(Video) Kalidasa’s Raghuvamsham – Third Sarga – Vidhya Ramesh

Amar Chitra Katha रघुवंशमहाकाव्यम् – तृतीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (Raghuvamsha Maha Kavyam – Third Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-third-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions. Link to the main reference book – Raghuvamsha of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft  More references are given at the end.
Downloadable file is available here. –> <file to be placed here TODO>

तृतीयः सर्गः

Kalidasa’s Raghuvamsam – Third Sarga – Vidhya Ramesh

Here is the playlist with all the sessions. https://www.youtube.com/watch?v=GFsV08jv0DM&list=PLTWf5ZhGT361TAegpOI_3aMKgeIo0VLjz

Kalidasa’s Raghuvamsam – Third Sarga

श्रीरघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः

1.  श्लोकः

मूलपाठः

अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणकौमुदीमुखम्

निदानमिक्ष्वाकुकुलस्य सन्ततेः सुदक्षिणा दौर्हृदलक्षणं दधौ ॥ ३.१ ॥

पदच्छेदः

अथ, ईप्सितम्, भर्तुः, उपस्थित-उदयम्, सखी-जन-उद्वीक्षण-कौमुदी-मुखम्

निदानम्, इक्ष्वाकु-कुलस्य, सन्ततेः, सुदक्षिणा, दौर्हृद-लक्षणम्, दधौ ।

अन्वयः

अथ सुदक्षिणा उपस्थितोदयं, भर्तुः ईप्सितं, सखीजनोद्वीक्षणकौमुदीमुखम्,

इक्ष्वाकुकुलस्य सन्ततेः निदानं, दौर्हृदलक्षणं दधौ ।

अन्वयरचना

  • अथ दधौ [bore]
    • का दधौ ? सुदक्षिणा
    • किं दधौ ? दौर्-हृद-लक्षणम् [signs of pregnancy, i.e., having two hearts]
      • कीदृशं दौर्हृदलक्षणम् ? उपस्थित-उदयम्
      • पुनः कीदृशं दौर्हृदलक्षणम् ? भर्तुः ईप्सितम्
      • पुनः कीदृशं दौर्हृदलक्षणम् ? सखी-जन-उद्वीक्षण-कौमुदी-मुखम्
      • पुनः कीदृशं दौर्हृदलक्षणम् ? निदानम्
        • कस्य निदानम् ? सन्ततेः
          • कस्य सन्ततेः ? इक्ष्वाकु-कुलस्य

छन्दः (१-६९)

  • वृत्तम् – वंशस्थविलः
गु गु गु गु गु गु
थे प्सि तं र्तु रु स्थि तो यं
खी नो द्वी क्ष कौ मु दी मु खम्
नि दा मि क्ष्वा कु कु स्य न्त तेः
सु क्षि णा दौ हृ क्ष णं धौ

 

तात्पर्यम्

अथ गर्भधारणानन्तरं सुदक्षिणा उपस्थितोदयं प्राप्तकालं भर्तुः दिलीपस्य ईप्सितं मनोरथं भावे क्तः। पुनः सखीजनस्य उद्वीक्षणानां दृष्टीनां कौमुदीमुखं चन्द्रिकाप्रादुर्भावस्य अथवा कौमुदी नाम दीपोत्सवतिथेः मुखं प्रारम्भं इक्ष्वाकुकुलस्य सन्ततेः अविच्छेदस्य निदानं मूलकारणं एवंविधं दौर्हृदलक्षणं गर्भचिह्नं वक्ष्यमाणं दधौ ।

2.  श्लोकः

मूलपाठः

शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना ।

तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी ॥ ३.२ ॥

पदच्छेदः

शरीर-सादात्, असमग्रभूषणा, मुखेन, सा, अलक्ष्यत, लोध्र-पाण्डुना, तनु-प्रकाशेन, विचेय-तारका, प्रभात-कल्पा, शशिना, इव, शर्वरी ।

अन्वयः

शरीर-सादात् असमग्रभूषणा, लोध्र-पाण्डुना मुखेन (उपलक्षिता), सा विचेय-तारका,

तनु-प्रकाशेन शशिना (उपलक्षिता), प्रभात-कल्पा शर्वरी इव, अलक्ष्यत ।

अन्वयरचना

  • अलक्ष्यत
    • का अलक्ष्यत ? सा
      • कीदृशी सा ? (उपलक्षिता)
        • केन उपलक्षिता ? मुखेन
          • कीदृशेन मुखेन ? लोध्र-पाण्डुना
        • पुनः कीदृशी सा ? असमग्रभूषणा
          • कस्मात् असमग्रभूषणा ? शरीर-सादात्
        • का इव अलक्ष्यत ? शर्वरी इव
          • कीदृशी शर्वरी ? विचेय-तारका
          • पुनः कीदृशी शर्वरी ? (उपलक्षिता)
            • केन उपलक्षिता ? शशिना
              • कीदृशेन शशिना ? तनु-प्रकाशेन
            • पुनः कीदृशी शर्वरी ? प्रभात-कल्पा

तात्पर्यम्

शरीरस्य सादात् कार्श्यात् असमग्रभुषणा परिमिताभरणा लोघ्रपुष्पेण इव पाण्डुना मुखेन उपलक्षिता सा सुदक्षिणा, विचेयाः मृग्याः तारकाः यस्यां सा तथोक्ता विरलनक्षत्रा, तनुप्रकाशेन अल्पकान्तिना शशिना उपलक्षिता, प्रभातकल्पा ईषद् असमाप्तप्रभाता, प्रभाताद् ईषद् ऊना, शर्वरी रात्रिः इव, अलक्ष्यत ।

3.  श्लोकः

मूलपाठः

तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिमाययौ ।

करीव सिक्तं पृषतैः पयोमुचां शुचिव्यपाये वनराजिपल्वलम् ॥ ३.३ ॥

पदच्छेदः

तद्-आननम्, मृत्सुरभि, क्षितीश्वरः, रहसि, उपाघ्राय, न, तृप्तिम्, आययौ, करी, इव, सिक्तम्, पृषतैः, पयोमुचाम्, शुचिव्यपाये, वनराजिपल्वलम्

अन्वयः

क्षितीश्वरः रहसि मृत्सुरभि तद्-आननम् उपाघ्राय, शुचिव्यपाये पयोमुचां पृषतैः सिक्तं वनराजिपल्वलम् (उपाघ्राय) करी इव, तृप्तिं न आययौ ।

अन्वयरचना

  • न आययौ
    • कः न आययौ ? क्षितीश्वरः
    • कां न आययौ ? तृप्तिम्
    • किं कृत्वा तृप्तिं न आययौ ? उपाघ्राय
      • किम् उपाघ्राय ? तद्-आननम्
        • कीदृशं तद्-आननम् ? मृत्-सुरभि
      • कथम् उपाघ्राय ? रहसि
      • कः इव तृप्तिं न आययौ ? करी इव
        • किं कृत्वा करी तृप्तिं न आययौ ? उपाघ्राय
          • किम् उपाघ्राय ? वन-राजि-पल्वलम् [वन-श्रेणि-पल्वलम्]
            • कीदृशं वन-राजि-पल्वलम् ? सिक्तम्
              • कैः सिक्तम् ? पृषतैः [धाराङ्कुरैः]
                • केषां पृषतैः ? पयस्-मुचाम् [मेघाः ये जलं मुच्छन्ति, तेषाम्]
              • कदा सिक्तम् ? शुचि-व्यपाये [ग्रीष्मकालस्य अन्ते]

तात्पर्यम्

क्षितीश्वरः दिलीपः रहसि मृत्सुरभि मृदा सुगन्धि तस्याः आननं सुदक्षिणायाः मुखम् उपाघ्राय तृप्तिं न ययौ । शुचिव्यपाये ग्रीष्मावसाने पयोमुचां मेघानां पृषतैः बिन्दुभिः सिक्तम् उक्षितं वनराज्याः पल्वलम् उपाघ्राय करी गज इव तृप्तिं न ययौ । गर्भिणीनां मृद्बक्षणं लोकप्रसिद्धमेव । एतेन दोहदाख्यं गर्भलक्षणम् उच्यते ।

4.  श्लोकः

मूलपाठः

दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः ।

अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा ॥ ३.४ ॥

पदच्छेदः

दिवम्, मरुत्वान्, इव, भोक्ष्यते, भुवम्, दिगन्तविश्रान्तरथः, हि, तत्सुतः, अतः, अभिलाषे, प्रथमम्, तथाविधे, मनः, बबन्ध, अन्यरसान्, विलङ्घ्य, सा

अन्वयः

हि दिगन्तविश्रान्तरथः तत्सुतः मरुत्वान् दिवम् इव भुवं भोक्ष्यते । अतः प्रथमं सा तथाविधे अभिलाषे अन्यरसान् विलङ्घ्य मनः बबन्ध ।

अन्वयरचना

  • प्रथमं बबन्ध
    • का बबन्ध ? सा
    • किं बबन्ध ? मनः
    • कस्मिन् बबन्ध ? अभिलाषे
      • कीदृशे अभिलाषे ? तथाविधे
    • किं कृत्वा बबन्ध ? विलङ्घ्य
      • कान् विलङ्घ्य ? अन्यरसान्
    • किमर्थं बबन्ध ? भोक्ष्यते अतः
      • कः भोक्ष्यते ? तत्सुतः (सुदक्षिणायाः पुत्रः)
        • कीदृशः तत्सुतः ? दिग्-अन्त-विश्रान्त-रथः (चक्रवर्ती)
      • किं भोक्ष्यते ? भुवम्
      • कथं भोक्ष्यते ? मरुत्वान् दिवम् इव

तात्पर्यम्

हि यस्मात् दिगन्तविश्रान्तरथः दिगन्ते दिशां प्रान्ते विश्रान्तः रथः स्यन्दनः यस्य सः चक्रवर्ती तस्याः सुतः मरुत्वान् इन्द्रः दिवं स्वर्गम् इव भुवं महीं भोक्ष्यते । अतः प्रथमं पूर्वं सा सुदक्षिणा तथाविधे भूविकारे मृद्-रूपे अभिलाषे अन्ये च ते (मधुर-तिक्त-आम्लान्) रसान् विलङ्घ्य विहाय मनः बबन्ध भावं चक्रे, विदधाव । दोहदहेतुकस्य मृद्भक्षणस्य पुत्रभूभोगसूचनार्थत्वम् उत्प्रेक्षते ।

5.  श्लोकः

मूलपाठः

न मे ह्रिया शंसति किञ्चिदीप्सितं स्पृहावती वस्तुषु केषु मागधी ।

इति स्म पृच्छत्यनुवेलमादृतः प्रियासखीरुत्तरकोसलेश्वरः ॥ ३.५ ॥

पदच्छेदः

न, मे, ह्रिया, शंसति, किञ्चित्, ईप्सितम्, स्पृहावती, वस्तुषु, केषु, मागधी, इति, स्म, पृच्छति, अनुवेलम्, आदृतः, प्रियासखीः, उत्तरकोसलेश्वरः ।

अन्वयः

मागधी ह्रिया किञ्चित् ईप्सितं न मे शंसति । केषु वस्तुषु स्पृहावती (इति) अनुवेलम् आदृतः (सन्) प्रियासखीः उत्तरकोसलेश्वरः पृच्छति स्म ।

अन्वयरचना

  • न शंसति
    • का न शंसति ? मागधी
    • कस्मै न शंसति ? मे
    • कया न शंसति ? ह्रिया
    • किं न शंसति ? ईप्सितम्
      • ईप्सितम् किम् ? किञ्चित्
    • पृच्छति स्म
      • कः पृच्छति स्म ? उत्तरकोसलेश्वरः
        • कीदृशः सन् उत्तरकोसलेश्वरः ? अनुवेलम् आदृतः सन्
      • काः पृच्छति स्म ? प्रियासखीः
      • किमिति पृच्छति स्म ? केषु वस्तुषु स्पृहावती (इति)

तात्पर्यम्

मगधस्य राज्ञोपत्यं स्त्री मागधी सुदक्षिणा ह्रिया लज्जया किंचित् किमपि ईप्सितम् इष्टं मे मह्यं न शंसति वदति । केषु वस्तुषु स्पृहावती साभिलाषा (इति) अनुवेलम् आदृतः (सन्) प्रियायाः सखीः सहचरीः उत्तरकोशलेश्वरः दिलीपः पृच्छति स्म पप्रच्छ । सखीनां विश्रम्भभूमित्वाद् इति भावः।

6.  श्लोकः

मूलपाठः

उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतम् ।

न हीष्टमस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यमधिज्यधन्वनः ॥ ३.६ ॥

पदच्छेदः

उपेत्य, सा, दोहददुःखशीलताम्, यद्, एव, वव्रे, तद्, अपश्यत्, आहृतम्, न, हि, इष्टम्, अस्य, त्रिदिवे, अपि, भूपतेः, अभूत्, अनासाद्यम्, अधिज्यधन्वनः ।

पदार्थः

  • सा = सुदक्षिणा
  • दोहददुःखशीलताम्
    • गर्भिण्याः अभिलाषः = दोहदः ।
    • दोहददुःखशीलताम् = गर्भिणी-मनोरथेन दुःखस्वभावताम् ।
    • दोहदस्याप्रदानेन गर्भो दोषमवाप्नुयात् ।
    • वैरूप्यं मरणं वापि तस्मात् कार्यं प्रियं स्त्रियाः ॥ याज्ञवल्क्यसंहिता (३/७९)
  • उपेत्य = प्राप्य
  • यद् = यत्किमपि
  • वव्रे = आकाङ्क्षति स्म
  • तत् आहृतम् = तद् वस्तु आनीतं (पत्या)
  • अपश्यत् एव = अवलोकितवती एव ।
  • हि = यस्मात्
  • अधिज्यधन्वनः = यस्य धनुषि मौर्वी आरोपिता (सर्वदा प्रयोगदशायां)
  • अस्य = भूपतेः
  • त्रिदिवे अपि = स्वर्गे अपि
  • इष्टम् अनासाद्यं न = अभिलषितम् अप्राप्यं न अभूत् । (किमुत इहलोके?)

अन्वयः

सा दोहददुःखशीलताम् उपेत्य यद् वव्रे तद् आहृतम् । अपश्यत् एव | हि अधिज्यधन्वनः अस्य भूपतेः त्रिदिवे अपि इष्टम् अनासाद्यं न अभूत् ।

अन्वयरचना

  • आहृतम् (आसीत्) ।
    • किम् आहृतम् ? यद् वव्रे तद्
      • का वव्रे ? सा
      • किं कृत्वा वव्रे ? उपेत्य
        • काम् उपेत्य ? दोहददुःखशीलताम्
      • (तद्) अपश्यत् एव
        • किमर्थम् अपश्यत् एव ? अनासाद्यम् न अभूत् हि
          • किम् अनासाद्यम् न अभूत् ? इष्टम्
          • कुत्र अपि अनासाद्यम् न अभूत् ? त्रिदिवे अपि
          • कस्य अनासाद्यम् न अभूत् ? अस्य भूपतेः
            • कीदृशस्य अस्य ? अधिज्यधन्वनः

तात्पर्यम्

सा सुदक्षिणा दोहदेन गर्भिणीमनोरथेन दुःखशीलतां दुःखस्वभावताम् उपेत्य प्राप्य यद् वस्तु वव्रे आचकाङ्क्षे तद् भर्त्रा दिलीपेन आहृतम् आनीताम् । तद् सर्वं सा अपश्यत् अलभत एव । यतः अस्य भूपतेः दिलीपस्य त्रिदिवे स्वर्गे अपि इष्टं वस्तु अनासाद्यम् अनवाप्यं न अभूत् । तदपि याचनेन न, किन्तु तस्य पराक्रमेण इति वक्तुं, तस्य चापम् आरोपित-मौर्वीकम् आसीत् इत्याह । वीरपत्नीनाम् अलभ्यं नाम किञ्चित् न हि अस्ति इति भावः ।

7.  श्लोकः

मूलपाठः

क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा ।

पुराणपत्रापगमादनन्तरं लतेव सन्नद्धमनोज्ञपल्लवा ॥ ३.७ ॥

पदच्छेदः

क्रमेण, निस्तीर्य, च, दोहदव्यथाम्, प्रचीयमानावयवा, रराज, सा, पुराणपत्रापगमात्, अनन्तरम्, लता, इव, सन्नद्धमनोज्ञपल्लवा ।

पदार्थः

  • सा = सुदक्षिणा
  • क्रमेण = क्रमशः
  • दोहदव्यथां निस्तीर्य = गर्भिणीमनोरथेन यत् दुःखं ताम् अतिक्रम्य
  • प्रचीयमानावयवा सती = पुष्यमाणाः हस्तपादादयः यस्याः सा
  • पुराणपत्रापगमात् अनन्तरम् = पुरातन-पर्णानां नाशाद् अनन्तरम्
  • सन्नद्ध-मनोज्ञ-पल्लवा लता इव = सञ्जाताः सुन्दराः किसलयाः यस्याः तादृशी लता इव
  • रराज = शुशुभे

अन्वयः

सा क्रमेण दोहदव्यथां निस्तीर्य च, प्रचीयमानावयवा (सती), पुराणपत्रापगमात् अनन्तरं सन्नद्धमनोज्ञपल्लवा लता इव, रराज ।

अन्वयरचना

  • रराज
    • का रराज ? सा
    • किं कृत्वा रराज ? निस्तीर्य
      • कां निस्तीर्य ? दोहदव्यथां च
      • कथं निस्तीर्य ? क्रमेण
    • कथंभूता सती सा ? प्रचीयमानावयवा (सती)
    • का इव रराज ? लता
      • कीदृशी लता ? सन्नद्धमनोज्ञपल्लवा
        • कदा सन्नद्धमनोज्ञपल्लवा ? पुराणपत्रापगमात् अनन्तरम्

तात्पर्यम्

सा सुदक्षिणा क्रमेण दोहदव्यथां च निस्तीर्य, प्रचीयमानावयवा पुष्यमाणावयवा सती, पुराणपत्राणाम् अपगमात् नाशाद् अनन्तरं संनद्धाः संजाताः प्रत्यग्रत्वात् (नूतनत्वात्) मनोज्ञाः पल्लवाः यस्यां तादृशी लता इव, रराज शुशुभे ।

8.  श्लोकः

मूलपाठः

दिनेषु गच्छत्सु नितान्तपीवरं तदीयमानीलमुखं स्तनद्वयम् ।

तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम् ॥ ३.८ ॥

पदच्छेदः

दिनेषु, गच्छत्सु, नितान्तपीवरम्, तदीयम्, आनीलमुखम्, स्तनद्वयम्, तिरश्चकार, भ्रमराभिलीनयोः, सुजातयोः, पङ्कजकोशयोः, श्रियम् ।

पदार्थः

  • सा = सुदक्षिणा
  • दिनेषु गच्छत्सु (सत्सु) = दोहददिवसेषु गच्छत्सु
  • नितान्तपीवरम् आनीलमुखं तदीयं स्तनद्वयम् = अतिस्थूलं, कृष्णे चूचुके यस्मिन् तत् तस्याः स्तनयुगलम्
  • भ्रमराभिलीनययोः सुजातयोः पङ्कजकोशयोः = भ्रमरैः व्याप्तयोः सुष्ठु विकसितयोः कमलमुकुलयोः
  • श्रियं तिरश्चकार = शोभाम् अधरीचकार
  • अम्लेष्टता स्तनौ पीनौ श्वेतान्तौ कृष्णचूचुकौ ॥ – वाग्भटः

अन्वयः

दिनेषु गच्छत्सु (सत्सु) नितान्तपीवरम् आनीलमुखं तदीयं स्तनद्वयम् भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियं तिरश्चकार ।

अन्वयरचना

  • तिरश्चकार
    • किं तिरश्चकार ? स्तनद्वयम् [कर्ता]
      • कीदृशं स्तनद्वयम् ? तदीयम्
      • पुनः कीदृशं स्तनद्वयम् ? आनीलमुखम्
      • पुनः कीदृशं स्तनद्वयम् ? नितान्तपीवरम्
    • किं तिरश्चकार ? श्रियम् [कर्म]
      • कयोः श्रियम् ? पङ्कजकोशयोः
        • कीदृशयोः पङ्कजकोशयोः ? सुजातयोः
        • पुनः कीदृशयोः पङ्कजकोशयोः ? भ्रमराभिलीनयोः
      • कदा तिरश्चकार ? दिनेषु गच्छत्सु (सत्सु)

तात्पर्यम्

दिनेषु दोहददिवसेषु गच्छत्सु सत्सु, नितान्तपीवरम् अतिस्थूलम्, आ समन्तात् नीले मुखे चूचुके यस्य तादृशं, तदीयं सुदक्षिणायाः स्तनद्वयम् कुचयुगं, ब्रमरैः अभिलीनयोः अभिव्याप्तयोः सुजातयोः सुष्ठु विकसितयोः, सुन्दरयोः पङ्कजकोशयोः पद्ममुकुलयोः, श्रियं शोभां तिरश्चकार ।

9.  श्लोकः

मूलपाठः

निधानगर्भाम् इव सागराम्बरां शमीम् इवाभ्यन्तरलीनपावकाम् ।

नदीम् इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीम् अमन्यत ॥ ३.९ ॥

पदच्छेदः

निधानगर्भाम्, इव, सागराम्बराम्, शमीम्, इव, अभ्यन्तरलीनपावकाम्, नदीम्, इव, अन्तःसलिलाम्, सरस्वतीम्, नृपः, ससत्त्वाम्, महिषीम्, अमन्यत ।

पदार्थः

  • नृपः = दिलीपराजः
  • ससत्त्वां महिषीम् = आपन्नसत्त्वाम् (प्राणिना सहिताम्), राज्ञीम्
  • निधानगर्भां सागराम्बराम् इव = निधिः गर्भे यस्याः ताम्, समुद्रवसनां भूमिम् (रत्नगर्भा, सागरम्बरा = भूमिः)
  • अभ्यन्तरलीनपावकां शमीम् इव = अभ्यन्तरे निगूढः पावकः (अग्निः) यस्याः ताम्
  • अन्तःसलिलां सरस्वतीम् इव = अन्तः सलिलं यस्याः सा सरस्वतीनदीम् इव
  • अमन्यत = भावयति स्म
  • भूमिः = रत्नगर्भा भूमिः इत्यनेन भाग्यत्वं च,
  • शमी = शमी इत्यनेन तेजस्वित्वं च,
  • सरस्वती = सरस्वती इत्यनेन पावनत्वं च, विवक्षितानि

अन्वयः

नृपः ससत्त्वां महिषीं, निधानगर्भां सागराम्बराम् इव, अभ्यन्तरलीनपावकां शमीम् इव, अन्तःसलिलां सरस्वतीं नदीम् इव, अमन्यत ।

अन्वयरचना

  • अमन्यत
    • अमन्यत ? नृपः
    • काम् अमन्यत ? महिषीम्
      • कीदृशीं महिषीम् ? ससत्त्वाम्
    • कामिव अमन्यत ? सागराम्बराम् इव
      • कीदृशीं सागराम्बराम् ? निधानगर्भाम्
    • पुनः कामिव अमन्यत ? शमीम् इव
      • कीदृशीं शमीम् ? अभ्यन्तरलीनपावकाम्
    • पुनः कामिव अमन्यत ? अन्तःसलिलां सरस्वतीं नदीम् इव
      • कां नदीम् ? अन्तःसलिलां सरस्वतीम्

तात्पर्यम्

नृपः दिलीपः ससत्त्वाम् आपन्नसत्त्वां (सगर्भां, गर्भिणीं), महिषीम् पट्टराज्ञीं, निधानं निधिः गर्भे यस्याः तादृशीं, सागराम्बरां समुद्रवसनां भूमिम् इव, अभ्यन्तरे मध्ये लीनः लग्नः पावकः अग्निः यस्याः तादृशीं शमीम् इव, अन्तःसलिलाम् अन्तर्गतजलां सरस्वतीं नदीम् इव अमन्यत भावयति स्म । एतेन गर्भस्य भाग्यवत्त्व-तेजस्वित्व-पावनत्वानि विवक्षितानि ।

10.         श्लोकः

मूलपाठः

प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसम्पदाम् ।

यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥ ३.१० ॥

पदच्छेदः

प्रियानुरागस्य, मनःसमुन्नतेः, भुजार्जितानाम्, च, दिगन्तसम्पदाम्, यथाक्रमम्, पुंसवनादिकाः, क्रियाः, धृतेः, च, धीरः, सदृशीः, व्यधत्त, सः ।

पदार्थः

  • धीरः सः = मनीषी प्राज्ञः सः नृपः
  • प्रियानुरागस्य = प्रियायां स्नेहस्य
  • मनःसमुन्नतेः = मनसः औदार्यस्य
  • भुजार्जितानां दिगन्तसम्पदां च = भुजबलेन प्राप्ताः याः दिगन्तरेषु सम्पत्तयः, तासाम्
  • धृतेः च = तुष्टेः च (पुत्रो मे भविष्यतीति)
  • सदृशीः = अनुरूपाः
  • पुंसवनादिकाः = पुमान् सूयते अनेन इति पुंसवनम् । पुंसवनम् आदिः (क्रियाः) यासां ताः पुंसवनादिकाः
  • क्रियाः = संस्कारान्
  • व्यधत्त = अकरोत् ।

अन्वयः

धीरः सः प्रियानुरागस्य मनःसमुन्नतेः भुजार्जितानां दिगन्तसम्पदां च धृतेः च

सदृशीः पुंसवनादिकाः क्रियाः यथाक्रमं व्यधत्त ।

अन्वयरचना

  • व्यधत्त
    • कः व्यधत्त ? धीरः सः
    • काः व्यधत्त ? क्रियाः
      • कीदृशीः क्रियाः ? पुंसवनादिकाः
      • पुनः कीदृशीः क्रियाः ? सदृशीः
        • कस्य सदृशीः ? प्रियानुरागस्य
        • पुनः कस्याः सदृशीः ? मनःसमुन्नतेः
        • पुनः केषां सदृशीः ? दिगन्तसम्पदां च
          • कीदृशानां दिगन्तसम्पदाम् ? भुजार्जितानाम्
        • पुनः कस्याः सदृशीः ? धृतेः च
      • कथं व्यधत्त ? यथाक्रमम्

तात्पर्यम्

धीरः सः राजा प्रियायाम् अनुरागस्य स्नेहस्य, मनसः समुन्नतेः औदार्यस्य, भुजेन भुजबलेन करेण वा अर्जितानां (न तु वाणिज्यादिना) दिगन्तेषु सम्पदां, धृतेः पुत्रः मे भविष्यति इति संतोषस्य च, सदृशीः अनुरूपाः पुंसवनं तदादिः आनवलाभनं सीमन्तोन्नयनम् इत्यादि यासां ताः क्रियाः यथाक्रमं क्रमम् अनतिक्रम्य व्यधत्त कृतवान् ।

11.         श्लोकः

मूलपाठः

सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।

तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥ ३.११ ॥

पदच्छेदः

सुरेन्द्रमात्राश्रितगर्भगौरवात्, प्रयत्नमुक्तासनया, गृहागतः, तया, उपचाराञ्जलिखिन्नहस्तया, ननन्द, पारिप्लवनेत्रया, नृपः ।

अन्वयः

गृहागतः नृपः सुरेन्द्रमात्राश्रितगर्भगौरवात् प्रयत्नमुक्तासनया उपचाराञ्जलिखिन्नहस्तया पारिप्लवनेत्रया तया ननन्द ।

अन्वयरचना

  • ननन्द
    • कः ननन्द ? नृपः
      • कीदृशः नृपः ? गृहागतः
    • कया ननन्द ? तया
      • कीदृश्या तया ? प्रयत्नमुक्तासनया
        • कस्मात् प्रयत्नमुक्तासनया ? सुरेन्द्रमात्राश्रितगर्भगौरवात्
      • पुनः कीदृश्या तया ? उपचाराञ्जलिखिन्नहस्तया
      • पुनः कीदृश्या तया ? पारिप्लवनेत्रया

तात्पर्यम्

गृहागतः गृहंप्रति आगतः नृपः सुरेन्द्राणां मात्राभिः अंशैः श्रितस्य अनुप्रविष्टस्य गर्भस्य गौरवात् भारात् प्रयत्नमुक्तासनया प्रयत्नेन आसनात् उत्थितया, उपचारस्य अञ्जलौ अञ्जलीकरणे खिन्नहस्तया, पारिप्लवनेत्रया तरलाक्ष्या, तया ननन्द ।

12.         श्लोकः

मूलपाठः

कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि ।

पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रीतमिव ॥ ३.१२ ॥

पदच्छेदः

कुमारभृत्याकुशलैः, अनुष्ठिते, भिषग्भिः, आप्तैः, अथ, गर्भभर्मणि, पतिः, प्रतीतः, प्रसवोन्मुखीम्, प्रियाम्, ददर्श, काले, दिवम्, अभ्रीतम्, इव ।

अन्वयः

अथ कुमारभृत्याकुशलैः आप्तैः भिषग्भिः गर्भभर्मणि अनुष्ठिते (सति) काले प्रसवोन्मुखीं प्रियाम् अभ्रीतं दिवम् इव पतिः प्रतीतः सन् ददर्श ।

अन्वयरचना

  • अथ ददर्श
    • कः ददर्श ? पतिः
    • कीदृशः सन् पतिः ? प्रतीतः सन्
    • कां ददर्श ? प्रियाम्
      • कीदृशीं प्रियाम् ? प्रसवोन्मुखीम्
    • किमिव ददर्श ? अभ्रीतं दिवम् इव
    • कदा ददर्श ? काले
    • कदा ददर्श ? गर्भभर्मणि अनुष्ठिते (सति)
      • कैः अनुष्ठिते (सति) ? भिषग्भिः
        • कीदृशैः भिषग्भिः ? आप्तैः
        • पुनः कीदृशैः भिषग्भिः ? कुमारभृत्याकुशलैः

तात्पर्यम्

अथ कुमारभृत्यां बालचिकित्सायां कुशलैः कृतिभिः आप्तैः भिषग्भिः वैद्यैः गर्भभर्मणि गर्भस्य भरणे अनुष्ठिते सति, काले प्रसवस्य गर्भमोचनस्य उन्मुखीं प्रियां भार्याम् अभ्रीतं सञ्जातमेघां दिवम् आकाशम् इव पतिः प्रतीतः हृष्टः सन् ददर्श दृष्टवान् ।

13.         श्लोकः

मूलपाठः

ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसम्पदम् ।

असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥ ३.१३ ॥

पदच्छेदः

ग्रहैः, ततः, पञ्चभिः, उच्चसंश्रयैः, असूर्यगैः, सूचितभाग्यसम्पदम्, असूत, पुत्रम्, समये, शचीसमा, त्रिसाधना, शक्तिः, इव, अर्थम्, अक्षयम् ।

अन्वयः

ततः शचीसमा समये सति उच्चसंश्रयैः असूर्यगैः पञ्चभिः ग्रहैः सूचितभाग्यसम्पदं पुत्रं त्रिसाधना शक्तिः अक्षयम् अर्थम् इव असूत ।

अन्वयरचना

  • ततः असूत
    • का असूत ? शचीसमा
    • कदा असूत ? समये सति
    • कम् असूत ? पुत्रम्
      • कीदृशं पुत्रम् ? सूचितभाग्यसम्पदम्
        • कैः सूचितभाग्यसम्पदम् ? पञ्चभिः ग्रहैः
          • कीदृशैः ग्रहैः ? असूर्यगैः
          • पुनः कीदृशैः ग्रहैः ? उच्चसंश्रयैः
        • किमिव असूत ? त्रिसाधना शक्तिः इव
          • किं शक्तिः असूत ? अक्षयम् अर्थम्

तात्पर्यम्

ततः शचीसमा इन्द्राण्या तुल्या समये प्रसूतिकाले सति, उच्चसंश्रयैः उच्चस्थानस्थितैः असूर्यगैः अनस्तमितैः पञ्चभिः ग्रहैः सूचितभाग्यसम्पदं प्रकटिता भागधेयस्य संपत्तिः यस्य सः तादृशं पुत्रं, त्रिसाधना प्रभावमन्त्रोत्साहाः उपायाः यस्याः तादृशा शक्तिः अक्षयं नाशरहितम् अर्थम् इव असूत ।

14.         श्लोकः

मूलपाठः

दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे ।

बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशाम् ॥ ३.१४ ॥

पदच्छेदः

दिशः, प्रसेदुः, मरुतः, ववुः, सुखाः, प्रदक्षिणार्चिः, हविः, अग्निः, आददे, बभूव, सर्वम्, शुभशंसि, तत्क्षणम्, भवो, हि, लोकाभ्युदयाय, तादृशाम् ।

अन्वयः

तत्क्षणं दिशः प्रसेदुः । मरुतः सुखाः ववुः । प्रदक्षिणार्चिः (सन्) अग्निः हविः आददे । (इत्थं) सर्वं शुभशंसि बभूव हि । तादृशां भवः लोकाभ्युदयाय (भवति) ।

अन्वयरचना

  • प्रसेदुः
    • कः प्रसेदुः ? दिशः
    • कदा प्रसेदुः ? तत्क्षणम्
  • ववुः
    • कः ववुः ? मरुतः सुखाः
  • आददे
    • कः आददे ? अग्निः
      • कीदृशः सन् अग्निः ? प्रदक्षिणार्चिः (सन्)
    • किम् आददे ? हविः
  • (इत्थं) बभूव हि
    • किं बभूव ? सर्वं शुभशंसि
  • भवः (भवति)
    • केषां भवः ? तादृशाम्
    • किमर्थं भवति ? लोकाभ्युदयाय

तात्पर्यम्

तत्क्षणं दिशः प्रसेदुः प्रसन्ना बभूवुः । मरुतः वाताः सुखाः मनोहराः ववुः वान्ति स्म । प्रदक्षिणार्चिः दक्षिणं प्रगता प्रदक्षिणा ज्वाला यस्य तादृशः (सन्) अग्निः हविः हवनीयद्रव्यम् आददे स्वीचकार । (इत्थं) सर्वं शुभशंसि शुभसूचकं बभूव हि । तादृशां रघुप्रकाराणां भवः जन्म लोकाभ्युदयाय (भवति) । देवाः अपि सन्तुष्टाः भवन्ति इत्यर्थः ।

15.         श्लोकः

मूलपाठः

अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।

निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥ ३.१५ ॥

पदच्छेदः

अरिष्टशय्याम्, परितः, विसारिणा, सुजन्मनः, तस्य, निजेन, तेजसा, निशीथदीपाः, सहसा, हतत्विषः, बभूवुः, आलेख्यसमर्पिताः, इव ।

अन्वयः

अरिष्टशय्यां परितः विसारिणा सुजन्मनः तस्य निजेन तेजसा सहसा हतत्विषः निशीथदीपाः आलेख्यसमर्पिताः इव बभूवुः ।

अन्वयरचना

  • बभूवुः
    • काः बभूवुः ? निशीथदीपाः
      • कीदृशाः निशीथदीपाः ? हत-त्विषः
      • कथं हतत्विषः ? सहसा
        • कया हतत्विषः ? तेजसा
          • कीदृशेन तेजसा ? निजेन
          • कस्य तेजसा ? तस्य
            • कीदृशस्य तस्य ? सुजन्मनः
          • कीदृशेन तेजसा ? विसारिणा
            • कुत्र विसारिणा ? परितः
              • कस्यां परितः ? अरिष्टशय्याम्
            • काः इव बभूवुः ? आलेख्यसमर्पिताः इव

तात्पर्यम्

अरिष्टे सूतिकागृहे शय्यां तल्पं परितः अभितः विसारिणा प्रसृतेन सुजन्मनः शोभनोत्पत्तेः तस्य शिशोः निजेन नैसर्गिकेन तेजसा सहसा हतत्विषः क्षीणकान्त्यः निशीथदीपाः अर्धरात्रिप्रदीपाः आलेख्यसमर्पिताः चित्रार्पिताः इव बभूवुः ।

16.         श्लोकः

मूलपाठः

जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसम्मिताक्षरम् ।

अदेयम् आसीत्त्रयम् एव भूपतेः शशिप्रभं छत्रम् उभे च चामरे ॥ ३.१६ ॥

पदच्छेदः

जनाय, शुद्धान्तचराय, शंसते, कुमारजन्म, अमृतसम्मिताक्षरम्, अदेयम्, आसीत्, त्रयम्, एव, भूपतेः, शशिप्रभम्, छत्रम्, उभे, च, चामरे ।

अन्वयः

भूपतेः अमृतसम्मिताक्षरं कुमारजन्म शंसते शुद्धान्तचराय जनाय त्रयम् एव अदेयम् आसीत् । (तत्किं) शशिप्रभं छत्रं च उभे चामरे च ।

अन्वयरचना

  • अदेयम् आसीत्
    • किम् अदेयम् आसीत् ? त्रयम् एव
    • कस्मै अदेयम् आसीत् ? जनाय
      • कीदृशाय जनाय ? शंसते
        • किं शंसते ? कुमारजन्म
          • कीदृशं कुमारजन्म ? अमृतसम्मिताक्षरम्
          • कस्य अमृतसंमिताक्षरम् ? भूपतेः
        • तत् किम् ? शशिप्रभं छत्रं च उभे चामरे च ।

तात्पर्यम्

भूपतेः दिलीपस्य अमृतसम्मिताक्षरम् अमृतसमानाक्षरं कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचराय अन्तःपुरचारिणे जनाय त्रयम् एव अदेयम् आसीत् । (तत्किं) शशिप्रभं उज्ज्वलं छत्रं च उभे चामरे च । छत्रादीनां राज्ञः प्रधानाङ्गत्वात् अदेयत्वम् इति भावः ।

17.         श्लोकः

मूलपाठः

निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननम् ।

महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ ३.१७ ॥

पदच्छेदः

निवातपद्मस्तिमितेन, चक्षुषा, नृपस्य, कान्तम्, पिबतः, सुताननम्, महोदधेः, पूरः, इव, इन्दुदर्शनात्, गुरुः, प्रहर्षः, प्रबभूव, न, आत्मनि ।

अन्वयः

निवातपद्मस्तिमितेन चक्षुषा कान्तं सुताननं पिबतः नृपस्य गुरुः प्रहर्षः इन्दुदर्शनात् महोदधेः पूरः इव आत्मनि न प्रबभूव ।

अन्वयरचना

  • न प्रबभूव
    • कः न प्रबभूव ? प्रहर्षः
      • कीदृशः प्रहर्षः ? गुरुः
      • कस्य प्रहर्षः ? नृपस्य
        • कीदृशस्य नृपस्य ? पिबतः
        • केन पिबतः ? चक्षुषा
          • कीदृशेन चक्षुषा ? निवातपद्मस्तिमितेन
        • किं पिबतः ? सुताननम्
          • कीदृशं सुताननम् ? कान्तम्
        • कः इव न प्रबभूव ? पूरः इव
          • कस्य पूरः ? महोदधेः
          • कस्मात् पूरः ? इन्दुदर्शनात्
        • कुत्र न प्रबभूव ? आत्मनि

तात्पर्यम्

निवातपद्मस्तिमितेन निर्वातप्रदेशे यद् पद्मं तद्वत् निष्पन्देन चक्षुषा कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतः तृष्णया पश्यतः नृपस्य गुरुः उत्कटः प्रहर्षः इन्दुदर्शनात् महोदधेः पूरः जलौघः इव आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक ।

18.         श्लोकः

मूलपाठः

स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।

दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥ ३.१८ ॥

पदच्छेदः

सः, जातकर्मणि, अखिले, तपस्विना, तपोवनात्, एत्य, पुरोधसा, कृते, दिलीपसूनुः, मणिः, आकरोद्भवः, प्रयुक्तसंस्कारः, इव, अधिकम्, बभौ ।

अन्वयः

सः दिलीपसूनुः तपस्विना पुरोधसा तपोवनात् एत्य अखिले जातकर्मणि कृते (सति) प्रयुक्तसंस्कारः आकरोद्भवः मणिः इव अधिकं बभौ ।

अन्वयरचना

  • अधिकं बभौ
    • कः बभौ ? सः दिलीपसूनुः
    • कः इव ? मणिः इव
      • कीदृशः मणिः ? आकरोद्भवः
      • पुनः कीदृशः मणिः ? प्रयुक्तसंस्कारः
    • कदा बभौ ? जातकर्मणि कृते (सति)
      • कीदृशे जातकर्मणि ? अखिले
      • केन कृते (सति) ? पुरोधसा
        • कीदृशेन पुरोधसा ? तपस्विना
      • किं कृत्वा कृते (सति)? एत्य
        • कस्मात् एत्य ? तपोवनात्

तात्पर्यम्

सः दिलीपसूनुः तपस्विना पुरोधसा पुरोहितेन वसिष्टेन तपोवनात् एत्य आगत्य अखिले समग्रे जातकर्मणि जातस्य कर्तव्य-संस्कार-विशेषे कृते सति, प्रयुक्तसंस्कारः प्रयुक्तः संस्कारः यस्य सः तथोक्तः सन् आकरोद्भवः खानिप्रभवः मणिः इव अधिकं बभौ शुशुभे ।

19.         श्लोकः

मूलपाठः

सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषिताम् ।

न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसामपि ॥ ३.१९ ॥

पदच्छेदः

सुखश्रवाः, मङ्गलतूर्यनिस्वनाः, प्रमोदनृत्यैः, सह, वारयोषिताम्, न, केवलम्, सद्मनि, मागधीपतेः, पथि, व्यजृम्भन्त, दिवौकसाम्, अपि ।

अन्वयः

सुखश्रवाः मङ्गलतूर्यनिस्वनाः वारयोषितां प्रमोदनृत्यैः सह मागधीपतेः सद्मनि केवलं न व्यजृम्भन्त । (किन्तु) दिवौकसां पथि अपि व्यजृम्भन्त ।

अन्वयरचना

  • केवलं न व्यजृम्भन्त
    • काः व्यजृम्भन्त ? मङ्गलतूर्यनिस्वनाः
      • कीदृशाः मङ्गलतूर्यनिस्वनाः ? सुखश्रवाः
      • कैः सह मङ्गलतूर्यनिस्वनाः ? प्रमोदनृत्यैः सह
        • कासां प्रमोदनृत्यैः सह ? वारयोषिताम्
      • कस्मिन् केवलं न व्यजृम्भन्त ? सद्मनि
        • कस्य सद्मनि ? मागधीपतेः
      • व्यजृम्भन्त
        • कुत्र व्यजृम्भन्त ? (किन्तु) पथि अपि
          • केषां पथि ? दिवौकसाम्

तात्पर्यम्

सुखश्रवाः सुखकरः श्रवां येषां ते तथोक्ताः अतिसुखाः मङ्गलतूर्यनिस्वनाः मङ्गल-वाद्य-ध्वनयः वारयोषितां वेश्यानां प्रमोदनृत्यैः हर्ष-नर्तनैः सह मागधीपतेः सद्मनि केवलं गृहे एव न व्यजृम्भन्त ववृधिरे । (किन्तु) दिवौकसां देवानां पथि मार्गे आकाशे अपि व्यजृम्भन्त ।

20.         श्लोकः

मूलपाठः

न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः ।

ऋणाभिधानात्स्वयं एव केवलं तदा पितॄणां मुमुचे स बन्धनात् ॥ ३.२० ॥

पदच्छेदः

न, संयतः, तस्य, बभूव, रक्षितुः, विसर्जयेत्, यम्, सुतजन्महर्षितः, ऋणाभिधानात्, स्वयम्, एव, केवलम्, तदा, पितॄणाम्, मुमुचे, सः, बन्धनात् ।

अन्वयः

रक्षितुः तस्य संयतः न बभूव यं सुतजन्महर्षितः सन् विसर्जयेत् । तदा सः पितॄणां ऋणाभिधानात् बन्धनात् केवलं स्वयम् एव मुमुचे ।

अन्वयरचना

  • न बभूव
    • कः न बभूव ? संयतः
      • कस्य संयतः ? रक्षितुः तस्य
      • कीदृशः संयतः ? यं विसर्जयेत्
        • कः विसर्जयेत् ? सः
          • कीदृशः सन् सः ? सुतजन्महर्षितः सन्
        • मुमुचे
          • कः मुमुचे ? सः
          • कं मुमुचे ? केवलं स्वयम् एव
          • कस्मात् मुमुचे ? बन्धनात्
            • कीदृशात् बन्धनात् ? ऋणाभिधानात्
              • कीषां ऋणाभिधानात् ? पितॄणाम्
            • कदा मुमुचे ? तदा

तात्पर्यम्

रक्षितुः संयक्-पालन-शीलनस्य तस्य दिलीपस्य संयतः बद्धः न बभूव अभूत् सुतजन्महर्षितः सुतजन्मना तोषितः सन् यं बद्धं विसर्जयेत् विमोचयेत् । तदा सः पितॄणां ऋणाभिधानात् पितॄणां ऋणम् इति यस्य नाम तथोक्तात् बन्धनात् केवलं स्वयम् एव मुमुचे मुक्तः ।

21.         श्लोकः

मूलपाठः

श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः ।

अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसम्भवम् ॥ ३.२१ ॥

पदच्छेदः

श्रुतस्य यायात् अयम् अन्तम् अर्भकः तथा परेषाम् युधि च इति पार्थिवः अवेक्ष्य धातोर्गमनार्थम् अर्थवित् चकार नाम्ना रघुम् आत्मसम्भवम्

अन्वयः

अर्थवित् पार्थिवः अयम् अर्भकः श्रुतस्य अन्तं यायात् तथा युधि परेषाम् अन्तं च यायात् इति धातोः गमनार्थम् अवेक्ष्य आत्मसम्भवं नाम्ना रघुं चकार ।

अन्वयरचना

  • चकार
    • कः चकार ? अयम् अर्भकः
      • कीदृशः अयम् ? पार्थिवः
      • पुनः कीदृशः अयम् ? अर्थवित्
    • कं चकार ? आत्मसम्भवम्
    • कमिति चकार ? नाम्ना रघुम् (इति)
    • किं कृत्वा चकार ? अवेक्ष्य
      • किम् अवेक्ष्य ? गमनार्थम्
        • कस्य गमनार्थम् ? धातोः
      • किमिति गमनार्थम् ? यायात् इति
        • किं यायात् ? अन्तम्
          • कस्य अन्तम् ? श्रुतस्य
        • पुनः किमिति गमनार्थम् ? तथा यायात् इति
          • किं यायात् ? अन्तम्
            • केषाम् अन्तम् ? परेषाम्
            • कस्मिन् अन्तम् ? युधि

तात्पर्यम्

अयम् अर्भकः बालकः श्रुतस्य शास्त्रस्य अन्तं पारं यायात् गच्छेत् / गन्तुं शक्नुयात् । तथा युधि परेषां शत्रूणाम् अन्तं पारं यायात् गच्छेत् इति हेतोः लङ्घ् “लघिँ गतौ” इति लघि-धातोः गमनार्थम् अवेक्ष्य आलोच्य अर्थवित् पार्थिवः पृथिव्याः ईश्वरः दिलीपः आत्मसम्भवं पुत्रं नाम्ना रघुं रघुनामानं चकार कृतवान् ।

22.         श्लोकः

मूलपाठः

पितुः प्रयत्नात्स समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने ।

पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ ३.२२ ॥

पदच्छेदः

पितुः प्रयत्नात् सः समग्रसम्पदः शुभैः शरीरावयवैः दिने दिने पुपोष वृद्धिम् हरिदश्वदीधितेः अनुप्रवेशात् इव बालचन्द्रमाः

अन्वयः

सः समग्रसम्पदः पितुः प्रयत्नात् शुभैः शरीरावयवैः हरिदश्वदीधितेः अनुप्रवेशात् बालचन्द्रमाः इव दिने दिने पुपोष ।

अन्वयरचना

  • पुपोष
    • कः पुपोष ? सः
    • कं पुपोष ? (वृद्धिम्)
    • कस्मात् पुपोष ? प्रयत्नात्
      • कस्य प्रयत्नात् ? पितुः
        • कीदृशस्य पितुः ? समग्रसम्पदः
      • कैः पुपोष ? शरीरावयवैः
        • कीदृशैः शरीरावयवैः ? शुभैः
      • कः इव पुपोष ? बालचन्द्रमाः इव
        • कस्मात् पुपोष ? अनुप्रवेशात्
          • कस्य अनुप्रवेशात् ? हरिदश्वदीधितेः
        • कदा पुपोष ? दिने दिने

तात्पर्यम्

सः रघुः समग्रसम्पदः पूर्णलक्ष्मीकस्य पितुः दिलीपस्य प्रयत्नात् शुभैः मनोहरैः शरीरावयवैः हरिदश्व-दीधितेः सूर्यस्य रश्मेः अनुप्रवेशात् बालचन्द्रमाः इव दिने दिने प्रतिदिनं वृद्धिं पुपोष ।

दीधितिः – स्त्रीलिङ्गः रश्मिः इत्यर्थः ।

23.         श्लोकः

मूलपाठः

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ ।

तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥ ३.२३ ॥

पदच्छेदः

उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरन्दरौ तथा नृपः सा चु सुतेन मागधी ननन्दतुः तत् सदृशेन तत् समौ

अन्वयः

उमावृषाङ्कौ शरजन्मना यथा ननन्दतुः, शचीपुरन्दरौ जयन्तेन यथा ननन्दतुः, तथा तत्समौ सा मागधी नृपः च तत्सदृशेन सुतेन ननन्दतुः ।

अन्वयरचना

  • ननन्दतुः
    • कौ ननन्दतुः ? तत्समौ
      • कौ तत्समौ ? सा मागधी च नृपः च
    • कथं ननन्दतुः ? यथा ननन्दतुः तथा
      • कौ ननन्दतुः ? उमावृषाङ्कौ
        • केन ननन्दतुः ? शरजन्मना
      • पुनः कौ ननन्दतुः ? शचीपुरन्दरौ
        • केन ननन्दतुः ? जयन्तेन
      • केन ननन्दतुः ? सुतेन
        • कीदृशेन सुतेन ? तत्सदृशेन

तात्पर्यम्

उमावृषाङ्कौ पार्वतीवृषभध्वजौ शरजन्मना कार्तिकेयेन यथा ननन्दतुः,

शचीपुरन्दरौ जयन्तेन यथा ननन्दतुः, तथा तत्समौ ताभ्याम् उमावृषाङ्काभ्यां शचीपुरन्दराभ्यां च समानौ सा मागधी नृपः च तत्सदृशेन कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः अनन्दताम् ।

24.         श्लोकः

मूलपाठः

रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।

विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत ॥ ३.२४ ॥

पदच्छेदः

रथाङ्गनाम्नोः इव भावबन्धनम् बभूव यत् प्रेम परस्पराश्रयम् विभक्तम् अपि एकसुतेन तत् तयोः परस्परस्य उपरि पर्यचीयत

अन्वयः

रथाङ्गनाम्नोः इव तयोः भावबन्धनं परस्पराश्रयं यत् प्रेम बभूव तद् एकसुतेन विभक्तम् अपि परस्परस्य उपरि पर्यचीयत ।

अन्वयरचना

  • पर्यचीयत
    • कुत्र पर्यचीयत ? उपरि
      • कस्य उपरि ? परस्परस्य
    • किं पर्यचीयत ? तद्
      • किं तद् ? यत् प्रेम बभूव
        • कीदृशं प्रेम ? परस्पराश्रयम्
        • पुनः कीदृशं प्रेम ? भावबन्धनम्
          • कयोः भावबन्धनम् ? तयोः
          • कयोः इव भावबन्धनम् ? रथाङ्गनाम्नोः इव
        • किं चेत् अपि पर्यचीयत ? विभक्तम् अपि
          • केन विभक्तम् ? एकसुतेन

तात्पर्यम्

रथाङ्गनाम्नोः चक्रवाकयोः इव तयोः सुदक्षिणादिलीपयोः दम्पत्योः भाव-बन्धनं हृदयस्य आकर्षकं परस्पर-आश्रयम् अन्योन्यं विषयः यत् प्रेम बभूव तद् एकसुतेन एकेन सुतेन विभक्तं कृतविभागम् अपि परस्परस्य उपरि पर्यचीयत विवृधे / वृद्धिं प्राप । यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते | अत्र तु तयोः प्राक् एकैककर्तृकम् एकैकविषयं प्रेम संप्रति द्वितीयविषयलाभे अपि न अहीयत | प्रत्युतोपचितं एव अभूत् इति भावः |

25.         श्लोकः

मूलपाठः

उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयाम् अवलम्ब्य चाङ्गुलिम् ।

अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ ३.२५ ॥

पदच्छेदः

उवाच धात्र्या प्रथमोदितम् वचः ययौ तदीयाम् अवलम्ब्य च अङ्गुलिम् अभूत् च नम्रः प्रणिपातशिक्षया पितुः मुदम् तेन ततान सः अर्भकः

अन्वयः

सः अर्भकः धात्र्या प्रथमोदितं वचः उवाच । तदीयाम् अङ्गुलिम् अवलम्ब्य ययौ च । प्रणिपातशिक्षया नम्रः अभूत् च । तेन पितुः मुदं ततान ।

अन्वयरचना

  • उवाच
    • कः उवाच ? सः अर्भकः
    • किम् उवाच ? वचः
      • कीदृशं वचः ? प्रथमोदितम्
        • कया प्रथमोदितम् ? धात्र्या
      • ययौ च
        • कः ययौ ? सः
        • किं कृत्वा ययौ ? अवलम्ब्य
          • काम् अवलम्ब्य ? अङ्गुलिम्
            • कीदृशीम् अङ्गुलिम् ? तदीयाम्
          • अभूत् च
            • कः अभूत् ? सः
              • कीदृशः अभूत् ? नम्रः
                • कया नम्रः अभूत् ? प्रणिपातशिक्षया
              • ततान
                • कः ततान ? सः
                • किं ततान ? मुदम्
                  • कस्य मुदम् ? पितुः
                • केन ततान ? तेन

तात्पर्यम्

सः अर्भकः शिशुः धात्र्या उपमात्रा प्रथमोदितं प्रथमम् उपदिष्टं वचः उवाच । तदीयाम् अङ्गुलिम् अवलम्ब्य गृहीत्वा ययौ जगाम च । प्रणिपात-शिक्षया नमस्कारस्य उपदेशेन नम्रः विनीतः अभूत् च । सः शिशुः तेन पितुः दिलीपस्य मुदं हर्षं ततान अतनोत् / विस्तारितवान् ।

26.         श्लोकः

मूलपाठः

तमङ्कमारोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तमिवामृतं त्वचि ।

उपान्तसम्मीलितलोचनो नृपश्चिरात्सुतस्पर्शरसज्ञतां ययौ ॥ ३.२६ ॥

पदच्छेदः

तम् अङ्कम् आरोप्य शरीरयोगजैः सुखैः निषिञ्चन्तम् इव अमृतम् त्वचि उपान्त-सम्मीलित-लोचनः नृपः चिरात् सुत-स्पर्श-रसज्ञताम् ययौ

अन्वयः

शरीरयोगजैः सुखैः त्वचि अमृतं निषिञ्चन्तम् इव तम्, अङ्कम् आरोप्य, उपान्तसम्मीलितलोचनः सन् नृपः, चिरात् सुतस्पर्शरसज्ञतां ययौ ।

अन्वयरचना

  • ययौ
    • कां ययौ ? सुतस्पर्शरसज्ञताम्
    • कः ययौ ? नृपः
      • कीदृशः सन् नृपः ? उपान्तसम्मीलितलोचनः सन्
    • किं कृत्वा ययौ ? आरोप्य
      • कम् आरोप्य ? तम्
        • किं कुर्वन्तम् इव तम् ? निषिञ्चन्तम् इव
          • किं निषिञ्चन्तम् ? अमृतम्
          • कस्मिन् निषिञ्चन्तम् ? त्वचि
          • कैः निषिञ्चन्तम् ? सुखैः
            • कैः सुखैः ? शरीरयोगजैः
          • कुत्र आरोप्य ? अङ्कम्
        • कदा ययौ ? चिरात्

तात्पर्यम्

शरीरयोगजैः सुखैः देहास्पर्षसुखैः त्वचि त्वगिन्द्रिये अमृतं निषिञ्चन्तं वर्षन्तम् इव तम् पुत्रम् अङ्कम् उत्सङ्के आरोप्य मुदाविर्भावात् उपान्तयोः प्रान्तभागयोः  सम्मीलितलोचनः सन् नृपः चिरात् बहुकालात् अन्तरं सुतस्पर्शरसज्ञतां ययौ पुत्रस्पर्शस्य आलिङ्गनस्य स्वादं ज्ञातवान् ।

27.         श्लोकः

मूलपाठः

अमंस्त चानेन परार्ध्यजन्मना स्थितेरभेत्ता स्थितिमन्तमन्वयम् ।

स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानामिव सर्गमात्मनः ॥ ३.२७ ॥

पदच्छेदः

अमंस्त च अनेन परार्ध्यजन्मना स्थितेः अभेत्ता स्थितिमन्तम् अन्वयम् स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानाम् इव सर्गम् आत्मनः

अन्वयः

स्थितेः अभेत्ता परार्ध्यजन्मना अनेन अन्वयं प्रजानां पतिः गुणाग्र्यवर्तिना स्वमूर्तिभेदेन आत्मनः सर्गम् इव स्थितिमन्तम् अमंस्त च ।

अन्वयरचना

  • अमंस्त च
    • कः अमंस्त ? अभेत्ता
      • कस्य अभेत्ता ? स्थितेः
    • कथम् इति अमंस्त ? स्थितिमन्तम्
    • कं स्थितिमन्तम् अमंस्त ? अन्वयम्
    • केन स्थितिमन्तम् अमंस्त ? अनेन
      • कीदृशेन अनेन ? परार्ध्यजन्मना
    • कः कम् इव स्थितिमन्तम् ? पतिः सर्गम् इव
      • केषां पतिः ? प्रजानाम्
      • कस्य सर्गम् ? आत्मनः
      • केन स्थितिमन्तम् ? स्वमूर्तिभेदेन
        • कीदृशेन स्वमूर्तिभेदेन ? गुणाग्र्यवर्तिना

तात्पर्यम्

स्थितेः अभेत्ता मर्यादापालकः सः नृपः परार्ध्यजन्मना उत्कृष्टजन्मना अनेन रघुना अन्वयं वंशं प्रजानां पतिः ब्रह्मा गुणाग्र्यवर्तिना गुणानां मुख्येन सत्त्वेन यः वर्तते तादृशेन सत्त्वगुणवर्तिना स्वमूर्तिभेदेन स्वस्य अवतारविशेषेण विष्णुना आत्मनः सर्गं सृष्टिम् इव स्थितिमन्तम् प्रतिष्ठावन्तम् अमंस्त मन्यते स्म च ।

28.         श्लोकः

मूलपाठः

स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः ।

लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रं आविशत् ॥ ३.२८ ॥

पदच्छेदः

सः वृत्तचूलः चलकाकपक्षकैः अमात्यपुत्रैः सवयोभिः अन्वितः लिपेः यथावद् ग्रहणेन वाङ्मयं नदीमुखेन इव समुद्रम् आविशत्

अन्वयः

वृत्तचूलः (सन्), सः चलकाकपक्षकैः सवयोभिः अमात्यपुत्रैः अन्वितः (सन्), लिपेः यथावद् ग्रहणेन वाङ्मयं, नदीमुखेन समुद्रम् इव आविशत् ।

अन्वयरचना

  • आविशत्
    • कः आविशत् ? सः
      • कथम्भूतः सः ? वृत्तचूलः (सन्)
      • पुनः कथम्भूतः सः ? अन्वितः (सन्)
        • कैः अन्वितः ? अमात्यपुत्रैः
          • कीदृशैः अमात्यपुत्रैः ? सवयोभिः
          • पुनः कीदृशैः अमात्यपुत्रैः ? चलकाकपक्षकैः
        • कस्मिन् आविशत् ? वाङ्मयम्
        • केन आविशत् ? ग्रहणेन
          • कस्य ग्रहणेन ? लिपेः
          • कथं ग्रहणेन ? यथावद्
        • कम् इव आविशत् ? समुद्रम् इव
          • केन आविशत् ? नदीमुखेन

तात्पर्यम्

वृत्तचूलः तर्तीये वर्षे निष्पन्नचूडाकर्मा सन्, सः रघुः, चलकाकपक्षकैः चञ्चलशिखण्डकैः सवयोभिः स्निग्धैः अमात्यपुत्रैः अन्वितः सन्, लिपेः पञ्चाशद्वर्नात्मिकायाः मातृकायाः यथावद् ग्रहणेन वाङ्मयं शब्दजातं, नदीमुखेन नद्याः द्वारेण कश्चित् मकरादयः समुद्रम् यथा प्रविशन्ति तथा आविशत् प्रविष्टः / ज्ञातवान् ।

29.         श्लोकः

मूलपाठः

अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियम् ।

अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ ३.२९ ॥

पदच्छेदः

अथ उपनीतं विधिवत् विपश्चितः विनिन्युः एनं गुरवः गुरु-प्रियं अवन्ध्य-यत्नाः च बभूवुः अत्र ते क्रिया हि वस्तूपहिता प्रसीदति

अन्वयः

अथ विधिवत् उपनीतं गुरु-प्रियं एनं विपश्चितः गुरवः विनिन्युः । ते अत्र अवन्ध्य-यत्नाः च बभूवुः । हि क्रिया वस्तूपहिता प्रसीदति ।

अन्वयरचना

  • विनिन्युः
    • के विनिन्युः ? गुरवः
      • कीदृशाः गुरवः ? विपश्चितः
    • कं विनिन्युः ? एनं गुरु-प्रियम्
      • कीदृशम् एनम् ? उपनीतम्
        • कथम् उपनीतम् ? विधिवत्
      • अथ बभूवुः च
        • के बभूवुः ? ते
        • कीदृशाः बभूवुः ? अवन्ध्य-यत्नाः
        • कुत्र बभूवुः ? अत्र
      • हि प्रसीदति
        • का प्रसीदति ? क्रिया
          • कीदृशी क्रिया ? वस्तु-उपहिता

तात्पर्यम्

अथ विधिवत् उपनीतं, गुरु-प्रियम्, एनं रघुं, विपश्चितः विद्वांसः गुरवः विनिन्युः शिक्षितवन्तः । ते गुरवः अत्र अस्मिन् रघौ अवन्ध्य-यत्नाः च बभूवुः । तेषां प्रयासः सफलः जातः । हि क्रिया शिक्षा वस्तु-उपहिता वस्तुनि पात्रभूते प्रयुक्ता सती प्रसीदति फलति ।

30.         श्लोकः

मूलपाठः

धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः ।

ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ ३.३० ॥

पदच्छेदः

धियः समग्रैः सः गुणैः उदारधीः क्रमात् चतस्रः चतुरर्णवोपमाः ततार विद्याः पवनातिपातिभिः दिशः हरिद्भिः हरिताम्   इवेश्वरः

अन्वयः

उदारधीः सः समग्रैः धियः गुणैः चतुरर्णवोपमाः चतस्रः विद्याः, हरितां इवेश्वरः पवनातिपातिभिः हरिद्भिः च चतस्रः दिशः (इव), क्रमात् ततार ।

अन्वयरचना

  • ततार
    • कः ततार ? सः
      • कीदृशः सः ? उदारधीः
    • काः ततार ? विद्याः
      • कतिसंख्याकाः विद्याः ? चतस्रः
      • कीदृश्यः विद्याः ? चतुर्-अर्णव-उपमाः
    • कैः ततार ? गुणैः
      • कस्याः गुणैः ? धियः
      • कीदृशैः गुणैः ? समग्रैः
    • कथम् इव ततार ? हरितां इवेश्वरः पवनातिपातिभिः हरिद्भिः च चतस्रः दिशः (इव)

तात्पर्यम्

उदारधीः उत्कृष्टधीः सः रघुः समग्रैः धियः गुणैः चतुर्-अर्णवोपमाः चतस्रः विद्याः (त्रयी, वार्ता / अर्थशास्त्रं, दंडनीतिः / राजनीतिः, आन्वीक्षिकी / विचारशास्त्रं च  इति चतस्रः विद्याः), हरितां ईश्वरः दिशां ईश्वरः सूर्यः पवनातिपातिभिः पवनम् अतिक्रम्य पतितुं  शीलं येषां तैः / अनिलाधिकवेग-शीलैः हरिद्भिः निजाश्वैः च चतस्रः दिशः (इव) क्रमात् ततार ।

अन्यविशयः

धीगुणाः –

शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।

ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥

Kautilya classifies all disciplines into four categories: scripture (the three Vedas, trayi), agriculture and commerce (varta), politics and public administration (danda-niti), and Ānvīkikī, the investigative reflective science

31.         श्लोकः

मूलपाठः

त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् ।

न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ ३.३१ ॥

पदच्छेदः

त्वचं सः मेध्यां परिधाय रौरवीं अशिक्षत अस्त्रं पितुः एव मन्त्रवत् न केवलं तद्गुरुः एकपार्थिवः क्षितौ अभूत् एकधनुर्धरः अपि सः

अन्वयः

सः मेध्यां रौरवीं त्वचं परिधाय, मन्त्रवत् अस्त्रं पितुः एव अशिक्षत । तद्गुरुः केवलं एकपार्थिवः न अभूत् । (किन्तु) क्षितौ सः एकधनुर्धरः अपि अभूत् ।

अन्वयरचना

  • अशिक्षत
    • कः अशिक्षत ? सः (रघुः)
    • किम् अशिक्षत ? अस्त्रम्
      • कीदृशम् अस्त्रम् ? मन्त्रवत्
    • कस्मात् अशिक्षत ? पितुः एव
    • किं कृत्वा अशिक्षत ? परिधाय
      • किं परिधाय ? त्वचम्
        • कीदृशं त्वचम् ? रौरवीम्
        • पुनः कीदृशं त्वचम् ? मेध्याम्
      • केवलं न अभूत्
        • कः न अभूत् ? तद्गुरुः
        • केवलं कीदृशः न ? एकपार्थिवः
      • किन्तु अपि अभूत्
        • कः अभूत् ? सः (दिलीपः)
        • कीदृशः अभूत् ? एकधनुर्धरः
        • कुत्र अभूत् ? क्षितौ

तात्पर्यम्

सः रघुः मेध्यां पवित्रां / शुद्धां रौरवीं रुरु-मृग-सम्बन्धिनीं / हरिणस्य त्वचं चर्म परिधाय वसित्वा, मन्त्रवत् आग्नेयादिकं समन्त्रकम् अस्त्रं पितुः जनकात् दिलीपात् एव अशिक्षत अभ्यस्तवान् । तद्गुरुः तस्य पिता दिलीपः केवलम् एकपार्थिवः अद्वितीयः पृथ्वीश्वरः एव न अभूत् । (किन्तु) क्षितौ सः दिलीपः एकधनुर्धरः अद्वितीयः चापधरः अपि अभूत् ।

32.         श्लोकः

मूलपाठः

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।

रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ ३.३२ ॥

पदच्छेदः

महोक्षतां वत्सतरः स्पृशन् इव द्विपेन्द्रभावं कलभः श्रयन् इव रघुः क्रमात् यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः

अन्वयः

रघुः क्रमात् यौवनभिन्नशैशवः सन्, महोक्षतां स्पृशन् वत्सतरः इव, द्विपेन्द्रभावं श्रयन् कलभः इव, गाम्भीर्यमनोहरं वपुः पुपोष ।

अन्वयरचना

  • पुपोष
    • कः पुपोष ? रघुः
      • कथम्भूतः सन् रघुः ? यौवनभिन्नशैशवः सन्
    • किं पुपोष ? वपुः
      • कीदृशं वपुः ? गाम्भीर्यमनोहरम्
    • कः इव पुपोष ? महोक्षतां स्पृशन् वत्सतरः इव
    • पुनः कः इव पुपोष ? द्विपेन्द्रभावं श्रयन् कलभः इव
    • कथं पुपोष ? क्रमात्

तात्पर्यम्

रघोः यौवनप्रवेशम् अत्र वर्ण्यते । रघुः क्रमात्, यौवनभिन्नशैशवः यौवनेन भिन्नशैशवः निरस्तशिशुभावः सन्, महोक्षतां महान् उक्षायाः ऋषभस्य भावं स्पृशन् गच्छन् वत्सतरः दम्यः (यस्य ऋषभवत्सस्य दमनं करणीयं भवति) इव, द्विपेन्द्रभावं महागजत्वं श्रयन् व्रजन् कलभः करिपोतः इव, गाम्भीर्यमनोहरं गभीरत्वेन सुन्दरं वपुः शरीरं पुपोष पुष्णाति स्म / विवर्धितवान् ।

33.         श्लोकः

मूलपाठः

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः ।

नरेन्द्रकन्यास्तमवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः ॥ ३.३३ ॥

पदच्छेदः

अथ अस्य गोदानविधेः अनन्तरं विवाहदीक्षां निरवर्तयत् गुरुः नरेन्द्रकन्याः तं अवाप्य सत्पतिं तमोनुदं दक्षसुताः इव आबभुः

अन्वयः

अथ गुरुः अस्य गोदानविधेः अनन्तरं विवाहदीक्षां निरवर्तयत् । नरेन्द्रकन्याः तं, दक्षसुताः तमोनुदम् इव, सत्पतिम् अवाप्य आबभुः ।

अन्वयरचना

  • अथ निरवर्तयत्
    • कः निरवर्तयत् ? गुरुः (दिलीपः)
    • कां निरवर्तयत् ? विवाहदीक्षाम्
    • कदा निरवर्तयत् ? अनन्तरम्
      • कस्य अनन्तरम् ? गोदानविधेः
        • कस्य गोदानविधेः ? अस्य (रघोः)
      • आबभुः
        • काः आबभुः ? नरेन्द्रकन्याः
        • किं कृत्वा आबभुः ? अवाप्य
          • कम् अवाप्य ? सत्पतिम्
            • कं सत्पतिम् अवाप्य ? तम् (रघुम्)
          • काः इव अवाप्य ? दक्षसुताः इव
            • दक्षसुताः कं सत्पतिम् अवाप्य ? तमोनुदम्

तात्पर्यम्

अथ यौवनप्रवेशानन्तरं, गुरुः पिता दिलीपः अस्य रघोः गोदानविधेः अनन्तरं विवाह-दीक्षां पाणिग्रहणस्य क्रियां निरवर्तयत् कृत्वान् । गोदानं नाम ब्राह्मणादीनां षोडशादिषु कर्तव्यं केशान्ताख्यं कर्म उच्यते । द्वाविंशे वर्षे, गोदाने, केशान्तनामके संस्कारे गावः / केशाः खण्डयन्ते । नरेन्द्रकन्याः राजानां कुमार्यः, तं रघुं, दक्षसुताः प्रजापतेः रोहिण्यादयः सुताः तमोनुदम् तमःनाशयन्तं तं चन्द्रम् इव, सत्पतिम् अवाप्य आबभुः शुशुभिरे ।

34.         श्लोकः

मूलपाठः

युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।

वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत ॥ ३.३४ ॥

पदच्छेदः

युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्धकन्धरः वपुःप्रकर्षात् अजयत् गुरुं रघुः तथा अपि नीचैः विनयात् अदृश्यत

अन्वयः

युवा युग-व्यायत-बाहुः, अंसलः, कपाटवक्षाः, परिणद्धकन्धरः, वपुःप्रकर्षात् गुरुम् अजयत् । रघुः तथा अपि विनयात् नीचैः अदृश्यत ।

अन्वयरचना

  • अजयत्
    • कः अजयत् ? युवा
    • कीदृशः सन् अजयत् ? युगव्यायतबाहुः, अंसलः, कपाटवक्षाः, परिणद्धकन्धरः
    • कथम् अजयत् ? वपुःप्रकर्षात्
    • कम् अजयत् ? गुरुम्
  • तथा अपि, अदृश्यत
    • कः अदृश्यत ? रघुः
    • कैः अदृश्यत ? (जनैः)
    • कथम् अदृश्यत ? नीचैः
    • कस्मात् नीचैः अदृश्यत ? विनयात्

तात्पर्यम्

युवा तरुणः रघुः, युग-व्यायत-बाहुः यस्य भुजौ युगः इव दीर्घौ (युगः इति यान-अङ्ग-दारु-विशेषः तद्वत्) अस्ति तादृशः सन्, अंसलः मांसलः सन् / बलवान् भूत्वा, कपाटवक्षाः द्वारतुल्यं यस्य उरुःस्थलं भवति तादृशः सन्, परिणद्ध-कन्धरः यस्य कन्धरा ग्रीवा परिणद्धा विशाला भवति तादृशः सन्, वपुःप्रकर्षात् शरीरस्य आधिक्यात्, गुरुं पितरं दिलीपम् अजयत् जितवान् । रघुः तथा अपि विनयात् नम्रतया नीचैः जनकापेक्षया न्यूनः / अल्पकः अदृश्यत जनैः ददृशे ।

35.         श्लोकः

मूलपाठः

ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक्
३.३५

पदच्छेदः

ततः प्रजानां चिरम् आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम्

निसर्गसंस्कारविनीतः इति असौ नृपेण चक्रे युवराजशब्दभाक् ।

अन्वयः

ततः आत्मना चिरं धृतां नितान्तगुर्वीं प्रजानां धुरं लघयिष्यता नृपेण असौ निसर्गसंस्कारविनीतः इति युवराजशब्दभाक् चक्रे ।

अन्वयरचना

  • ततः चक्रे
    • केन चक्रे ? नृपेण
      • कीदृशेन नृपेण ? लघयिष्यता
        • किं लघयिष्यता ? धुरम्
          • केषां धुरम् ? प्रजानाम्
        • कीदृशं धुरम् ? नितान्तगुर्वीम्
        • पुनः कीदृशं धुरम् ? धृताम्
          • कियत् धृताम् ? चिरम्
          • केन धृताम् ? आत्मना
        • कः चक्रे ? असौ (रघुः)
        • कीदृशः चक्रे ? युवराजशब्दभाक्
        • किमिति हेतोः चक्रे ? निसर्ग-संस्कार-विनीतः इति

तात्पर्यम्

ततः आत्मना स्वेन चिरं बहुकालपर्यन्तं धृतां धारितां नितान्त-गुर्वीं अत्यन्तं दुर्भरां प्रजानां लोकानां धुरं पालनरूपं भारं / पालनप्रयासं लघयिष्यता लघुं करिष्यता नृपेण दिलीपेन, असौ रघुः, निसर्ग-संस्कार-विनीतः निसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यास-जनित-वासनया च विनीतः नम्रः इति हेतोः, युवराज-शब्दभाक् यः युवराजः इति शब्दं भजति तथोक्तः, चक्रे कृतः ।

36.         श्लोकः

मूलपाठः

नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३.३६ ॥

पदच्छेदः

नरेन्द्रमूलायतनात् अनन्तरम् तदास्पदम् श्रीः युवराजसंज्ञितम् अगच्छत् अंशेन गुणाभिलाषिणी नवावतारम् कमलात् इव उत्पलम् ।

अन्वयः

गुणाभिलाषिणी श्रीः नरेन्द्रमूलायतनात् अनन्तरं युवराजसंज्ञितं तदास्पदं कमलात् नवावतारम् उत्पलम् इव अंशेन अगच्छत् ।

अन्वयरचना

  • अगच्छत्
    • कथम् अगच्छत् ? अंशेन
    • का अगच्छत् ? श्रीः
      • कीदृशी श्रीः ? गुणाभिलाषिणी
    • कम् अगच्छत् ? तदास्पदम्
      • कीदृशं तदास्पदम् ? युवराजसंज्ञितम्
    • कस्मात् अगच्छत् ? नरेन्द्रमूलायतनात्
    • कदा अगच्छत् ? अनन्तरम्
    • कथमिव अगच्छत् ? उत्पलम् इव
      • कीदृशम् उत्पलम् ? नवावतारम्
        • कस्मात् नवावतारम् ? कमलात्

तात्पर्यम्

विनयादीन् गुणान् अभिलषति काङ्क्षति इति गुणाभिलाषिणी श्रीः । श्रियाः राज्यलक्ष्म्याः मूल-आयतनं प्रधान-स्थानं नरेन्द्रः दिलीपः एव आसीत् । अनन्तरं सा गुणाभिलाषिणी श्रीः तस्मात् नरेन्द्रमूलायतनात् युवराजसंज्ञितं तदास्पदं रघुम् अंशेन अगच्छत् गतवती । रघुः युवराजः इति संज्ञा संजातः । आत्मनः पदं स्थानम् आस्पदम् । सः एव आस्पदं तदास्पदम् । लक्ष्मीः युवराजः रघुः एव स्वस्य प्रतिष्ठा इति मत्वा तस्याः एकभागेन रघौ विराजमाना अभूत् । तत् कथमिति उपमा दीयते । यथा सौरभ्यादीन् गुणान् अभिलाषिणी श्रीः कमलात् चिरोत्पन्नात् पद्मात् वावतारम् अचिर-उत्पन्नम् त्पलं कुवलयं प्रति गच्छति तथा इति ।

37.         श्लोकः

मूलपाठः

विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ ३.३७

पदच्छेदः

विभावसुः सारथिना इव वायुना घनव्यपायेन गभस्तिमान् इव बभूव तेन अतितराम् सुदुःसहः कटप्रभेदेन करी इव पार्थिवः ।

अन्वयः

वायुना विभावसुः इव घनव्यपायेन गभस्तिमान् इव कटप्रभेदेन करी इव पार्थिवः सारथिना तेन अतितरां सुदुःसहः बभूव ।

अन्वयरचना

  • बभूव
    • कः बभूव ? पार्थिवः
    • कीदृशः बभूव ? सुदुःसहः
      • कीदृशः सुदुःसहः ? अतितराम्
    • केन बभूव ? सारथिना
      • केन सारथिना ? तेन
    • कथमिव बभूव ? विभावसुः इव
      • केन सारथिना विभावसुः ? वायुना
    • पुनः कथमिव बभूव ? गभस्तिमान् इव
      • केन सारथिना गभस्तिमान् ? घनव्यपायेन
    • पुनः कथमिव बभूव ? करी
      • केन सारथिना करी ? कटप्रभेदेन

तात्पर्यम्

पार्थिवः दिलीपः तस्य सारथिना सहायभूतेन ते रघुणा तितराम् अत्यन्तं सुदुःसहः सोढुमशक्यः सुष्ठ्वसह्यः बभूव । तत् कथमिति चित् सहायभूतेन वायुना विभावसुः वह्निः इव । घनानां मेघानां व्यपायः नाशः यत्र सः घनव्यपायः शरत्समयः । सहायभूतेन घनव्यपायेन शरत्समयेन गभस्तिमान् सूर्यः इव । गण्डः कटः मदः दानम् इत्यमरः । तस्य प्रभेदः स्फुटनम् । कटप्रभेदेन मदस्य उदयेन स्रावेन करी

38.         श्लोकः

मूलपाठः

नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्ण
मेकेन शतक्रतूपमः शतं क्रतूनापविघ्नमाप सः ॥ ३.३८

पदच्छेदः

नियुज्य तम् होमतुरङ्गरक्षणे धनुर्धरम् राजसुतैः अनुद्रुतम् अपूर्णम् एकेन शतम् क्रतूनाम् अपविघ्नम् आप सः ।

अन्वयः

शतक्रतूपमः सः राजसुतैः अनुद्रुतं धनुर्धरं तं होमतुरङ्गरक्षणे नियुज्य एकेन अपूर्णं क्रतूनां शतम् अपविघ्नं (यथा स्यात् तथा) आप ।

अन्वयरचना

  • आप
    • कथं आप ? अपविघ्नम्
    • कम् आप ? क्रतूनां शतम्
      • कीदृशं क्रतूनां शतम् ? एकेन अपूर्णम्
    • किं कृत्वा आप ? नियुज्य
      • केन नियुज्य ? होमतुरङ्गरक्षणे
      • कं नियुज्य ? तम्
        • कीदृशं तम् ? धनुर्धरम्
          • कीदृशं धनुर्धरम् ? अनुद्रुतम्
            • कैः अनुद्रुतम् ? राजसुतैः
          • कः आप ? शतक्रतूपमः सः

तात्पर्यम्

शतक्रतुः इन्द्रः उपमा यस्य सः शतक्रतूपमः इन्द्रतुल्यः सः दिलीपः, राजसुतैः सामान्यराजपुत्रैः अनुद्रुतम् अनुगतं धनुर्धरं धानुष्कं तं रघुं होमतुरङ्गरक्षणे होमतुरंगाणां रक्षणे नियुज्य व्यापार्य, एकेन क्रतुना पूर्णम् एकोनं क्रतूनाम् अश्वमेधानां शतम् पविघ्नम् अपगतविघ्नं प्रत्यूहरहितं यथा स्यात् तथा प्राप्तवान् ।

39.         श्लोकः

मूलपाठः

ततः परं तेन मखायज्वना तुरङ्गमुत्सृष्टनर्गलं पुनः ।
धनुर्भृता
ग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ ३.३९ ॥

पदच्छेदः

ततः परं तेन मखाय यज्वना तुरङ्गम् उत्सृष्टम् अनर्गलं पुनः धनुर्भृतां अग्रतः एव रक्षिणां जहार शक्रः किल गूढविग्रहः ।

अन्वयः

ततः परं यज्वना तेन पुनः मखाय उत्सृष्टम् अनर्गलं तुरङ्गं धनुर्भृतां रक्षिणां अग्रतः एव शक्रः गूढविग्रहः (सन्) जहार किल ।

अन्वयरचना

  • जहार किल
    • कः जहार ? शक्रः
      • कीदृशः सन् शक्रः ? गूढविग्रहः सन्
      • पुनः कीदृशः सन् शक्रः ? अग्रतः एव
        • केषाम् अग्रतः ? रक्षिणाम्
          • कीदृषां रक्षिणाम् ? धनुर्भृताम्
        • किं तुरङ्गम्
          • कीदृशं तुरङ्गम् ? अनर्गलम्
          • पुनः कीदृशं तुरङ्गम् ? पुनः उत्सृष्टम्
            • कस्मै उत्सृष्टम् ? मखाय
            • केन उत्सृष्टम् ? यज्वना तेन
          • कदा जहार ? ततः परम्

तात्पर्यम्

ततः परम् एकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता भक्तेन तेन दिलीपेन पुनः पुनरपि मखाय मख याग कर्तुम् उत्सृष्टं मुक्तम् नर्गलम् अप्रतिबन्धम् अव्याहत-स्वैरगतिं तुरङ्गं धनुर्भृतां रक्षिणां रक्षकाणाम् अग्रतः पुरस्तात् एव शक्रः इन्द्रः गूढविग्रहः गुप्तकायः अन्तर्हितशरीरः सन् आत्मानं निगुह्य, जहार किल हरणं कृतवान् ।

40.         श्लोकः

मूलपाठः

विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।

वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥ ३.४० ॥

पदच्छेदः

विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् वसिष्ठधेनुः च । यदृच्छया आगता श्रुतप्रभावा ददृशे अथ नन्दिनी ।

अन्वयः

तत् कुमारसैन्यं सपदि विषादलुप्तप्रतिपत्ति विस्मितं सत् स्थितं च अथ श्रुतप्रभावा यदृच्छया आगता च वसिष्ठधेनुः नन्दिनी ददृशे ।

अन्वयरचना

  • ददृशे
    • कैः ददृशे ? (सर्वैः सैनिकैः)
    • किं ददृशे ? तत् कुमारसैन्यम्
      • कीदृशं कुमारसैन्यम् ? विषादलुप्तप्रतिपत्ति
      • कीदृशं कुमारसैन्यम् ? स्थितम्
        • कथम्भूतं सत् स्थितम् ? विस्मितम् सत्
      • सपदि का ददृशे ? सपदि नन्दिनी
        • का नन्दिनी ? वसिष्ठधेनुः
        • कीदृशी नन्दिनी ? श्रुतप्रभावा
        • पुनः कीदृशी नन्दिनी ? आगता च
          • कथम् आगता ? यदृच्छया

तात्पर्यम्

तत् कुमारसैन्यं कुमारस्य सेना रघु-कटकं सपदि सद्यः, विषादेन इष्टनाशकृतेन मनोभङ्गेन लुप्ता नष्टा प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत् तथोक्तं विषादलुप्तप्रतिपत्ति, विस्मितम् अश्वनाशस्य अकस्मिकत्वात् आश्चर्याविष्टं सत् स्थितं तस्थौ च, अथ पश्चात् श्रुतप्रभावा यस्याः प्रभावः वरप्रदानरूपः श्रुतः प्रसिद्धः तादृशी यदृच्छया स्वेच्छया गता नन्दिनी नाम्नी वशिष्ठधेनुः च ददृशे अदृश्यत् सर्वैः सैनिकैः ।

41.         श्लोकः

मूलपाठः

तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ ३.४१ ॥

पदच्छेदः

तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् अतीन्द्रियेषु अपि उपपन्नदर्शनः बभूव भावेषु दिलीपनन्दनः

अन्वयः

सताम् पुरस्कृतः दिलीपनन्दनः पुण्येन तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य

अतीन्द्रियेषु भावेषु अपि उपपन्नदर्शनः बभूव ।

अन्वयरचना

  • बभूव
    • कीदृशः बभूव ? उपपन्नदर्शनः
      • केषु उपपन्नदर्शनः ? भावेषु अपि
        • केषु भावेषु ? अतीन्द्रियेषु
      • कः बभूव ? दिलीपनन्दनः
        • कीदृशः दिलीपनन्दनः ? पुरस्कृतः
          • केषां मद्ये पुरस्कृतः ? सतां मद्ये
        • किं कृत्वा बभूव ? प्रमृज्य
          • के प्रमृज्य ? लोचने
          • केन प्रमृज्य ? तदङ्गनिस्यन्दजलेन
            • कीदृशेन तदङ्गनिस्यन्दजलेन ? पुण्येन

तात्पर्यम्

तां भव्यजनानां मध्ये पुरस्कृतः पूजितः दिलीपनन्दनः रघुः पुण्येन पवित्रेण तदङ्गनिस्यन्दजलेन तस्याः नन्दिन्याः अङ्गात् द्रव-रूप-जलेन मूत्रेण लोचने नेत्रे प्रमृज्य शोधयित्वा अतीन्द्रियेषु इन्द्रियाणि अतिक्रान्तेषु भावेषु वस्तुषु अपि उपपन्नदर्शनः संपन्न-साक्षात्कार-शक्तिः बभूव जातः ।

42.         श्लोकः

मूलपाठः

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्त
श्वं रथरश्मिसंयतम् ॥ ३.४२ ॥

पदच्छेदः

सः पूर्वतः पर्वतपक्षशातनम् ददर्श देवम् नरदेवसम्भवः पुनः पुनः सूतनिषिद्धचापलं हरन्तम् अश्वम् रथरश्मिसंयतम् ।

अन्वयः

नरदेवसम्भवः सः पुनः पुनः सूतनिषिद्धचापलं रथरश्मिसंयतम् अश्वं हरन्तं पर्वतपक्षशातनं देवं पूर्वतः ददर्श ।

अन्वयरचना

  • ददर्श
    • कः ददर्श ? सः
      • कीदृशः सः ? नरदेवसम्भवः
    • कं ददर्श ? देवम्
      • कीदृशं देवम् ? पर्वतपक्षशातनम्
      • किं कुर्वन्तं देवम् ? हरन्तम्
        • कं हरन्तम् ? अश्वम्
          • कीदृशम् अश्वम् ? रथरश्मिसंयतम्
          • पुनः कीदृशम् अश्वम् ? सूतनिषिद्धचापलम्
            • कथं सूतनिषिद्धचापलम् ? पुनः पुनः
          • कुत्र ददर्श ? पूर्वतः

तात्पर्यम्

नरदेवसम्भवः नरदेवात् दिलीपात् सम्भवः सः रघुः पुनः पुनः सूतनिषिद्धचापलं सूतेन सारथिना निषिद्धचापलं यस्य औद्धत्यं चाञ्चल्यं निवारितं तादृशं रथरश्मिसंयतं रथस्य रश्मिभिः प्रग्रहैः यं संयतं बद्धं तम् अश्वं हरन्तं चोरयन्तं पर्वतपक्षशातनं पर्वतपक्षाणां गिरिपक्षाणां शातनं छेदकं देवम् इन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श अद्राक्षीत् ।

43.         श्लोकः

मूलपाठः

शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं ग
गनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥

पदच्छेदः

शतैः तम् अक्ष्णाम् अनिमेषवृत्तिभिः हरिम् विदित्वा हरिभिः च वाजिभिः

अवोचत् एनम् रघुः स्वरेण धीरेण निवर्तयन् इव ।

अन्वयः

रघुः तम् अनिमेषवृत्तिभिः अक्ष्णां शतैः च हरिभिः वाजिभिः च हरिं विदित्वा एनं गगनस्पृशा धीरेण स्वरेण निवर्तयन् इव अवोचत् ।

अन्वयरचना

  • अवोचत्
    • कः अवोचत् ? रघुः
    • कम् अवोचत् ? एनम्
    • किं कृत्वा अवोचत् ? विदित्वा
      • कं विदित्वा ? तं हरिम्
      • कथं विदित्वा ? अक्ष्णां शतैः
        • कीदृशैः अक्ष्णां शतैः ? अनिमेषवृत्तिभिः
      • पुनः कथं विदित्वा ? वाजिभिः च
        • कीदृशैः वाजिभिः ? हरिभिः
      • कथमिव अवोचत् ? निवर्तयन् इव
        • केन निवर्तयन् इव ? स्वरेण
          • कीदृशेन स्वरेण ? धीरेण
          • पुनः कीदृशेन स्वरेण ? गगनस्पृशा

तात्पर्यम्

रघुः तम् अश्वहर्तारम् अनिमेषवृत्तिभिः निमेषव्यापारशून्यैः अक्ष्णां नेत्राणां शतैः हरिभिः हरिद्वर्णैः नीलवर्णैः वाजिभिः अश्वैः च हरिम् इन्द्रं विदित्वा ज्ञात्वा म् इन्द्रं गनस्पृशा व्योमव्यापिना धीरेण गम्भीरेण स्वरेण ध्वनिना एव निवर्तयन् परावर्तयन् इव अवोचत् उक्त्वान् ।

पाठभेदः

स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ ३.४३ ॥

44.         श्लोकः

मूलपाठः

मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र सदा निगद्यसे ।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ ३.४४ ॥

पदच्छेदः

मखांशभाजाम् प्रथमः मनीषिभिः त्वम् एव देवेन्द्र सदा निगद्यसे

अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथम् प्रवर्तसे ।

अन्वयः

(हे) देवेन्द्र । मनीषिभिः त्वम् एव मखांशभाजां प्रथमः सदा निगद्यसे । (तथापि)

अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ।

अन्वयरचना

  • (हे) देवेन्द्र ।
  • निगद्यसे
    • कः निगद्यसे ? त्वम् एव
    • कीदृशः निगद्यसे ? प्रथमः
      • केषां प्रथमः ? मखांशभाजाम्
    • कैः निगद्यसे ? मनीषिभिः
    • कदा निगद्यसे ? सदा
  • (तथापि) कथं प्रवर्तसे ।
    • किमर्थं प्रवर्तसे ? क्रियाविघाताय
    • कस्य क्रियाविघाताय ? मद्गुरोः
      • कीदृशस्य मद्गुरोः ? अजस्रदीक्षाप्रयतस्य

तात्पर्यम्

हे देवेन्द्र सुरनायक ! मनीषिभिः विद्वद्भिः त्वम् एव मखांशभाजां यज्ञभागभुजां प्रथमः आद्यः सदा निगद्यसे कथ्यसे । तथा अपि अजस्रदीक्षाप्रयतस्य अजस्रदीक्षायां नित्यदीक्षायां प्रयतस्य सावधानस्य मद्गुरोः मम पितुः क्रियाविघाताय क्रतुविघाताय क्रियां विहन्तुं कथं प्रवर्तसे । ईदृशः त्वं मम पितुः मखनाशाय कथं प्रवृत्तः इति भावः ।

45.         श्लोकः

मूलपाठः

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा ।
स चेत्स्वयं कर्मसु धर्मचारिणां त्व
न्तरायो भवसि च्युतो विधिः ॥ ३.४५ ॥

पदच्छेदः

त्रिलोकनाथेन सदा मखद्विषः त्वया नियम्याः ननु दिव्यचक्षुषा सः चेत् स्वयम् कर्मसु धर्मचारिणाम् त्वम् अन्तरायः भवसि च्युतः विधिः ।

अन्वयः

त्रिलोकनाथेन दिव्यचक्षुषा त्वया मखद्विषः सदा नियम्याः ननु । सः त्वं धर्मचारिणां कर्मसु स्वयम् अन्तरायः भवसि चेत् (तर्हि) विधिः च्युतः ।

अन्वयरचना

  • नियम्याः भवन्ति ननु
    • के नियम्याः ? मखद्विषः
    • केन नियम्याः ? त्वया
      • कीदृशेन त्वया ? त्रिलोकनाथेन
      • पुनः कीदृशेन त्वया ? दिव्यचक्षुषा
    • कदा नियम्याः ? सदा
  • विधिः च्युतः ।
    • किमिति चेत् च्युतः ? सः त्वं भवसि चेत् (तर्हि)
      • कीदृशः भवसि चेत् ? अन्तरायः
        • कथम् अन्तरायः ? स्वयम्
        • केषु अन्तरायः ? कर्मसु
          • केषां कर्मसु ? धर्मचारिणाम्

तात्पर्यम्

त्रिलोकनाथेन त्रयाणां लोकानां नाथेन त्रैलोक्यनियामकेन दिव्यचक्षुषा अतीन्द्रियार्थदर्शिना सर्वज्ञेन त्वया मद्विषः क्रतुविघातकाः दैत्याः सदा नियम्याः ननु शिक्ष्याः खलु । सः त्वं धर्मचारिणां धर्मात्मनां कर्मसु क्रतुषु स्वम् अन्तरायः विघ्नः भवसि चेत् तर्हि विधिः अनुष्ठानं च्युतः क्षतः नष्टः । लोके सत्कर्मकथा एव अस्तमियात् इत्यर्थः ।

46.         श्लोकः

मूलपाठः

तदङ्गग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुर्हसि ।
थः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ३.४६ ॥

पदच्छेदः

तद् अङ्गम् अग्र्यम् मघवन् महाक्रतोः अमुम् तुरङ्गम् प्रतिमोक्तुम् अर्हसि पथः श्रुतेः दर्शयितारः ईश्वराः मलीमसाम् आददते न पद्धतिम् ।

अन्वयः

(हे) मघवन् । तद् महाक्रतोः अग्र्यम् अङ्गम् अमुं तुरङ्गं त्वं प्रतिमोक्तुम् अर्हसि । (तथाहि) श्रुतेः पथः दर्शयितारः ईश्वराः मलीमसां पद्धतिं न आददते ।

अन्वयरचना

  • (हे) मघवन् ।
  • त्वम् अर्हसि
    • किं कर्तुं त्वम् अर्हसि ? प्रतिमोक्तुम्
      • कं प्रतिमोक्तुम् ? अमुं तुरङ्गम्
        • कीदृशं तुरङ्गम् ? अङ्गम्
          • कीदृशम् अङ्गम् ? अग्र्यम्
          • कस्य अङ्गम् ? महाक्रतोः
        • किमर्थम् अर्हसि ? तद् (यद् पूर्वोक्तम्)
      • (तथाहि) न आददते ।
        • कां न आददते ? पद्धतिम्
          • कीदृशीं पद्धतिम् ? मलीमसाम्
        • के न आददते ? ईश्वराः
          • कीदृशाः ईश्वराः ? दर्शयितारः
            • कस्य दर्शयितारः ? पथः
              • कस्य पथः ? श्रुतेः

तात्पर्यम्

हे मघवन् । हे इन्द्र । त् तस्मात् कारणात् हाक्रतोः अश्वमेधस्य अग्र्यं श्रेष्ठम् ङ्गं साधनम् मुं तुरङ्गं प्रतिमोक्तुम् अर्हसि । तथाहि श्रुतेः वेदस्य पथः सन्मार्गस्य र्शयितारः प्रदर्शकाः ईश्वराः महान्तः मलीमसां मलिनं पद्धतिं मार्गं न आददते स्वीकुर्वते । असन्मार्गं न अवलम्बन्ते इत्यर्थः ।

47.         श्लोकः

मूलपाठः

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तया
मास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ ३.४७ ॥

पदच्छेदः

इति प्रगल्भम् रघुणा समीरितम् वचः निशम्याधिपतिर्दिवौकसाम् निवर्तयामास रथम् सविस्मयः प्रचक्रमे च प्रतिवक्तुम् उत्तरम् ।

अन्वयः

इति रघुणा समीरितं प्रगल्भं वचः निशम्य दिवौकसाम् अधिपतिः सविस्मयः सन् रथं निवर्तयामास । उत्तरं प्रतिवक्तुं प्रचक्रमे च ।

अन्वयरचना

  • निवर्तयामास
    • कं निवर्तयामास ? रथम्
    • कः निवर्तयामास ? अधिपतिः
      • केषाम् अधिपतिः ? दिवौकसाम्
      • कीदृशः सन् अधिपतिः ? सविस्मयः सन्
    • किं कृत्वा निवर्तयामास ? निशम्य
      • किं निशम्य ? वचः
        • कीदृशं वचः ? प्रगल्भम्
        • पुनः कीदृशं वचः ? समीरितम्
          • केन समीरितम् ? रघुणा
          • किमिति समीरितम् ? इति
        • प्रचक्रमे च
          • किं कर्तुं प्रचक्रमे ? प्रतिवक्तुम्
            • किं प्रतिवक्तुम् ? उत्तरम्

तात्पर्यम्

इति रघुणा समीरितं कथितं प्रगल्भं प्रौढं चः निशम्य आकर्ण्य, दिवौकसां स्वर्गौकसां देवानां धिपतिः देवेन्द्रः रघुप्रभावात् विस्मयः आश्चर्यः सन् रथं निवर्तयामास न्यवर्त्तयत् । उत्तरं प्रतिवक्तुं प्रचक्रमे आरेभे

48.         श्लोकः

मूलपाठः

यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ३.४८ ॥

पदच्छेदः

यत् आत्थ राजन्यकुमार तत् तथा यशः तु रक्ष्यम् परतः यशोधनैः जगत्प्रकाशम् तत् अशेषम् इज्यया भवद्गुरुः लङ्घयितुं मम उद्यतः ।

अन्वयः

हे राजन्यकुमार । यत् आत्थ तत् तथा । तु यशोधनैः परतः यशः रक्ष्यम् अस्ति । भवद्गुरुः जगत्प्रकाशम् अशेषं मम तत् इज्यया लङ्घयितुम् उद्यतः ।

अन्वयरचना

  • हे राजन्यकुमार ।
  • तत् तथा भवति
    • किं तत् ? यत् आत्थ
  • तु रक्ष्यम् अस्ति
    • किं रक्ष्यम् ? यशः
    • कस्मात् रक्ष्यम् ? परतः
    • कैः रक्ष्यम् ? यशोधनैः
  • उद्यतः अस्ति
    • किं कर्तुम् उद्यतः ? लङ्घयितुम्
      • किं लङ्घयितुम् ? तत्
        • कस्य तत् ? मम
        • कीदृशं तत् ? जगत्प्रकाशम्
      • कियत् लङ्घयितुम् ? अशेषम्
      • केन लङ्घयितुम् ? इज्यया
    • कः उद्यतः ? भवद्गुरुः

तात्पर्यम्

हे राजन्यकुमार क्षत्त्रियकुमार । यत् वाक्यम् त्थ ब्रवीषि तत्था सत्यम् । तु किन्तु यशोधनैः यशः कीर्तिः एव धनं वित्तं येषां तैः अस्मादृशैः परतः शत्रुतः शः रक्ष्यं रक्षणीयम् अस्ति । ततः किमिति आह । भवद्-गुरुः त्वत्-पिता जगत्प्रकाशं लोकप्रसिद्धम् शेषं सर्वं मम तत् तद्यशः इज्यया यागेन लङ्घयितुं तिरस्कर्तुम् द्यतः उद्युक्तः । कं तद्यशः इति अग्रे वदति ।

49.         श्लोकः

मूलपाठः

हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः ।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥ ३.४९

पदच्छेदः

हरिः यथा एकः पुरुषोत्तमः स्मृतः महेश्वरः त्र्यम्बक एव न अपरः तथा विदुः माम् मुनयः शतक्रतुम् द्वितीयगामी न हि शब्दः एषः नः ।

अन्वयः

यथा हरिः एकः पुरुषोत्तमः स्मृतः । (यथा च) त्र्यम्बकः एव महेश्वरः स्मृतः । न अपरः । तथा मां मुनयः शतक्रतुं विदुः । नः एषः शब्दः द्वितीयगामी न हि ।

अन्वयरचना

  • यथा स्मृतः
    • कीदृशः इति स्मृतः ? पुरुषोत्तमः
    • कः स्मृतः ? हरिः एकः
  • (यथा च) स्मृतः
    • कीदृशः इति स्मृतः ? महेश्वरः
    • कः स्मृतः ? त्र्यम्बकः एव
  • न स्मृतः
    • कः न स्मृतः ? अपरः
  • तथा विदुः
    • के विदुः ? मुनयः
    • कीदृशम् इति विदुः ? शतक्रतुम्
    • कं विदुः ? माम्
  • न हि भवति
    • कीदृशः न हि ? द्वितीयगामी
    • कः द्वितीयगामी न हि ? एषः शब्दः
      • केषां शब्दः ? नः

तात्पर्यम्

यथा हरिः विष्णुः एकः पुरुषोत्तमः स्मृतः कथितः । यथा च त्र्यम्बकः शिवः एव महेश्वरः स्मृतः न अपरः तथा मां मुनयः शतक्रतुं विदुः विदन्ति नः अस्माकम् एषः शब्दः द्वितीयगामी द्वितीयपुरुषगमनशीलः न हि

50.         श्लोकः

मूलपाठः

अतोऽयम् अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः ।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य स
न्ततेः ॥ ३.५०

पदच्छेदः

अतः अयम् अश्वः कपिलानुकारिणा पितुः त्वदीयस्य मया अपहारितः अलम् प्रयत्नेन तव अत्र मा निधाः पदम् पदव्याम् सगरस्य सन्ततेः ।

अन्वयः

अतः त्वदीयस्य पितुः अयम् अश्वः कपिलानुकारिणा मया अपहारितः । तव अत्र प्रयत्नेन अलम् । सगरस्य सन्ततेः पदव्यां पदं मा निधाः ।

अन्वयरचना

  • अतः अपहारितः
    • कया अपहारितः ? मया
      • कीदृशेन मया ? कपिलानुकारिणा
    • कः अपहारितः ? अयम् अश्वः
      • कस्य अश्वः ? पितुः
        • कस्य पितुः ? त्वदीयस्य
      • अत्र प्रयत्नेन अलम्
        • कस्य प्रयत्नेन ? तव
      • त्वं मा निधाः
        • किं मा निधाः ? पदम्
          • कस्यां पदम् ? पदव्याम्
            • कस्य पदव्याम् ? सन्ततेः
              • कस्य सन्ततेः ? सगरस्य

तात्पर्यम्

यतः अहम् एव शतक्रतुः अतः त्वदीयस्य पितुः अयं शततमः श्वः कपिलानुकारिणा कपिलमुनितुल्येन मया हारितः अपहृतः । तव त्र अश्वे प्रयत्नेन लम् । प्रयत्नः मा अकारि प्रयत्नः न करणीयः इत्यर्थः । सगरस्य राज्ञः न्ततेः सन्तानस्य पदव्यां सगरचक्रवर्तिपुत्रमार्गे पदं मा निधाः न निधेहि।

निपूर्वात् धा धातोः लुङ् । “न माङ्योगे” इति अडाग-मप्रतिषेधः।

महत् आस्कन्दनं ते विनाशमूलं भवेत् इति भावः । पुरा यज्ञाश्वम् अन्वेष्यमानाः त्वया अपहार्यमिति वदन्तः कपिलमुनिना व्यापादिताः तथा त्वमपि इति कपिलानुकृत्या सूचयति च ।

 

मा निधाः = मा नि + धा “डुधाञ् धारणपोषणयोः” कर्तरि लुङ् म.पु. ए.व., परस्मैपदी

The word “निधाः” is actually used in the sense of लोट्लकार (or even विधिलिङ्लकार:) in this sentence. Whenever one uses the avyayaa “माङ्”, there one must use the लुङ्लकार only. This is given by the panini sutra माङि लुङ् 3|3|175. Hence this shloka uses लुङ्लकार. (Note that “ङ्” is इत्संज्ञक here so it gets deleted leaving behind मा).

Now there is another question – The लुङ्लकार mandates that an “अ / आ” should come before the form. For example – पठ् becomes अपाठीत्. This is very similar to the normal लङ्लकार. So the form should ideally be नि+अधाः = न्यधाः. Why did he say “निधाः? The answer is that whenever we use the avyayaa “माङ्” the अडागम (i.e. अ/आ) does not come. This is given by the sutra “न माङ् योगे (6|4|74)”. Hence even if the correct form is अगा:, we should always say मा निधाः, and not मा न्यधाः

Based on Sri Neelesh Bodas’ inputs present in
https://nivedita2015.wordpress.com/2015/09/28/grammatical-aspects-in-bhaja-govindam-verse-3-naristanabhara/

51.         श्लोकः

मूलपाठः

ततः प्रहस्यापभयः पुरन्दरं पुनर्बभाषे तुरगस्य रक्षिता ।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ ३.५१

पदच्छेदः

ततः, प्रहस्य, अपभयः, पुरन्दरम्, पुनः, बभाषे, तुरगस्य, रक्षिता, गृहाण, शस्त्रम्, यदि, सर्गः, एषः, ते, न, खलु, अनिर्जित्य, रघुम्, कृती, भवान् ।

अन्वयः

ततः तुरगस्य रक्षिता प्रहस्य अपभयः (सन्) पुनः पुरन्दरं बभाषे । यदि एषः ते सर्गः (तर्हि) शस्त्रं गृहाण । भवान् रघुम् अनिर्जित्य कृती न खलु ।

 

अन्वयरचना

  • ततः पुनः बभाषे ।
    • कः बभाषे ? रक्षिता
      • कस्य रक्षिता ? तुरगस्य
      • कीदृशः सन् रक्षिता ? अपभयः (सन्)
    • किं कृत्वा बभाषे ? प्रहस्य
    • कं प्रति बभाषे ? पुरन्दरम्
  • त्वं गृहाण
    • किं गृहाण ? शस्त्रम्
    • कस्मिन् सन्दर्भे गृहाण ? यदि सर्गः (तर्हि)
      • कस्य सर्गः ? ते
      • कः सर्गः ? एषः
    • न खलु ।
      • कः न खलु ? भवान्
      • कीदृशः न खलु ? कृती
      • किं कृत्वा न खलु ? अनिर्जित्य
        • कम् अनिर्जित्य ? रघुम्

तात्पर्यम्

ततः तदनन्तरं तुरगस्य रक्षिता प्रहस्य प्रहासं कृत्वा अपभयः निर्भीकः सन् पुनः पुरन्दरं बभाषे । हे देवेन्द्र । यदि एषः अश्वमोचनरूपः ते सर्गः निश्चयः तर्हि शस्त्रं गृहाण भवान् रघुं माम् अनिर्जित्य कृती कृतकृत्यः न खलु रघुम् इत्यनेन आत्मानः दुर्जयत्वं सूचितम् ।

52.         श्लोकः

मूलपाठः

स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम् ।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ३.५२ ॥

पदच्छेदः

सः, एवम्, उक्त्वा, मघवन्तम्, उन्मुखः, करिष्यमाणः, सशरम्, शरासनम्,

अतिष्ठत्, आलीढविशेषशोभिना, वपुःप्रकर्षेण, विडम्बितेश्वरः ।

अन्वयः

सः उन्मुखः (सन्) मघवन्तम् एवम् उक्त्वा शरासनं सशरं करिष्यमाणः आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः (सन्) अतिष्ठत् ।

अन्वयरचना

  • अतिष्ठत्
    • कः अतिष्ठत् ? सः
    • कीदृशः सन् सः ? उन्मुखः (सन्)
    • किं कुर्वन् सः ? करिष्यमाणः
      • किं करिष्यमाणः ? शरासनम्
      • शरासनं किं करिष्यमाणः ? सशरम्
      • किं कृत्वा करिष्यमाणः ? उक्त्वा
        • किम् उक्त्वा ? एवम्
        • कम् उक्त्वा ? मघवन्तम्
      • पुनः कीदृशः सन् सः ? विडम्बितेश्वरः (सन्)
        • केन कारणेन विडम्बितेश्वरः ? वपुःप्रकर्षेण
          • कीदृशेन वपुःप्रकर्षेण ? आलीढविशेषशोभिना

तात्पर्यम्

सः रघुः उन्मुखः सन् मघवन्तम् इन्द्रम् एवम् उक्त्वा शरासनं चापं सशरं करिष्यमाणः लीढविशेषशोभिना आलीढाख्येन स्थानभेदेन अतिशयशोभिना  वपुःप्रकर्षेण देहस्य उन्नत्येन विडम्बितेश्वरः अनुसृतपिनाकी सन् अतिष्ठत् स्थित्वान् । आलीढनामकस्थितौ दक्षिणं चरणम् अग्रतः आकुञ्च्य नमनं कृत्वा वामं पदं पश्चाद् विस्तार्य तिष्ठन्ति ।

 

Ālīḍha (आलीढ) or Ālīḍhasthāna refers to the “posture for shooting” (with the right knee advanced and the left leg retracted while drawing a bow) -visesha-sobhin, a. specially conspicuous owing to this posture.

53.         श्लोकः

मूलपाठः

रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः ।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥ ३.५३ ॥

पदच्छेदः

रघोः अवष्टम्भमयेन पत्रिणा हृदि क्षतः गोत्रभित् अपि अमर्षणः नवाम्बुदानीकमुहूर्तलाञ्छने धनुषि अमोघं समधत्त सायकम् ।

अन्वयः

रघोः अवष्टम्भमयेन पत्रिणा हृदि क्षतः । (अतः एव) गोत्रभित् अपि अमर्षणः नवाम्बुदानीकमुहूर्तलाञ्छने धनुषि अमोघं सायकं समधत्त ।

अन्वयरचना

  • क्षतः (अभूत्)
    • कः क्षतः ? (इन्द्रः)
    • कुत्र क्षतः ? हृदि
    • केन क्षतः ? पत्रिणा
      • कीदृशेन पत्रिणा ? अवष्टम्भमयेन
      • कस्य पत्रिणा ? रघोः
    • (अतः एव) समधत्त
      • कः समधत्त ? अमर्षणः
        • कीदृशः अपि अमर्षणः ? गोत्रभित् अपि
      • किं समधत्त ? सायकम्
        • कीदृशं सायकम् ? अमोघम्
      • कुत्र समधत्त ? धनुषि
        • कीदृशे धनुषि ? नवाम्बुदानीकमुहूर्तलाञ्छने

तात्पर्यम्

घोः अवष्टम्भमयेन स्तम्भरूपेण त्रिणा बाणेन हृदि हृदये क्षतः विद्धः इन्द्रः । (अतः एव) गोत्रभित् इन्द्रः अपि अमर्षणः असहनः अतिक्रुद्धः, नवाम्बुदानीकमुहूर्तलाञ्छने नवाम्बुदानां नूतनानां मेघानाम् अनीकस्य वृन्दस्य मुहूर्तं क्षणमात्रं लाञ्छने चिह्नभूते इन्द्रधनुर्रूपे धनुषि दिव्ये धनुषिमोघम् अवन्ध्यं सायकं बाणं समधत्त संहितवान्

  • गोत्रभित् = इन्द्रः । यः गोत्राणां पर्वतानां पक्षान् भित्तवान् । गां त्रायन्ति रक्षन्ति इति पर्वत्ताः गोत्राः भवन्ति ।

54.         श्लोकः

मूलपाठः

दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्व
माशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ३.५४ ॥

पदच्छेदः

दिलीपसूनोः, सः, बृहत्, भुजान्तरम्, प्रविश्य, भीमासुरशोणितोचितः, पपौ, अनास्वादितपूर्वम्, आशुगः, कुतूहलेन, इव, मनुष्यशोणितम् ।

अन्वयः

भीमासुरशोणितोचितः सः आशुगः दिलीपसूनोः बृहत् भुजान्तरं प्रविश्य अनास्वादितपूर्वं मनुष्यशोणितं कुतूहलेन इव पपौ ।

अन्वयरचना

  • पपौ
    • कः पपौ ? सः आशुगः
      • कीदृशः सः ? आशुगः
      • पुनः कीदृशः सः ? भीमासुरशोणितोचितः
    • किं पपौ ? मनुष्यशोणितम्
      • कीदृशं मनुष्यशोणितम् ? अनास्वादितपूर्वम्
    • किं कृत्वा पपौ ? प्रविश्य
      • किं प्रविश्य ? भुजान्तरम्
        • कीदृशं भुजान्तरम् ? बृहत्
        • कस्य भुजान्तरम् ? दिलीपसूनोः
      • कथम् इव पपौ ? कुतूहलेन इव

तात्पर्यम्

भीमासुरशोणितोचितः भीमानां भयंकराणाम् असुराणां शोणिते रुधिरे उचितः परिचितः सः आशुगः इन्द्रमुक्तः सायकः दिलीपसूनोः रघोः बृहत् विशालं भुजान्तरं वक्षः प्रविश्य अनास्वादितपूर्वं पूर्वम् अनास्वादितं मनुष्यशोणितम् कुतूहलेन कौतुकेन इव पपौ अपिबत्

55.         श्लोकः

मूलपाठः

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीप
त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ३.५५ ॥

पदच्छेदः

हरेः कुमारः अपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ।

अन्वयः

कुमारविक्रमः कुमारः अपि सुरद्विपास्फालनकर्कशाङ्गुलौ शचीपत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान ।

अन्वयरचना

  • निचखान
    • कः निचखान ? कुमारः अपि
      • कीदृशः कुमारः ? कुमारविक्रमः
    • किं निचखान ? सायकम्
      • कीदृशं सायकम् ? स्वनामचिह्नम्
    • कुत्र निचखान ? भुजे
      • कस्य भुजे ? हरेः
      • कीदृशे भुजे ? सुरद्विपास्फालनकर्कशाङ्गुलौ
      • पुनः कीदृशे भुजे ? शचीपत्रविशेषकाङ्किते

तात्पर्यम्

कुमारविक्रमः स्कन्दस्य इव विक्रमः यस्य तादृशः कुमारः रघुःपि सुरद्विपास्फालनकर्कशाङ्गुलौ सुरद्विपस्य ऐरावतस्य आस्फालनेन कर्कशाः अङ्गुलयः यस्मिन् तादृशे शचीपत्रविशेषकाङ्किते शच्याः पत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान निखातवान् । निष्कण्टकराज्यम् आप्तस्य अयं महान् अभिभवः इति भावः । सुरद्विपेत्यादिविशेषणद्वयेन शक्रस्य वीरत्वं सुकुमारत्वं च उक्तम् ।

56.         श्लोकः

मूलपाठः

जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रस
ह्य केशव्यपरोपणादिव ॥ ३.५६ ॥

पदच्छेदः

जहार च अन्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् चुकोप तस्मै सः भृशं सुरश्रियः प्रसह्य केशव्यपरोपणात् इव ।

अन्वयः

अन्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजं जहार च । सः सुरश्रियः प्रसह्य केशव्यपरोपणात् इव तस्मै भृशं चुकोप ।

अन्वयरचना

  • जहार च
    • कः जहार ? (रघुः)
    • किं जहार ? महाशनिध्वजम्
      • कस्य महाशनिध्वजम् ? शक्रस्य
    • केन जहार ? शरेण
      • कीदृशेन शरेण ? मयूरपत्रिणा
      • पुनः कीदृशेन शरेण ? अन्येन
    • चुकोप
      • कथं चुकोप ? भृशम्
      • कः चुकोप ? सः
      • कस्मै चुकोप ? तस्मै
      • कस्मात् इव चुकोप ? केशव्यपरोपणात् इव
        • कस्याः केशव्यपरोपणात् ? सुरश्रियः
          • किं कृत्वा केशव्यपरोपणात् ? प्रसह्य

तात्पर्यम्

अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्य इन्द्रस्य महाशनिध्वजं महान्तम् अशनिरूपं वज्ररूपं ध्वजं जहार चिच्छेद च । सः शक्रः सुरश्रियः प्रसह्य बलात्कृत्य केशव्यपरोपणात् केशानां व्यपरोपणात् अवतारणात् छेदनात् तस्मै रघवे भृशम् अत्यर्थं चुकोप । तं हन्तुम् इयेष इत्यर्थः ।

57.         श्लोकः

मूलपाठः

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोर
धोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥ ३.५७ ॥

पदच्छेदः

तयोः उपान्तस्थितसिद्धसैनिकम् गरुत्मदाशीविषभीमदर्शनैः बभूव युद्धम् तुमुलम् जयैषिणोः अधोमुखैः ऊर्ध्वमुखैः च पत्रिभिः ।

अन्वयः

जयैषिणोः तयोः गरुत्मदाशीविषभीमदर्शनैः अधोमुखैः ऊर्ध्वमुखैः च पत्रिभिः उपान्तस्थितसिद्धसैनिकं तुमुलं युद्धं बभूव ।

अन्वयरचना

  • बभूव
    • किं बभूव ? युद्धम्
      • कीदृशं युद्धम् ? तुमुलम्
      • पुनः कीदृशं युद्धम् ? उपान्तस्थितसिद्धसैनिकम्
    • कैः बभूव ? पत्रिभिः
      • कीदृशैः पत्रिभिः ? अधोमुखैः ऊर्ध्वमुखैः च
      • पुनः कीदृशैः पत्रिभिः ? गरुत्मदाशीविषभीमदर्शनैः
        • कयोः गरुत्मदाशीविषभीमदर्शनैः ? तयोः
        • कीदृशयोः तयोः ? जयैषिणोः

तात्पर्यम्

जयैषिणोः जय-एषिणोः अन्योन्यजयाकाङ्क्षिणोः योः इन्द्ररघ्वोः गरुत्मदाशीविषभीमदर्शनैः गरुत्मन्तः पक्षवन्तः आशीविषाः आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः गरुत्मदाशीविषाः सपक्षाः सर्पाः इव भीमदर्शनाः द्रष्ट्रुणां भयावहाःधोमुखैः ऊर्ध्वमुखैः च धन्विनोः उपर्यधोदेशावस्थितत्वात् त्रिभिः बाणैःपान्तस्थितसिद्धसैनिकं तटस्थाः उपान्ते स्थिताः इन्द्रस्य सिद्धाः देवाः रघोः सैनिकाः च तथोक्तं तुमुलं सङ्कुलं रौद्रं युद्धं बभूव

58.         श्लोकः

मूलपाठः

अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्नि
मिवाद्भिरम्बुदः ॥ ३.५८ ॥

पदच्छेदः

अतिप्रबन्धप्रहितास्त्रवृष्टिभिः तम् आश्रयं दुष्प्रसहस्य तेजसः शशाक निर्वापयितुं न वासवः स्वतः च्युतम् वह्निम् इव अद्भिः अम्बुदः ।

अन्वयः

वासवः अतिप्रबन्धप्रहितास्त्रवृष्टिभिः दुष्प्रसह्यस्य तेजसः आश्रयं तम् अम्बुदः अद्भिः स्वतः च्युतं वह्निम् इव निर्वापयितुं न शशाक ।

अन्वयरचना

  • न शशाक
    • कः न शशाक ? वासवः
    • किं कर्तुं न शशाक ? निर्वापयितुम्
      • कं निर्वापयितुम् ? तम्
        • कीदृशं तम् ? आश्रयम्
          • कस्य आश्रयम् ? तेजसः
            • कीदृशस्य तेजसः ? दुष्प्रसहस्य
          • कैः निर्वापयितुम् ? अतिप्रबन्धप्रहितास्त्रवृष्टिभिः
        • किमिव निर्वापयितुं न शशाक ? अम्बुदः इव
          • कं निर्वापयितुम् ? वह्निम्
            • कीदृशं वह्निम् ? च्युतम्
              • कस्मात् च्युतम् ? स्वतः
            • कैः निर्वापयितुम् ? अद्भिः

तात्पर्यम्

वासवः इन्द्रः अतिप्रबन्धप्रहितास्त्रवृष्टिभिः अतिप्रबन्धेन अतिसातत्येन अविच्छेदेन प्रहिताभिः प्रत्युक्ताभिः अस्त्रवृष्टिभिः दुष्प्रसहस्य दुःखेन प्रसह्यते इति दुष्प्रसहं तस्य तेजसः प्रतापस्य श्रयम् आस्थानं तं रघुम् म्बुदः अद्भिः पानीयैः स्वतः स्वस्मात् च्युतं निर्गतं वह्निम् अग्निं विद्युतम् निर्वापतितुं न शशाक रघोः अपि लोकपालात्मकस्य इन्द्रांशसंभवत्वात् इति भावः ।

59.         श्लोकः

मूलपाठः

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम्  ।
रघुः शशाङ्कार्धमुखेन प
त्रिणा शरासनज्यालुनाद्विडौजसः ॥ ३.५९ ॥

पदच्छेदः

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् रघुः शशाङ्कार्धमुखेन पत्रिणा शरासनज्यां अलुनात् विडौजसः ।

अन्वयः

ततः रघुः हरिचन्दनाङ्किते प्रकोष्ठे प्रमथ्यमानार्णवधीरनादिनीं विडौजसः शरासनज्यां शशाङ्कार्धमुखेन पत्रिणा अलुनात् ।

अन्वयरचना

  • ततः अलुनात्
    • कः अलुनात् ? रघुः
    • केन अलुनात् ? पत्रिणा
      • कीदृशेन पत्रिणा ? शशाङ्कार्धमुखेन
    • काम् अलुनात् ? शरासनज्याम्
      • कस्य शरासनज्याम् ? विडौजसः
      • कीदृशीं शरासनज्याम् ? प्रमथ्यमानार्णवधीरनादिनीम्
    • कुत्र अलुनात् ? प्रकोष्ठे
      • कीदृशे प्रकोष्ठे ? हरिचन्दनाङ्किते

तात्पर्यम्

ततः रघुः हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं  प्रमथ्यमानार्णवः मथ्यमानसमुद्रः इव धीरं गम्भीरं नदति इति प्रमथ्यमानार्णवधीरनादिनी तां तथोक्तां विडौजसः इन्द्रस्य शरासनज्यां धनुर्मौर्वीं शशाङ्कार्धमुखेन शशाङ्कस्य अर्धखण्डः इव मुखः अग्रभागः यस्य अस्ति तादृशेन पत्रिणा बाणेन अलुनात् चिच्छेद ।

(वेवेष्टि व्याप्नोति इति विट् । विट् व्यापकम् ओजः तेजः यस्य अस्ति सः विडौजाः / बिडौजाः )

60.         श्लोकः

मूलपाठः

स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डल
स्त्रमाददे ॥ ३.६० ॥

पदच्छेदः

सः चापम् उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः महीध्रपक्षव्यपरोपणोचितम् स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ।

अन्वयः

विवृद्धमत्सरः सः चापम् उत्सृज्य प्रबलस्य विद्विषः प्रणाशनाय महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ।

अन्वयरचना

  • आददे
    • किम् आददे ? अस्त्रम्
      • कीदृशम् अस्त्रम् ? स्फुरत्प्रभामण्डलम्
    • कः आददे ? सः
      • कीदृशः सः ? विवृद्धमत्सरः
    • किंकृत्वा आददे ? उत्सृज्य
      • किम् उत्सृज्य ? चापम्
    • किमर्थम् आददे ? प्रणाशनाय
      • कस्य प्रणाशनाय ? विद्विषः
        • कीदृशस्य विद्विषः ? प्रबलस्य

तात्पर्यम्

विवृद्धमत्सरः प्रवृद्धवैरः (यस्य मत्सरः वैरभावः विवृद्धः अत्यन्तभूतः) सः इन्द्रः चापम् उत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय महीध्रपक्षव्यपरोपणोचितं महीध्रणां पर्वतानां पक्षव्यपरोपणे पक्षच्छेदे उचितं स्फुरत्प्रभामण्डलम् यस्य प्रभामण्डलानि स्फुरन्ति तादृशम् स्त्रं वज्रायुधम् आददे जग्राह

61.         श्लोकः

मूलपाठः

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्ष
निःस्वनैः ॥ ३.६१ ॥

पदच्छेदः

रघुः भृशम् वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः निमेषमात्रात् अवधूय तद्व्यथाम् सह उत्थितः सैनिकहर्षनिःस्वनैः ।

अन्वयः

रघुः तेन भृशं वक्षसि ताडितः सन् सैनिकाश्रुभिः सह भूमौ पपात । निमेषमात्रात् तद्व्यथाम् अवधूय सैनिकहर्षनिःस्वनैः सह उत्थितः ।

अन्वयरचना

  • पपात
    • कः पपात ? रघुः
      • कीदृशः सन् रघुः ? ताडितः सन्
        • कुत्र ताडितः ? वक्षसि
        • कथं ताडितः ? भृशम्
        • केन ताडितः ? तेन
      • कैः सह पपात ? सैनिकाश्रुभिः सह
      • कुत्र पपात ? भूमौ
    • उत्थितः अभवत्
      • कः उत्थितः ? रघुः
      • कदा उत्थितः ? निमेषमात्रात्
      • किं कृत्वा उत्थितः ? अवधूय
        • काम् अवधूय ? तद्व्यथाम्
      • कैः सह उत्थितः ? सैनिकहर्षनिःस्वनैः सह

तात्पर्यम्

रघुः तेन वज्रेण भृम् अत्यर्थं वक्षसि हृदये ताडितः हतः सन् सैनिकाश्रुभिः सह सैनिकानाम् अश्रुभिः बाष्पैः सह भूमौ पपातनिमेषमात्रात् तद्व्यथाम् दुःखम् वधूय तिरस्कृत्य सैनिकहर्षनिःस्वनैः सह सैनिकानां हर्षेण आनन्देन ये निस्वनाः क्ष्वेडाः शब्दाः भवन्ति तैः सह त्थितः । तस्मिन् उत्थिते हर्षात् सिंहनादान् चक्रुः इत्यर्थः ।

62.         श्लोकः

मूलपाठः

तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते ॥ ३.६२ ॥

पदच्छेदः

तथा अपि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरम् अस्य तस्थुषः तुतोष वीर्यातिशयेन वृत्रहा पदम् हि सर्वत्र गुणैः निधीयते ।

अन्वयः

तथा अपि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरं तस्थुषः अस्य वीर्यातिशयेन वृत्रहा तुतोष । हि सर्वत्र गुणैः पदं निधीयते ।

अन्वयरचना

  • तुतोष
    • कः तुतोष ? वृत्रहा
    • केन तुतोष ? वीर्यातिशयेन
      • कस्य वीर्यातिशयेन ? अस्य
      • कीदृशस्य अस्य ? तस्थुषः
        • कथं तस्थुषः ? चिरम्
        • कस्मिन् सन्दर्भे तस्थुषः ? विपक्षभावे तथा अपि
          • कीदृशे विपक्षभावे ? शस्त्रव्यवहारनिष्ठुरे
        • हि निधीयते
          • किं निधीयते ? पदं
          • कैः निधीयते ? गुणैः
          • कुत्र निधीयते ? सर्वत्र

तात्पर्यम्

तथापि वज्रपाते अपि शस्त्रव्यवहारनिष्ठुरे शस्त्राणाम् आयुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतः अस्य रघोः वीर्यातिशयेन वृत्रहा यः वृत्रः इति शत्रुं हतवान् सः इन्द्रः तुतोष स्वयं वीरः एव वीरं जानाति इति भावः । कथं शत्रोः सन्तोषः अत आह । हि यतः सर्वत्र शत्रुमित्रोदासीनेषु गुणैः पदं अङ्घ्रिः निधीयते गुणैः सर्वत्र संक्रम्यते इत्यर्थः। गुणाः शत्रून् अपि आवर्जयन्ति इति भावः ।

63.         श्लोकः

मूलपाठः

असङ्गद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
अवेहि मां प्रीत
मृते तुरङ्गमात्किमिच्छसीति स्फुटमाह वासवः ॥ ३.६३ ॥

पदच्छेदः

असङ्गम् अद्रिषु अपि सारवत्तया न मे त्वदन्येन विसोढम् आयुधम् अवेहि माम् प्रीतम् ऋते तुरङ्गमात् किम् इच्छसि इति स्फुटम् आह वासवः ।

अन्वयः

सारवत्तया अद्रिषु अपि असङ्गं मे आयुधं त्वदन्येन न विसोढम् । (अतः) मां प्रीतम् अवेहि । तुरङ्गमात् ऋते किम् इच्छसि इति स्फुटं वासवः आह ।

अन्वयरचना

  • न विसोढम् आसीत्
    • केन न विसोढम् ? त्वदन्येन
    • किं न विसोढम् ? आयुधम्
      • कस्य आयुधम् ? मे
    • केषु अपि न विसोढम् ? अद्रिषु अपि
    • किमर्थं न विसोढम् ? सारवत्तया
  • माम् अवेहि
    • कीदृशं माम् ? प्रीतम्
  • आह
    • कः आह ? वासवः
    • कथम् आह ? स्फुटम्
    • किमिति आह ? किम् इच्छसि इति
      • कस्मात् ऋते इच्छसि ? तुरङ्गमात् ऋते

तात्पर्यम्

सारवत्तया बलस्य भावेन अद्रिषु अपि असङ्गम् अप्रतिबन्धम् अकुण्ठं मे मम आयुधं वज्रः त्वन्येन त्वत्तः अपरेण न विसोढम्(अतः) मां प्रीतम् अवेहि । तुरङ्गमात् ऋते अश्वं विना किम् इच्छसि इति स्फुटं वासवः इद्रः आह उवाच तुरङ्गमात् अन्यत् अदेयं नास्ति इति भावः ।

64.         श्लोकः

मूलपाठः

ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् ।

नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥ ३.६४ ॥

पदच्छेदः

ततः निषङ्गात् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् नरेन्द्रसूनुः प्रतिसंहरन् इषुं प्रियंवदः प्रति अवदत् सुरेश्वरम् ।

अन्वयः

ततः निषङ्गात् असमग्रं (यथा स्यात् तथा) उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम् इषुं प्रतिसंहरन् प्रियंवदः नरेन्द्रसूनुः सुरेश्वरं प्रति अवदत् ।

अन्वयरचना

  • ततः अवदत्
    • कः अवदत् ? नरेन्द्रसूनुः
      • कीदृशः नरेन्द्रसूनुः ? प्रियंवदः
      • किं कुर्वन् नरेन्द्रसूनुः ? प्रतिसंहरन्
        • किं प्रतिसंहरन् ? इषुम्
          • कीदृशं इषुम् ? सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिम्
          • पुनः कीदृशं इषुम् ? उद्धृतम्
            • कथम् उद्धृतम् ? असमग्रम्
            • कस्मात् उद्धृतम् ? निषङ्गात्
          • कं प्रति अवदत् ? सुरेश्वरं प्रति

तात्पर्यम्

तः रघुः निषङ्गात् तूणीरात् समग्रं यथा स्यात् तथा उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं सुवर्णपुङ्खद्युतिभिः सुवर्णस्य पुङ्खः शरमूलं तस्य द्युतिभिः दीप्तिभिः रञ्जिताः अङ्गुलयः येन तम् षुं बाणं प्रतिसंहरन् निवर्तयन् प्रियंवदः नरेन्द्रसूनुः सुरेश्वरम् इन्द्रं प्रति अवदत्

65.         श्लोकः

मूलपाठः

अमोच्यश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ ३.६५ ॥

पदच्छेदः

अमोच्यम् अश्वम् यदि मन्यसे प्रभो ततः समाप्ते विधिना एव कर्मणि

अजस्रदीक्षाप्रयतः सः मद्गुरुः क्रतोः अशेषेण फलेन युज्यताम् ।

अन्वयः

(हे) प्रभो ! यदि अश्वम् अमोच्यं मन्यसे ततः अजस्रदीक्षाप्रयतः सः मद्गुरुः विधिना एव कर्मणि समाप्ते (सति) क्रतोः अशेषेण फलेन युज्यताम् ।

अन्वयरचना

  • (हे) प्रभो !
  • युज्यताम्
    • कः युज्यताम् ? सः
      • सः कः ? मद्गुरुः
      • कीदृशः मद्गुरुः ? अजस्रदीक्षाप्रयतः
    • केन युज्यताम् ? फलेन
      • कस्य फलेन ? क्रतोः
      • कीदृशेन फलेन ? अशेषेण
    • कस्मिन् सन्दर्भे युज्यताम् ? यदि मन्यसे ततः
      • किं मन्यसे ? अमोच्यम्
        • कम् अमोच्यम् ? अश्वम्
      • कदा युज्यताम् ? समाप्ते (सति)
        • कस्मिन् समाप्ते सति ? कर्मणि
        • कथं समाप्ते सति ? विधिना एव

तात्पर्यम्

हे प्रभो इन्द्र ! यदि अश्वम् अमोच्यं मन्यसे ततः तर्हि अजस्रदीक्षाप्रयतः अजस्रदीक्षायाम् अनवरतयज्ञदीक्षायां प्रयतः निरतः सः मद्गुरुः मम पिता विधिना ए वेदोक्तप्रकारेण कर्तव्यतया एव कर्मणि समाप्ते पूर्णे सति क्रतोः यज्ञस्य यत्फलं तेन फलेन शेषेण कृत्स्नेन युज्यतां युक्तः अस्तु । अश्वमेधफललाभे किम् अश्वेन इति भावः ।

66.         श्लोकः

मूलपाठः

यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तवैव सन्दे
हराद्विशांपतिः शृणोति लोकेश तथा विधीयताम् ॥ ३.६६ ॥

पदच्छेदः

यथा च वृत्तान्तम् इमम् सदोगतः त्रिलोचनैकांशतया दुरासदः तव एव सन्देशहरात् विशांपतिः शृणोति लोकेश तथा विधीयताम् ।

अन्वयः

हे लोकेश ! सदोगतः त्रिलोचनैकांशतया दुरासदः विशांपतिः यथा इमं वृत्तान्तं तव सन्देशहरात् एव शृणोति च तथा विधीयताम् ।

अन्वयरचना

  • हे लोकेश !
  • विधीयताम्
    • कथं विधीयताम् ? यथा शृणोति च तथा
      • किं शृणोति ? इमं वृत्तान्तम्
      • कः शृणोति ? विशांपतिः
        • कीदृशः विशांपतिः ? सदोगतः
        • पुनः कीदृशः विशांपतिः ? दुरासदः
          • कया दुरासदः ? त्रिलोचनैकांशतया
        • कस्मात् शृणोति ? सन्देशहरात् एव
          • कस्य सन्देशहरात् ? तव

तात्पर्यम्

हे लोकेश इन्द्र सदोगतः सदोगृहं सभां गतः त्रिलोचनैकांशतया त्रिलोचनस्य ईश्वरस्य एकांशतया अष्टानाम् अन्यतममूर्तित्वात् दुरासदः अस्मादृशैः दुष्प्राप्यः विशांपतिः नरपतिः था इमं वृत्तान्तं वार्त्तां तव सन्देशहरात् वार्ताहरात् एव शृणोति च तथा विधीयताम्

67.         श्लोकः

मूलपाठः

तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत ॥ ३.६७ ॥

पदच्छेदः

तथा इति कामम् प्रतिशुश्रुवान् रघोः यथा आगतम् मातलिसारथिः ययौ नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुः अपि न्यवर्तत ।

अन्वयः

मातलिसारथिः रघोः कामं तथा (अस्तु) इति प्रतिशुश्रुवान् । यथा आगतं ययौ । सुदक्षिनासूनुः अपि नातिप्रमनाः सन् नृपस्य सदोगृहं न्यवर्तत ।

अन्वयरचना

  • प्रतिशुश्रुवान्
    • कः प्रतिशुश्रुवान् ? मातलिसारथिः
    • किमिति प्रतिशुश्रुवान् ? तथा (अस्तु) इति
      • किं तथा अस्तु ? कामम्
        • कस्य कामम् ? रघोः
      • ययौ
        • कः ययौ ? मातलिसारथिः
        • कथं ययौ ? यथा आगतम्
      • न्यवर्तत
        • कः न्यवर्तत ? सुदक्षिनासूनुः अपि
          • कथं भूतः सन् ? नातिप्रमनाः सन्
        • कुत्र न्यवर्तत ? सदोगृहम्
          • कस्य सदोगृहम् ? नृपस्य

तात्पर्यम्

मातलिसारथिः मातलिः नामकः सारथिः यस्य असौ इन्द्रः रघोः सम्बन्धिनं कामं मनोरथं था इति तथा अस्तु इति प्रतिशुश्रुवान्यथागतं ययौ | न तु रघुं विजित्य इति भावः अथवा येन मार्गेण आयातः तेन एव गत इतियर्थः । सुदक्षिणासूनुः रघुः अपि नातिप्रमनाः विजयलाभे अपि अश्वनाशात् न अतीवतुष्टः सन् नृपस्य सदोगृहं दीक्षामण्डपं प्रति न्यवर्तत निवृत्तः अभूत् ।

पदविवरणम्

नातिप्रमनाः – प्रहृष्टं प्रसन्नं मनः चित्तं यस्य असौ प्रमनाः ।  अधिकं प्रमनाः इति अतिप्रमनाः । न अतिप्रमनाः नातिप्रमनाः ।

68.         श्लोकः

मूलपाठः

भ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः ।
परामृशन्हर्षजडेन पाणिना तदीय
ङ्गं कुलिशव्रणाङ्कितम् ॥ ३.६८ ॥

पदच्छेदः

तम् अभ्यनन्दत् प्रथमम् प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः परामृशन् हर्षजडेन पाणिना तदीयम् अङ्गम् कुलिशव्रणाङ्कितम् ।

अन्वयः

हरेः शासनहारिणा प्रथमं प्रबोधितः प्रजेश्वरः हर्षजडेन पाणिना कुलिशव्रणाङ्कितम् तदीयम् अङ्गं परामृशन् तम् अभ्यनन्दत् ।

अन्वयरचना

  • अभ्यनन्दत्
    • कः अभ्यनन्दत् ? प्रजेश्वरः
      • कीदृशः प्रजेश्वरः ? प्रथमं प्रबोधितः
        • केन प्रबोधितः ? शासनहारिणा
          • कस्य शासनहारिणा ? हरेः
        • कम् अभ्यनन्दत् ? तम्
        • किं कुर्वन् अभ्यनन्दत् ? परामृशन्
          • किं परामृशन् ? अङ्गम्
            • कीदृशम् अङ्गम् ? तदीयम्
            • पुनः कीदृशम् अङ्गम् ? कुलिशव्रणाङ्कितम्
          • केन परामृशन् ? पाणिना
            • कीदृशेन पाणिना ? हर्षजडेन

तात्पर्यम्

रेः इन्द्रस्य शासनहारिणा पुरुषेण एतत् वृत्तान्तं प्रथमं प्रबोधितः ज्ञापितः अभूत् । प्रजेश्वरः दिलीपः हर्षजडेन हर्षशिशिरेण (हर्षशिथिलेन) पाणिना कुलिशव्रणाङ्कितं कुलिशस्य वज्रस्य व्रणैः प्रहारैः अङ्कितं चिह्नितं तदीयम् तस्य रघोः इदम् अङ्गं शरीरं परामृशन् स्पृशन् तं रघुम् भ्यनन्दत् अभिनन्दितवान् ।

69.         श्लोकः

मूलपाठः

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः ।
समा
रुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥ ३.६९ ॥

पदच्छेदः

इति क्षितीशः नवतिं नवाधिकां महाक्रतूनां महनीयशासनः समारुरुक्षुः दिवम् आयुषः क्षये ततान सोपानपरम्पराम् इव ।

अन्वयः

महनीयशासनः क्षितीशः इति महाक्रतूनां नवाधिकां नवतिं आयुषः क्षये (सति) दिवं समारुरुक्षुः सोपानपरम्पराम् इव ततान ।

अन्वयरचना

  • ततान
    • कः ततान ? क्षितीशः
      • कीदृशः क्षितीशः ? महनीयशासनः
    • किं ततान ? नवाधिकां नवतिम्
      • केषां नवाधिकां नवतिम् ? महाक्रतूनाम्
    • कथं ततान ? इति (पूर्वोक्तरीत्या)
    • कामिव ततान ? सोपानपरम्पराम् इव
      • कस्य सोपानपरम्पराम् ? समारुरुक्षुः
        • किं समारुरुक्षुः ? दिवम्
        • कदा समारुरुक्षुः ? क्षये सति
          • कस्मिन् क्षये सति ? आयुषः

तात्पर्यम्

महनीयशासनः पूजनीयाज्ञः क्षितीशः भूपतिः इति इत्यनेन प्रकारेण महाक्रतूनाम् अश्वमेधानां नवाधिकां नवतिम् नवभिः अधिकां नवतिम् एकोनशतम् युषः क्षये जीवितपूर्णे सति दिवं स्वर्गं समारुरुक्षुः आरोढुमिच्छुः सोपानपरम्पराम् इव सोपानानां परम्परां पङ्क्तिः इव ततान अतनोत् ।

पदविवरणम्

  • महनीयशासनः = महनीयं पूजनीयं शासनम् आज्ञा यस्य सः

70.         श्लोकः

मूलपाठः

अथ स विषव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम् ।

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये
गलितवयसा
मिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ३.७०

पदच्छेदः

अथ सः विषयव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणम् मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणाम् इदं हि कुलव्रतम्

अन्वयः

अथ विषयव्यावृत्तात्मा सः यथाविधि यूने सूनवे नृपतिककुदं सितातपवारणं दत्त्वा तया देव्या सह मुनिवनतरुच्छायां शिश्रिये । हि गलितवयसां इक्ष्वाकूणाम् इदं कुलव्रतम् अस्ति ।

अन्वयरचना

  • अथ शिश्रिये
    • कः शिश्रिये ? विषयव्यावृत्तात्मा सः
    • कां शिश्रिये ? मुनिवनतरुच्छायाम्
    • कया सह शिश्रिये ? तया देव्या सह
    • किं कृत्वा शिश्रिये ? दत्त्वा
      • किं दत्त्वा ? सितातपवारणम्
        • कीदृशं सितातपवारणम् ? नृपतिककुदम्
      • कस्मै दत्त्वा ? सूनवे
        • कीदृशाय सूनवे ? यूने
      • हि कुलव्रतम् अस्ति ।
        • किं कुलव्रतम् ? इदम्
        • केषां कुलव्रतम् ? इक्ष्वाकूणाम्
          • कीदृशानाम् इक्ष्वाकूणाम् ? गलितवयसाम्

तात्पर्यम्

अथ विषव्यावृत्तात्मा विषयेभ्यः रूपगन्धस्पर्शादिभ्यः व्यावृत्तात्मा निवृत्तचित्तः सः दिलीपः यथाविधि यथाशास्त्रं यूने युवराजाय सूनवे पुत्राय नृपतिककुदं राजचिह्नं सितातपवारणं सितम् आतपत्रं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरुच्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः । हि तथाहि गलितवयसां वृद्धानाम् क्ष्वाकूणाम् इक्ष्वाकोः गोत्रापत्यानाम् इदं वनगमनं कुलव्रतं कुलाचारः अस्ति ।

विशेषः

देव्या सह इत्यनेन सपत्नीकवानप्रस्थाश्रमपक्षः उक्तः । तथा च याज्ञवल्क्यः –
सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् इति ।

पदविवरणम्

  • यूने – युवन् शब्दः, पुं.लि., च.वि., ए.व.
    प्रथमा – युवा युवानौ युवानः । चतुर्थी – यूने युवभ्याम् युवभ्यः ।
  • शिश्रिये – श्रिकर्तरि लिट्., प्र.पु., ए.व., आत्मनेपदी {धातुः श्रिञ्} {गणः भ्वादिः}
    लट्. – श्रयते श्रयेते श्रयन्ते । लिट्. – शिश्रिये शिश्रियाते शिश्रियिरे ।

छन्दः (७०)

  • वृत्तम् – हरिणी
  • “रसयुगहयैर्न्सौ म्रौ स्लौ गो यदा हरिणी तदा” इति
  • “नसमरसलागः षड्वेदैर्हयैर्हरिणी मता”
  • न-स-म-र-स-लाः गः षड्वेदैः (6) वेदैः (4), हयैः (7) हरिणी मता
  • यतिस्तु षष्ठे चतुर्थे सप्तमे च भवति ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
यु यै र्न्सौ म्रौ स्लौ गो दा रि णी दा
गु गु गु गु गु गु गु गु
वि व्या वृ त्ता त्मा था वि धि सू वे
नृ ति कु दं त्त्वा यू ने सि ता वा णं
मु नि रु च्छा यां दे व्या या शि श्रि ये
लि सां क्ष्वा कू णां दं हि कु व्र तं

 

Conclusion

मूलपाठः

इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसुरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ श्रीरघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः।

 

 References

http://www.giirvaani.in/giirvaani/rv/sargas/03_rv.htm

http://www.giirvaani.in/giirvaani/rv/rv_kmj/02_rv_kmj.pdf

 

Other references