(Video) Alamkara – Dr. R. Ramachandranji

अलङ्कारः – (कोविदः कक्ष्या) – डॉ. आर्. रामचन्द्रः

गीता शिबिरम् – २५-१२-२०१६

An overview of some of the main alamkaras (figures of speech) in Sanskrit Literature.
A session by Dr. R. Ramachandranji (RRji) for Kovida students at Gita Shibhiram 2016 organised by Samskrita Bharathi, Chennai.

  • अलं करोति इति अलङ्कारः |
  • उपमालङ्कारः
    • उदाहरणम् — मुखं चन्द्रः इव सुन्दरम् |
    • पूर्णोपमा / लुप्तोपमा
    • अंशचतुष्टयम्
      • उपमेयम्
      • उपमानम्
      • सादृश्यम्
      • उपमावाचकम्
  • अनन्वयालङ्कारः
    • गगनं गगनाकारं सागरः सागरोपमः ।
      रामरावणयोर्युद्धं रामरावणयोरिव ॥ – रामायण, युद्धकाण्ड
  • व्यतिरेकालङ्कारः
    • शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः
  • रूपकालङ्कारः
    • कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
      आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥
  • अतिशयोक्तिः
    • सिंहः आगच्छति
  • अर्थान्तरन्यासालङ्कारः
    • हनूमानब्धिमतरद् दुष्करं किं महात्मनाम्
  • श्लेषालङ्कारः
    •  सर्वदोमाधवः
      • सर्वदा उमाधवः
      • सर्वदः माधवः
    • पार्वतीपरेमेश्वरौ
      • पार्वती + परमेश्वरः
      • पार्वतीपः + रमेश्वरः
Advertisements

(Video) A glimpse of Raghuvamsam by RRji

 

कालिदासविरचितः रघुवंशः (एकः श्लोकः)
– आर्. रामचन्द्रः, संस्कृतभारती, चेन्नै

एकातपत्रं जगतः प्रभुत्वं
नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥
(द्वितीय सर्गः) ॥ ४७ ॥

२५-१२-२०१६ (Dr. RR ji) कोविदः कक्ष्या

(Video) Sankshepa Ramayanam Class 13 Anand V

मूलश्लोकः-66

बिभेद च पुन: सालान्‌ सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन्‌ प्रत्ययं तदा।। 66।।

श्लोकान्वयः –

तदा प्रत्ययं जनयन्‌ एकेन महेषुणा सप्त सालान्‌ गिरिं रसातलं च पुन: बिभेद।।66।।

मूलश्लोकः-67

तत: प्रीतमनास्ते न विश्वस्त: स: महाकपि:। किष्किन्धां रामसहितो जगाम च गुहां तदा।। 67।।

श्लोकान्वयः –

तत: स महाकपि: तेन प्रीतमना: विश्वस्त: च तदा रामसहित: किष्किधां गुहां जगाम।।67।।

मूलश्लोकः-68

ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल:। तेन नादेन महता निर्जगाम हरीश्वर:।। 68।।

श्लोकान्वयः –

तत: हेमपिङ्गल: हरिवर: सुग्रीव: अगर्जत्‌ तेन महता नादेन हरीश्वर: (बाली) निर्जगाम।।68।।

मूलश्लोकः-69

अनुमान्य तदा तारां सुग्रीवेण समागत:। निजघान च तत्रैनं शरेणैकेन राघव:।। 69।।

श्लोकान्वयः –

तदा वाली ताराम्‌ अनुमान्य सुग्रीवेण (योद्धुं) समागत:। राघव: च एनं तत्र एकेन शरेण निजघान।।69।।

मूलश्लोकः-70

तत: सुग्रीववचनाद्धत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत्‌।।70।।

श्लोकान्वयः –

तत: राघव: सुग्रीववचनात्‌ आहवे वालिनं हत्वा तद्राज्ये सुग्रीवम्‌ एव प्रत्यपादयत्‌।।70।।

मूलश्लोकः-71

स च सर्वान्‌ समानीय वानरान्‌ वानरर्षभ:। दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्‌।।71।

श्लोकान्वयः –

स: च वानरर्षभ: जनकात्मजां दिदृक्षु: सर्वान्‌ वानरान्‌ समानीय दिश: प्रस्थापयामास।।71।।

मूलश्लोकः-72

ततो गृध्रस्य वचनात्‌ सम्पातेर्हनुमान्‌ बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्‌।।72।।

श्लोकान्वयः –

तत: बली हनुमान्‌ सम्पाते: गृध्रस्य वचनात्‌ शतयोजनविस्तीर्णं लवणार्णवं पुप्लवे।।72।।

 

(Video) Sankshepa Ramayanam Class 12 Anand V

https://nivedita2015.wordpress.com/2016/05/07/video-sankshepa-ramayanam/

मूलश्लोकः-58-61
पम्पातीरे हनुमता सङ्गतो वानरेण ह ।। 58।। हनुमद्वचनाच्चैव सुग्रीवेण समागतः। सुग्रीवाय च तत्सर्वं शंसद् रामो महावलः।।59।। आदितस्तद्यथावृत्तं सीतायाश्च विशेषतः।सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानर:।। 60।। चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्‌।।61।।
श्लोकान्वयः –
पम्पातीरे वानरेण हनुमता सङ्गतः।।58।। हनुमद्वचनात् च एव सुग्रीवेण समागतः।।59।। महाबलः रामः सुग्रीवाय आदितः तत् सर्वम् अशंसत्।।59।। विशेशतः सीतायाः यथावृत्तम् अशंसत्।।60।। वानर: सुग्रीव: च रामस्य तत्सर्वं श्रुत्वा प्रीत: च रामेण अग्निसाक्षिकं सख्यं चकार।।61।।

मूलश्लोकः-61-62
ततो वानरराजेन वैरानुकथनं प्रति ।।61।। रामायावेदितं सर्वं प्रणयाद्दु:खितेन च। प्रतिज्ञातं च रामेण तदा वालिवधं प्रति।। 62।।

श्लोकान्वयः –
तत: दु:खितेन वानरराजेन वैरानुकथनं प्रति रामाय सर्वं प्रणयात्‌ आवेदितम्‌। तदा च रामेण वालिवधं प्रति प्रतिज्ञातम्‌।।61-62।।

मूलश्लोकः-63
वालिनश्च बलं तत्र कथयामास वानर:। सुग्रीव: शङ्कितश्चासीन्नित्यं वीर्येण राघवे।। 63।।

श्लोकान्वयः –
वानर: सुग्रीव: राघवे वीर्येण नित्यं शङ्कित: च आसीत्‌ (स:) तत्र वालिन: बलं च कथयामास।।63।।

मूलश्लोकः-64
राघवप्रत्ययार्थं तु दुन्दुभे: कायमुत्तमम्‌। दर्शयामास सुग्रीवो महापर्वतसंनिभम्‌।। 64।।

श्लोकान्वयः –
सुग्रीव: राघवप्रत्ययार्थं तु महापर्वतसन्निभं दुन्दुभे: उत्तमं कायं दर्शयामास।।64।।

मूलश्लोकः-65
उत्स्मयित्वा महाबाहु: प्रेक्ष्य चास्थि महाबल:। पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम्‌।।65।।

श्लोकान्वयः –
महाबाहु: महाबल: (राम:) अस्थि प्रेक्ष्य उत्स्मयित्वा च पादाङ्गुष्ठेन सम्पूर्णं दशयोजनं चिक्षेप।।65।।

Raghuvamsam – 1.11 to 1.20 – Practice Questions

रघुवंशम् – १.११ – १.२० प्रश्नाः  — https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-first-sarga-vidhya-ramesh/

) पद्यभागः   – प्रश्नान् उत्तरत 

१. चक्रवर्तिदिलीपस्य नृपोचितगुणान् स्वशब्दैः वर्णयत ?

२. महाकाव्यस्य अस्मिन् भागे अद्यतनप्रशासकेभ्यो  नेतृभ्यश्च कः सन्देशः निहितः अस्ति ?

) शब्दसम्पद्भागः  

  1. एतेषांपर्यापदानि(अमरकोषतः) लिखत 

मुनिः  राजा इन्दुः  सेना उर्वी      देहः

  1. समानार्थकंपदंलिखत 

क्षीरनिधौ मनीषिणाम् सर्वोन्नतेन उपजीविनाम् नियन्तुः

भूत्यर्थम् आदत्ते अकुण्ठिता धनुषि संवृतम्

  1. 3. ‘रसः’ इतिपदस्यविविधार्थज्ञापकवाक्यानि लिखत 
  2. विलोमपदानिलिखत

अग्रहीत्  अनुमेया प्राक्तनम् कर्मक्षमम् आद्यः

5.यथोदाहरणम् अन्यपदानि लिखत  जलजम् ()-कर्मजम्, स्वेदजः, आत्मजा, मूर्धजाः इत्यादीनि

तोयनिधिः (निधिः) महाभुजः (महा) सर्वोन्नतः (सर्व)     सहस्रगुणम्(गुणम्) प्राक्तनम् (तन) आदत्ते (आङ्उपसर्गः)

ग) व्याकरणभागः

  1. श्लोकेभ्यःअन्विष्य लिखत ।
  2. क्तान्त-रूपाणि(धातुं, क्रियापदस्य लट्-रूप च निर्दिशत)।
  3. मतुबर्थेतद्धितपदानि  (विग्रहवाक्यं निर्दिशत) ।
  4. कृदन्ताव्ययानि। (धातुं, क्रियापदस्य लट्-रूप च निर्दिशत)।
  5. क्रिया-पदानिचिनुत । (धातुं, क्रियापदस्य लट्-रूपं च निर्दिशत)।
  6. अव्ययीभावसमस्तपदानिविग्रवाक्यानि च लिखत ।
  7. 2) सन्धिविच्छेदंप्रदर्श्य सन्धिनाम लिखत 
  8. आसीन्महीक्षितामाद्यःप्रणवश्छन्दसामिव।
  9. दिलीपइति राजेन्दुरिन्दुः क्षीरनिधाविव ।
  10. क्षात्रोधर्म इवाश्रितः ।

भीमकान्तै—————- (१६)

घ) ससन्दर्भं विवृणुत ।

१. न व्यतीयुः प्रजास्तस्य नियन्तुर्नेमिवृत्तयः ।

२. सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ।

Raghuvamsam 1.1 – 1.10 Practice Questions

रघुवंशम् – १.१ – १.१० प्रश्नाः – https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsam-first-sarga-vidhya-ramesh/

) पद्यभागः   – प्रश्नान् उत्तरत 

मङ्गलाचरणं नाम किम् ? तत्प्रयोजनं तत्प्रकारान् च सूचयत । प्रकृत-ग्रन्थस्य मङ्गलाचरणं किंविधम् ?

) शब्दसम्पद्भागः  

  1. एतेषांपर्यापदानि(अमरकोषानुसारं) लिखत 

सागरः  सूर्यः        वंशः        कर्णः      सन्    हेम  अग्निः  मतिः

  1. समानार्थकंपदं(तत्विभक्तौ) लिखत 

यशसे सूरिभिः मणौ       धनप्रार्थी         मोहात्    लभ्ये

उडुपेन जगतः शैशवे      तनुत्यजाम्         मे उत्कीर्णम्

  1. 3. एकस्यैवपदस्यविभिन्नाः अर्थाः भवन्ति  यथा ‘अर्थः’ इत्यस्य  –  धनम्,   शब्द-प्रतिपाद्यः,   कारणम्,    वस्तु/द्रव्यम्/पदार्थः,  याच्ञा   इति ।

अस्य पदस्य प्रयोगं वाक्येषु तथा कुरुत यथा अर्थ-भेदाः स्पष्टाः भवेयुः । (प्रयोगे विभक्ति-परिवर्तनं, उपसर्ग-प्रत्यय-योजनं समस्त-पदं वा भवितुम् अर्हति) ।

  1. श्लोकेषु (१-१०)विद्यमानानिविपरीतार्थकपदानि चिनुत 
  2. यथोदाहरणम्अन्यपदानिलिखत  

उदा. – जलजम् ()-वनजा, कर्मजम्, स्वेदजः, आत्मजा, मूर्धजाः इत्यादि

उद्बाहुः   –  (उत्)     मितभाषी  (मित)      यथाकामम् (यथा)         दुस्तरम् (दुः, दुर्)

ग) व्याकरणभागः

  1. श्लोकेभ्यःअन्विष्य लिखत ।
  2. सन्नन्तपदानि(वृत्तिं  निर्दिशत)।
  3. क्तान्त-रूपाणि(धातुं, क्रियापदस्य लट्-रूप च निर्दिशत)।
  4. भावार्थेतद्धितपदानि  (वृत्तिं निर्दिशत) ।
  5. कृदन्ताव्ययानि। (धातुं, क्रियापदस्य लट्-रूप च निर्दिशत)।

लृट्-लकारे विद्यमान-पदानि । (धातुं, क्रियापदस्य लट्-रूपं च निर्दिशत)।

2) सन्धिविच्छेदं प्रदर्श्य सन्धिनाम लिखत 

सूत्रस्येवास्ति शैशवेऽभ्यस्तविद्यानाम्     वागर्थाविव लोभादुद्बाहुरिव

मन्दःकवियशःप्रार्थी ह्यग्नौ     तनुवाग्विभवोऽपि

घ) ससन्दर्भं विवृणुत ।

१. सूत्रस्येवास्ति मे गतिः ।

२. योगेनान्ते तनुत्यजाम् ।