Gita Govindam Sarga 6 Anvaya

॥ षष्ठः सर्गः ॥
॥ कुण्ठवैकुण्ठः ॥

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ४१ ॥

पदच्छेदः

अथ तां गन्तुम् अशक्ताम् चिरम् अनुरक्तां लता-गृहे दृष्ट्वा तत्+चरितं गोविन्दे मनसिज-मन्दे सखी प्र+आह

अन्वयः

अथ चिरम् अनुरक्तां गन्तुम् अशक्तां तां (राधां) लता-गृहे दृष्ट्वा सखी मनसिज-मन्दे गोविन्दे तच्चरितं प्राह |

पदपरिचय:

  • प्राह [ प्र-आह – अवदत् ]
    • किम् ? तच्चरितम्
    • का ? सखी
    • कं प्राह ? गोविन्दे [ गोविन्दम् इति अर्थः | गोविन्दः वचनस्य अधिकरणमिति वक्तव्यम्।
      • कीदृशे ? मनसिज-मन्दे [ मनसि जातम् अत्र दुःखम्, मन्दः – निरुत्साही ]
      • Note: Vaiyaakaranas say अधिकरणविवक्षया सप्तमी। विवक्षातः कारकाणि भवन्ति is our cardinal rule. The kaaraka-relationship of any padaartha depends on the intention to be conveyed. Hence, we can have the same object being represented as different kaarakas.  For example, we can say स्थाल्यां पचति when we intend to represent the vessel as अधिकरण, and also स्थाली पचति when we intend to represent the vessel as kartaa. Similarly here, Govinda is intended as adhikarana and not as karma. Hence Saptami. – This clarification was provided by Smt. Sowmya Krishnapur.
    • कदा ? अथ
    • किं कृत्वा ? दृष्ट्वा
      • कां दृष्ट्वा ? ताम् (राधाम्)
        • कीदृशीम् ? अनुरक्ताम् [ अनुरक्ता = अनुरागिणी ]
          • कियत् ? चिरम्
        • पुनः कीदृशीम् ? अशक्ताम्
          • किं कर्तुम्? गन्तुम्
        • कुत्र (तिष्ठन्तीम्) ? लता-गृहे (तिष्ठन्तीम्)
      • The following form is kept just as a sample. Not followed in the other verses.
      • प्रथमवाक्यम्
        • क्रियापदम् = प्राह
        • कर्मपदम् = चरितम्
          • कर्मविशेषणम्= तत्
        • कर्तृपदम् = सखी
        • काल-सूचक-संयोजकपदम् = अथ
        • पूर्वकालीन-क्रिया = दृष्ट्वा
          • कर्मपदम् = ताम्
            • कर्मविशेषणम् = अशक्ताम्
              • तुमुन्नन्तपदम् = गन्तुम्
                • देशाधिकरणम् (औपश्लेषिकम्) = गोविन्दे to be corrected
                  • अधिकरण-विशेषणम् = मनसिज-मन्दे
                • क्रियागर्भ-कर्मविशेषणम् = अनुरक्ताम्
                  • क्रियाविशेषणम् = चिरम्
                  • देशाधिकरणम् (औपश्लेषिकम्) = लता-गृहे

॥ गीतम् १२ ॥

पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे जगन्नाथ हरे सीदति राधाऽवासगृहे – ध्रुवम् ॥ १ ॥
पदच्छेदः

पश्यति दिशि दिशि रहसि भवन्तम् तत्-अधर-मधुर-मधूनि पिबन्तम् नाथ हरे जगन्नाथ हरे सीदति राधा आवासगृहे ध्रुवम्

अन्वयः

नाथ ! जगन्नाथ ! हरे ! (राधा) रहसि दिशि दिशि तदधर-मधुर-मधूनि पिबन्तं भवन्तं पश्यति | राधा आवासगृहे ध्रुवं सीदति |

पदपरिचय:

  • हे नाथ
  • हे जगन्नाथ
  • हे हरे
  • पश्यति
    • का पश्यति ? राधा
    • कम् पश्यति ? भवन्तम्
      • कीदृशम् भवन्तम् ? पिबन्तम्
        • कानि पिबन्तम्? तत्-अधर-मधुर-मधूनि [ मधूनि – सुधा ]
      • कथं पश्यति ? रहसि
      • कुत्र पश्यति ? दिशि दिशि
    • सीदति [ अवसन्ना भवति | अतीव दुःखम् अनुभवति ]
      • कथम् ? ध्रुवम् [ निश्चयेन ]
      • कुत्र ? आवासगृहे [ सङ्केतभवने ]
      • का? राधा

त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ २ ॥
पदच्छेदः

त्वत्-अभिसरण-रभसेन वलन्ती पतति पदानि कियन्ति चलन्ती

अन्वयः

त्वदभिसरण-रभसेन वलन्ती कियन्ति पदानि चलन्ती (सा राधा) पतति |

पदपरिचय:

  • पतति
    • का ? सा (राधा)
    • किं कुर्वती ? वलन्ती [ वल “वल्ल संवरणे संचरणे च” + शतृ प्रत्ययः – अत्र संचरणम्]
      • केन वलन्ती ? त्वदभिसरण-रभसेन (अभिसरणम् – मेलनम् ; रभस – उत्साहः/हर्षः)
    • पुनः किं कुर्वती ? चलन्ती
      • कियत् चलन्ती ? कियन्ति पदानि [ प्रथमाविभक्तौ – कियत्/कियद् कियन्ती कियन्ति ]

विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ ३ ॥

पदच्छेदः

विहित-विशद-बिस-किसलय-वलया जीवति परम् इह तव रति-कलया

अन्वयः

इह विहित-विशद-बिस-किसलय-वलया (सा राधा) तव परं रति-कलया जीवति |

पदपरिचय:

  • जीवति
    • का ? (सा राधा)
      • कीदृशी सा ? विहित-विशद-बिस-किसलय-वलया [ वलयम् – आच्छादनम्; विहितम् – कृतम्; विशदम् – मृदु; बिसम् – कमलम् (अत्र विस इति पाठभेदः) ; किसलयम् – तरुणकम् / पल्लवः sprout | काम-जन्य-संताप-मोचनार्थम् तादृशं करोति ]
    • केन कारणेन ? परम् रति-कलया [ परम् – केवलम्; कला – आवेशं, तीव्र इच्छा, यथा चन्द्रकलायाः वृद्धिः भवति ]
      • कस्य रतिः ? तव
    • कुत्र ? इह

मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ ४ ॥

पदच्छेदः

मुहुः अवलोकित-मण्डन-लीला मधु-रिपुः अहम् इति भावन-शीला

अन्वयः

  • मुहुः अवलोकित-मण्डन-लीला, “अहम् मधुरिपुः (अस्मि)” इति भावन-शीला (राधा आवासगृहे सीदति)|

पदपरिचय:

  • आवासगृहे सीदति
    • का ? (सा राधा)
    • कथंभूता सा ? अवलोकित-मण्डन-लीला [ अवलोकित- = दृष्ट- ; मण्डनम् = भूषणम्; लीला = विलासः / स्त्रियाः क्रीडा यत्र सा तस्याः प्रियस्य वेषं स्वस्मिन् धरति ]
      • कथम् अवलोकितम् ? मुहुः
    • पुनः कथंभूता सा ? भावन-शीला
    • किमिति भावना ? … इति
      • अस्मि
      • कथंभूता अस्मि ? मधु-रिपुः
      • का ? अहम्

त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ ५ ॥

पदच्छेदः

त्वरितम् उपैति न कथम् अभिसारम् हरिः इति वदति सखीम् अनुवारम्

अन्वयः

“हरिः अभिसारं कथं त्वरितं न उपैति” इति (सा) सखीम् अनुवारं वदति |

पदपरिचय:

  • वदति
    • कथम् ? अनुवारम्
    • काम् ? सखीम्
    • का? सा
    • किमिति ? कथम् न उपैति [ आगच्छति ] इति
      • कथम् न उपैति ? त्वरितम्
      • कुत्र ? अभिसारम्
      • कः ? हरिः

श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ ६ ॥
पदच्छेदः

श्लिष्यति चुम्बति जलधर-कल्पम् हरिः उपगतः इति तिमिरम् अनल्पम्
अन्वयः

हरिः उपगतः इति (सा) अनल्पं जलधर-कल्पं तिमिरं श्लिष्यति, चुम्बति |
पदपरिचय:

  • श्लिष्यति (आलिङ्गति)
    • का? सा
    • किम् ? तिमिरम् (अन्धकारः)
      • कीदृशं तिमिरम् ? अनल्पम्
      • पुनः कीदृशं तिमिरम् ? जलधर-कल्पम् [ जलधरः – मेघः ; कल्पम् – सदृशम् ]
    • किमिति ? उपगतः (आगतः) इति (इति चिन्तयन्ती)
      • कः ? हरिः
    • पुनः किं करोति? चुम्बति

भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ ७ ॥
पदच्छेदः

भवति विलम्बिनि विगलित-लज्जा विलपति रोदिति वासक-सज्जा

अन्वयः

भवति विलम्बिनि (सति) विगलित-लज्जा वासक-सज्जा विलपति | रोदिति |

पदपरिचय:

  • विलपति [ परिशोचति / अनुरोदिति ]
    • का? वासक-सज्जा [ नायकस्य आगमनार्थं विलासगृहे सर्वाः व्यवस्थाः या करोति सा वासकसज्जावस्थां प्राप्ता नायिका भवति ]
    • कथं भूता ? विगलित-लज्जा [ विगलित.. – प्रनष्ट.. ]
    • कदा? विलम्बिनि (सति)
      • कस्मिन् विलम्बिनि (सति) ? भवति (भगवान् गोविन्दः, तस्मिन्)
    • पुनः किं करोति? रोदिति

 

 

 

 

श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ ८ ॥
पदच्छेदः

श्री-जयदेव-कवेः इदम् उदितम् रसिक-जनम् तनुताम् अति-मुदितम्

अन्वयः

श्री-जयदेव-कवेः उदितं इदं रसिक-जनम् अति-मुदितं तनुताम्

पदपरिचय:

  • तनुताम् [ कुरुताम् / साधयताम् | तन् “तनु विस्तारे” लोट्लकारः प्रथमपुरुषः एक वचनम् | लट्-लकारे – तनुते / तनोति ]
    • किम् (तनुताम्) [ कर्ता ] ? उदितम् [ उदित.. – उक्त.. | नपुंसकलिङ्गः ]
      • किम् (उदितम्) ? इदम् [ इदम् शब्दः नपुंसकलिङ्गे | पुल्लिङ्गे अयम् | स्त्रीलिङ्गे इयम् ]
      • कस्य (उदितम्) ? श्री-जयदेव-कवेः
    • कम् (तनुताम्) [ कर्मपदम् ] ? रसिक-जनम् [ रसिकजनानां हृदयानि ]
    • कथम् (तनुताम्) ? अति-मुदितम् [ मुदित.. – प्रीत… ]

विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधत्तेऽमन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥
पदच्छेदः
विपुल-पुलक-पालिः स्फीत-सीत्कारम् अन्तः-जनित-जडिम-काकु-व्याकुलं व्याहरन्ती ।
तव कितव विधत्ते अमन्द-कन्दर्प-चिन्तां रस-जलधि-निमग्ना ध्यान-लग्ना मृग+अक्षी

अन्वयः

(हे) कितव | विपुल-पुलक-पालिः रस-जलधि-निमग्ना ध्यान-लग्ना स्फीत-सीत्कारं (कुर्वती) अन्तर्जनित-जडिम-काकु-व्याकुलं व्याहरन्ती मृगाक्षी तव अमन्द-कन्दर्प-चिन्तां विधत्ते |

पदपरिचय:

  • हे कितव [ कितवः – धूर्तः / वञ्चकः ]
  • विधत्ते [ वि + धा “डुधाञ् धारणपोषणयोः” ] (विधाय (परिकल्प्य) इति पाठभेदः ]
    • किं विधत्ते ? अमन्द-कन्दर्प-चिन्ताम् [ अमन्द.. – अदिशयित.. / गाढ.. ; कन्दर्प – काम]
      • कस्य चिन्ताम् ? तव
    • का? मृगाक्षी
    • कथम्भूता ? विपुल-पुलक-पालिः [ विपुलः – महति; पुलकः  – रोमाञ्चः ; पालिः – पङ्क्तिः ]
    • पुनः कथम्भूता ? स्फीत-सीत्कारम् (कुर्वती) [ स्फीत.. – प्रवृद्ध.. ; सीत्कारम् – सीत् इति शब्दः आनन्देन वा दुःखेन वा क्रियते ]
    • किं कुर्वती ? व्याहरन्ती [ भाषमाणा ]
      • किं व्याहरन्ती ? अन्तः-जनित-जडिम-काकु-व्याकुलम् [ जडिमम् – अस्फुटत्वम् / जाड्यम्;  काकु – ध्वनिविकारविशेषणम् ; व्याकुल… – भ्रान्त.. ; अस्फुटत्वेन कारणेन काकु जनिता अस्ति | तया काक्वा व्याकुलम्  ]
    • पुनः कथम्भूता ? रस-जलधि-निमग्ना [ शृङ्गार-सागरे-निमग्ना ]
    • पुनः कथम्भूता ? ध्यान-लग्ना

अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।

इत्याकल्पविकल्पतल्परचनासङ्कल्पलीलाशत-
व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥

पदच्छेदः

अङ्गेषु आभरणम् करोति बहुशः पत्रे अपि सञ्चारिणि प्राप्तम् त्वाम् परिशङ्कते वितनुते शय्याम् चिरम् ध्यायति इति आकल्प-विकल्प-तल्परचना-सङ्कल्प-लीलाशत-व्यासक्ता अपि विना त्वया वरतनुः न एषा निशाम् नेष्यति |

अन्वयः

वरतनुः एषा अङ्गेषु बहुशः आभरणं करोति | पत्रे सञ्चारिणि (सति) अपि (एषा) त्वां प्राप्तं परिशङ्कते, शय्यां वितनुते, चिरं (त्वां) ध्यायति | इति आकल्प-विकल्प-तल्प-रचना-सङ्कल्प-लीलाशत-व्यासक्ता अपि (एषा) त्वया विना निशां न नेष्यति |

पदपरिचय:

  • करोति [ अत्र धरति इति अर्थः ]
    • का ? वरतनुः [ वर.. – श्रेष्ट.. ; तनुः (स्त्रीलिङ्गः) – शरीरः ]
      • का वरतनुः ? एषा
    • किम् ? आभरणम्
    • कथम् ? बहुशः [ पुनःपुनः त्यक्वा धारयति इति सूचितम् ]
    • कुत्र? अङ्गेषु
  • परिशङ्कते
    • का ? एषा
    • किम् इति ? प्राप्तम् (इति)
      • कं प्राप्तम् इति ? त्वाम्
    • कदा ? सञ्चारिणि (सति) अपि [ सञ्चारणम् – चलनम् ]
      • कस्मिन् सञ्चारिणि (सति) ? पत्रे
    • वितनुते [ रचयति ]
      • का ? एषा
      • काम् ? शय्याम्
    • ध्यायति
      • का ? एषा
      • कियत् ? चिरम्
    • न नेष्यति [ नेष्यति – यापयिष्यति ; नी “नी प्रापणे” – लृट् लकारः – भविष्यत्कालः | लट्लकारे – नयति/नयते ]
      • का ? एषा
      • काम् ? निशाम्
      • केन विना ? त्वया विना
      • कथं भूता ? आकल्प-विकल्प-तल्परचना-सङ्कल्पलीलाशत-व्यासक्ता अपि [ आकल्प.. – भूषण.. (यतः सा आभरणं करोति) ; विकल्प.. – वितर्क.. (यतः सा परिशङ्कते); तल्प-रचना – शय्या-रचना ; सङ्कल्प.. – परिकल्पित.. ; लीला-शतम् – विलाससमुहः ; व्यासक्ता – विनिवेशिताचित्ता ; यद्यपि सा एतत् सर्वं करोति तथापि रात्र्याः यापनं कर्तुं न शक्नोति इति अर्थः ]

किं विश्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि
भ्रातर्याहि नदृष्टिगोचरमितस्सानन्दनन्दास्पदम्।
राधाया वचनम् तदध्वगमुखान्नन्दान्तिके गोपतो
गोविन्द स्यजयन्ति सायमतिथिप्राशस्त्यगर्भागिरः॥ ४० ॥

पाठभेदः
hi.
krishnakosh.org/कृष्ण/गीत_गोविन्द_-जयदेव_पृ._259 भाण्डीरभूमीरुहे

पदच्छेदः

किम् विश्राम्यसि कृष्ण-भोगि-भवने भाण्डीर-भूमीरुहि
भ्रातः याहि न दृष्टि-गोचरम् इतः स-आनन्द-नन्द-आस्पदम्
राधायाः वचनम् तत् अध्वग-मुखात् नन्द-अन्तिके गोपतः
गोविन्दस्य जयन्ति सायम् अतिथि-प्राशस्त्य-गर्भाः गिरः

अन्वयः

“हे भ्रातः | (त्वं) कृष्ण-भोगि-भवने भाण्डीर-भूमी-रुहि विश्राम्यसि किम्? सानन्दनन्दास्पदं न दृष्टिगोचरम् (किम्)? | इतः (त्वं तत्र) याहि |” नन्द-अन्तिके सायम् अध्वग-मुखात् (श्रुतं) तत् रधायाः वचनं गोपतः गोविन्दस्य अतिथि-प्राशस्त्य-गर्भाः गिरः जयन्ति | { राधायाः वचनम् अध्वग-मुखात् श्रुतस्य गोविन्दस्य गिरः जयन्ति }

पदपरिचय:

  • जयन्ति [ विजयं प्राप्नुवन्ति ]
  • काः ? गिरः [ वचनानि | गिर् इति रेफान्तः शब्दः, स्त्रीलिङ्गः, बहुवचनम् | प्रथमाविभक्तौ – गीः गिरौ गिरः ]
    • कस्य गिरः ? गोविन्दस्य
      • किं कुर्वतः गोविन्दस्य ? गोपतः [ गुप्ती कुर्वन् इति अर्थः | गोपतः = गुप् “गुपँ गोपने” + शतृ प्रत्ययः, गोपन्, तस्य | लट्-लकारे – गोपते/जुगुप्सते ]
    • कीदृशः गिरः ? अतिथि-प्राशस्त्य-गर्भाः [ प्राशस्त्यम् – प्रशंसादिरूपम् ; गर्भाः – अन्तर्भूताः ]
    • कदा ? सायम्
    • कुत्र ? नन्द-अन्तिके [ अन्तिके इति अव्ययम् | समीपे इति अर्थः ]
    • कस्मात् (श्रुतम्)? अध्वग-मुखात् [ अध्वगः – पथिकः ]
    • किम् (श्रुतम्) ? वचनम्
      • किम् वचनम् ? तत्
      • कस्याः वचनम् ? राधायाः
      • किं इति वचनम् ? … (इति)
        • हे भ्रातः [ भ्राता = सहोदरः | भातृ इति ऋकारान्तः शब्दः ]
        • विश्राम्यसि किम् ? [ विश्रामं करोषि वा ? कथं विश्राम्यसि ? अत्र मा कुरु इत्यर्थः ]
          • कः ? त्वम्
          • कुत्र ? भाण्डीर-भूमीरुहि [ भाण्डीरः – वटः ; भूमीरुहः – वृक्षः – भूमेः वर्धते इति अर्थः ; (2) द्वितीयः श्लेषार्थः | राधायाः तलम् ]
            • कीदृशे ? कृष्णभोगिभवने [ कृष्ण-भोगि-भवनं तस्मिन् (1) कृष्ण-सर्पस्य-आश्रय-स्थानम् (2) द्वितीयः श्लेषार्थः | सम्भोगविशिष्टस्य कृष्णस्य विहरणस्थानम् ]
          • न दृष्टिगोचरम् (किम्) ? [ न द्रष्टुं शक्नोति वा ? ]
            • किम् (कर्ता) ? सानन्द-नन्द-आस्पदम् [ स-आनन्द = आनन्देन सहितम्;  नन्दः – कृष्णस्य पिता ; आस्पदम् – निवासः ]
          • याहि [ गच्छ | या “या प्रापणे” मध्यमपुरुषः लोट्लकारः | लट्लकारे प्रथमाविभक्तौ – याति यातः यान्ति | लोट्लकारे प्रथमाविभक्तौ – यातु / यातात् याताम् यान्तु ]
            • कः ? त्वम्
            • कुतः ? इतः

॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्ठः सर्गः ॥

References:

 

 

Advertisements