Bhagavad Gita – Chapter 13

श्रीमद्भगवद्गीता – त्रयोदशोध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः

श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

पदच्छेदः

इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते एतत् यः वेत्ति तं प्राहुः क्षेत्रज्ञः इति तद्विदः ॥ १ ॥

अन्वयः

कौन्तेय ! इदं शरीरं क्षेत्रम् इति अभिधीयते । यः एतत् वेत्ति तं क्षेत्रज्ञ: इति तद्विदः प्राहुः ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = अभिधीयते [ अभि + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) कर्मणि लट्. प्रपु. एक. ]
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
      • कर्तृपदम् = शरीरम्
      • कर्तृविशेषणम् = इदम्
      • सम्योजकपदम् = इति
    • द्वितीयवाक्यम्
      • “यः” वाक्यांशः
        • क्रियापदम् = वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. | प्रपु. रूपाणि – वेत्ति, वित्त: विदन्ति | वेद,  विदतु:,  विदु:  इति अपि सन्ति ]
        • कर्मपदम् = एतत्
        • कर्तृपदम् = यः
      • “तम्” वाक्यांशः
        • क्रियापदम् = आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
        • कर्तृपदम् = तद्विदः
        • कर्मपदम् = तम्
        • कर्म-वाक्यम्
          • कर्तृपदम् = क्षेत्रज्ञ:
          • सम्योजकपदम् = इति

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

पदच्छेदः

क्षेत्रज्ञं च अपि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तत् ज्ञानं मतं मम ॥ २ ॥

अन्वयः

भारत ! सर्वक्षेत्रेषु क्षेत्रज्ञं च अपि मां विद्धि | यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानं (भवति), तत् (एव) ज्ञानम् (इति) मम मतम् ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मपदम् = माम्
    • वाक्यांशः
      • कर्मविशेषणम् = क्षेत्रज्ञम्
      • अधिकरणपदम् = सर्वक्षेत्रेषु
      • कर्मविशेषण-सूचक-पदम् = च
      • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांशः
      • कर्तृपदम् = मतम्
      • सम्बन्ध-पदम् = मम
    • कर्म-वाक्यम्
      • “यत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • वाक्यांशः
          • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
          • सम्बन्ध-पदम् = क्षेत्रक्षेत्रज्ञयोः
        • कर्तृपदम् = यत्
      • “तत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
        • कर्तृपदम् = तत्
      • सम्योजकपदम् = (इति)

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

पदच्छेदः

तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च यत् स च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ ३ ॥

अन्वयः

यत् तत् क्षेत्रं च, यादृक् च, यद्विकारि, यतः च, यः सः च, यत्प्रभावः च यत्, तत् समासेन मे शृणु ।

पदपरिचय:

  • “यत्” वाक्यांशः
    • कर्तृपदम् = यत्
    • कर्तृ-विशेषण-वाक्यम्
      • वाक्यांशः
        • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
        • कर्तृ-विशेषण-सूचक-पदम् = तत्
        • कर्तृपदम् = यत्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यादृक्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यद्विकारि
        • सम्योजकपदम् = (च)
      • वाक्यांशः
        • कर्तृपदम् = यतः
        • सम्योजकपदम् = च
      • “यः” वाक्यांशः
        • कर्तृपदम् = यः
        • कर्तृ-विशेषण-सूचक-पदम् = सः
        • कर्तृ-विशेषण-सूचक-पदम् = यत्प्रभावः
        • सम्योजकपदम् = च
      • “तत्” वाक्यांशः
        • क्रियापदम् = शृणु [श्रु “श्रु श्रवणे” पर. लोट्. मपु. एक. ]
        • वाक्यांशः
          • कर्मपदम् = तत्
          • सम्बन्ध-पदम् = मे (मम सकाशात्)
          • करणवाचकपदम् = समासेन
        • कर्तृपदम् = (त्वम्)

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

पदच्छेदः

ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥

अन्वयः

(तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदै: च बहुधा पृथक् गीतम् ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = गीतम्
  • क्रियाविशेषणम् = बहुधा
  • क्रियाविशेषणम् = पृथक्
  • (कर्मणि) कर्तृपदम् = ऋषिभिः
  • वाक्यांशः
    • करणवाचकपदम् = ब्रह्मसूत्रपदै:
    • करणविशेषणम् = हेतुमद्भिः
    • करणविशेषणम् = विनिश्चितैः
    • सम्योजकपदम् = च
  • वाक्यांशः
    • करणवाचकपदम् = छन्दोभिः
    • करणविशेषणम् = विविधैः

महाभूतान्यहकारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

पदच्छेदः

महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च इन्द्रियाणि दश एकं च पञ्च च इन्द्रियगोचराः ॥ ५ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ ६ ॥

अन्वयः

महाभूतानि अहङ्कारः बुद्धि: अव्यक्तम् एव च दश इन्द्रियाणि एकं (मन:) च पञ्च इन्द्रियगोचराः च इच्छा द्वेष: सुखं दु:खं सङ्घात: चेतना धृतिः च (सन्ति) | एतत् (सर्वं) सविकारं समासेन क्षेत्रम् (मया) उदाहृतम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृविशेषणम् =महाभूतानि
    • कर्तृविशेषणम् =अहङ्कारः
    • कर्तृविशेषणम् =बुद्धि:
    • वाक्यांशः
      • कर्तृविशेषणम् =अव्यक्तम्
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियाणि
      • कर्तृविशेषणम् =दश
    • वाक्यांशः
      • कर्तृपदम् =एकम्
      • कर्तृविशेषणम् =(मनः)
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियगोचराः
      • कर्तृविशेषणम् =पञ्च
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् =इच्छा
    • कर्तृविशेषणम् =द्वेष:
    • कर्तृविशेषणम् =सुखम्
    • कर्तृविशेषणम् =दु:खम्
    • कर्तृविशेषणम् =सङ्घात:
    • कर्तृविशेषणम् =चेतना
    • कर्तृविशेषणम् =धृतिः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
    • (कर्मणि) कर्मविशेषणम् = क्षेत्रम्
    • वाक्यांशः
      • (कर्मणि) कर्मपदम् =एतत्
      • (कर्मणि) कर्मविशेषणम् =सविकारम्
      • करणवाचकपदम् = समासेन
    • (कर्मणि) कर्तृपदम् = (मया) / (पण्डितैः)

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

पदच्छेदः

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिः अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि च अनन्ययोगेन भक्तिः अव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिः जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् अज्ञानं यत् अतः अन्यथा ॥ ११ ॥

अन्वयः

अमानित्वम् , अदम्भित्वम् , अहिंसा , क्षान्तिः , आर्जवम् , आचार्योपासनम् , शौचम् , स्थैर्यम् , आत्मविनिग्रहः , इन्द्रियार्थेषु वैराग्यम् , अनहङ्कारः एव च , जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् , असक्तिः , पुत्रदारगृहादिषु अनभिष्वङ्गः , इष्टानिष्टोपपत्तिषु नित्यं समचित्तत्वं च , मयि च अनन्ययोगेन अव्यभिचारिणी भक्तिः च , विविक्तदेशसेवित्वम् , जनसंसदि अरतिः , अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम् (च सन्ति) | एतत् ज्ञानम् इति प्रोक्तम् । अतः अन्यथा यत् (अस्ति) तत् अज्ञानम् (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = अमानित्वम्
    • कर्तृपदम् = अदम्भित्वम्
    • कर्तृपदम् = अहिंसा
    • कर्तृपदम् = क्षान्तिः
    • कर्तृपदम् = आर्जवम्
    • कर्तृपदम् = आचार्योपासनम्
    • कर्तृपदम् = शौचम्
    • कर्तृपदम् = स्थैर्यम्
    • कर्तृपदम् = आत्मविनिग्रहः
    • वाक्यांशः
      • कर्तृपदम् = वैराग्यम्
      • अधिकरणपदम् = इन्द्रियार्थेषु
    • वाक्यांशः
      • कर्तृपदम् = अनहङ्कारः
      • कर्तृविशेषणम् = एव
      • सम्योजकपदम् = च
    • कर्तृपदम् = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
    • कर्तृपदम् = असक्तिः
    • वाक्यांशः
      • कर्तृपदम् = अनभिष्वङ्गः
      • अधिकरणपदम् = पुत्रदारगृहादिषु
    • वाक्यांशः
      • कर्तृपदम् = समचित्तत्वम्
      • कर्तृविशेषणम् = नित्यम्
      • अधिकरणपदम् = इष्टानिष्टोपपत्तिषु
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् = भक्तिः
      • कर्तृविशेषणम् = अव्यभिचारिणी
      • करणवाचकपदम् = अनन्ययोगेन
      • अधिकरणपदम् = मयि
      • सम्योजकपदम् = च
    • कर्तृपदम् = विविक्तदेशसेवित्वम्
    • वाक्यांशः
      • कर्तृपदम् = अरतिः
      • अधिकरणपदम् = जनसंसदि
    • कर्तृपदम् = अध्यात्मज्ञाननित्यत्वम्
    • कर्तृपदम् = तत्त्वज्ञानार्थदर्शनम्
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= प्रोक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् =ज्ञानम्
    • (कर्मणि) कर्मपदम् =एतत्
    • सम्योजकपदम् = इति
    • (कर्मणि) कर्तृपदम् = (मया) / (सर्वैः)
  • तृतीयवाक्यम्
    • “यत्” वाक्यांशः
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = अन्यथा
        • अपादानपदम् = अतः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांशः
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = तत्
      • कर्तृ-विशेषण-सूचक-पदम् = अज्ञानम्

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

पदच्छेदः

ज्ञेयं यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते अनादिमत् परं ब्रह्म न सत् तत् न असत् उच्यते ॥ १२ ॥

अन्वयः

यत् ज्ञेयं यत् ज्ञात्वा अमृतम् अश्नुते तत् प्रवक्ष्यामि । अनादिमत् परं ब्रह्म न सत् । तत् न असत् उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांशः
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = ज्ञेयम्
      • (कर्मणि) कर्मपदम् = यत्
    • “यत्” वाक्यांशः
      • क्रियापदम् =अश्नुते [ अश् “अशू व्याप्तौ संघाते च” आ. लट्. प्रपु. एक. ]
      • कर्मपदम् = अमृतम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् =ज्ञात्वा
        • कर्मपदम् = यत्
      • कर्तृपदम् = (कोऽपि)
    • “तत्” वाक्यांशः
      • क्रियापदम् =प्रवक्ष्यामि [ प्र + वच् “वच परिभाषणे” पर. लट्. उपु. एक. ]
      • कर्मपदम् = तत्
      • कर्तृपदम् = (अहम्)

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

पदच्छेदः

सर्वतः पाणिपादं तत् सर्वतः अक्षिशिरोमुखम् सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३ ॥

अन्वयः

सर्वतः पाणिपादं सर्वतः अक्षिशिरोमुखम्, सर्वतः श्रुतिमत् | तत् लोके सर्वम् आवृत्य तिष्ठति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(सन्ति)
    • वाक्यांशः
      • कर्तृपदम् = पाणिपादम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = अक्षिशिरोमुखम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = श्रुतिमत्
      • स्थानवाचकपदम् = सर्वतः
    • द्वितीयवाक्यम्
      • क्रियापदम् = तिष्ठति [ स्था “ष्टा गतिनिवृत्तौ” पर. लट्. प्रपु. एक. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आवृत्य
        • कर्मपदम् = सर्वम्
        • अधिकरणपदम् = लोके
      • कर्तृपदम् = तत्

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृच ॥ १४ ॥

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितिम् ॥ १७ ॥

पदच्छेदः

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च ॥ १४ ॥
बहिः अन्तः च भूतानाम् अचरं चरम् एव च सूक्ष्मत्वात् तत् अविज्ञेयं दूरस्थं च अन्तिके च तत् ॥ १५ ॥

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितिम् ॥ १७ ॥

अन्वयः

तत् सर्वेन्द्रियगुणाभासम्, सर्वेन्द्रियविवर्जितम्, असक्तम्, सर्वभृत् च एव, निर्गुणम्, गुणभोक्तृ च, भूतानाम् बहिः अन्तः च, अचरम्, चरम् एव च, सूक्ष्मत्वात् तत् अविज्ञेयम्, दूरस्थं च, अन्तिके च, भूतेषु अविभक्तं च, विभक्तम् इव स्थितम् च, भूतभर्तृ च, ग्रसिष्णु प्रभविष्णु, ज्ञेयम्, ज्योतिषाम् अपि ज्योति: तमसः परम् उच्यते । ज्ञानं, ज्ञेयं, ज्ञानगम्यं, सर्वस्य हृदि विष्ठितिम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वेन्द्रियगुणाभासम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वेन्द्रियविवर्जितम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = असक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वभृत्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = निर्गुणम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = गुणभोक्तृ
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = बहिः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अन्तः
      • सम्योजकपदम् = च
      • सम्बन्ध-पदम् = भूतानाम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अचरम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = चरम्
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = अविज्ञेयम्
      • (कर्मणि) कर्मपदम् = तत्
      • कारणवाचकपदम् = सूक्ष्मत्वात्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = दूरस्थम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अन्तिके
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अविभक्तम्
      • सम्बन्ध-पदम् = भूतेषु
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = स्थितम्
      • सम्योजकपदम् = इव
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = विभक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = भूतभर्तृ
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ज्ञेयम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ग्रसिष्णु
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = प्रभविष्णु
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ज्योति:
      • सम्बन्ध-पदम् = ज्योतिषाम्
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = परम्
      • सम्बन्ध-पदम् = तमसः
    • सम्योजकपदम् = च
    • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्तृविशेषणम् = ज्ञानम्
    • कर्तृविशेषणम् = ज्ञेयम्
    • कर्तृविशेषणम् = ज्ञानगम्यम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = विष्ठितिम्
      • अधिकरणपदम् = हृदि
      • सम्बन्ध-पदम् = सर्वस्य
    • (कर्मणि) कर्मपदम् = तत्

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तंसमासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥

पदच्छेदः

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च उक्तं समासतः मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ॥ १८ ॥

अन्वयः

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = उक्तम्
    • क्रियाविशेषणम् = समासतः
    • (कर्मणि) कर्मपदम् = क्षेत्रम्
    • (कर्मणि) कर्मपदम् = ज्ञानम्
    • (कर्मणि) कर्मपदम् = ज्ञेयम्
    • (कर्मणि) कर्तृपदम् = (मया)
    • सम्योजकपदम् = तथा
    • सम्योजकपदम् = च
    • सम्योजकपदम् = इति
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते [ उप + पद् “पद गतौ” लट्. आत्. प्रपु. एक. ]
    • सम्प्रदानपदम् = मद्भावाय
    • कर्तृपदम् = मद्भक्तः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विज्ञाय
      • कर्मपदम् = एतत्

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

पदच्छेदः

प्रकृतिं पुरुषं च एव विद्धि अनादी उभौ अपि विकारान् च गुणान् च एव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

अन्वयः

प्रकृतिं पुरुषं च एव उभौ अपि अनादी (इति) विद्धि । विकारान् गुणान् च एव प्रकृतिसम्भवान् विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = अनादी
      • वाक्यांशः
        • कर्तृविशेषणम् = उभौ
        • कर्तृ-विशेषण-सूचक-पदम् = एव
        • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • कर्तृपदम् = प्रकृतिम्
      • कर्तृपदम् = पुरुषम्
      • सम्योजकपदम् = च
      • सम्योजकपदम् = (इति)
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मविशेषण-सूचक-पदम् = प्रकृतिसम्भवान्
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्मपदम् = विकारान्
    • कर्मपदम् = गुणान्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

पदच्छेदः

कार्यकरणकर्तृत्वे हेतुः प्रकृतिः उच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ॥ २० ॥

अन्वयः

कार्यकरणकर्तृत्वे प्रकृतिः हेतुः (इति) उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः (इति) उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
    • (कर्मणि) कर्म-वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = हेतुः
      • कर्तृपदम् = प्रकृतिः
      • सम्प्रदानपदम् = कार्यकरणकर्तृत्वे
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
      • कर्म-वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = हेतुः
        • कर्तृपदम् = पुरुषः
        • सम्प्रदानपदम् = भोक्तृत्वे
        • सम्बन्ध-पदम् = सुखदुःखानाम्
        • सम्योजकपदम् = (इति)

पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् ।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

पदच्छेदः

पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गः अस्य सत्+असत्+योनि+जन्मसु ॥ २१ ॥

अन्वयः

पुरुषः हि प्रकृतिस्थः प्रकृतिजान्गुणान् भुङ्क्ते | अस्य सदसद्योनिजन्मसु कारणम् गुणसङ्गः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भुङ्क्ते [ भुङ्क् “भुज पालनाभ्यवहारयो:” लट्. आत्. प्रपु. एक. ]
    • कर्मपदम् = प्रकृतिजान्गुणान्
    • कर्तृपदम् = पुरुषः
    • कर्तृविशेषणम् = प्रकृतिस्थः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = कारणम्
      • अधिकरणपदम् = सत्+असत्+योनि+जन्मसु
      • सम्बन्ध-पदम् = अस्य
    • कर्तृपदम् = गुणसङ्गः

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥

पदच्छेदः

उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ २२ ॥

अन्वयः

अस्मिन् देहे परः पुरुषः, उपद्रष्टा अनुमन्ता भर्ता भोक्ता महेश्वरः च परमात्मा च अपि इति उक्तः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = उक्तः
    • (कर्मणि) कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = उपद्रष्टा
      • कर्तृ-विशेषण-सूचक-पदम् = अनुमन्ता
      • कर्तृ-विशेषण-सूचक-पदम् = भर्ता
      • कर्तृ-विशेषण-सूचक-पदम् = भोक्ता
      • कर्तृ-विशेषण-सूचक-पदम् = महेश्वरः
      • कर्तृ-विशेषण-सूचक-पदम् = परमात्मा
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • सम्योजकपदम् = च
      • कर्तृपदम् = पुरुषः
      • कर्तृविशेषणम् = परः
      • अधिकरणपदम् = देहे
      • अधिकरण-विशेषणम् = अस्मिन्
      • सम्योजकपदम् = इति

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

पदच्छेदः

यः एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ २३ ॥

अन्वयः

यः एवं गुणैः सह पुरुषं प्रकृतिं च वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् =वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = एवम्
    • कर्मपदम् = पुरुषम्
    • कर्मपदम् = प्रकृतिम्
    • सम्योजकपदम् = च
    • वाक्यांशः
      • करणवाचकपदम् = गुणैः
      • सम्योजकपदम् = सह
    • कर्तृपदम् = यः
  • “सः” वाक्यांशः
    • क्रियापदम् = अभिजायते [ अभि + जन् “जनी प्रादुर्भावे” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = भूयः
    • कर्तृपदम् = सः
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = वर्तमानः
      • क्रियाविशेषणम् = सर्वथा
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

पदच्छेदः

ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन च अपरे ॥ २४ ॥

अन्वयः

केचित् ध्यानेन आत्मनि आत्मना आत्मानं पश्यन्ति । अन्ये साङ्ख्येन योगेन | अपरे कर्मयोगेन ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यन्ति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = आत्मानम्
    • अधिकरणपदम् = आत्मनि
    • करणवाचकपदम् = आत्मना
    • कारणवाचकपदम् = ध्यानेन
    • कर्तृपदम् = केचित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (पश्यन्ति)
    • करणवाचकपदम् = योगेन
    • करणविशेषणम् = साङ्ख्येन
    • कर्तृपदम् = अन्ये
  • तृतीयवाक्यम्
    • क्रियापदम् = (पश्यन्ति)
    • करणवाचकपदम् = कर्मयोगेन
    • कर्तृपदम् = अपरे

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

पदच्छेदः

अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते ते अपि च अतितरन्ति एव मृत्युं श्रुतिपरायणाः ॥ २५ ॥

अन्वयः

अन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते । श्रुतिपरायणाः ते अपि च मृत्युम् अतितरन्ति एव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = श्रुत्वा
      • अपादानपदम् = अन्येभ्यः
    • कर्तृपदम् = अन्ये
    • कर्तृ-विशेषण-सूचक-पदम् = तु
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अजानन्तः
      • क्रियाविशेषणम् = एवम्
    • द्वितीयवाक्यम्
      • क्रियापदम् = अतितरन्ति [ अति + तॄ “तॄ प्लवनतरणयोः” पर. लट्. प्रपु. बहु. ]
      • क्रियाविशेषणम् = एव
      • कर्मपदम् = मृत्युम्
      • कर्तृपदम् = ते
      • कर्तृ-विशेषणम् = श्रुतिपरायणाः
      • संयोजकपदम् = अपि
      • संयोजकपदम् = च

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् ।

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ २६ ॥

पदच्छेदः

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात् तत् विद्धि भरतर्षभ ॥ २६ ॥

अन्वयः

भरतर्षभ ! स्थावरजङ्गमं किञ्चित् सत्त्वं यावत् सञ्जायते तत् क्षेत्रक्षेत्रज्ञसंयोगात् (इति) विद्धि ।

पदपरिचय:

  • सम्बोधनपदम् = भरतर्षभ
  • “यावत्” वाक्यांशः
    • क्रियापदम् = सञ्जायते [ सम् + जन् “जनी प्रादुर्भावे” आत्. लट्. प्रपु. एक. ]
    • कर्तृपदम् = सत्त्वम्
    • कर्तृविशेषणम् = स्थावरजङ्गमम्
    • वाक्यांशः
      • कर्तृविशेषणम् = किञ्चित्
      • कर्तृ-विशेषण-सूचक-पदम् = यावत्
    • “तत्” वाक्यांशः
      • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
      • कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृपदम् = तत्
        • कारणवाचकपदम् = क्षेत्रक्षेत्रज्ञसंयोगात्
        • संयोजकपदम् = (इति)

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २७ ॥

पदच्छेदः

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् विनश्यत्सु अविनश्यन्तं यः पश्यति सः पश्यति ॥ २७ ॥

अन्वयः

यः सर्वेषु भूतेषु समं तिष्ठन्तं, विनश्यत्सु अविनश्यन्तं, परमेश्वरं, पश्यति, सः पश्यति ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्मपदम् = परमेश्वरम्
    • वाक्यांशः
      • कर्मविशेषणम् = अविनश्यन्तम्
      • अधिकरणपदम् = विनश्यत्सु
    • वाक्यांशः
      • क्रिया-गर्भ-कर्मपदम्= तिष्ठन्तम्
      • क्रियाविशेषणम् = समम्
      • अधिकरणपदम् = भूतेषु
      • अधिकरण-विशेषणम् = सर्वेषु
    • कर्तृपदम् = यः
  • “सः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्तृपदम् = सः

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ २८ ॥

पदच्छेदः

समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् न हिनस्ति आत्मना आत्मानं ततः याति परां गतिम् ॥ २८ ॥

अन्वयः

(सः), सर्वत्र समवस्थितम् ईश्वरं समं पश्यन् हि, आत्मना आत्मानं न हिनस्ति | ततः परां गतिं याति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = हिनस्ति [ हिंस् “हिसि हिंसायाम्” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • कर्मपदम् = आत्मानम्
    • करणवाचकपदम् = आत्मना
    • कर्तृपदम् = (सः)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= पश्यन्
      • कर्तृ-विशेषण-सूचक-पदम् = हि
      • क्रियाविशेषणम् = समम्
      • कर्मपदम् = ईश्वरम्
      • कर्मविशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= समवस्थितम्
        • स्थानवाचकपदम् = सर्वत्र
      • द्वितीयवाक्यम्
        • क्रियापदम् = याति [ या “या प्रापणे” पर. लट्. प्रपु. एक. ]
        • कर्मपदम् = गतिम्
        • कर्मविशेषणम् = पराम्
        • संयोजकपदम् = ततः

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।

यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ २९ ॥

पदच्छेदः

प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः यः पश्यति तथा आत्मानम् अकर्तारं सः पश्यति ॥ २९ ॥

अन्वयः

यः सर्वशः कर्माणि प्रकृत्या एव च क्रियमाणानि (इति) पश्यति, तथा आत्मानम् अकर्तारं (पश्यति), स: पश्यति ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= क्रियमाणानि
      • क्रियाविशेषणम् =सर्वशः
      • (कर्मणि) कर्तृपदम् = प्रकृत्या
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = एव
      • संयोजकपदम् = (इति)
    • कर्मपदम् = कर्माणि
    • कर्तृपदम् = यः
    • संयोजकपदम् = च
  • “यः” वाक्यांशः
    • क्रियापदम् = (पश्यति)
    • वाक्यांशः
      • कर्मविशेषण-सूचक-पदम् = अकर्तारम्
      • कर्मपदम् = आत्मानम्
      • संयोजकपदम् = (इति)
    • संयोजकपदम् = तथा
    • कर्तृपदम् = (यः)
  • “सः” वाक्यांशः
    • क्रियापदम् = पश्यति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • कर्तृपदम् = स:

यदा भूतपृथग्भावमेकस्थमनुपश्यति ।

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

पदच्छेदः

यदा भूत+पृथक्+भावम् एकस्थम् अनुपश्यति ततः एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ ३० ॥

अन्वयः

यदा भूतपृथग्भावम् एकस्थम् (जिज्ञासुः) अनुपश्यति, ततः एव च विस्तारं (अनुपश्यति), तदा (सः) ब्रह्म सम्पद्यते ।

पदपरिचय:

  • “यदा” वाक्यांश:
    • क्रियापदम् = अनुपश्यति [ अनु + दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. एक. ]
    • वाक्यांशः
      • कर्मविशेषणम् = एकस्थम्
      • संयोजकपदम् = (इति)
    • कर्मपदम् = भूतपृथग्भावम्
    • कालवाचकपदम् = यदा
    • कर्तृपदम् = (जिज्ञासुः)
  • “यदा” वाक्यांश:
    • क्रियापदम् = (अनुपश्यति)
    • वाक्यांशः
      • कर्मपदम् = विस्तारम्
      • अपादानपदम् = ततः
      • अपादानविशेषणम् = एव
      • संयोजकपदम् = (इति)
    • कर्तृपदम् = (सः)
    • कालवाचकपदम् = (यदा)
    • संयोजकपदम् = च
  • “तदा” वाक्यांश:
    • क्रियापदम् = सम्पद्यते [ सम् + पद् “पतॢ गतौ” आत्. लट्. प्रपु. एक. ]
    • कर्मपदम् = ब्रह्म
    • कालवाचकपदम् = तदा
    • कर्तृपदम् = (सः)

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

पदच्छेदः

अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः शरीरस्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३१ ॥

अन्वयः

कौन्तेय ! अयम् अव्ययः परमात्मा शरीरस्थः अपि अनादित्वात् निर्गुणत्वात् न करोति | (कर्मणा आत्मा) न लिप्यते ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = करोति [ कृ “डुकृञ् करणे” उभ. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • कारणवाचकपदम् = अनादित्वात्
    • कारणवाचकपदम् = निर्गुणत्वात्
    • कर्तृपदम् = परमात्मा
    • कर्तृविशेषणम् = अव्ययः
    • कर्तृविशेषणम् = अयम्
    • वाक्यांशः
      • कर्तृविशेषणम् = शरीरस्थः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = लिप्यते [ लिप् “लिप उपदेहे” उभय. कर्मणि लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न
      • (कर्मणि) कर्मपदम् = (आत्मा)
      • (कर्मणि) कर्तृपदम् = (कर्मणा)

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते ।

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ ३२ ॥

पदच्छेदः

यथा सर्वगतं सौक्ष्म्यात् आकाशं न उपलिप्यते सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३२ ॥

अन्वयः

यथा सर्वगतम् आकाशं सौक्ष्म्यात् न उपलिप्यते तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते ।

पदपरिचय:

  • “यथा” वाक्यांशः
    • (कर्मणि) क्रियापदम् = उपलिप्यते [ उप + लिप् “लिप उपदेहे” उभय. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • (कर्मणि) कर्मपदम् = आकाशम्
    • (कर्मणि) कर्मपदम् = सर्वगतम्
    • (कर्मणि) कर्तृपदम् = (केनाऽपि)
    • कारणवाचकपदम् = सौक्ष्म्यात्
    • संयोजकपदम् = यथा
  • “तथा” वाक्यांशः
    • (कर्मणि) क्रियापदम् = उपलिप्यते [ उप + लिप् “लिप उपदेहे” उभय. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • (कर्मणि) कर्मपदम् = आत्मा
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= अवस्थितः
      • अधिकरणपदम् = देहे
      • स्थानवाचकपदम् = सर्वत्र
    • (कर्मणि) कर्तृपदम् = (केनाऽपि)
    • संयोजकपदम् = तथा

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

पदच्छेदः

यथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ ३३ ॥

अन्वयः

भारत ! यथा एकः रविः कृत्स्नम् इमं लोकं प्रकाशयति, तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • “यथा” वाक्यांशः
    • क्रियापदम् = प्रकाशयति [ प्र + काशृ “काशृ दीप्तौ” आत्. णिजन्त लट्. प्रपु. एक. ]
    • (णिजन्त-प्रयोज्यकर्ता) कर्मपदम् = लोकम्
    • कर्मविशेषणम् = कृत्स्नम्
    • कर्मविशेषणम् = इमम्
    • (णिजन्त-प्रयोजककर्ता) कर्तृपदम् = रविः
    • कर्तृविशेषणम् = एकः
    • संयोजकपदम् = यथा
  • “तथा” वाक्यांशः
    • क्रियापदम् = प्रकाशयति [ प्र + काशृ “काशृ दीप्तौ” आत्. णिजन्त लट्. प्रपु. एक. ]
    • (णिजन्त-प्रयोज्यकर्ता) कर्मपदम् = क्षेत्रम्
    • कर्मविशेषणम् = कृत्स्नम्
    • (णिजन्त-प्रयोजककर्ता) कर्तृपदम् = क्षेत्री
    • संयोजकपदम् = तथा

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ ३४ ॥

पदच्छेदः

क्षेत्रक्षेत्रज्ञयोः एवम् अन्तरं ज्ञानचक्षुषा भूतप्रकृतिमोक्षं च ये विदुः यान्ति ते परम् ॥ ३४ ॥

अन्वयः

ये एवं ज्ञानचक्षुषा क्षेत्रक्षेत्रज्ञयोः अन्तरं भूतप्रकृतिमोक्षं च विदुः ते परं यान्ति ।

पदपरिचय:

  • “ये” वाक्यांशः
    • क्रियापदम् = विदुः [ विद् “विद ज्ञाने” पर. लट्. प्रपु. बहु. ]
    • क्रियाविशेषणम् = एवम्
    • कर्मपदम् = भूतप्रकृतिमोक्षम्
    • वाक्यांशः
      • कर्मपदम् = अन्तरम्
      • सम्बन्ध-पदम् = क्षेत्रक्षेत्रज्ञयोः
    • संयोजकपदम् = च
    • करणवाचकपदम् = ज्ञानचक्षुषा
    • कर्तृपदम् = ये
  • “ते” वाक्यांशः
    • क्रियापदम् = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = परम्
    • कर्तृपदम् = ते

References –

  1. 1 Jan 2016 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pe क्षेत्रक्षेत्रज्ञविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site