Bhoja Raja’s Champu Ramayanam – Balakanda – Shloka #1

Bhoja Raja’s Champu Ramayanam – Balakanda – Shloka #1

मूलपाठः

लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।

हैरम्बमम्बुरुहडम्बरचैर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ १ ॥

पदच्छेदः

लक्ष्मीम् तनोतु नितराम् इतरानपेक्षम् अङ्घ्रिद्वयम् निगमशाखिशिखाप्रवालम्

हैरम्बम् अम्बुरुहडम्बरचैर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरम् नः

(लक्ष्मीम् तनोतु नितराम् इतर+अनपेक्षम् अङ्घ्रि+द्वयम् निगम+शाखि+शिखा+प्रवालम् हैरम्बम् अम्बुरुह+डम्बर+चैर्य+निघ्नम् विघ्न+अद्रि+भेद+शतधार+धुरन्धरम् नः)

अन्वयः

इतरानपेक्षं निगमशाखिशिखाप्रवालम् अम्बुरुहडम्बरचैर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरं हैरम्बम् अङ्घ्रिद्वयं नः नितरां लक्ष्मीं तनोतु

आकाङ्क्षा

  • तनोतु
    • किं [कर्मपदम्] तनोतु ? लक्ष्मीम्
    • कथं तनोतु ? नितराम् [ अथेशयेन ]
    • कस्य तनोतु ? नः
    • किं [कतृपदम्] तनोतु ? अङ्घ्रिद्वयम्
      • कथंभूतम् अङ्घ्रिद्वयम् ? हैरम्बम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? इतरानपेक्षम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? निगमशाखिशिखाप्रवालम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? अम्बुरुहडम्बरचैर्यनिघ्नम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? विघ्नाद्रिभेदशतधारधुरन्धरम्

Word-Meaning

  • लक्ष्मीम् = Wealth
  • तनोतु = Bestow
  • नितराम् = immense
  • इतरानपेक्षम् = that which has no dependency (अनपेक्ष) on others (इतरान्)
  • अङ्घ्रिद्वयम् = pair (द्वयम्) of feet (अङ्घ्रि)
  • निगमशाखिशिखाप्रवालम् = the top-most (शिखा) sprouts (प्रवालम्) of the Veda (निगम) tree (शाखि) i.e., those that are understood and praised by the Upanishads
  • हैरम्बम् = That which is Vinayaka’s
  • अम्बुरुहडम्बरचैर्यनिघ्नम् = That which has the intention (निघ्न) of stealing (चैर्य) the lustre (डम्बर) of the lotus (अम्बुरुह)
  • विघ्नाद्रिभेदशतधारधुरन्धरम् = That which is the superior (धुरन्धर ) thunder-bolt (शतधार) (that which has hundred edges) which destroys (भेद) the mountain (अद्रि) of obstacles (विघ्न)
  • नः = our

References:

  1. sanskritfromhome.in/course/champuramayana#
    Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. The first class started today (i.e., on Monday, 23rd October 2017). Classes will be held every Monday, between 10.00 AM and 11.00 AM IST for approximately 6 months/25 classes.
  1. Original Text — wikisource.org/wiki/चम्पूरामायणम्/बालकाण्डः
  2. English translations — Champu-ramayana by Javaji Tukaram
    https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up

 

Sarva-deva-kruta-lakshmi-stotram

सर्वदेवकृतलक्ष्मीस्तोत्रम्
Sarva-deva-kruta-lakshmi-stotram

क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे।
शुद्धसत्वस्वरूपेच कोपादिपरिवर्जिते॥

क्षमस्व भगवति अम्ब क्षमा+शीले परात्+परे शुद्ध+सत्व+स्वरूपे च कोप+आदि+परि+वर्जिते

  • हे भगवति [ प्रथमाविभक्तौ भगवती ]
  • हे अम्ब [ प्रथमाविभक्तौ अम्बा ]
  • हे क्षमाशीले [ प्रथमाविभक्तौ क्षमाशीला ]
  • हे परात्परे
  • (त्वम् अस्मान्) क्षमस्व
  • हे शुद्धसत्वस्वरूपे
  • हे कोपादिपरिवर्जिते

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्॥

उपमे सर्व+साध्वीनाम् देवीनाम् देव+पूजिते त्वया विना जगत्+सर्वम् मृत+तुल्यम् च निष्फलम्

  • हे उपमे
    • कासां उपमा ? देवीनाम्
      • कीदृशीनां देवीनाम् ? सर्वसाध्वीनाम् [ साध्वी = साधुशीला ]
    • हे देवपूजिते
    • मृततुल्यम् अस्ति
      • किं मृततुल्यम् अस्ति ? जगत्सर्वम्
      • कया विना मृततुल्यम् अस्ति ? त्वया विना
      • पुनः कथं च भवति ? निष्फलम् च

सर्वसम्पत्स्वरूपात्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधिदेवीत्वं त्वत्कलाः सर्वयोषितः॥

सर्व+सम्पत्+स्वरूपा त्वम् सर्वेषाम् सर्व+रूपिणी रास+ईश्वरि अधि+देवीत्वम् त्वत्कलाः सर्वयोषितः

  • त्वम् (असि)
    • त्वं कीदृशा असि ? सर्वसम्पत्स्वरूपा
    • पुनः त्वं कीदृशा असि ? सर्वरूपिणी
      • केषां सर्वरूपिणी ? सर्वेषाम्
    • पुनः त्वं का असि ? रासेश्वरी
    • पुनः त्वं का असि ? अधिदेवी
  • त्वत्कलाः (सन्ति)
    • कथंभूताः त्वत्कलाः ? सर्वयोषितः [ योषिता = महिला ]

कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका।
स्वर्गेच स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥

कैलासे पार्वती त्वम् च क्षीरोधे सिन्धु+कन्यका स्वर्गे च स्वर्गलक्ष्मीः त्वम् मर्त्य+लक्ष्मीः च भूतले

पाठभेदः – कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका । महालक्ष्मीश्च स्वर्गेत्वं  मर्त्यलक्ष्मीश्च भूतले॥

  • त्वम् असि
    • त्वं का असि ? पार्वती
      • कुत्र ? कैलासे
    • पुनः त्वं का असि ? सिन्धुकन्यका
      • कुत्र ? क्षीरोधे
    • पुनः त्वं का असि ? स्वर्गलक्ष्मीः / महालक्ष्मीः
      • कुत्र ? स्वर्गे
    • पुनः त्वं का असि ? मर्त्यलक्ष्मीः
      • कुत्र ? भूतले

वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती।
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्मलोकतः॥

वैकुण्ठे च महालक्ष्मीः देव+देवी सरस्वती गङ्गा च तुलसी त्वम् च सावित्री ब्रह्म+लोकतः

  • त्वम् असि
    • त्वं का असि ? महालक्ष्मीः
      • कुत्र ? वैकुण्ठे
    • पुनः त्वं का असि ? सरस्वती
      • कीदृशी सरस्वती ? देवदेवी
    • पुनश्च त्वं का असि ? गङ्गा
    • पुनश्च त्वं का असि ? तुलसी
    • पुनश्च त्वं का असि ? सावित्री
      • कुतः / कुत्र ? ब्रह्मलोकतः

कृष्णप्राणाधिदेवीत्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने॥

कृष्ण+प्राण+अधि+देवी त्वम् गो+लोके राधिका स्वयम् रासे रास+ईश्वरी त्वम् च बृन्दा बृन्दावने वने

  • त्वम् असि
    • त्वं का असि ? कृष्णप्राणाधिदेवी
    • पुनः त्वं स्वयं का असि ? स्वयं राधिका
      • कुत्र राधिका असि ? गोलोके
    • पुनः त्वं का असि ? रासेश्वरी
      • कुत्र रासेश्वरी असि ? रासे
    • पुनः त्वं का असि ? बृन्दा
      • कुत्र बृन्दा असि ? वने
        • कस्मिन् वने ? बृन्दावने

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतशृङ्गेच सुन्दरी॥

कृष्ण+प्रिया त्वम् भाण्डीरे चन्द्रा चन्दन+कानने विरजा चम्पक+वने शत+शृङ्गे च सुन्दरी

  • त्वम् असि
    • त्वं का असि ? कृष्णप्रिया
      • कुत्र ? भाण्डीरे
    • पुनः त्वं का असि ? चन्द्रा
      • कुत्र ? चन्दनकानने
    • पुनः त्वं का असि ? विरजा
      • कुत्र ? चम्पकवने
    • पुनः त्वं का असि ? सुन्दरी
      • कुत्र ? शतशृङ्गे

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥

पद्मावती पद्म+वने मालती मालती+वने कुन्द+दन्ती कुन्दवने सुशीला केतकी+वने॥

  • त्वम् असि
    • त्वं का असि ? पद्मावती
      • कुत्र ? पद्मवने
    • पुनः त्वं का असि ? मालती
      • कुत्र ? मालतीवने
    • पुनः त्वं का असि ? कुन्ददन्ती
      • कुत्र ? कुन्दवने
    • पुनः त्वं का असि ? सुशीला
      • कुत्र ? केतकीवने [தாழம்பூ]

कदम्बमाला त्वं देवी कदम्बकाननेपिच।
राजलक्ष्मीः राजगेहे गृहलक्ष्मीर्गृहे गृहे॥

कदम्ब+माला त्वम् देवी कदम्ब+कानने अपि च राजलक्ष्मीः राज+गेहे गृहलक्ष्मीः गृहे गृहे

  • त्वम् असि
    • त्वं का असि ? देवी
    • पुनः त्वं का असि ? कदम्बमाला
      • कुत्र ? कदम्बकानने
    • पुनः त्वं का असि ? राजलक्ष्मीः
      • कुत्र ? राजगेहे
    • पुनः त्वं का असि ? गृहलक्ष्मीः
      • कुत्र ? गृहे गृहे (प्रतिगृहे)

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा।
रूरूदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः॥१०

इति उक्त्वा देवताः सर्वाः मुनयः मनवः तथा रूरूदुः नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः

  • रूरूदुः
    • के रूरूदुः ? सर्वाः
      • के सर्वाः ? देवताः
        • पुनः के सर्वाः ? मुनयः
        • पुनः के सर्वाः ? मनवः
      • कथंभूताः सर्वाः ? नम्रवदनाः
        • पुनः कथंभूताः सर्वाः ? शुष्ककण्ठोष्ठतालुकाः
      • किं कृत्वा रुरुदुः ? उक्त्वा
        • किम् उक्त्वा ? .. इति

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्॥११

इति लक्ष्मी+स्तवम् पुण्यम् सर्वदेवैः कृतम् शुभम् यः पठेत् प्रातः उत्थाय सः वै सर्वम् लभेत् ध्रुवम्

  • यः वाक्यांशः
    • पठेत्
      • किं पठेत् ? .. इति लक्ष्मीस्तवम्
        • कीदृशं लक्ष्मीस्तवम् ? पुण्यम्
        • पुनः कीदृशं लक्ष्मीस्तवम् ? कृतम्
          • कथं कृतम् ? शुभम्
          • कैः कृतम् ? सर्वदेवैः
        • कः पठेत् ? यः
        • किं कृत्वा पठेत् ? उत्थाय
          • कदा उत्थाय ? प्रातः
        • सः वाक्यांशः
          • लभेत् वै [ वै = हि ]
            • कथं लभेत् ? ध्रुवम्
            • कः लभेत् ? सः
            • किं लभेत् ? सर्वम्

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्।
सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥१२

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्।
अभार्यः लभते भार्याम् विनीताम् सुसुताम् सतीम् सुशीलाम् सुन्दरीम् रम्याम् अति+सु+प्रिय+वादिनीम् पुत्र+पौत्र+वतीम् शुद्धाम् कुलजाम् कोमलाम् वराम्

  • लभते
    • कः लभते ? अभार्यः
      • किं लभते ? भार्याम्
        • कीदृशीं भार्याम् ? विनीताम्
        • पुनः कीदृशीं भार्याम् ? सुसुताम्
        • पुनः कीदृशीं भार्याम् ? सतीम्
        • पुनः कीदृशीं भार्याम् ? सुशीलाम्
        • पुनः कीदृशीं भार्याम् ? सुन्दरीम्
        • पुनः कीदृशीं भार्याम् ? रम्याम्
        • पुनः कीदृशीं भार्याम् ? अतिसुप्रियवादिनीम्
        • पुनः कीदृशीं भार्याम् ? पुत्रपौत्रवतीम्
        • पुनः कीदृशीं भार्याम् ? शुद्धाम्
        • पुनः कीदृशीं भार्याम् ? कुलजाम्
        • पुनः कीदृशीं भार्याम् ? कोमलाम्
        • पुनः कीदृशीं भार्याम् ? वराम्

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥१३

परमैश्वर्ययुक्तञ्च विद्यावन्तं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभेते श्रियम्॥१४

अपुत्रः लभते पुत्रम् वैष्णवम् चिरजीविनम् परम्+ऐश्वर्य+युक्तम् च विद्या+वन्तम् यशस्विनम् भ्रष्टराज्यः लभेत् राज्यम् भ्रष्टश्रीः लभेते श्रियम्

  • लभते
    • कः लभते ? अपुत्रः
    • कं लभते ? पुत्रम्
      • कीदृशं पुत्रम् ? वैष्णवम्
      • पुनः कीदृशं पुत्रम् ? चिरजीविनम्
      • पुनः कीदृशं पुत्रम् ? परमैश्वर्ययुक्तम्
      • पुनः कीदृशं पुत्रम् ? विद्यावन्तम्
      • पुनः कीदृशं पुत्रम् ? यशस्विनम्
    • लभते
      • कः लभते ? भ्रष्टराज्यः
      • किं लभते ? राज्यम्
    • लभते
      • कः लभते ? भ्रष्टश्रीः
      • किं लभते ? श्रियम्

हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत्।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्॥१५

हत+बन्धुः लभेत् बन्धुम् धनभ्रष्टः धनम् लभेत् कीर्ति+हीनः लभेत् किर्तिम् प्रतिष्ठाः च लभेत् ध्रुवम्

  • लभेत्
    • कः लभेत् ? हतबन्धुः
    • किं लभत् ? बन्धुम्
  • लभेत्
    • कः लभेत् ? धनभ्रष्टः
    • किं लभेत्? धनम्
  • लभेत्
    • कः लभेत् ? कीर्तिहीनः
    • किं लभेत् ? किर्तिम्
    • पुनः किं लभेत् ? प्रतिष्ठाः च [ प्रतिष्ठा = प्रसिद्धता ]
    • कथं लभेत् ? ध्रुवम्

सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम्।
हर्षानन्दकरं शाश्वद्धर्ममोक्षसुहृत्पदम्॥१६

सर्व+मङ्गलदम् स्तोत्रम् शोक+सन्ताप+नाशनम् हर्ष+आनन्द+करम् शाश्वत्+धर्म+मोक्ष+सुहृत्+पदम्॥

  • स्तोत्रम् (एतद् सर्वदेवकृतल्क्स्मीस्तोत्रम् अस्ति)
    • कीदृशम् अस्ति ? सर्वमङ्गलदम्
    • कीदृशम् अस्ति ? शोकसन्तापनाशनम्
    • कीदृशम् अस्ति ? हर्षानन्दकरम्
    • कीदृशम् अस्ति ? शाश्वद्धर्ममोक्षसुहृत्पदम्

॥ इति सर्वदेवकृतलक्ष्मीस्तोत्रं सम्पूर्णम् ॥

इति सर्व+देव+कृत+लक्ष्मी+स्तोत्रम् सम्पूर्णम्

References:

Sri Kamalajadayitashtakam by Sri Shivabhinava Nrisimha Bharati

Sri Kamalajadayitashtakam on Devi Sharadamba composed by Jagadguru Sri Sri Sacchidananda Shivabhinava Nrisimha Bharati Mahaswamiji

श्रीकमलजदयिताष्टकम्  श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितम्

॥ श्रीकमलजदयिताष्टकम् ॥

1 श्लोकः

शृङ्गक्ष्माभृन्निवासे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने वाक्सवित्रि ।
शम्भुश्रीनाथमुख्यामरवरनिकरैर्मोदतः पूज्यमाने विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १॥

पदच्छेदः

शृङ्ग+क्ष्माभृत्+निवासे शुक+मुख+मुनिभिः सेव्यमान+अङ्घ्रि+पद्मे स्व+अङ्ग+छाया+विधूत+अमृतकर+सुर+राट्+वाहने वाक्+सवित्रि शम्भु+श्रीनाथ+मुख्य+अमर+वर+निकरैः मोदतः पूज्यमाने विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते स+त्वरम् देहि मह्यम्

पदार्थः

  • क्ष्माभृत् = पर्वतः
  • अङ्घ्रिपद्मम् = पादद्वयम्
  • छाया = कान्तिः
  • विधूतम् = परिजयं कृतम्
  • अमृतकरः = चन्द्रः
  • सुर+राट् = इन्द्रः
  • सुरराड्वाहनम् = ऐरावतः
  • सवित्रि = या उत्पादयति सा
  • निकरैः = गणैः
  • मोदतः (अव्ययम् + क्रियाविशेषणम्) = सन्तोषेण
  • सत्वरम् = शीघ्रम्
  • कमलजदयिता = ब्रह्मणः प्रिया

अन्वयक्रमः

  • हे शृङ्गक्ष्माभृन्निवासे |
  • हे सेव्यमानाङ्घ्रिपद्मे
    • कैः सेव्यमाना ? शुकमुखमुनिभिः
  • हे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने |
  • हे वाक्सवित्रि ।
  • हे पूज्यमाने
    • कैः पूज्यमाना ? शम्भुश्रीनाथमुख्यामरवरनिकरैः
    • कथं पूज्यमाना ? मोदतः
  • हे कमलजदयिते |
  • त्वं देहि |
    • किं देहि ? विद्याम्
    • पुनः किं देहि ? बुद्धिम्
      • कीदृशं बुद्धिम् ? शुद्धाम्
    • कस्मै देहि ? मह्यम्
    • कथं / कदा देहि ? सत्वरम्

अन्वयः

हे शृङ्गक्ष्माभृन्निवासे | हे शुकमुखमुनिभिः सेव्यमानाङ्घ्रिपद्मे | हे स्वाङ्गच्छायाविधूतामृतकरसुरराड्वाहने | हे वाक्सवित्रि । हे शम्भुश्रीनाथमुख्यामरवरनिकरैः मोदतः पूज्यमाने | हे कमलजदयिते | त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि |

2 श्लोकः

कल्यादौ पार्वतीशः प्रवरसुरगणप्रार्थितः श्रौतवर्त्मप्राबल्यं नेतुकामो यतिवरवपुषागत्य यां शृङगशैले ।
संस्थाप्यार्चां प्रचक्रे बहुविधनुतिभिः सा त्वमिन्द्वर्धचूडा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ २

पदच्छेदः

कलि+आदौ पार्वती+ईशः प्रवर+सुर+गण+प्रार्थितः श्रौत+वर्त्म+प्राबल्यम् नेतु+कामः यति+वर+वपुषा आगत्य याम् शृङग+शैले  संस्थाप्य अर्चाम् प्रचक्रे बहु+विध+नुतिभिः सा त्वम् इन्दु+अर्ध+चूडा विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • श्रौतम् = श्रुतिसंबन्धम्
  • वर्त्म = मार्गम्
  • प्रचक्रे = कृतवान्
  • नुतिः = स्तुतिः
  • यतिः = संन्यासी
  • यतिवरवपुषा = आदिशङ्करभगवद्पादावतारेण

अन्वयक्रमः

  • प्रचक्रे
    • किं प्रचक्रे ? अर्चाम्
      • कैः ? बहुविधनुतिभिः
    • कः ? पार्वतीशः
      • कथम्भूतः पार्वतीशः ? प्रवरसुरगणप्रार्थितः
        • कदा प्रार्थितः ? कल्यादौ
      • पुनः कथम्भूतः पार्वतीशः ? नेतुकामः
        • किं नेतुकामः ? श्रौतवर्त्मप्राबल्यं
      • किं कृत्वा ? आगत्य
        • केन / कथम् आगत्य ? यतिवरवपुषा
      • पुनः किं कृत्वा ? संस्थाप्य
        • कुत्र / कर्मिन् क्षेत्रे संस्थाप्य ? शृङगशैले
        • कां संस्थाप्य ? याम्
          • याम् … सा का? सा त्वम् इन्द्वर्धचूडा असि
        • हे कमलजदयिते
        • विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि

अन्वयः

कल्यादौ प्रवरसुरगणप्रार्थितः, श्रौतवर्त्मप्राबल्यं नेतुकामः, पार्वतीशः यतिवरवपुषा आगत्य, शृङगशैले  यां संस्थाप्य, बहुविधनुतिभिः अर्चां प्रचक्रे, सा त्वमिन्द्वर्धचूडा (त्वम् असि) | हे कमलजदयिते | त्वं विद्यां च शुद्धां बुद्धिं च मह्यं सत्वरं देहि |

3 श्लोकः

पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा+ त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजादिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ३

पदच्छेदः

पाप+ओघम् ध्वंसयित्वा बहु+जनि+रचितम् किम् च पुण्य+आलिम् आरात् सम्पाद्य आस्तिक्य+बुद्धिम् श्रुति+गुरु+वचनेषु आदरम् भक्ति+दार्ढ्यम्  देव+आचार्य+द्विज+आदिषु अपि मनु+निवहे तावकीने नितान्तम् विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • ओघम् = राशिः
  • बहुजनिरचितम् = अनेक जन्मकृतम्
  • किं च = किन्तु
  • पुण्य+आलिम् = पुण्यसमूहः, तम्
  • आरात् = तत्क्षणमेव
  • भक्ति+दार्ढ्यम् = दृढभक्तिः, ताम्
  • तावकीने = त्वत् संबन्धम्, तस्मिन्
  • मनु+निवहे = मन्त्रसमूहः, तस्मिन्
  • नितान्तम् = अधिकम् / श्रेष्ठम्

अन्वयक्रमः

  • हे कमलजदयिते |
  • त्वं मह्यं सत्वरं देहि
    • किं कृत्वा देहि ? ध्वंसयित्वा
      • किं ध्वंसयित्वा ? पापौघम्
        • कीदृशं पापौघम् ? बहुजनिरचितं
      • किं कृत्वा देहि ? सम्पाद्य
        • किं संपाद्य ? पुण्यालिम्
        • कदा / कथं संपाद्य ? आरात्
      • किं देहि ? आस्तिक्यबुद्धिम्
        • पुनः किं देहि ? आदरम्
          • कस्मिन् विषये ? श्रुतिगुरुवचनेषु
        • पुनः किं देहि ? भक्तिदार्ढ्यम्
          • कस्मिन् विषये ? देवाचार्यद्विजादिषु
          • पुनः कस्मिन् विषये ? मनुनिवहे
            • कीदृशे मनुनिवहे ? तावकीने
          • पुनः किं देहि ? विद्याम्
            • कीदृशां विद्याम् ? नितान्तम्
          • पुनः किं देहि ? बुद्धिम्
            • कीदृशां बुद्धिम् ? शुद्धाम्

अन्वयः

हे कमलजदयिते | त्वं बहुजनिरचितं पापौघं ध्वंसयित्वा, किं च पुण्यालिम् आरात् सम्पाद्य, आस्तिक्यबुद्धिं च, श्रुतिगुरुवचनेषु आदरं च, देवाचार्यद्विजादिषु अपि, तावकीने मनुनिवहे च भक्तिदार्ढ्यं च, नितान्तं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

4 श्लोकः

विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले विद्यादानप्रवीणे जडबधिरमुखेभ्योऽपि शीघ्रं नतेभ्यः । कामादीनान्तरान्मत्सहजरिपुवरान्देवि निर्मूल्य वेगात् विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ४

पदच्छेदः

विद्या+मुद्र+अक्षमाला+अमृतघट+विलसत्+पाणि+पाथोज+जाले विद्या+दान+प्रवीणे जड+बधिर+मुखेभ्यः अपि शीघ्रम् नतेभ्यः कामा+आदीन् अन्तरान् मत्सहज+रिपु+वरान् देवि निर्मूल्य वेगात् विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • पाथोजम् = कमलम्
  • जडः = मूढः
  • बधिरः = विकर्णः

अन्वयक्रमः

  • हे विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले |
  • हे विद्यादानप्रवीणे
    • कस्मै / केभ्यः दानप्रवीणा ? जडबधिरमुखेभ्यः
      • केभ्यः सन् अपि ? नतेभ्यः अपि
    • कथं / कदा दानप्रवीणा ? शीघ्रम्
    • किं कृत्वा ददाति? निर्मूल्य
      • कान् ? कामादीन्
        • कीदृशान् कामादीन् ? मत्सहजरिपुवरान्
        • पुनः कीदृशान् कामादीन् ? अन्तरान्
      • कथं / कदा निर्मूल्य ? वेगात्
    • हे देवि
    • त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

अन्वयः

हे विद्यामुद्राक्षमालामृतघटविलसत्पाणिपाथोजजाले | जडबधिरमुखेभ्यः अपि नतेभ्यः शीघ्रं मत्सहजरिपुवरान् अन्तरान् कामादीन् निर्मूल्य वेगात् विद्यादानप्रवीणे | हे देवि | त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

5 श्लोकः

कर्मस्वात्मोचितेषु स्थिरतरधिषणां देहदार्ढ्यं तदर्थं दीर्घं चायुर्यशश्च त्रिभुवनविदितं पापमार्गाद्विरक्तिम् । सत्सङ्गं सत्कथायाः श्रवणमपि सदा देवि दत्वा कृपाब्धे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ५

पदच्छेदः

कर्मसु आत्म+उचितेषु स्थिरतरधिषणां देहदार्ढ्यम् तदर्थम् दीर्घम् च आयुः यशः च त्रिभुवन+विदितम् पाप+मार्गात् विरक्तिम् सत्सङ्गम् सत्कथायाः श्रवणम् अपि सदा देवि दत्वा कृपाब्धे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • धिषणा = बुद्धिः
  • त्रिभुवनविदितम् = त्रिभुवनेषु अपि संलक्षितम्

अन्वयक्रमः

  • हे कमलजदयिते
  • हे कृपाब्धे
  • हे देवि
  • त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि
    • किं कृत्वा ? दत्वा
      • किं / कां दत्वा ? स्थिरतरधिषणाम्
      • कस्मिन् विषये स्थैर्यम् ? कर्मसु
        • कीदृशेषु कर्मसु ? आत्मोचितेषु
      • पुनः किं कृत्वा ? दत्वा
        • किमर्थं दत्वा ? तदर्थम्
        • किं दत्वा ? देहदार्ढ्यं
          • पुनः किं दत्वा ? आयुः
            • कीदृशं आयुः ? दीर्घम्
          • पुनः किं दत्वा ? यशः
            • कीदृशं यशः ? त्रिभुवनविदितम्
          • पुनः किं दत्वा ? सत्सङ्गम्
            • कीदृशं सत्सङ्गम् ? विरक्तिम्
              • कस्मात् विरक्तिम् ? पापमार्गात्
            • पुनः किं दत्वा ? श्रवणम्
              • कस्याः श्रवणम् ? सत्कथायाः

अन्वयः

आत्मोचितेषु कर्मसु स्थिरतरधिषणां दत्वा तदर्थं देहदार्ढ्यं च दीर्घं आयुः च त्रिभुवनविदितं यशः च पापमार्गात् विरक्तिं सत्सङ्गं च सत्कथायाः श्रवणम् अपि दत्वा, हे कृपाब्धे, हे देवि, हे कमलजदयिते, सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

6 श्लोकः

मातस्त्वत्पादपद्मं न विविधकुसुमैः पूजितं जातु भक्त्या गातुं नैवाहमीशे जडमतिरलसस्त्वद्गुणान्दिव्यपद्यैः ।
मूके सेवाविहीनेऽप्यनुपमकरुणामर्भकेऽम्बेव कृत्वा विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ६

पदच्छेदः

मातः त्वत्+पाद+पद्मम् न विविध+कुसुमैः पूजितम् जातु भक्त्या गातुम् न एव अहम् ईशे जडमतिः अलसः त्वत्+गुणान् दिव्य+पद्यैः मूके सेवाविहीने अपि अनुपम+करुणा+मर्भके अम्बा इव कृत्वा विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • जातु = कदाचित्
  • ईशे = शक्तः
  • मुके = वक्तुं न प्रभवति, तस्मै
  • अर्भके = बालकः, तस्मै

अन्वयक्रमः

  • हे मातः
  • हे कमलजदयिते
  • न पूजितम् अस्ति
    • किं न पूजितम् ? त्वत्पादपद्मम्
    • कैः न पूजितम् ? विविधकुसुमैः
    • केन न पूजितम् ? (मया)
    • कथं न पूजितम् ? भक्त्या
    • कदा न पूजितम् ? जातु
  • न एव ईशे
    • किं कर्तुं न ईशे ? गातुम्
      • किं गातुम् ? त्वद्गुणान्
      • कैः गातुम् ? दिव्यपद्यैः
    • कः न ईशे ? अहम्
      • कीदृशः अहम् ? जडमतिः
        • पुनः कीदृशः अहम् ? अलसः
      • सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि
        • कस्मै देहि ? मह्यम्
          • कीदृशाय मह्यम् ? मूके
          • पुनः कीदृशाय मह्यम् ? सेवाविहीने अपि
        • किं कृत्वा देहि ? अनुपमकरुणां कृत्वा
          • कथमिव करुणां कृत्वा ? अर्भके अम्बा इव

अन्वयः

हे मातः | त्वत्पादपद्मं जातु भक्त्या विविधकुसुमैः (मया) न पूजितम् | जडमतिः अलसः अहं त्वद्गुणान् दिव्यपद्यैः गातुं न एव ईशे | मूके, सेवाविहीने अपि, अर्भके अम्बा इव, अनुपमकरुणां कृत्वा, हे कमलजदयिते, मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

7 श्लोकः

शान्त्याद्याः सम्पदो मे वितर शुभकरीर्नित्यतद्भिन्नबोधं वैराग्यं मोक्षवाञ्छामपि लघु कलय श्रीशिवासेव्यमाने ।
विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ७

पदच्छेदः

शान्ति+आद्याः सम्पदः मे वितर शुभकरीः नित्य+तत्+भिन्न+बोधम् वैराग्यम् मोक्षवाञ्छाम् अपि लघु कलय श्री+शिवा+सेव्यमाने विद्यातीर्थ+आदि+योगि+प्रवर+कर+सरोजात+सम्पूजित+आङ्घ्रे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • वितर = वितरणं कुरु
  • बोधम् = ज्ञानम्
  • नित्यतद्भिन्नबोधम् = नित्यानित्यविवेकज्ञानम्
  • मोक्षवाञ्छाम् = मुमुक्षत्वम्
  • लघु = शीघ्रम्
  • कलय = संपादयतु (अत्र ददातु इत्यर्थः)
  • आङ्घ्रिः = चरणम्
  • विद्यातीर्थः = शृङ्गगिरिपीठाधिपतिः विद्यारन्यस्वमिनः गुरुः

अन्वयक्रमः

v  वितर

Ø  कस्मै वितर ? मे

  • किं / के वितर ? सम्पदः
    • के सम्पदः ? शान्त्याद्याः
    • कीदृशः सम्पदः ? शुभकरीः
  • का वितर ? त्वम्
  • कलय
    • कदा / कथं कलय ? लघु
    • किं कलय ? नित्यतद्भिन्नबोधम्
      • पुनः किं कलय ? वैराग्यम्
      • पुनः किं कलय ? मोक्षवाञ्छाम्
    • का कलय ? त्वम्
  • हे श्रीशिवासेव्यमाने ।
  • हे विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे |
  • हे कमलजदयिते |
  • सदा त्वं मह्यं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

अन्वयः

शान्त्याद्याः शुभकरीः सम्पदः मे वितर | नित्यतद्भिन्नबोधम्, वैराग्यम्, मोक्षवाञ्छाम् अपि, लघु कलय |  हे श्रीशिवासेव्यमाने । हे विद्यातीर्थादियोगिप्रवरकरसरोजातसम्पूजिताङ्घ्रे | हे कमलजदयिते |  मह्यं सदा त्वं विद्यां च, शुद्धां बुद्धिं च, सत्वरं देहि |

8 श्लोकः

सच्चिद्रूपात्मनो मे श्रुतिमनननिदिध्यासनान्याशु मातः सम्पाद्य स्वान्तमेतद्रुचियुतमनिशं निर्विकल्पे समाधौ ।
तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ ८

पदच्छेदः

सत्+चित्+रूप+आत्मनः मे श्रुति+मनन+निदिध्यासनानि आशु मातः सम्पाद्य स्वान्तम् एतद् रुचियुतम् अनिशम् निर्विकल्पे समाधौ  तुङ्गा+तीर+अङ्क+राजत्+वर+गृह+विलसत्+चक्र+राज+आसनस्थे विद्याम् शुद्धाम् च बुद्धिम् कमलज+दयिते सत्वरम् देहि मह्यम्

पदार्थः

  • श्रुतिः = श्रवणम्
  • मननम् = चिन्तनम्
  • निदिध्यासनम् = ध्यानम्
  • आशु = शीघ्रम्
  • अनिशम् = सर्वदा
  • राजते = विराजते
  • विलसते = प्रकाशते
  • गृहम् = अत्र मन्दिरम्
  • चक्रराजासनम् = श्रीचक्रराजसिंहासनम्
  • स्वान्तम् = मानसम्
  • रुचियुतम् = आसक्तम्
  • सम्पाद्य = प्रयुज्य, साधयित्वा

अन्वयक्रमः

  • हे मातः |
    • कस्मै देहि ?
  • रुचियुतम् (कुरु)
    • किं रुचियुतम् (कुरु) ? एतद् स्वान्तम्
    • कस्मिन् स्थितौ रुचियुतम् ? समाधौ
      • कीदृशे समाधौ ? निर्विकल्पे
    • कदा रुचियुतम् (कुरु) ? अनिशम्
    • किं कृत्वा रुचियुतम् (कुरु) ? सम्पाद्य
      • किं / कानि सम्पाद्य ? श्रुतिमनननिदिध्यासनानि
      • कस्मै सम्पाद्य ? मे
        • कीदृशाय मे ? सच्चिद्रूपात्मनः
      • कथं / कदा सम्पाद्य ? आशु
    • सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि
    • हे तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे
    • हे कमलजदयिते

अन्वयः

हे मातः | सच्चिद्रूपात्मनः मे श्रुतिमनननिदिध्यासनानि आशु सम्पाद्य, निर्विकल्पे समाधौ एतद् स्वान्तं अनिशं रुचियुतं (कुरु) | हे तुङ्गातीराङ्कराजद्वरगृहविलसच्चक्रराजासनस्थे | हे कमलजदयिते | सदा त्वं विद्यां च, शुद्धां बुद्धिं च, मह्यं सत्वरं देहि |

इति श्रीशिवाभिनवनृसिंहभारतीस्वामिविरचितं श्रीकमलजदयिताष्टकं सम्पूर्णम् ।

References:

  1. Audio of the song in Sringeri Videos Channel
    https://www.youtube.com/watch?v=Ktyw6ZktbfI
  2. Audio of the explanation in Sanskrit by Sri Keertichandra in Suneesh Namboodiri’s channel 
    https://www.youtube.com/watch?v=CM3UUMs-KWM 
  3. Explanation in English http://sankhya+n+yoga.blogspot.in/2014/11/kamalajadayita+ashtakam+beautiful.html
  4. Detailed commentary in English (over 100 pages) by Swami Paramarthananda
    http://arshaavinash.in/index.php/download/sri-kamaladayitaashtakam-by-swami-paramarthananda/

REVIEW PENDING !

 

R.K. Narayan Short Story – PUC First Year – Lesson 7

R.K. Narayan’s Short story – PUC First Year – Lesson 7 – ज्यौतिषिकस्य दिनम् 

An Astrologer’s Day

प्रतिदिनमिव तस्मिन्नपि दिने मध्याह्ने कार्यक्षेत्रम् आसाद्य ज्यौतिषिकः स्यूतम् उद्घाट्य कार्योपकरणानि पुरतः स्थापितवान् | तानि केचन कपर्दाः तालपत्राणां बन्धश्च | विपणिमार्गस्य पार्श्वे स्थितस्य वटवृक्षस्य छायायाम् उपविश्य सः ग्राहकान् प्रतीक्षते |

Like every other day, even on that day, at midday, having reached his place of work, the astrologer opened his bag and spread out his professional equipment in front. They were some cowries (i.e., small shells) and a bundle of palmyra writing. Having sat under the shades of a tamarind tree, which was close to the road to the market, he awaited the arrival of customers.

तस्मिन् मार्गे तु आदिनं जनानां प्रवाहः | मार्गे विविधाः आपणाः | कश्चन चणकवणिक् जनान् कन्दुपक्कान् चणकान् क्रेतुं प्रबोधयति | तस्मात् चणकं क्रीत्वा केचन पार्श्वस्थात् ज्यौतिषिकात् स्वभाग्यलेखं पृच्छन्ति | ज्योतिषिकश्च चणकभर्जनाग्नेः ज्यौतिषा एव सूर्यास्तानन्तरं कार्यं निर्वहति | ज्यौतिषस्य लेशमपि अजानन् अपि ‘ज्यौतिषिकः’ ऊहाभिः मिश्रितेन सहजज्ञानेन जनानां भविष्यं वदति | तथापि जनाः तस्य वचनैः तुष्यन्ति |

In that road, there was people’s movement during the entire day. There was a variety of shops in that road. Some groundnut seller was calling out people to buy fried groundnuts. Having bought the groundnut from him, some people would find out about their destiny from the astrologer who used to sit close by. The astrologer was carrying out his work, after the sunset, by means of the light from the fire used for frying the groundnuts. Without even nothing an iota of astrology, the ‘astrologer’ was able to tell the future of the people by some guesswork mixed with general knowledge. Even then, the people were happy with his words.

Earlier, even in his dreams, he had not thought that at some point in the future life, he would become an astrologer. If he were living in the village, like his forefathers, he would have become a farmer. But the fate had decided otherwise. Without even informing the relatives, leaving his home, he arrived at the town. There, as there was no other option, he took to the profession of an astrologer.

In the second Yaama (1/8th) of the night, the groundnut vendor, having ended his business for the day, having blown out his flare, left for his house. Because of this, the astrologer’s place of work was surrounded by darkness. So he set forth to put all his things in his bag. At that time, some passerby, wanting to take some rest, approached the tamarind tree.

Thinking, “Ah! There is a possibility of getting a customer”, the astrologer said to that person, “You are extremely tired. Let’s have a chat so that you can be relieved of your tiredness of travelling.” The pedestrian, who got annoyed, having placed his hand between the astrologer’s eyes, asked, “You consider yourself to be an astrologer?” The astrologer, trying to see his hand in the dark, started to speak, “Your fortune line …”. The pedestrian, interrupting the speak of the astrologer, said, “Tell me something worthwhile”.

“If you are satisfied with my words, then you should give me twenty rupees”, said the astrologer. The pedestrian replied, “Alright! But if I am not happy, you should give me twenty rupees”. When he lighted the cigar, that moment, the pedestrian’s face was noticed by the astrologer. The astrologer felt somewhat uncomfortable.

“It is getting late. I ought to go home. So, I will give back the money that you gave me”, saying this, taking the bag, the astrologer started to get up. The pedestrian forcefully caught hold of the astrologer’s hand and said, “I was going on the road. You dragged me into this. Now, do you want to escape on your own?” Caught in the pedestrian’s grip, the astrologer shivered a little. He said, “Not today! Tomorrow I will tell”. “Not at all! The money was taken and the promise was given by you. Isn’t it? Give me an answer for just one question of mine. Will I succeed in my search?”

“No, No”, said the astrologer. “Earlier, you had a threat to your life” (Typo in book – प्राणसङ्कटम्). “Ah! Then?”

“You were wounded by a knife”.

“What else? See!” saying this, the pedestrian showed the scar in his shoulder.

“After that, you were thrown in a near-by well by the person who wounded you. Thinking that you were dead, he went somewhere”.

“Yes. If the thirsty passer-by had failed to notice me, who had fallen into the well, I would have been dead. Tell me! When will I see him? Will I be able to take revenge?” angrily asked the pedestrian, clenching his fist.

“Only in the next world! He died four months ago in a far-off town. In this life, you will not get to see him again.” On hearing the astrologer say this, the pedestrian made a groaning sound. The astrologer proceeded, “Guru Nanak is your name. Isn’t it?”

“How do you know my name?” asked the pedestrian, with amazement.

“Hey Guru Nanak!  I know everything. Just listen to me carefully. Tonight itself, you return to your village taking a train. In future, it seems that if you leave your village, then again you will have a threat to your life.”

“For what reason will I leave my village again? ‘I will probably see him sometime. Seizing his throat with my own hands, I will kill him’, thinking this, with this single goal, I was roaming from one village to another. But he escaped from my hands”, saying this, after placing some currency in the astrologer’s hand, Guru Nanak left the place.

It was midnight when the astrologer reached home. His wife was awaiting his arrival, standing at the doorstep. After having his food, he sat on the mat and said, “Hey, today I am relieved of a great load. All these years, the thought, that I had committed the sin of killing someone, kept troubling me. For this reason only, I left my home and started living here. But today I learnt that he is alive.”

“Did you try to kill someone sometime back?” asked his wife, with fear. “Yes. In my village…. At that time, I was intoxicated by youthful vigor. I had a quarrel with him. The incident happened at that time. It is time to sleep now”, the astrologer said, yawning, and stretched himself on the mat.

 

References:

R.K. Narayan1R.K. Narayan2R.K. Narayan3R.K. Narayan4R.K. Narayan5R.K. Narayan6