Satyam Vidhaatum – SrimadBhaagavatam

Narasimhaavataara – Satyam Vidhaatum – SrimadBhaagavatam – Smt. Vidhya Ramesh – Smt. Sangeetha C.K.

श्रीमद्भागवतम् (7.8.17) – नरसिंहस्य अत्यद्भुतरूपम्

सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः ।
अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥१७॥

Smt. Vidhya Ramesh has explained this shloka from Srimad Bhaagavatam in Sanskrit. Smt. Sangeetha C.K.’s rendition of this shloka is also present.

Extract from the Sanskrit Lecture series on Yaadavaabhyudayam. https://www.youtube.com/playlist?list=PLTWf5ZhGT3612e8MB6zwIkGAdsWu2tquH Artwork Courtesy: Sri Keshav

Jayati tedhikam – Bhagavatam – Gopikaa Geetam

This comprises of 19 verses from Canto 10 Chapter 31 of Śrīmad Bhāgavatam. The Gopikās sing the praise of Lord Krishna and express their yearning for Him. With their minds longing for His association, they request Him to show His beautiful lotus face!

Recited by Chi. Vibhav Rajagopalan P.

The verses are provided here in Sanskrit along with the Anvaya (prose order form). Some more details like the Padachcheda and other references for word-meanings are available at https://nivedita2015.wordpress.com/gopikaageetam

Painting by Sri. Keshav
Copyrights @krishnafortoday.com and Sri. Keshav. Please visit krishnafortoday.com for prints of the paintings.

गोप्य ऊचुः –
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि।
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥

गोप्यः ऊचुः । ते जन्मना व्रजः अधिकं जयति । इन्दिरा शश्वत् अत्र  हि श्रयते । दयित दृश्यतां दिक्षु तावकाः त्वयि धृतासवः त्वां  विचिन्वते ।

Bhagavata Purana: Part X:Ch.31:verses 1-19 Gopika Geeta
(English Translation by C.L. Goswami, M.A. Shastri, Gita Press, Gorakhpur)

The Gopis गोप्यः  said ऊचुः – Vraja व्रजः shines all the more brightly अधिकं जयति by Your descent ते जन्मना (in the house of Nanda and Yashoda), for Laxmi (the Goddess of beauty
and prosperity) इन्दिरा constantly शश्वत् dwells श्रयते  here अत्र  हि (from that time in order to
catch your glimpse). O beloved Lord दयित ! Please reveal Yourself दृश्यताम् and see how your sweethearts तावकाः, who have centered their life धृत-असवः (असुः = प्राणाः) in you त्वयि, are searching विचिन्वते for you त्वाम्  in every quarter दिक्षु.

शरदुदाशये साधुजातसत्-
सरसिजोदरश्रीमुषा दृशा।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥२॥

शरदुदाशये साधुजातसत्-सरसिज-उदर-श्रीमुषा दृशा ।  सुरतनाथ ते अशुल्कदासिकाः वरद निघ्नतः इह वधः न किम्

O master of our hearts सुरतनाथ, we are your ते priceless servants अशुल्कदासिकाः . O beloved, fulfiller of all our desires वरद, Is it not slaughter इह वधः न किम् on your part to strike निघ्नतः us with the rays of your divine eyes दृशा which are more beautiful than the petals of a beautiful lotus साधु-जात-सत्-सरसिज-उदर-श्री-मुषा in the clear autumn lake शरद्-उदाशये?


गोप्य ऊचुः –

जयति तेऽधिकं जन्मना व्रजः

श्रयत इन्दिरा शश्वदत्र हि ।

दयित दृश्यतां दिक्षु तावका-

स्त्वयि धृतासवस्त्वां विचिन्वते ॥

अन्वयः — गोप्यः ऊचुः – ते जन्मना व्रजः अधिकं जयति । अत्र इन्दिरा शश्वत् श्रयते हि । हे दयित ! त्वयि धृतासवः तावकाः दिक्षु त्वां विचिन्वते । दृश्यताम् ।

पदच्छेदः – गोप्यः ऊचुः – जयति ते अधिकम् जन्मना व्रजः श्रयते इन्दिरा शश्वत् अत्र हि दयित दृश्यतां दिक्षु तावकाः त्वयि धृतासवः त्वाम् विचिन्वते ॥ १ ॥

शरदुदाशये साधुजातसत्-

सरसिजोदरश्रीमुषा दृशा ।

सुरतनाथ तेऽशुल्कदासिका

वरद निघ्नतो नेह किं वधः ॥

(हे) सुरतनाथ ! (हे) वरद ! शरदुदाशये साधुजातसत्-सरसिजोदर-श्रीमुषा दृशा ते अशुल्कदासिकाः निघ्नतः (तव) इह वधः न (भवति) किम् ।

शरद्-उदाशये साधु-जात-सत्-सरसिज-उदर-श्रीमुषा दृशा सुरत-नाथ ते अशुल्क-दासिकाः वरद निघ्नतः न इह किम् वधः
॥ २ ॥

विषजलाप्ययाद् व्यालराक्षसाद्

वर्षमारुताद् वैद्युतानलात् ।

वृषमयात्मजाद् विश्वतो भयाद्

ऋषभ ते वयं रक्षिता मुहुः ॥

(हे) ऋषभ ! विषजलाप्ययात् व्यालराक्षसात् वर्षमारुतात् वृषमयात्मजात् विश्वतः भयात् ते वयं मुहुः रक्षिताः ।

विषजलाप्ययात् व्यालराक्षसात् वर्षमारुतात् वैद्युतानलात् वृषमयात्मजात् विश्वतः भयात् ऋषभ ते वयम् रक्षि ताः मुहुः ॥ ३ ॥

न खलु गोपीकानन्दनो भवान्

अखिलदेहिनाम् अन्तरात्मदृक्।

विखनसार्थितो विश्वगुप्तये

सख उदेयिवान् सात्वतां कुले ॥

(हे) सखे ! भवान् गोपीकानन्दनः न खलु । (किन्तु) अखिलदेहिनाम् अन्तरात्मदृक् (अस्ति) । विश्वगुप्तये विखनसा अर्थितः सात्वतां कुले [यदुकुले] उदेयिवान् (अस्ति) ।

न खलु गोपीका-नन्दनः भवान् अखिल-देहिनाम् अन्तरात्म-दृक् विखनसा अर्थितः विश्व-गुप्तये सखे उदेयिवान् सात्वताम् कुले ॥ ४ ॥

विरचिताभयं वृष्णिधूर्य ते

चरणमीयुषां संसृतेर्भयात् ।

करसरोरुहं कान्त कामदं

शिरसि धेहि नः श्रीकरग्रहम् ॥

(हे) वृष्णिधूर्य ! (हे) कान्त ! संसृतेः भयात् ते चरणम् ईयुषां विरचिताभयं कामदं श्रीकरग्रहं करसरोरुहं नः शिरसि धेहि ।

विरचिताभयम् वृष्णिधूर्य ते चरणम् ईयुषाम् संसृतेर्भयात् करसरोरुहम् कान्त कामदम् शिरसि धेहि नः श्रीकरग्रहम् ॥ ५ ॥

व्रजजनार्तिहन् वीर योषितां

निजजनस्मयध्वंसनस्मित ।

भज सखे भवत्किङ्‌करीः स्म नो

जलरुहाननं चारु दर्शय ॥

(हे) व्रजजन-आर्तिहन् ! (हे) योषितां वीर ! (हे) निज-जन-स्मय-ध्वंसन-स्मित ! (हे) सखे ! भवत्-किङ्‌करीः स्म (त्वं) नः भज । (नः) चारु जलरुहाननं दर्शय।

व्रजजन-आर्तिहन् वीर योषिताम् निज-जन-स्मय-ध्वंसन-स्मित भज सखे भवत् किङ्‌करीः स्म नः जलरुहाननम् चारु दर्शय ॥ ६ ॥

Note: स्म इति निश्चितम् | स्म = indeed!

प्रणतदेहिनां पापकर्षणं

तृणचरानुगं श्रीनिकेतनम् ।

फणिफणार्पितं ते पदाम्बुजं

कृणु कुचेषु नः कृन्धि हृच्छयम् ॥

प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनं फणिफणार्पितं ते पदाम्बुजं नः कुचेषु कृणु । नः हृच्छयं कृन्धि ।

प्रणत-देहिनाम् पाप-कर्षणम् तृण-चरा-अनुगम् श्री-निकेतनम् फणि-फणा-अर्पितम् ते पद-अम्बुजम् कृणु कुचेषु नः कृन्धि हृत्-शयम् ॥ ७ ॥

मधुरया गिरा वल्गुवाक्यया

बुधमनोज्ञया पुष्करेक्षण ।

विधिकरीरिमा वीर मुह्यतीर्-

अधरसीधुनाप्याययस्व नः ॥

(हे) पुष्करेक्षण ! (हे) वीर ! वल्गुवाक्यया मधुरया गिरा बुधमनोज्ञया मुह्यतीः विधिकरीः इमाः नः अधरसीधुना आप्याययस्व ।

मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्कर-ईक्षण विधिकरीः इमाः वीर मुह्यतीः अधर-सीधुना आप्याययस्व नः ॥ ८ ॥

तव कथामृतं तप्तजीवनं

कविभिरीडितं कल्मषापहम् ।

श्रवणमङ्‌गलं श्रीमदाततं

भुवि गृणन्ति ये भूरिदा जनाः ॥

तप्तजीवनं कविभिः ईडितं कल्मषापहं श्रवणमङ्‌गलं श्रीमदाततं तव कथामृतं ये भुवि गृणन्ति [गायन्ति], (ते एव) भूरिदाः जनाः ।

तव कथामृतम् तप्तजीवनम् कविभिः ईडितम् कल्मषापहम् श्रवणमङ्‌गलम् श्रीमद्-आततम् भुवि गृणन्ति ये भूरिदाः जनाः
॥ ९ ॥

प्रहसितं प्रिय प्रेमवीक्षणं

विहरणं च ते ध्यानमङ्‌गलम् ।

रहसि संविदो या हृदिस्पृशः

कुहक नो मनः क्षोभयन्ति हि ॥

(हे) कुहक ! (हे) प्रिय ! ते प्रहसितं प्रेमवीक्षणं ध्यानमङ्‌गलं विहरणं च याः हृदि-स्पृशः रहसि संविदः हि नः मनः क्षोभयन्ति ।

प्रहसितम् प्रिय प्रेमवीक्षणम् विहरणम् च ते ध्यानमङ्‌गलम् रहसि संविदः याः हृदिस्पृशः कुहक नः मनः क्षोभयन्ति हि
॥ १० ॥

चलसि यद् व्रजाच्चारयन् पशून्

नलिनसुन्दरं नाथ ते पदम् ।

शिलतृणाङ्‌कुरैः सीदतीति नः

कलिलतां मनः कान्त गच्छति ॥

(हे) नाथ ! (हे) कान्त ! पशून् चारयन् यत् व्रजात् चलसि (तदा) नलिन-सुन्दरं ते पदं शिलतृणाङ्‌कुरैः सीदति [व्याकूलीभवति] इति नः मनः कलिलतां गच्छति [दुःखं प्राप्नोति] ।

चलसि यत् व्रजात् चारयन् पशून् नलिन-सुन्दरम् नाथ ते पदम् शिल-तृण-अङ्‌कुरैः सीदतीति नः कलिलताम् मनः कान्त गच्छति ॥ ११ ॥

दिनपरिक्षये नीलकुन्तलैः

वनरुहाननं बिभ्रदावृतम् ।

घनरजस्वलं दर्शयन् मुहुर्-

मनसि नः स्मरं वीर यच्छसि ॥

(हे) वीर ! दिनपरिक्षये नीलकुन्तलैः आवृतं घनरजस्वलं बिभ्रत् वनरुहाननं दर्शयन् नः मनसि मुहुः स्मरं
यच्छसि ।

दिनपरिक्षये नीलकुन्तलैः वनरुहाननम् बिभ्रत् आवृतम् घन-रजस्-वलम् दर्शयन् मुहुः मनसि नः स्मरम् वीर यच्छसि
॥ १२ ॥

प्रणतकामदं पद्मजार्चितं

धरणिमण्डनं ध्येयमापदि ।

चरणपङ्‌कजं शन्तमं च ते

रमण नः स्तनेष्वर्पयाधिहन् ॥

(हे) रमण ! (हे) आधिहन् ! प्रणतकामदं पद्मजार्चितं धरणिमण्डनम् आपदि ध्येयं शन्तमं च ते चरणपङ्‌कजं नः स्तनेषु अर्पय ।

प्रणत-कामदम् पद्मज-अर्चितम् धरणि-मण्डनम् ध्येयम् आपदि चरण-पङ्‌कजम् शन्तमम् च ते रमण नः स्तनेषु अर्पय आधिहन् ॥ १३ ॥

सुरतवर्धनं शोकनाशनं

स्वरितवेणुना सुष्ठु चुम्बितम् ।

इतररागविस्मारणं नृणां

वितर वीर नस्तेऽधरामृतम् ॥

(हे) वीर ! सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितं नृणाम् इतररागविस्मारणं ते अधरामृतं नः वितर ।

सुरतवर्धनम् शोकनाशनम् स्वरितवेणुना सुष्ठु चुम्बितम् इतर-राग-विस्मारणम् नृणाम् वितर वीर नः ते अधर-अमृतम् ॥ १४ ॥

अटति यद् भवानह्नि काननं

त्रुटिर्युगायते त्वामपश्यताम् ।

कुटिलकुन्तलं श्रीमुखं च ते

जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥

भवान् अह्नि काननं यत् अटति (तदा) त्वाम् अपश्यतां त्रुटिः युगायते । (अपि) च, कुटिल-कुन्तलं ते श्रीमुखम् उदीक्षतां दृशां पक्ष्मकृत् जडः (इति मन्यामहे) ।

अटति यत् भवान् अह्नि काननम् त्रुटिः युगायते त्वाम् अपश्यताम् कुटिल-कुन्तलम् श्रीमुखम् च ते जडः उदीक्षताम् पक्ष्मकृत् दृशाम् ॥ १५ ॥

पतिसुतान्वयभ्रातृबान्धवान्

अतिविलङ्‌घ्य तेऽन्त्यच्युतागताः ।

गतिविदस्तवोद्‍गीतमोहिताः

कितव योषितः कस्त्यजेन्निशि ॥

(हे) कितव ! (हे) अच्युत ! गतिविदः तव उद्‍गीतमोहिताः (वयं) पति-सुतान्वय-भ्रातृ-बान्धवान् अति-विलङ्‌घ्य ते अन्ति आगताः । (तादृशीः) निशि योषितः कः त्यजेत् ।

पति-सुत-अन्वय-भ्रातृ-बान्धवान् अति-विलङ्‌घ्य ते अन्ति अच्युत आगताः गतिविदः तव उद्‍गीतमोहिताः कितव योषितः कः त्यजेत् निशि ॥ १६ ॥

रहसि संविदं हृच्छयोदयं

प्रहसिताननं प्रेमवीक्षणम् ।

बृहदुरः श्रियो वीक्ष्य धाम ते

मुहुरतिस्पृहा मुह्यते मनः ॥

हृच्छयोदयं रहसि संविदं प्रहसिताननं प्रेमवीक्षणं श्रियः धाम ते बृहत् उरः वीक्ष्य अतिस्पृहा (भवति) । (नः) मनः मुहुः मुह्यते ।

रहसि संविदम् हृत्-शय-उदयम् प्रहसिताननम् प्रेम-वीक्षणम् । बृहत् उरः श्रियः वीक्ष्य धाम ते मुहुः अतिस्पृहा मुह्यते मनः ॥ १७ ॥

व्रजवनौकसां व्यक्तिरङ्‌ग ते

वृजिनहन्त्र्यलं विश्वमङ्‌गलम् ।

त्यज मनाक् च नस्त्वत्स्पृहात्मनां

स्वजनहृद्रुजां यन्निषूदनम् ॥

(हे) अङ्‌ग ! ते व्यक्तिः विश्व-मङ्‌गलम् । अलं व्रजवनौकसाम् । वृजिन-हन्त्रि स्व-जन-हृद्-रुजां त्यज । यत् निषूदनम् (अस्ति), (तत् स्वरूपं) त्वत् स्पृहात्मनां नः मनाक् [किञ्चित्] च (त्यज) ।

व्रजवन-ओकसाम् व्यक्तिः अङ्‌ग ते वृजिन-हन्त्रि अलम् विश्व-मङ्‌गलम् त्यज मनाक् च नः त्वत् स्पृहा-आत्मनाम् स्व-जन-हृद्-रुजाम् यत् निषूदनम् ॥ १८ ॥

यत्ते सुजातचरणाम्बुरुहं स्तनेषु

भीताः शनैः प्रिय दधीमहि कर्कशेषु।

तेनाटवीमटसि तद्व्यथते न किंस्वित्

कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥

(हे) प्रिय ! यत् ते सुजातचरणाम्बुरुहं (नः) कर्कशेषु स्तनेषु भीताः शनैः दधीमहि । तेन अटवीम् अटसि । तत् कूर्पादिभिः किंस्वित् न व्यथते ? भवदायुषां नः धीः भ्रमति ।

यत् ते सुजातचरणाम्बुरुहम् स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु तेन अटवीम् अटसि तत् व्यथते न किंस्वित् कूर्पादिभिः भ्रमति धीः भवदायुषाम् नः ॥ १९ ॥

References

https://archive.org/details/SrimadBhagavatamCanto10withMultipleSanskritCommentaries/page/n2967/mode/2up

http://www.harekrsna.de/artikel/gopi-gita.htm

https://sa.wikisource.org/wiki/श्रीमद्भागवतपुराणम्/स्कन्धः_१०/पूर्वार्धः/अध्यायः_३१

https://vedabase.io/en/library/sb/10/31/1/

https://vedabase.io/en/library/sb/10/31/2/

Shyaamam hirnayaparidhim – Bhagavatam

श्यामं हिरण्यपरिधिं वनमाल्यबर्ह-धातुप्रवालनटवेषमनुव्रतांसे
विन्यस्तहस्तमितरेण धुनानमब्जं  कर्णोत्पलालककपोलमुखाब्जहासम् ॥ श्रीमद्भागवतम् – 10.23.22

śyāmaṃ hiraṇyaparidhiṃ vanamālyabarhadhātupravālanaṭaveṣamanuvratāṃse ।vinyastahastamitareṇa dhunānamabjaṃ karṇotpalālakakapolamukhābjahāsam ॥

श्यामं हिरण्य-परिधिं वनमाल्य-बर्ह-धातु-प्रवाल-नट-वेषं अनुव्रत-अंसे विन्यस्त-हस्तम्, इतरेण अब्जं धुनानं, कर्ण-उत्पल-अलक-कपोल-मुख-अब्ज-हासं (साग्रजं, गोपैः वृतं, यमुनोपवने विचरन्तं, तं कृष्णं विप्रपत्न्यः ददृशुः)।

यस्य वर्णं नीलं; यस्य वस्त्रस्य वर्णं सुवर्णं; यः वनमाला, मयूरपिच्छं, विविधवर्णशिलाधातवः, नवपल्लवयुतमञ्जरी इत्यादिना सह नर्तकस्य वेषं धरति; यस्य एकः पाणिः मित्रस्य स्कन्धे स्थापितं; यस्य इतरेण पाणिना कमलं विचलितं; यस्य श्रोत्रस्य आलङ्कारभूतकमलयुते विकुञ्चितकेशेन ताडितहनूयुते कमलवदने मन्दहासम् अस्ति, तं कृष्णं विप्रपत्न्यः दृष्टवत्यः ।

Earlier shlokas – for understanding the context- taken from the References listed below:

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि न: ।
इतोऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ १६ ॥

namo vo vipra-patnībhyo nibodhata vacāṁsi naḥ
ito ’vidūre caratā kṛṣṇeneheṣitā vayam
[The cowherd boys said:] Obeisances unto you, O wives of the learned brāhmaṇas. Kindly hear our words. We have been sent here by Lord Kṛṣṇa, who is passing by not far from here.
गाश्चारयन् स गोपालै: सरामो दूरमागत: ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ १७ ॥
gāś cārayan sa gopālaiḥ sa-rāmo dūram āgataḥ
bubhukṣitasya tasyānnaṁ sānugasya pradīyatām
He has come a long way with the cowherd boys and Lord Balarāma, tending the cows. Now He is hungry, so some food should be given for Him and His companions.
श्रुत्वाच्युतमुपायातं नित्यं तद्दर्शनोत्सुका: ।
तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमा: ॥ १८ ॥
śrutvācyutam upāyātaṁ nityaṁ tad-darśanotsukāḥ
tat-kathākṣipta-manaso babhūvur jāta-sambhramāḥ

The wives of the brāhmaṇas were always eager to see Kṛṣṇa, for their minds had been enchanted by descriptions of Him. Thus as soon as they heard that He had come, they became very excited.

चतुर्विधं बहुगुणमन्नमादाय भाजनै: ।
अभिसस्रु: प्रियं सर्वा: समुद्रमिव निम्नगा: ॥ १९ ॥
catur-vidhaṁ bahu-guṇam annam ādāya bhājanaiḥ
abhisasruḥ priyaṁ sarvāḥ samudram iva nimnagāḥ

Taking along in large vessels the four kinds of foods, full of fine tastes and aromas, all the ladies went forth to meet their beloved, just as rivers flow toward the sea.
निषिध्यमाना: पतिभिर्भ्रातृभिर्बन्धुभि: सुतै: ।
भगवत्युत्तमश्लोके दीर्घश्रुतधृताशया: ॥ २० ॥
यमुनोपवनेऽशोकनवपल्लवमण्डिते ।
विचरन्तं वृतं गोपै: साग्रजं दद‍ृशु: स्त्रिय: ॥ २१ ॥

niṣidhyamānāḥ patibhir bhrātṛbhir bandhubhiḥ sutaiḥ
bhagavaty uttama-śloke dīrgha-śruta-dhṛtāśayāḥ
yamunopavane ’śoka nava-pallava-maṇḍite
vicarantaṁ vṛtaṁ gopaiḥ sāgrajaṁ dadṛśuḥ striyaḥ

Although their husbands, brothers, sons and other relatives tried to forbid them from going, their hope of seeing Kṛṣṇa, cultivated by extensive hearing of His transcendental qualities, won out. Along the river Yamunā, within a garden decorated with buds of aśoka trees, they caught sight of Him strolling along in the company of the cowherd boys and His elder brother, Balarāma.

References:

  1. http://www.srimadbhagavatamclass.com/srimad-bhagavatam-canto-10-chapter-23-text-22/
  2. https://vedabase.io/en/library/sb/10/23/22/

Tool for transliteration:

  1. http://www.learnsanskrit.org/tools/sanscript 

 

Kunti Stuti Part 6 – Anand – S.B. 1.8.37 – 1.8.40

 

Kunti Stuti is a part of Srimad Bhagavadam comprising of 26 shlokas from 1.8.18 to 1.8.43. Here is a session from the series of sessions conducted by Sri. V. Anand explaining these shlokas in simple Sanskrit. This page contains the detailed notes of the shlokas covered in the sessions – https://nivedita2015.wordpress.com/sanskrit-sessions/srimad-bhagavatam-kunti-stuti

After helping the Pandavas in numerous ways during all of their calamities until the protection of Prakshit in the womb of Uttaraa, when Krishna is all set to leave for Dwaaraka, brimming with gratitude, Kunti praises Krishna. These verses are called Kunti Stuti.

1.8.18 – 1.8.20 Extols His supreme qualities and states that He is beyond her comprehension.

1.8.21 – 1.8.24 Praising Krishna’s form, she salutes Him. Thanking Krishna for protecting her family, Kunti indicates that she is more fortunate than His own mother in getting His protection at multiple occasions.

1.8.25 – 1.8.26 Prays for occurrences of calamities so that Krishna will be always there for them and also since people to whom good things happen are likely to forget the Lord.

1.8.27 – 1.8.28 Extols Krishna’s divine qualities and salutes Him mentioning that he is impartial to all.

1.8.29 – 1.8.31 Kunti says that no one can understand what Krishna wants to do, taking the form of a normal human being. Kunti also wonders at the different forms that Krishna has taken.

1.8.37 – 1.8.40 Kunti claims that all the goodness is only due to the presence of Sri Krishna. If He leaves them, not only will they suffer and lose all their glory, the living beings and even the other immovable animate beings like plants and herbs will also not flourish. She compares their state in His absence to the state of the sense organs, when the soul leaves the body.