TattvaBodhah

Video with the full rendition of the text by Smt. Rama Sivaraman –>

Click here for the TattvaBodhah content of the video in PDF file available for download

Reference Material for those who are interested to know more — Tattva Bodhah by Swami Paramarthananda. Transcribed by Sri R. Ganapathy  https://arshaavinash.in/index.php/download/tattva-bodhah-swami-paramarthananda/ 

The content of the video is reproduced here.

  • तत्त्वबोधः
  • The complete text of TATTVABODHA,
    A Primer Text in Vedanta by Sri Shankaracharya

श्लोकः

  • वासुदेवेन्द्रयोगीन्द्रं
    नत्वा ज्ञानप्रदं गुरुम् ।
    मुमुक्षूणां हितार्थाय
    तत्त्वबोधोऽभिधीयते ॥

अन्वयरचना

  • अभिधीयते
  • कः अभिधीयते ? तत्त्व-बोधः
  • किं कृत्वा अभिधीयते ? नत्वा
  • कं नत्वा ? गुरुम्
  • कं गुरुम् ? वासुदेवेन्द्र-योगिन् +इन्द्रम्
  • कीदृशं गुरुम् ? ज्ञान-प्रदम्
  • किमर्थम् अभिधीयते ? हित+अर्थाय
  • केषां हितार्थाय ? मुमुक्षूणाम्
  • साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः।
  • साधनचतुष्टयं किम् ?
  • नित्यानित्यवस्तुविवेकः ।
  • इहामुत्रार्थफलभोगविरागः ।
  • शमादिषट्कसम्पत्तिः ।
  • मुमुक्षुत्वं चेति ।
  • साधन-चतुष्टय-सम्पन्न+अधिकारिणां मोक्ष-साधन-भूतं तत्त्व-विवेक-प्रकारं वक्ष्यामः ।
  • साधन-चतुष्टयं किम् ?
  • नित्य+अनित्य-वस्तु-विवेकः ।
  • इह+अमुत्र+अर्थ-फल-भोग-विरागः ।
  • शम+आदि-षट्क-सम्पत्तिः ।
  • मुमुक्षुत्वं च इति ।
  • नित्यानित्यवस्तुविवेकः कः ?
  • नित्यवस्त्वेकं ब्रह्म ।
  • तद्व्यतिरिक्तं सर्वमनित्यम् ।
  • अयमेव नित्यानित्यवस्तुविवेकः ।
  • विरागः कः ?
  • इहस्वर्गभोगेष्विच्छाराहित्यम् ।
  • नित्य+अनित्य-वस्तु-विवेकः कः ?
  • नित्य-वस्तु एकं ब्रह्म ।
  • तत्+व्यतिरिक्तं सर्वम् अनित्यम् ।
  • अयम् एव नित्य+अनित्य-वस्तु-विवेकः ।
  • विरागः कः ?
  • इह-स्वर्ग-भोगेषु इच्छा-राहित्यम् ।
  • शमादिसाधनसम्पत्तिः का ?
  • शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं चेति । *[पाठभेदः] शमो दम उपरतिस्तितिक्षाश्रद्धा समाधानं चेति ।
  • शमः कः ?
  • मनोनिग्रहः ।
  • दमः कः ?
  • चक्षुरादिबाह्येन्द्रियनिग्रहः ।
  • शम+आदि-साधन-सम्पत्तिः का ?
  • शमः दमः उपरमः / उपरतिः तितिक्षा श्रद्धा समाधानं च इति ।
  • शमः कः ?
  • मनः+निग्रहः ।
  • दमः कः ?
  • चक्षुः+आदि-बाह्य+इन्द्रिय-निग्रहः।
  • उपरमः कः ?
  • स्वधर्मानुष्ठानमेव ।
  • तितिक्षा का ?
  • शीतोष्णसुखदुःखादिसहिष्णुत्वम् ।
  • श्रद्धा कीदृशी ?
  • गुरुवेदान्तवाक्येषु / गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा ।
  • उपरमः कः ?
  • स्व-धर्म+अनुष्ठानम् एव ।
  • तितिक्षा का ?
  • शीत+उष्ण-सुख-दुःख+आदि-सहिष्णुत्वम् ।
  • श्रद्धा कीदृशी ?
  • गुरु-वेदान्त-वाक्येषु / गुरु-वेदान्त-वाक्य+आदिषु विश्वासः श्रद्धा ।
  • समाधानं किम् ?
  • चित्तैकाग्रता ।
  • मुमुक्षुत्वं किम् ?
  • मोक्षो मे भूयादितीच्छा ।
  • एतत् साधनचतुष्टयम् ।
  • ततस्तत्त्वविवेकस्याधिकारिणो भवन्ति ।
  • समाधानं किम् ?
  • चित्त+एकाग्रता ।
  • मुमुक्षुत्वं किम् ?
  • मोक्षः मे भूयात् इति इच्छा ।
  • एतत् साधन-चतुष्टयम् ।
  • ततः तत्त्व-विवेकस्य अधिकारिणः भवन्ति ।
  • तत्त्वविवेकः कः ?
  • आत्मा सत्यं तदन्यत् सर्वं मिथ्येति ।
  • आत्मा कः ?
  • स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन्नवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा ।
  • तत्त्व-विवेकः कः ?
  • आत्मा सत्यं तत्+अन्यत् सर्वं मिथ्या इति ।
  • आत्मा कः ?
  • स्थूल-सूक्ष्म-कारण-शरीरात् व्यतिरिक्तः, पञ्च-कोश+अतीतः सन्, अवस्था-त्रय-साक्षी, सत्+चित्+आनन्द-स्वरूपः सन्, यः तिष्ठति, सः आत्मा ।
  • स्थूलशरीरं किम् ?
  • पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत् स्थूलशरीरम् ।
  • स्थूल-शरीरं किम् ?
  • पञ्चीकृत-पञ्च-महा-भूतैः कृतं, सत्-कर्म-जन्यं, सुख-दुःख+आदि-भोग+आयतनं, शरीरम् ‘अस्ति, जायते, वर्धते, विपरिणमते, अपक्षीयते, विनश्यति’ इति षड्-विकारवत् एतत् स्थूल-शरीरम् ।
  • सूक्ष्मशरीरं किम् ?
  • अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैकैवं सप्तदशकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् ।
  • सूक्ष्म-शरीरं किम् ?
  • अपञ्चीकृत-पञ्च-महा-भूतैः कृतं, सत्-कर्म-जन्यं, सुख-दुःख+आदि-भोग-साधनं, पञ्च-ज्ञानेन्द्रियाणि, पञ्च-कर्मेन्द्रियाणि, पञ्च-प्राणादयः, मनः च एकं, बुद्धिः च एका, एवं सप्त-दश-कलाभिः सह यः तिष्ठति तत् सूक्ष्म-शरीरम् ।
  • श्रोत्रं त्वक्चक्षु रसना घ्राणमिति पञ्चज्ञानेन्द्रियाणि।
  • श्रोत्रस्य दिग्देवता ।
  • त्वचो वायुः ।
  • चक्षुषः सूर्यः ।
  • रसनाया वरुणः ।
  • घ्राणस्याश्विनौ ।
  • इति ज्ञानेन्द्रियदेवताः ।
  • श्रोत्रं, त्वक्, चक्षुः, रसना, घ्राणम् इति पञ्च-ज्ञान+इन्द्रियाणि ।
  • श्रोत्रस्य दिक् देवता ।
  • त्वचः वायुः ।
  • चक्षुषः सूर्यः ।
  • रसनायाः वरुणः ।
  • घ्राणस्य अश्विनौ ।
  • इति ज्ञानेन्द्रिय-देवताः ।
  • श्रोत्रस्य विषयो शब्दग्रहणम् ।
  • त्वचो विषयः स्पर्शग्रहणम् ।
  • चक्षुषो विषयो रूपग्रहणम् ।
  • रसनाया विषयो रसग्रहणम् ।
  • घ्राणस्य विषयो गन्धग्रहणमिति ।
  • श्रोत्रस्य विषयः शब्द-ग्रहणम् ।
  • त्वचः विषयः स्पर्श-ग्रहणम् ।
  • चक्षुषः विषयः रूप-ग्रहणम् ।
  • रसनायाः विषयः रस-ग्रहणम् ।
  • घ्राणस्य विषयः गन्ध-ग्रहणम् इति ।
  • वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि ।
  • वाचो देवता वह्निः ।
  • हस्तयोरिन्द्रः ।
  • पादयोर्विष्णुः ।
  • पायोर्मृत्युः ।
  • उपस्थस्य प्रजापतिः ।
  • इति कर्मेन्द्रियदेवताः ।
  • वाक्-पाणि-पाद-पायु+उपस्थानि इति पञ्च-कर्म+इन्द्रियाणि ।
  • वाचः देवता वह्निः ।
  • हस्तयोः इन्द्रः ।
  • पादयोः विष्णुः ।
  • पायोः मृत्युः ।
  • उपस्थस्य प्रजापतिः ।
  • इति कर्मेन्द्रिय-देवताः ।
  • वाचो विषयो भाषणम् ।
  • पाण्योर्विषयो वस्तुग्रहणम् ।
  • पादयोर्विषयो गमनम् ।
  • पायोर्विषयो मलत्यागः ।
  • उपस्थस्य विषय आनन्द इति ।
  • वाचः विषयः भाषणम् ।
  • पाण्योः विषयः वस्तु-ग्रहणम् ।
  • पादयोः विषयः गमनम् ।
  • पायोः विषयः मल-त्यागः ।
  • उपस्थस्य विषयः आनन्दः इति ।
  • कारणशरीरं किम् ?
  • अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् ।
  • अवस्थात्रयं किम् ?
  • जाग्रत्स्वप्नसुषुप्त्यवस्थाः ।
  • कारण-शरीरं किम् ?
  • अनिर्वाच्य+अनादि+अविद्या-रूपं, शरीर-द्वयस्य कारण-मात्रं, सत्-स्वरूप+अज्ञानं, निर्विकल्पक-रूपं यत् अस्ति, तत् कारण-शरीरम् ।
  • अवस्था-त्रयं किम् ?
  • जाग्रत्-स्वप्न-सुषुप्ति+अवस्थाः ।
  • जाग्रदवस्था का ?
  • श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषया ज्ञायन्त / शब्दादिविषयैश्च ज्ञायते इति यत्सा जाग्रदवस्था ।
  • स्थूलशरीराभिमान्यात्मा विश्व इत्युच्यते ।
  • जाग्रत्+अवस्था का ?
  • श्रोत्र+आदि-ज्ञान+इन्द्रियैः शब्द+आदि-विषयाः ज्ञायन्ते / शब्द+आदि+विषयैः च ज्ञायते इति यत् सा जाग्रत्+अवस्था ।
  • स्थूल-शरीर+अभिमानी आत्मा विश्वः इति उच्यते ।
  • स्वप्नावस्था केति चेज्जाग्रदवस्थायां यद्दृष्टं यच्छ्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था ।
  • सूक्ष्मशरीराभिमान्यात्मा तैजस इत्युच्यते ।
  • स्वप्न+अवस्था का इति चेत् जाग्रत्+अवस्थायां यत् दृष्टं, यत् श्रुतं, तत्+जनित-वासनया निद्रा-समये यः प्रपञ्चः प्रतीयते सा स्वप्न+अवस्था ।
  • सूक्ष्म-शरीर+अभिमानी आत्मा तैजसः इति उच्यते ।
  • ततः / अतः सुषुप्त्यवस्था का ?
  • अहं किमपि न जानामि, सुखेन मया निद्राऽनुभूयत [सुखम् अहम् अस्वाप्सम्] इति सुषुप्त्यवस्था ।
  • कारणशरीराभिमान्यात्मा प्राज्ञ इत्युच्यते ।
  • ततः / अतः सुषुप्ति+अवस्था का ?
  • ‘अहं किम् अपि न जानामि, सुखेन मया निद्रा अनुभूयते, [सुखम् अहम् अस्वाप्सम्]’ इति सुषुप्ति+अवस्था।
  • कारण-शरीर+अभिमानी आत्मा प्राज्ञः इति उच्यते ।
  • पञ्चकोशाः के ?
  • अन्नमयः प्राणमयो मनोमयो विज्ञानमय आनन्दमयश्चेति ।
  • अन्नमयः कः ?
  • अन्नरसेनैव भूत्वान्नरसेनैव वृद्धिं प्राप्यान्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् ।
  • पञ्चकोशाः के ?
  • अन्न-मयः प्राण-मयः मनः-मयः विज्ञान-मयः आनन्द-मयः च इति ।
  • अन्नमयः कः ?
  • अन्न-रसेन एव भूत्वा, अन्न-रसेन एव वृद्धिं प्राप्य, अन्न-रूप-पृथिव्यां यत् विलीयते, तत् अन्नमयः कोशः, स्थूल-शरीरम् ।
  • प्राणमयः कः ?
  • प्राणाद्याः पञ्चवायवो वागादीन्द्रियपञ्चकं प्राणमयः कोशः ।
  • मनोमयः कः ?
  • मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः ।
  • प्राणमयः कः ?
  • प्राण+आद्याः पञ्च-वायवः वाक्+आदि+इन्द्रिय-पञ्चकं प्राणमयः कोशः ।
  • मनोमयः कः ?
  • मनः च ज्ञानेन्द्रिय-पञ्चकं मिलित्वा यः भवति, सः मनोमयः कोशः ।
  • विज्ञानमयः कः ?
  • बुद्धिर्ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः ।
  • आनन्दमयः कः ?
  • एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः ।
  • एतत्कोशपञ्चकम् ।
  • विज्ञानमयः कः ?
  • बुद्धिः ज्ञानेन्द्रिय-पञ्चकं मिलित्वा यः भवति, सः विज्ञानमयः कोशः ।
  • आनन्दमयः कः ?
  • एवम् एव कारण-शरीर-भूत-अविद्या-स्थ-मलिन-सत्त्वं प्रिय+आदि-वृत्ति-सहितं सत् आनन्दमयः कोशः ।
  • एतत् कोश-पञ्चकम् ।
  • मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयमज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डलगृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं [स्वस्माद्भिन्नं] मदीयत्वेन ज्ञातमात्मा न भवति ।
  • आत्मा तर्हि कः ?
  • सच्चिदानन्दस्वरूपः ।
  • ‘मदीयं शरीरं, मदीयाः प्राणाः, मदीयं मनः च, मदीया बुद्धिः, मदीयम् अज्ञानम्’ इति स्वेन एव ज्ञायते, तद्, यथा मदीयत्वेन ज्ञातं कटक-कुण्डल-गृह+आदिकं स्वस्मात् भिन्नं, तथा पञ्च-कोश+आदिकं, [स्वस्मात् भिन्नं] मदीयत्वेन ज्ञातम्, आत्मा न भवति ।
  • आत्मा तर्हि कः ?
  • सत्+चित्+आनन्द-स्वरूपः ।
  • सत् किम् ?
  • कालत्रयेऽपि तिष्ठतीति सत् ।
  • चित् किम् ?
  • ज्ञानस्वरूपः ।
  • आनन्दः कः ?
  • सुखस्वरूपः ।
  • एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् ।
  • सत् किम् ?
  • काल-त्रये अपि तिष्ठति इति सत् ।
  • चित् किम् ?
  • ज्ञान-स्वरूपः ।
  • आनन्दः कः ?
  • सुख-स्वरूपः ।
  • एवं सत्+चित्+आनन्द-स्वरूपं स्व+आत्मानं विजानीयात् ।
  • अथ चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः।
  • ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका मायास्ति ।
  • तत आकाशः सम्भूतः ।
  • आकाशाद्वायुः ।
  • वायोस्तेजः ।
  • अथ चतुः+विंशति-तत्त्व+उत्पत्ति-प्रकारं वक्ष्यामः ।
  • ब्रह्म+आश्रया सत्त्व-रजः+तमः+गुण+आत्मिका माया अस्ति ।
  • ततः आकाशः सम्भूतः ।
  • आकाशात् वायुः ।
  • वायोः तेजः ।
  • तेजस आपः ।
  • अद्भ्यः पृथिवी ।
  • एतेषां पञ्चतत्त्वानां मध्य आकाशस्य सात्त्विकांशाच्छ्रोत्रेन्द्रियं सम्भूतम् ।
  • वायोः सात्त्विकांशात्त्वगिन्द्रियं सम्भूतम् ।
  • तेजसः आपः ।
  • अद्भ्यः पृथिवी ।
  • एतेषां पञ्च-तत्त्वानां मध्ये, आकाशस्य सात्त्विक+अंशात् श्रोत्र+इन्द्रियं सम्भूतम् ।
  • वायोः सात्त्विक+अंशात् त्वग्-इन्द्रियं सम्भूतम् ।
  • अग्नेः सात्त्विकांशाच्चक्षुरिन्द्रियं सम्भूतम् ।
  • जलस्य सात्त्विकांशाद्रसनेन्द्रियं सम्भूतम् ।
  • पृथिव्याः सात्त्विकांशाद्घ्राणेन्द्रियं सम्भूतम् ।
  • अग्नेः सात्त्विक+अंशात् चक्षुः+इन्द्रियं सम्भूतम् ।
  • जलस्य सात्त्विक+अंशात् रसन+इन्द्रियं सम्भूतम् ।
  • पृथिव्याः सात्त्विक+अंशात् घ्राण+इन्द्रियं सम्भूतम् ।
  • एतेषां पञ्चतत्त्वानां समष्टिसात्त्विकांशाद् मनोबुद्ध्यहङ्कारचित्तान्तःकरणानि सम्भूतानि ।
  • सङ्कल्पविकल्पात्मकं मनः ।
  • निश्चयात्मिका बुद्धिः ।
  • अहङ्कर्ताहङ्कृतिः / अहङ्कर्ताहङ्कारः ।
  • चिन्तनकर्तृ चित्तम् ।
  • एतेषां पञ्च-तत्त्वानां समष्टि-सात्त्विक+अंशात् मनः+बुद्धि+अङ्कार-चित्त+अन्तःकरणानि सम्भूतानि ।
  • सङ्कल्प-विकल्प+आत्मकं मनः ।
  • निश्चय+आत्मिका बुद्धिः ।
  • अहं कर्ता अहङ्कृतिः / अहङ्कारः ।
  • चिन्तन-कर्तृ चित्तम् ।
  • मनसो देवता चन्द्रमाः ।
  • बुद्धेर्ब्रह्मा ।
  • अहङ्कारस्य रुद्रः ।
  • चित्तस्य वासुदेवः ।
  • मनसः देवता चन्द्रमाः ।
  • बुद्धेः ब्रह्मा ।
  • अहङ्कारस्य रुद्रः ।
  • चित्तस्य वासुदेवः ।
  • एतेषां पञ्चतत्त्वानां मध्य आकाशस्य राजसांशाद्वागिन्द्रियं सम्भूतम् ।
  • वायो राजसांशात्पाणीन्द्रियं सम्भूतम् ।
  • वह्ने राजसांशात्पादेन्द्रियं सम्भूतम् ।
  • एतेषां पञ्च-तत्त्वानां मध्ये आकाशस्य राजस+अंशात् वाक्+इन्द्रियं सम्भूतम् ।
  • वायोः राजस+अंशात् पाणि+इन्द्रियं सम्भूतम् ।
  • वह्नेः राजस+अंशात् पाद+इन्द्रियं सम्भूतम् ।
  • जलस्य राजसांशाद्गुदेन्द्रियं / उपस्थेन्द्रियं सम्भूतम् ।
  • पृथिव्या राजसांशादुपस्थेन्द्रियं / गुदेन्द्रियं सम्भूतम् ।
  • एतेषां समष्टिराजसांशात्पञ्चप्राणाः सम्भूताः।
  • एतेषां पञ्चतत्त्वानां तामसांशात्पञ्चीकृतपञ्चतत्त्वानि भवन्ति ।
  • जलस्य राजस+अंशात् गुद+इन्द्रियं / उपस्थ+इन्द्रियं सम्भूतम् ।
  • पृथिव्याः राजस+अंशात् उपस्थ+इन्द्रियं / गुद+इन्द्रियं सम्भूतम् ।
  • एतेषां समष्टि-राजस+अंशात् पञ्च-प्राणाः सम्भूताः ।
  • एतेषां पञ्च-तत्त्वानां तामस+अंशात् पञ्ची-कृत-पञ्च-तत्त्वानि भवन्ति ।
  • पञ्चीकरणं कथमिति चेत् एतेषां पञ्चमहाभूतानां तामसांशस्वरूपमेकमेकं भूतं द्विधा विभज्यैकमेकमर्धं पृथक्तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धा विभज्य स्वार्धभिन्नेषु / स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं [कार्यम् । तदा] पञ्चीकरणं भवति ।
  • पञ्ची-करणं कथम् इति चेत्, एतेषां पञ्च-महा-भूतानां तामस+अंश-स्वरूपम् एकम् एकं भूतं द्विधा विभज्य, एकम् एकम् अर्धं पृथक् तूष्णीं व्यवस्थाप्य, अपरम् अपरम् अर्धं चतुर्धा विभज्य, स्व+अर्ध-भिन्नेषु / स्व+अर्धम् अन्येषु अर्धेषु स्व-भाग-चतुष्टय-संयोजनं [कार्यम् । तदा] पञ्चीकरणं भवति ।
  • एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति ।
  • एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् ।
  • स्थूलशरीराभिमानी जीवनामकं ब्रह्मप्रतिबिम्बं भवति ।
  • स एव जीवः प्रकृत्या स्वस्मादीश्वरं भिन्नत्वेन जानाति ।
  • एतेभ्यः पञ्चीकृत-पञ्चमहाभूतेभ्यः स्थूल-शरीरं भवति ।
  • एवं पिण्ड-ब्रह्माण्डयोः ऐक्यं सम्भूतम् ।
  • स्थूलशरीर+अभिमानी जीव-नामकं ब्रह्म-प्रतिबिम्बं भवति ।
  • सः एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति ।
  • अविद्योपाधिः सन्नात्मा जीव इत्युच्यते ।
  • मायोपाधिः सन्नात्मेश्वर / सनीश्वर इत्युच्यते ।
  • एवमुपाधिभेदाज्जीवेश्वरभेददृष्टिर्यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते ।
  • तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या ।
  • अविद्या+उपाधिः सन् आत्मा जीवः इति उच्यते ।
  • माया+उपाधिः सन् [आत्मा] ईश्वरः इति उच्यते ।
  • एवम् उपाधि-भेदात् जीव+ईश्वर-भेद-दृष्टिः यावत्-पर्यन्तं तिष्ठति तावत्-पर्यन्तं जन्म-मरण+आदि-रूप-संसारः न निवर्तते ।
  • तस्मात् कारणात् न जीव+ईश्वरयोः भेद-बुद्धिः स्वीकार्या ।
  • ननु साहङ्कारस्य किञ्चिज्ज्ञस्य जीवस्य निरहङ्कारस्य सर्वज्ञस्येश्वरस्य तत्त्वमसीति महावाक्यात्कथमभेदबुद्धिः स्यादुभयोर्विरुद्धधर्माक्रान्तत्वात् ।
  • इति चेन्न।
  • ननु स+अहङ्कारस्य किञ्चित्+ज्ञस्य जीवस्य, निः+अहङ्कारस्य सर्व-ज्ञस्य ईश्वरस्य, ‘तत् त्वम् असि’ इति महा-वाक्यात्, कथम् अभेद-बुद्धिः स्यात् उभयोः विरुद्ध-धर्म+आक्रान्तत्वात्।
  • इति चेत् न ।
  • स्थूलसूक्ष्मशरीराभिमानी त्वम्पदवाच्यार्थः ।
  • उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वम्पदलक्ष्यार्थः ।
  • स्थूल-सूक्ष्म-शरीर+अभिमानी त्वम्-पद-वाच्य+अर्थः ।
  • उपाधि-विनिर्मुक्तं समाधि-दशा-सम्पन्नं शुद्धं चैतन्यं त्वम्-पद-लक्ष्य+अर्थः ।
  • एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः।
  • उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः ।
  • एवं च जीवेश्वरयोश्चैतन्यरूपेणाभेदे बाधकाभावः ।
  • एवं सर्वज्ञत्व+आदि-विशिष्टः ईश्वरः तत्-पद-वाच्य+अर्थः ।
  • उपाधि-शून्यं शुद्ध-चैतन्यं तत्-पद-लक्ष्य+अर्थः ।
  • एवं च जीव+ईश्वरयोः चैतन्य-रूपेण अभेदे बाधक+अभावः ।
  • एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः भवन्ति / इत्यर्थः ।
  • ननु जीवन्मुक्तः कः ?
  • एवं च वेदान्त-वाक्यैः सद्गुरु+उपदेशेन च सर्वेषु अपि भूतेषु येषां ब्रह्म-बुद्धिः उत्पन्ना, ते जीवत्+मुक्ताः भवन्ति / इति अर्थः ।
  • ननु जीवन्मुक्तः कः ?
  • यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणो न शूद्रो न पुरुषः किन्त्वसङ्गः सच्चिदानन्दस्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चयरूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः।
  • यथा ‘देहः अहं, पुरुषः अहं, ब्राह्मणः अहं, शूद्रः अहम् अस्मि’ इति दृढ-निश्चयः तथा ‘न अहं ब्राह्मणः, न शूद्रः, न पुरुषः, किन्तु असङ्गः, सत्+चित्+आनन्द-स्वरूपः, प्रकाश-रूपः, सर्व+अन्तः+यामी, चित्+आकाश-रूपः अस्मि’ इति दृढ-निश्चय-रूपः अपरोक्ष-ज्ञानवान् जीवन्मुक्तः ।
  • ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तिः / निखिलकर्मबन्धविनिर्मुक्तः स्यात् ।
  • कर्माणि कति विधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति ।
  • ‘ब्रह्म एव अहम् अस्मि’ इति अपरोक्ष-ज्ञानेन निखिल-कर्म-बन्ध-विनिर्मुक्तिः / निखिल-कर्म-बन्ध-विनिर्मुक्तः स्यात् ।
  • ‘कर्माणि कति विधानि सन्ति’ इति चेत्, आगामि-सञ्चित-प्रारब्ध-भेदेन त्रि-विधानि सन्ति ।
  • [आगामि कर्म किम् ?]
  • ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते ।
  • [आगामि कर्म किम् ?]
  • ज्ञान+उत्पत्ति+अनन्तरं ज्ञानि-देह-कृतं पुण्य-पाप-रूपं कर्म यद् अस्ति तद् आगामि इति अभिधीयते ।
  • सञ्चितं कर्म किम् ?
  • अनन्तकोटिजन्मनां बीजभूतं सद् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् ।
  • सञ्चितं कर्म किम् ?
  • अनन्त-कोटि-जन्मनां बीज-भूतं सत्, यत् कर्म-जातं पूर्व+अर्जितं तिष्ठति, तत् सञ्चितं ज्ञेयम् ।
  • प्रारब्धं कर्म किमिति चेत्
  • इदं शरीरमुत्पाद्येह लोक एवम् / एव सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धम् ।
  • भोगेन नष्टं भवति ।
  • प्रारब्धकर्मणां भोगादेव क्षय इति ।
  • ‘प्रारब्धं कर्म किम्’ इति चेत्
  • इदं शरीरम् उत्पाद्य, इह लोके एवम् / एव सुख-दुःख+आदि-प्रदं यत् कर्म, तत् प्रारब्धम् ।
  • भोगेन नष्टं भवति ।
  • प्रारब्ध-कर्मणां भोगात् एव क्षयः इति ।
  • सञ्चितं कर्म ब्रह्मैवाहमस्मिति निश्चयज्ञानेन / ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति ।
  • आगामिकर्मापि ज्ञानेन नश्यति ।
  • किञ्चागामिकर्मणां नलिनीदलगतजलवज्ज्ञानिनां सम्बन्धो नास्ति ।
  • सञ्चितं कर्म ‘ब्रह्म एव अहम् [अस्मि]’ इति निश्चय-ज्ञानेन / निश्चय+आत्मक-ज्ञानेन नश्यति ।
  • आगामि-कर्म अपि ज्ञानेन नश्यति ।
  • किञ्च आगामि-कर्मणां नलिनी-दल-गत-जलवत् ज्ञानिनां सम्बन्धः न अस्ति ।
  • किञ्च ये ज्ञानिनं स्तुवन्ति भजन्त्यर्चयन्ति तान्प्रति ज्ञानिकृतमागामि पुण्यं गच्छति।
  • ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति।
  • [सुहृदः पुण्यकृत्यं दुर्हृदः पापकृत्यं गृह्णन्ति ।]
  • किञ्च ये ज्ञानिनं स्तुवन्ति, भजन्ति, अर्चयन्ति, तान् प्रति ज्ञानि-कृतं आगामि पुण्यं गच्छति ।
  • ये ज्ञानिनं निन्दन्ति, द्विषन्ति, दुःख-प्रदानं कुर्वन्ति, तान् प्रति ज्ञानि-कृतं सर्वम् आगामि क्रियमाणं यद् अवाच्यं कर्म पाप+आत्मकं, तद् गच्छति ।
  • [सुहृदः पुण्य-कृत्यं, दुर्हृदः पाप-कृत्यं गृह्णन्ति ।]
  • तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति ।
  • तरति शोकमात्मविदिति श्रुतेः ।
  • तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथवा।
  • ज्ञानसम्प्राप्तिसमये मुक्तोऽसौ विगताशय इति स्मृतेश्च ।
  • इति तत्त्वबोधप्रकरणं समाप्तम् ।
  • तथा च आत्मवित् संसारं तीर्त्वा ब्रह्म+आनन्दम् इह एव प्राप्नोति ।
  • ‘तरति शोकम् आत्मवित्’ इति श्रुतेः ।
  • तनुं त्यजतु वा काश्यां श्वपचस्य गृहे अथवा ।
  • ज्ञान-सम्प्राप्ति-समये मुक्तः असौ विगत+आशयः इति स्मृतेः च ।
  • इति तत्त्व-बोध-प्रकरणं समाप्तम् ।