Kruthi – Gowripate Pashupate

कृतिः –  गौरीपते पशुपते
रागम् – वन्दनधारिणी ; तालम् – आदि ; साहित्यकारः – एस्. मारलिङ्गम्

पल्लवी 

गौरीपते पशुपते कृपानिधे — कैलासपते  मां पाहि जगत्पते |

अनुपल्लवी 
गौरीविनुत शिवशंकर शशिधर  — सकलजीवाधार सच्चिदानन्दकर | (गौरीपते)
चरणम्
भवरोगहरचतुर पञ्चवदनमूर्ते  — भुवनाभरणभूतगणपते सुरपते
कविजनसन्नुत लिङ्गराजविनुत — कामदहन कपालीश्वर भूपते |
मध्यमकालम्
नवमणिविलसितचित्सभापते — नारदादिमुनिजनाधिपते | (गौरीपते)

Sri Hari Vishnu Prathassmaranam

Sri Hari Prathassmaranam and Sri Vishnu Prathassmaranam

॥ श्रीहरिप्रातःस्मरणम् ॥

श्लोकः 1 श्रीहरिप्रातःस्मरणम्

ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन्
व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः ।
आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटो
हस्तैः कौमोदकीमप्यवतु हरिरसावंहसां संहतेर्नः ॥ १ ॥

पदच्छेदः

ग्राहग्रस्ते गजेन्द्रे रुवति सरभसम् तार्क्ष्यम् आरुह्य धावन् व्याघूर्णन् माल्य-भूषा-वसन-परिकरः मेघ-गम्भीर-घोषः आबिभ्राणः रथाङ्गम् शरम् असिम् अभयम् शङ्ख-चापौ सखेटः हस्तैः कौमोदकीम् अपि अवतु हरिः असौ अंहसां संहतेः नः

अन्वयः

ग्राहग्रस्ते गजेन्द्रे रुवति, तार्क्ष्यं सरभसम् आरुह्य धावन् व्याघूर्णन्,  माल्यभूषावसनपरिकरः मेघगम्भीरघोषः, रथाङ्गं शरम् असिं शङ्खचापौ कौमोदकीम् अभयम् अपि हस्तैः आबिभ्राणः सखेटः असौ हरिः अंहसाम् संहतेः नः अवतु |

अन्वयक्रमः

  • अवतु [ रक्षतु | अव् “अवँ रक्षण-गति-कान्ति-प्रीति-तृप्ति-अवगम-प्रवेश-श्रवण-स्वाम्यर्थ-याचनक्रियेच्छा-दीप्ति-अवाप्ति-आलिङ्गन-हिंसादान-भागवृद्धिषु”, लोट्. ]
    • कः अवतु ? असौ हरिः [ एषः हरिः ]
      • कीदृशः हरिः ? आबिभ्राणः [ आ + भृ + शानच् प्रत्ययः | धृतमानः ]
        • किं किम् आबिभ्राणः ? रथाङ्गं शरम् असिं शङ्खचापौ कौमोदकीम् अभयम् अपि [ चक्रं बाणः छुरिका शङ्खं धनुं कौमोदकीगदा अभयम् च ]
        • कैः आबिभ्राणः ? हस्तैः
      • पुनः कीदृशः हरिः ? सखेटः [ यः खेटेन शरवारणेन सह वर्तते सः ]
      • पुनः कीदृशः हरिः ? माल्यभूषावसनपरिकरः [ मालाः भूषाः वसनानि इत्येतैः परिवेष्टितः ]
      • पुनः कीदृशः हरिः ? मेघगम्भीरघोषः [ यस्य शब्दः मेघस्य इव गम्भीरः अस्ति तादृशः हरिः ]
      • कथम्भूतः हरिः ? व्याघूर्णन् [ कम्पनं कुर्वन् ]
      • पुनः कथम्भूतः हरिः ? धावन्
        • किं कृत्वा धावन् ? आरुह्य
          • कम् आरुह्य ? तार्क्ष्यम् [ गरुडम् ]
          • कथम् आरुह्य ? सरभसम् [ झटिति ]
        • कस्मात् अवतु ? संहतेः [ राशेः ]
          • केषां संहतेः ? अंहसाम् [ पीडानाम् ]
        • कान् अवतु ? नः [ अस्मान् ]
        • कदा अवतु ? रुवति सति [ यदा रोदति ]
          • कस्मिन् रुवति सति ? गजेन्द्रे
            • कीदृशे गजेन्द्रे ? ग्राहग्रस्ते [ मकरेण परिगृहीते ]

समासः

  • शङ्खचापौ = शङ्खं च चापं च
  • सखेटः = खेटेन सह वर्तते इति
  • माल्यभूषावसनपरिकरः
    • माल्यभूषावसनानि = माल्यानि भूषाः वसनानि च
    • माल्यभूषावसनपरिकरः = माल्यभूषावसनैः परिकरः
  • मेघगम्भीरघोषः
    • गम्भीरघोषः = गम्भीरः च असौ घोषः
    • मेघगम्भीरघोषः = मेघस्य इव गम्भीरघोषः यस्य सः
  • सरभसम्
    • सरभसम् = रभसेन सह

May this (अदस्) Hari (हरि),
He who is adoring the embellishments (आङ्+भृ) of the Chakra (रथाङ्ग), the arrow (शर), the sword (असि), the conch and the bow (शङ्ख-चाप), the mace named Kaumodikee (कौमोदकी), and (अपि) the Abhaya gesture of the hand assuring safety (अभय), with his multiple hands (हस्त),
He who is adorned with a shield (स-खेट),
He who is covered by garland, ornaments and apparels (माल्य-भूषा-वसन-परिकर),
He whose voice is majestic like that of the clouds (मेघ-गम्भीर-घोष),
He who was trembling (वि+आङ्+घूर्णत्) and came running (धावत्) after immediately (सरभसम्) ascending (आङ्+रुह्) on Garuda (तार्क्ष्य), when Gajendra (गजेन्द्र), who had been seized by the crocodile (ग्राह-ग्रस्त) was crying (रुवत्),
may He protect (अव्) us (अस्मद्) from the series (संहति) of troubles (अंहस्)

श्लोकः 2 श्रीहरिप्रातःस्मरणम्

नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने
नाहं नाहं न च भवति पुनस्तादृशो मादृशेषु ।
इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते
मूलं यत्प्रादुरासीत्स दिशतु भगवान् मङ्गलं सन्ततं नः  ॥ २ ॥

पदच्छेदः

नक्राक्रान्ते करीन्द्रे मुकुलित-नयने मूलमूल इति खिन्ने न अहम् न अहम् न च भवति पुनः तादृशः मादृशेषु इति एवम् त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते मूलम् यत् प्रादुः आसीत् सः दिशतु भगवान् मङ्गलम् सन्ततम् नः

अन्वयः

नक्राक्रान्ते मुकुलितनयने खिन्ने करीन्द्रे “मूलमूल” इति (वदति सति), “अहं न | अहं न | पुनः मादृशेषु तादृशः न भवति च” इति एवं त्यक्तहस्ते भावशून्ये समस्ते सुरगणे (वदति सति), यत् मूलं सपदि प्रादुः आसीत्, सः भगवान् नः सन्ततं मङ्गलं दिशतु |

अन्वयक्रमः

  • दिशतु [ दर्शयतु | दिश् “दिशँ अतिसर्जने”, लोट्., प्र.पु., ए.व. ]
    • किं दिशतु ? मङ्गलम्
    • कदा दिशतु ? सन्ततम्
    • केभ्यः दिशतु ? नः [ अस्मभ्यम् ]
    • कः दिशतु ? सः भगवान्
      • कीदृशः सः ? यत् मूलं प्रादुः आसीत् [ यत् मूलं प्रत्यक्षः अभवत् ]
        • कथं प्रादुः आसीत् ? सपदि [ तत्क्षणम् ]
        • कदा प्रादुः आसीत् ? (वदति सति)
          • कस्मिन् वदति सति ? सुरगणे
            • कीदृशे सुरगणे ? समस्ते
            • पुनः कीदृशे सुरगणे ? भावशून्ये
            • पुनः कीदृशे सुरगणे ? त्यक्तहस्ते
          • किमिति वदति सति ? “अहं न | अहं न | पुनः मादृशेषु तादृशः न भवति च” इति एवम्
        • पुनः कदा प्रादुः आसीत् ? (वदति सति)
          • कस्मिन् वदति सति ? करीन्द्रे [ गजेन्द्रः ]
            • कीदृशे करीन्द्रे ? खिन्ने [ दुःखिते ]
            • पुनः कीदृशे करीन्द्रे ? मुकुलितनयने [ यस्य द्वे नयने विकसिते, तस्मिन् ]
            • पुनः कीदृशे करीन्द्रे ? नक्राक्रान्ते [ यः गजेन्द्रः मकरेण आक्रान्तः, तस्मिन् ]
          • किमिति वदति सति ? “मूलमूल” इति

When (सत्) the sad (खिन्न) Gajendra, the Lord of the elephants (करी-इन्द्र), who was attacked by the crocodile (नक्र-आक्रान्त), with wide opened eyes (मुकुलित-नयन), called out (वदत्) saying thus (इति) “O Root of the roots!” (मूल-मूल),
when the entire (समस्त) group of Devas (सुरगण), who had no feelings (भाव-शून्य), who gave up on him (literally, abandoning the hand that is reaching out for help) (त्यक्त-हस्त), in this way (एवम्), saying thus (इति), “Not me (अस्मद्-अहम्) (न)! Not me (अस्मद्-अहम्) (न)! Again (पुनः) there is (भू-भवति) also (च) no (न) such a person (तादृश) amidst beings like us (मादृश)”,
at that instant (सपदि), whichever (यत्) source (मूल) became (अस्-आसीत्) manifested (प्रादु), may that (तत्-सः) Bhagavan (भगवत्) always (सन्ततम्) show (दिश्) us (अस्मद्-नः) auspiciousness (मङ्गल).

समासः

  • भावशून्ये = भावेन शून्यः, तस्मिन्
  • त्यक्तहस्ते = हस्तं त्यक्तं येन सः, तस्मिन्
  • करीन्द्रे = करीणां इन्द्रः, तस्मिन्
  • मुकुलितनयने = यस्य नयने मुकुलिते सः, तस्मिन्
  • नक्राक्रान्ते = नक्रेण आक्रान्तः, तस्मिन्
  • मूलमूल = मूलस्य मूलम्, संबोधनः

श्लोकः 1 श्रीविष्णोः प्रातःस्मरणम्

॥ श्रीविष्णोः प्रातःस्मरणम् ॥

प्रातः स्मरामि भवभीतिमहार्तिशान्त्यै — नारायणं गरुडवाहनमब्जनाभम् ।
ग्राहाभिभूतवरवारणमुक्तिहेतुं — चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ १ ॥

पदच्छेदः

प्रातः स्मरामि भवभीति-महा-(आ)र्ति-शान्त्यै नारायणम् गरुडवाहनम् अब्जनाभम् ग्राह-(अ)भिभूत-वरवारण-मुक्ति-हेतुं चक्रायुधम् तरुण-वारिज-पत्र-नेत्रम्

अन्वयः

गरुडवाहनम् अब्जनाभं ग्राहाभिभूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रं नारायणं भवभीतिमहार्तिशान्त्यै प्रातः स्मरामि |

अन्वयक्रमः

  • स्मरामि [ स्मृ “स्मृ चिन्तायाम्” ]
    • कः / का स्मरति ? अहम् स्मरामि
    • कदा स्मरामि ? प्रातः
    • किमर्थं स्मरामि ? भवभीतिमहार्तिशान्त्यै
    • कं स्मरामि ? नारायणम्
      • कीदृशं नारायणम् ? गरुडवाहनम्
      • पुनः कीदृशं नारायणम् ? अब्जनाभम् [ पद्मनाभम् ]
      • पुनः कीदृशं नारायणम् ? ग्राहाभिभूतवरवारणमुक्तिहेतुम् [ गजानां वरः गजेन्द्रः मकरेण गृहीतः | तस्य मुक्तेः हेतुम् नारायणम् ]
      • पुनः कीदृशं नारायणम् ? चक्रायुधम्
      • पुनः कीदृशं नारायणम् ? तरुणवारिजपत्रनेत्रम् [ यस्य नयने नूतने कमलपत्रे इव अस्ति, तम् ]

समासः

  • गरुडवाहनम्
    • गरुडवाहनम् = गरुडः वाहनम् यस्य सः
  • भवभीतिमहार्तिशान्त्यै
    • भवभीतिः = भवात् भीतिः
    • महार्तिः = महती आर्तिः
    • भवभीतिमहार्तिः = भवभीतिः एव महार्तिः
    • भवभीतिमहार्तिशान्त्यै = भवभीतिमहार्तेः शान्तिः, तस्यै
  • ग्राहाभिभूतवरवारणमुक्तिहेतुम्
    • ग्राहाभिभूतः = ग्राहेण अभिभूतः
    • वरवारणः = वारणानां गजानां वरः
    • ग्राहाभिभूतवरवारणः = ग्राहाभिभूतः च असौ वरवारणः
    • ग्राहाभिभूतवरवारणमुक्तिः = ग्राहाभिभूतवरवारणस्य मुक्तिः
    • ग्राहाभिभूतवरवारणमुक्तिहेतुम् = ग्राहाभिभूतवरवारणमुक्तेः हेतुः, तम्
  • चक्रायुधम्
    • चक्रायुधम् = चक्रः आयुधः यस्य सः, तम्
  • तरुणवारिजपत्रनेत्रम् [ यस्य नयने कोमले कमलपत्रे इव अस्ति, तम् ]
    • तरुणवारिजपत्रम् = तरुणं च तत् वारिजपत्रम्
    • तरुणवारिजपत्रनेत्रम् = तरुणवारिजपत्रे इव नयने यस्य सः, तम्

श्लोकः 2 श्रीविष्णोः प्रातःस्मरणम्

प्रातर्नमामि मनसा वचसा च मूर्ध्ना — पादारविन्दयुगलं परमस्य पुंसः ।
नारायणस्य नरकार्णवतारणस्य — पारायणप्रवणविप्रपरायणस्य ॥ २ ॥

पदच्छेदः

प्रातः नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलम् परमस्य पुंसः नारायणस्य नरक-(अ)र्णव-तारणस्य पारायण-प्रवण-विप्रपरायणस्य

अन्वयः

पारायण-प्रवण-विप्रपरायणस्य नरकार्णव-तारणस्य परमस्य पुंसः नारायणस्य पादारविन्दयुगलं मनसा वचसा मूर्ध्ना च प्रातः नमामि |

अन्वयक्रमः

v  नमामि [ नम् “णमँ प्रहत्वे शब्दे च” ]

  • कः / का नमति ? अहम्
  • कदा नमामि ? प्रातः
  • केन केन नमामि ? मनसा वचसा मूर्ध्ना च [ मनः वाक् शिरः च उपयुज्य ]
  • किं नमामि ? पादारविन्दयुगलम् [ द्वौ अरविन्दपादौ ]
    • कस्य पादारविन्दयुगलम् ? नारायणस्य
      • कीदृशस्य नारायणस्य ? पारायण-प्रवण-विप्रपरायणस्य [ ये विप्राः पारायणे दक्षाः भवन्ति तेषां परंगतिः नारायणः भवति | तस्य ]
      • पुनः कीदृशस्य नारायणस्य ? नरकार्णव-तारणस्य [ येन कारणेन वयं भवसागरस्य तरणं कुर्मः सः, तस्य ]
      • पुनः कीदृशस्य नारायणस्य ? परमस्य पुंसः [ यः परमपुरुषः तस्य ]

समासः

  • पारायणप्रवणविप्रपरायणस्य
    • पारायणप्रवणाः = पारायणे प्रवणाः
    • पारायणप्रवणविप्राः = पारायणप्रवणाः च अमी विप्राः
    • पारायणप्रवणविप्रपरायणस्य = पारायणप्रवणविप्राणां परायणः, तस्य
  • नरकार्णवतारणस्य
    • नरकार्णवम् = नरकम् एव अर्णवम्
    • नरकार्णवतारणस्य = नरकार्णवं तारयति इति नरकार्णवतारणः, तस्य

श्लोकः 3 श्रीविष्णोः प्रातःस्मरणम्

प्रातर्भजामि भजतामभयङ्करं तं — प्राक्सर्वजन्मकृतपापभयापहत्यै ।

यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर-शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ३ ॥

पदच्छेदः

प्रातः भजामि भजताम् अभयङ्करम् तम् प्राक्-सर्व-जन्म-कृत-पाप-भय-(अ)पहत्यै

यः ग्राह-वक्त्र-पतित-(अ)ङ्घ्रि-गजेन्द्र-घोर-शोक-प्रणाशन-करः धृत-शङ्ख-चक्रः

अन्वयः

यः ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोरशोकप्रणाशनकरः धृतशङ्खचक्रः, भजताम् अभयङ्करम् तम् प्राक्सर्वजन्मकृतपापभयापहत्यै प्रातः भजामि |

अन्वयक्रमः

  • भजामि [ भज् “भजँ सेवायाम्” ]
    • कः / का भजति ? अहम्
    • कदा भजामि ? प्रातः
    • किमर्थं भजामि ? प्राक्सर्वजन्मकृतपापभयापहत्यै [ यत् भयं पूर्वजन्मकृतपापात् भवति तस्य निवारणाय ]
    • कं भजामि ? अभयङ्करम् तम् [ रक्षकम् ]
      • केषाम् अभयङ्करम् ? भजताम् [ ये भजन्ति तेषाम् ]
      • कीदृशं तम् ? यः धृतशङ्खचक्रः [ यः शङ्खं चक्रं च पाणौ धरति ]
        • पुनः कीदृशः सः? ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोरशोकप्रणाशनकरः [ मकरस्य मुखे गजेन्द्रस्य पादः पतितः | गजेन्द्रस्य शोकं यः नाशयितवान् सः ]

श्लोकः – फलस्तुतिः

श्लोकत्रयमिदं पुण्यं प्रातरुत्थाय यः पठेत् — लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः ||

पदच्छेदः

श्लोकत्रयम् इदम् पुण्यम् प्रातः उत्थाय यः पठेत् लोकत्रयगुरुः तस्मै दद्यात् आत्मपदम् हरिः

अन्वयः

यः प्रातः उत्थाय पुण्यम् इदम् श्लोकत्रयं पठेत् तस्मै लोकत्रयगुरुः हरिः आत्मपदं दद्यात् |

अन्वयक्रमः

  • दद्यात् [ दा “डुदाञ् दाने”, विधिलिङ्., प्र.पु., ए.व. ]
    • किं दद्यात् ? आत्मपदम्
    • कः दद्यात् ? हरिः
      • कीदृशः हरिः ? लोकत्रयगुरुः
    • कस्मै दद्यात् ? तस्मै
      • कीदृशाय तस्मै ? यः पठेत् तस्मै
        • किं पठेत् ? इदं श्लोकत्रयम्
          • कीदृशं श्लोकत्रयम् ? पुण्यम्
        • किं कृत्वा पठेत् ? उत्थाय
          • कदा उत्थाय ? प्रातः

॥ इति श्रीविष्णोः प्रातःस्मरणम् ॥

References:

 

Kriti – Sujanajeevana Raama – Tyaagaraaja

Sujanajeevana Raama – Sri Tyaagaraaja – Smt. Geetha Ramanathan Bennett – Khamaas – Rupakam

This video has Anvaya – Prose order of Sanskrit words and Bhaavaartha – the purport in Sanskrit. There is another video with the English meaning.
सुजनजीवन – Sujanajeevana
रचयिता – श्री. त्यागराजः Composed by Sri Tyaagaraaja
गायिका – श्रीमती गीता रामनाथन् बेन्नेट्
Sung by Smt. Geetha Ramanathan Bennett

पल्लवी
सुजनजीवन राम सुगुणभूषण राम ।
अन्वयः – (हे) सुजनजीवन । (हे) राम । (हे) सुगुणभूषण । (हे) राम ।
भावार्थः – हे राम । त्वम् उत्तमजनानां जीवनम् असि । त्वम् उत्तमगुणैः भूषितः असि ।
समासाः
सुजनजीवन = सुजनानां जीवनं यस्मिन् सः सुजनजीवनः, सम्बोधने सुजनजीवन|
सुगुणभूषण = सुगुणाः एव भूषणाः यस्य सः सुगुणभूषणः, सम्बोधने सुगुणभूषण|

अनुपल्लवी
भुजगभूषणार्चित बुधजनावनात्मज- वन्दित श्रितचन्दन दशतुरङ्ग मामव 
अन्वयः – (हे) भुजगभूषणार्चित । (हे) बुधजनावन । (हे) आत्मजवन्दित । (हे) श्रितचन्दन । (हे) दशतुरङ्ग । (त्वं) माम् अव ।
भावार्थः – हे राम । सर्पैः भूषितः शङ्करः त्वाम् अर्चयति । त्वं धीमतां रक्षकः असि । आत्मजेन ब्रह्मणा त्वं वन्दितः असि । ये जनाः त्वयि आश्रयम् इच्छन्ति तेषां मनसि चन्दनः इव त्वं शीतलताम् उत्पादयति । त्वं दशतुरङ्गैः युक्तस्य रथस्य स्वामीनः दशरथस्य इक्ष्वाकुवंशे जातः असि । त्वं मां रक्षतु ।

समासाः

  • भुजगभूषणार्चित
    • भुजगाः एव भूषणानि यस्य सः, भुजगभूषणः
    • भुजगभूषणेन अर्चितः भुजगभूषणार्चितः, सम्बोधने भुजगभूषणार्चित
  • बुधजनावन
    • बुधाः ते जनाः बुधजनाः
    • बुधजनानां आवनः बुधजनावनः, सम्बोधने बुधजनावन
  • आत्मजवन्दित
    • आत्मना जनितः आत्मजः
    • आत्मजेन वन्दितः आत्मजवन्दितः, सम्बोधने आत्मजवन्दित
  • श्रितचन्दन
    • श्रितानां चन्दनः श्रितचन्दनः, सम्बोधने श्रितचन्दन
  •  दशतुरङ्ग
    • दश तुरङ्गा: यस्मिन् सन्ति इति दशतुरङ्ग: (अत्र रथ:। )
      दशतुरङ्ग: (दशतुरङ्गैः युक्तः रथः) यस्य रथ: सः, दशतुरङ्गः (दशरथः)
      दशतुरङ्गस्य कुले भवः , दशतुरङ्गः  दशतुरङ्ग ,सम्बोधने दशतुरङ्ग

चरणम्
चारुनेत्र श्रीकलत्र श्रीरम्यगात्र तारकनाम सुचरित्र दशरथपुत्र ।
तारकाधिपानन धर्मपालक तारय रघुवर निर्मल त्यागराजसन्नुत ।
अन्वयः – (हे) चारुनेत्र श्रीकलत्र श्रीरम्यगात्र तारकनाम सुचरित्र दशरथपुत्र तारकाधिपानन धर्मपालक रघुवर निर्मल त्यागराजसन्नुत । (त्वं मां) तारय । भावार्थः – हे राम । तव नेत्रयोः चारुत्वमस्ति । त्वं श्रियः पतिः असि । लक्ष्मीः तव शरीरे रमयते । तव नाम रामनामतारकं भूत्वा भवसागरं तरितुम् अस्माकम् उपायः भवति । तव चरित्रं सुष्ठु अस्ति । त्वं दशरथस्य पुत्रः असि । तव मुखं तारकाणाम् अधिपः चन्द्रः इव अस्ति । त्वं सम्यक् धर्मं पालयति । त्वं रघुवंशराजेषु श्रेष्ठः असि । त्वयि दोषः नास्ति । त्वं त्यागराजेन सम्यक् वन्दितः असि ।यथा अहम् अस्मिन् भवसागरात् मुक्तः भवामि तथा कुरु ।

समासाः

  • चारुनेत्र
    • चारू नेत्रे यस्य सः चारुनेत्रः, सम्बोधने चारुनेत्र
  • श्रीकलत्र
    • श्रीः कलत्रं यस्य सः श्रीकलत्रः, सम्बोधने श्रीकलत्र
  • श्रीरम्यगात्र
    • रम्यं गात्रं यस्य सः रम्यगात्रः
    • श्रियः रम्यगात्रः श्रीरम्यगात्रः, सम्बोधने श्रीरम्यगात्र
  • तारकनाम
    • तारकं नाम यस्य सः तारकनामः, सम्बोधने तारकनाम
  • सुचरित्र
    • सुष्ठु चरित्रं यस्य सः सुचरित्रः, सम्बोधने सुचरित्र
  • दशरथपुत्र
    • दशरतस्य पुत्रः दशरथपुत्रः, सम्बोधने दशरथपुत्र
  • तारकाधिपानन
    • तारकाणां अधिपः तारकाधिपः
    • तारकाधिपस्य आननं यस्य सः तारकाधिपाननः, सम्बोधने तारकाधिपानन
  • धर्मपालक
    • पालनं करोति इति पालकः
    • धर्मस्य पालकः धर्मपालकः, सम्बोधने धर्मपालक
  • रघुवर
    • रघुषु वरः रघुवरः, सम्बोधने रघुवर
  • निर्मल
    • मलं न वर्तते यस्मिन् इति निर्मलः, सम्बोधने निर्मल
  • त्यागराजसन्नुत
    • सम्यक् नुतः सन्नुतः
    • त्यागराजेन सन्नुतः त्यागराजसन्नुतः, सम्बोधने त्यागराजसन्नुत

(हे) राम O Raama, सुजनजीवन O the very life (जीवन) of virtuous people (सु-जन)! (हे) राम O Raama, सुगुणभूषण O one adorned (भूषण) with virtues (सु-गुण)!

भुजगभूषणार्चित O one worshipped (अर्चित) by Shiva, whose ornaments (भूषणा) are serpents (भुजग) । बुधजनावन O protector (अवन) of wise men (बुधजन) । आत्मजवन्दित O one worshipped (वन्दित) by Lord Brahma, born from yourself (आत्म-ज) as the son of Vishnu । श्रितचन्दन O one who is pleasing like the sandal (चन्दन) for the refuge seekers (श्रित) । दशतुरङ्ग O son of Dasharatha, who has the chariot with ten (दश) horses (तुरङ्ग) । (त्वम्) अव You protect माम् me.

चारु-नेत्र O one with attractive (चारु) eyes (नेत्र) । श्रीकलत्र O one whose wife (कलत्र) is Sri Lakshmi (श्री) । श्रीरम्यगात्र O one whose body (गात्र) is relished (रम्य) by Lakshmi (श्री) । तारक-नाम O one whose name itself is the saviour । सु-चरित्र O one whose conduct is virtuous । दशरथ-पुत्र O son of Dasharatha । तारकाधिपानन O one whose face (आनन) is like the moon, the Lord (अधिप) of the stars (तारक)। धर्म-पालक O nourisher of Dharma । रघु-वर O the best in Raghu’s clan । निर्-मल O one devoid of blemishes (मल) । त्यागराज-सन्नुत O one nicely worshipped by Tyaagaraaja । (त्वं मां) तारय You make me cross (the ocean of samsaara).

 

कृतिः

प. सुजनजीवन राम सुगुणभूषण राम ।

अ. भुजगभूषणार्चित बुधजनावनात्मज-
वन्दित श्रित चन्दन दश तुरंग मामव । (सुजन)

च. चारुनेत्र श्रीकळत्र श्रीरम्यगात्र
तारकनाम सुचरित्र दशरथपुत्र ।
तारकाधिपानन धर्मपालक
तारय रघुवर निर्मल त्यागराजसन्नुत ।  (सुजन)

Reference: