्नविग्रहाः यस्य सः, संबोधने
  • पतुतरप्रज्ञदुर्ग्रह / परिमितप्रज्ञदुर्ग्रह
    • पतुः = पटुः । पतुतरः = पतु + तरप् प्रत्ययः । पतुतरप्रज्ञः = पतुतरा प्रज्ञा यस्य सः
    • परिमितप्रज्ञः = परिमिता प्रज्ञा यस्य सः
    • दुर्ग्रहः = ग्रहणे अशक्यः
    • पतुतरप्रज्ञदुर्ग्रह = पतुतरप्रज्ञानां दुर्ग्रहः, संबोधने
    • परिमितप्रज्ञदुर्ग्रह = परिमितप्रज्ञानां दुर्ग्रहः, संबोधने
  • प्रहरणग्राममण्डित
    • प्रहरणम् = आयुधः
    • ग्रामम् = समूहः
    • प्रहरणग्रामम् = प्रहरणानां ग्रामम्
    • प्रहरणग्राममण्डित = प्रहरणग्रामेण मण्डितः, संबोधने
  • परिजनत्राणपण्डित
    • परिजनाः = ये जनाः तं आश्रयन्ति
    • त्राणम् = रक्षणम्
    • परिजनत्राणम् = परिजनानां त्राणम्
    • पण्डितः = पटुः
    • परिजनत्राणपण्डित = परिजनत्राणे पण्डितः, संबोधने
  • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

Word Meaning

  • स्फुट-तटित्-जाल-पिञ्जर = O one who shines in the golden color (पिञ्जर) of the assembly (जाल) of resplendent (स्फुट) lightning (तटित्)
  • पृथुतर-ज्वाल-पञ्जर = O one who is like a cage (पञ्जर) encompassing the broader (पृथुतर) flame (ज्वाल)
  • परिगतप्रत्नविग्रह = O one who is surrounded (परिगत) by the ancient (प्रत्न) forms (विग्रह), referring to the forms of Vishnu namely Vasudeva, Sankarshana and other vyuha murtis that are present around the Sudharshana yantra
  • परिमितप्रज्ञदुर्ग्रह / पतुतरप्रज्ञदुर्ग्रह = O one who is not graspable (दुर्ग्रह) even by those scholars possessing limited (परिमित) [Another version mentions superior (पतुतर)] intellects (प्रज्ञा)
  • प्रहरणग्राममण्डित = O one who is decorated (मण्डित) with the collection (ग्राम) of the weapons (प्रहरण)
  • परिजनत्राणपण्डित = O one who is an expert (पण्डित) in protecting (त्राण) his followers (परिजन)
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

4.  श्लोकः

निजपदप्रीतसद्गण निरुपधिस्फीतषड्गुण निगमनिर्व्यूढवैभव निजपरव्यूहवैभव ।
हरिहयद्वेषिदारण हरपुरप्लोषकारण जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

निज-पद-प्रीत-सद्गण निर्+उपधि-स्फीत-षड्-गुण निगम-निर्व्यूढ-वैभव निज-पर-व्यूह-वैभव
हरिहय-द्वेषि-दारण हर-पुर-प्लोष-कारण जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे निजपदप्रीतसद्गण ।
  • हे निरुपधिस्फीतषड्गुण ।
  • हे निगमनिर्व्यूढवैभव ।
  • हे निजपरव्यूहवैभव ।
  • हे हरिहयद्वेषिदारण ।
  • हे हरपुरप्लोषकारण ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे निजपदप्रीतसद्गण । हे निरुपधिस्फीतषड्गुण । हे निगमनिर्व्यूढवैभव । हे निजपरव्यूहवैभव । हे हरिहयद्वेषिदारण । हे हरपुरप्लोषकारण । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • निज-पद-प्रीत-सद्गण
    • निजपादौ = निजौ च तौ पादौ
    • निज-पद-प्रीतः = निजपादाभ्यां प्रीतिः यस्य सः
    • सद्गणः = सतां गणः
    • निज-पद-प्रीत-सद्गण = निज-पद-प्रीतः सद्गणः यस्य सः, संबोधने
  • निर्+उपधि-स्फीत-षड्-गुण
    • षड्गुणाः = षड् गुणाः = ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेजसः । एते एव भगः । एते गुणाः यस्मिन् अस्ति सः भगवान् ।
    • निर्+उपधिः = उपधि रहितम् = स्वाभाविकम्
    • स्फीतम् = परिपूर्णम्
    • निरुपधिस्फीताः = निरुपध्यः च ते स्फीताः
    • निरुपधिस्फीतषड्गुण = निरुपधिस्फीताः षड्गुणाः यस्मिन् सः, संबोधने
  • निगम-निर्व्यूढ-वैभव
    • निर्व्यूढम् = सुप्रतिष्ठापित
    • निगमनिर्व्यूढम् = निगमैः निर्व्यूढम्
    • निगम-निर्व्यूढ-वैभव = निगमनिर्व्यूढं वैभवं यस्य सः, संबोधने
  • निज-पर-व्यूह-वैभव
    • पर-व्यूहम् = परं व्यूहम् इत्यादि रूपाणि
    • निज-पर-व्यूहम् = निजं च तत् पर-व्यूहम्
    • निज-पर-व्यूह-वैभव = निज-पर-व्यूहम् इति वैभवं यस्य सः
  • हरिहय-द्वेषि-दारण
    • हरिहयः = इन्द्रः
    • द्वेषिणः = शत्रवः
    • हरिहय-द्वेषिणः = हरिहयस्य द्वेषिणः
    • दारणः = खण्डनः
    • हरिहय-द्वेषि-दारण = हरिहय-द्वेषिणां दारणः
  • हर-पुर-प्लोष-कारण
    • प्लोषः = दाहः
    • पुर-प्लोषः = पुराणां प्लोषः
    • हर-पुर-प्लोषः = हरेन कृतं पुर-प्लोषः
    • कारणः = कारयति क्रियानिवर्त्तनाय प्रवर्त्तयति । कृ + णिच् + ल्यु
    • हर-पुर-प्लोष-कारण = हर-पुर-प्लोषस्य कारणः, संबोधने
  • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

Word Meaning

  • निज-पद-प्रीत-सद्गण = O one who has the righteous people (सत्+गण) having affection and firm attachment (प्रीत) to one’s own (निज) feet (पद)
  • निरुपधि-स्फीत-षड्गुण = O one in whom the six divine qualities (षड्गुण) namely Gnaana, Bala, Aiswarya, Veerya, Shakti and Tejas are present naturally (निरुपधि) and in all completeness (स्फीत)
  • निगम-निर्व्यूढ-वैभव = O one whose glory (वैभव) is well-established (निर्व्यूढ) by the Vedas (निगम)
  • निज-पर-व्यूह-वैभव = O one who has the glory (वैभव) of having your own (निज) subtler forms like Para (पर) and Vyuha (व्यूह)
    • According to Paancharaatra (https://en.wikipedia.org/wiki/Para_Brahman), Parabrahman, manifests in five possible aspects: Para, Vyuha, Vibhava, Antaryamin, and Archa. Living beings can interact with the divine through one or another of these five:
      • Para: the invisible, formless, eternal supreme;
      • Vyuha: the invisible, impermanent supreme in form;
      • Avatara: also called the vaibhava, are the incarnations of the supreme in various yuga (eras in Hindu cosmology) such as the Dashavatara;
      • Antaryamin: not directly perceptible but can be inferred, the aspect of supreme whose presence can be felt by the devotee;
      • Archa: visible icon form, filled with symbolism, consecrated in temples or revered images inside home (Shalagrama, conch shell, festive decorations), a means to remember and meditate on the supreme.
    • हरिहय-द्वेषि-दारण = O one who is the destroyer (दारण) of the enemies (द्वेषि) of Indra (हरिहय)
    • हर-पुर-प्लोष-कारण = O one who is the reason (कारण) for Shiva’s (हर) burning (प्लोष) down of the Tripura cities (पुर) or O one who is the reason (कारण) for burning (प्लोष) down Shiva’s (हर) city (पुर) of Kashi
    • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

5.  श्लोकः

दनुजविस्तारकर्तन जनितमिस्राविकर्तन दनुजविद्यानिकर्तन भजदविद्यानिवर्तन ।
अमरदृष्टस्वविक्रम समरजुष्टभ्रमिक्रम जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

दनुज-विस्तार-कर्तन जनि-तमिस्रा-विकर्तन दनुजविद्या-निकर्तन भजत्+अविद्या-निवर्तन
अमर-दृष्ट-स्व-विक्रम समर-जुष्ट-भ्रमिक्रम जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे दनुजविस्तारकर्तन ।
  • हे जनितमिस्राविकर्तन ।
  • हे दनुजविद्यानिकर्तन ।
  • हे भजदविद्यानिवर्तन ।
  • हे अमरदृष्टस्वविक्रम ।
  • हे समरजुष्टभ्रमिक्रम ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे दनुजविस्तारकर्तन । हे जनितमिस्राविकर्तन । हे दनुजविद्यानिकर्तन । हे भजदविद्यानिवर्तन । हे अमरदृष्टस्वविक्रम । हे समरजुष्टभ्रमिक्रम । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • दनुजविस्तारकर्तन
    • कर्तनम् = विच्छेदनम्
    • दनुजः = दनोः अपत्यं पुमान् । दनुजाः = दानवः = असुराः ।
    • विस्तारः = वृद्धिः
    • दनुजविस्तारः = दनुजानां विस्तारः
    • दनुजविस्तारकर्तन = दनुजविस्तारस्य कर्तनः, संबोधने
  • जनितमिस्राविकर्तन
    • जनि = जननम्, संसारः
    • तमिस्रा = रात्रिः
    • जनितमिस्रा = जनि एव तमिस्रा
    • विकर्तनः = सूर्यः
    • जनितमिस्राविकर्तन = जनितमिस्रायाः विकर्तनः, संबोधने
  • दनुजविद्यानिकर्तन
    • दनुजविद्या = दनुजानां विद्या । माया, कपटम् ।
    • निकर्तनम् = निश्चयेन कर्तनम्
    • दनुजविद्यानिकर्तन = दनुजविद्यायाः निकर्तनः, संबोधने
  • भजदविद्यानिवर्तन
    • भजतः = भजत्, भज् “भज सेवायाम्” + शतृप्रत्ययः, पुल्लिङ्गः । ये भक्तिं कुर्वन्तः सन्ति ।
    • भजदविद्या = भजतां अविद्या
    • भजदविद्यानिवर्तन = भजदविद्यायाः निवर्तनः, संबोधने
  • अमरदृष्टस्वविक्रम
    • अमरदृष्टः = अमरैः दृष्टः
    • विक्रमः = पराक्रमः ।
    • स्वविक्रमः = स्वस्य विक्रमः ।
    • अमरदृष्टस्वविक्रम = अमरदृष्टः स्वविक्रमः यस्य सः, संबोधने
  • समरजुष्टभ्रमिक्रम
    • समर = युद्ध
    • जुष्ट.. = स्वीकृत..
    • भ्रमि.. = भ्रमण..
    • क्रमः = गतिः
    • समरजुष्टभ्रमिक्रम = समरे भ्रामिक्रमः जुष्टः येन सः
  • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

Word Meaning

  • दनुजविस्तारकर्तन = O one who cuts (कर्तन) the growth (विस्तार) of the Asuras (दनुज)
  • जनितमिस्राविकर्तन = O one who is like the Sun (विकर्तन) for the night (तमिस्रा) in the form of birth (जनि) and death cycle
  • दनुजविद्यानिकर्तन = O one who cuts down (निकर्तन) the knowledge (विद्या) of the Asuras (दनुज) namely black magic, etc.
  • भजदविद्यानिवर्तन = O one who averts (निवर्तन) the ignorance (अविद्या) of those who are worshiping (भजत्) him
  • अमरदृष्टस्वविक्रम = O one whose own (स्व) might (विक्रम) is seen (दृष्ट) by the Devas (अमर)
  • समरजुष्टभ्रमिक्रम = O one who applied (जुष्ट) the circulatory (भ्रमि) movement (क्रम) in the battle (समर)
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

6.  श्लोकः

प्रथिमुखालीढबन्धुर पृथुमहाहेतिदन्तुर विकटमायाबहिष्कृत विविधमालापरिष्कृत ।
स्थिरमहायन्त्रतन्त्रित दृढदयातन्त्रयन्त्रित जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पाठभेदः

विकटमायबहिष्कृत

पदच्छेदः

प्रथिमुखालीढ-बन्धुर पृथुमहाहेति-दन्तुर विकटमाया-बहिष्कृत विविधमाला-परिष्कृत
स्थिरमहायन्त्र-तन्त्रित दृढ-दया-तन्त्र-यन्त्रित जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे प्रथिमुखालीढ-बन्धुर ।
  • हे पृथुमहाहेति-दन्तुर ।
  • हे विकटमाया-बहिष्कृत ।
  • हे विविधमाला-परिष्कृत ।
  • हे स्थिरमहायन्त्र-तन्त्रित ।
  • हे दृढ-दया-तन्त्र-यन्त्रित ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे प्रथिमुखालीढ-बन्धुर । हे पृथुमहाहेति-दन्तुर । हे विकटमाया-बहिष्कृत । हे विविधमाला-परिष्कृत । हे स्थिरमहायन्त्र-तन्त्रित । हे दृढ-दया-तन्त्र-यन्त्रित । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • प्रथिमुखालीढ-बन्धुर
    • प्रथिमुखालीढम् = प्रथिमुखम् च तत् आलीढम्
    • बन्धुरः = रमणीयः
    • प्रथिमुखालीढ-बन्धुर = प्रथिमुखालीढेन बन्धुरः, संबोधने
  • पृथुमहाहेति-दन्तुर
    • दन्तुर.. = व्याप्त..
    • हेतिः = शस्त्रम्
    • पृथुमहती = पृथुः च सा महती च
    • पृथुमहाहेति = पृथुमहती हेतिः
    • पृथुमहाहेति-दन्तुर = पृथुमहाहेतिभिः दन्तुरः, संबोधने
  • विकटमाया-बहिष्कृत
    • विकटमाया = विकटा च सा माया च
    • बहिष्कृत = बहिः + कृत । निवारित
    • विकटमाया-बहिष्कृत = विकटमाया बहिष्कृता येन सः, संबोधने
  • विविधमाला-परिष्कृत
    • विविधमाला = विविधाः मालाः
    • परिष्कृत.. = मण्डित.. = अलङ्कृत..
    • विविधमाला-परिष्कृत = विविधमालाभिः परिष्कृतः, संबोधने
  • स्थिरमहायन्त्र-तन्त्रित
    • स्थिर = दृढ
    • महायन्त्रम् = महत् च तत् यन्त्रम् च
    • तन्त्रित = स्थित
    • स्थिरमहायन्त्र-तन्त्रित = स्थिरेण महायन्त्रे तन्त्रितः, संबोधने
  • दृढ-दया-तन्त्र-यन्त्रित
    • दृढ-दया = दृढा च सा दया
    • तन्त्रम् = तन्तुः
    • दृढ-दया-तन्त्रम् = दृढ-दया एव तन्त्रम्
    • यन्त्रित.. = निगृहीत..
    • दृढ-दया-तन्त्र-यन्त्रित = दृढ-दया-तन्त्रैः यन्त्रितः, संबोधने
  • जय = जि “जिँ जये”, लोट्., म.पु., ए.व.

Word Meaning

  • प्रथिमुखालीढ-बन्धुर = O one who is good-looking (बन्धुर) with the posture (आलीढ) of legs with one in the front (प्रथिमुख)
  • पृथुमहाहेति-दन्तुर = O one who is filled (दन्तुर) with the weapons (हेति) that are large (पृथु) and powerful (महा)
  • विकटमाया-बहिष्कृत = O one from whom the horrible (विकट) illusion (माय) is kept away (बहिः+कृत)
  • विविधमाला-परिष्कृत = O one who is decorated (परिष्कृत) with the different (विविध) garlands (माला)
  • स्थिरमहायन्त्र-तन्त्रित = O one who is seated (तन्त्रित) steadfastly (स्थिर) on the Maha Yatra (महायन्त्र)
  • दृढ-दया-तन्त्र-यन्त्रित = O one who is held (यन्त्रित) by the warp (तन्त्र) or thread in the form of ardent (दृढ) compassion (दया)
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

7.  श्लोकः

महितसम्पत्सदक्षर विहितसम्पत्षडक्षर षडरचक्रप्रतिष्ठित सकलतत्त्वप्रतिष्ठित ।
विविधसङ्कल्पकल्पक विबुधसङ्कल्पकल्पक जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

महित-सम्पत्-सदक्षर विहितसम्पत्-षडक्षर षडरचक्र-प्रतिष्ठित सकल-तत्त्व-प्रतिष्ठित
विविध-सङ्कल्प-कल्पक विबुध-सङ्कल्प-कल्पक जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे महितसम्पत्सदक्षर ।
  • हे विहितसम्पत्षडक्षर ।
  • हे षडरचक्रप्रतिष्ठित ।
  • हे सकलतत्त्वप्रतिष्ठित ।
  • हे विविधसङ्कल्पकल्पक ।
  • हे विबुधसङ्कल्पकल्पक ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे महितसम्पत्सदक्षर । हे विहितसम्पत्षडक्षर । हे षडरचक्रप्रतिष्ठित । हे सकलतत्त्वप्रतिष्ठित । हे विविधसङ्कल्पकल्पक । हे विबुधसङ्कल्पकल्पक । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • महितसम्पत्सदक्षर
    • महित = महनीय
    • महितसम्पन्तः = महितं सम्पत् (ज्ञानम्) येषां ते
    • महितसम्पत्सन्तः = महितसम्पन्तः सन्तः
    • अक्षरः = मोक्षप्रदः अथवा यस्य क्षरः नास्ति
    • महितसम्पत्सदक्षर = महितसम्पत्सतां अक्षरः, संबोधने
  • विहितसम्पत्षडक्षर
    • षडक्षरः = षड् अक्षराणि यस्य सः
    • विहितसम्पन् = विहितं सम्पत् यस्य सः
    • विहितसम्पत्षडक्षर = विहितसम्पन् च असौ षडक्षरः
  • षडरचक्रप्रतिष्ठित
    • षडरम् = षड् अराः / षड् अराणि यस्मिन् तत्
    • षडरचक्र = षडरम् च तत् चक्रम्
    • प्रतिष्ठित = समारोपित
    • षडरचक्रप्रतिष्ठित = षडरचक्रे प्रतिष्ठितः, संबोधने
  • सकलतत्त्वप्रतिष्ठित
    • प्रतिष्ठित = सम्स्थित
    • सकलतत्त्वप्रतिष्ठित = सकलेषु तत्त्वेषु प्रतिष्ठितः, संबोधने
  • विविधसङ्कल्पकल्पक
    • विविध = नानाविध
    • विविधसङ्कल्पाः = विविधाः सङ्कल्पाः
    • कल्पकः = रचयिता, कर्ता
    • विविधसङ्कल्पकल्पक = विविधसङ्कल्पानां कल्पकः, संबोधने
  • विबुधसङ्कल्पकल्पक
    • विबुधाः = देवाः
    • विबुधसङ्कल्पाः = विबुधानां सङ्कल्पाः
    • कल्पकः = रचयिता, कर्ता
    • विबुधसङ्कल्पकल्पक = विबुधसङ्कल्पानां कल्पकः, संबोधने

Word Meaning

  • महितसम्पत्सदक्षर = O one who is the giver of moksha (अक्षर) to the good men (सत्) who possess the valuable (महित) wealth (सम्पत्) of knowledge
  • विहितसम्पत्षडक्षर = O one whose mantra has six (षड्) syllables (अक्षर) and is determined (विहित) to give wealth (सम्पत्)
  • षडरचक्रप्रतिष्ठित = O one who is present (प्रतिष्ठित) in the Chakra (चक्र) which has six (षड्) corners (अर) or spokes (in the form of the two triangles, one being straight and another inverted).
  • सकलतत्त्वप्रतिष्ठित = O one who is present (प्रतिष्ठित) in all (सकल) the Tattvaas (तत्त्व)
  • विविधसङ्कल्पकल्पक = O one who completes (कल्पक) the different (विविध) objectives (सङ्कल्प)
  • विबुधसङ्कल्पकल्पक = O one who is the fulfiller (कल्पक) of the desires (सङ्कल्प) of the Devas (विबुध)
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

8.  श्लोकः

भुवननेत्र त्रयीमय सवनतेजस्त्रयीमय निरवधिस्वादुचिन्मय निखिलशक्ते जगन्मय ।
अमितविश्वक्रियामय शमितविश्वग्भयामय जय जय श्रीसुदर्शन जय जय श्रीसुदर्शन ॥

पदच्छेदः

भुवन-नेत्र त्रयीमय सवन-तेजस्-त्रयीमय निरवधि-स्वादु-चिन्मय निखिल-शक्ते जगन्मय
अमित-विश्वक्रियामय शमित-विश्वग्भयामय जय जय श्री-सुदर्शन जय जय श्री-सुदर्शन

आकाङ्क्षा

  • हे भुवननेत्र ।
  • हे त्रयीमय ।
  • हे सवनतेजस्त्रयीमय ।
  • हे निरवधिस्वादुचिन्मय ।
  • हे निखिलशक्ते ।
  • हे जगन्मय ।
  • हे अमितविश्वक्रियामय ।
  • हे शमितविश्वग्भयामय ।
  • (त्वं) जय ।
  • हे श्रीसुदर्शन ।

अन्वयः

हे भुवननेत्र । हे त्रयीमय । हे सवनतेजस्त्रयीमय । हे निरवधिस्वादुचिन्मय । हे निखिलशक्ते । हे जगन्मय । हे अमितविश्वक्रियामय । हे शमितविश्वग्भयामय । (त्वं) जय । हे श्रीसुदर्शन ।

पदपरिचयः

  • भुवननेत्र = यः भुवनानां नेत्रम्, संबोदने
  • त्रयीमय
    • त्रयी = वेदाः
    • त्रयीमय = त्रयी + मयट्प्रत्ययः, वेदस्वरूपः, संबोदने
  • सवनतेजस्त्रयीमय
    • सवनम् = यागः
    • तेजस्त्रयी = त्रीणि तेजांसि – दक्षिण, गार्हपत्य, आहवनीय इति त्रयः अग्नयः
    • सवनतेजस्त्रयीमय = सवनेषु तेजस्त्रयी रूपः, संबोदने
  • निरवधिस्वादुचिन्मय
    • निरवधि = निस्सीम
    • स्वादु = आनन्द
    • चिन्मय = चित् + मयट्प्रत्ययः
    • निरवधिस्वादुचिन्मय = निरवधि चिदानन्दमयः, संबोदने
  • निखिलशक्ते
    • निखिल = अखिल
    • निखिलशक्ते = निखिला शकितः यस्मिन् सः, संबोदने
  • जगन्मय
    • जगन्मय = जगत् + मयट्प्रत्ययः । तस्मिन् जगत् अस्ति इति । संबोदने
  • अमितविश्वक्रियामय
    • अमित.. = अपरिमाण..
    • विश्वक्रिया = विश्वस्य क्रिया
    • अमितविश्वक्रियामय = अमिता विश्वक्रिया तस्मिन् अस्ति इति । संबोदने
  • शमितविश्वग्भयामय
    • शमित = उपशान्त
    • विश्वग्भयम् = विश्वक् भयम्
    • विश्वग्भयामयम् = विश्वग्भयानि च आमयानि च एतेषां समाहारः
    • शमितविश्वग्भयामय = शमितं विश्वग्भयामयं येन सः, संबोदने

Word Meaning

  • भुवननेत्र = O the eye (नेत्र) of the world (भुवन)
  • त्रयीमय = O the embodiment of the Vedas (त्रयी)
  • सवनतेजस्त्रयीमय = O the embodiment of the three (त्रयी) fires (तेजस्) in the Yaaga (सवन) called दक्षिण Agni, गार्हपत्य Agni and आहवनीय Agni ।
  • निरवधिस्वादुचिन्मय = O the limitless (निरवधि) manifestation of consciousness (चित्) and bliss (स्वादु)
  • निखिलशक्ते = O the absolute (निखिल) power (शक्ति), Omnipotent
  • जगन्मय = O the embodiment of the universe (जगत्), Omnipresent
  • अमितविश्वक्रियामय = O the embodiment of the immeasurable (अमित) activities (क्रिया) of the world (विश्व)
  • शमितविश्वग्भयामय = O the pacifier (शमित) of the diseases (आमय) and the all-pervading (विश्वक्) fear (भया)
  • (त्वं) जय । श्रीसुदर्शन = O Sri Sudharshana, May victory be onto you!

9.  श्लोकः

फलश्रुति
द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायकप्रणीतम् ।
विषमेऽपि मनोरथः प्रधावन् न विहन्येत रथाङ्ग धुर्य गुप्तः ॥

पदच्छेदः

फल-श्रुति
द्विचतुष्कम् इदम् प्रभूत-सारम् पठताम् वेङ्कटनायक-प्रणीतम्
विषमे अपि मनोरथः प्रधावन् न विहन्येत रथाङ्ग-धुर्य-गुप्तः

आकाङ्क्षा

  • न विहन्येत
    • कः न विहन्येत ? मनोरथः
      • किं कुर्वन् मनोरथः ? प्रधावन्
        • कस्मिन् विषये प्रधावन् ? विषमे अपि
      • कीदृशः सन् मनोरथः ? रथाङ्ग-धुर्य-गुप्तः (सन्)
      • केषां मनोरथः ? पठताम्
        • कं पठताम् ? इदं वेङ्कटनायकप्रणीतम्
          • कीदृशं इदम् ? प्रभूतसारम्
          • पुनः कीदृशं इदम् ? द्विचतुष्कमिदम्

अन्वयः

वेङ्कटनायक-प्रणीतं प्रभूतसारम् इदं द्विचतुष्कं पठतां मनोरथः, विषमे प्रधावन् अपि, रथाङ्ग-धुर्य-गुप्तः (सन्), न विहन्येत ।

पदपरिचयः

  • वेङ्कटनायक-प्रणीतम्
    • प्रणीतम् = रचितम् । प्र + नी “णीञ् प्रापणे” + कर्मणि क्तः
    • वेङ्कटनायकः = स्वामिन् देशिकः
    • वेङ्कटनायक-प्रणीतम् = वेङ्कटनायकेन प्रणीतम्
  • पठताम् = पठ् “पठँ व्यक्तायां वाचि” + शतृप्रत्ययः । पठत् तकारान्तः, पु., ष.वि., ब.व.
  • प्रधावन् = प्र + धाव् “धावुँ गतिशुद्ध्योः” + शतृप्रत्ययः । प्रधावत् तकारान्तः, पु., प्र.वि., ए.व.
  • विहन्येत = वि + हन् “हनँ हिंसागत्योः” + निच्प्रत्ययः, कर्मणि विधिलिङ्., प्र.वि., ए.व., । हन् परस्मैपदी लट्लकारे हन्ति । हन्+निच् आत्मनेपदी लट्लकारे हन्यते ।
  • रथाङ्ग-धुर्य-गुप्तः
    • रथाङ्गम् = रथस्य अङ्गम्
    • रथाङ्ग-धुर्यः = रथाङ्गानां धुर्यः (प्राधान्यः, अग्रेसरः) । चक्रः
    • रथाङ्ग-धुर्य-गुप्तः = रथाङ्ग-धुर्येन गुप्तः रक्षितः ।
  • द्विचतुष्कम् = द्वि+चतुष्कम् = 2*4 = 8 = अष्टकम्

छन्दः

Aupachandasika औपच्छन्दसिक (23×2)

5 6
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23
गु गु गु गु गु गु गु गु गु गु गु
द्वि तु ष्क मि दं प्र भू सा रं तां वे ङ्क ना प्र णी तम्
वि मे ऽपि नो थः प्र धा वन् वि न्ये था ङ्ग धु र्य गु प्तः

Word Meaning

  • मनोरथः = The desire (मनोरथ), which is verily the mind’s (मनस्) chariot (रथ)
    • पठताम् = of those who read (पठत्)
      • इदं द्विचतुष्कम् = this (इदम्) work of eight, e., two (द्वि) sets of four (चतुस्) verses
      • वेङ्कटनायक-प्रणीतम् = written (प्रणीत) by Venkatanaayaka (वेङ्कटनायक)e., Sri Swami Vedanta Desikan
      • प्रभूतसारम् = comprising of the abundant (प्रभूत) essence (सार) of Sri Sudharshana
    • विषमे प्रधावन् अपि = the desire, even (अपि) if it is running (प्रधावत्) behind things difficult (विषम) to achieve or obtain
    • रथाङ्ग-धुर्य-गुप्तः (सन्) = becoming safe-guarded (गुप्त) by the Chakra, the foremost (धुर्य) part (अङ्ग) of the chariot (रथ)
    • न विहन्येत = will not (न) be struck (वि+हन्) and it will reach its objective

References:

Other references

औपच्छन्दसिक

 

(Video) ChampuRamayanam – Sundarakandam – Smt. Vidhya #16

भोजचम्पूरामायणम् – सुन्दरकाण्डम् – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (King Bhoja’s Champu-Ramayanam – Sundarakandam– Weekly online classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-kavyas/video-bhojas-champuramayanam-sundarakandam-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions.