Anubhooti-Prakaashah 6.01-6.10

Anubhooti-Prakaashah by Vidyaaranyasvaami

अनुभूतिप्रकाशः – विद्यारण्यस्वामी

The Self-evident, Self-effulgence, Witness of Experiences

ध्यानश्लोकः

अविद्यारण्यकान्तारे भ्रमतां प्राणिनां सदा ।
विद्यामार्गोपदेष्टारं विद्यारण्यगुरुं श्रये ॥

अविद्या-अरण्य-कान्तारे, भ्रमताम्, प्राणिनाम्, सदा, विद्या-मार्ग-उपदेष्टारम्, विद्यारण्य-गुरुम्, श्रये ।

अविद्या-अरण्य-कान्तारे भ्रमतां प्राणिनां विद्या-मार्ग-उपदेष्टारं विद्यारण्य-गुरुम् (अहं) सदा श्रये ।

  • (अहं) श्रये
    • कदा श्रये ? सदा
    • कं श्रये ? विद्यारण्य-गुरुम्
      • कीदृशं विद्यारण्य-गुरुम् ? विद्या-मार्ग-उपदेष्टारम्
        • केषां विद्या-मार्ग-उपदेष्टारम् ? प्राणिनाम्
          • कीदृषां प्राणिनाम् ? भ्रमताम्
            • कुत्र भ्रमताम् ? अविद्या-अरण्य-कान्तारे

I always (सदा) seek refuge (श्रि) in the Guru Vidyaranya (विद्यारण्य-गुरु), who shows the path of true wisdom (विद्या-मार्ग-उपदेष्टृ) to the beings (प्राणि) that wander (भ्रमत) in the dense woods of ignorance (अविद्या-अरण्य-कान्तार).

अथ षष्ठोऽध्यायः (मुण्डकोपनिषद्)

Sixth Chapter (Mundakopanishad)

श्लोकः १

ब्रह्मविद्यां शौनकाय यामुवाचाङ्गिरा मुनिः ।

अथर्वणे मुण्डकेऽसौ विशदीकृत्य वक्ष्यते ॥१॥

ब्रह्मविद्याम्, शौनकाय, याम्, उवाच, अङ्गिराः, मुनिः, अथर्वणे, मुण्डके, असौ, विशदी-कृत्य, वक्ष्यते ।

अथर्वणे मुण्डके अङ्गिराः मुनिः शौनकाय याम् ब्रह्मविद्याम् उवाच असौ विशदी-कृत्य वक्ष्यते ।

  • वक्ष्यते
    • कां वक्ष्यते ? ब्रह्मविद्याम्
    • कीदृशीं ब्रह्मविद्याम् ? याम् उवाच असौ
      • कः उवाच ? अङ्गिराः मुनिः
      • कस्मै उवाच ? शौनकाय
      • कस्मिन् उवाच ? अथर्वणे मुण्डके
    • किं कृत्वा वक्ष्यते ? विशदी-कृत्य

Whichever (या) Brahmavidyaa (ब्रह्मविद्या) the saint (मुनि) Angiras (अङ्गिरस्) told (वच्) Shaunaka (शौनक) in Mundakopanishad (मुण्डक), (the students of which Upanishad undergo the hair tonsuring ceremony), which is in the Atharvana Veda (अथर्वण), that (असौ) Brahmavidyaa (ब्रह्मविद्या) is being told (वच्) after being made clear (विशदी-कृ).

श्लोकः २

चतुर्मुखादिके संप्रदाये यो मुनिरङ्गिराः ।
उपसद्य यथाशास्त्रमेतं पप्रच्छ शौनकः ॥२॥

चतुर्मुखादिके, संप्रदाये, यः, मुनिः, अङ्गिराः, उपसद्य, यथाशास्त्रम्, एतम्, पप्रच्छ, शौनकः ।

चतुर्मुखादिके संप्रदाये यः अङ्गिराः मुनिः (अस्ति) शौनकः (तं) यथाशास्त्रम् उपसद्य एतं पप्रच्छ ।

  • पप्रच्छ
    • कः पप्रच्छ ? शौनकः
    • कं पप्रच्छ ? एतम् [अग्रे यत् वक्ष्यते]
    • किं कृत्वा ? उपसद्य
      • कथम् उपसद्य ? यथाशास्त्रम्
      • कम् उपसद्य ? (तम्)
        • कीदृशं तम् ? यः मुनिः अस्ति
          • कः मुनिः ? अङ्गिराः
          • कस्मिन् अस्ति ? संप्रदाये
            • कीदृशे संप्रदाये ? चतुर्मुखादिके

In the lineage (संप्रदाय) lead by the four-headed Brahma (चतुर्-मुख-आदिक), (i.e., the Guru Shishya Paramparaa of Brahma, Atharva, Angir, Satyavaha, Angiras), whichever (यत्) Saint (मुनि) Angiras (अङ्गिरस्) is there (अस्ति), Shaunaka (शौनक) having approached (उपसद्य) him (तम्) as per the scriptural ordinance (यथा-शास्त्र), asked (पप्रच्छ) this (एतम्).

श्लोकः 3

एकस्मिन्विदिते सर्वं विज्ञातमिति वैदिकी ।
प्रसिद्धिरस्ति तद्वस्तु किं स्यान्निश्चित्य मे वद ॥३॥

एकस्मिन्, विदिते, सर्वम्, विज्ञातम्, इति, वैदिकी, प्रसिद्धिः, अस्ति, तद्वस्तु, किम्, स्यात्, निश्चित्य, मे, वद ।

एकस्मिन् विदिते (सति) सर्वं विज्ञातं (भवति) इति वैदिकी प्रसिद्धिः अस्ति । तद् वस्तु किं स्यात् (इति) निश्चित्य मे वद ।

  • अस्ति
    • का अस्ति ? प्रसिद्धिः
      • कीदृशी प्रसिद्धिः ? वैदिकी
      • किमिति प्रसिद्धिः ? विज्ञातम् (भवति) इति
        • किं विज्ञातम् ? सर्वम्
        • कदा विज्ञातम् ? एकस्मिन् विदिते (सति)
      • (त्वं) वद
        • कस्मै वद ? मे
        • किं कृत्वा वद ? निश्चित्य
          • किं इति निश्चित्य ? किं स्यात् (इति)
            • किं किं स्यात् ? तद् वस्तु

It is (अस्) well known (प्रसिद्धि) in the Vedas (वैदिक) that (इति) when that One is known (एकस्मिन् विदिते सति), everything (सर्वम्) becomes (भवति) known (विज्ञातम्) । Having ascertained (निश्चित्य), tell (वद्) me (अहम्) what (किम्) that (तद्) thing (वस्तु) is (अस्).

श्लोकः ४

शृणु विद्ये उभे तावद्वेदितव्ये परापरे ।
पृष्टं वस्तु तयोर्मध्ये गम्यते परविद्यया ॥४॥

शृणु, विद्ये, उभे, तावत्, वेदितव्ये, परापरे, पृष्टम्, वस्तु, तयोः, मध्ये, गम्यते, परविद्यया

शृणु । तावत् परापरे उभे विद्ये वेदितव्ये । तयोः मध्ये (त्वया) पृष्टं वस्तु परविद्यया गम्यते ।

  • (त्वं) शृणु
  • तावत् वेदितव्ये
    • के वेदितव्ये ? उभे विद्ये
      • के विद्ये ? परापरे
    • गम्यते
      • किं गम्यते ? वस्तु
        • कीदृशं वस्तु ? (त्वया) पृष्टम्
      • कया गम्यते ? परविद्यया
      • कस्मिन् ? मध्ये
        • कयोः मध्ये ? तयोः

Listen (शृणु).  First of all (तावत्), Paraa (परा) and Aparaa (अपरा) are the two (उभे) knowledge (विद्या) that are to be learned (वेदितव्य). Among (मध्य) those two (तद्), the thing (वस्तु) asked (पृष्ट) by you, is known (गम्यत) as Paravidyaa (परविद्यया).

श्लोकः ५

षडङ्गसहिता वेदा विज्ञायन्ते यया धिया ।
सा धीरपरविद्या स्याद्ब्रह्मधीस्तु परा मता ॥५॥

षडङ्गसहिताः, वेदाः, विज्ञायन्ते, यया, धिया, सा, धीः, अपरविद्या, स्यात्, ब्रह्मधीः, तु, परा, मता ।

षडङ्गसहिताः वेदाः यया धिया विज्ञायन्ते, सा धीः अपरविद्या स्यात् । ब्रह्मधीः तु परा मता ।

  • अपरविद्या स्यात्
    • का अपरविद्या ? धीः
      • कीदृशी धीः ? यया धिया विज्ञायन्ते सा
        • काः विज्ञायन्ते ? षडङ्गसहिताः [शिक्षा, व्याकरणम्, छन्दः, निरुक्तम्, ज्योतिषम्, कल्पः]
      • परा (इति) मता अस्ति ।
        • का परा ? ब्रह्मधीः तु

That knowledge (धी) by which (या) the Vedas (वेद) along with the six disciplines (षड्-अङ्ग-सहित) are learnt (वि-ज्ञा), that (सा) knowledge (धी) is (अस्) Aparavidyaa (अपरविद्या). The knowledge of Brahman (ब्रह्म-धी), on the other hand (तु), is considered (मता) as Paraa (परा).

श्लोकः ६

उपनीतेन विज्ञेया वेदाः सर्वे न तावता ।

ब्रह्मधीः किन्तु वैराग्ये स्यादाचार्योपदेशतः ॥६॥

उपनीतेन, विज्ञेयाः, वेदाः, सर्वे, न, तावता, ब्रह्मधीः, किन्तु, वैराग्ये, स्यात्, आचार्य-उपदेशतः ।

उपनीतेन सर्वे वेदाः विज्ञेयाः । किन्तु तावता ब्रह्मधीः न (भवति) । वैराग्ये (सति) आचार्योपदेशतः स्यात् ।

  • विज्ञेयाः (सन्ति)
    • काः विज्ञेयाः ? वेदाः
      • काः वेदाः ? सर्वे
    • केन विज्ञेयाः ? उपनीतेन
  • किन्तु न (अस्ति)
    • का न (अस्ति) ? ब्रह्मधीः
    • कया न (अस्ति) ? तावता
  • (विज्ञेयः) स्यात् ।
    • कस्मात् स्यात् ? आचार्योपदेशतः
    • कदा स्यात् ? वैराग्ये (सति)

All (सर्व) the Vedas (वेद) are to be learnt (विज्ञेय) by the student who is initiated into the spiritual studies with the Upanayana ceremony (उपनीत). But (किन्तु), just by that (तावत्), the knowledge of Brahman (ब्रह्मधी) does not happen (न भवति). When determination is there (वैराग्ये सति), through the guidance of the teacher (आचार्य-उपदेश), it happens (अस्).

श्लोकः ७

वैदिक्यप्यधिकारस्य भेदादुक्ता पृथक् परा ।

विप्राः परिवाजकाश्च तिष्ठन्तीति यथा तथा ॥७॥

वैदिकी, अपि, अधिकारस्य, भेदात्, उक्ता, पृथक्, परा, विप्राः, परिवाजकाः, च, तिष्ठन्ति, इति, यथा, तथा

यथा विप्राः परिवाजकाः च तिष्ठन्ति इति उक्ता तथा वैदिकी अपि अधिकारस्य भेदात् परा पृथक् उक्ता ।

  • पृथक् उक्ता
    • का उक्ता ? परा
      • कीदृशी अपि परा ? वैदिकी अपि
    • किमर्थं पृथक् उक्ता ? भेदात्
      • कस्य भेदात् ? अधिकारस्य
      • कथमिव भेदात् ? यथा तिष्ठन्ति इति उक्ता तथा
        • काः तिष्ठन्ति इति ? विप्राः परिवाजकाः च

Like how (यथा) it is said (वच्) that (इति) Brahmins (विप्र) and (च) wandering monks (परिवाजक) are standing (स्था), even though both are essentially the same, in the same way (तथा), even though (अपि) it is associated with the Vedas (वैदिक), due to the difference (भेद) in the category (अधिकार), Paraa (परा) has been told (वच्) separately (पृथक्).

श्लोकः ८

यस्यामपरविद्यायां कर्माण्युक्तानि साधकाः |

कुर्वन्ति कर्मभिः शुद्धिं परविद्यां करोति हि ॥८॥

यस्याम् अपरविद्यायां कर्माणि उक्तानि साधकाः कुर्वन्ति कर्मभिः शुद्धिं परविद्यां करोति हि ।

साधकाः कर्मभिः शुद्धिं कुर्वन्ति । (तानि) कर्माणि यस्याम् अपरविद्यायां उक्तानि, (तस्यां अपरविद्यायां विहितैः कर्मभिः जनिता शुद्धिः) परविद्यां करोति हि । (अतः अपरविद्यातः परविद्या) ।

  • कुर्वन्ति
    • काः कुर्वन्ति ? साधकाः
    • किं कुर्वन्ति ? शुद्धिम्
    • कैः कुर्वन्ति ? कर्मभिः
  • करोति हि
    • कां करोति हि ? परविद्याम्
    • का करोति हि ? (शुद्धिः)
      • कीदृशी शुद्धिः ? (अपरविद्यायां विहितैः कर्मभिः जनिता)
        • कीदृश्यां अपरविद्यायाम् ? यस्याम् उक्तानि तस्याम्
          • कानि उक्तानि ? कर्माणि

The spiritual aspirants (साधक) do (कृ) purification (शुद्धि) of the mind through actions (कर्म). It is indeed (हि) the purity of mind (शुद्धि), which is born out of (जनित) the actions (कर्म) which are prescribed (वच्) in Aparavidyaa (अपरविद्या), which makes (कृ) Paravidyaa (परविद्या). [Thus (अतः) from (अपरविद्या) Paravidyaa (परविद्या) is reached].

श्लोकः ९

परया चाक्षरं ज्ञेयमेतस्मिन् विदिते सति ।

सर्वं जगद् भवेत् बुद्धं तस्य सर्वात्मकत्वतः ॥९॥

परया, च, अक्षरम्, ज्ञेयम्, एतस्मिन्, विदिते, सति, सर्वम्, जगत्, भवेत्, बुद्धम्, तस्य, सर्वात्मकत्वतः ।

परया च अक्षरं ज्ञेयम् । तस्य सर्वात्मकत्वतः एतस्मिन् विदिते सति सर्व जगत् बुद्धं भवेत् ।

  • ज्ञेयम् अस्ति
    • किं ज्ञेयम् ? अक्षरम्
    • कया ज्ञेयम् ? परया च
  • भवेत्
    • कथं भवेत् ? बुद्धम्
    • किं बुद्धं भवेत् ? सर्वं जगत्
    • कस्मात् ? तस्य सर्व-आत्मकत्वतः
    • कदा भवेत् ? एतस्मिन् विदिते सति

And (च), by Paraa (परा), the Imperishable one (अक्षरम्) is known (ज्ञा). Since that Imperishable one (तत्) is of the nature of being inside everything (सर्व-आत्मकत्व), when this is known (एतस्मिन् विदिते सति), the entire (सर्व) world (जगत्) becomes (भू) known (बुद्धम्).

श्लोकः १०

न विनानुष्ठितं कर्मवेदनं पर्यवस्यति ।

ब्रह्मधीस्तावतैव स्यात् फलदेति परा मता ॥१०॥

न विना अनुष्ठितं कर्मवेदनं पर्यवस्यति ब्रह्मधीः तावता एव स्यात् फलदेति परा मता ।

References

    1. https://archive.org/details/114SAnubhutiPrakashaVidyaranyaStateCentralLibHyd/page/n115
    2. http://mundakopanishad-jp.blogspot.com/2014/04/ [Only 1 – 6 shlokas]
    3. https://drive.google.com/file/d/191qn4hbva3k7qBdWKY-F6vD53e-DrG8X/view Page 580
    4. http://shankaramatha.org/images/E-books/51ed7f1fb30f6-Anubhooti-Prakash-full.pdf [Link not working as of Nov 2019]