Kathopanishad – Sriram Mahadevan

Here is the material related to the Kathopanishad shlokas covered in the online sessions taken by Sri. Sriram Mahadevan. 

ॐ अथ कठोपनिषद्
ॐ सह नाववतु । सह नौ भुनक्तु । सहवीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ नमो भगवते वैवस्वताय मृत्यवे ब्रह्मविद्याचार्याय नचिकेतसे च ।

अध्याय १

वल्ली १

१.१.१ श्लोक:

ॐ उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । तस्य ह नचिकेता नाम पुत्र आस ॥ १ ॥

ह वै वाजश्रवसः उषन् सर्ववेदसं ददौ। तस्य ह नचिकेताः नाम पुत्र आस |

ह वै (द्वौ निपातौ) किमपि विशेषः अर्थ: न विद्यते |

वाजश्रवसः – वाजम् = अन्नम्; श्रव: = यश: ; वाजम् अन्नं तद् दानादिनिमित्तं श्रव: यस्य स: वाजश्रवा | तस्य अपत्यम् अथवा गोत्रो जात: वाजश्रवसः | वाजश्रवस: इति महामुनिः आसीत् यस्य पूर्वजै: अन्नदानेन यश: प्राप्त: |

नचिकेताः = नचिकेतस् शब्दः

उशन् – संतोषम् अनुभवन् |

There is a story in Mahabharata about how the sage Uddaalaka curses his son, who came late when he was sent by his father to bring some things to while Uddaalaka was performing some homa kriyaa at the banks of the river. He falls unconscious. Then when he gets up, Uddaalaka could notice that he has come back from a different dimension. “के लोकाः जिताः त्वया” – asks the father.

तं ह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । सोऽमन्यत ॥ २ ॥  

कुमारं सन्तं तं दक्षिणासु नीयमानसु श्रद्धा आविवेश ह । सः अमयन्त ।

कुमारः =  बाल-युवक्योः मध्ये भवति |

श्रद्धा = आस्तिक्य बुद्धिः, “शास्त्रस्य गुरुवाक्यस्य सत्यबुद्वधि-अवधारणम्, सा सद्धभिः श्रद्धा कथिता यया वस्तु उपलभ्यते।” – विवेक-चूडामणि |

पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः । अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत्‌ ॥ ३ ॥ 

पीतोदकाः जग्धतृणाः दुग्धदोहाः निरिन्द्रियाः ताः ददत् सः तान् गच्छति ते लोकाः अनन्दाः नाम |

अनन्दाः = आनन्द रहिताः |

स होवाच पितरं तत कस्मै मां दास्यसीति । द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ॥ ४ ॥

सः पितरम् उवाच ह तत कस्मै मां दास्यसि इति। द्वितीयं तृत्रीयं। तं ह पिता उवाच त्वा मृत्यवे ददामि इति |

भावमण्डले सः यमलोकं गच्छति | शरीरम् अत्र एव आसीत् |

बहूनामेमि प्रथमो बहूनामेमि मध्यमः । किं स्विद्यमस्य कर्तव्यं यन्मयाद्य करिष्यति ॥ ५ ॥ 

बहूनां प्रथमः एमि। बहूनां मध्यमः एमि । यमस्य किंस्वित् कर्तव्यं यत् मया अद्य करिष्यति ।

अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे । सस्यमिव मर्त्यः पच्यते सस्यमिवाजायते पुनः ॥ ६ ॥

पूर्वे यथा अनुपश्य। तथा अपरे प्रतिपश्य। मर्त्यः सत्यम् इव पच्यते पुनः सत्यम् इव अजायते ।

मर्त्यः = मरणशीलः |

“पालय सत्यम् । मां यमालयं  प्रतिप्रेषयतु |” इति व्याक्ये अस्ति |

वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान्‌ । तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम्‌ ॥ ७ ॥ 

ब्राह्मणः अतिथिः सन् वैश्वानरः इव गृहान् प्रविशति। तस्य एतां शान्तिं कुर्वन्ति । वैवस्वत उदकं हर |

वैश्वानरः = अग्निः | उदकम् = जलम् |

आशाप्रतीक्षे संगतं सूनृतां चेष्टापूर्वे पुत्रपशूंश्च सर्वान्‌ । एतद्‌ वृङ्क्ते पुरुषस्याल्पमेधसो यस्यानश्नन्वसति ब्राह्मणो गृहे ॥ ८ ॥

ब्राह्मणः अनश्नन् यस्य गृहे वसति तस्य अल्पमेधसः पुरुषस्य आशाप्रतिक्षे सङ्गतम् सुनृताम् इष्टापूर्ते पुत्रपशून् सर्वान् एतत् सर्वं वृङ्क्ते |

तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः । नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥ ९ ॥

ब्रह्मन् अतिथिः त्वं नमस्यः यत् मे गृहे तिस्रः रात्रीः अनश्नन् अवात्सीः तस्मात् प्रति त्रीन् वरान् वृणीष्व। ब्रह्मन् ते नमः अस्तु । मे स्वस्ति अस्तु |

मे स्वस्ति अस्तु = अहं स्वस्थतया भवेयम्  |

शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो । त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥ १० ॥

मृत्यो गौतमः शान्तसङ्कल्पः सुमनाः मा अभि वीतमन्युः यथा स्यात् प्रतीतः त्वत्प्रसृष्टं अभिवदेत् एतत् त्रयाणां प्रथमं वरं वृणे |

वीतमन्युः = कोपः गच्छेत् |

यथा पुरस्ताद्‌ भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्‌ ॥ ११ ॥ 

आरुणिः औद्दालकिः पुरस्तात् त्वयि यथा मत्प्रसृष्टः तथैव प्रतीतः भविता । सः त्वां मृत्युमुखात् प्रमुक्तं ददृशिवान् वीतमन्युः रात्रीः सुखं शयिता |

स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥ १२ ॥ 

स्वर्गे लोके किञ्चन भयं न अस्ति । तत्र त्वं न असि न जरया बिभेति। उभे अशनायापिपासे तीर्त्वा शोकातिगः स्वर्गेलोके मोदते ।

अशनाया = बुभुक्षा ।

स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि त्वं श्रद्दधानाय मह्यम्‌ ।
स्वर्गलोका अमृतत्वं भजन्त एतद्‌ द्वितीयेन वृणे वरेण ॥ १३ ॥ 

मृत्यो सः त्वं स्वर्ग्यम् अग्निम् अध्येषि तं श्रद्धधानाय मह्यं प्रब्रूहि । स्वर्गलोकाः अ

मृतत्वं भजन्ते । एतत् द्वितीयेन वरेण वृणे ।

अग्निकार्यविषये स्वगलूकानां विषये च मां वदतु |

अन्तः विद्यमानः a plane of existence आविर्भवति. It is not to be taken that there are physical planes of existence.

प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्‌ ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम्‌ ॥ १४ ॥ 

अहं स्वर्ग्यम् अग्निं प्रजानं प्रब्रवीमि तत् उ मे निबोध । नचिकेतः त्वम् एतम् अनन्तलोकाप्तिम् अथो प्रतिष्ठानां गुहायां निहितं विद्धि ।

लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥ १५॥

यमः तस्मै लोकादिं तम् अग्निम् उवाच। याः यावतीः वा इष्टकाः यथा वा सः च अपि तत् यथोक्तं प्रत्यवदत्। अथ मृत्युः अस्य तुष्टः पुन एव आह ॥

तमब्रवीत्प्रीयमाणो महात्मा वरं तवेहाद्य ददामि भूयः।
तवैव नाम्ना भविताऽयमग्निः सृङ्कां चेमामनेकरूपां गृहाण ॥ १६॥

महात्मा प्रीयमाणः तम् अव्रवीत् इह एव अद्य तव भूयः वरं ददामि। अयम् अग्निः तव एव नाम्ना भविता। इमाम् अनेकरूपां सङ्कां च गृहाण ॥

त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू।
ब्रह्मजज्ञं देवमीड्यं विदित्वा निचाय्येमां शान्तिमत्यन्तमेति ॥ १७॥

त्रिभिः सन्धिम् एत्य त्रिणचिकेतः त्रिकर्मकृत् जन्ममृत्यू तरति। ईड्यं ब्रह्मजज्ञं देवं विदित्वा निचाय्य इमाम् अत्यन्तं शान्तिम् एति ॥

त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम्‌।
स मृत्युपाशान्पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ॥ १८॥

यः त्रिणाचिकतः विद्वान् एतत् त्रयं विदित्वा नाचिकेतम् एव चिनुते स पुरतः मृत्युपाशान् प्रणोद्य शोकतिगः स्वर्गलोके मोदते ॥

एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण।
एतमग्निं तवैव प्रवक्श्यन्ति जनासस्तृतीयं वरं नचिकेतो वृणीष्व ॥ १९॥

नचिकेतः एषः ते स्वर्ग्यः अग्निः यम् द्वितीयन वरेन अवॄणीथाह्। जनासः एतम् अग्निं तव एव नाम्ना प्रवक्षामि। नचिकेतः अथ तॄतीयं वरं वृणीस्व ॥

येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके।
एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः ॥ २०॥

मनुष्य प्रेते या इयं विचिकित्सा एके अयम् अस्ति इति आहुः एके अयं न सति इति च आहुः । त्वया अनुशिष्टः एतत् अहं विद्याम् एषः वराणां तॄतीयः वरः ॥

विचिकित्सा = सन्देहः |

देवैरत्रापि विचिकित्सितं पुरा न हि सुविज्ञेयमणुरेष धर्मः।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम्‌ ॥ २१॥

देवैः अपि अत्र पुरा विचिकित्सितं हि इदं न सुज्ञेयम्। एषः धर्मः अणुः नचिकेतः अन्यं वरं वृणिष्व। मा मा उपरोत्सीः। मा एवम् अतिसृज ॥

अणुः  = सूक्ष्मः |   मा उपरोत्सीः = don’t importune / urge me |

देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित्‌ ॥ २२॥

अत्र देवैः अपि विचिकित्सितं किल मृत्यो यत् च त्वं न सुज्ञेयम्। अथ त्वादृक् अन्यः अस्य वक्ता च न लम्यः। अतः एतस्य तुल्यः अन्यः कश्चित् वरः न अस्ति ॥

शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान्‌।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३॥

शतायुषः पुत्रपौत्रान् वृणीष्व। अहून् पशून् हस्तिहिरण्यम् अश्वान् भूमेः महत् आयतनं वॄणिष्व। स्वयं च यावत् शरदः जीवितुम् इछसि तावत् जीव ॥

एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वां कामभाजं करोमि ॥ २४॥

यदि एतत् तुल्यं वरं मन्यसे यथा वित्तं चिरजीविकां च वृणिस्व। नचिकेतः महाभुमौ त्वम् एधिः। त्वा कामानां कामभाजं करोमि ॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व।
इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्शीः ॥ २५॥

ये ये कामाः मर्त्यलोके दुर्लभः तान् सर्वान् कामान् छन्दतः प्रार्तयस्व। इमं सरथाः सतूर्याः रामाः ईदृशाः मनुष्यैः नहि लम्भनीयाः मत्प्रत्तभिः अभिः परिचारयस्व। नचिकेतः मरणम् मा अनुप्राक्षिः ॥

श्वोभावा मर्त्यस्य यदन्तकैतत्सर्वेन्द्रियाणां जरयन्ति तेजः।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ॥ २६॥

अन्तक त्वदुक्ताः भोगः श्वोभाबाः किञ्च मर्त्यस्य सर्वेन्द्रियाणां यत् तेजः एतत् जरयन्ति अपि सर्वम् जीवितम् अल्पम् एव। तव वाहाः नृत्यगीते तव एव तिष्ठन्तु ॥

न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्श्म चेत्त्वा।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ॥ २७॥

मनुष्यः वित्तेन न तर्पणीयः। वयं त्वा अद्राक्षाम चेत् वित्तं लप्स्यामहे। तथा यावत् त्वं ईशिष्यति जीविष्यामः। सः तु वरः एव मे वरणीयः ॥

अजीर्यताममृतानामुपेत्य जीर्यन्मर्त्यः क्वधःस्थः प्रजानन्‌।
अभिध्यायन्वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ॥ २८॥

अजीर्यताम् अमॄतानां सकाशं उपेत्य प्रजानम् क्वधस्थः जीर्यन् कः मर्त्यः अपि च वर्णरतिप्रमोदान् अभिध्यायन् अतिदिर्घे जीविते रमेत ॥

यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्साम्पराये महति ब्रूहि नस्तत्‌।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ॥ २९॥

मृत्यो यस्मिन् महति साम्पराये यत् इदं विचिकित्सन्ति नः तत् ब्रूहि। यः अयं गूढम् अनुप्रविष्टः वरः विद्यते नचिकेताः तस्मात् अन्यम् न वृणिते ॥

अध्याय १               वल्ली २

अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधुर्भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥ १ ॥

अन्यत् श्रेयः उत अन्यत् एव प्रेयः। ते उभे नानार्थे सती पुरुषं सिनीतः। तयोः श्रेयः आददानस्य साधु भवति उ सः अर्थात् हीयते यः प्रेयः वृणीते ॥

श्रेयश्च प्रेयश्च मनुष्यमेतस्तौ सम्परीत्य विविनक्ति धीरः । श्रेयो हि धीरोऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्शेमाद्‌वृणीते ॥ २ ॥

श्रेयः च प्रेयः च मनुष्यम् एतः। धीरः तौ सम्परीत्य विविनक्ति। धीरः हि प्रेयसः श्रेयः अभिवृणीते। मन्दः योगक्षेमात् प्रेयः वृणिते ॥

स त्वं प्रियान्प्रियरूपांश्च कामानभिध्यायन्नचिकेतोऽत्यस्राक्षीः । नैतां सृङ्कां वित्तमयीमवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥ ३ ॥

नचिकेतः सः त्वं प्रियान् प्रियरूपान् च कामान् अभिध्यायन् अत्यस्नाक्षीः वित्तमयीम् एतां सङ्कां न अवाप्तः यस्यां बहवः मनुष्याः मज्जन्ति ॥

दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता । विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवोऽलोलुपन्त ॥ ४ ॥

या च अविद्या विद्या इति च या ज्ञाता एते दूरं वीपरिते विषुची। नचिकेतसं विद्याभीप्सिनं मन्ये। यतः बहवः कामाः त्वा न अलोलुपन्त ॥

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितम्मन्यमानाः । दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ५ ॥

अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः दन्द्रम्यमाणाः मूढाः परियन्ति यथा अन्धेन एव नीयमानाः अन्धाः ॥

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम्‌ । अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ ६ ॥

साम्परायः वित्तमोहेन मूढं वित्तमोहेन प्रमाद्यन्तं बालं न प्रतिभाति। अयं लोकः अस्ति परः न अस्ति इति मानी पुनः पुनः मे वशम् आपद्यते ॥

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः । आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥ ७ ॥

यः बहुभिः श्रवणाय अपि न लम्यः बहवः शृण्वन्तः अपि यम् न विद्युः अस्य वक्ता आश्चर्यः अस्य लब्धा कुशलः कुशलानुशिष्टः ज्ञाता आश्चर्यः ॥

न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः । अनन्यप्रोक्ते गतिरत्र नास्त्यणीयान् ह्यतर्क्यमणुप्रमाणात्‌ ॥ ८ ॥

एषः अवरेण नरेण प्रोक्तः न सुविज्ञेयः भवति अनन्यप्रोक्ते अत्र गतिः न अस्ति। हि एषः अणुप्रमाणात् अणीयान् अपि च अतर्क्यम् ॥

नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ नो भूयान्नचिकेतः प्रष्टा ॥ ९ ॥

प्रेष्ठ त्वं याम् आप एषा मतिः तर्केण न आपनेया भवति । अन्येन प्रोक्ता सुज्ञानाय एव भवति । नचिकेतः सत्यधृतिः असि बत। नः त्वादृक् प्रष्टा भूयात् ॥

जानाम्यहं शेवधिरित्यनित्यं न ह्यध्रुवैः प्राप्यते हि ध्रुवं तत्‌ । ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्‌ ॥ १० ॥

शेवधिः अनित्यं इति अहं जानामि हि धृवम् हि तत् अधृवैः न हि प्राप्यते। ततः मया अनित्यैः द्रव्यैः नचिकेतः अग्निः चितः तेन नित्यं प्राप्तवान् अस्मि ॥

कामस्याप्तिं जगतः प्रतिष्ठां क्रतोरानन्त्यमभयस्य पारम्‌ । स्तोमं अहदुरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतोऽत्यस्राक्षीः ॥ ११ ॥

नचिकेतः कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोः आनन्त्यम् अभयस्य पारं स्तोमम् महत् उरुगायं प्रतिष्ठां दृष्ट्वा त्वं धृत्या तत् अत्यस्नाक्षीः ॥

तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम्‌ । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥ १२ ॥

दुर्दर्शं गूधम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणं तम् देवं अध्यात्मयोगाधिगमेन मत्वा धीरः हर्षशोकौ जहाति ॥

एतच्छ्रुत्वा सम्परिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥ १३ ॥

मर्त्यः एतत् श्रुत्वा अणुम् धर्म्यम् प्रब्रुह्य सम्परिगृह्य सः एतम् आप्य मोदनीयम् लब्ध्वा मोदते हि नचिकेतसम् प्रति सद्म विवृतम् मन्ये ॥

अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्‌ । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ॥ १४ ॥

धर्मात् अन्यत्र अधर्मात् अन्यत्र अस्मात् कृतकृतात् अन्यत्र भूयात् भव्यात् अन्यत्र यत् पश्यसि तत् वद ॥

सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत्‌ ॥ १५ ॥

सर्वे वेदाः यत् पदम् आमनन्ति सर्वाणि तपांसि च यत् वदन्ति यत् इच्छन्तः ब्रह्मचर्यं चरन्ति तत् पदं ते सङ्ग्रहेण ब्रवीमि ॐ इति एतत् ॥

एतद्‌ध्येवाक्षरं ब्रह्म एतद्‌ध्येवाक्षरं परम्‌ । एतद्‌ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्‌ ॥ १६ ॥

एतेत् एव हि अक्षरं ब्रह्म एतत् एव हि अक्षरं परम्। एतत् एव हि अक्सरं ज्ञात्वा यः यत् इच्छति तस्य तत् सिध्यति ॥

एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्‌ । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥

एतत् श्रेष्ठम् आलम्बनं। एतत् परम् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥

न जायते म्रियते वा विपश्चिन्नायं कुतश्चिन्न बभूव कश्चित्‌ । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ १८ ॥

विपश्चित् न जायते म्रियते वा। अयं कुतश्चित् न बभूब। अस्मात् न कश्चित् बभूब । अयम् अजः नित्यः शाश्वतः पुराणः। शरीरे हन्यमाने न हन्यते ॥

हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम्‌ । उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

हन्ता हन्तुं मन्यते चेत् हतः हतं मन्यते चेत् तौ उभौ न विजानीतः। अयं न हन्ति न हन्यते ॥

अणोरणीयान्महतो महीयानात्मास्य जन्तोर्निहितो गुहायाम्‌ । तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥ २० ॥

अणोः अणीयान् महतः महीयान् आत्मा अस्य जन्तोः गुहायां निहितः। अक्रतुः वीतशोकः धातुप्रसादात् आत्मनः तं महिमानं पश्यति ॥

आसीनो दूरं व्रजति शयानो याति सर्वतः । कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति ॥ २१ ॥

अनवस्थेषु शरीरेसु अवस्थितम् अशरीरं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥

अशरीरं शरीरेष्वनवस्थेष्ववस्थितम्‌ । महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ २२ ॥

अनवस्थेषु शरीरेसु अवस्थितम् अशरीरं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥

नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम्‌ ॥ २३ ॥

अयम् आत्मा प्रवचनेन न लभ्यः। न मेधया न बहुधा श्रुतेन। एषः यम् एव वृणुते तेन लभ्यः। तस्य एषः आत्मा त्वां तनूं विवृणुते ॥

एषः (आत्मा) यम् एव वृणुते तेन लभ्यः। तस्य एषः आत्मा त्वां तनूं विवृणुते  – The one chosen by Aatma will only be able to obtain.    

Shankara Bhaashyam – यमेव स्वमात्मानम् एष साधको वृणुते प्रार्थयते? तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायत इत्येतत्। निष्कामश्चात्मानमेव प्रार्थयते। आत्मनैवात्मा लभ्यत इत्यर्थः।

यम् एव, that (Self) indeed  which is his (i.e. aspirant’s) own Self; which एषः, this one-the aspirant; वृणुते, prays to; तेन, by that-by that very Self which is the seeker (himself); the Self Itself is लभ्यः , can be known, i.e. It becomes known to be such and such. The meaning is that to a desireless man who seeks for the Self alone, the Self becomes known of Its one accord.

नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात्‌ ॥ २४ ॥

दुश्चरितां न अविरतः न अशान्तः न असमाहितः न वा अशान्तमानसः प्रज्ञानेन अपि एनम् आप्नुयात् ॥

यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः । मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः ॥ २५ ॥

यस्य ब्रह्म च क्षत्रं च उभे ओदनः भवतः। यस्य मृत्युः उपसेचनं। सः यत्र अस्ति तत् इत्या कः वेदः ॥

 

Selected verses

कठोपनिषद्            अध्याय १    वल्ली ३                  Verse १

ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ॥१॥

लोके सुकृतस्य ऋतम् पिवन्तौ परमे परार्धे गुहां प्रविष्टौ तौ तिष्ठतः । ब्रह्मविदः तौ छायातपौ इव वदन्ति। ये च पञ्चाग्नयः त्रिणाचिकेताः ॥

यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्‌।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥२॥

ईजानानां यः सेतुः नचिकेतं शकेमहि। अपि च तितीर्षताम् अभयम् पारं यत् अक्षरं परं ब्रह्म ॥ 

आत्मानं रथिनं विद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥

आत्मानं रथिनं विद्धि। शरीरं तु रथं एव। बुद्धिं तु सारथिं विद्धि। मनः च प्रग्रहम् एव ॥

इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्‌।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥

इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् आत्मेन्द्रियमनोयुक्तं तम् आत्मनं भोक्ता इति मनीषिणः आहुः ॥

यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥५॥

यः तु सदा अयुक्तेन मनसा अविज्ञातवान् भवति सारथेः दुष्टाश्वाः इव तस्य इन्द्रियाणि अवश्यानि भवन्ति ॥

Note: Mahabharatam

नदीज लङ्केशवनारिकेतुर्
नगाह्वयो नाम नगारिसूनुः
एषोऽङ्गनावेषधरः किरीटी

नदीज = भीष्म ! लङ्केश-वन-अरि-केतुः = अनूमत्ध्वजः | नग-आह्वयः = वृक्षस्य नामधारी | नग-अरिसूनुः = इन्द्रस्य पुत्रः अर्जुनः |

यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः ॥६॥

यः तु सदा युक्तेन मनसा विज्ञानवान् भवति सारथेः सदश्वाः इव तस्य इन्द्रियाणि वश्यानि भवन्ति ॥

यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥७॥

यः तु अविज्ञानवान् अमनस्कः सदा अशुचिः भवति सः तत्पदं न आप्नोति। संसारं च अधिगच्छति ॥

यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥८॥

यः तु विज्ञानवान् समनस्कः सदा शुचिः भवति सः तु तत् पदं आप्नोति। यस्मात् भुयः न जायते ॥

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ ॥९॥

यः तु विज्ञानसारथि प्रग्रहवान् नरः सः अध्वनः पारम् आप्नोति तद् विष्णोः परं पदम् ॥

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥१०॥

इन्द्रिभेयः अर्थाः पराः अर्थेभ्यः च मनः परम्। मनसः तु बुद्धिः बुद्धेः महान् आत्मा परः ॥

महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥११॥

महतः अव्यक्तं परम्। अव्यक्तात् पुरुषः परः। पुरुषात् परं न किंचित् अस्ति । सा काष्ठा। सा परा गतिः ॥

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥

सर्वेषु भूतेसु गूढः एषः आत्मा न प्रकासते। सुक्ष्मदर्शिभिः अग्र्यया सुक्ष्मया बुद्ध्या एषः आत्मा तु दॄश्यते ॥

पराञ्चिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्‌।
कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन्‌ ॥ 2.1.1.

स्वयम्भूः खानि पराञ्चि व्यतृणत् तस्मात् पराङ् पस्यति। न अन्तरान्मन्। कश्चित् धीरः अमृतत्वम् इच्छन् आवृत्तचक्षुः प्रत्यगात्मानम् (ऐक्षत्) ॥

ऊर्ध्वमूलोऽवाक्‍शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥ 2.3.1

ऊर्ध्वमूलः अवाक्शाखः एषः सनातनः अश्वत्थः। तत् एव शुक्रं। तत् ब्रह्म। तत् एव अमृतम् उच्यते। सर्वे लोकाः तस्मिन् श्रिताः। तत् उ कश्चन न अत्येति। एतत् वै तत् ॥

।।2.3.1।। ….. अविच्छिन्न-जन्म-जरा-मरण-शोकादि-अनेक-अनर्थात्मकः | प्रतिक्षणम् अन्यथास्वभावः| माया-मरीच्युदक-गन्धर्व-नगरादिवत् दृष्टनष्टस्वरूपत्वात् | अवसाने च वृक्षवदभावात्मकः | कदलीस्तम्भवन्निःसारः | अनेकशतपाषण्डबुद्धिविकल्पास्पदः | तत्त्वविजिज्ञासुभिः अनिर्धारित-इदन्तत्त्वः | वेदान्तनिर्धारितपरब्रह्ममूलसारः |अविद्या-काम-कर्म-अव्यक्तबीजप्रभवः | अपरब्रह्मविज्ञानक्रियाशक्तिद्वयात्मकहिरण्यगर्भाङ्कुरः  |सर्वप्राणिलिङ्गभेदस्कन्धः तत्तत्तृष्णाजलासेकोद्भूतदर्पः बुद्धीन्द्रियविषयप्रवालाङ्कुरः श्रुति-स्मृति-न्याय-विद्योपदेश-पलाशः यज्ञ-दान-तप आदि-अनेक-क्रिया-सुपुष्पः सुखदुःखवेदनानेकरसः प्राण्युपजीवि-अनन्तफलः तत्तृष्णासलिलावसेकप्ररूढजटिलीकृत-दृढबद्धमूलः सत्यनामादिसप्तलोकब्रह्मादिभूत-पक्षिकृतनीडः प्राणिसुख-दुःखोद्भूत-हर्ष-शोक-जात-नृत्य-गीत-वादित्र-क्ष्वेलित-आस्फोटित-हसित-आक्रुष्ट-रुदित-हाहा-मुञ्च-मुञ्च-इत्यादि अनेक-शब्द-कृत-तुमुलीभूत-महारवः वेदान्तविहित-ब्रह्मात्मदर्शन-असङ्गशस्त्र-कृतोच्छेदः एषः संसारवृक्षः अश्वत्थः अश्वत्थवत् काम-कर्म-वातेरित-नित्यप्रचलितस्वभावः । स्वर्ग-नरक-तिर्यक्-प्रेतादिभिः शखाभिः अवाक्शाखः । अवाञ्चः शाखाः यस्य सः । सनातनः वृक्षः अनादित्वात् चिरं प्रवृत्तः । यदस्य संसारवृक्षस्य मूलं तदेव शुक्रं शुभ्रं शुद्धं ज्योतिष्मत् चैतन्यात्मज्योतिःस्वभावं तदेव ब्रह्म सर्वमहत्त्वात्। तदेव अमृतम् अविनाशस्वभावम् उच्यते कथ्यते सत्यत्वात्। वाचारम्भणं विकारो नामधेयमनृतमन्यदतो मर्त्यम्। तस्मिन् परमार्थसत्ये ब्रह्मणि लोकाः गन्धर्वनगरमरीच्युदकमायासमाः परमार्थदर्शनाभावावगमनाः श्रिताः आश्रिताः सर्वे समस्ताः उत्पत्तिस्थितिलयेषु। तदु तद्ब्रह्म नात्येति नातिवर्तते मृदादिकमिव घटादिकार्यं कश्चन कश्चिदपि विकारः। एतद्वै तत्।।

उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥ 1.3.14

उतिष्ठत जग्रत वरान् प्राप्य तत् निबोधत। निशिता क्षुरस्य धारा दुरत्यया दुर्गं तत् पथः इति कवयः वदन्ति ॥

।।1.3.14।। एवं पुरुषे आत्मनि सर्वं प्रविलाप्य नामरूपकर्मत्रयं यन्मिथ्याज्ञानविजृम्भितं क्रियाकारकफललक्षणं स्वात्मयाथात्म्यज्ञानेन मरीच्युदकरज्जुसर्पगगनमलानीव मरीचिरज्जुगगनस्वरूपदर्शनेनैव स्वस्थः प्रशान्तः कृतकृत्यो भवति यतः? अतस्तद्दर्शनार्थमनाद्यविद्याप्रसुप्ताः उत्तिष्ठत हे जन्तवः? आत्मज्ञानाभिमुखा भवत जाग्रत अज्ञाननिद्राया घोररूपायाः सर्वानर्थबीजभूतायाः क्षयं कुरुत। कथम् प्राप्य उपगम्य वरान् प्रकृष्टानाचार्यांस्तत्त्वविदः? तदुपदिष्टं सर्वान्तरमात्मानमहमस्मीति निबोधत अवगच्छत न ह्युपेक्षितव्यमिति श्रुतिरनुकम्पया आह मातृवत्? अतिसूक्ष्मबुद्धिविषयत्वाज्ज्ञेयस्य। किमिव सूक्ष्मबुद्धिरिति? उच्यते — क्षुरस्य धारा अग्रं निशिता तीक्ष्णीकृता दुरत्यया दुःखेनात्ययो यस्याः सा दुरत्यया। यथा सा पद्भ्यां दुर्गमनीया तथा दुर्गं दुःसंपाद्यमित्येतत् पथः पन्थानं तत् तं ज्ञानलक्षणं मार्गं कवयः मेधाविनो वदन्ति। ज्ञेयस्यातिसूक्ष्मत्वात्तद्विषयस्य ज्ञानमार्गस्य दुःसंपाद्यत्वं वदन्तीत्यभिप्रायः।।

अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत्‌।
अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात्‌ प्रमुच्यते ॥ 1.3.15

यत् अशव्दम् अस्पर्शम् अरुपम् अव्ययं तथा अरसं नित्यम् अगन्धवत् च भवति अनाद्यनन्तम् महतः परं धृवं तत् निचाय्य मॄत्युमुखात् प्रमुच्यते ॥

नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्‌।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ 1.3.16

मेधावी इदं मॄत्युप्रोक्तं सनातनं नाचिकेतम् उपाख्यानम् उक्त्वा श्रुत्वा च ब्रह्मलोके महीयते ॥

Reference:

Kena Upanishad

केनोपनिषद्

सामवेदीयः शान्तिमन्त्रः

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वम् ब्रह्मौपनिषदम् माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

प्रथमः खण्डः

मूलम् (1.1)

केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥१॥

पदच्छेदः

केन इषितम् पतति प्रेषितम् मनः केन प्राणः प्रथमः प्र+एति युक्तः
केन इषिताम् वाचम् इमाम् वदन्ति चक्षुः श्रोत्रम् कः उ देवः युनक्ति

अन्वयः

मनः केन इषितं (च) प्रेषितं (च) (सत्) पतति ? केन युक्तः प्रथमः प्राणः प्रैति ? केन इषिताम् इमां वाचं (मनुष्याः) वदन्ति ? चक्षुः (च) श्रोत्रं (च) कः उ देवः युनक्ति ?

आकाङ्क्षा

  • पतति
    • किं पतति ? (कर्तृपदम्) मनः
    • कथं भूत्वा ? इषितं (च) प्रेषितं (च) (सत्)
    • केन इषितं प्रेषितं (च) ? केन
  • प्रैति
    • कः प्रैति ? प्राणः
      • कीदृशः प्राणः ? प्रथमः
      • कथंभूतः प्राणः ? युक्तः
        • केन युक्तः ? केन
      • वदन्ति
        • के वदन्ति ? (मनुष्याः) [इति अध्याहृतम्]
        • किं वदन्ति ? इमाम्
          • किं इमाम् ? वाचम्
            • कथंभूतां वाचम् ? इषिताम्
              • केन इषिताम् ? केन
            • युनक्ति
              • कः युनक्ति ? देवः
                • कीदृशः देवः ? कः उ [उ इति अवधारणपदम्]
              • किं युनक्ति ? श्रोत्रम्
                • पुनः किं च युनक्ति ? चक्षुः

पदार्थः / पदविवरणम्

  • इमाम् = इयम् शब्दः, स्त्रीलिङ्गः | प्रथमा इयम्, इमे, इमाः | द्वितीया इमाम्, इमे, इमाः
  • इषितम् = desired
  • पतति = falls (i.e., flows towards its subjects)
  • प्रेषितम् = sent
  • प्रैति = proceeds (to perform its respective functions)
  • युनक्ति = directs

मूलम् (1.2)

श्रोत्रस्य श्रोत्रं मनसो मनो यत्। वाचो ह वाचं स उ प्राणस्य प्राणः।
चक्षुषश्चक्षुरतिमुच्य धीराः। प्रेत्यास्माल्लोकादमृता भवन्ति ॥२॥

पदच्छेदः

श्रोत्रस्य श्रोत्रम् मनसः मनः यत् वाचः ह वाचम् सः उ प्राणस्य प्राणः चक्षुषः चक्षुः अतिमुच्य धीराः प्रेत्य अस्मात् लोकात् अमृताः भवन्ति

अन्वयः

यत् श्रोत्रस्य श्रोत्रम्, मनसः मनः, वाचः ह वाचम्, सः उ प्राणस्य प्राणः । चक्षुषः चक्षुः । (एवं विदित्वा) श्रोत्रादिषु आत्मभावम् अतिमुच्य धीराः अस्मात् लोकात् प्रेत्य अमृताः भवन्ति ।

आकाङ्क्षा

  • (अस्ति)
    • कथंभूतः अस्ति ? प्राणः
      • कस्य प्राणः ? प्राणस्य
    • पुनः कथंभूतः अस्ति ? चक्षुः
      • कस्य चक्षुः ? चक्षुषः
    • कः ? सः उ [उ इति अवधारणपदम्]
      • कीदृशः सः ? यत् श्रोत्रम् (अस्ति)
        • कस्य श्रोत्रम् ? श्रोत्रस्य
      • पुनः कीदृशः सः ? यत् मनः (अस्ति)
        • कस्य मनः ? मनसः
      • पुनः कीदृशः सः ? यत् वाचम् (अस्ति)
        • कस्य वाचम् ? वाचः ह [ह इति अवधारणपदम्]
      • भवन्ति
        • कथंभूताः भवन्ति ? अमृताः
        • के भवन्ति ? धीराः
        • किं कृत्वा भवन्ति ? (विदित्वा)
          • कथं विदित्वा ? (एवम्)
        • पुनः किं कृत्वा भवन्ति ? अतिमुच्य
          • किम् अतिमुच्य ? आत्मभावम्
            • केषु अतिमुच्य ? श्रोत्रादिषु
          • पुनः किं कृत्वा भवन्ति ? प्रेत्य
            • कस्मात् प्रेत्य ? अस्मात्
              • कस्मात् अस्मात् ? लोकात्

पदार्थः / पदविवरणम्

  • अतिमुच्य = परित्यज्य
  • प्रेत्य = having passed away [ Shankara uses the term व्यावृत्य “having desisted” and clarifies that अस्माल्लोकात्प्रेत्य अस्माच्छरीरादपेत्य मृत्वेत्यर्थः – i.e.,  separating from this body, dying — Source: https://www.upanishads.iitk.ac.in/kena ]
    • प्रेत्य = प्र + इ “इण् गतौ” + ल्यप् | लट्लकारे एति

मूलम् (1.3)

न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो
न विद्मो न विजानीमो यथैतदनुशिष्यात्।
अन्यदेव तद्विदितादथो अविदितादधि।
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥

पदच्छेदः

न तत्र चक्षुः गच्छति न वाक् गच्छति न उ मनः
न विद्मः न विजानीमः यथा एतत् अनुशिष्यात्
अन्यत् एव तत् विदितात् अथो अविदितात् अधि
इति शुश्रुम पूर्वेषाम् ये नः तत् वि+आचचक्षिरे

अन्वयः

तत्र चक्षुः न गच्छति । न वाक् न उ मनः गच्छति । (तत्) न विद्मः । यथा एतत् अनुशिष्यात् (तत् अपि) न विजानीमः । तत् विदितात् अन्यत् एव । अथो अविदितात् अधि इति पूर्वेषां शुश्रुम ये नः तत् व्याचचक्षिरे ।

आकाङ्क्षा

  • शुश्रुम
    • केषां (वचनम्) शुश्रुम ? पूर्वेषाम्
      • कीदृशां पूर्वेषाम् ? ये व्याचचक्षिरे
        • किं व्याचचक्षिरे ? तत्
        • केभ्यः कृते व्याचचक्षिरे ? नः
      • किमिति (वचनम्) ? … इति
    • न गच्छति
      • किं न गच्छति ? चक्षुः
      • कस्मिन् (विषये) न गच्छति ? तत्र
      • पुनः किं न गच्छति ? वाक्
      • पुनः किं न गच्छति ? उ मनः
    • (तत्) न विद्मः ।
    • न विजानीमः
      • किं न विजानीमः ? यथा अनुशिष्यात्
        • किम् अनुशिष्यात् ? एतत्
      • (अस्ति)
        • कथम् अस्ति ? अन्यत् एव
          • कस्मात् अन्यत् ? विदितात्
        • किम् अन्यत् अस्ति ? तत्
      • अथो (अस्ति) |
        • कथम् अस्ति ? अधि
          • कस्मात् अधि ? अविदितात्

पदार्थः / पदविवरणम्

  • व्याचचक्षिरे = व्याख्यातवन्तः, विस्पष्टं कथितवन्तः
  • विद्मः = विजानीमः
  • अनुशिष्यात् = उपदिशेत्, शिष्यायेत्
  • अधि = उपरि अर्थे लक्षणया अन्यत्
  • अथो = संयोजकपदं चार्थे, अप्यर्थे
  • एव – अवधारणपदम्
  • शुश्रुम = श्रु श्रवणे, लिट् उ.पु., ब.व. 

मूलम् (1.4)

यद्वाचानभ्युदितं येन वागभ्युद्यते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

पदच्छेदः

यत् वाचा अनभ्युदितम्  येन वाक् अभ्युद्यते
तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उपासते

अन्वयः

यत् वाचा अनभ्युदितम्। येन वाक् अभ्युद्यते। तत् एव त्वं ब्रह्म विद्धि । यत् इदम् उपासते इदं न ।

आकाङ्क्षा

  • विद्धि
    • कः विद्धि ? (त्वम्)
    • किमिति विद्धि ? ब्रह्म
    • किं ब्रह्म विद्धि ? तत् एव
      • कीदृशं तत् ? यत् अनभ्युदितम् (अस्ति)
        • कया अनभ्युदितम् ? वाचा
      • पुनः कीदृशं तत् ? येन अभ्युद्यते
        • का अभ्युद्यते ? वाक्
      • इदं न अस्ति
        • इदं किं न अस्ति ? (ब्रह्म)
        • कीदृशं इदम् ? यत् इदम् उपासते
          • कः उपासते ? (लोकः)

पदार्थः / पदविवरणम्

  • अनभ्युदितम् = न + अभ्युदितम् | अभि + उदितम् | अप्रकाशितम्, अनभ्युक्तम्
  • अभ्युद्यते = अभि + उद्यते | चैतन्यज्योतिषा प्रकाश्यते, प्रयुज्यते
  • उपासते = ध्यायन्ति

मूलम् (1.5)

यन्मनसा न मनुते येनाहुर्मनो मतम्‌।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

पदच्छेदः

यत् मनसा न मनुते येन आहुः मनः मतम्‌
तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उमुपासते

अन्वयः

मनसा यत् न मनुते । येन मनः मतम् (इति ब्रह्मविदः) आहुः । तत् एव त्वं ब्रह्म विद्धि । यत् इदम् उपासते इदं न ।

आकाङ्क्षा

  • विद्धि
    • कः विद्धि ? (त्वम्)
    • किमिति विद्धि ? ब्रह्म
    • किं ब्रह्म विद्धि ? तत् एव
      • कीदृशं तत् ? यत् न मनुते
        • केन न मनुते ? मनसा
      • कीदृशं तत् ? येन मतम् इति आहुः
        • किं मतम् इति आहुः? मनः
        • मतम् इति के आहुः ? (ब्रह्मविदः)
      • इदं न अस्ति
        • इदं किं न अस्ति ? (ब्रह्म)
        • कीदृशं इदम् ? यत् इदम् उपासते
          • कः उपासते ? (लोकः)

पदार्थः / पदविवरणम्

  • मनुते
  • मतम्
  • मनसा
  • मनः = अत्र अन्तःकरणम्

मूलम् (1.6)

यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

पदच्छेदः

यत् चक्षुषा न पश्यति येन चक्षूंषि पश्यति
तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उमुपासते

अन्वयः

यत् चक्शुषा न पश्यति । येन चक्षूंषि पश्यति। तत् एव त्वं ब्रह्म विद्धि। यत् इदम् उपासते इदं न ।

आकाङ्क्षा

  • विद्धि
    • कः विद्धि ? (त्वम्)
    • किमिति विद्धि ? ब्रह्म
    • किं ब्रह्म विद्धि ? तत् एव
      • कीदृशं तत् ? यत् न पश्यति
        • केन न पश्यति? चक्शुषा
      • कीदृशं तत् ? येन पश्यति
        • येन किं पश्यति? चक्षूंषि
      • इदं न अस्ति
        • इदं किं न अस्ति ? (ब्रह्म)
        • कीदृशं इदम् ? यत् इदम् उपासते
          • कः उपासते ? (लोकः)

पदार्थः / पदविवरणम्

  • चक्शुषा
  • चक्षूंषि

मूलम् (1.7)

यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्‌ ।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

पदच्छेदः

यत् श्रोत्रेण न शृणोति येन श्रोत्रम् इदम् श्रुतम्
तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उमुपासते

अन्वयः

यत् श्रोत्रेण न शृणोति। येन इदं श्रोत्रं श्रुतम् । तत् एव त्वं ब्रह्म विद्धि। यत् इदम् उपासते इदं न ।

आकाङ्क्षा

  • विद्धि
    • कः विद्धि ? (त्वम्)
    • किमिति विद्धि ? ब्रह्म
    • किं ब्रह्म विद्धि ? तत् एव
      • कीदृशं तत् ? यत् न शृणोति
        • केन न शृणोति ? श्रोत्रेण
      • कीदृशं तत् ? येन श्रुतम्
        • येन किं श्रुतम् ? इदम्
          • किं इदम् ? श्रोत्रम्
        • इदं न अस्ति
          • इदं किं न अस्ति ? (ब्रह्म)
          • कीदृशं इदम् ? यत् इदम् उपासते
            • कः उपासते ? (लोकः)

पदार्थः / पदविवरणम्

  • श्रोत्रम् = शब्देन्द्रीयम्

मूलम् (1.8)

यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते।
तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥

पदच्छेदः

यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते
तत् एव ब्रह्म त्वम् विद्धि न इदम् यत् इदम् उमुपासते

अन्वयः

यत् प्राणेन न प्राणिति । येन प्राणः प्रणीयते । तत् एव त्वं ब्रह्म विद्धि। यत् इदम् उपासते इदं न ।

आकाङ्क्षा

  • विद्धि
    • कः विद्धि ? (त्वम्)
    • किमिति विद्धि ? ब्रह्म
    • किं ब्रह्म विद्धि ? तत् एव
      • कीदृशं तत् ? यत् न प्राणिति
        • केन न प्राणिति ? प्राणेन
      • कीदृशं तत् ? येन प्रणीयते
        • येन कः प्रणीयते ? प्राणः
      • इदं न अस्ति
        • इदं किं न अस्ति ? (ब्रह्म)
        • कीदृशं इदम् ? यत् इदम् उपासते
          • कः उपासते ? (लोकः)

पदार्थः / पदविवरणम्

  • प्राणिति = गन्धवत् विषयीकरोति
  • प्राणेन = घ्राणेन
  • प्राणः = पार्थिवनासिकापुटान्तरवस्थितः अन्तःकरणः, the organ of smell
  • प्रणीयते = प्रेष्यते, is impelled

द्वितीयः खण्डः

मूलम् (2.1)

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपम्‌।
यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम्‌ ॥

पदच्छेदः

यदि मन्यसे सुवेद इति दभ्रम् एव अपि नूनम् त्वम् वेत्थ ब्रह्मणः रूपम् यत् अस्य त्वम् यत् अस्य देवेषु अथ नु मीमांस्यम् एव ते मन्ये विदितम्

अन्वयः

यदि सुवेद इति मन्यसे नूनं त्वं दभ्रम् एव अपि ब्रह्मणः रूपं वेत्थ । (त्वं भूतेषु) अस्य यत् (रूपं वेत्थ) अपि च देवेषु अस्य यत् (रूपं वेत्थ, तत् सर्वं दभ्रम्) एव । अथ नु ते मीमांस्यम् एव । मन्ये विदितम् ।

आकाङ्क्षा

  • वेत्थ
    • कथं वेत्थ ? अपि (अपि नाम)
    • कः वेत्थ ? त्वम्
    • किं वेत्थ ? रूपम्
      • कस्य रूपम् ? ब्रह्मणः
    • कियत् वेत्थ ? दभ्रम् एव
      • कथं दभ्रम् एव ? नूनम्
      • कदा दभ्रम् एव वेत्थ ? यदि मन्यसे
        • कः मन्यसे ? त्वम्
        • किमिति मन्यसे ? सुवेद इति
      • (तत् सर्वं दभ्रम्) एव
        • किं तत् ? यत् (वेत्थ)
          • कः वेत्थ ? (त्वं – अत्र शिष्यः)
          • किं वेत्थ ? (रूपम्)
            • कस्य (रूपम्) ? अस्य
          • कुत्र वेत्थ ? (भूतेषु)
          • अपि च कुत्र वेत्थ ? अपि च देवेषु
        • मीमांस्यम् एव (भवति)
          • किं मीमांस्यम् ? (ब्रह्म)
          • कस्य मीमांस्यम् ? ते
          • कथं मीमांस्यम् ? नु
          • कदा मीमांस्यम् ? अथ
        • मन्ये [ इति शिष्यः वदति ]
          • कः मन्ये ? अहम् (अत्र शिष्यः)
          • किमिति मन्ये ? विदितम् इति
            • किं विदितम् इति ? (ब्रह्म)

पदार्थः / पदविवरणम्

  • नूनम् = निश्चयेन
  • दभ्रम् = अल्पम्
  • अपि = अपि नाम = प्रायः
  • अथ = इदानीम्
  • नु = अतः
  • ते = तुभ्यम् / तव (अत्र तव)

मूलम् (2.2)

नाहं मन्ये सुवेदेति नो न वेदेति वेद च।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥

पदच्छेदः

न अहम् मन्ये सुवेद इति न उ न वेद इति वेद च
यः नः तत् वेद तत् वेद न उ न वेद इति वेद च

अन्वयः

अहं सुवेद इति न मन्ये। न उ वेद इति न (इति) वेद च । नः यः, तत् वेद (च), न उ वेद इति न (इति) वेद च, (सः) तत् वेद ।

आकाङ्क्षा

  • न मन्ये ।
    • कः न मन्ये ? अहम्
    • किमिति न मन्ये ? सुवेद इति
      • किं सुवेद इति ? (ब्रह्म)
      • कः सुवेद इति ? अहम्
    • वेद च |
      • कः वेद ? अहम्
      • किमिति वेद ? न उ वेद इति न (इति)
        • कः न वेद ? अहम्
      • वेद
        • किं वेद ? तत् (ब्रह्म)
        • कः वेद ? सः
          • कीदृशः सः ? यः वेद
            • केषां यः ? नः
            • किं वेद ? तत्
            • पुनः किमिति वेद ? न उ वेद इति न (इति)

पदार्थः / पदविवरणम्

  • अहं सुवेद इति न मन्ये  = I do not regard (न मन्ये), that (इति) I know it well (अहं सुवेद).
  • न उ वेद इति न [इति] वेद =  I know that ([इति] वेद) it is not that (इति न)  I do not know it (न उ वेद इति).
  • वेद = लट्लकारः एकवचनम्, प्रथमपुरुषे उत्तमपुरुषे च |
  • नः = अस्मान् / अस्मभ्यम् / अस्माकम् | अत्र अस्माकम्, अस्मासु इत्यर्थे |

मूलम् (2.3)

यस्यामतं तस्य मतं मतं यस्य न वेद सः।
अविज्ञातं विजानतां विज्ञातमविजानताम्‌ ॥

पदच्छेदः

यस्य अमतम् तस्य मतम् मतम् यस्य न वेद सः
अविज्ञातम् विजानताम् विज्ञातम् अविजानताम्

अन्वयः

(ब्रह्म) यस्य अमतं, तस्य मतम् | (ब्रह्म) यस्य मतं, सः न वेद । (यस्मात्) विजानतां (ब्रह्म) अविज्ञातम् | अविजानतां (ब्रह्म) विज्ञातम् |

आकाङ्क्षा

  • मतम् (अस्ति)
    • किं मतम् अस्ति ? (ब्रह्म)
    • कस्य मतम् ? तस्य
    • कीदृशस्य तस्य ? यस्य अमतम्
      • किं अमतम् ? (ब्रह्म)
    • न वेद
      • कः न वेद ? सः
      • कीदृशः सः ? यस्य मतम्
        • किं मतम् ? (ब्रह्म)
      • किमर्थं एतादृशं भवति ? (यस्मात्) अविज्ञातम् अस्ति
        • किम् अविज्ञातम् ? (ब्रह्म)
        • केषां कृते अविज्ञातम् ? विजानताम्
      • पुनः कथं अस्ति ? विज्ञातम् अस्ति
        • किं विज्ञातम् ? (ब्रह्म)
        • केषां कृते विज्ञातम् ? अविजानताम्

पदार्थः / पदविवरणम्

  • विजानताम् = ये ब्रह्म जानन्ति तेषाम्
  • अविजानताम् = ये ब्रह्म न जानन्ति तेषाम् | अत्र ये मनः, बुद्धि, इन्द्रियाणि एव आत्मा इति चिन्तयन्ति तादृशानाम् |

मूलम् (2.4)

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम्‌ ॥

पदच्छेदः

प्रतिबोधविदितम् मतम् अमृतत्वम् हि विन्दते
आत्मना विन्दते वीर्यम् विद्यया विन्दते अमृतम्‌

अन्वयः

(यदा ब्रह्म) प्रतिबोधविदितं भवति, (तदा तत्) मतम् | (तस्मात्) अमृतत्वं हि विन्दते । आत्मना वीर्यं विन्दते । विद्यया अमृतं विन्दते ।

आकाङ्क्षा

  • मतं भवति
    • किं मतं भवति ? तत् ब्रह्म
    • कदा मतं भवति ? यदा प्रतिबोधविदितं भवति तदा
      • किं प्रतिबोधविदितं भवति ? तत् ब्रह्म
    • तस्मात् किं ? तस्मात् हि विन्दते
      • किं विन्दते ? अमृतत्वम्
    • विन्दते
      • किं विन्दते ? वीर्यम्
      • केन विन्दते ? आत्मना
    • विन्दते
      • किं विन्दते ? अमृतम्
      • कया विन्दते ? विद्यया

पदार्थः / पदविवरणम्

  • वीर्यम् = बलं, सामर्थ्यम्
  • विन्दते = लभते

मूलम् (2.5)

इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः।
भूतेषु भूतेषु विचित्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥

पदच्छेदः

इह चेत् अवेदीत् अथ सत्यम् अस्ति न चेत् इह अवेदीत् महती विनष्टिः
भूतेषु भूतेषु विचित्य धीराः प्रेत्य अस्मान् लोकात् अमृता भवन्ति

अन्वयः

इह अवेदीत् चेत् अथ सत्यम् अस्ति । इह न अवेदीत् चेत् (तदा) महती विनष्टिः (भवति) । (तस्मात्) धीराः भूतेषु भूतेषु विचित्य अस्मात् लोकात् प्रेत्य अमृताः भवन्ति ।

आकाङ्क्षा

  • सत्यम् अस्ति
    • कदा सत्यम् अस्ति ? अवेदीत् चेत् अथ
      • कुत्र अवेदीत् चेत् ? इह
    • विनष्टिः (भवति)
      • कीदृशी विनष्टिः (भवति) ? महती
      • कदा विनष्टिः (भवति) ? न अवेदीत् चेत् (तदा)
        • कुत्र न अवेदीत् चेत् ? इह
      • (तस्मात्) किम् ? अमृताः भवन्ति
        • के अमृताः भवन्ति ? धीराः
        • किंकृत्वा अमृताः भवन्ति ? विचित्य
          • कुत्र विचित्य ? भूतेषु भूतेषु
        • पुनः किंकृत्वा अमृताः भवन्ति ? प्रेत्य
          • कस्मात् प्रेत्य ? लोकात्
          • कस्मात् लोकात् ? अस्मात्

पदार्थः / पदविवरणम्

  • विनष्टिः = विनाशनं, जन्मजरामरणादिप्रबन्धाविच्छेदलक्षणा संसारगतिः
  • विचित्य = विज्ञाय, साक्षात्कृत्य

तृतीय खण्डः

मूलम् (3.1)

ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ।
त ऐक्शन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ॥

पदच्छेदः

ब्रह्म ह देवेभ्याः विजिग्ये तस्य ह ब्रह्मणः विजये देवाः अमहीयन्त
त ऐक्शन्त आस्माकम् एव अयम् विजयः अस्माकम् एव अयम् महिमा इति

अन्वयः

ब्रह्म ह देवेभ्यः विजिग्ये। तस्य ब्रह्मणः विजये देवाः अमहीयन्त । ते ऐक्शन्त विजयः अस्माकम् एव अस्माकम् एव अयं महिमा च इति ॥

आकाङ्क्षा

  • विजिग्ये
    • किं विजिग्ये ? ब्रह्म ह
    • केभ्यः कृते विजिग्ये ? देवेभ्यः
  • अमहीयन्त
    • काः अमहीयन्त ? देवाः
    • कस्मिन् विशये अमहीयन्त ? विजये
    • कस्य विजये ? तस्य
    • कस्य तस्य ? ब्रह्मणः
  • ऐक्शन्त
    • के ऐक्शन्त ? ते
    • किमिति ऐक्शन्त ? अस्माकम् एव इति
    • कः अस्माकम् एव ? विजयः
    • पुनः किमिति ऐक्शन्त ? अस्माकम् एव च
    • का अस्माकम् एव ? अयं महिमा

पदार्थः / पदविवरणम्

  • विजिग्ये = todo
  • ऐक्शन्त = मन्यन्ते
  • अमहीयन्त = पूजिताः अभावन्

मूलम् (3.2)

तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥

पदच्छेदः

तत् ह एषाम् विजज्ञौ तेभ्यः ह प्रादुर्बभूव तत् न व्यजानत किम् इदम् यक्षम् इति

अन्वयः

ब्रह्म ह एषां तत् विजज्ञौ । तेभ्यः सः प्रादुर्बभूव। तत् इदं यक्षं किम् इति न व्यजानत ॥

आकाङ्क्षा

  • विजज्ञौ
    • कः विजज्ञौ ? ब्रह्म ह
    • किं विजज्ञौ ? तत् (दर्पम् – the false pride)
      • केषां तत् ? एषाम् (देवानाम्)
    • प्रादुर्बभूव
      • कः प्रादुर्बभूव ? सः (यक्षः)
      • केभ्यः कृते प्रादुर्बभूव ? तेभ्यः (देवेभ्यः)
    • न व्यजानत
      • किमिति न व्यजानत ? तत् इदं यक्षं किम् इति

पदार्थः / पदविवरणम्

  • विजज्ञौ = विज्ञातवत्
  • व्यजानत = विज्ञातवन्तः

मूलम् (3.3)

तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमेतद्यक्षमिति तथेति ।

पदच्छेदः

ते अग्निम् अब्रुबन् जातवेदः एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति ।

अन्वयः

ते अग्निम् अब्रुबन् जातवेदः किम् एतत् यक्षम् इति एतत् विजानीहि । तथा इति (अग्निः उक्तवान्)॥

आकाङ्क्षा

  • अब्रुबन्
    • अब्रुबन् ? अग्निम्
    • अब्रुबन् ? ते (देवाः)
    • किमिति अब्रुबन् ? हे जातवेदः ! विजानीहि
      • किं विजानीहि ? एतत्
      • किमिति विजानीहि ? किम् एतत् यक्षम् इति
    • (अग्निः उक्तवान्)
      • किमिति (अग्निः उक्तवान्) ? तथा इति

पदार्थः / पदविवरणम्

  • अब्रुबन् = todo
  • जातवेदः = जातं वेत्ति इति जातवेदाः | सकारान्तः जातवेदस् शब्दः, सम्बोधनम् | प्रथमाविभक्तौ जातवेदाः |

मूलम् (3.4)

तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥

पदच्छेदः

तत् अभ्यद्रवत् तमभ्यवदत् कः असि इति अग्निः अहम् अस्मि इति अब्रवीत् जातवेदाः वै अहम् अस्मि इति

सन्धिः

वै + अहम् = वायहम् (एचोऽयवायावः इति यान्तवान्त) = वा अहम् (लोपः शाकल्यस्य इति लोपः)

अन्वयः

(अग्निः) तत् अभ्यद्रवत् । तम् अभ्यवदत् कः असि इति । अहं अग्निः वै अस्मि जातवेदाः अहम् अस्मि इति अब्रवीत् ॥

आकाङ्क्षा

  • अभ्यद्रवत्
    • कं प्रति अभ्यद्रवत् ? तत्
    • कः अभ्यद्रवत् ? (अग्निः)
  • अभ्यवदत्
    • कं प्रति अभ्यवदत् ? तम् (अग्निम्)
    • किम् अभ्यवदत् ? (ब्रह्म)
    • किमिति अभ्यद्रवत् ? कः असि इति
  • अब्रवीत्
    • किमिति अब्रवीत् ? अस्मि इति
      • कः अस्मि ? अहं अग्निः वै
    • पुनः किमिति अब्रवीत् ? अस्मि इति
      • कः अस्मि ? जातवेदाः अहम्

पदार्थः / पदविवरणम्

  • अभ्यद्रवत् = todo

मूलम् (3.5)

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वं दहेयं यदिदं पृथिव्यामिति ॥

पदच्छेदः

तस्मिन् त्वयि किं वीर्यम् इति अपि इदं सर्वं दहेयं यत् इदं पृथिव्याम् इति

अन्वयः

तस्मिन् त्वयि किं वीर्यम् इति । पृथिव्याम् इदं यत् अस्ति इदं सर्वम् अपि दहेयम् इति ॥

आकाङ्क्षा

  • किं वीर्यम् इति (ब्रह्म अपृच्छत्)
    • कुत्र वीर्यम् ? तस्मिन् त्वयि
  • दहेयम् इति (अग्निः अवदत्)
    • किं दहेयम् ? इदं सर्वम् अपि
    • किम् इदं सर्वम् ? इदं यत् अस्ति
    • कूत्र यत् अस्ति ? पृथिव्याम्

पदार्थः / पदविवरणम्

  • दहेयम्
  • वीर्यम्

मूलम् (3.6)

तस्मै तृणं निदधावेतद्दहेति तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्शमिति ॥

पदच्छेदः

तस्मै तृणं निदधौ एतत् दह इति तत् उपप्रेयाय सर्वजवेन तत् न शशाक दग्धुं सः तत एव निववृते न एतत् अशकं विज्ञातुं यत् तत् यक्षम् इति ॥

अन्वयः

एतत् दह इति (उक्त्वा) तस्मै तृणं निदधौ । (अग्निः) सर्वजवेन तत् उपप्रेयाय। तत् दग्धुं न शशाक । सः ततः एव निववृते । यत् तत् यक्षम् इति एतत् विज्ञातुं न अशकम् ।

आकाङ्क्षा

  • निदधौ
    • कः निदधौ ? ब्रह्म
    • किं निदधौ ? तृणम्
    • कस्मै निदधौ ? तस्मै
    • किंकृत्वा निदधौ ? (उक्त्वा)
      • किमिति (उक्त्वा) ? एतत् दह इति
    • उपप्रेयाय
      • किम् उपप्रेयाय ? तत् (तृणम्)
      • कथम् उपप्रेयाय ? सर्वजवेन
      • कः उपप्रेयाय ? (अग्निः)
    • न शशाक
      • कः न शशाक ? (अग्निः)
      • किं कर्तुं न शशाक ? दग्धुम्
        • किं दग्धुं न शशाक ? तत् (तृणम्)
      • ततः एव निववृते
        • कः निववृते ? सः (अग्निः)
      • न अशकम् (इति अग्निः अवदत्)
        • किं कर्तुं न अशकम् ? एतत् विज्ञातुम्
          • किमिति विज्ञातुम् ? यत् तत् यक्षम् इति

पदार्थः / पदविवरणम्

  • निदधौ = स्थापितवत्
  • उपप्रेयाय = समीपं गतवान् | उप+प्र+इ “इण् गतौ” , लिट्., प्र.पु., / उ.पु., (अत्र प्र.पु.), ए.व. लट्लकारे एति, लिट्लकारे इयाय | अवधेयम् –  कृ धातोः लिट्लकाररूपं चकार इति भवति |
  • सर्वजवेन = सर्वोत्साहकृतेन वेगेन

मूलम् (3.7)

अथ वायुमब्रुवन् वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥

पदच्छेदः

अथ वायुम् अब्रुवन् वायो एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति

अन्वयः

अथ वायुम् अब्रुवन् वायो किम् एतत् यक्षम् इति एतत् विजानीहि । तथा इति ।

आकाङ्क्षा

  • अथ अब्रुवन्
    • कं प्रति अब्रुवन् ? वायुम्
    • किमिति अब्रुवन् ? वायो! विजानीहि
      • किं विजानीहि ? एतत्
      • किमिति विजानीहि ? किम् एतत् यक्षम् इति
    • अवदत्
      • कः अवदत् ? वायुः
      • किमिति अवदत् ? तथा इति

पदार्थः / पदविवरणम्

  • वायो = वायुः, संबोदने

मूलम् (3.8)

तदभ्यद्रवत्तमभ्यवदत् कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥

पदच्छेदः

तत् अभ्यद्रवत् तम् अभ्यवदत् कः असि इति वायुः वै अहम् अस्मि इति अब्रवीत् मातरिश्वा वै अहम् अस्मि इति

अन्वयः

वायुः तत् अभ्यद्रवत् । तम् अभ्यवदत् कः असि इति । वायुः वै अहम् अस्मि इति मातरिश्वा वै अहम् अस्मि इति अब्रवीत् ।

आकाङ्क्षा

  • अभ्यद्रवत्
  • कं प्रति अभ्यद्रवत् ? तत् (ब्रह्म)
  • कः अभ्यद्रवत् ? वायुः
  • अभ्यवदत्
  • कं प्रति अभ्यवदत् ? तम् (वायुम्)
  • कः अभ्यवदत् ? (ब्रह्म)
  • किमिति अभ्यवदत् ? कः असि इति
  • अब्रवीत्
  • कः अब्रवीत् ? (वायुः)
  • किमिति अब्रवीत् ? वायुः वै अहम् अस्मि इति
  • पुनः किमिति अब्रवीत् ? मातरिश्वा वै अहम् अस्मि इति

पदार्थः / पदविवरणम्

  • वाति इति वायुः
  • मातरि (अन्तरिक्षे) श्वयति इति मातरिश्वा

मूलम् (3.9)

तस्मिंस्त्वयि किं वीर्यमित्यपीदं सर्वमाददीय यदिदं पृथिव्यामिति ॥

पदच्छेदः

तस्मिन् त्वयि किम् वीर्यम् इति अपि इदम् सर्वम् आददीय यत् इदम् पृथिव्याम् इति

अन्वयः

तस्मिन् त्वयि किं वीर्यम् इति। इदं सर्वम् अपि आददीय यत् इदं पृथिव्याम् इति ॥

आकाङ्क्षा

  • किं वीर्यम् इति (ब्रह्म अपृच्छत्)
    • कुत्र वीर्यम् ? तस्मिन् त्वयि
  • आददीय इति (वायुः अवदत्)
  • किम् आददीय ? इदं सर्वम् अपि
  • किम् इदं सर्वम् ? यत् इदम् अस्ति
  • कुत्र अस्ति ? पृथिव्याम्

पदार्थः / पदविवरणम्

  • आददीय = उड्डाययितुम् | आ + ददीय | आङ् + दा “डुदाञ् दाने”, आत्मनेपदम्, विधिलिङ्., उ.पु., ए.व. |  अवधेयम् – कृ धातोः विधिलिङ्गरूपं आत्मनेपदौ उ.पु., कुर्वीय, परस्मैपदौ उ.पु., कुर्याम् |

मूलम् (3.10)

तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥

पदच्छेदः

तस्मै तृणम् निदधौ एतत् आदत्स्व इति तद् उपप्रेयाय सर्वजवेन तत् न शशाक आदातुम् सः ततः एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति

अन्वयः

एतत् आदत्स्व इति तस्मै तृणं निदधौ । तद् सर्वजवेन उपप्रेयाय । तत् आदातुं न शशाक । ततः सः निववृते । यत् एतत् यक्षम् एतत् विज्ञातुं न अशकम् इति ॥

आकाङ्क्षा

  • निदधौ
    • किं (कर्ता) निदधौ ? (ब्रह्म)
    • किं (कर्म) निदधौ ? तृणम्
    • कस्मै निदधौ ? तस्मै (वायवे)
    • किमिति उक्त्वा निदधौ ? एतत् आदत्स्व इति
  • उपप्रेयाय
    • किम् उपप्रेयाय ? तत् (तृणम्)
    • कथम् उपप्रेयाय ? सर्वजवेन
    • कः उपप्रेयाय ? (वायुः)
  • न शशाक
    • कः न शशाक ? (वायुः)
    • किं कर्तुं न शशाक ? आदातुम्
      • किं आदातुं न शशाक ? तत् (तृणम्)
    • ततः निववृते
      • कः निववृते ? सः (वायुः)
    • न अशकम् इति (वायुः अवदत्)
      • किं कर्तुं न अशकम् ? एतत् विज्ञातुम्
        • किमिति विज्ञातुम् ? यत् एतत् यक्षम् इति

पदार्थः / पदविवरणम्

  • आदातुम् = to move
  • उपप्रेयाय = समीपं गतवान् | उप+प्र+इ “इण् गतौ” , लिट्., प्र.पु., / उ.पु., (अत्र प्र.पु.), ए.व. लट्लकारे एति, लिट्लकारे इयाय | अवधेयम् –  कृ धातोः लिट्लकाररूपं चकार इति भवति |

मूलम् (3.11)

अथेन्द्रमब्रुवन् मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत् तस्मात्तिरोदधे ॥

पदच्छेदः

अथ इन्द्रम् अब्रुवन् मघवन् एतत् विजानीहि किम् एतत् यक्षम् इति तथा इति तत् अभ्यद्रवत् तस्मात् तिरोदधे

अन्वयः

अथ इन्द्रम् अब्रुवन् मघवन् किम् एतत् यक्षम् एतत् विजानीहि । तथा इति । तत् अभ्यद्रवत् तस्मात् तिरोदधे ॥

आकाङ्क्षा

  • अथ अब्रुवन्
    • कं प्रति अब्रुवन् ? इन्द्रम्
    • किमिति अब्रुवन् ? मघवन् ! विजानीहि
      • किं विजानीहि ? एतत्
      • किमिति विजानीहि ? किम् एतत् यक्षम् इति
    • (अवदत्)
      • कः अवदत् ? (इन्द्रः)
      • किमिति अवदत् ? तथा इति
    • अभ्यद्रवत्
      • कं प्रति अभ्यद्रवत् ? तत्
      • कः अभ्यद्रवत् ? (इन्द्रः)
    • तिरोदधे
      • कस्मात् तिरोदधे ? तस्मात्
      • किं तिरोदधे ? (ब्रह्म)

पदार्थः / पदविवरणम्

  • मघवन् = maghavaa prathamaa
  • तिरोदधे = todo

मूलम् (3.12)

स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवतीं तां होवाच किमेतद्यक्शमिति ॥

पदच्छेदः

सः तस्मिन् एव आकाशे स्त्रियम् आजगाम बहुशोभमानां उमाम् हैमवतीम् ताम् ह उवाच किम् एतत् यक्षम् इति

अन्वयः

सः तस्मिन् एव आकाशे बहुशोभमानां स्त्रियम् आजगाम । तां हैमवतीम् उमाम् उवाच ह किम् एतत् यक्षम् इति ।

आकाङ्क्षा

  • आजगाम
    • काम् आजगाम ? स्त्रियम्
      • कीदृशां स्त्रियम् ? बहुशोभमानाम्
    • कुत्र आजगाम ? तस्मिन् एव आकाशे
    • कः आजगाम ? सः (इन्द्रः)
  • उवाच
    • कः उवाच ? (इन्द्रः)
    • कां प्रति उवाच ? तां उमाम्
      • कीदृशीं ताम् ? हैमवतीम्
    • किमिति उवाच ? ह किम् एतत् यक्षम् इति

पदार्थः / पदविवरणम्

  • आजगाम = आ+ जगाम | आङ् + गम् “गमॢँ गतौ” परस्मैपदी, कर्तरि लिट् उ.पु., ए.व.

चतुर्थः खण्डः

मूलम्  (4.1)

सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥

पदच्छेदः

सा ब्रह्म इति ह उवाच ब्रह्मणः वै एतत् विजये महीयध्वं इति  ततः ह एव विदाञ्चकार ब्रह्म इति

अन्वयः

सा एतत् ब्रह्म इति उवाच ह ब्रह्मणः विजये (यूयम्) एतत् महीयध्वं वै इति । ततः ह एव (एतत्) ब्रह्म इति विदाञ्चकार ॥

आकाङ्क्षा

  • उवाच
    • का उवाच ? सा (उमा)
    • किमिति उवाच ? एतत् ब्रह्म इति
    • पुनः किमिति उवाच ? महीयध्वं वै इति
      • कुत्र महीयध्वम् ? एतत्+विजये
        • कस्य विजये ? ब्रह्मणः
      • के महीयध्वम् ? (यूयम्)
    • विदाञ्चकार
      • कस्मात् विदाञ्चकार ? (यतः उमा उक्तवती) ततः ह एव
      • किमिति विदाञ्चकार ? (एतत्) ब्रह्म इति
      • कः विदाञ्चकार ? (इन्द्रः)

पदार्थः / पदविवरणम्

  • महीयध्वम् = महिमानं प्राप्नुथ you all attained the glory and rejoiced

मूलम्  (4.2)

तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥

पदच्छेदः

तस्मात् वै एते देवाः अतितराम् इव अन्यान् देवान् यत् अग्निः वायुः इन्द्रः ते हि एनत् नेदिष्ठं पस्पर्शुः ते हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति ॥

अन्वयः

यत् ते अग्निः वायुः इन्द्रः एनत् नेदिष्ठं पस्पर्शुः ते हि एनत् ब्रह्म इति प्रथमः विदाञ्चकार । तस्मात् वै एते देवाः अन्यान् देवान् अतितराम् इव ॥

आकाङ्क्षा

  • विदाञ्चकार
    • कथं विदाञ्चकार ? प्रथमः
    • किमिति विदाञ्चकार ? एनत् ब्रह्म इति
    • के विदाञ्चकार ? ते
      • के ते ? अग्निः वायुः इन्द्रः
    • किमर्थं ते प्रथमः ? यत् ते पस्पर्शुः
      • कथं पस्पर्शुः ? नेदिष्ठम्
      • किं पस्पर्शुः ? एनत् ब्रह्म

पदार्थः / पदविवरणम्

  • प्रथमः = प्रथमाः प्रधानाः
  • विदाञ्चकार = विदांचक्रुः

मूलम्  (4.3)

तस्माद् वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥

पदच्छेदः

तस्मात् वै इन्द्रः अतितराम् इव अन्यान् देवान् सः हि एनत् नेदिष्ठं पस्पर्श सः हि एनत् प्रथमः विदाञ्चकार ब्रह्म इति

अन्वयः

सः हि एनत् नेदिष्ठं पस्पर्श | सः हि एनत् ब्रह्म इति प्रथमः विदाञ्चकार । तस्मात् वै इन्द्रः अन्यान् देवान् अतितराम् इव ॥

आकाङ्क्षा

  • पस्पर्श
    • कथं पस्पर्श ? नेदिष्ठम्
    • कं पस्पर्श ? एनत्
    • कः पस्पर्श ? सः हि
  • विदाञ्चकार
    • कथं विदाञ्चकार ? प्रथमः
    • किमिति विदाञ्चकार ? एनत् ब्रह्म इति
    • कः विदाञ्चकार ? सः हि
    • तस्मात् किम् ? तस्मात् अतितराम् इव
      • कः अतितराम् ? इन्द्रः वै
      • कान् अतितराम् ? अन्यान् देवान्

पदार्थः / पदविवरणम्

  • अतितराम् = अतिशेतेexcelled

मूलम्  (4.4)

तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन्न्यमीमिषदा इत्यधिदैवतम्‌ ॥

पदच्छेदः

तस्य एषः आदेशः यत् एतत् विद्युतः व्यद्युतत् आ३ इति इत् न्यमीमिषद् आ३ इति अधिदैवतम् ॥

अन्वयः

तस्य एषः आदेशः यत् एतत् विद्युतः व्यद्युतत् आ३ न्यमीमिषद् इति इत् आ३ इति अधिदैवतम् ॥

आकाङ्क्षा

  • एषः आदेशः (अस्ति)
    • कस्य आदेशः ? तस्य (ब्रह्मणः)
    • कथम् आदेशः ? अधिदैवतम्
    • किमिति आदेशः ? यत् एतत् विद्युतः व्यद्युतत् आ३ इति
    • पुनः किमिति आदेशः ? न्यमीमिषद् इति इत् आ३ इति

पदार्थः / पदविवरणम्

  • आदेशः = उपमोपदेशः instruction through analogy
  • आ३ = इव
  • विद्युतः व्यद्युतत् = flashes of lightening
  • न्यमीमिषद् = wink of the eye
  • अधिदैवतम् = देवताविषयम् with regards to the gods

मूलम्  (4.5)

अथाध्यात्मं यद्देतद् गच्छतीव च मनोऽनेन चैतदुपस्मरत्यभीक्षणं सङ्कल्पः ॥

पदच्छेदः

अथ अध्यात्मम् यत् एतत् गच्छति इव च मनः अनेन च एतत् उपस्मरति अभीक्षणम् सङ्कल्पः

अन्वयः

अथ अध्यात्मम् (आदेशः) । यत् एतत् गच्छति इव च मनः | एतत् अनेन अभीक्षणम् उपस्मरति सङ्कल्पः (क्रियते च) ॥

आकाङ्क्षा

  • अथ अध्यात्मम् आदेशः ।
  • मनः अस्ति
    • कथं मनः अस्ति ? यत् गच्छति इव
      • किं प्रति गच्छति ? एतत्
    • उपस्मरति
      • किं उपस्मरति ? एतत् (ब्रह्म)
      • केन उपस्मरति ? अनेन (मनसा)
      • कथम् उपस्मरति ? अभीक्षणम्
      • पुनः किं क्रियते ? सङ्कल्पः (क्रियते च)

पदार्थः / पदविवरणम्

  • अध्यात्मम् = प्रत्यगात्मविषयम् with reference to the Atman
  • उपस्मरति = समीपतः स्मरति

मूलम्  (4.6)

तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभि हैनम् सर्वाणि भूतानि संवाञ्छन्ति॥

पदच्छेदः

तद्ध तद्वनम् नाम तद्वनम् इति उपासितव्यम् सः यः एतत् एवम् वेद अभि ह एनम् सर्वाणि भूतानि संवाञ्छन्ति

अन्वयः

तत् ह तद्वनं नाम। तस्मात् तद्वनम् इति उपासितव्यम् । स यः एतत् एवं वेद एनं सर्वाणि भूतानि अभिसंवाञ्छन्ति ॥

आकाङ्क्षा

  • तद्वनं नाम (अस्ति)
    • किं तद्वनम् ? तत् ह (ब्रह्म एव)
    • तस्मात् किम् ? तस्मात् उपासितव्यम् (अस्ति)
      • किमिति उपासितव्यम् ? तद्वनम् इति
    • अभिसंवाञ्छन्ति
      • कानि अभिसंवाञ्छन्ति ? सर्वाणि भूतानि
      • किम् अभिसंवाञ्छन्ति ? एनम्
      • कीदृशम् एनम् ? यः वेद सः
        • कथं वेद ? एवम्
        • किं वेद ? एतत् (ब्रह्म)

पदार्थः / पदविवरणम्

  • तद्वनम् = तत् वननीयं संभजनीयम् one that is most desired
  • उपासितव्यम् = चिन्तनीयम्
  • संवाञ्छन्ति = प्रार्थयन्ते

मूलम्  (4.7)

उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद् ब्राह्मीं वाव त उपनिषदमब्रूमेति ॥

पदच्छेदः

उपनिषदम् भो ब्रूहि इति उक्ता ते उपनिषत् ब्राह्मीं वाव ते उपनिषदम् अब्रूम इति

अन्वयः

भोः उपनिषदं ब्रूहि इति (शिष्यः अवदत्) । ते उपनिषत् उक्ता | ब्राह्मीं वाव उपनिषदं ते अब्रूम इति (गुरुः अवदत्) ।

आकाङ्क्षा

  • (शिष्यः अवदत्)
    • किमिति अवदत् ? भोः ब्रूहि इति
      • कां ब्रूहि ? उपनिषदम्
    • (गुरुः अवदत्)
      • किमिति अवदत् ? उक्ता इति
        • का उक्ता ? उपनिषत्
        • कस्मै उक्ता ? ते (शिष्याय)
      • पुनः किमिति अवदत् ? अब्रूम इति
        • कस्मै अब्रूम ? ते
        • काम् अब्रूम ? उपनिषदम्
          • कीदृशीम् उपनिषदम् ? ब्राह्मीं वाव

पदार्थः / पदविवरणम्

  • उपनिषत् = the secret knowledge

मूलम्  (4.8)

तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यमायतनम्‌ ॥

पदच्छेदः

तस्यै तपः दमः कर्म इति प्रतिष्ठा वेदाः सर्वाङ्गानि सत्यम् आयतनम्

अन्वयः

तपः दमः कर्म इति तस्यै प्रतिष्ठा । वेदाः सर्वाङ्गानि । सत्यम् आयतनम् ॥

आकाङ्क्षा

  • प्रतिष्ठा अस्ति
    • कस्यै प्रतिष्ठा ? तस्यै (ब्रह्मविद्यायै)
    • के प्रतिष्ठा ? तपः दमः कर्म इति
  • सर्वाङ्गानि अस्ति
    • के सर्वाङ्गानि ? वेदाः
  • आयतनम् अस्ति
    • किं आयतनम् ? सत्यम्

पदार्थः / पदविवरणम्

  • प्रतिष्ठा = आश्रयः / पादम् (Basic requirement is penance, self-control and action for the chitta shuddhi)
  • आयतनम् = निवासस्थानम्

मूलम्  (4.9)

यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥

पदच्छेदः

यः वै एताम् एवम् वेद अपहत्य पाप्मानम् अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति प्रतितिष्ठति

अन्वयः

यः वै एताम् एवं वेद सः पाप्मानम् अपहत्य अनन्ते ज्येये स्वर्गे लोके प्रतितिष्ठति ॥

आकाङ्क्षा

  • प्रतितिष्ठति प्रतितिष्ठति
    • कुत्र प्रतितिष्ठति ? स्वर्गे लोके
      • कीदृशे स्वर्गे लोके ? ज्येये
      • पुनः कीदृशे स्वर्गे लोके ? अनन्ते
    • किंकृत्वा प्रतितिष्ठति ? अपहत्य
      • किम् अपहत्य ? पाप्मानम्
    • कः प्रतितिष्ठति ? सः
      • कीदृशः सः ? यः वै वेद
        • कथं वेद ? एवम्
        • कां वेद ? एताम् (ब्रह्मविद्याम्)

पदार्थः / पदविवरणम्

  • ज्येये = ज्यायसि सर्वमहत्तरे

मूलम्  (शान्तिमन्त्रम्)

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।

ॐ शान्तिः शान्तिः शान्तिः ॥

References:

These notes are meant only to assist the Sanskrit students.  Please refer the numerous commentaries available on Kena Upanishad to understand the purport.

Anand class.jpeg