Srimad Bhagavatam – Kunti Stuti – Anand

Kunti Stuti – Anand – Srimad Bhagavatam 1.8.18 to 1.8.43

Srimad Bhagavadapuranam skanda 1 adhyaayah 8

भागवतपुराणम् – कुन्तीस्तुतिः – १.८.१८ – १.८.४३

Kunti Stuti Part 1 – Sanskrit Session by Anand – Srimad Bhagavadam – Shlokas 1.8.18 to 1.8.43

Part 1 of Anand’s sessions

The introduction to Bhagavata Puram and Kunti Stuti are available at the end, after the shlokas.

कुन्तीस्तुतिः

1.     श्रीमद्भागवतम् – १.८.१८ Srimad Bhagavatam – 1.8.18

श्लोकः

कुन्त्युवाच
नमस्ये पुरुषं त्वाऽऽद्यम् ईश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् ॥ १८ ॥

2.     श्रीमद्भागवतम् – १.८.१९ Srimad Bhagavatam – 1.8.19

श्लोकः

मायाजवनिकाच्छन्नं अज्ञाधोक्षजमव्ययम् ।
न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ १९ ॥

3.     श्रीमद्भागवतम् – १.८.२० Srimad Bhagavatam – 1.8.20

श्लोकः

तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ २० ॥

पदच्छेदः

कुन्ती उवाच

नमस्ये पुरुषम् त्वा आद्यम् ईश्वरम् प्रकृतेः परम् अलक्ष्यम् सर्वभूतानाम् अन्तः बहिः अवस्थितम्
मायाजवनिकाच्छन्नम् अज्ञा अधोक्षजम् अव्ययम्  न लक्ष्यसे मूढदृशा नटः नाट्यधरः यथा तथा परमहंसानाम् मुनीनाम् अमलात्मनाम् भक्तियोगविधानार्थम् कथम् पश्येम हि स्त्रियः

अन्वयः

सर्वभूतानाम् अन्तः बहिः (च) अवस्थितम् अलक्ष्यम् आद्यम् ईश्वरं प्रकृतेः परं मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययं पुरुषं त्वा नमस्ये । यथा नाट्यधरः नटः (न लक्ष्यते तथा) मूढदृशा (त्वं) न लक्ष्यसे । तथा परमहंसानां अमलात्मनां मुनीनां भक्तियोगविधानार्थं (आगतं त्वां) कथं हि स्त्रियः पश्येम ।

अन्वयरचना

  • नमस्ये ।
    • का नमस्ये ? (अहम्)
      • कीदृशी अहम् ? अज्ञा
    • कं नमस्ये ? त्वा
      • कीदृशं त्वा ? पुरुषम्
        • कीदृशं पुरुषम् ? आद्यम्
      • पुनः कीदृशं त्वा ? ईश्वरम्
      • पुनः कीदृशं त्वा ? परम्
        • कस्मात् परम् ? प्रकृतेः
      • पुनः कीदृशं त्वा ? अलक्ष्यम्
      • पुनः कीदृशं त्वा ? अवस्थितम्
        • कुत्र अवस्थितम् ? अन्तः
        • पुनः कुत्र अवस्थितम् ? बहिः
        • केषां बहिः अन्तः च ? सर्वभूतानाम्
      • पुनः कीदृशं त्वा ? मायाजवनिकाच्छन्नम्
      • पुनः कीदृशं त्वा ? अधोक्षजम्
      • पुनः कीदृशं त्वा ? अव्ययम्
    • न लक्ष्यसे ।
      • कः न लक्ष्यसे ? (त्वम्) (कर्मणिप्रयोगः कर्मपदम्)
      • केन न लक्ष्यसे ? मूढदृशा (कर्मणिप्रयोगः कर्तृपदम्)
      • कथं न लक्ष्यसे ? यथा (न लक्ष्यते तथा)
        • कः न लक्ष्यते ? नटः (कर्मणिप्रयोगः कर्तृपदम्)
          • कथम्भूतः नटः ? नाट्यधरः
        • केन / कैः न लक्ष्यते ? (केनापि / सर्वैः ) (कर्मणिप्रयोगः कर्तृपदम्)
      • तथा (वयम्) कथं हि पश्येम
        • कीदृश्यः वयम् ? स्त्रियः
        • कं पश्येम ? (त्वाम्)
          • कीदृशं त्वाम् ? (आगतम्)
            • किमर्थम् आगतम् ? भक्तियोगविधानार्थम्
              • केषां भक्तियोगविधानार्थम् ? मुनीनाम्
                • कीदृशानां मुनीनाम् ? अमलात्मनाम्
                • पुनः कीदृशानां मुनीनाम् ? परमहंसानाम्

पदविवरणम्

  • नमस्ये = नमस् + क्यच् । नमस्य इति नामधातुः । परस्मैपदिनि लट्लकारे प्रथमपुरुषे नमस्यति, नमस्यतः, नमस्यन्ति । अत्र आ.प., आर्षप्रयोगः, लट्., उ.पु., ए.व ।
    By 3-1-19 नमोवरिवश्चित्रङः क्यच् – The affix क्यच् is employed after the words “नमस्”, “वरिवस्” and “चित्रङ्” when they end in the accusative case and denote the object of “making/doing” – specifically पूजायाम् (in the sense of worship) with “नमस्”, परिचर्यायाम् (in the sense of honor/service) with “वरिवस्” and आश्चर्ये (in the sense of wonder) with “चित्रङ्”।
  • त्वा = त्वाम् । तुभ्यम् शब्दः, द्वि.वि., ए.व.
  • अधोक्षजम्
    • अक्षजम् = इन्द्रियजं ज्ञानम्
    • अधोक्षजम् = अधः अक्षजम् यस्मात् तम्
  • मायाजवनिकाच्छन्नम्
    • मायाजवनिकाच्छन्नम् = माया एव जवनिका
    • मायाजवनिकाच्छन्नम् = मायाजवनिकया आच्चन्नम्

अन्यविशयाः

  • “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण स्थितः” इति श्रुतिः ।
  • पाहि पाहि महायोगिन्देवदेव जगत्पते
    नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ( 1.8.9) – उत्तरा इत्युवाच ।

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8
लघु गुरु लघु गुरु लघु
स्ये पु रु षं त्वा द्यम् श्व रं प्र कृ तेः रम्
क्ष्यं र्व भू ता नाम् न्त र्ब हि स्थि तम्

 

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (18 – 20)

त्वा त्वां नमस्ये नमस्करोमि । ननु कनिष्ठं मां कथं नमस्करोषि तत्र आह । आद्यं पुरुषं कुतः प्रकृतेः परम् । तत्कुतः । ईश्वरं प्रकृतेः अपि नियन्तारम् । अत एव सर्वभूतानाम् अन्तः बहिः च पूर्णत्वेन अवस्थितंतथा अपि अलक्ष्यम् ।। १८ ।।

तत्र हेतुः । माया एव जवनिका तिरस्करिणी तया आच्छन्नं प्रतिच्छन्नम् । अतः अहम् अज्ञाभक्तियोगानभिज्ञा केवलं नमस्यामि । अधोक्षजम् इन्द्रियजं ज्ञानं यस्मात् तम् । अव्ययम् अपरिच्छिन्नम् । तत्प्रपंचः । मूढदृशा देहाभिमानिना पुंसा न त्वं लक्ष्यसे ।। १९ ।।

किं च परमहंसानाम् आत्मानात्मविवेकिनां ततः मुनीनां मननशीलानाम् अपि ततः च अमलात्मनांनिवृत्तरागादीनाम् अपि तथा तेन निजमहिम्ना न लक्ष्यसे अतः भक्तियोगं विधातुं त्वां वयं स्त्रियः कथं हि पश्येम । यद्वा परमहंसादीनाम् अपि भक्तियोगविधानार्थं त्वाम् आत्मारामाणाम् अपि अचिंत्यनिजगुणैः आकृष्य भक्तियोगं विधातुं कारयितुम् अवतीर्णम् इति अर्थः ।। २० ।।

Part 2 of Anand’s sessions

4.     श्रीमद्भागवतम् – १.८.२१ Srimad Bhagavatam – 1.8.21

श्लोकः

कृष्णाय वासुदेवाय देवकीनंदनाय च ।
नंदगोपकुमाराय गोविन्दाय नमो नमः ॥ २१ ॥

पदच्छेदः

कृष्णाय वासुदेवाय देवकी-नंदनाय च नंद-गोप-कुमाराय गोविन्दाय नमः नमः

अन्वयः

कृष्णाय वासुदेवाय देवकीनंदनाय नंदगोपकुमाराय गोविन्दाय च नमः ।

अन्वयरचना

  • नमः (अस्तु) ।
    • कस्मै नमः (अस्तु) ? कृष्णाय
      • कीदृशाय कृष्णाय ? वासुदेवाय
      • पुनः कीदृशाय कृष्णाय ? देवकीनंदनाय नंदगोपकुमाराय गोविन्दाय च

पदविवरणम्

  • गोविन्दाय A cow-keeper, one who protects, cherishes or owns cattle. गो language, here the language of the Vedas especially, and विन्द who knows, from विद् to know, with श affix; also गो heaven, a cow, विद् to obtain, by whom heaven is obtained, or who obtains felicity by protecting cattle. गां वेदमयीं वाणीं, भुवं धेनुं स्वर्गं वा विन्दति । गोभि: विद्यते (उपनिशद्वाक्यै: ज्ञायते) इति गोविन्दः ।

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

5.     श्रीमद्भागवतम् – १.८.२२ Srimad Bhagavatam – 1.8.22

श्लोकः

नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥

पदच्छेदः

नमः पङ्कजनाभाय नमः पङ्कजमालिने नमः पङ्कजनेत्राय नमः ते पङ्कजाङ्घ्रये

अन्वयः

पङ्कजनाभाय नमः । पङ्कजमालिने नमः । पङ्कजनेत्राय नमः । ते पङ्कजाङ्घ्रये नमः ।

अन्वयरचना

  • नमः (अस्तु) ।
    • कस्मै नमः (अस्तु) ? पङ्कजनाभाय
    • पुनः कस्मै नमः? पङ्कजमालिने
    • पुनः कस्मै नमः? पङ्कजनेत्राय
    • पुनः कस्मै नमः? ते (तुभ्यम्) पङ्कजाङ्घ्रये

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

6.     श्रीमद्भागवतम् – १.८.२३ Srimad Bhagavatam – 1.8.23

श्लोकः

यथा हृषीकेश खलेन देवकी
कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो
त्वयैव नाथेन मुहुर्विपद्‍गणात् ॥ २३ ॥

पदच्छेदः

यथा हृषीकेश खलेन देवकी कंसेन रुद्धा अति-चिरं शुचार्पिता
विमोचिता अहं च सहात्मजा विभो त्वया एव नाथेन मुहुः विपद्‍गणात्

अन्वयः

(हे) हृषीकेश, यथा खलेन कंसेन अति-चिरं रुद्धा, शुचार्पिता देवकी त्वया विमोचिता, (हे) विभो, (तथा) सहात्मजा अहं च नाथेन (त्वया) एव विपद्‍गणात् मुहुः (विमोचिता अस्मि) ।

अन्वयरचना

  • (हे) हृषीकेश [ हृषिकानां इन्द्रियाणां ईशः ]
  • (हे) विभो [ विभुः पदस्य संभोधनम् । सर्वव्यापी ]
  • विमोचिता ।
    • केन विमोचिता ? त्वया
    • का विमोचिता ? देवकी
      • कीदृशी देवकी ? शुचार्पिता = शुचा दुःखम् + आर्पिता अनुबद्धा = शोके निमग्ना
      • पुनः कीदृशी देवकी ? रुद्धा [ निगृहीता ]
        • कियत् कालं रुद्धा ? अतिचिरम्
        • केन रुद्धा ? कंसेन
          • कीदृशेन कंसेन ? खलेन [ दुष्टेन ]
        • पुनः का च विमोचिता ? यथा (सा तथा) अहम् च [ कुन्ती च ]
          • कीदृशी अहम् ? सहात्मजा = या आत्मजैः सह वर्तते सा (बहुव्रीहिः)
        • केन विमोचिता ? त्वया एव = कृष्णेन एव
          • कीदृशेन त्वया ? नाथेन
        • कस्मात् विमोचिता ? विपद्‍गणात्
        • कथं विमोचिता ? मुहुः = पुनःपुनः

छन्दः

वंशस्थविलम् – लक्षणम् “वदन्ति वंशस्थविलं जतौ जरौ” – जगण तगण जगण रगण – 12 अक्षराणि – Vamshasthavilah वंशस्थविलः in https://nivedita2015.wordpress.com/chandas-2/#vamshasthavilah

 

1 2 3 4 5 6 7 8 9 10 11 12
जगण तगण जगण रगण
न्ति वं स्थ वि लं तौ रौ
गु गु गु गु गु गु
था हृ षी के ले दे की
कं से रु द्धा ति चि रं शु चा र्पि ता
वि मो चि ता हं हा त्म जा वि भो
त्व यै ना थे मु हु र्वि द्‍ग णात्

 

7.     श्रीमद्भागवतम् – १.८.२४ Srimad Bhagavatam – 1.8.24

श्लोकः

विषान्महाग्नेः पुरुषाददर्शनाद्
असत्सभाया वनवासकृच्छ्रतः ।
मृधे मृधेऽनेकमहारथास्त्रतो
द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिताः ॥

पदच्छेदः

विषात् महाग्नेः पुरुषाद-दर्शनात् असत्-सभायाः वन-वास-कृच्छ्रतः मृधे मृधे अनेक-महारथास्त्रतः द्रौण्यस्त्रतः च आस्म हरे अभिरक्षिताः

अन्वयः

(हे) हरे, (वयं) विषात्, महाग्नेः, पुरुषाददर्शनात्, असत्सभायाः, वनवासकृच्छ्रतः, मृधे मृधे अनेकमहारथास्त्रतः, द्रौण्यस्त्रतः च अभिरक्षिताः आस्म ।

अन्वयरचना

  • हे हरे ।
  • अभिरक्षिताः आस्म ।
    • के अभिरक्षिताः आस्म ? (वयम्)
    • कस्मात् अभिरक्षिताः ? विषात् (भीमेन यत् पीतम्)
      • पुनः केभ्यः अभिरक्षिताः ? महाग्नेः (लाक्षागृहाग्निः)
      • पुनः कस्मात् अभिरक्षिताः ? पुरुषाददर्शनात् (हिदिम्बः)
      • पुनः कस्याः अभिरक्षिताः ? असत्सभायाः (द्रौपद्याः रक्षणम्)
      • पुनः कस्मात् अभिरक्षिताः ? वनवासकृच्छ्रतः [ कृच्छ्रम् = कष्टम् ]
      • पुनः कस्मात् अभिरक्षिताः ? अनेकमहारथास्त्रतः = अनेक+महारथ+अस्त्रतः
        • कुत्र अनेकमहारथास्त्रतः ? मृधे मृधे = महाभारतयुद्दे
      • पुनः कस्मात् अभिरक्षिताः ? द्रौण्यस्त्रतः च = द्रौणि+अस्त्रतः च = अश्वत्तामनः अस्त्रात्

छन्दः

वंशस्थविलम् – लक्षणम् “वदन्ति वंशस्थविलं जतौ जरौ” – जगण तगण जगण रगण – 12 अक्षराणि Vamshasthavilah वंशस्थविलः in https://nivedita2015.wordpress.com/chandas-2/#vamshasthavilah

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (21 – 24)

ज्ञानभक्त्योः अशक्यत्वम् उक्त्वा पुनः केवलं नमस्करोति कृष्णाय इति द्वाभ्याम्  ।। २१ ।।
पंकजं नाभौ यस्य, पंकजानां माला अस्ति यस्य, पंकजवत् प्रसन्ने नेत्रे यस्य, पंकजांकितौ अंघ्री यस्य तस्मै ।। २२ ।।
तत्कृतोपकारान् अनुस्मरति यथा इति द्वाभ्याम् । अयमर्थः – मातृतः अपि मयि अधिका तव प्रीतिः । तथाहि हे हृषीकेश यथा देवकी कंसेन रुद्धा त्वया विमोचिता अहं च तथा एव किं विमोचिता इति काक्वा महान्विशेषः उक्तः । तं दर्शयति – सा अतिचिरं रुद्धा सती तस्मात् एव सकृत् विमोचिता । तथा शुचार्पिता च सती । न च तस्याः पुत्राः रक्षिताः । अस्ति च अन्यः नाथः तस्याः । अहं तु विपद्गणात् तत्र अपि मुहुः शीघ्रं च सात्मजात्वया एव च नाथेन इति ।। २३ ।।
विपद्गणमेव दर्शयति । विषाद्भीमस्य विषमोदकदानात् । महाग्नेः जतुगृहदाहात् । पुरुषादाः हिडिंबादयः राक्षसाः तेषां दर्शनात्असत्सभायाः द्यूतस्थानात् । अभितः रक्षिता आस्म अभवाम ।। २४ ।।

Part 3 of Anand’s sessions

8.     श्रीमद्भागवतम् – १.८.२५ Srimad Bhagavatam – 1.8.25

श्लोकः

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्‍गुरो ।
भवतो दर्शनं यत्स्याद् अपुनर्भवदर्शनम् ॥ २५ ॥

पाठभेदः

विपदः सन्तु नः शश्वत्

पदच्छेदः

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्‍गुरो भवतः दर्शनम् यत् स्यात् अपुनः+भव+दर्शनम्

अन्वयः

हे जगद्‍गुरो । ताः विपदः शश्वत् सन्तु, यत् तत्र तत्र भवतः दर्शनम् अपुनर्भवदर्शनं स्यात् ।

अन्वयरचना

  • हे जगद्‍गुरो ।
  • सन्तु
    • काः सन्तु ? ताः विपदः
    • कियत् सन्तु ? शश्वत्
    • किमर्थं सन्तु ? यत् … अपुनर्भवदर्शनं स्यात्
    • किम् अपुनर्भवदर्शनम् स्यात् ? दर्शनम्
      • कस्य दर्शनम् ? भवतः
      • कुत्र दर्शनम् ? तत्र तत्र

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

9.     श्रीमद्भागवतम् – १.८.२६ Srimad Bhagavatam – 1.8.26

श्लोकः

जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् ।
नैवार्हत्यभिधातुं वै त्वां अकिञ्चनगोचरम् ॥ २६ ॥

पदच्छेदः

जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् न एव अर्हति अभिधातुं वै त्वाम् अकिञ्चनगोचरम्

अन्वयः

जन्मैश्वर्यश्रुतश्रीभिः एधमानमदः पुमान् अकिञ्चनगोचरं वै त्वाम् अभिधातुं न अर्हति एव ।

अन्वयरचना

  • न अर्हति एव
    • किं कर्तुम् ? अभिधातुम्
      • कम् अभिधातुम् ? त्वाम्
        • कीदृशं त्वाम् ? अकिञ्चनगोचरम् वै
      • कः न अर्हति ? पुमान्
        • कीदृशः पुमान् ? एधमानमदः
          • कैः एधमानमदः ? जन्मैश्वर्यश्रुतश्रीभिः

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (25 26)

यत् यासु विपत्सु कीदृशं दर्शनं नास्ति पुनरपि भवदर्शनं यस्मात् ।। २५ ।।

संपदः तु श्रेयःपरिपंथिन्य इत्याह । जन्म सत्कुले जन्मादिभिरेधमानः मदः यस्य सः । अभिधातुं श्रीकृष्ण गोविन्द इति वक्तुमपि अकिंचनानां गोचरं विषयभूतम् ।। २६ ।।

10.   श्रीमद्भागवतम् – १.८.२७ Srimad Bhagavatam – 1.8.27

श्लोकः

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ २७ ॥

पदच्छेदः

नमः अकिञ्चनवित्ताय निवृत्तगुणवृत्तये आत्मारामाय शान्ताय कैवल्यपतये नमः

अन्वयः

अकिञ्चनवित्ताय निवृत्तगुणवृत्तये नमः । आत्मारामाय शान्ताय कैवल्यपतये नमः ।

अन्वयरचना

  • नमः
    • कस्मै नमः ? निवृत्तगुणवृत्तये
      • कीदृशाय तस्मै ? अकिञ्चनवित्ताय
    • नमः
      • कस्मै नमः ? कैवल्यपतये
        • कीदृशाय तस्मै ? शान्ताय
        • पुनः कीदृशाय तस्मै ? आत्मारामाय

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

11.   श्रीमद्भागवतम् – १.८.२८ Srimad Bhagavatam – 1.8.28

श्लोकः

मन्ये त्वां कालमीशानम् अनादिनिधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन्मिथः कलिः ॥ २८ ॥

पदच्छेदः

मन्ये त्वाम् कालम् ईशानम् अनादिनिधनम् विभुम् समम् चरन्तम् सर्वत्र भूतानां यत् मिथः कलिः

अन्वयः

त्वां कालम्, ईशानम्, अनादिनिधनं, विभुं, सर्वत्र समं चरन्तं, यत् भूतानां मिथः कलिः  (अहं) मन्ये ।

अन्वयरचना

  • मन्ये
    • का ? अहम् = अत्र कुन्ती
    • कं मन्ये ? त्वाम् = अत्र कृष्णम्
      • त्वां कीदृशं मन्ये ? कालम्
        • पुनः कं कं मन्ये ? ईशानम्, अनादिनिधनं, विभुम्
        • पुनः कीदृशं मन्ये ? यत् कलिः तत् = यः कलहः सः
          • कीदृशः कलिः ? मिथः = परस्परम्
          • केशाम् कलिः ? भूतानाम्

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (27 – 28)

प्रस्तुतमनोरथपूरणाय पुनः प्रणमति । अकिंचना भक्ता एव वित्तं सर्वस्वं यस्य तस्मै । ततः किम् । निवृत्ताः गुणवृत्तयः धर्मार्थकामविषया यस्मात् तस्मै । तत्कृतः आत्मारामाय । तत्कृतः शांताय रागादिरहिताय किं च कैवल्यपतये कैवल्यं दातुं समर्थाय ।। २७ ।।

ननु देवकीपुत्रं मां कथम् एवंस्तौषि तत्राह । मन्ये त्वां कालं न तु देवकीपुत्रम् । तत्र हेतवः ईशानं नियंतारम् । अनादिनिधनम् आद्यंतशून्यम् । विभुं प्रभुम् । समं यथा भवति तथा सर्वत्र चरन्तम् । ननु पार्थसारथेः कथं मम साम्यं तत्राह । यद्यतस्त्वत्तः निमित्तभूताद्भूतानामेव मिथः कलिः कलहः भवति न तु स्वतस्त्वयि वैषम्यम् ।। २८ ।।

Part 4 of Anand’s sessions

12.   श्रीमद्भागवतम् – १.८.२९ Srimad Bhagavatam – 1.8.29

श्लोकः

न वेद कश्चिद् भगवंश्चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद् दयितोऽस्ति कर्हिचिद्
द्वेष्यश्च यस्मिन्विषमा मतिर्नृणाम् ॥ २९ ॥

पदच्छेदः

न वेद कश्चित् भगवन् चिकीर्षितं तव ईहमानस्य नृणां विडम्बनम् न यस्य कश्चित् दयितः अस्ति कर्हिचित् द्वेष्यः च यस्मिन् विषमा मतिः नृणाम्

अन्वयः

भगवन्, यस्य कश्चित् दयितः न अस्ति, (यस्य) कर्हिचित् द्वेष्यः च (न अस्ति), नृणां मतिः यस्मिन् विषमा, नृणां विडम्बनम् ईहमानस्य, (तादृशस्य) तव चिकीर्षितं कश्चित् न वेद ।

अन्वयरचना

  • हे भगवन्
  • न वेद
    • कः ? कश्चित्
    • किम् ? चिकीर्षितम्
      • कस्य चिकीर्षितम् ? तव = अत्र कृष्णस्य
        • कीदृशस्य तव ? ईहमानस्य = कुर्वतः
          • कीदृशं ईहमानस्य ? विडम्बनम् = अनुकरणम्
            • केषाम् विडम्बनम् ? नृणाम्
          • पुनः कीदृशस्य तव ? यस्य कश्चित् दयितः न अस्ति
          • पुनः कीदृशस्य तव ? यस्य कर्हिचित् द्वेष्यः च न अस्ति
          • पुनः कीदृशस्य तव ? यस्मिन् मतिः विषमा भवति तस्य; विषमा = अनुग्रहनिग्रहरूपा
            • केषां मतिः ? नृणाम्

छन्दः

वंशस्थविलम् – लक्षणम् “वदन्ति वंशस्थविलं जतौ जरौ” – जगण तगण जगण रगण – 12 अक्षराणि Vamshasthavilah वंशस्थविलः in https://nivedita2015.wordpress.com/chandas-2/#vamshasthavilah

 

13.   श्रीमद्भागवतम् – १.८.३० Srimad Bhagavatam – 1.8.30

श्लोकः

जन्म कर्म च विश्वात्मन् अजस्याकर्तुरात्मनः ।
तिर्यङ्नॄषिषु यादःसु तद् अत्यन्तविडम्बनम् ॥ ३० ॥

पदच्छेदः

जन्म कर्म च विश्वात्मन् अजस्य अकर्तुः आत्मनः तिर्यङ्नॄषिषु यादःसु तत् अत्यन्तविडम्बनम्

अन्वयः

विश्वात्मन् । आत्मनः अजस्य तिर्यङ्नॄषिषु यादःसु जन्म, अकर्तुः कर्म च तत् अत्यन्तविडम्बनम् ।

अन्वयरचना

  • अत्यन्तविडम्बनम् अस्ति
    • किम् ? तत्(कर्तृपदम्)
      • किं तत् ? जन्म
        • पुनः किम् ? कर्म च
      • कस्य तत् ? आत्मनः
        • कीदृशस्य तस्य ? अकर्तुः
        • पुनः कीदृशस्य तस्य ? अजस्य
      • कुत्र तत् ? तिर्यङ्नॄषिषु
        • पुनः कुत्र तत् ? यादःसु

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

14.   श्रीमद्भागवतम् – १.८.३१ Srimad Bhagavatam – 1.8.31

श्लोकः

गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसंभ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद्‌बिभेति ॥ ३१ ॥

पदच्छेदः

गोपी आददे त्वयि कृतागसि दाम तावत् या ते दशा अश्रुकलिल+अञ्जन+संभ्रम+अक्षम् वक्त्रम् निनीय भयभावनया स्थितस्य सा माम् विमोहयति भीः अपि यत् बिभेति

अन्वयः

त्वयि कृतागसि (सति) गोपी दाम आददे । तावत्, यत् भीः अपि बिभेति, (तत्) अश्रुकलिलाञ्जनसंभ्रमाक्षं वक्त्रं भयभावनया निनीय स्थितस्य, या ते दशा, सा मां विमोहयति ।

अन्वयरचना

  • आददे = जग्राह = स्व्यकरोत् [ आददे = आ + दा “डुदाञ् दाने” लिट्लकारः प्र.पु., ए.व.]
    • किम् आददे ? दाम = रज्जुम् [ दामन् शब्दः नपुंसकलिङ्गः ]
    • का आददे ? गोपी = अत्र माता यशोदा
    • कदा आददे ? त्वयि कृतागसि (सति) = दधिभाण्डस्फोटनं कृतवति
  • विमोहयति
    • कदा विमोहयति ? तावत् = यदा गोपि दाम आददे तदा
    • कां विमोहयति ? माम् = अत्र कुन्तीम्
    • का ? या दशा सा
      • कस्य दशा ? ते = अत्र कृष्णस्य
        • कथंभूतस्य ते ? स्थितस्य
          • किं कृत्वा स्थितस्य ? निनीय = अधः कृत्वा
            • केन कारणेन निनीय ? भयभावनया
            • किं निनीय ? वक्त्रम्
            • कीदृशं वक्त्रम् ? भीः अपि यत् बिभेति (तत्)
            • पुनः कीदृशं वक्त्रम् ? अश्रुकलिलाञ्जनसंभ्रमाक्षम् = अश्रुभिः व्यामिशमञ्जनं ययोस्ते च ते व्याकुले अक्षिणी यस्मिन् तद्

छन्दः

वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’ Vasantatilakaa वसन्ततिलका in https://nivedita2015.wordpress.com/chandas-2/#vasantatilakaa

1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु
गो प्या दे त्व यि कृ ता सि दा ता वद्
या ते शा श्रु लि ला ञ्ज सं भ्र मा क्षम्
क्त्रं नि नी भा या स्थि स्य
सा मां वि मो ति भी पि यद्‌ बि भे ति

 

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (29 – 31)

ननु निग्रहानुग्रहरूपं मयि प्रसिद्धं वैषम्यं अत आह “न वेद” इति । नृणां विडम्बनम् अनुकरणम् ईहमानस्य कुर्वतः यस्मिन् त्वयि विषमा मतिः अनुग्रहनिग्रहरूपा भवति ।। २९ ।।

ते अजस्य जन्म । अकर्तुः कर्म । तिर्यक्षु वराहादिरूपेण जन्म । नृषु रामादिरूपेण जन्म । ऋषिषुवामनादिरूपेण जन्म । यादस्सु मत्स्यादिरूपेण जन्म ।। ३० ।।

नरविडम्बनम् अत्याश्चर्यं इति आह “गोपी” इति । गोपी यशोदा त्वयि कृतागसि दधिभाण्डस्फोटनं कृतवति यावत् दाम रज्जुम् आददे जग्राह तावत् तत्तत्क्षणम् एव या ते दशा अवस्था सा मां विमोहयति। किंभुतस्य । अश्रुभिः कलिलं व्यामिशमञ्जनं ययोस्ते च ते सम्भ्रमे व्याकुले अक्षिणी यस्मिन् तद् वक्त्रं निनीय अधः कृत्वा तादयिष्यति इति भयस्य भावनया स्थितस्य । यत् यतः त्वत्तः भीः अपि स्वयं बिभेतितस्य ते दशा ।। ३१ ।।

Part 5 of Anand’s sessions

15.   श्रीमद्भागवतम् – १.८.३२ Srimad Bhagavatam – 1.8.32

श्लोकः

केचिद् आहुः अजं जातं पुण्यश्लोकस्य कीर्तये ।
यदोः प्रिय
स्यान्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥

पदच्छेदः

केचित् आहुः अजम् जातम् पुण्यश्लोकस्य कीर्तये यदोः प्रियस्य अन्ववाये मलयस्य इव चन्दनम्

अन्वयः

मलयस्य चन्दनम् इव, पुण्यश्लोकस्य कीर्तये, प्रियस्य यदोः अन्ववाये, अजं जातं केचिद् आहुः

अन्वयरचना

  • आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि”, लट्, प्र.वि., ब.व. । लट् (परस्मैपदम्) ब्रवीति / आह, ब्रूतः / आहतुः, ब्रुवन्ति / आहुः । लट् (आत्मनेपदम्) ब्रूते, ब्रुवाते, ब्रुवते ]
    • के आहुः ? केचित्
    • किम् आहुः ? जातम्
      • कं जातम् ? अजम्
      • किमर्थं जातम् ? कीर्तये
        • कस्य कीर्तये ? पुण्यश्लोकस्य
      • पुनः किमर्थं जातम् ? कीर्तये
        • कस्य कीर्तये ? यदोः
      • कुत्र जातम् ? अन्ववाये
        • कस्य अन्ववाये ? यदोः
          • कीदृषस्य यदोः ? प्रियस्य
        • किमिव जातम् ? चन्दनम् इव
          • कस्य चन्दनम् इव ? मलयस्य (कीर्तये वा वंशे वा)

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8
लघु गुरु लघु गुरु लघु  
के चिद् हुः जं जा तं   पु ण्य श्लो स्य की र्त ये
दोः प्रि स्या न्व वा ये   स्ये न्द नम्

 

16.   श्रीमद्भागवतम् – १.८.३३ Srimad Bhagavatam – 1.8.33

श्लोकः

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥

पदच्छेदः

अपरे वसुदेवस्य देवक्याम् याचितः अभ्यगात् अजः त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम्

अन्वयः

वसुदेवस्य देवक्यां याचितः अजः त्वम्, अस्य क्षेमाय च सुरद्विषां वधाय च, अभ्यगात् (इति) अपरे आहुः ।

अन्वयरचना

  • आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि”, लट्, प्र.वि., ब.व. । लट् (परस्मैपदम्) ब्रवीति / आह, ब्रूतः / आहतुः, ब्रुवन्ति / आहुः । लट् (आत्मनेपदम्) ब्रूते, ब्रुवाते, ब्रुवते ]
    • के आहुः ? अपरे
    • किमिति आहुः ? अभ्यगात् (इति)
      • कः अभ्यगात् ? त्वम्
        • कीदृशः त्वम् ? अजः
        • पुनः कथं भूतः त्वम् ? याचितः
          • केन याचितः ? (वसुदेवेन)
        • कुत्र अभ्यगात् ? देवक्याम्
          • कीदृश्यायां देवक्याम् ? (भार्यायाम्)
          • कस्य (भार्यायाम्) ? वसुदेवस्य
        • किमर्थं / कस्मै अभ्यगात् ? क्षेमाय
          • कस्य क्षेमाय ? अस्य (वसुदेवस्य)
        • पुनः किमर्थं / कस्मै अभ्यगात् ? वधाय च
          • कस्य वधाय ? सुरद्विषाम् [सुर+द्विट् शब्दः]

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (3233)

अत एव जन्मोहनतया दुर्ज्ञेयत्वात्तव जन्मादि बहुधा वर्न्यन्तीत्याह । केचिदिति चतुर्त्भिः । पुण्यश्लोकस्य युधिष्ठिरस्य कीर्तये यदोरेव कीर्तये इति वा मलयस्य कीर्तये वशे वा चन्दनं यथा ।। ३२ ।। तथा वासुदेवस्य भार्यायां देवक्यामज एव तवमभ्यगात् । पुत्रत्वमिति शेषः । प्रथमपुरुषस्त्वार्षः, अर्भत्वमिति पाठः सुगमः । ताभ्यामेव पूर्वं सुतपःपर्श्नेरूपाभ्यां याचितः सन् । अस्य जातः क्षेमाय ।। ३३ ।।

17.   श्रीमद्भागवतम् – १.८.३४ Srimad Bhagavatam – 1.8.34

श्लोकः

भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ ३

पदच्छेदः

भार+अवतारणाय अन्ये भुवः नावः इव उदधौ सीदन्त्याः भूरिभारेण जातः हि आत्मभुवा अर्थितः

अन्वयः

भूरिभारेण सीदन्त्याः भुवः भारावतारणाय, आत्मभुवा अर्थितः, उदधौ नावः इव, जातः हि (इति) अन्ये (आहुः) ।

अन्वयरचना

  • (आहुः)
    • के (आहुः) ? अन्ये
    • किमिति (आहुः) ? जातः हि (इति)
      • कः जातः ? अर्थितः
        • केन अर्थितः ? आत्मभुवा [आत्मभू शब्दः]
      • किमर्थं जातः ? भारावतारणाय
        • कस्याः ? भुवः [भू शब्दः]
        • कथंभूतायाः भुवः ? सीदन्त्याः
          • केन सीदन्त्याः ? भूरिभारेण

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

18.   श्रीमद्भागवतम् – १.८.३५ Srimad Bhagavatam – 1.8.35

श्लोकः

भवेऽस्मिन् क्लिश्यमानानां अविद्याकामकर्मभिः ।
श्रवणस्मरणार्हाणि करिष्य
न्निति केचन ॥ ३

पाठभेदः

करिष्यम् इति केचन

पदच्छेदः

भवे अस्मिन् क्लिश्यमानानाम् अविद्या+काम+कर्मभिः श्रवण+स्मरण+अर्हाणि करिष्यन् इति केचन

अन्वयः

अस्मिन् भवे अविद्याकामकर्मभिः क्लिश्यमानानां श्रवणस्मरणार्हाणि करिष्यन् इति केचन आहुः ।

अन्वयरचना

  • आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि”, लट्, प्र.वि., ब.व. । लट् (परस्मैपदम्) ब्रवीति / आह, ब्रूतः / आहतुः, ब्रुवन्ति / आहुः । लट् (आत्मनेपदम्) ब्रूते, ब्रुवाते, ब्रुवते ]
    • के आहुः ? केचन
    • किमिति आहुः ? करिष्यन् इति [e., श्रीकृष्णः करिष्यन् अस्ति इति ]
      • किं करिष्यन् ? श्रवणस्मरणार्हाणि [e., श्रवणस्मरणार्हाणि कार्याणि]
      • केषां कृते करिष्यन् ? क्लिश्यमानानाम् [ i.e., क्लिश्यमानानां क्लिश्यनिवृत्त्यर्थम् ]
        • कैः क्लिश्यमानानाम् ? अविद्याकामकर्मभिः
        • कुत्र क्लिश्यमानानाम् ? अस्मिन्
          • कुत्र अस्मिन् ? भवे

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

19.   श्रीमद्भागवतम् – १.८.३६ Srimad Bhagavatam – 1.8.36

श्लोकः

श्रृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः 
स्मरन्ति नन्दन्ति तवेहितं जनाः ।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ॥ ३

पदच्छेदः

श्रृण्वन्ति गायन्ति गृणन्ति अभीक्ष्णशः स्मरन्ति नन्दन्ति तव ईहितम् जनाः ते एव पश्यन्ति अचिरेण तावकम् भवप्रवाह+उपरमम् पदाम्बुजम्

अन्वयः

(ये) जनाः तव ईहितं श्रृण्वन्ति गायन्ति गृणन्ति अभीक्ष्णशः स्मरन्ति नन्दन्ति (च), ते एव भवप्रवाहोपरमं तावकं पदाम्बुजम् अचिरेण पश्यन्ति ।

अन्वयरचना

  • पश्यन्ति [ दृश् “दृशिँर् प्रेक्षणे”, लट्., प्र.पु., ब.व. ]
    • कथं पश्यन्ति ? अचिरेण
    • किं पश्यन्ति ? पदाम्बुजम्
      • कीदृशं पदाम्बुजम् ? तावकम्
      • पुनः कीदृशं पदाम्बुजम् ? भवप्रवाहोपरमम्
    • के पश्यन्ति ? ते एव
      • के ते ? जनाः
        • कीदृशः जनाः ? श्रृण्वन्ति
        • पुनः किं करोति ? गायन्ति
        • पुनः किं करोति ? गृणन्ति
        • पुनः किं करोति ? स्मरन्ति
          • कथं स्मरन्ति ? अभीक्ष्णशः
        • पुनः किं करोति ? नन्दन्ति
        • किं (कस्मिन् विषये) करोति ? ईहितम्
          • कस्य ईहितम् ? तव [ e., ये तव चारित्रं श्रृण्वन्ति, गायन्ति, गृणन्ति, स्मरन्ति, नन्दन्ति च ]

छन्दः

वंशस्थविलम् – लक्षणम् “वदन्ति वंशस्थविलं जतौ जरौ” – जगण तगण जगण रगण – 12 अक्षराणि Vamshasthavilah वंशस्थविलः in https://nivedita2015.wordpress.com/chandas-2/#vamshasthavilah

1 2 3 4 5 6 7 8 9 10 11 12
जगण तगण जगण रगण
न्ति वं स्थ वि लं तौ रौ
गु गु गु गु गु गु
श्रृ ण्व न्ति गा न्ति गृ न्त्य भी क्ष्ण शः
स्म न्ति न्द न्ति वे हि तं नाः
श्य न्त्य चि रे ता कं
प्र वा हो मं दा म्बु जं

 

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (34 – 36)

आत्मभुवेति ब्रह्मप्रार्थनस्य प्राधान्यविवक्षया ।। ३४ ।।
मतांतरम् । परमानन्दस्वरूपाज्ञानमविद्या ततो देहाद्यभिमानात्कामस्ततः कर्माणि तैः क्लेष्यमानानां तन्निवृत्तये श्रवणाद्यर्हाणि कर्माणि करिष्यन् ।। ३५ ।।
अस्य पक्षस्य सिद्धान्ततामभिप्रेत्य श्रवणादिफलमाह । श्रुण्वंतीति । नन्दंत्यन्यैः कीर्त्यामानमभिनन्दन्ति ये जना ईहितं चरित्रं तावकं त्वदीयं पदाम्बुजं त एव पस्यंत्येवाचितेनैवेति च सर्वत्रावधारणम् । कीदृशम् । भवप्रवाहस्य जन्मपरंपराया उपरमो यस्मिंस्तत् ।। ३६ ।।

Part 6 of Anand’s sessions

20.   श्रीमद्भागवतम् – १.८.३७ Srimad Bhagavatam – 1.8.37

श्लोकः

अप्यद्य नस्त्वं स्वकृतेहित प्रभो 
जिहाससि स्वित् सुहृदोऽनुजीविनः ।
येषां न चान्यत् भवतः पदाम्बुजात्
परायणं राजसु योजितांहसाम् ॥ ३७ ॥

पदच्छेदः

अपि अद्य नः त्वम् स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदः अनुजीविनः येषाम् न च अन्यत् भवतः पदाम्बुजात् परायणम् राजसु योजित+आंहसाम्

अन्वयः

स्वकृतेहित प्रभो । राजसु योजितांहसां (सत्सु), भवतः सुहृदः अनुजीविनः, येषां भवतः पदाम्बुजात् अन्यत् परायणं न अस्ति च, (तादृशान्) नः अपि त्वम् अद्य स्वित् जिहाससि (किम्?)

अन्वयरचना

  • हे स्वकृतेहित ।
  • हे प्रभो ।
  • त्वं स्वित् जिहाससि (किम्?)
    • कान् जिहाससि ? नः
      • कीदृशान् नः ? सुहृदः
        • कस्य सुहृदः ? भवतः
      • पुनः कीदृशान् नः ? अनुजीविनः
      • पुनः कीदृशान् नः ? येषां न अस्ति च
        • किं न अस्ति ? परायणम्
          • कीदृशं परायणम् ? अन्यत्
            • कस्मात् अन्यत् ? पदाम्बुजात्
              • कस्य पदाम्बुजात्? भवतः
            • कदा जिहाससि ? अद्य
            • पुनः कदा जिहाससि ? योजितांहसां (सत्सु)
              • कस्मिन् योजितांहसां (सत्सु) ? राजसु

पदविवरणम्

  • स्वकृतेहित
    • स्वेन कृतं स्वकृतम् ।
    • ईहितम् = अपेक्षितम् ।
    • स्वकृतम् ईहितं येन सः स्वकृतेहितः, संबोधने ।
  • स्वित् = किंचित् ।
  • जिहाससि = हा “ओँहाक् त्यागे” + सन्, म.पु., ए.व. ।
  • नः = अस्मान् ।
  • योजितांहसाम्
    • अंहः = दुःखम्, अंहस् शब्दः ।

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

वंशस्थविलम् – लक्षणम् “वदन्ति वंशस्थविलं जतौ जरौ” – जगण तगण जगण रगण – 12 अक्षराणि – Vamshasthavilah वंशस्थविलः / https://nivedita2015.wordpress.com/chandas-2/#vamshasthavilah

21.   श्रीमद्भागवतम् – १.८.३८ Srimad Bhagavatam – 1.8.38

श्लोकः

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः ।
भवतोऽदर्शनं यर्हि हृषीकाणां इ
वेशितुः ॥ ३८ ॥

पदच्छेदः

के वयम् नामरूपाभ्याम् यदुभिः सह पाण्डवाः भवतः अदर्शनम् यर्हि हृषीकाणाम् इव ईशितुः

अन्वयः

यर्हि भवतः अदर्शनं, (तर्हि) नामरूपाभ्यां (सहितः), यदुभिः सह पाण्डवाः, ईशितुः (अदर्शने) हृषीकाणां (स्थितौ) इव (भूताः) वयं के (भवामः)?

अन्वयरचना

  • वयं के (भवामः) ?
    • कदा वयं के ? यर्हि अदर्शनं (तर्हि)
      • कस्य अदर्शनम् ? भवतः
    • कीदृशाः वयम् ? पाण्डवाः
      • कैः सह पाण्डवाः ? यदुभिः सह
    • पुनः कीदृशाः वयम् ? नामरूपाभ्यां (सहितः)
    • केषां स्थितौ इव भूताः वयम् ? हृषीकाणां (स्थितौ) इव (भूताः)
      • कदा हृषीकाणाम् इव ? (अदर्शने)
        • कस्य अदर्शने ? ईशितुः

पदविवरणम्

  • नामरूपाभ्याम् = नाम्ना च रूपेण च इत्यर्थः । नाम च रूपञ्च नामरूपे, ताभ्याम्
  • ईशितुः = ईशितृ शब्दः ऋ., पुं., ष.वि., ए.व. । प्रथमा – ईशिता । “आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता” इत्यमरः ।

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

22.   श्रीमद्भागवतम् – १.८.३९ Srimad Bhagavatam – 1.8.39

श्लोकः

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदै
ङ्‌किता भाति स्वलक्षणविलक्षितैः ॥ ३९ ॥

पदच्छेदः

न इयम् शोभिष्यते तत्र यथा इदानीम् गदाधर त्वत्-पदैः अङ्‌किता भाति स्व-लक्षण-विलक्षितैः

अन्वयः

(हे) गदाधर । यथा इदानीम् इयं (भूमिः) स्वलक्षणविलक्षितैः त्वत्पदैः अङ्‌किता भाति, तत्र (त्वयि निर्गते सति) न शोभिष्यते ।

अन्वयरचना

  • (हे) गदाधर ।
  • न शोभिष्यते
    • का न शोभिष्यते ? इयं (भूमिः)
    • कदा न शोभिष्यते ? निर्गते सति
      • कस्मिन् निर्गते सति ? त्वयि
    • कथं न शोभिष्यते ? यथा भाति (तथा)
      • कदा भाति ? इदानीम्
      • का भाति ? भूमिः
      • कथंभूता भूमिः ? अङ्‌किता
        • कैः अङ्‌किता ? त्वत्पदैः
          • कीदृशैः त्वत्पदैः ? स्वलक्षणविलक्षितैः

पदविवरणम्

  • स्वलक्षणविलक्षितैः = स्वैः असाधारणैः वज्रांकुशादिभिः लक्षणैः विलक्षितैः चिन्हितैः
  • शोभिष्यते = शुभ् “शुभँ दीप्तौ”, लृट्., प्र.पु., ए.व.

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

23.   श्रीमद्भागवतम् – १.८.४० Srimad Bhagavatam – 1.8.40

श्लोकः

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ ४० ॥

पदच्छेदः

इमे जनपदाः स्वृद्धाः सुपक्व+औषधि-वीरुधः वन+अद्रि-नदी+उदन्वन्तः हि एधन्ते तव वीक्षितैः

अन्वयः

तव वीक्षितैः इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः वनाद्रिनद्युदन्वन्तः एधन्ते हि

अन्वयरचना

  • एधन्ते हि
    • के एधन्ते ? इमे जनपदाः
      • कथंभूताः जनपदाः ? स्वृद्धाः
      • पुनः कथंभूताः जनपदाः ? सुपक्वौषधिवीरुधः
      • पुनः कथंभूताः जनपदाः ? वनाद्रिनद्युदन्वन्तः
    • कैः हेतुभिः एधन्ते ? वीक्षितैः
      • कस्य वीक्षितैः ? तव

पदविवरणम्

  • एधन्ते हि [ एध् “एधँ वृद्धौ”, लट्., प्र.पु., ब.व.]
  • वनाद्रिनद्युदन्वन्तः
    • वनाद्रिनद्युदन्वन्तम् = वनानि च अद्रयः च नद्यः च उदन्वानः च एतेषां समाहारः ।
    • वनाद्रिनद्युदन्वन्तः = वनाद्रिनद्युदन्वन्तं येषु ते
  • सुपक्वौषधिवीरुधः
    • वीरुत् = वीरुध् शब्दः, स्त्रीलिङ्गः ।
    • औषधिवीरुधम् = औषधियः च वीरुधः च तासां समाहारः ।
    • सुपक्वौषधिवीरुधः = सुपक्वम् औषधिवीरुधम् येषु ते ।

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (37 – 40)

इदानीं तवास्मत्परित्यातोऽनुचित इत्याशयेनाह अपीति चतुर्भिः । हे प्रभो सुःरुदोऽपतिस्निग्धान्नुजीविनश्च नोऽद्यापि स्वित्किंचित्त्वं जिहाससि येषामस्माकमन्यत्परायणं नैवास्ति । तत्कुतः । राजसु योजितमंहो दुःखं यैस्तेषां स्वानां कृतमीहितमपेक्षितं येन तस्य संबोधनम् । विसर्गातपाठे त्वंपदविशेषणम् ।। ३७ ।।
ननु तव बन्धवो यदवः पुत्राश्च पाण्डवाः शूराः समर्थाश्च तत्किं कार्पण्यं भाषसेऽत आह । के वयमिति । यर्हि भवतोऽदर्शनं यदा त्वमस्मान्न पश्यसि तदा नामरूपाभ्यां नाम्ना विख्यात्या रूपेण समृद्ध्या च यदुभिः सहिताः पाण्डवा नाम के वयं न केऽपि । अतितुच्छा इत्यर्थः । हृषीकानामिंद्रियाणामिशितुर्जीवस्यादर्शने यथा न किंचिन्नाम च रूपं च तद्वत् ।। ३८ ।।
किं च यथेदानीमियमस्मत्पाल्या भूमिः स्वैरसाधारणैर्वज्रांकुशादिभिर्लक्षणैर्विलक्षितैश्चिन्हितैस्त्वत्पदैरंकिता सती भाति तत्र तदा त्वयि निर्गते सति न शोभिष्यते ।। ३९ ।।
अपि चेमे जनपदा देशाः स्वृद्धाः सुसमृद्धाः सन्तः ।। ४० ।।

Part 7 of Anand’s sessions

24.   श्रीमद्भागवतम् – १.८.४१ Srimad Bhagavatam – 1.8.41

श्लोकः

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशं इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥

पदच्छेदः

अथ विश्व+ईश विश्व+आत्मन् विश्व+मूर्ते स्वकेषु मे स्नेह-पाशम् इमम् छिन्धि दृढम् पाण्डुषु वृष्णिषु

अन्वयः

(हे) विश्वेश । (हे) विश्वात्मन् । (हे) विश्वमूर्ते । अथ स्वकेषु पाण्डुषु वृष्णिषु (च) मे इमं स्नेहपाशं दृढं छिन्धि ।

अन्वयरचना

  • छिन्धि
    • कः छिन्धि ? त्वम्
    • कथं छिन्धि ? दृढम्
    • कं छिन्धि ? इमं स्नेहपाशम्
      • कस्य स्नेहपाशम् ? मे
    • केषु विशयेषु छिन्धि ? स्वकेषु
    • पुनः केषु विशयेषु छिन्धि ? पाण्डुषु
    • पुनः केषु विशयेषु छिन्धि ? वृष्णिषु

पदविवरणम्

  • छिन्धि = छिद् “छिदिँर् द्वैधीकरणे”, छिन्तात् / छिन्त्तात् / छिन्धि / छिन्द्धि इति लोट्., परस्मैपदी, म.पु., ए.व.
  • मे = मम
  • वृष्णिषु = यादवजनेषु

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

25.   श्रीमद्भागवतम् – १.८.४२ Srimad Bhagavatam – 1.8.42

श्लोकः

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
रतिं उद्वहतात् अद्धा गङ्गेवौघ
मुदन्वति ॥ ४२ ॥

पदच्छेदः

त्वयि मे अनन्यविषया मतिः मधुपते असकृत् रतिम् उद्वहतात् अद्धा गङ्गा इव ओघम् उदन्वति

अन्वयः

(हे) मधुपते । त्वयि मे अनन्यविषया मतिः, उदन्वति गङ्गा ओघम् इव, असकृत् रतिम् अद्धा उद्वहतात् ।

अन्वयरचना

  • हे मधुपते ।
  • उद्वहतात्
    • कथं उद्वहतात् ? अद्धा
    • का उद्वहतात् ? मतिः
      • कथंभूता मतिः ? अनन्यविषया
      • कस्य मतिः ? मे
    • किम् उद्वहतात् ? रतिम्
      • कीदृशं रतिम् ? असकृत्
        • कस्मिन् विशये रतिम् ? त्वयि
      • का इव उद्वहतात् ? गङ्गा इव
        • किं उद्वहतात् ? ओघम्
        • कुत्र उद्वहतात् ? उदन्वति

पदविवरणम्

  • उद्वहतात् = उत् + वह् “वहँ प्रापणे”, लोट्लकारः प्र.पु., म.पु. च, अत्र प्र.पु., ए.व.
  • अद्धा = निश्चयेन
  • असकृत् = अविरततया
  • ओघः = प्रवाहः
  • उदन्वति = सागरे । todo उदन्वान् = सागरः

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (41 – 42)

गमने पाण्डवानामकुशलमगमने च यादवानामित्युभयतो व्याकुलचित्ता सती तेषु स्नेहनिवृत्तिं प्रार्थयते । अथेति । विश्वेशेत्यादिसंबोधनानि स्नेहपाशच्छेदे सामर्थ्यख्यापनाय । दृढं संतम् ।। ४१ ।।

ततः कीमत आह । तवयीति । अनन्यविष्या सती मे मती रतिमुद्वहतात् । अनवच्छिन्नां प्रीतिं करोत्वित्यर्थः । ओघं पूरम् । यथा गंगा प्रतिबन्धं न गणयत्येवं मतिरपि विघ्नान्मा गणयत्विति भावः ।। ४२ ।।

26.   श्रीमद्भागवतम् – १.८.४३ Srimad Bhagavatam – 1.8.43

श्लोकः

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ ४३ ॥

पदच्छेदः

श्रीकृष्ण कृष्ण-सख वृष्णि-ऋषभ अवनि-ध्रुक्+राजन्य-वंश-दहन अनपवर्ग-वीर्य गोविन्द गो-द्विज-सुर+आर्ति-हर+अवतार योग+ईश्वर अखिलगुरो भगवन् नमः ते

अन्वयः

(हे) श्रीकृष्ण । (हे) कृष्णसख । (हे) वृष्ण्यृषभ । (हे) अवनिध्रुग्राजन्यवंशदहन । (हे) अनपवर्गवीर्य । (हे) गोविन्द । (हे) गोद्विजसुरार्तिहरावतार । (हे) योगेश्वर । (हे) अखिलगुरो । (हे) भगवन् । ते नमः ।

अन्वयरचना

  • (हे) श्रीकृष्ण ।
  • (हे) कृष्णसख ।
  • (हे) वृष्ण्यृषभ ।
  • (हे) अवनिध्रुग्राजन्यवंशदहन ।
  • (हे) अनपवर्गवीर्य ।
  • (हे) गोविन्द ।
  • (हे) गोद्विजसुरार्तिहरावतार ।
  • (हे) योगेश्वर ।
  • (हे) अखिलगुरो ।
  • (हे) भगवन् ।
  • ते नमः ।

पदविवरणम्

  • कृष्णसखः = अर्जुनस्य सखः
  • वृष्ण्यृषभः = वृष्णीनां ऋषभः श्रेष्ठः
  • अनपवर्गवीर्यः = न अपवर्गं वीर्यं यस्य सः
  • गोद्विजसुरार्तिहरावतार = गावः च द्विजः च सुराः च गोद्विजसुराः । गोद्विजसुराणां आर्तिः गोद्विजसुरार्तिः । गोद्विजसुरार्तेः हरणम् गोद्विजसुरार्तिहरणम् । गोद्विजसुरार्तिहरावतारः गोद्विजसुरार्तिहरणात् अवतारः यस्य सः ]

 

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

  • वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य
    • वृष्ण्यृषभावनिध्रुग्राजन्यवंशदहन = वृष्ण्यृषभ अवनिध्रुग्राजन्यवंशदहन – सवर्णदीर्घसन्धिः
    • अवनिध्रुग्राजन्यवंशदहनानपवर्गवीर्य = अवनिध्रुग्राजन्यवंशदहन अनपवर्गवीर्य – सवर्णदीर्घसन्धिः
  • योगेश्वराखिलगुरो = योगेश्वर अखिलगुरो – सवर्णदीर्घसन्धिः

छन्दः

वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’ – Vasantatilakaa वसन्ततिलका in https://nivedita2015.wordpress.com/chandas-2/#vasantatilakaa

1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु
श्री कृ ष्ण कृ ष्ण वृ ष्ण्यृ भा नि ध्रु
ग्रा न्य वं ना र्ग वी र्य
गो वि न्द गो द्वि सु रा र्ति रा ता
यो गे श्व रा खि गु रो वन् स्ते

व्याख्यानम्

श्रीधरस्वामिविरचिता भावार्थदीपिका (43)

एवामभ्यर्थ्य पुनः प्रणमति । हे श्रीकृष्ण ते नमः । उपकाराननुस्मरन्ती बहुधा संभोधयति । कृष्णसखार्जुनस्य सखे । वृष्णीनामृषभ श्रेष्ठ । अवन्यै भूम्यै द्रुह्यन्ति ये राजन्यास्तेषां वंशस्य दहन । एवामप्यनपवर्गवीर्याक्षीणप्रभाव । गोविन्द प्राप्तकामवेन्वैश्वर्य । योद्विजसुरानामार्तिहरोऽवतारो यस्येति ।। ४३ ।।

 

27.   श्रीमद्भागवतम् – १.८.४३ Srimad Bhagavatam – 1.8.43

श्लोकः

सूत उवाच ।

पृथयेत्थं कलपदैः परिणूताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥

पदच्छेदः

सूतः उवाच  पृथया इत्थम् कल-पदैः परिणूत+अखिल+उदयः मन्दम् जहास वैकुण्ठः मोहयन् इव मायया

अन्वयः

इत्थं पृथया कलपदैः परिणूताखिलोदयः वैकुण्ठः, मायया मोहयन् इव, मन्दं जहास ।

अन्वयरचना

  • जहास
    • कथं जहास ? मन्दम्
    • कः जहास ? वैकुण्ठः
      • कीदृशः वैकुण्ठः ? परिणूताखिलोदयः
        • कथं परिणूताखिलोदयः ? इत्थं
        • कया परिणूताखिलोदयः ? पृथया
        • कैः उपकरणैः परिणूताखिलोदयः ? कलपदैः
      • किंकुर्वन् इव जहास ? मोहयन् इव
        • कया मोहयन् ? मायया

पदविवरणम्

 

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

  • वृ

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

 

28.   श्रीमद्भागवतम् – १.८.४४ Srimad Bhagavatam – 1.8.44

श्लोकः

सूत उवाच ।

पृथयेत्थं कलपदैः परिणूताखिलोदयः ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥

पदच्छेदः

सूतः उवाच  पृथया इत्थम् कल-पदैः परिणूत+अखिल+उदयः मन्दम् जहास वैकुण्ठः मोहयन् इव मायया

अन्वयः

इत्थं पृथया कलपदैः परिणूताखिलोदयः वैकुण्ठः, मायया मोहयन् इव, मन्दं जहास ।

अन्वयरचना

  • जहास
    • कथं जहास ? मन्दम्
    • कः जहास ? वैकुण्ठः
      • कीदृशः वैकुण्ठः ? परिणूताखिलोदयः
        • कथं परिणूताखिलोदयः ? इत्थं
        • कया परिणूताखिलोदयः ? पृथया
        • कैः उपकरणैः परिणूताखिलोदयः ? कलपदैः
      • किंकुर्वन् इव जहास ? मोहयन् इव
        • कया मोहयन् ? मायया

पदविवरणम्

 

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

  • वृ

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

29.   श्रीमद्भागवतम् – १.८.४५ Srimad Bhagavatam – 1.8.45

श्लोकः

तां बाढमित्युपामंत्र्य प्रविश्य गजसाह्वयम् ।
स्त्रियश्च स्वपुरं यास्यन्प्रेम्णा राज्ञा निवारितः ॥ ४५ ॥

पदच्छेदः

सूतः उवाच पृथया इत्थम् कल-पदैः परिणूत+अखिल+उदयः मन्दम् जहास वैकुण्ठः मोहयन् इव मायया

अन्वयः

इत्थं पृथया कलपदैः परिणूताखिलोदयः वैकुण्ठः, मायया मोहयन् इव, मन्दं जहास ।

अन्वयरचना

  • जहास
    • कथं जहास ? मन्दम्
    • कः जहास ? वैकुण्ठः
      • कीदृशः वैकुण्ठः ? परिणूताखिलोदयः
        • कथं परिणूताखिलोदयः ? इत्थं
        • कया परिणूताखिलोदयः ? पृथया
        • कैः उपकरणैः परिणूताखिलोदयः ? कलपदैः
      • किंकुर्वन् इव जहास ? मोहयन् इव
        • कया मोहयन् ? मायया

पदविवरणम्

 

सन्धिः

https://nivedita2015.wordpress.com/sandhi/

  • वृ

छन्दः

  • अनुष्टुप् (श्लोकः)

‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥’

Anushtup अनुष्टुप् in https://nivedita2015.wordpress.com/chandas-2/#anushtup

भागवतपुराणम् 

  • अष्टादशसु पुराणेषु अन्यतमम् । सात्त्विकषट्सु प्रधानम् ।
  • कृष्णद्वैपायनतनयेन शुकाचार्येण परीक्षिते उपदिष्टम्
  • द्वादशस्कन्धात्मकम् अष्टादशसहस्रश्लोकात्मकम्
  • सप्ताहक्रमे पठनं सम्प्रदायः
  • साक्षाद्भगवतः श्रीकृष्णस्य अक्षरस्वरूपम्
  • कलौ भवसागरादुद्धारकम्
  • वेदस्य उपबृंहणम्
  • ‘निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् ।
  • पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः ।।
  • नैकानि व्याख्यानानि ।
  • तेषु मुख्यानि
    • श्रीधरस्वामिविरचिता भावार्थदीपिका
    • श्रीवंशीधरकृतो भावार्थदीपिकाप्रकाशः
    • श्रीराधारमणदासगोस्वामिविरचिता दीपनी व्याख्या
    • श्रीमद्वीरराघवव्याख्या
    • श्रीमद्विजयध्वजतीर्थकृता पदरत्नावली
    • श्रीमज्जीवगोस्वामिकृतः क्रमसन्दर्भः
    • श्रीमद्विश्वनाथचक्रवर्तिकृता सारार्थदर्शिनी
    • श्रीमच्छुकदेवकृतः सिद्धान्तप्रदीपः
    • श्रीमद्वल्लभाचार्यविरचिता सुबोधिनी व्याख्या
    • श्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणविरचितः सुबोधिनीप्रकाशः
    • श्रीगिरिधरकृता बालप्रबोधिनी

भूमिका

कुरुक्षेत्रयुद्धान्ते अश्वत्थाम्ना उपपाण्डवादीनां वधः, द्रौपद्याः विलापः, अर्जुनस्य प्रतिज्ञा अनुद्रवणञ्च, तस्मात् स्वप्राणरक्षणार्थमश्वत्थाम्ना ब्रह्मशिरसः विमोचनम्, अर्जुनस्य कृष्णसविधे प्रार्थना, भगवत्कथनानुसारं अर्जुनेनापि ब्रह्मशिरसः प्रयोगः, प्रजोपप्लवमालक्ष्य वासुदेवस्यानुमतिं प्राप्य अर्जुनेन अस्त्रद्वयस्यापि संहरणम्, अश्वत्थामानं बद्ध्वा द्रौपद्याः पुरतः आनयनं, तया तस्य मोचनम्, मूर्धन्यमणेः हरणम्, मृतेभ्यः गङ्गायां जलाञ्जलिः, द्वारकां प्रति उपक्रममाणस्य भगवतः चरणयोः उत्तरायाः प्रपत्तिः, भगवता पञ्चानां पाण्डवानां तथा उत्तारगर्भस्य रक्षणम् ।

 

  1. Session by Sri. V. Anand in simple Sanskrit – https://youtu.be/C0kkQw6aRF4?list=PLTWf5ZhGT361UnxQNjMow6gr9E2BLisnG
  2. https://sa.wikisource.org/wiki/श्रीमद्भागवतपुराणम्/स्कन्धः_१/अध्यायः_८
  3. http://www.vedabase.com/en/sb/1/8/1OR http://gitabase.com/eng/SB/1/8/31
  4. Commentaries– https://archive.org/stream/SrimadBhagavatamCanto01withMultipleSanskritCommentaries/sb_canto_01#page/n407/mode/2up
    1. श्रीधरस्वामिविरचिता भावार्थदीपिका
    2. श्रीवंशीधरकृतः भावार्थदीपिकाप्रकाशः
  5. Audio https://www.youtube.com/watch?v=KEIV4aioRdA