(Video) Hastamalakeeyam anvaya

।।  हस्तामलकस्तोत्रम् ।।  हस्तामलकम्  ।। हस्तामलकीयम् ।।

  • हस्तामलकम्
    • हस्तामलकम् = हस्तामलकस्य इदम् (तद्धितः)
      • हस्तामलकः = हस्तामलकम् इव ज्ञानं यस्य सः
        • हस्तामलकम् = हस्ते आमलकः
      • हस्तामलकीयम् = हस्तामलकस्य इयम्

Review pending – Pl. come back later to nivedita2015.wordpress.com for the updated version.

आचार्य उवाच 

कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि ।
एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीति विवर्धनोऽसि ।।१।।

पदच्छेदः

कः त्वम् शिशो कस्य कुतः असि गन्ता किम् नाम ते त्वम् कुतः आगतः असि ।
एतत् मया उक्तम् वद च अर्भक त्वं मत्प्रीतये प्रीतिविवर्धनः असि ।

अन्वयः

हे शिशो | त्वं कः (असि) | (त्वं) कस्य (असि) | कुतः गन्ता असि | ते नाम किम् | त्वं कुतः आगतः असि । एतत् मया उक्तम् | (त्वम् उत्तरं) मत्प्रीतये वद | हे अर्भक | त्वं प्रीतिविवर्धनः च असि ।

आकाङ्क्षा

  • हे शिशो |
  • त्वं कः (असि) |
  • (त्वं) कस्य (असि) |
  • कुतः गन्ता असि |
  • ते नाम किम् |
  • त्वं कुतः आगतः असि ।
  • एतत् मया उक्तम् |
  • (त्वम् उत्तरं) मत्प्रीतये वद |
  • हे अर्भक |
  • त्वं प्रीतिविवर्धनः च असि ।

पदार्थः

  • अर्भकः = बालकः
  • कुतः गन्ता असि = कस्मात् कारणात् गन्ता असि

हस्तामलक उवाच ।

नाहं मनुष्यो न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः  
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ।।२।।

पदच्छेदः

न अहम् मनुष्यः न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ।
न ब्रह्मचारी न गृही वनस्थः भिक्षुः न च अहम् निज-बोध-रूपः ।

अन्वयः

अहं मनुष्यः न अस्मि | अहं देव-यक्षौ च न अस्मि | ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः न । ब्रह्मचारी न | गृही न | वनस्थः न | भिक्षुः च न | अहं निज-बोध-रूपः अस्मि ।

आकाङ्क्षा

  • अहं मनुष्यः न अस्मि |
  • अहं देव-यक्षौ च न अस्मि |
  • अहं ब्राह्मण-क्षत्रिय-वैश्य-शूद्राःन अस्मि ।
  • अहं ब्रह्मचारी न अस्मि |
  • अहं गृही न अस्मि |
  • अहं वनस्थः न अस्मि |
  • अहं भिक्षुः च न अस्मि |
  • अहं निज-बोध-रूपः अस्मि ।

पदार्थः

  • निज-बोध-रूपः – स्वयंप्रकाशरूपः ; निज.. = स्वयम् ,  बोधः = ज्ञानम्

निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । 
रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।३।।

पदच्छेदः

निमित्तं मनस्-चक्षुर्-आदि-प्रवृत्तौ निरस्त-अखिल-उपाधिः आकाश-कल्पः ।
रविः लोक-चेष्टा-निमित्तं यथा यः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा रविः लोक-चेष्टा-निमित्तं (तथा) यः मनस्-चक्षुर्-आदि-प्रवृत्तौ निमित्तं सः नित्य-उपलब्धि-स्वरूपः, आकाश-कल्पः निरस्त-अखिल-उपाधिः (च) आत्मा अहम् अस्मि |

आकाङ्क्षा

  • निमित्तं भवति
    • कस्मिन् विषये ? मनस्-चक्षुर्-आदि-प्रवृत्तौ [ प्रवृत्तौ – प्रवृत्ति स्त्री. सप्. एक. ]
    • कः? यः
    • कथमिव निमित्तं भवति ? यथा रविः लोक-चेष्टा-निमित्तं तथा
    • यः एतादृशं निमित्तं भवति सः कः ? स: अहम् अस्मि
      • कः अहम? आत्मा
        • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः
        • पुनः कीदृशः आत्मा ? निरस्त-अखिल-उपाधिः – devoid of all limiting adjuncts
          • यदा निरस्त-अखिल-उपाधिः भवति तदा कथं भवति ? आकाश-कल्पः

पदार्थः

  • मनस्-चक्षुः-आदि = ज्ञानेन्द्रियाणि
  • निमित्तम् = कारणम्
  • निरस्त-अखिल-उपाधिः = स्तूल-सूक्ष्म-कारण-शारीरातीतः
    • निरस्त = [ निर् + अस् “अस भुवी” + क्तप्रत्ययः]  अतीतः
  • आकाश-कल्पः = आकाश-तुल्यः
  • नित्य-उपलब्धि-स्वरूपः which is of the nature of eternal consciousness; i.e., that which is ever present and ever available
    • उपलब्धि = उपलभ्यमानम्
    • नित्य-उपलब्धि-स्वरूपः = सत्स्वरूपः (सत्-चित्-आनन्दे विद्यमानं सत्)

श्लोकस्य सारः “अहं साक्षी”  |

I am that presence which lends itself to all activities without being involved in them, just as even in space – everything is accommodated in space and still space is free from all attributes.

यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । 
प्रवर्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ।।४।।

पदच्छेदः

यम् अग्नि-उष्णवत् नित्य-बोध-स्वरूपं मनस्-चक्षुर्-आदीनि अबोध-आत्मकानि ।
प्रवर्तन्ते आश्रित्य निष्कम्पम् एकम् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यम् आश्रित्य अबोधात्मकानि मनस्-चक्षुः-आदीनि प्रवर्तन्ते अग्नि-उष्णवत् नित्य-बोध-स्वरूपं नि:+कम्पम् एकम् सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • प्रवर्तन्ते
    • कथमिव ? अग्नि-उष्णवत्
    • कानि ? मनस्-चक्षुः-आदीनि
      • कीदृशानि ? अबोधात्मकानि
    • किं कृत्वा ? आश्रित्य
      • कम् आश्रित्य ? यम्
    • यम् आश्रित्य प्रवर्तन्ते सः कः ? सः अहम्
      • सः अहंकः ? आत्मा
        • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अबोधात्मकानि = [हेतु-गर्भ-विशेषणम्] | मनस्-चक्षुः-आदीनि अबोधात्मकत्वात् प्रवर्तन्ते |
  • बोदात्मकम् = ज्ञानस्वरूपम्
  • निष्कम्पम् = निस्+कम्पम् = कम्परहितम्  / अचलम्

श्लोकस्य सारः “अहम् अधिष्ठानम्” | मनश्चक्षुरादिनां स्वातन्त्र्यं नास्ति |

मुखाभासको दर्पणे दृश्यमानो मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु । 
चिदाभासको धीषु जीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ।।५।।

पदच्छेदः

मुखाभासकः दर्पणे दृश्यमानः मुखत्वात् पृथक्त्वेन न एव अस्ति वस्तु ।
चिदाभासकः धीषु जीवः अपि तत्-वत् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

दर्पणे दृश्यमानः मुख-आभासकः मुखत्वात् पृथक्त्वेन वस्तु न एव अस्ति । धीषु दृश्यमानः चिदाभासकः जीवः अपि तत्-वत् पृथक्त्वेन वस्तु न एव अस्ति । सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • न एव अस्ति ।
    • कथम् ? पृथक्त्वेन
      • कस्मात् पृथक्त्वेन ? मुखत्वात्
    • कः ? मुख-आभासकः
      • कथम्भूतः मुख-आभासकः ? दृश्यमानः
        • कुत्र दृश्यमानः ? दर्पणे
      • तत्-वत् किम् ? तत्-वत् न एव अस्ति
        • कथम्भूतं न अस्ति ? वस्तु
          • कीदृशं वस्तु न अस्ति? पृथक्त्वेन
        • कः ? जीवः अपि
          • कीदृशः जीवः ? चिदाभासकः
          • पुनः कीदृशः जीवः ? दृश्यमानः
            • कुत्र दृश्यमानः ? धीषु
          • यः तत्-वत् न एव अस्ति सः कः? सः अहम्
            • सः अहंकः ? आत्मा
              • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • आभासकः / आभासः = प्रतिबिम्बम् |
  • धीः = सुक्ष्मशरीरः
  • जीवः= अत्र आत्मा नास्ति | सूक्ष्म-शरीरः चिदासः च |

श्लोकस्य सारः “चिदाभासकः मित्या”

यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । 
तथा धीवियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।६।।

पदच्छेदः

यथा दर्पण-अभावे आभासहानौ मुखं विद्यते कल्पना-हीनम् एकम् ।
तथा धी-वियोगे निराभासकः यः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा दर्पण-अभावे आभासहानौ कल्पना-हीनम् एकं मुखं विद्यते, तथा धी-वियोगे निराभासकः यः विद्यते, सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • विद्यते
    • किं विद्यते ? मुखम्
      • कीदृशं मुखम् ? एकम्
      • पुनः कीदृशं मुखम् ? कल्पना-हीनम्
    • कदा ? दर्पण-अभावे
      • पुनः कदा ? आभासहानौ [ हानिः  स्त्री.  सप्. एक. ]
    • यथा मुखं विद्यते तथा कः विद्यते ? निराभासकः
      • कदा ? धी-वियोगे
      • यः निराभासकः विद्यते सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
          • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • कल्पना-हीनम् = प्रतिबिम्ब-रहितम्
  • आभास-हानौ = यदा आभासः न भवति

श्लोकस्य सारः “मनः मित्या”

The birth of this individual happens when there is an identification with the medium rather than the consciousness. One thinks “I am <something that is the attribute of the body-mind-intellect>”.

मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । 
मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।७।।

पदच्छेदः

मनश्चक्षुरादेः वियुक्तः स्वयं यः मनश्चक्षुरादेः मनश्चक्षुरादिः ।
मनश्चक्षुरादेः अगम्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यः मनश्चक्षुरादेः वियुक्तः, यः स्वयं मनश्चक्षुरादेः मनश्चक्षुरादिः, मनश्चक्षुरादेः अगम्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अस्मि
    • कः? अहम्
    • अहं कः अस्मि ? आत्मा
      • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः
      • कः आत्मा ? यः वियुक्तः सः
        • कस्मात् वियुक्तः ? मनश्चक्षुरादेः
      • पुनः कः आत्मा? यः मनश्चक्षुरादिः
        • कस्य मनश्चक्षुरादिः ? स्वयं मनश्चक्षुरादेः
      • पुनः कः आत्मा? यः अगम्य-स्वरूपः
        • कस्य अगम्य-स्वरूपः ? मनश्चक्षुरादेः

पदार्थः

  • वियुक्तः = तस्मात् भिन्नः
  • अगम्यम् = अवगन्तुं न शक्ष्यम्

श्रोत्रस्य श्रोत्रम् इति केनोपनिषदि अपि अस्ति |

य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु 
शरावोदकस्थो यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।८।।

पदच्छेदः

यः एकः विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपः अपि नाना इव धीषु
शराव-उदक-स्थः यथा भानुः एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा शराव-उदक-स्थः भानुः एकः अपि नाना इव विभाति, तथा यः एकः प्रकाशस्वरूपः शुद्धचेताः धीषु एकः अपि नाना इव स्वतः विभाति सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • विभाति
    • कथम् ? स्वतः
    • कः ? प्रकाशस्वरूपः
    • कथमिव विभाति ? एकः अपि नाना इव
    • कुत्र नाना इव विभाति ? धीषु
    • कीदृशः ? शुद्धचेताः[ चेतः – चेतस् इति नपुंसकलिङ्गः  | बहुव्रीहि-समासान्ते शुद्धचेतस् इति सकारान्तः  पुल्लिङ्गः प्रथमाविभक्तिः एकवचनम् ]
    • कथं एकः अपि नाना इव विभाति ? यथा भानुः विभाति
      • कीदृशः भानुः ? शराव-उदक-स्थः
    • यः प्रकाशस्वरूपः विभाति सः कः? सः अहम्
      • सः अहंकः ? आत्मा
      • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • शुद्धचेताः = प्रज्ञानघनः , ज्ञानस्वरूपी
  • शरावम् = पात्रम्

श्लोकस्य सारः – आत्मा एकः, अद्वैतः | नाना इव भाति | आत्मानं ज्ञातुं किमपि अन्यवस्तुनः आवश्यकता नास्ति | सः स्वप्रकाशः |

शरावम् ~= स्थूलशरीरः उदकम् ~= सुक्ष्मशरीरः; भानुः ~= आत्मा ; बिम्बम् ~= चिदाभासः ;

Notes from Swamini Swatmavidyanandaji’s lectures:

In the olden days, people were busy with the nitya and naimittika karma that there was no time for raagah and dveshah to make an appearance. Their minds were purified by these acts. So as time passed by, the agnihotra karma reduced and people started doing worship at the temples. When a lot of people come together, it encourages and becomes an inspiration for bhakti. The spirit of worship is to give up. तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन [The BrihadAraNyaka upaniShad* (4.4.22)]

The whole crux of the vedantic life is to drop those strong preferences (Raaga and Dvesha) by doing what needs to be done rather than doing what one wants to do. “I dedicate the likes and dislikes at the altar of Bhagavan and I do all that is required to be done. I accept the outcome whether favourable and not as a Prasad from Bhagavan” – should be the attitude. …. One should train oneself, observe and be alert to the purpose of one’s life and stick to it. That is svadharma.

यथाऽनेकचक्षुःप्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । 
अनेका धियो यस्तथैकः प्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।९।।

पदच्छेदः

यथा अनेक-चक्षुः-प्रकाशः रविः न क्रमेण प्रकाशी-करोति प्रकाश्यम् ।
अनेकाः धियः यः तथा एकः प्रबोधः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा अनेक-चक्षुः-प्रकाशः रविः प्रकाश्यं क्रमेण न प्रकाशी-करोति, तथा यः एकः प्रबोधः अनेकाः धियः न क्रमेण प्रकाशी-करोति, सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • प्रकाशी-करोति
    • कथम् ? न क्रमेण
    • कः ? प्रबोधः
      • कीदृशः ? एकः
    • काः (कर्मपदम्) प्रकाशी-करोति ? धियः
      • काः धियः ? अनेकाः
    • कथमिव ? यथा रविः न क्रमेण प्रकाशी-करोति तथा
      • कीदृशः रविः प्रकाशी-करोति? अनेक-चक्षुः-प्रकाशः
      • किं प्रकाशी-करोति ? प्रकाश्यम्
    • यः प्रकाशी-करोति सः कः? सः अहम्
      • सः अहंकः ? आत्मा
      • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • प्रकाशीकरोति — अप्रकाशं प्रकाशं करोति इति | च्विप्रत्ययः अभूततद्भावार्थकः भवति अर्थात् यद् वस्तु पूर्वम् तस्मिन् रूपे नासीत् किन्तु सम्प्रति परिवर्तितम् रूपम् धारयति तस्य बोधाय च्विप्रत्ययः प्रयुज्यते।

श्लोकस्य सारः “आत्मा ज्योतिषां ज्योतिः”

विवस्वत-प्रभातं यथा रूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । 
यदाभात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा।।१०।।

पदच्छेदः

विवस्वत-प्रभातम् यथा रूपम् अक्षम् प्रगृह्णाति न आभातम् एवं विवस्वान् ।
यत्-आभातः आभासयति अक्षम् एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा अक्षं विवस्वत-प्रभातं रूपं प्रगृह्णाति, न आभातम्, एवं यदाभातः एकः विवस्वान् अक्षम् आभासयति सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अक्षम् प्रगृह्णाति
    • किं प्रगृह्णाति ? रूपम्
      • कीदृशं रूपम् प्रगृह्णाति? विवस्वत-प्रभातम्
    • अक्षम् न प्रगृह्णाति
      • किं प्रगृह्णाति ? रूपम्
        • कीदृशं रूपम् न प्रगृह्णाति ? आभातम्
      • तथा किम् ? एवम् आभासयति
        • किम् आभासयति ? अक्षम्
        • कः आभासयति ? विवस्वान्
          • कीदृशः विवस्वान् ? एकः
          • पुनः कीदृशः विवस्वान् ? यदाभातः
          • यस्मात् विवस्वान् आभातः सः कः? यदाभातः सः अहम्
            • सः अहंकः ? आत्मा
            • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • यदाभातः = येन आभातः, येन आत्मना आभातः

श्लोकस्य सारः “आत्मा मनः प्रकाशयति” |

यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः
चलासु प्रभिन्नासुधीष्वेवमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।११।।

पदच्छेदः

यथा सूर्यः एकः अप्सु अनेकः चलासु स्थिरासु अपि अनन्वग्-विभाव्य-स्वरूपः
चलासु प्रभिन्नासु धीषु एवम् एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा एकः सूर्यः चलासु स्थिरासु (च) अप्सु अनेकः अपि अनन्वग्-विभाव्य-स्वरूपः एवम् एकः प्रभिन्नासु चलासु सुधीषु अनन्वग्-विभाव्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अनन्वग्-विभाव्य-स्वरूपः अस्ति
    • कः ? सूर्यः
      • कीदृशः ? एकः
      • कथम्भुतः अपि ? अनेकः अपि
    • कुत्र अनन्वग्-विभाव्य-स्वरूपः ? अप्सु [ अप् स्त्री. सप्. (नित्य) बहु. ]
      • कीदृशीसु ? स्थिरासु
      • अथवा कीदृशीसु ? चलासु
    • यथा अनन्वग्-विभाव्य-स्वरूपः एवं कः ? एवम् एकः अनन्वग्-विभाव्य-स्वरूपः
      • कुत्र अनन्वग्-विभाव्य-स्वरूपः ? सुधीषु
        • कीदृशीसु ? चलासु
        • पुनः कीदृशीसु सुधीषु ? प्रभिन्नासु
      • यः एवम् अनन्वग्-विभाव्य-स्वरूपः सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
        • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अनन्वग्-विभाव्य-स्वरूपः
    • विभाव्यम् = चिन्तनीयम्
    • अनन्वक् = न अन्वक् | न स्पृष्टम्
    • अनन्वग्-विभाव्य-स्वरूपः = अनन्वग्त्वेन विभाव्यं स्वरूपं यस्य सः

श्लोकस्य सारः “उपाधेः धर्म आत्मानं न“

घनच्छन्नदृष्टिर्घनच्छन्नमर्कम् यथा निष्प्रभं मन्यते चातिमूढः । 
तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।१२।।

पदच्छेदः

घनच्छन्न-दृष्टिः घनच्छन्नम् अर्कम् यथा निष्प्रभं मन्यते च अतिमूढः ।
तथा बद्धवत् भाति यः मूढ-दृष्टेः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा घनच्छन्न-दृष्टिः अतिमूढः अर्कं घनच्छन्नं निष्प्रभं च मन्यते, तथा यः मूढ-दृष्टेः (दृष्ट्या) बद्धवत् भाति, सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • मन्यते
    • कः ? अतिमूढः
      • कीदृशः ? घनच्छन्न-दृष्टिः
    • कम् ? अर्कम्
      • कथम्भूतमिति मन्यते ? घनच्छन्नम्
      • पुनः कथम्भूतमिति मन्यते ? निष्प्रभं च
    • यथा अतिमूढः मन्यते तथा किं भवति? भाति
      • कः ? यः
      • कथं भाति ? बद्धवत्
      • कया भाति ? (दृष्ट्या)
        • कस्याः दृष्ट्या ? मूढ-दृष्टेः
      • यः बद्धवत् भाति सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
        • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • घनच्छन्न-दृष्टिः = धनेन मेघेन च्छन्नम् आच्छन्ना दृष्टिः यस्य सः |

श्लोकस्य सारः “अविद्या आत्मानम् आच्छन्नं न करोति” इति बन्दस्य मित्यत्त्वम् |

समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशन्ति । 
वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्योपलब्धिस्वरूपोऽहमात्मा ।।१३।।

पदच्छेदः

समस्तेषु वस्तुषु अनुस्यूतम् एकम् समस्तानि वस्तूनि यम् न स्पृशन्ति ।
वियद्वत् सदा शुद्धम् अच्छ-स्वरूपम् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

समस्तेषु वस्तुषु अनुस्यूतम् एकम् |  समस्तानि वस्तूनि यम् न स्पृशन्ति, (तदेकं) वियद्वत् सदा शुद्धम् अच्छ-स्वरूपम् | सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • एकम् अस्ति
    • कीदृशम् ? अनुस्यूतम्
      • कुत्र ? वस्तुषु
        • किदृशेषु वस्तुषु ? समस्तेषु
      • न स्पृशन्ति
        • कानि ? वस्तूनि
          • कीदृशानि वस्तूनि ? समस्तानि
        • कं न स्पृशन्ति ? यम्
      • यं न स्पृशन्ति तद् किम् ? तदेकं
        • तद् कीदृशम् ? शुद्धम्
        • पुनः तद् कीदृशम् ? अच्छ-स्वरूपम्
          • कदा शुद्धम् अच्छ-स्वरूपं च ? सदा
        • अस्मि
          • कः? अहम्
          • अहं कः अस्मि ? आत्मा
            • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अनुस्यूतम् = व्याप्तम्
  • वियद्वत् = आकाशवत्
  • अच्छ-स्वरूपम् = अमृत-स्वरूपम्

श्लोकस्य सारः “आत्मा असङ्गः” |

उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । 
यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ।।१४।।

पदच्छेदः

उपाधौ यथा भेदता सन्मणीनाम् तथा भेदता बुद्धि-भेदेषु ते अपि ।
यथा चन्द्रिकाणां जले चञ्चलत्वम् तथा चञ्चलत्वम् तव अपि इह विष्णो ।

अन्वयः

यथा उपाधौ सन्मणीनां भेदता तथा ते अपि बुद्धि-भेदेषु भेदता | यथा जले चन्द्रिकाणां चञ्चलत्वं तथा इह तव अपि चञ्चलत्वम् | हे विष्णो |

आकाङ्क्षा

  • भेदता भवति
    • केषाम् ? सन्मणीनाम्
    • कुत्र ? उपाधौ
    • यथा सन्मणीनां भेदता तथा किम् अस्ति ? भेदता अस्ति
      • कस्य ? ते अपि
      • कुत्र ? बुद्धि-भेदेषु
    • चञ्चलत्वम् अस्ति
      • कासाम् ? चन्द्रिकाणाम्
      • कुत्र ? जले
      • यथा चन्द्रिकाणां चञ्चलत्वम् अस्ति तथा किमस्ति ? चञ्चलत्वम् अस्ति
        • कस्य ? तव अपि
        • कुत्र ? इह
      • हे विष्णो

पदार्थः

  • विष्णुः = सर्वव्यापि
  • सन्मणी = स्फटिकः

।। इति श्रीमद् शङ्कराचार्यकृत हस्तामलकसंवादस्तोत्रं संपूर्णम् ।।

 

 

Advertisements