Bhagavad Gita – Chapter 13 – Part 2

श्रीमद्भगवद्गीता – त्रयोदशोध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः – भाग:  २

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृच ॥ १४ ॥

बहिरन्तश्च भूतानामचरं चरमेव च ।

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ १५ ॥

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितिम् ॥ १७ ॥

पदच्छेदः

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् असक्तं सर्वभृत् च एव निर्गुणं गुणभोक्तृ च ॥ १४ ॥
बहिः अन्तः च भूतानाम् अचरं चरम् एव च सूक्ष्मत्वात् तत् अविज्ञेयं दूरस्थं च अन्तिके च तत् ॥ १५ ॥

अविभक्तं च भूतेषु विभक्तम् इव च स्थितम् भूतभर्तृ च तत् ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ १६ ॥
ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितिम् ॥ १७ ॥

अन्वयः

तत् सर्वेन्द्रियगुणाभासम्, सर्वेन्द्रियविवर्जितम्, असक्तम्, सर्वभृत् च एव, निर्गुणम्, गुणभोक्तृ च, भूतानाम् बहिः अन्तः च, अचरम्, चरम् एव च, सूक्ष्मत्वात् तत् अविज्ञेयम्, दूरस्थं च, अन्तिके च, भूतेषु अविभक्तं च, विभक्तम् इव स्थितम् च, भूतभर्तृ च, ग्रसिष्णु प्रभविष्णु, ज्ञेयम्, ज्योतिषाम् अपि ज्योति: तमसः परम् उच्यते । ज्ञानं, ज्ञेयं, ज्ञानगम्यं, सर्वस्य हृदि विष्ठितिम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वेन्द्रियगुणाभासम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वेन्द्रियविवर्जितम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = असक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = सर्वभृत्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = निर्गुणम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = गुणभोक्तृ
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = बहिः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अन्तः
      • सम्योजकपदम् = च
      • सम्बन्ध-पदम् = भूतानाम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अचरम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = चरम्
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = अविज्ञेयम्
      • (कर्मणि) कर्मपदम् = तत्
      • कारणवाचकपदम् = सूक्ष्मत्वात्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = दूरस्थम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अन्तिके
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अविभक्तम्
      • सम्बन्ध-पदम् = भूतेषु
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = स्थितम्
      • सम्योजकपदम् = इव
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = विभक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = भूतभर्तृ
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ज्ञेयम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ग्रसिष्णु
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = प्रभविष्णु
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = ज्योति:
      • सम्बन्ध-पदम् = ज्योतिषाम्
    • वाक्यांशः
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = परम्
      • सम्बन्ध-पदम् = तमसः
    • सम्योजकपदम् = च
    • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्तृविशेषणम् = ज्ञानम्
    • कर्तृविशेषणम् = ज्ञेयम्
    • कर्तृविशेषणम् = ज्ञानगम्यम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = विष्ठितिम्
      • अधिकरणपदम् = हृदि
      • सम्बन्ध-पदम् = सर्वस्य
    • (कर्मणि) कर्मपदम् = तत्

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तंसमासतः ।

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ १८ ॥

पदच्छेदः

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च उक्तं समासतः मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ॥ १८ ॥

अन्वयः

इति क्षेत्रं तथा ज्ञानं ज्ञेयं च समासतः उक्तम् । मद्भक्तः एतत् विज्ञाय मद्भावाय उपपद्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = उक्तम्
    • क्रियाविशेषणम् = समासतः
    • (कर्मणि) कर्मपदम् = क्षेत्रम्
    • (कर्मणि) कर्मपदम् = ज्ञानम्
    • (कर्मणि) कर्मपदम् = ज्ञेयम्
    • (कर्मणि) कर्तृपदम् = (मया)
    • सम्योजकपदम् = तथा
    • सम्योजकपदम् = च
    • सम्योजकपदम् = इति
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते [ उप + पद् “पद गतौ” लट्. आत्. प्रपु. एक. ]
    • सम्प्रदानपदम् = मद्भावाय
    • कर्तृपदम् = मद्भक्तः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विज्ञाय
      • कर्मपदम् = एतत्

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

पदच्छेदः

प्रकृतिं पुरुषं च एव विद्धि अनादी उभौ अपि विकारान् च गुणान् च एव विद्धि प्रकृतिसम्भवान् ॥ १९ ॥

अन्वयः

प्रकृतिं पुरुषं च एव उभौ अपि अनादी (इति) विद्धि । विकारान् गुणान् च एव प्रकृतिसम्भवान् विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = अनादी
      • वाक्यांशः
        • कर्तृविशेषणम् = उभौ
        • कर्तृ-विशेषण-सूचक-पदम् = एव
        • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • कर्तृपदम् = प्रकृतिम्
      • कर्तृपदम् = पुरुषम्
      • सम्योजकपदम् = च
      • सम्योजकपदम् = (इति)
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मविशेषण-सूचक-पदम् = प्रकृतिसम्भवान्
    • कर्मविशेषण-सूचक-पदम् = एव
    • कर्मपदम् = विकारान्
    • कर्मपदम् = गुणान्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)

कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते ।

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ २० ॥

पदच्छेदः

कार्यकरणकर्तृत्वे हेतुः प्रकृतिः उच्यते पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः उच्यते ॥ २० ॥

अन्वयः

कार्यकरणकर्तृत्वे प्रकृतिः हेतुः (इति) उच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुः (इति) उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
    • (कर्मणि) कर्म-वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = हेतुः
      • कर्तृपदम् = प्रकृतिः
      • सम्प्रदानपदम् = कार्यकरणकर्तृत्वे
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
      • कर्म-वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = हेतुः
        • कर्तृपदम् = पुरुषः
        • सम्प्रदानपदम् = भोक्तृत्वे
        • सम्बन्ध-पदम् = सुखदुःखानाम्
        • सम्योजकपदम् = (इति)

पुरुषः प्रकृतिस्थो हि भुङ्क्तेप्रकृतिजान्गुणान् ।

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ २१ ॥

पदच्छेदः

पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् कारणं गुणसङ्गः अस्य सत्+असत्+योनि+जन्मसु ॥ २१ ॥

अन्वयः

पुरुषः हि प्रकृतिस्थः प्रकृतिजान्गुणान् भुङ्क्ते | अस्य सदसद्योनिजन्मसु कारणम् गुणसङ्गः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भुङ्क्ते [ भुङ्क् “भुज पालनाभ्यवहारयो:” लट्. आत्. प्रपु. एक. ]
    • कर्मपदम् = प्रकृतिजान्गुणान्
    • कर्तृपदम् = पुरुषः
    • कर्तृविशेषणम् = प्रकृतिस्थः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = कारणम्
      • अधिकरणपदम् = सत्+असत्+योनि+जन्मसु
      • सम्बन्ध-पदम् = अस्य
    • कर्तृपदम् = गुणसङ्गः

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ २२ ॥

पदच्छेदः

उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ २२ ॥

अन्वयः

अस्मिन् देहे परः पुरुषः, उपद्रष्टा अनुमन्ता भर्ता भोक्ता महेश्वरः च परमात्मा च अपि इति उक्तः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = उक्तः
    • (कर्मणि) कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = उपद्रष्टा
      • कर्तृ-विशेषण-सूचक-पदम् = अनुमन्ता
      • कर्तृ-विशेषण-सूचक-पदम् = भर्ता
      • कर्तृ-विशेषण-सूचक-पदम् = भोक्ता
      • कर्तृ-विशेषण-सूचक-पदम् = महेश्वरः
      • कर्तृ-विशेषण-सूचक-पदम् = परमात्मा
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • सम्योजकपदम् = च
      • कर्तृपदम् = पुरुषः
      • कर्तृविशेषणम् = परः
      • अधिकरणपदम् = देहे
      • अधिकरण-विशेषणम् = अस्मिन्
      • सम्योजकपदम् = इति

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ २३ ॥

पदच्छेदः

यः एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह सर्वथा वर्तमानः अपि न सः भूयः अभिजायते ॥ २३ ॥

अन्वयः

यः एवं गुणैः सह पुरुषं प्रकृतिं च वेत्ति सः सर्वथा वर्तमानः अपि भूयः न अभिजायते ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् =वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = एवम्
    • कर्मपदम् = पुरुषम्
    • कर्मपदम् = प्रकृतिम्
    • सम्योजकपदम् = च
    • वाक्यांशः
      • करणवाचकपदम् = गुणैः
      • सम्योजकपदम् = सह
    • कर्तृपदम् = यः
  • “सः” वाक्यांशः
    • क्रियापदम् = अभिजायते [ अभि + जन् “जनी प्रादुर्भावे” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = भूयः
    • कर्तृपदम् = सः
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = वर्तमानः
      • क्रियाविशेषणम् = सर्वथा
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥

पदच्छेदः

ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना अन्ये साङ्ख्येन योगेन कर्मयोगेन च अपरे ॥ २४ ॥

अन्वयः

केचित् ध्यानेन आत्मनि आत्मना आत्मानं पश्यन्ति । अन्ये साङ्ख्येन योगेन | अपरे कर्मयोगेन ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यन्ति [ दृश् “दृशिर् प्रेक्षणे” पर. लट्. प्रपु. बहु. ]
    • कर्मपदम् = आत्मानम्
    • अधिकरणपदम् = आत्मनि
    • करणवाचकपदम् = आत्मना
    • कारणवाचकपदम् = ध्यानेन
    • कर्तृपदम् = केचित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (पश्यन्ति)
    • करणवाचकपदम् = योगेन
    • करणविशेषणम् = साङ्ख्येन
    • कर्तृपदम् = अन्ये
  • तृतीयवाक्यम्
    • क्रियापदम् = (पश्यन्ति)
    • करणवाचकपदम् = कर्मयोगेन
    • कर्तृपदम् = अपरे

References –

  1. 25 Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pe क्षेत्रक्षेत्रज्ञविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Ramayana Shlokas with Anvaya for KSOU MA – Part 3

For KSOU MA second year students, some selected verses, from Sundarakandam of Valmiki Ramayanam until Canto 22, are listed here along with anvaya. The main source is ValmikiRamayan.net. Changes and correction have been done where required.  The verses present in the past years’ question papers and the verses covered by Sri Dushyanth Sridhar in his discourse along with a few other shlokas are included. A reference to the year and question number is also mentioned in this format [2010.01].

५-१४-११ पुष्पावकीर्णः शुशुभे

पुष्पावकीर्णः शुशुभे हनुमान् मारुतात्मजः | अशोकवनिकामध्ये यथा पुष्पमयो गिरिः || ५-१४-११

यथा पुष्पमयः गिरिः,  पुष्प+अवकीर्णः,  मारुत+आत्मजः, हनुमान्, अशोक+वनिका+मध्ये, शुशुभे |

5.14.11. maaruta aatmajaH = the son of Lord Vayu; Hanuman = Hanuman; puSpa avakiirNaH = sprinkled with flowers; shushubhe = shone; giriH yathaa = like a mountain; puSpamayaH = of flowers; ashoka vanikaa madhye = in the middle of Ashoka garden.

The son of Lord Vayu, Hanuman sprinkled with flowers shone like a mountain of flowers in the middle of Ashoka garden.

2009.03

५-१४-३६ लताप्रतानैर्बहुभिः

लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम् || ५-१४-३६ काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः |
वृताम् हेममयीभिस्तु वेदिकाभिः समन्ततः || ५-१४-३७

सः महा+कपिः, बहुभिः लता+प्रतानैः बहुभि: पर्णैः च वृताम्, हेममयीभिः वेदिकाभिः तु समन्ततः, एकां, काञ्चनीं, शिंशुपां, ददर्श |

5.14.36-37. hariyuudhapaH = the monkey warrior Hanuman; dadarsha = saw; ekaam shimshupaam = one shimshupaa tree; kaaJNcaniim = golden colour; vR^itaam = covered; bahubhiH lataa prataanaiH = with many groups of creepers; bahubhiH parNaiH = and with many leaves; vR^itaam = surrounded; samantataH = everywhere; vedikaabhiH = with platforms; hemamayiibhistu = made of gold.

The monkey warrior Hanuman saw one shimshupaa tree golden in colour covered with many groups of creepers and with many leaves surrounded everywhere with platforms made of gold.

५-१५-१९ ददर्श शुक्लपक्षादौ

ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् || ५-१५-१९

शुक्ल+पक्ष+आदौ, अमलां चन्द्र+रेखाम्, इव, ददर्श |

5.15.19. dadarsha = Hanuman saw (Seetha); amalaam candra rekhaam iva = like the pure crescent moon; shukla pakSa aadau = at the beginning of a bright fortnight;

Hanuma saw Seetha like the pure crescent moon at the beginning of a bright fortnight.

५-१५-२० मन्दं प्रख्यायमानेन रूपेण

मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् | पिनद्धां धूमजालेन शिखामिव विभावसोः || ५-१५-२०

धूम+जालेन पिनद्धां, विभावसोः रुचिर+प्रभां  शिखाम् इव, मन्दं प्रख्यायमानेन, रूपेण (सा आसीत् )|

5.15.20. mandam prakhyaayamaanena = faintly recognisable, ruupeNa = in form,  dhuuma jaalena  = by a cluster of smoke, pinaddhaam = engulfed, rucira prabhaam = with bright shine, vibhaavasoH = of fire, shikhaam iva = like the tip.

Her form was faintly recognisable. She had a lovely radiance on account of her beautiful form. She looked like the tip of burning fire engulfed in a cloud of smoke.

५-१५-२२ व्रीडितां दुःखसम्तप्ताम्

व्रीडितां दुःखसम्तप्तां परिम्लानां तपस्विनीम् | ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् || ५-१५-२२

अङ्गारकेण ग्रहेण एव पीडितां रोहिणीम् इव, व्रीडितां दुःखसम्तप्तां परिम्लानामं तपस्विनीं (सीतां दृष्टवान्)|

5.15.22. vriiDitaam = bashful; duhkha samtaptaam = tortured by sorrow; parimlaanaam = worn out; tapasviniim = in a pitiable condition; rohiNiim iva = like the constellation Rohini; piiDitaam = pressed; angaarakeNa graheNa = by the planet mars.

Bashful, tortured by sorrow worn out in a pitiable condition like the constellation Rohini, pressed by the planet mars.

५-१५-२३ अश्रुपूर्णमुखीं दीनाम्

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च | शोकध्यानपराम् दीनां नित्यं दुःखपरायणाम् || ५-१५-२३

अश्रु+पूर्ण+मुखीं, दीनां, अनशनेन कृशां च, शोक+ध्यान+पराम्, दीनां, नित्यं दुःख+परायणां (सीतां दृष्टवान्)|

5.15.23. ashru puurNa mukhiim = with a face full of tears; diinaam = in a pitiable condition; kR^ishaam = emaciated; anashanena = due to not taking food; shoka dhyaana paraam = immersed in thought with gloom; nityam diinaam = always in a pitiable state; duhkha paraayaNaam = surrendering to sorrow.

With a face full of tears in a pitiable condition, emaciated due to not taking food, immersed in thought with gloom, always in a pitiable state, surrendering to sorrow.

५-१५-२६ तां समीक्ष्य विशालाक्षीमधिकम्

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् || ५-१५-२६ तर्कयामास सीतेति कारणैरुपपादिभिः |

विशाल+अक्षीम्, अधिकं मलिनां, कृशां, ताम्, समीक्ष्य, उपपादिभिः कारणैः, सीता इति तर्कयामास |

5.15.26b – 5.15.27a. samiikSya = observing; taam = that woman; vishaala akSiim = with wide eyes; adhikam malinaam = very untidy; kR^ishaam = emaciated (thin) ; tarkayaam aasa = Hanuma thought (that); siiteti = this is indeed Seetha; upapaadibhiH kaaraNaiH = on logical grounds.

Observing that woman with wide eyes, very untidy, emaciated, Hanuman thought that this is indeed Seetha on logical grounds.

५-१५-४८ इयं कनकवर्णाङ्गी

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया | प्रणष्टापि सती याऽस्य मनसो न प्रणश्यति || ५-१५-४८

इयं, कनक+वर्ण+अङ्गी, रामस्य महिषी, प्रिया | या सती प्रणष्टा अपि, अस्य (रामस्य) मनसः न प्रणश्यति |

5.15.48. iyam = this She; kanaka varNa angii = of golden colour; raamasya piryaa mahiSii = is indeed Rama’s dear wife; yaa = who ever (Seetha); satii = the chaste one; pranaSTaa api = even though not seen; na praNashyati = is not gone; asya manasaH = from Rama’s heart.

“This She of golden colour is indeed Rama’s dear wife; who ever Seetha the chaste one, even though not seen, is not gone from Rama’s heart.”

५-१५-५० स्त्री प्रनष्टेति

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यत: |
पत्नी नष्टेति शोकेन प्रियेति मदनेन च || ५-१५-५०

प्रनष्टा स्त्री इति कारुण्यात्, आश्रिता इति आनृशंस्यत:, नष्टा पत्नी इति शोकेन, प्रिया इति मदनेन च (राम: परितप्यते) |

5.15.49 – 5.15.50. saa iyam = this is She; yat kR^ite = for whose sake; raamaH = Rama; paritapyate = is tormented; caturbhiH = in four ways; kaaruNyena = from compassion; aanR^ishamsyataH = from pity; shokena = from grief; madanena = from love; pranaSTaa strii iti = (thinking that) a woman has disappeared; kaaruNyena = from compassion; aashritaa iti = depending on him; aanR^ishamsyataH = from pity; naSTaa patnii iti = wife has been lost; shokena = from grief; priyaa iti = a dear one; madanena = from love.

“This is She for whose sake Rama tormented in four ways from compassion from pity from grief from love; (thinking that) a woman has disappeared from compassion, depending on him from pity, wife has been lost from grief, a dear one from love.”

“She is that same lady for whom Rama has been passing through compassion, benevolence, grief and passion. He is compassionate considering her a woman, kind and benevolent since she is his dependent, stricken with grief for losing a wife and passionate since she is his beloved.

५-१५-५३ दुष्करं कृतवान् रामः

दुष्करं कृतवान्रामो हीनो यदनया प्रभुः।धारयत्यात्मनो देहं न शोकेनावसीदति।।५-१५-५३

यत्, अनया हीनः, प्रभुः, आत्मनः देहं, धारयति, शोकेन न अवसीदति (च), रामः, दुष्करं कृतवान् ।

5.15.53 Prabhuḥ = lord, rāmaḥ = Rama, anayā = with her, hīnaḥ = separated, ātmanaḥ = his, dēham = body, dhārayati yat = held in this way, śōkēna = with grief, na avasīdati = is not perishing, duṣkaram = a task (difficult), kr̥tavān = accomplished.

Lord Rama had accomplished a difficult task in sustaining the body this way without allowing it to sink and perish during separation from her.

५-१५-५४ दुष्करं कुरुते रामः

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् | सीतां विना महाबाहुः मुहूर्तम् अपि जीवति || ५-१५-५४

यः मत्त+काशिनीम् इमां सीतां विना मुहूर्तम् अपि जीवति,  (सः) महा+बाहुः रामः दुष्करं कुरुते |

5.15.54 Yaḥ = he who, imām = such, mattakāśinīm = a lady with intoxicating lustre, sītāṁ vinā = without Sita, muhūrtamapi = even for a while, jīvati = survives, mahābāhuḥ = strong armed, rāmaḥ = Rama, duṣkaram = difficult, kurutē = is doing.
“Rama, the strong-armed hero has accomplished a difficult task by surviving even for a moment without this Sita who has intoxicating lustre”.

५-१६-३ मान्या गुरुविनीतस्य

मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया |यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः || ५-१६-३

यदि गुरु+विनीतस्य लक्ष्मणस्य मान्या, गुरु+प्रिया, सीता अपि दुःख+आर्ता, (तर्हि) कालः दुर्+अतिक्रमः हि |

5.16.3. maanyaa = respectable; lakSmaNasya = to Lakshmana; guru viniitasya = instructed by teachers; siita api = Seetha also; guru priyaa = dear to teachers; duhkha aartaa yadi = if She is stricken with grief; kaalaH = destiny; duratikramaH hi = is indeed difficult to withstand.

“Respectable to Lakshmana, instructed by teachers, Seetha is also dear to teachers; if She is stricken with grief, destiny is indeed difficult to withstand.”

५-१६-५ तुल्यशीलवयोवृत्ताम्

तुल्यशीलवयोवृत्ताम् तुल्याभिजनलक्षणाम् | राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा || ५-१६-५

तुल्य+शील+वयः+वृत्ताम् | तुल्य+अभिजन+लक्षणाम् | राघवः वैदेहीं अर्हति | असित+ईक्षणा इयं (सीता) तं (रामं) च (अर्हति) |

5.16.5. raaghavaH = Rama; arhati = is suited; vaidehiim = to Seetha; tulya shiila vayo vR^ittaam = with Her well matched character age and conduct; tulya abhijana lakSaNaam = with well matched pedigree and characteristics; iyam = this; asitekSaNaa = black-eyed Seetha; tam arhati = is also suited to Him.

“Sri Rama is suited to Seetha with Her well matched character, age and conduct; with well matched pedigree and characteristics this black-eyed Seetha is also suited to Him.”

५-१६-१३ यदि रामः समुद्रान्ताम्

यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत् | अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः || ५-१६-१३

यदि राम: अस्या: कृते समुद्रान्तां मेदिनीं जगत् परिवर्तयेत् अपि च युक्तम् एव इति मे मति: |

5.16.13. yadi = if; raamaH = Rama; asyaaH kR^ite = for Her sake; parivartayet = turns upside down; mediniim = earth; samudraantaam = with the ocean at the end;jagat ca api = and the entire universe; yuktam iti = it is fair; eva me matiH = this is my opinion.

“If Sri Rama for Her sake turns upside down the earth with the ocean at the end, and the entire universe it is fair, this is my opinion.”

[ Selected Verses ]

५-१६-१४ राज्यमं वा त्रिषु लोकेषु

राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा |त्रैलोक्यराज्यम सकलं सीताया नाप्नुयात् कलाम् || ५-१६-१४

त्रिषु लोकेषु, राज्यं वा, जनक+आत्मजा सीता वा ? त्रैलोक्य+राज्यं सकलं, सीताया: कलाम्, न आप्नुयात् |

5.16.14. triSu lokeSu = among three worlds; raajyam vaa = kingdom or; siitaa vaa = Seetha; janakaatmaja = the daughter of Janaka; sakalam trailokya raajyam = all the kingdom of three worlds; na aapnuyaat = will not approach; siitaayaaH kalaam = a sixteenth part of Seetha.

“Among three worlds, if it is a choice between kingdom or Seetha, the daughter of Janaka, all the kingdom of three worlds will not approach a sixteenth part of Seetha.”

५-१६-१८ धर्मज्ञस्य कृतज्ञस्य

धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः | इयं सा दयिता भार्या राक्षसीवशमागता || ५-१६-१८

इयम्, सा, धर्मज्ञस्य कृतज्ञस्य विदित+आत्मनः रामस्य दयिता भार्या,  राक्षसी वशम् आगता |

5.16.18. iyam = this (in female gender); dayitaa bhaaryaa = dear wife; raamasya = of Rama; dharmaj~nasya = the righteous one; kR^itaj~nasya = grateful one; vidita aatmanaH = knower of Self; aagataa = has obtained; raakSasii vasam = capture of demonesses.

“This dear wife of Rama, the righteous one, grateful one, knower of Self has obtained capture of demonesses.”

2007.04

५-१६-२५ नैषा पश्यति

नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान् | एकस्थहृदया नूनं राममेवानुपश्यति || ५-१६-२५

एषा राक्षस्य: न पश्यति | इमान् पुष्पफलद्रुमान् न (पश्यति) | एकस्थ+हृदया रामम् एव अनुपश्यति (इति) नूनं |

5.16.25. eSaa = She; na pashyati = is not seeing; raakSasyaH = demonesses; na = not; puSpa phala drumaan = flowers; fruits or trees; ekastha hR^idayaa= with a single heart; raamam eva anupashyati = is meditating only on Sri Rama; nuunam = this is sure.

“She is not seeing demonesses, not flowers, fruits or trees and with a single heart is meditating only on Sri Rama – this is sure.”

[ selected verses ]

५-१६-२६ भर्ता नाम परम्

भर्ता नाम परं नार्या भूषणं भूषणादपि | एषा हि रहिता तेन शोभनार्हा न शोभते || ५-१६-२६

भूषणात् अपि नार्याः परं भूषणं भर्ता नाम | तेन रहिता, शोभन+अर्हा हि, एषा, न शोभते |

5.16.26. bhartaa naama = husband is; hi = indeed; param bhuuSaNam = the greatest adornment; naaryaaH = for a woman; bhuuSaNaad api = greater than jewellery; eSaa = this Seetha; shobhana arhaa = though deserving of decoration; na shobhate = is not looking charming; tena rahitaa = without Sri Rama.

“Husband is indeed the greatest adornment for a woman greater than jewellery; this Seetha though deserving of decoration, is not looking charming without Sri Rama.”

2009.04, 2010.04, 2012.03

५-१७-४..५-१७-८ दिदृक्षमाणो वैदेहीं हनुमान्

दिदृक्षमाणो वैदेहीं हनुमान् मारुतात्मजः | स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः || ५-१७-४
एकाक्षीमेककर्णां च कर्णप्रावरणाम् तथा | अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम् || ५-१७-५
अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम् | ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम् || ५-१७-६
लम्बकर्णललाटां च लम्बोदरपयोधराम् | लम्बोष्ठीं चुबुकोष्ठीं च लम्बास्यां लम्बजानुकाम् || ५-१७-७
ह्रस्वां दीर्घां च कुब्जां विकटां वामनां तथा | करालां भुग्नवक्त्रां च पिङ्गाक्षीं विकृताननाम् || ५-१७-८

सः, वैदेहीम् दिदृक्षमाणः, मारुतात्मजः, हनुमान्, अविदूरस्थाः, राक्षसीः, घोरदर्शनाः, एक+अक्षीम्, एक+कर्णां च, तथा कर्ण+प्रावरणाम्, अकर्णां, शङ्कु+कर्णां च, मस्तक+उच्छ्वास+नासिकाम्, अतिकायोत्तमाङ्गीं च, तनु+दीर्घ+शिर+उधराम्, ध्वस्त+केशीं, तथा अकेशीं, केश+कम्बल+धारिणीं, लम्ब+कर्ण+ललाटां च, लम्ब+उदर+पयोधराम् | लम्ब+उष्ठीं,  चुबुक+उष्ठीं च, लम्ब+आस्याम्, लम्ब+जानुकाम्, ह्रस्वां, दीर्घां च, कुब्जां, विकटां, तथा वामनां, करालां, भुग्न+वक्त्रां च, पिङ्ग+अक्षीं, विकृत+आननां, ददर्श |

5.17.4; 5.17.5; 5.17.6; 5.17.7; 5.17.8. maarutaatmajaH = Hanuman; didR^ikshamaaNaH = wanting to see; vaidehiim = Seetha; dadarsha = saw; aviduurasthaa = nearby; raakshasiiH = ogresses; ghora darshanaaH = with horrible appearance; ekaakshiim = (ogress) with one eye; ekakarNaam cha = and (another) with a single ear; tathaa = and also; karNapraavaraNaam = one with ears as covering body; saN^ku karNaam = with conch shell like ears; mastakochchvaasa naasikaam = one with fattened nose up to head; Atikāyōttamāṅgīṁ  = one with the main organ surpassing the body ; tanu diirgha shirodharaam = one with a lean and long neck; dhvastakesiim = one with disheveled hair; tathaa = and also; akeshiim = one without hair; keshakambala dhaariNiim = one with hair like a blanket; lamba karNa lalaataam cha = one with hanging ears and forehead; Lamba udara payōdharām = one with hanging stomach and breasts; lamboshhThiim = one with hanging lips; chubukoshhThiim = one with lips at chin; lambaasyaam = one with hanging face; lambajaanukaam = with hanging knees; hrasvaam = one who is short; diirghaam = one who is tall; tathaa = and also; kubjaam = hunch backed one; vikaTaam = one who is distorted; vaamanaam = one is dwarf; tathaa = and also; karaalaam = one with high teeth; bhugna vaktraam cha = and one with crooked mouth; piN^gaakshiim = one with green eyes; vikR^itaananaam = one with a horrible face.

Hanuman wanting to see Seetha saw nearby ogresses with horrible appearance – one with one eye; one with a single ear and also one with ears as covering; one with conch shell like ears; one with fattened nose up to head; one with the main organ surpassing the body; one with lean and long neck; one with disheveled hair and also one without hair; one with blanket like hair; one with hanging ears and forehead; one with hanging stomach and breasts; one with hanging face; one with hanging lips; one with lips at chin; one with hanging face; one with hanging knees; one who is short; one who is tall and also hunch backed one; one who is distorted; a dwarf one and also one with high teeth and one with crooked mouth, one with green eyes and one with a horrible face.

५-१९-१४ पद्मिनीमिव

पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव |प्रभामिव तमोध्वस्तामुपक्षीणामिवापगाम् || ५-१९-१४

विध्वस्तां पद्मिनीम् इव, हतशूरां चमूम् इव,  तमोध्वस्तां प्रभां इव, उपक्षीणाम् अपगाम् इव (सीता आसीत्) |

5.19.14. padminiimiva = (Seetha was) like a lotus; vidhvastaam = destroyed; chamuumiva = like an army; hata shuraam = with killed warriors; prabhaamiva = like light; tamodhvastaam = destroyed by darkness; apaagaamiva = like a river; upakshiiNaam = vanished.

Seetha was like a lotus destroyed, like an army with killed warriors, like light destroyed by darkness, like vanished river.

2011.03

५-१९-३ आच्छाद्योदरमूरुभ्याम्

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ | उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी || ५-१९-३

ऊरुभ्याम् उदरम् आच्छाद्य, बाहुभ्यां पयोधरौ च, विशालाक्षी, वरवर्णिनी, रुदन्ती उपविष्टा |

5.19.3. vishaalaakshii = The wide eyed Seetha; varavarNinii = with excellent color; aachchhaadya = covering; udaram = stomach; uurubhyaam = with thighs; payodharau = breasts; baahubhyaam = with hands; upavisshTaa = sat down; rudantii = crying.

The wide eyed Seetha with excellent color covering stomach with thighs and breasts with hands sat down crying.

५-१९-७ समीपं राजसिम्हस्य

समीपं राजसिम्हस्य रामस्य विदितात्मनः | सङ्कल्पहयसम्युक्तैर्यान्तीमिव मनोरथैः || ५-१९-७

सङ्कल्प+हय+संयुक्तै: मनः+रथै:, राज+सिम्हस्य विदित+आत्मन: रामस्य, समीपं, यान्तीम् इव, (सीता आसीत्) ||

5.19.6. yaantiimiva = (Seetha) Was as though going; samiipam = near; raamasya = to Rama; raajasimhasya = a lion among kings; viditaatmanaH = with a famous personality; manorathaiH = with desires as chariot; samkalpahayasamyuktaiH = tied with thoughts as horses

Seetha was as though going near Ramaa, who was a lion among kings, who was a famous personality, with desires as chariot tied with thoughts as horses.

५-२०-३ कामये त्वाम्

कामये त्वाम् विशालाक्षि बहुमन्यस्व मां प्रिये | सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे || ५-२०-३

विशालाक्षि | प्रिये | सर्वाङ्ग+गुण+सम्पन्ने | सर्वलोकमनोहरे | त्वाम् (अहं) कामये | मां (त्वं) बहुमन्यस्व |

5.20.3. vishaalakshii = O wide eyed one!; sarvaaN^ga guNa sampanne = O one who is endowed with bodily excellencies; sarva loka manohare = pleasing to all people; tvaam kaamaye = I desire you; priye = O lovable one!; maam bahumayasva = respect me.

“O wide eyed one! O one endowed with bodily excellencies, O one pleasing to all people. I desire you. O lovable one! Respect me.”

५-२१-३ तृणमन्तरतः कृत्वा

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता | ५-२१-३

शुचि+स्मिता, तृणम् अन्तरतः कृत्वा, प्रत्युवाच |

5.21.2. shuchi smitaa = with pleasant smiles;  kR^itvaa = making; tR^iNam = a grass straw; antarataH = in between (herself and Ravana); pratyuvaacha = spoke in reply.

With pleasant smiles, Seetha, placing a straw in between herself and Ravana, spoke thus in reply.

Reason 1 – Offering seat for guest; 2 – screen in the middle; 3 – before you and grass are same; 4 – bhagavan can come out of the grass also like narasimha; 5 – sukraachaarya who tried to stop Bali was blinded in one eye using a grass by Vaamana; 6 – Rama used a grass to make it a brahmastaram to punish the crow that poked Sita; 7 – it is a witness to my chastity and your bad behavior; 8 – use it to build house once Lanka is burnt; 9 – I myself can order it to burn you and Lanka.

५-२१-३ निवर्तय मनो मत्तः

निवर्तय मनो मत्तः स्वजने क्रियतां मनः || ५-२१-३ न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् |

मत्तः मनः निवर्तय | मनः स्वजने क्रियताम् | मां प्रार्थयितुं न युक्तम् | पापकृत् सुसिद्धिमिव |

5.21.3. nivartaya = turn back; manaH = mind; mattaH = from me; manaH kriyataam = let your mind be made; svajaH = on your own wives; susiddhimiva = like best emancipation; paapakR^it = (for) a sinner; na yuktam = it is not appropriate; praarthayitum = to pray; maam = me.

Turn your mind away from me and fix it on your wives. You should not expect to seek me just as a sinner cannot hope to seek blessedness.

५-२१-४ अकार्यं न मया

अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् || ५-२१-४ कुलं सम्प्राप्तया पुण्यं कुले महति जातया |

महति कुले जातया, पुण्यं कुलमं सम्प्राप्तया, एकपत्न्या, मया, विगर्हितम् अकार्यं न कार्यम् |

5.21.4. jaatayaa = I was born; mahati = in a great; kule = family; saMpraaptayaa = getting; punyam = meritorious; kulam = family; ekapatnyaa = having one husband; akaaryam = a bad deed; vigarhitam = which is blameable; na kaaryam = is not to be made; mayaa = by me.

“I was born in a great family. Getting such meritorious family, having one husband, a bad deed which is blameable is not to be made by me.”

Context: Sita tells Ravana on why his request for submitting herself to him is not proper.

५-२१-६ नाहमौपयिकी भार्या

नाहमौपयिकी भार्या परभार्या सती तव || ५-२१-६ साधु धर्ममवेक्षस्व साधु साधुव्रतम् चर |

परभार्या सती अहं औपयिकी तव भार्या न | धर्मम् साधु अवेक्षस्व | साधु+व्रतम् साधु चर |

5.21.6. aham = I; parabharyaa = who am wife of another; satii = and devoted to husband; na = am not; aupaikii = suitable; bhaaryaa = wife; tava = to you; avekshasva = observe; dharmam = righteousness; saadhu = well; chara = follow; saadhuvratam = course of conduct of virtuous; saadhu = well.

“I who am wife of another and devoted to husband am not suitable wife to you. Observe righteousness well. Follow well course of conduct of virtuous.”

५-२१-१५ शक्या लोभयितुम्

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा || ५-२१-१५ अनन्या राघवेणाहं भास्करेण प्रभा यथा |

अहम् ऐश्वर्येण धनेन वा लोभयितुं न शक्या | यथा भास्करेण प्रभा, राघवेण अहं अनन्या |

2.21.15. aham = I; na shakyaa = am not capable; lobhayitum = to be tempted; aisvaryeNa = by wealth; dhanena vaa = or by money;aham = I; ananyaa = am not separate; raaghaveNa = with Raghava; prabhaa yathaa = like the sun-shine; bhaaskareNa = with the sun.

“I am not capable to be tempted by wealth or by money. I am not separate with Raghava like the sun-shine with the sun.”

५-२१-२० विदितः स हि

विदितः स हि धर्मज्ञः शरणागतवत्सलः || ५-२१-२० तेन मैत्री भवतु ते यदि जीवितुमिच्चसि |

स: धर्मज्ञ: शरण+आगत+वत्सल: (इति) विदित: | यदि (त्वं) जीवितुम् इच्छसि तेन (सह) ते मैत्री भवतु ||

2.21.20. saH = He (Rama); dharmajJNaH = the righteous one; viditaH hi = is indeed known; sharaNaagatavatsalaH = as one who loves those who seek protection; ichchhasi yadi = if you desire; jiivitam = to live; maitrii bhavatu = let there be friendhip; te = to you; tena = with Rama.

“Rama the righteous one is indeed known as one who loves those who seek protection. If you desire to live, let there be friendship between you and Rama.”

५-२२-२१ नापहर्तुमहं शक्या

नापहर्तुमहं शक्या त्वया रामस्य धीमतः |विधिस्तव वधार्थाय विहितो नात्र संशयः || ५-२२-२१

धीमतः रामस्य  अहं, त्वया अपहर्तुम् शक्या न  | तव वधार्थाय विधिः विहितः | अत्र संशयः न |

5.22.21. dhiimataH = wise; raamasya = Rama’s; aham = I; na shakyaa = am not capable of being; apahartum = abducted; tvayaa = by you; vidhiH = (this) act; vihitaH = has been made; tava = for your; vadhaarthaaya = slaying; atra = in this; na saMshayaH = there is no doubt.

“I belong to wise Rama. I am not capable of being abducted by you. This act has been made for your slaying. In this there is no doubt.”

Context: “O Ravana! Although you are suited to be burnt into ashes, not having the mandate of Rama and preserving austerity, I am not reducing you into ashes with my glory.”

2008.04

References

Ramayana Shlokas with Anvaya for KSOU MA – Part 2

For KSOU MA second year students, some selected verses, from Sundarakandam of Valmiki Ramayanam until Canto 22, are listed here along with anvaya. The main source is ValmikiRamayan.net. Changes and correction have been done where required.  The verses present in the past years’ question papers and the verses covered by Sri Dushyanth Sridhar in his discourse along with a few other shlokas are included. A reference to the year and question number is also mentioned in this format [2010.01].

५-२-५ स तु वीर्यवतां श्रेष्ठः

स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः | जगाम वेगवाल्लँङ्कां लङ्घयित्वा महोदधिम् || ५-२-५

वीर्यवतां श्रेष्ठः, प्लवतां अपि उत्तमः च, वेगवान् स: तु, महा+उदधिं लङ्घयित्वा, लङ्कां जगाम |

5.2.5. saH tu = that Hanuman; shresahThaH = best; viiryavataam = among the powerful ones; uttamaH = foremost; plavataamapi = also among those who fly; jagaama = went; vegavaan = with (good) speed; lan^kaam = for Lanka; laNGhayitvaa = crossing; mahodadhim = the great ocean.

That Hanuman, the best among powerful ones and the foremost also among those who can fly, reached the city of Lanka by crossing the great ocean with good speed.

2010.02

५-२-२७ न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः | न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि || ५-२-२७

इह आगत्यापी, हरयः, निरर्थकाः भविष्यन्ति | सुरैः अपि युद्धेन वै लङ्का जेतुं न शक्या हि |

5.2.27. harayaH = vaanaras; aagatyaapi = even (if they) could come; iha = here; bhavishhyanti = they would become; nirarthakaaH = without success; laN^kaa = Lanka; na shakyaa hi = is not possible; jetum = to be overcome; yuddhena = in war; surairapi = even by Suras.

Hanuman saw that Lanka’s great protection and the ocean and Ravana, the horrible enemy and thought thus.

“Even if Vanaras were to come here they would not meet with success. It is not possible even for Devas to be victorious against Lanka in war”.

2014.14 [Dushyant]

५-२-२८ इमां तु विषमां

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् | प्राप्यापि स महाबाहुः किं करिष्यति राघवः || ५-२-२८

सः महाबाहुः राघवः, इमां तु रावण+पालितां विषमां दुर्गां लङ्कां, प्राप्य अपि, किं करिष्यति ?

5.2.28. praapyaapi = even after reaching; imaam = this; vishhamaam = very difficult; durgaam = impenetrable; laN^kaam = Lanka; raavaNa paalitaam = ruled by Ravana; kiM karishhyati saH mahaabaahuH raaghavaH = what can that Sri Rama with mighty arms do?

“Even if He reaches this very difficult and impenetrable Lanka ruled by Ravana, what can that Sri Rama with mighty arms do”?

[Dushyant]

५-२-४९ सूर्ये चास्तं गते रात्रौ

सूर्ये चास्तं गते रात्रौ देहं संक्षिप्य मारुतिः | वृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः || ५-२-४९

सूर्ये अस्तं गते (सति) च रात्रौ, मारुतिः देहं संक्षिप्य, वृषदंशक+मात्रः सन्, अद्भुतदर्शनः बभूव |

5.2.49. suurye astaM gate cha = After the sun had set; maarutiH = Hanuman; saMkshipya = reduced; deham = body; raatrau = at night; vR^ishhadaMshaka maatraH san = with a body size equal to that of a cat; babhuuva = became; adhuta darshanaH = a wonderful sight (to behold).

After the sun had set, Hanuman reduced His body at night with a size equal to that of a cat and became a wonderful sight to behold.

[Dushyant]

५-२-५८ शङ्खप्रभं क्षीरमृणालवर्ण

शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम् |
ददर्श चन्द्रं स हरिप्रवीरः पोप्लूयमानं सरसीव हंसम् || ५-२-५८

सः हरिप्रवीरः, शङ्खप्रभं, क्षीर+मृणाल+वर्णम्, उद्गच्छमानं, व्यवभासमानं,  सरसि पोप्लूयमानं हंसम् इव,चन्द्रं, ददर्श |

5.2.58. saH haripraviiraH = that Hanuman; dadarsha = saw; chandram = the moon; udgachha maanam = who was rising up; shaN^kha prabham = with the splendour of a couch-shell; vyavabhaasamaanam = shining; kShiiramR^iNaala varNam = in white colour as milk and lotus-fibre; hamsamiva = and looking like a swan; popluuyamaanam = swimming; sarasi = in a lake.

That Hanuman saw the moon, who was rising up in the sky with the splendour of a couch-shell, shining in white colour as milk or lotus-fibre, and looking like a swan swimming in a lake.

[Dushyant]

५-३-२३ कस्त्वम् केन च कार्येण

कस्त्वम् केन च कार्येण इह प्राप्तो वनालय |कथयस्वेह यत्तत्त्वं यावत्  प्राणा धरन्ति ते || ५-३-२३

वन+आलय | त्वं क: ? केन कार्येण, इह, प्राप्तः, च ? यावत् ते प्राणा: धरन्ति, (तावत्), यत् तत्त्वं, (तत्), इह,  कथयस्व |

5.3.23. vanaalaya = O one who lives in gardens; tvam kaH = who are you; kena kaaryeNa = for what reason; praaptaH iha = did you come here; yaavat dharanti = as long as (you) sustained; te praaNaaH = your lives; (before that); kathayasva = tell; yat = whatever; tattvam = truth; iha = here.

“O one who lives in gardens! Who are you? For what reason did you come here? As long as your lives are sustained, tell me the truth here before that.”

[Dushyant]

५-३-२६ का त्वम् विरूपनयना

का त्वम् विरूपनयना पुरद्वारेऽवतिष्ठसि |
किमर्थम् चापि माम् रुद्ध्वा निर्भर्त्सयसि दारुणा || ५-३-२६

विरूप+नयना | का त्वम् ? पुर+द्वारे अवतिष्ठसि | दारुणा | किमर्थं माम् रुद्ध्वा, अपि च निर्भर्त्सयसि ?

5.3.26. avatishhThasi = you are standing; puradvaare = at the entrance to city; viruupanayanaa = O one with ugly eyes; tvam kaa = who are you; daaruNaa = O horrible one; ruddhvaa = stopping; maam = me; kimartham = for what reason; nirbhatyasi = are you threatening me.

“You are standing at the entrance to the city. O one with ugly eyes! Who are you? O horrible one! Stopping me, for what reason are you threatening me?”

[Dushyant]

५-३-३३ द्रक्ष्यामि नगरीं लङ्काम्

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् |इत्यर्थमिह सम्प्राप्तः परं कौतूहलं हि मे || ५-३-३३
साट्ट+प्राकार+तोरणां नगरीं लङ्कां द्रक्ष्यामि  इत्यर्थम् इह सम्प्राप्तः | मे परं कौतूहलं हि |

5.3.33. drakshyaami = I would like to see; laN^kaam nagariim = the city of lanka; saaTTaa praakaara toraNaam = with its palaces; defensive walls and archways; iti artham = for this reason; saMpraaptaH = (I) came; iha = here; param kautuuhalam = (there is) lot of curiosity; me = to me.

“I would like to see the city of Lanka with its palaces, defensive walls and archways. I came here for that reason. I am very curious to see them.” Context: Hanuman tells the deity of Lanka.

2010.03

५-३-३८ ततः कृत्वा महानादम्

ततः कृत्वा महानादं सा वै लङ्का भयावहम् |
तलेन वानरश्रेष्ठं ताडयामास वेगिता || ५-३-३८

ततः सा वै लङ्का, भयावहं महानादं कृत्वा, तलेन, वानरश्रेष्ठं, वेगिता, ताडयामास |

5.3.38. tataH = thereafter; saa lankaa = that Lanka; kR^itvaa = made; mahaanaadam = a great sound; bhayaavaham = causing terror; taaDayaamaasa = hit; vaanarashreshhTham = the best among Vanaras; talena = with the palm; vegitaa = quickly.

Thereafter that Lanka made a great sound causing terror and hit Hanuman, the best among Vanaras, with her palm quickly.

[Dushyant]

५-३-४० ततः सम्वर्तयामास

ततः सम्वर्तयामास वामहस्तस्य सोऽङ्गुलीः| मुष्टिनाभिजघानैनां हनुमान् क्रोधमूर्छितः || ५-३-४०
स्त्री चेति मन्यमानेन नातिक्रोधः स्वयम् कृतः |

ततः सः क्रोधमूर्छितः हनुमान्, वामहस्तस्य अङ्गुलीः, सम्वर्तयामास | एनाम् मुष्टिना अभिजघान | स्त्री च इति मन्यमानेन (तेन), अतिक्रोधः स्वयम् न कृतः |

5.3.40 tataH = thereafter; saH Hanumanan = that Hanuman; krodhamuurchitaH = became dizzy with anger; saMvartayaamaasa = folded; aN^guLiiH = fingers; vaamahastasya = of left hand; abhijaghaana = hit; enaam = her; mushhTinaa = with His fist; strii cha iti = she is a woman (thus); manyamaanena = thinking; ati krodhaH = great anger; svayam na kR^itaH = was not done by Himself.

Thereafter that Hanuman became dizzy with anger and folded his fingers of left hand. He then hit her with His fist. “She is a woman” – thinking thus He did not show much anger by Himself.

[Dushyant]

५-३-४५ अहं तु नगरी लङ्का

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम || ५-३-४५ निर्जिताहं त्वया वीर विक्रमेण महाबल |

प्लवङ्गम | अहं तु स्वयं एव लङ्का नगरी | वीर | महाबल | अहं विक्रमेण त्वया निर्जिता |

5.3.45 plavangama = O Vanara! aham tu = I am; lankaa nagaryeva = city of Lanka itself; svayameva = myself; mahaa bala = O strong one! viia = O courageous one! aham = I; nirjitaa = have been defeated; tvayaa vikrameNa = by your strength.

“O Vanara! I am myself the city of Lanka. O strong one! O courageous one! I am defeated by your strength.”

2007.02

५-३-४९ सीतानिमित्तंम् राज्ञस्तु

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः || ५-३-४९  रक्षसां चैव सर्वेषां विनाशः समुपागतः |
सीता+निमित्तं, दुरात्मनः राज्ञः रावणस्य (च), सर्वेषां रक्षसां च एव, विनाशः समुपागतः |

5.3.49 vinaashaH = destruction; samupaagataH = has come; raavaNasya = of Ravana; durraatmanaH = the evil minded; raaJNAH = king; sarveshhaam rakshasaam cha = and to all Rakshasas; siitaa nimittam = due to Seetha.

“The destruction has come for Ravana the evil minded king and to all Rakshasas due to Seetha.”

५-३-५० तत् प्रविश्य हरिश्रेष्ठम्

तत् प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् || ५-३-५०  विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि |

हरिश्रेष्ठ | तत् रावणपालिताम् पुरीम् प्रविश्य | यानि यानि इह वाञ्छसि, सर्वकार्याणि विधत्स्व |

5.3.50 hari shreshhTha = O best among Vanaras! tat = for that reason; pravishya = enter; puriim = the city; raavaNa paalitaam = ruled by Ravana; vidhatsva= do; yaani yaani = whatever; vaanchasi = you desire; sarva kaaryaaNi = all those tasks; iha = here.

“O best among Vanaras! For that reason, enter the city of Lanka ruled by Ravana and do here whatever tasks you want to.”

[Dushyant]

५-४-२ प्रविश्य नगरीं लङ्काम्

प्रविश्य नगरीं लङ्कां कपिराजहितम्करः || ५-४-२ चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि |

सः कपि+राज+हितम्करः, लङ्कां नगरीं प्रविश्य, अथ, सव्यं पादं तु, शत्रूणां मूर्धनि, चक्रे |

5.4.2. kapiraaja hitaMkaraH = desiring the benefit of the king of Vanaras; saH = that Hanuman; pravishya = entered; laN^kaam nagariim = the city of Lanka; atha = and; chakre = made; savyaM paadam = left foot; shatruuNaam muurdhani = on enemies’ head.

Desiring the benefit of the king of Vanaras, Sugreeva, that Hanuman entered the city of Lanka and thus actually placed His left foot on the enemies’ heads.

Comment : When entering a city of enemies, one who wishes their destruction should always place one’s left foot first into the city.

2009.01 [Dushyant]

५-५-१० मत्तप्रमत्तानि समाकुलानि

मत्तप्रमत्तानि समाकुलानि रथाश्वभद्रासनसङ्कुलानि |
वीरश्रिया चापि समाकुलानि | ददर्श धीमान् स कपिः कुलानि || ५-५-१०

सः वीरः धीमान् कपिः, मत्तप्रमत्तानि समाकुलानि रथ+अश्व+भद्र+आसन+सङ्कुलानि, श्रिया च अपि समाकुलानि, कुलानि, ददर्श |

5.5.10. saHkapiH = that Hanuman; viiraH = the courageous one; dhiimaan = the intellectual one; dadarsha = saw; kulaani = houses; mattapramattaani = with people in heat; samaakulaani = filled with people; rathaashvabhadraasanasaMkulaani = filled chariots; horses; elephants and best furniture; shriyaa chaapi samaakulaani = and also full of wealth.

That Hanuman the courageous one, the intellectual one, saw houses with people in heat, houses filled with people, full chariots, horses, elephants and best furniture and also full of wealth.

2012.4

५-५-२० अप्रावृताः काञ्चनराजिवर्णाः

अप्रावृताः काञ्चनराजिवर्णाः |काश्चित् परार्थ्यास्तपनीयवर्णाः |
पुनश्च काश्चिच्छशलक्ष्मवर्णाः | कान्तप्रहीणा रुचिराङ्गवर्णाः || ५-५-२०

काञ्चन अप्रावृताः राजिवर्णाः, काश्चित् परार्थ्याः तपनीयवर्णाः, पुनः च काश्चित् शशलक्ष्म+वर्णाः, कान्तप्रहीणाः रुचिर+अङ्गवर्णाः |

5.5.20. kaaJNchanaraajivarNaaH = (Hanuman saw) women with a golden complexion; apraavR^itaaH = lacking clothes; tapaniiyavarNaaH = women with a complexion of refined gold; paraarthyaaH = suitable for mating; kaashchit = and some other women; punashcha = also; shashalakshmavarNaaH = with the colour of moon; kaashchit = and some other women; ruchiraaN^gavarNaaH = with beautiful bodies; kaantaprahiiNaaH = lacking lovers.

Hanuman saw women with golden complexion lacking clothes, women with a complexion of refined gold suitable for mating and some other women also with the colour of moon and some other women with beautiful bodies lacking a lover.

[Dushyant]

५-६-१६ गृहाद् गृहं राक्षसानाम्

गृहाद्गृहम् राक्षसानामुद्यानानि च वानरः | वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः || ५-६-१६

सः असंत्रस्तः वानरः, राक्षसानाम् गृहात् गृहम्, उद्यानानि च, प्रासादान् च, वीक्षमाण: हि, चचार |

5.6.16. saH vaanaraH = That Hanuman; chchaara = moved about; gR^ihaat gR^iham = from one house to another; rakshsaanaam = of rakshasas; udyaanaani cha = and also parks; viikshamaaNaH api = and observing; asantrastaH = without fear; praasaadaamshcha = and also courtyards.

That Hanuman moved about from one house to another of Rakshasas and also parks and observing (in all directions) without fear and also courtyards.

2008.02

५-७-१४ नियुज्यमानास्तु गजाः

नियुज्यमानास्तु गजाः सुहस्ताः | सकेसराश्चोत्पलपत्रहस्ताः |
बभूव देवी च कृता सुहस्ता |लक्ष्मीस्तथा पद्मिनि पद्महस्ता || ५-७-१४

पद्मिनि नियुज्यमानाः, सकेसराः च, सुहस्ताः च, उत्पल+पत्र+हस्ताः, गजाः, तथा लक्ष्मीः, सुहस्ता, पद्म+हस्ता, देवी, कृता च, बभूव |

5.7.14. gajaaH = Elephants; sakesaraashcha = with filaments of lotus petals on body; suhastaa = with shapely trunks; utpalapatrahastaaH = with lotus petals held in their trunks; niyujyamaanaaH tu = devoted or engrossed; padmini = in a lotus-pool; lakshmiiH = of Goddess Lakshmi; tathaa = and deviicha = (an image of) Goddess Lakshmi also; suhastaa = with graceful hands; padmahastaa = holding lotus in Her hand; kR^itaa babhuuva = was made to exist in Pushpaka;

Images of elephants with filaments of lotus on body, with lotus petals held in their trunks, which were engrossed in a lotus-pool; And also an image of Goddess Lakshmi with four graceful hands and holding lotus in Her hand; was made to exist in Pushpaka.

[Dushyant]

५-८-२ तदप्रमेयाप्रतिकारकृत्रिमम्

तदप्रमेयाप्रतिकारकृत्रिमम् | कृतं स्वयं साध्विति विश्वकर्मणा |
दिवं गतं वायुपथप्रतिष्ठितम् | व्यराजतादित्यपथस्य लक्ष्मवत् || ५-८-२

तत्, विश्वकर्मणा स्वयं साधु इति अप्रमेय+अप्रतिकार+कृत्रिमं कृतम्, आदित्य+पथस्य लक्ष्मवत्, दिवं गतं, वायु+पथ+प्रतिष्ठितं, व्यराजत |

5.8.2. tat = that plane; vyaraajata = shone; lakshmavat = like symbol; aadityapathasya = for solar path; vaayupathapratishhThatam = standing in the aerial path; divamgatam = obtaining in the sky; kR^itam = manufactured; svyam vishvakarmaNaa = by Vishvakarma himself; saadhu iti = and praised by him; aprameyaapratikaarakR^itrimam = one without comparison in beauty.

That plane shone like symbol for solar path standing in the aerial path obtaining the sky. Manufactured by Vishvakarma himself and praised by him as one without comparison in beauty.

[Dushyant]

५-८-४ तपःसमाधानपराक्रमार्जितम्

तपःसमाधानपराक्रमार्जितम् | मनःसमाधानविचारचारिणम् |
अनेकसंस्थानविशेषनिर्मितम् | ततस्ततस्तुल्यविशेषदर्शनम् || ५-८-४

तपःसमाधान+पराक्रम+आर्जितम्,  मनःसमाधान+विचार+चारिणम्,  अनेक+संस्थान+विशेष+निर्मितम्,  ततः ततः तुल्य+विशेष+दर्शनम् |

5.8.4. tapHsamaadhaanaparaakramaarjitam = one that has been obtained by austerities and by prowess; manaHsamaadhaanavichaarachaariNam = one that moves about by the thoughts of concentrated mind; anekasamsthaanavisheshhanirmitam = made from various significant parts; tulyavisheshhanadarshanam = with an appearance of parts of equal significance; tataH tataH = (collected from) here and there

One that has been obtained by austerities and by prowess, one that moves about by thoughts of concentrated mind, made from various significant parts with an appearance of parts of equal significance, collected from here and there from all over the world.

[Dushyant]

५-९-३१ स्वर्गोऽयं देवलोक:

स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत् |
सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः || ५-९-३१

अयं स्वर्ग:, अयं देव+लोक:, इयं इन्द्रस्य पुरी भवेत् | इयम्, परा हि सिद्धि:, वा स्यात्, इति मारुतिः अमन्यत |

5.9.31. maarutiH = Hanuman; amanyataa = thought; iti = thus; iyam svargaH = this is heaven; iyam devalokaH = this is the aboard of Devas; iyam = this; bhavet = is; indrasya purii = a city of Indra; iyam = this; syaadvaa = might be; paraasiddhiH = the result of great austerity.

Hanuma thought thus : “This is heaven! This is indeed the abode of Devas! This is a city of Indra. This might be the result of a great austerity.”
Context: Hanuman visits the inner apartment of Ravana.

[Dushyant]

५-९-६१ अन्या वक्षसि च

अन्या वक्षसि चान्यस्यास्तस्याः काचित् पुनर्भुजम् | अपरा त्वङ्गमन्यस्यास्तस्याश्चाप्यपरा कुचौ || ५-९-६१

अन्या अन्यस्याः वक्षसि | काचित् पुनः तस्याः भुजम् च | अपरा तु अन्यस्याः अङ्गम्  | अपरा तस्याः कुचौ अपि च |

5.9.61. anyaa = another woman; anyasyaaH vakshasii = (slept) on another’s bosom; kaachitpunaH = again another women; tasyaaH bhujam = (slept) on her shoulder; aparaatu = another woman; anyasyaaH aN^kam = (slept) on another woman’s thigh; aparaa = another; tasyaaH kuchau = (slept) on her breasts.

Another woman slept on another’s bosom, again another woman slept on her shoulder, another woman slept on another woman’s thigh and another slept on her breasts.

[Dushyant]

५-१०-५३ तर्कयामास सीता इति

तर्कयामास सीतेति रूपयौवनसम्पदा || ५-१०-५३
हर्षेण महता युक्तो ननन्द हरियूथपः |

हरि+यूथपः, रूप+यौवन+सम्पदा, सीता इति तर्कयामास | महता हर्षेण युक्तः, ननन्द |

5.10.53. saH maarutaatmajaH = that Hanuman; mahaabaahuH = with great arms; taamdR^ishhTvaa = seeing that woman; bhuushhitaam = well decorated; tarkayaamaasa = in logic though; siiteti = this is Seetha; ruupayauvana sampadaa = by the wealth of her appearance and her youth; hariyudhapaH = that warrior of vanaras; nananda = was delighted; mahataa harshhenayuktaH = together with great pleasure.

That Hanuman with great arms seeing the woman well decorated, out of logic thought thus: “This is Seetha by the wealth of her appearance and her youth”. That warrior of Vanaras was delighted together with great pleasure.

[Dushyant]

५-१०-५४ आश्पोटयामास

आश्पोटयामास चुचुम्ब पुच्छम् | ननन्द चिक्रीड जगौ जगाम|
स्तम्भान् अरोहन् निपपात भूमौ | निदर्शयन् स्वां प्रकृतिं कपीनाम् || ५-१०-५४

आश्पोटयामास | पुच्छम् चुचुम्ब | ननन्द | चिक्रीड | जगौ जगाम | कपीनाम् स्वां प्रकृतिं निदर्शयन्, स्तम्भान् अरोहन्, भूमौ निपपात |

5.10.54. aasphoTayaamaasa = clasped his arms; chuchumbha puchchham = kissed his tail; nananda = he was delighted; chikriiDa = he was playful; jagau= sang; jagaama = paced; nidarshayan = showing; svaam = his; kappiinaam prakR^itim = simian nature; aarohat = climbed; stambaat = pillars; nipapaata bhuumau = and fell down on land.

He clasped his arms, kissed his tail he was delighted, he was playful, sang, paced showing his simian nature, climbed pillars and fell down on land.

Context: He sees Mandodari and thinks her to be Seetha.

2011.04

५-११-२, ५-११-३ न रामेण वियुक्ता सा

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी || ५-११-२ नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् |
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि || ५-११-३ अन्येयमिति निश्चित्य पानभूमौ चचार सः |

रामेण वियुक्ता, भामिनी, सा, स्वप्तुम् न अर्हति | सुराणाम्  ईश्वरम् अपि च, अन्यं नरम्  उपस्थातुं  न (अर्हति) | त्रिदशेषु अपि रामसमः कश्चित् न हि विद्यते | इयम् अन्या इति निश्चित्य, पानभूमौ, सः चचार |

5.11.2. ;  5.11.3. saa bhaaminii = that Seetha; na arhate = is not suitable; svaptum = to sleep ; raameNa viyuktaa = separated from Rama; upasthaatum = to reach; anyam naram = another man; suraaNaam eshvaram api = even though he were Indra; hi = because; na vidyate hi = there is indeed no; kashchit = one; raamasamaH = equalling Rama; tridasheshhvapi = even among gods; iyam anyaa = this is another woman; iti = thus; nishchitya = deciding; saH = that Hanuman; chachaara = paced; paanabhuumau = in that banqueting hall.

That Seetha is not suitable to sleep separated from Rama, to reach another man even though if he were Indra because there is indeed no one equaling Rama even among gods. This is another woman – thus deciding that Hanuman paced in that banqueting hall.

2014.02

५.११.११ मृगाणां महिषाणां च

मृगाणां महिषाणां च वराहाणां च भागशः ||५-११-११ तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः |

सः, तत्र, भागशः न्यस्तानि, मृगाणां महिषाणां च वराहाणां च मांसानि, पान+भूमौ ददर्श |

5.11.11. saH = Hanuman; dadarsha = saw; tatra = there; paanabhuumau = in that bar; maamsaani = meat; mR^igaaNaam = of dear; mahishhaaNaam cha = and of buffalo; varaahaaNaam cha = of wild boar; nyastaani = kept; bhaagashaH = separately;

Hanuman saw there in that bar, meat of dear and of buffalo, of wild boar kept separately.

[Dushyant]

५-११-१२ रौक्मेषु च विशलेषु

रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान् || ५-११-१२
ददर्श कपिशार्दूल मयूरान् कुक्कुटांस्तथा |

कपि+शार्दूलः, रौक्मेषु विशलेषु भाजनेषु,अर्ध भक्षितान् मयूरान्, तथा कुक्कुटान् च ददर्श |

5.11.12. harishaarduulaH = the best among Vanaras; dadarsha = saw; ardhabhakshitaan = half eaten; mayuraan = peacocks; tathaa = and; kukuTaan = chicken; vishaaleshhu bhaajaneshhu = in wide vessels; raukmeshhu = of golden colour.

The best among Vanaras saw half eaten peacocks and chicken in wide vessels of golden colour.

[Dushyant]

५-११-३७ परदारावरोधस्य

परदारावरोधस्य प्रसुप्तस्य निरीक्षणम् || ५-११-३७
इदं खलु ममात्यर्थं धर्मलोपं करिष्यति |

पर+दार+अवरोधस्य प्रसुप्तस्य मम इदम् निरीक्षणं अत्यर्थं धर्म+लोपं करिष्यति खलु |

5.11.37. mama = my; idam = this; niriikshaNam = seeing; prasuptasya = sleeping; paradaaraavarodhasya = house of other people’s wives; karishhyati = will do; atyartham dharmalopam = a great deficit to dharma.

“My seeing sleeping house of other people’s wives will do a great deficit to dharma.”

५-११-४३ मनो हि हेतुः

मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तने || ५-११-४३

शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम् |

शुभ+अशुभासु अवस्थासु सर्वेषाम् इन्द्रियाणाम् प्रवर्तने मनः हि हेतुः | तत् च मे (मनः) सुव्यवस्थितम् |

5.11.43. shubhaashubhaasu = among auspicious or inauspicious; avasthaasu = states; pravartane- in the behavior; sarveshhaanaam indriyaaNaam = of all senses; manaH hetuH = mind is the reason; me = my; tachcha = that mind; suvyavasthitam = is very steady.

“Among auspicious or inauspicious states in the behavior of all senses mind is the reason. That, my mind, is very steady.”

Context: Hanuman contemplates on his action of seeing all the unsuspecting women in Ravana’s inner apartment.

2007.03

५-१३-१२ अदुष्टा दुष्ट भावाभिः

अथवा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा || ५-१३-१२ अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति |

अथवा, असित+ईक्षणा, अदुष्टा, सा, दुष्ट+भावाभि:, राक्षस+इन्द्रस्य पत्नीभि:, भक्षिता भविष्यति |

5.13.12. athavaa = otherwise; adushhTaa = not being evil; asitekshaNaa = with black eyes; saa = she; bhakshitaa bhavishhyati = may have been eaten; raakshasendrasya patniibhi = by the wives of Ravana; dushhTabhaavaabhi = with evil thoughts.

“Otherwise not being evil, with black eyes, she may have been eaten by the wives of Ravana with evil thoughts.”

2009.02 Part 1

५-१३-१३ सम्पूर्णचन्द्रप्रतिमम्

सम्पूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम् || ५-१३-१३ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता |

सम्पूर्ण+चन्द्र+प्रतिमं पद्म+पत्र+निभ+ईक्षणं, रामस्य वक्त्रं ध्यायती, कृपणा, पञ्चत्वं गता |

5.13.13. kR^ipaNaa = the pitiable Seetha; sampuurNachandra pratimam = equaling full moon; padmapatra nibhyekshaNam = with eyes equaling lotus petals; paNchantvam gataa = must have obtained death; dhyaayatii = while meditating; raamasya vaktram = upon Rama’s face.

“The pitiable Seetha must have obtained death while meditating upon Rama’s face which equals full moon, with eyes equaling lotus petals.”

2009.02.Part 2

५-१३-१८ निवेद्यमाने दोषः

निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने || ५-१३-१८ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे |

निवेद्यमाने दोषः स्यात् | अनिवेदने दोषः स्यात् | कथं नु खलु कर्तव्यम् ? मे विषमं प्रतिभाति |

5.13.18. nivedyamaane = to be let known; syaat doshhaH = becomes an error; anivedane = not to let know; syaat = becomes; doshhaH = an error;khatham = how; kartavyam nu khalu = to perform the duty; me = to me; pratibhaati = (this) seems; vishhamam = dire (situation).

“To be let known becomes an error; not to let know becomes an error how to perform the duty? To me this seems dire situation.”

Context – Previous shloka: “It is not fair to let know Rama who has a dear wife if Seetha is lost or is not to be seen or has died.”

2008.03

५-१३-५९ नमो अस्तु रामाय

नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै |
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्य: || ५-१३-५९

रामाय सलक्ष्मणाय,  देव्यै जनक+आत्मजायै तस्यै च नमः अस्तु | रुद्र+इन्द्र+यम+अनिलेभ्यः नमः अस्तु | चन्द्र+अर्क+मरुत्+गणेभ्यः नमः अस्तु |

5.13.59. namaH astu = let there be salutations; raamaaya = to Sri Rama; sa lakshmaNaaya = together with Lakshmana; tasyai janakaatmajaayai cha = also to that; daughter of Janaka; devyai = who is divine namaH astu = let there be salutations; rudrendra yamaanilebhyaH = to Rudra; Indra; Yama and Vaayu; namaH astu = let there be salutations; chandrarkamarudgaNebhyaH = to Chandra; Sun and Marut ganas.

“Let there be salutations to Sri Rama together with Lakshmana, also to that, who is divine let there be salutations. To Rudra, Indra, Yama and Vaayu let there be salutations.”

References

Ramayana Shlokas with Anvaya for KSOU MA – Part 1

For KSOU MA second year students, some selected verses, from Sundarakandam of Valmiki Ramayanam until Canto 22, are listed here along with anvaya. The main source is ValmikiRamayan.net. Changes and correction have been done where required.  The verses present in the past years’ question papers and the verses covered by Sri Dushyanth Sridhar in his discourse along with a few other shlokas are included. A reference to the year and question number is also mentioned in this format [2010.01].

५-१-८ स सूर्याय महेन्द्राय

स सूर्याय महेन्द्राय पवनाय स्वयंभुवे |
भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् || ५-१-८

स:, सूर्याय महेन्द्राय पवनाय स्वयंभुवे भूतेभ्य:, च, अञ्जलिं कृत्वा, गमने मतिम् चकार |

5.1.8. saH = He; kR^itvaa = performed; aJNjaliM = salutation with joined palms; suuryaaya = to Sun-God; mahendraaya = to Lord Indra; pavanaaya = to the God of Wind; svayaMbhuve = to Lord Brahma; cha bhuutebhyaH = and to Bhutas; matim chakaara = (and) set his mind; gamane = to leave.

He saluted with joined palms to the Sun-God, Lord Indra, God of Wind, Lord Brahma and Bhutas and decided to leave.

[Dushyant]

५-१-९ अञ्जलिं प्राङ्मुखः कुर्वन्

अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये |
ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम् || ५-१-९

प्राङ्मुखः दक्षिणः, आत्मयोनये पवनाय, अञ्जलिं कुर्वन्, ततः दक्षिणां दिशं गन्तुं, ववृधे हि |

5.1.9. praaN^mukhaH = (Hanuman) facing east; kurvan = offering; aJNjalim = salutation; pavanaaya = Lord of Wind; aatma yonaye = responsible for his own birth; tataH = and then; vavR^idhe hi = increased (his body); gantuM = to go; dakshiNaam dishaM = the southern direction. dakshiNaH = one belonging to southern part.

Hanuman turned towards east, saluted his father, the Lord of Wind and increased his body to go towards southern direction.

Notes: The word  दक्षिणो (Dakshino) was used to indicate that Sri Hanuma is the follower of Dakshinaachara, i.e., the Vedic way life.  Sri Hanuma was described by the Sage Valmiki as expert in all Vedas.

Vaamachara also existed along with Dakshinaachara. The followers of Vaamachara are known to follow 5 Makaaras. Panchamakara, also known as the Five Ms, is a Tantric term referring to the five substances used in a Tantric puja or sadhana…..  http://sriramayanakandukuri.blogspot.in/2014/11/sri-hanuma-jumps-in-southern-direction.html

[Dushyant]

५-१-१८ स महासत्त्वसंनादः

स महासत्त्वसंनादः शैलपीडानिमित्तजः | पृथिवीं पूरयामास दिशश्चोपवनानि च ||५-१-१८

स: शैल+पीडा+निमित्तजः महा+सत्त्व+संनादः  पृथिवीं दिशः च उपवनानि च पूरयामास |

5.1.18. saH = that; mahaasattvasaMnaadaH = loud noise from creatures; shailapiiDaanimittajaH = formed because of the stress to the mountain; puurayaamaasa = filled; pR^ithiviim = the earth; cha dishaH = all the directions; cha upavanaani = and forests (near that mountain).

That loud noise from creatures which emanated because of stress caused to the mountain, filled the earth and all four directions and forests near that mountain.

Context: Being pressed on all sides by the mountain which itself was being pressed by Hanuman, creatures living in the caves of that mountain shrieked in horrifying tones.

2010.01

५-१-१९ शिरोभिः पृथुभिः सर्पा

शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः |
वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ||५-१-१९

सर्पाः, व्यक्त+स्वस्तिक+लक्षणैः, पृथुभिः शिरोभिः, घोरं पावकं वमन्तः (आसन्) | (ते) दशनैः, शिलाः ददंशुः |

5.1.19. sarpaaH = Snakes; vyakta svastika lakshaNaiH = with clear swastika signs (on the hoods); vamantaH = spewed out; ghoram paavakam = frightening flame; pR^ithubhiH shirobhiH = with (their) great heads; dadaMshuH = (and) bit; shilaaH = rocks; dashanaiH = with (their) teeth.

Great snakes with clear swastika signs on their hoods, spewed out frightening flames with their great heads and bit the rocks with their teeth.

[Dushyant]

५-१-३२ दुधुवे च सः

दुधुवे च स रोमाणि चकम्पे चाचलोपमः | ननाद सुमहानादं सुमहानिव तोयदः || ५-१-३२

अचल+उपमः स: रोमाणि दुधुवे च | चकम्पे च | सुमहान् तोयदः इव सु+महा+नादं ननाद |

5.1.32. saH = He; achalopamaH = equal to a mountain; dudhuve cha = shook; romaaNi = hair; chakampe cha = quivered (his body); nanaada = (and ) sounded; sumahaanaadam = a great roar; iva sumahaan toyadaH = like a vast cloud.

He, who is equal to a mountain, shook his hair, quivered his body and let out a great roar like from a vast cloud.

५-१-३३ आनुपूर्व्येण वृत्तं च

आनुपूर्व्येण वृत्तं च लाङ्गूलं लोमभिश्चितम् |
उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ||५-१-३३

उत्पतिष्यन् (सः), आनुपूर्व्येण वृत्तं, लोमभि: चितं च, लाङ्गूलं, पक्षिराज: उरगम् इव, विचिक्षेप |

5.1.33. utpatishhyan = About to fly; vichikshepa = (Hanuman) jolted; laaN^guulaM = tail; aanupuurvyeNa vR^ittam = (rolled) in a circle from top to bottom; chitam= covered; lomabhiH = with hair; yathaa = like; pakshi raajaH = the king of birds (Garuda); uragam = (jolts) a snake.

About to fly, Hanuman jolted his tail, which was rolled into a circle from top to bottom, and which was covered with hair, just as Garuda, the king of birds would jolt a snake.

2011.01

५-१-३७ मार्गमालोकयन् दुरादूर्ध्वम्

मार्गमालोकयन् दुरादूर्ध्वं प्रणिहितेक्षणः |रुरोध हृदये प्राणानाकाशमवलोकयन् || ५-१-३७

ऊर्ध्वं प्रणिहित+ईक्षणः, दूरादत् मार्गम् आलोकयन्, आकाशम् अवलोकयन्, प्राणान् हृदये रुरोध |

5.1.37. uurdhvam praNihitekshaNaH = With eyes raised up; aalokayan = seeing; maargam = the way; dooraat = from a distance; avalokayan = viewing; aakaasham = the sky; rurodha = (he) held; praaNaan = breath; hR^idaye = in heart.

With his eyes raised up, seeing the way from a distance, viewing the sky, he held his breath in his heart.

[Dushyant]

५-१-३९ यथा राघवनिर्मुक्तश्शरः

यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः |
गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् || ५-१-३९

यथा राघव+निर्मुक्तः श्वसन+विक्रमः शरः गच्छेत् तद्वत् रावण+पालितां लङ्कां गमिष्यामि ||

पदपरिचय:

  • “यथा” वाक्यांशः
    • क्रियापदम् = गच्छेत् [ गम् “गम्लु गतौ” पर. लिङ्. प्रपु. एक. ]
    • कर्तृविशेषणम् = राघवनिर्मुक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = श्वसनविक्रमः [ अ. पुं. प्र. एक. ]
    • कर्तृपदम् = शरः [ अ. पुं. प्र. एक. ]
    • सम्योजकपदम् = यथा [ अव्ययम् ]
  • “तद्वत्” वाक्यांशः
    • क्रियापदम् = गमिष्यामि [ गम् “गम्लु गतौ” पर. लृट्. उपु. एक. ]
    • कर्मविशेषणम् = रावणपालिताम् [ आ. स्त्री. द्वि. एक. ]
    • कर्मपदम् = लङ्कां [ आ. स्त्री. द्वि. एक. ]
    • कर्तृपदम् = (अहम्)
    • सम्योजकपदम् = तद्वत् [ अव्ययम् ]

5.1.39. gamishhyaami = I will go; laN^kaaM = to Lanka; raavaNapaalitaam = ruled by Ravana; yathaa = as; sharaH = an arrow; raaghava nirmuktaH= released by Rama; gachchhet = will go; tadvat = like that; shvasana vikramaH = with wind-like speed;

I will go to the city of Lanka, ruled by Ravana just like an arrow released by Rama will go, with wind-like speed.

[selected verse]

५-१-४१ बद्ध्वा राक्षसराजानम्

बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् || ५-१-४१ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया |

राक्षसराजानं रावणं बद्ध्वा आनयिष्यामि | सर्वथा कृतकार्यः अहं, सीतया सह, एष्यामि |

5.1.41. aanayishhyaami = I will get; raavaNam = Ravana; raakshasaraajaanam = the king of raakshasaas; baddhvaa = tied up (in chains); aham eshhyaami = I will return; sarvathaa = in all events; kR^itakaaryaH = successfully; siitayaa saha = along with Seetha;

I will get Ravana the king of raakshasaas tied up in chains without any effort. I will, in all events, return successfully along with Seetha.

[Dushyant]

५-१-४७ ऊरुवेगोद्धता

ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः |प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः || ५-१-४७

ऊरु+वेग+उद्धता: वृक्षा: कपिं मुहूर्तम् अन्वयुः | दीर्घमध्वानं प्रस्थितं स्वबन्धुं बान्धवाः इव |

5.1.47. vR^ikshaaH = the trees; uuruvegoddhataaH = lifted up by the force of thighs; anvayuH = followed; kapim = Hanuman; muhuurtam = for some time; baandhavaaH iva = like relatives; svabandhum = (following) a relative; prasthitam = embarking; diirgham maargam = on a long distance.

The trees thus being lifted up by the speed of Hanuman’s thigh, followed him for a while just as relatives would follow their loved ones embarking on a long journey.

2008.01, [Dushyant]

५-१-५७ पिबन्निव बभौ

पिबन्निव बभौ चापि सोर्मिमालं महार्णवम् || ५-१-५७ पिपासुरिव चाकाशं ददृशे स महाकपिः |

स: महाकपिः, स+ऊर्मि+मालं महा+आर्णवम्, पिबन् इव, बभौ च | आकाशं पिपासु: इव अपि च ददृशे |

5.1.57. saH mahaakapiH = that great monkey Hanuman; babhau = shone; pibanniva = like one who is drinking; mahaarNavam = the great sea; sormimaalam = together with waves; dadR^ishe = (He also) looked; pipaasuriva = like one who desires to drink; aakaasham = the sky.

That great monkey shone like one who is drinking the great sea together with its waves. He also seemed like one who desires to drink the whole of sky.

2011.02

५-१-६१ लाङ्गूलं च

लाङ्गूलश्च समाविद्धं प्लवमानस्य शोभते ||५-१-६१अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः |

अम्बरे प्लवमानस्य, वायुपुत्रस्य, समाविद्धं, लाङ्गूलं, उच्छ्रितः शक्र+ध्वजः इव, शोभते च |

5.1.61. laaNguulam = tail; vaayuputrasya = of the son of Vayu; plavamaanasya = floating; ambare = in sky; samaaviddham = which was risen up; shobhate = was shining; shakra dhvajaH iva = like the pillar of Indra; ucchritaH = standing straight.

The tail of Hanuman, the son of Vayu floating in the sky, being risen up was shining like the pillar erected in honour of Indra.

2012.1

५-१-७६ दशयोजनविस्तीर्णा

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता | छाया वानरसिंहस्य जले चारुतराऽभवत् || ५-१-७६

दश+योजन+विस्तीर्णा, त्रिंशत्+योजनम् आयता, वानर+सिंहस्य छाया, जले, चारुतरा, अभवत् |

5.1.76. chaayaa = shadow; vaanara siMhasya = of Hanuman; dasha yojana vistiirNaa = which was ten yojanas wide; trimshat yojanam aayataa = (and) thirty yojanas long; abhavat = appeared; chaarutaraa = very beautiful; jale = on water.

Hanuman’s shadow which was ten yojanas wide and thirty yojanas long appeared very beautiful on water.

Comment : “Yojana” is a measure of length in ancient India like the modern mile. However its value does not seem to be a standard even within India. Some consider it as six miles, some as eight miles and some as two and half miles. Hence it is difficult to have an accurate conversion from yojanas to miles. 1 yojana = approx. 8 miles = more than 10 KM

[Dushyant]

५-१-९६ अस्य साह्यं मया

अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः || ५-१-९६ मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव |

मया, अस्य इक्ष्वाकु+कुल+वर्तिनः साह्यं, कार्यम् हि | इक्ष्वाकवः मम पूज्याः | तव परं पूज्यतमाः |

5.1.96. asya = to this Hanuman; ikshvaaku kula vartinaH = who is a follower of the Iksvaaku dynasty; saahyam = help; kaaryam = should be done; mayaa = by me; ikshvaakavaH = descendants of Ikshvaaku; puujyaaH = are repectable; mama = to me; puujyatamaaH = even more respectable; tava= to you.

“To this Hanuman, who is a follower of the Ikshvaaku dynasty, help should be done by me now. Descendants of Ikshvaaku are repectable to me. They are even more respectable to you.”

Context: Samudraraja spoke to Mainaka parvatham.

[Dushyant]

५-१-१०६ जातरूपमयैः

जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयंप्रभैः || ५-१-१०६ आदित्यशतसङ्काशः सोऽभवद्गिरिसत्तमः|

स: गिरिसत्तमः, जातरूपमयैः, स्वयं+प्रभैः भ्राजमानैः, शृङ्गैः,  आदित्य+शत+सङ्काशः अभवत् |

5.1.106. saH = that; girisattamaH = best among mountains; abhavat = became; aaditya shata saMkaashaH = equal to a hundred suns; shR^iN^gaiH = with peaks; jaataruupamayaiH = which had a golden hue; bhraajamaanaiH = and which were shining; svayamprabhaiH = with self generated shine.

That best among mountains became equal to a hundred suns with its peaks which had a golden hue and which were shining with a self generated shine.

2012.2

५-१-१०८ स तमुच्छ्रित मत्यर्थं

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः || ५-१-१०८ उरसा पातयामास जीमूतमिव मारुतः |

सः महावेगः महाकपिः, अत्यर्थम् उच्छ्रितं तं, मारुतः जीमूतम् इव, उरसा, पातयामास |

5.1.108. saH mahaa kapiH = that great monkey Hanuman; mahaa vegaH = one with a great speed; paatayaamaasa = brought down; tam atyartham ucchritam = that great tall mountain; urasaa = with His chest; maarutaH jiimuutamiva = like the God of wind to a cloud.

That great monkey Hanuman with a great speed, brought that great tall mountain (Mainaka) with His chest just as the God of wind would do to a cloud.

५-१-१३२ त्वरते कार्यकालः

त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते | प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे || ५-१-१३२

मे कार्यकालः त्वरते  | अहः च अपि अतिवर्तते | मया प्रतिज्ञा च दत्ता | इह अन्तरे न स्थातव्यम्  |

5.1.132. kaalaH = time; me kaaryaH = (to perform) my duty; tvarate = is hastening (me); ahaH cha = the day too; ativartate = is passing; pratijNaa = a promise; dattaa cha = has also been given; mayaa = by me; na sthaatavyam = (I) should not stand; antare = in the middle; iha = here (neglecting my duty).

“The time to perform my duty is hastening me. The day too is passing. A promise has also been given by me. I should not stand here in the middle neglecting my duty.” The courageous Hanuman saying thus, touched the Mainaka mountain with His hand, entered the sky and flew on with a smile.

[Dushyant]

५-१-१५१ मम भक्षः

मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ | अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् || ५-१-१५१

वानरर्षभ | ईश्वरै:, तवम्, मम भक्षः, प्रदिष्टः| अहं त्वां भक्षयिष्यामि | इदं मम आननं प्रविश |

5.1.151. vaanararshhabha = O best among Vanaras! tvam = you; pradishhTaH = have been given; eesvaraiH = by Devas; mama = (as) my; bhakshaH = food; aham = I; bhakshayishhyaami = will eat; tvaam = you; pravisha = enter; idam = (in) this; mama = my; aananam = face.

“O best among Vanaras! You have been given by Devas as my food. I will eat you. Enter my mouth.” So says Surasa, the mother of Nagas.

[Dushyant]

५-१-१६९ प्रविष्टोऽस्मि हि ते

प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते |गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव || ५-१-१६९

दाक्षायणि | ते वक्त्रं प्रविष्टः अस्मि हि | ते नमः अस्तु | यत्र वैदेही (तत्र अहं) गमिष्ये | तव वर: सत्यं आसीत् च |

5.1.169. daakshaayaNi = O daughter of Daksha! asmi hi = I indeed; pravishTaH = entered; te = your; vaktram = mouth; namaH astu = (my) regards; te= to you; gamishhye = I will go; yatra = where; vaidehii = Seetha (is located); tava = your; varaH cha = boon also; aasiit = became; satyam = true.

“O daughter of Daksha! I indeed entered your mouth. My regards to you. I will now go where Seetha is. Your boon also came true.” Hanuman told Surasa, the mother of Nagas.

2007.01

५-१-१७१ अर्थसिद्ध्यै हरिश्रेष्ठ

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् | समानयस्व वैदेहीं राघवेण महात्मना || ५-१-१७१

सौम्य | हरिश्रेष्ठ | यथा सुखम् अर्थसिद्ध्यैः गच्छ | महात्मना राघवेण वैदेहीं समानयस्व |

5.1.171. saumya = O gentle; harishreshTha = best among Vanaras; gaccha = go; yathaa sukham = according to your comfort; artha siddhyai = for the (desired) task; samaanayasva = bring together; vaidehiim = Seetha; mahaatmanaa raaghaveNa = with the great Sri Rama.

“O gentle Hanuman! Go according to your comfort to achieve the desired task. Bring Seetha together with the great Sri Rama” so said Surasa, the mother of Nagas.

[Dushyant]

५-१-१८३ अद्य दीर्घस्य कालस्य

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता |
इदं हि मे महत् सत्त्वं चिरस्य वशमागतम् || ५-१-१८३

इदं महत् सत्त्वं मे वशम् आगतम् | दीर्घस्य चिरस्य कालस्य (अनन्तरं) अद्य अहं आशिता भविष्यामि हि |

5.1.183. chirasya = (after) a long time; idam = this; mahat = great; sattvam = animal; aagatam = came; me = (into) my; vasham = grasp; diirghasya = (after) long; kaalasya = time; adya = today; bhavishyaami = I will; aashitaa = have (my) meal.

“After a long time, this great animal came into my grasp. After long time, today I will enjoy my meal.”

[Included for understanding the context of the next shloka]

५-१-१८४ इति संचिन्त्य

इति संचिन्त्य मनसा छायामस्य समाक्षिपत् | छायायां गृह्यमाणायां चिन्तयामास वानरः || ५-१-१८४

इति मनसा संचिन्त्य, अस्य छायां समाक्षिपत् | छायायां गृह्यमाणायां (सत्यां) वानरः चिन्तयामास |

5.1.184. iti = thus; samchintya = thinking; manasaa = with mind; samaakshipat = (she) attracted; asya = His; chaayaam = shadow; chaayaayaam gR^ihyamaaNaayaam = while the shadow was being grasped; vaanaraH = Hanuman; chintayaamaasa = thought (thus).

Thinking thus in her mind, Simhika attracted His shadow. While the shadow was thus being grasped, Hanuman thought thus…

५-१-१८९ तस्य सा कायमुद्वीक्ष्य

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः || ५-१-१८९
वक्त्रं प्रसारयामास पातालान्तरसन्निभम् |

सा, महाकपेः तस्य वर्धमानं कायम् उद्वीक्ष्य, पातालान्तरसन्निभं वक्त्रं, प्रसारयामास |

5.1.189. saa = that Simhika; udviikshya = seeing; vardhamaanam = growing; kaayam = body; mahaakapeH = of the great Hanuman; prasaarayaamaasa = spread; vaktram = mouth; paataaLaantara sannibham = (to be) equal to the middle of Patala.

That Simhika seeing the growing body of the great monkey Hanuman, spread her mouth to be equal to the middle of Patala.

[ some chosen verse ]

५-१-१९२ स तस्या विवृते

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः |
संक्षिप्य मुहुरात्मानं निष्पपात महाबलः || ५-१-१९२

सः वज्र+संहननः महाबलः कपिः, मुहुः संक्षिप्य, तस्याः विवृते वक्त्रे, आत्मानं निष्पपात |

5.1.192. saH kapiH = that Hanuman; mahaabalaH = one with great strength; vajrasaMhananaH = with a body equal (in strength) to a diamond; muhuH = repeatedly; saMkshipya = contracting; aatmaanam = Himself; nishhpapaata = fell; tasyaaH vivR^ite vaktre = into her opened mouth.

That Hanuman with great strength and with a body equal to a diamond, repeatedly contracted His body and fell into her opened mouth.

[ some chosen verse ]

५-१-१९४ ततस्तस्या नखैः

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः |
उत्पपाताथ वेगेन मनःसंपातविक्रमः || ५-१-१९४

ततः वानरः, तीक्ष्णै: नखैः तस्याः मर्माणि उत्कृत्य, अथ मनःसंपातविक्रमः वेगेन उत्पपात |

5.1.194. tataH = then; vaanaraH = Hanuman; utkR^itya = rending; marmaaNi = internal organs; tasyaaH = of Simhika; tiikshNaiH nakhaiH = with sharp nails; atha= and after that; utpapaata = flew up; vegena = quickly manaH sampaata vikramaH = one who has the capacity to execute the tasks with a speed equal to that of thought.

Then Hanuman, who had the capacity for executing a work as quickly as conceiving it,  rend her internal organs with His sharp nails and after that flew up quickly.

[ some chosen verse ]

५-१-१९८ यस्य त्वेतानि चत्वारि

यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव || ५-१-१९८
धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति |

वानरेन्द्र | यस्य धृति: दृष्टि: मति: दाक्ष्यं इति एतानि चत्वारि (सन्ति) यथा तव (सन्ति), स: कर्मसु न सीदति |

पदपरिचय:

  • सम्बोधनपदम् = वानरेन्द्र [ अ. पुं. सम्बो. एक. ]
  • “यस्य” वाक्यांशः
    • क्रियापदम् = (सन्ति)
    • कर्मविशेषण-वाक्यांश:
      • कर्तृपदम् = धृति: [ इ. पुं. प्र. एक. ]
      • कर्तृपदम् = दृष्टि: [ इ. पुं. प्र. एक. ]
      • कर्तृपदम् = मति: [ इ. पुं. प्र. एक. ]
      • कर्तृपदम् = दाक्ष्यम् [ अ. नपुं. प्र. एक. ]
      • सम्योजकपदम् = इति [ अव्ययम् ]
    • कर्तृविशेषणम् = एतानि [ द. नपुं. प्र. बहु. ]
    • कर्तृपदम् = चत्वारि [ अ. नपुं. प्र. बहु. ]
    • सम्योजकपदम् = यस्य [ द. पुं. ष. एक. ]
    • कर्तृ-विशेषण-वाक्यांश:
      • सम्बन्ध-पदम् = तव [ द. त्रि. ष. एक. ]
      • अधिकरणपदम् = कर्मसु [ न. नपुं. स. बहु. ]
      • सम्योजकपदम् = यथा [ अव्ययम् ]
    • “सः” वाक्यांशः
      • क्रियापदम् = सीदति [ सद् “षद्लृ विशरणगत्यवसादनेषु” पर. कर्तरि लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = न [ अव्ययम् ]
      • कर्तृपदम् = स: [ द. पुं. प्र. एक. ]

5.1.198. vaanarendra = O best among Vanaras! yasya = whoever; dhR^itiH = ( has) courage; dR^ishhTiH = vision; matiH = intellect; daakshyam = skill; etaani = (all) these; chatvaari = four (virtues); tava yathaa = like you; saH = that (him); na siidati = will not fail; karmasu = in (any) tasks.

“O best among Vanaras! Whoever has the four qualities of courage, vision, intellect and skill, all these four virtues like you, such a person will not fail in any task.”

[2013.01]

References

Bhagavad Gita Chapter 1 to 9 – Sample Questions for Gita Pravesha exam

श्रीमद्भगवद्गीता – अभ्यासः – अध्यायः

“टिप्पणीं लिखत” – प्रश्नानां उत्तराणि एव लेखनीयम् | श्लोकः न |

अभ्यासः अध्यायः

  1. एकवाक्येन उत्तरं लिखत ।
    • कौरव-पाण्डव-सेनयोः नायकौ कौ?
      कौरव-सेनायाः नायक: भीष्म: | पाण्डव-सेनायाः नायक: भीम: |
      अपर्याप्तंतदस्माकं hबलं भीष्माभिरक्षितम् ।
      पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
    • भीष्मस्य शङ्खनादं श्रुत्वा दुर्योधनस्य किम् अभवत्?
      दुर्योधनस्यमहान् सन्तोषः जनयितुं भीष्मः शङ्खनादं कृतवान् ।
      तस्य सञ्जनयन् हर्षं कुरुवृद्धः पितामहः ।
      सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
    • भीष्मस्य शङ्खनादं श्रुत्वा योद्धारः किं कृतवन्तः?
      तदा भीष्मस्य शङ्खनादं श्रुत्वा योद्धारः शङ्खान् भेरीः पणवानकगोमुखान् च एकस्मिन् समये एव वादितवन्तः
      ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
      सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥ १३ ॥
    • “तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्” । कस्मात्?
      यद्यपि धार्तराष्ट्राः पाण्डवान् हन्तुम् उयुताः सन्ति, तथापि स्वबान्धवान् हत्वा पाण्डवाः पापम् एव प्राप्नुवन्ति । अतः “वयं धार्तराष्ट्रान् हन्तुं न अर्हाः” इति अर्जुनः वदति |
      निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
      पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः ॥ ३६ ॥
    • उत्सन्नकुलधर्माणां किं भविष्यति?
      येषां मनुष्याणां कृलधर्माचराः नष्टः भवति, नरके तेषां वासः चिरं कालं भवति |
      उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन ।
      नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
    • अर्जुनस्य क्षेमतरं किम् इति सः वदति?
      “यदि शस्त्रपाणयः धार्तराष्ट्राः अशस्त्रम्, विरोधकार्यं किमपि न कुर्वन्तं,मां रणे हन्युः तत् मम क्षेमतरं भवेत्” इति अर्जुनः वदति |
      यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः ।

      धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
  2. प्रथमोऽध्यायस्य एतेषां ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत।
    • श्लोकाः – ६, १०, २८, ३९, ४७

अभ्यासः अध्यायः

  1. ५ श्लोकानां अन्वयम्, अन्वयार्थं, तात्पर्यार्थं च लिखत ।
  2. एकवाक्येन उत्तरत –
    • युद्धभूमौ अर्जुनः दुःखेन कथम् उपविष्टः आसीत् ?
      अर्जुनः दयया आक्रान्तः आसीत् | अश्रुपूर्णनेत्रः आसीत् | शोकं अनुभवन्तः सः युद्धभूमौ दुःखेन उपविष्टः आसीत् |
      तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।
      विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥
    • अर्जुनस्य स्वभावः केन अपहतः?
      अस्थाने दर्शितं दया दोषः एव भवति | (कार्पण्यदोषेन) अस्थाने दर्शितं दयया अर्जुनस्य स्वभावः अपहत: |
      कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।
      यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥
    • पण्डिताः कान् प्रति न शोचन्ति?
      पण्डिताः मृतवतः जीवितः प्रति न अनुशोचन्ति।
      (मृतवान् मृतवन्तौ     मृतवन्तः

मृतवन्तम्   मृतवन्तौ     मृतवतः)
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

  • शीतोष्णदुःखदाः मात्रास्पर्शाः कीद्शाः?
    शीतोष्णसुखदुःखदाः मात्रास्पर्शाः आगमापायिनः अनित्याः । यदाकदापि आगच्छन्ति | पुनः निर्गच्छन्ति च | ते सर्वदा न तिष्टन्ति |
    मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
    आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥
  • के धर्म्यं युद्धं लभन्ते?
    सुखवन्तः क्षत्रियाः धर्म्यं युद्धं लभन्ते ।
    यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।
    सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥
  • अव्यवसायिनां बुद्धय: कीद्शी भवन्ति ?
    अव्यवसायिनां निश्चयरहितानां बुद्धयः अनेकविधाः अन्तरहिताः भवन्ति ।
    व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।
    बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥
  • कयोः समत्वं कर्मयोगः उच्यते?
    लाभालाभयोः समत्वं कर्मयोगः उच्यते |
    योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
    सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥
  • कदा निर्वेदं (वैराग्यं) प्राप्नोति?
    यदा तव बुद्धिः अविवेकरूपात् कालुष्यात् मुक्ता भविष्यति, तदा कर्मफलेषु अवश्यं वैराग्यं प्राप्स्यसि ।
    यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
    तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥
  • कामकामी शान्तिं न आप्नोति । कः आप्नोति?
    आपः समुद्रम् यद्वत् प्रविशति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति । यद्यपि बुहत्मात्रया (कियदपि अधिकं) जलं समुद्रं प्रविशति, तथापि, समुद्रे तस्य प्रभावः न भवति |
    आपूर्यमाणमचलप्रतिं समुद्रमापः प्रविशन्ति यद्वत् ।
    तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

अभ्यासः अध्यायः

  1. ५ श्लोकानं अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
  2. एक वाक्येन उत्तरत –
    • कः मिथ्याचरः इति उच्यते?
      यः अविवेकी पुरुषः इन्द्रियाणि निरुध्य चित्तेन विषयान् चिन्तयन् भवति सः मिथ्याचारः उच्यते ।
      कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्
      इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥ ६ ॥
    • परस्परं भावयन्तः किम् अवाप्नुवन्ति ?
      जनाः यज्ञेन देवान् आराधयन्ति । देवाः तान् वृष्ट्यादिना पोषन्ति। (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्नुवन्ति ।
      देवान्भावयतानेन ते देवा भावयन्तु वः ।
      परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥
    • के अघं (पापं) भुञ्जते ?
      ये पापिनः आत्मकारणात् पचन्ति ते तु अघं भुञ्जते ।
      यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
      भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥
    • जनः कस्य किम् अनुवर्तते?
      श्रेष्ठः यत् यत् आचरति (तेन) इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते |
      यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
      स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
    • असक्तः विद्वान् किम् इच्छन् कर्म कुर्यात् ?
      असक्तः विद्वान् (लोकसङ्ग्रहं) लोकोद्धारणं इच्छन् कर्म कुर्यात् |
      सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
      कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥
    • अहङ्कारविमूढात्मा क: (किं चिन्तयति)?
      अहङ्कारविमूढात्मा“कर्ता अहम्” इति चिन्तयति (यद्यपि प्रकृतेः गुणैः सर्वशः क्रियमाणानि कर्माणि भवन्ति) ।
      प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
      अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥
    • तत्ववित् किं मत्वा न सज्जते ?
      गुणकर्मविभागयोः तत्त्ववित् तु “गुणाः गुणेषु वर्तन्ते” इति मत्वा न सज्जते ।
      तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
      गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥
    • रागद्वेषौ कुत्र व्यवस्थितौ स्तः ?
      ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां विषयेषु रागद्वेषौ व्यवस्थितौ । (तेषु अनुकूलेषु विषयेषु रागः भवति | प्रतिकूलेषु तु द्वेषः ।)
      इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
      तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥
    • बुद्धि: कस्मात् परा? बुद्धेः परः कः ?
      इन्द्रियेभ्यः परं मनः | मनसः परा बुद्धिः | बुद्धेः परतः आत्मा अस्ति ।
      इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
      मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

अभ्यासः अध्यायः

  1. ५ श्लोकानम् अन्वयम्, अन्वयार्थं, तत्पर्यार्थं च लिखत ।
  2. एक वाक्येन उत्तरत –
    • श्रीकृष्णेन सूर्याय योगं कथं वा उक्तं इति अर्जुनस्य सन्देहस्य कारणं किम् ?
      श्रीकृष्णस्य जन्म अपरम् | सूर्यस्य जन्म परम् । तस्मात् आदौ श्रीकृष्णेन सूर्याय एतत् योगं कथं वा उक्तं इति अर्जुनस्य सन्देहः अभवत् |
      अपरं भवतो जन्म परं जन्म विवस्वतः ।
      कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
    • युगे युगे भगवान् किमर्थं स्वयं सृजति?
      यदा यदा धर्मस्य हानिः, अधर्मस्य च वर्धनम् भवति तदा भगवान् आत्मानं सृजति । साधूनां परित्रणाय, दुष्कृतां च विनाशाय, धर्मसंस्थापनार्थाय च युगे युगे सम्भवति ।
      यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
      अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥ ७ ॥
      परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।

      धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥ ८ ॥
    • लोके जनाः किमर्थं देवताः यजन्ते?
      कर्मणां सिद्धिं अभिलषन्तः इह देवताः यजन्ते ।
      काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः ।
      क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥ १२ ॥
    • कस्य ज्ञानेन जनः अशुभात् मोक्ष्यते?
      किं कर्तव्यं किम् अकर्तव्यम् इति विषज्ञानेन जनः अशुभात् मोक्ष्यते |
      किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
      तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥ १६ ॥
    • मनुष्येषु युक्तः बुद्धिमान् कः?
      यः कर्मणि अकर्म, अकर्मणि च कर्म पश्येत् सः मनुष्येषु बुद्धिमान् युक्तः ।
      कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
      स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ १८ ॥
    • ज्ञानयज्ञः कस्मात् श्रेयान्? किमर्थम्?
      द्रव्यमयात् यज्ञात् ज्ञानयज्ञः श्रेयान् यतः सर्वं कर्म ज्ञाने अखिलं परिसमाप्यते
      श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप ।
      सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥
    • वेदमुखे वर्णिताः यज्ञाः कीदृशा, एवं ज्ञात्वा किं भविष्यति च?
      वेदेषु वर्णिताः बहुविधाः यज्ञाः कर्मणः उद्भवन्ति | एवं ज्ञात्वा जिज्ञासुः मूक्षं प्राप्नोति |
      एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
      कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥ ३२ ॥
    • तत्वदर्शिना उपदिष्टेन ज्ञानेन का अनुभूतिः भवति?
      तत्वदर्शिना उपदिष्टेन ज्ञानेन पुनः मोहम् न प्राप्यतेस्वस्मिन् च भगवति च सर्वान् जीवान् द्रष्टुं शक्यते |
      यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।

      येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥ ३५ ॥
    • ज्ञानाग्निः सर्वकर्माणि कथं भस्मीकरोति?
      यथा प्रज्वलन् अग्निः काष्ठानि भस्मसात् करोति तथा ज्ञानाग्निः सर्वाण्यपि कर्माणि भस्मीकरोति ।
      यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
      ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७ ॥
    • कीदृशः आत्मा विनश्यति?
      यस्य आत्मविषयकं ज्ञानं नास्ति, यस्य च तत्र श्रद्धा नास्ति, सः संशयात्मा विनश्यति ।
      अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
      नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ ४० ॥

अभ्यासः – अध्यायः ५-७

  1. एक वाक्येन उत्तरत ।
    • कीदृशः कर्म कुर्वन्नपि न लिप्यते ?
      योगयुक्तः शुद्धात्मा जितात्मा जितेन्द्रियः यथार्थदर्शी कुर्वन् अपि न लिप्यते ।
      योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
      सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ५.७ ॥
    • योगिनः सङ्गं त्यक्त्वा किमर्थं कर्म कुर्वन्ति ?
      योगिनः कायेन मनसा बुद्ध्या इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति ।
      कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ५.११ ॥

  • सर्व कर्माणि मनसा सन्न्यस्य वशी कुत्र कथं आस्ते ?
    वशी देही सर्वकर्माणि मनसा सन्न्यस्य नवद्वारे पुरे शरीरे, न एव कुर्वन् न कारयन्, सुखम् आस्ते ।
    सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
    नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ ५.१३ ॥
  • कः अम्भसा पद्मपत्रमिव पापेन न लिप्यते ?
    यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।
    ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
    लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ ५.१० ॥
  • मात्रास्पर्शाः दुःखयोनयः कीदृश्यः?
    विषयजन्याः भोगाः दुःखयोनयः (आद्यन्तवन्तः) उत्पत्ति+विनाश+सहिताः भवन्ति |

ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ ५.२२ ॥

  • कर्म कीदृशस्य मुनेः कारणं उच्यते ?
    योगम् आरुरुक्षोः मुनेः कारणम् निष्कामबुद्ध्या कर्माचरणं उच्यते ।
    आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
    योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ६.३ ॥
  • सर्वसङ्कल्पसन्न्यासी कदा योगारूढः इति उच्यते ?
    यदा इन्द्रियार्थेषु च कर्मसु च न सक्तो भवति, तदा सर्वसल्पसन्न्यासी योगारूढः इति उच्यते ।
    यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
    सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ६.४ ॥
  • कीदृशस्य पुरुषस्य आत्मा तस्य (आत्मनः) बन्धु: वा शत्रुः वा भवति ?
    येन आत्मना आत्मा जितः तस्य आत्मा बन्धुः भवति । अनात्मनः आत्मा शत्रुः भवति ।
    बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
    अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६.६ ॥
  • दुःखसंयोगवियोगं योगसंज्ञितं स्थानं किम् ?

यत्र चलनं विना, निरुद्धं चित्तम्, आत्मनि तुष्यति, योगसंज्ञितं स्थानं तदेव भवति |

(यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति, यत्र च स्थितः अयं तत्त्वतः न एव चलति | )

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

 

  • अपरा प्रकृतिः कतिविधा भिन्ना, तासां नामानि च लिखत ।
    भूमिः आपः अनलः वायुः खं मनः बुद्धिः अहङ्कारः च एव इति इयं मे प्रकृतिः अष्टधा भिन्ना ।

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७.४ ॥

  • केन कारणेन गुणेभ्यः परं भगवन्तं न अभिजानाति ?
    त्रिगुणमयैः भावैः इदं सर्वं जगत् मोहितम् । एभ्यः कारणेभ्यः परम् अव्ययं भगवन्तं न अभिजानाति ।
    त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् ।
    मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥ ७.१३ ॥
  • के दुरत्ययां मायां तरन्ति?
    ये भगवन्तम् एव प्रपद्यन्ते ते दुरत्ययां मायां तरन्ति ।
    दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
    मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ ७.१४ ॥
  • कीदृशाः सुकृतिनः मां भजन्ते? तेषु कः विशिष्यते ?
    रोगादिपीडितः जिज्ञासुः धनाभिलाषी ज्ञानी च (इति) चतुर्विधाः सुकृतिनः जनाः भगवन्तं भजन्ते । तेषु ज्ञानी विशिष्यते ।
    चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
    आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ ७.१६ ॥

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥ ७.१७ ॥

  1. विभज्य सन्धिनाम लिखत ।
    • पश्यञ्शृण्वन् = पश्यन् शृण्वन् – श्चुत्वसन्धिः | श्लोकः 8.
      { सकार + तवर्ग: } + { शकार: + चवर्गः } = प्रथमगण: –> द्वितीयगण: {त … न स } –> {च … ञ श}
    • गच्छन्त्यपुनरावृत्तिम् = गच्छन्ति अपुनरावृत्तिम् – यण् सन्धिः |
    • नोद्विजेत् = न उद्विजेत् – गुण सन्धिः |
    • तांस्तितिक्षस्व = तान् तितिक्षस्व – सत्वम् |
    • मनसैव = मनसा एव – वृद्धि सन्धिः |
    • योगस्त्वया = योग: त्वया – विसर्ग सन्धिः | विसर्गस्य सकारादेशः |
    • बलवद्दृढम् = बलवत् दृढम् – जश्त्वसन्धिः |
    • योगाच्चलितमानसः = योगात् चलितमानसः – श्चुत्वसन्धिः |
    • त्वन्तगतम् = तु अन्तगतम् – यण् सन्धिः |
  2. विग्रहवाक्यं समासनाम च लिखत ।
    • (५.१८) विद्याविनयसम्पन्ने

विद्या च विनयश्च = विद्याविनयौ – इतरेतर द्वन्द्वः |
विद्याविनयाभ्यां सम्पन्नः =  विद्याविनयसम्पन्नः – तृतीयातत्पुरुषः | तस्मिन् |

  • (६.८) ज्ञानविज्ञानतृप्तात्मा
    ज्ञानं च विज्ञानं च = ज्ञानविज्ञाने – इतरेतर द्वन्द्वसमासः |
    ज्ञानविज्ञानाभ्यां तृप्तः = ज्ञानविज्ञानतृप्तः – तृतीयातत्पुरुषः |
    ज्ञानविज्ञानतृप्तात्मा = ज्ञानविज्ञानतृप्तः आत्मा यस्य स: – बहुव्रीहिः |
  • (६.२८) विगतकल्मषः = विगतः कल्मषः यस्मात् सः – बहुव्रीहिः |
  • (६.३६) वश्यात्मना = वश्यः आत्मा यस्य सः – बहुव्रीहिः | तेन |
  • (७.१) आसक्तमनाः= आसक्तं मनः यस्य सः – बहुव्रीहिः |
  • (७.२८) पुण्यकर्मणाम् = पुण्यं कर्म येषां ते – बहुव्रीहिः | तेषाम् |
  1. टिप्पणीं लिखत । (६-८ वाक्यै:)
    • सदा मुक्तस्य लक्षणं वर्णयत (स्पर्शान् कृत्वा बहिर्बाह्यान्……. – स्पर्शादिविषयेभ्यः निवर्तनं, प्राणायामं, इन्द्रियमनोबुद्धिनियन्त्रणदिकम्) | 27
    • आत्मना आत्मानं उद्धरेत्, न अवसादयेत् । आत्मा एव आत्मनः बन्धु: रिपुश्च । अस्य आशयं वर्णयत । 5
    • कथं आत्मानं सदा युञ्जन् विगतकल्मषः योगी सुखेन ब्रह्मसंस्पर्शं अत्यन्तं सुखं अश्नुते ?28
    • योगसंसिद्धिं अप्राप्तस्य इह अमुत्र वा विनाशः न भविष्यति इति श्रीकृष्णः कथं वर्णयति ।37
    • “सूत्रे मणिगणाः इव मयि इदं सर्वं प्रोतम्” इति कृष्णः कथं समर्थयति ? 7
    • जरामरणमोक्षाय ये यतन्ति, ते किं किं जानन्ति ? 29

अभ्यासः – अध्यायः ८-९

  1. एतयोः अद्याययोः पञ्च पञ्च श्लोकानाम् अन्वयं अन्वयार्थं तात्पर्यं च लिखत ।
  2. एक वाक्येन उत्तरत ।
    • यः अन्तकाले मामेव स्मरन् देहं त्यजति, तस्य किं भवति?
      य: अन्तकाले भगवन्तम् एव स्मरन् देहं त्यजति, (विना संशयः) सः भगवतः भावं याति |
      अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्।
      यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ ८.५ ॥
    • तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च – कस्मात्?
      अन्ते यं भावं स्मरन् देहं त्यजति तद्भावभावितः तं तम् एव सदा एति । तस्मात् सर्वेषु कालेषु भगवन्तं स्मरणीयम् |
      यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्।
      तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ ८.६ ॥
    • के लोकाः पुनरावर्तिनः?
      आब्रह्मभुवनात् लोकाः पुनरावर्तिन: भवन्ति |
      आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन।
      मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ ८.१६ ॥
    • अहोरात्रविदः किम् जानन्ति ?
      सहस्रयुगपर्यन्तम् ब्रह्मण: अह:, युगसहस्रान्तां ब्रह्मण: रात्रिं इति अहोरात्रविद: जनाः जानन्ति |
      सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः।
      रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ८.१७ ॥
    • प्रकृतिः सचराचरं कथं सूयते?
      साक्षिभूतस्य भगवतः सन्निधिमात्रेण प्रकृतिः सचराचरं सूयते |
      मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
      हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९.१० ॥
    • सर्वाणि भूतानि मत्स्थानि इति श्रीकृष्णः केन उदाहरणेन वदति?
      यथा सदा सर्वत्र संचरन् महान् वायुः आकाशे वर्तमानोऽपि आकाशः वायुना न संबध्यते तथा सर्वाणि भूतानि मत्स्थानि इति श्रीकृष्णः वदति |
      यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
      तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९.६ ॥
    • आसुरीं प्रकृतिमाश्रिताः कीदृशाः?
      राक्षसीम् आसुरीं च मोहिनीं प्रकृतिम् आश्रिताः बुद्धिहीनाः भवन्ति | तेषां मनोरथः व्यर्थः, कर्म व्यर्थम्, ज्ञानं च व्यर्थं |
      मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
      राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ ९.१२ ॥
    • के पुण्यं स्वर्गलोकं आसाद्य दिव्यान् देवभोगान् अश्नन्ति?
      ये त्रैविद्याः सोमपाः पूतपापाः स्वर्गतिम् इष्ट्वा यज्ञैः भगवन्तं प्रार्थयन्ते, ते पुण्यं सुरेन्द्रलोकम् आसाद्य दिवि दिव्यान् देवभोगान् अश्नन्ति ।
      त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
      ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ॥ ९.२० ॥
    • ये श्रद्धयान्विताः अन्यदेवताः यजन्ते तेषां यजनं कीदृशमिति वदति?
      ये श्रद्धया अन्विताः भक्ताः अन्यदेवताः यजन्ते ते अपि तेषां यजनं अज्ञानपूर्वकम् इति श्रीकृष्णः वदति।
      येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
      तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९.२३ ॥

 

Bhagavad Gita – Chapter 13 – Part 1

श्रीमद्भगवद्गीता – त्रयोदशोध्यायः – क्षेत्रक्षेत्रज्ञविभागयोगः – भाग: 1

श्रीभगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १ ॥

पदच्छेदः

इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते एतत् यः वेत्ति तं प्राहुः क्षेत्रज्ञः इति तद्विदः ॥ १ ॥

अन्वयः

कौन्तेय ! इदं शरीरं क्षेत्रम् इति अभिधीयते । यः एतत् वेत्ति तं क्षेत्रज्ञ: इति तद्विदः प्राहुः ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = अभिधीयते [ अभि + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) कर्मणि लट्. प्रपु. एक. ]
    • कर्म-वाक्यम्
      • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
      • कर्तृपदम् = शरीरम्
      • कर्तृविशेषणम् = इदम्
      • सम्योजकपदम् = इति
    • द्वितीयवाक्यम्
      • “यः” वाक्यांशः
        • क्रियापदम् = वेत्ति [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. | प्रपु. रूपाणि – वेत्ति, वित्त: विदन्ति | वेद,  विदतु:,  विदु:  इति अपि सन्ति ]
        • कर्मपदम् = एतत्
        • कर्तृपदम् = यः
      • “तम्” वाक्यांशः
        • क्रियापदम् = आहुः [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
        • कर्तृपदम् = तद्विदः
        • कर्मपदम् = तम्
        • कर्म-वाक्यम्
          • कर्तृपदम् = क्षेत्रज्ञ:
          • सम्योजकपदम् = इति

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

पदच्छेदः

क्षेत्रज्ञं च अपि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तत् ज्ञानं मतं मम ॥ २ ॥

अन्वयः

भारत ! सर्वक्षेत्रेषु क्षेत्रज्ञं च अपि मां विद्धि | यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानं (भवति), तत् (एव) ज्ञानम् (इति) मम मतम् ।

पदपरिचय:

  • सम्बोधनपदम् = भारत
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मपदम् = माम्
    • वाक्यांशः
      • कर्मविशेषणम् = क्षेत्रज्ञम्
      • अधिकरणपदम् = सर्वक्षेत्रेषु
      • कर्मविशेषण-सूचक-पदम् = च
      • कर्मविशेषण-सूचक-पदम् = अपि
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांशः
      • कर्तृपदम् = मतम्
      • सम्बन्ध-पदम् = मम
    • कर्म-वाक्यम्
      • “यत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • वाक्यांशः
          • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
          • सम्बन्ध-पदम् = क्षेत्रक्षेत्रज्ञयोः
        • कर्तृपदम् = यत्
      • “तत्” वाक्यांशः
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = ज्ञानम्
        • कर्तृपदम् = तत्
      • सम्योजकपदम् = (इति)

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ ३ ॥

पदच्छेदः

तत् क्षेत्रं यत् च यादृक् च यद्विकारि यतः च यत् स च यः यत् प्रभावः च तत् समासेन मे शृणु ॥ ३ ॥

अन्वयः

यत् तत् क्षेत्रं च, यादृक् च, यद्विकारि, यतः च, यः सः च, यत्प्रभावः च यत्, तत् समासेन मे शृणु ।

पदपरिचय:

  • “यत्” वाक्यांशः
    • कर्तृपदम् = यत्
    • कर्तृ-विशेषण-वाक्यम्
      • वाक्यांशः
        • कर्तृ-विशेषण-सूचक-पदम् = क्षेत्रम्
        • कर्तृ-विशेषण-सूचक-पदम् = तत्
        • कर्तृपदम् = यत्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यादृक्
        • सम्योजकपदम् = च
      • वाक्यांशः
        • कर्तृपदम् = यद्विकारि
        • सम्योजकपदम् = (च)
      • वाक्यांशः
        • कर्तृपदम् = यतः
        • सम्योजकपदम् = च
      • “यः” वाक्यांशः
        • कर्तृपदम् = यः
        • कर्तृ-विशेषण-सूचक-पदम् = सः
        • कर्तृ-विशेषण-सूचक-पदम् = यत्प्रभावः
        • सम्योजकपदम् = च
      • “तत्” वाक्यांशः
        • क्रियापदम् = शृणु [श्रु “श्रु श्रवणे” पर. लोट्. मपु. एक. ]
        • वाक्यांशः
          • कर्मपदम् = तत्
          • सम्बन्ध-पदम् = मे (मम सकाशात्)
          • करणवाचकपदम् = समासेन
        • कर्तृपदम् = (त्वम्)

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ ४ ॥

पदच्छेदः

ऋषिभिः बहुधा गीतं छन्दोभिः विविधैः पृथक् ब्रह्मसूत्रपदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ४ ॥

अन्वयः

(तदिदम्) विविधैः छन्दोभिः ऋषिभिः हेतुमद्भिः विनिश्चितैः ब्रह्मसूत्रपदै: च बहुधा पृथक् गीतम् ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = गीतम्
  • क्रियाविशेषणम् = बहुधा
  • क्रियाविशेषणम् = पृथक्
  • (कर्मणि) कर्तृपदम् = ऋषिभिः
  • वाक्यांशः
    • करणवाचकपदम् = ब्रह्मसूत्रपदै:
    • करणविशेषणम् = हेतुमद्भिः
    • करणविशेषणम् = विनिश्चितैः
    • सम्योजकपदम् = च
  • वाक्यांशः
    • करणवाचकपदम् = छन्दोभिः
    • करणविशेषणम् = विविधैः

महाभूतान्यहकारो बुद्धिरव्यक्तमेव च ।

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ ५ ॥

इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ ६ ॥

पदच्छेदः

महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च इन्द्रियाणि दश एकं च पञ्च च इन्द्रियगोचराः ॥ ५ ॥
इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः एतत् क्षेत्रं समासेन सविकारम् उदाहृतम् ॥ ६ ॥

अन्वयः

महाभूतानि अहङ्कारः बुद्धि: अव्यक्तम् एव च दश इन्द्रियाणि एकं (मन:) च पञ्च इन्द्रियगोचराः च इच्छा द्वेष: सुखं दु:खं सङ्घात: चेतना धृतिः च (सन्ति) | एतत् (सर्वं) सविकारं समासेन क्षेत्रम् (मया) उदाहृतम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृविशेषणम् =महाभूतानि
    • कर्तृविशेषणम् =अहङ्कारः
    • कर्तृविशेषणम् =बुद्धि:
    • वाक्यांशः
      • कर्तृविशेषणम् =अव्यक्तम्
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियाणि
      • कर्तृविशेषणम् =दश
    • वाक्यांशः
      • कर्तृपदम् =एकम्
      • कर्तृविशेषणम् =(मनः)
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् =इन्द्रियगोचराः
      • कर्तृविशेषणम् =पञ्च
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् =इच्छा
    • कर्तृविशेषणम् =द्वेष:
    • कर्तृविशेषणम् =सुखम्
    • कर्तृविशेषणम् =दु:खम्
    • कर्तृविशेषणम् =सङ्घात:
    • कर्तृविशेषणम् =चेतना
    • कर्तृविशेषणम् =धृतिः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= उदाहृतम्
    • (कर्मणि) कर्मविशेषणम् = क्षेत्रम्
    • वाक्यांशः
      • (कर्मणि) कर्मपदम् =एतत्
      • (कर्मणि) कर्मविशेषणम् =सविकारम्
      • करणवाचकपदम् = समासेन
    • (कर्मणि) कर्तृपदम् = (मया) / (पण्डितैः)

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।

विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ ११ ॥

पदच्छेदः

अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ ७ ॥

इन्द्रियार्थेषु वैराग्यम् अनहङ्कारः एव च जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ ८ ॥

असक्तिः अनभिष्वङ्गः पुत्रदारगृहादिषु नित्यं च समचित्तत्वम् इष्टानिष्टोपपत्तिषु ॥ ९ ॥

मयि च अनन्ययोगेन भक्तिः अव्यभिचारिणी विविक्तदेशसेवित्वम् अरतिः जनसंसदि ॥ १० ॥

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् एतत् ज्ञानम् इति प्रोक्तम् अज्ञानं यत् अतः अन्यथा ॥ ११ ॥

अन्वयः

अमानित्वम् , अदम्भित्वम् , अहिंसा , क्षान्तिः , आर्जवम् , आचार्योपासनम् , शौचम् , स्थैर्यम् , आत्मविनिग्रहः , इन्द्रियार्थेषु वैराग्यम् , अनहङ्कारः एव च , जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् , असक्तिः , पुत्रदारगृहादिषु अनभिष्वङ्गः , इष्टानिष्टोपपत्तिषु नित्यं समचित्तत्वं च , मयि च अनन्ययोगेन अव्यभिचारिणी भक्तिः च , विविक्तदेशसेवित्वम् , जनसंसदि अरतिः , अध्यात्मज्ञाननित्यत्वम् तत्त्वज्ञानार्थदर्शनम् (च सन्ति) | एतत् ज्ञानम् इति प्रोक्तम् । अतः अन्यथा यत् (अस्ति) तत् अज्ञानम् (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • कर्तृपदम् = अमानित्वम्
    • कर्तृपदम् = अदम्भित्वम्
    • कर्तृपदम् = अहिंसा
    • कर्तृपदम् = क्षान्तिः
    • कर्तृपदम् = आर्जवम्
    • कर्तृपदम् = आचार्योपासनम्
    • कर्तृपदम् = शौचम्
    • कर्तृपदम् = स्थैर्यम्
    • कर्तृपदम् = आत्मविनिग्रहः
    • वाक्यांशः
      • कर्तृपदम् = वैराग्यम्
      • अधिकरणपदम् = इन्द्रियार्थेषु
    • वाक्यांशः
      • कर्तृपदम् = अनहङ्कारः
      • कर्तृविशेषणम् = एव
      • सम्योजकपदम् = च
    • कर्तृपदम् = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
    • कर्तृपदम् = असक्तिः
    • वाक्यांशः
      • कर्तृपदम् = अनभिष्वङ्गः
      • अधिकरणपदम् = पुत्रदारगृहादिषु
    • वाक्यांशः
      • कर्तृपदम् = समचित्तत्वम्
      • कर्तृविशेषणम् = नित्यम्
      • अधिकरणपदम् = इष्टानिष्टोपपत्तिषु
      • सम्योजकपदम् = च
    • वाक्यांशः
      • कर्तृपदम् = भक्तिः
      • कर्तृविशेषणम् = अव्यभिचारिणी
      • करणवाचकपदम् = अनन्ययोगेन
      • अधिकरणपदम् = मयि
      • सम्योजकपदम् = च
    • कर्तृपदम् = विविक्तदेशसेवित्वम्
    • वाक्यांशः
      • कर्तृपदम् = अरतिः
      • अधिकरणपदम् = जनसंसदि
    • कर्तृपदम् = अध्यात्मज्ञाननित्यत्वम्
    • कर्तृपदम् = तत्त्वज्ञानार्थदर्शनम्
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= प्रोक्तम्
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् =ज्ञानम्
    • (कर्मणि) कर्मपदम् =एतत्
    • सम्योजकपदम् = इति
    • (कर्मणि) कर्तृपदम् = (मया) / (सर्वैः)
  • तृतीयवाक्यम्
    • “यत्” वाक्यांशः
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = अन्यथा
        • अपादानपदम् = अतः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांशः
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = तत्
      • कर्तृ-विशेषण-सूचक-पदम् = अज्ञानम्

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ १२ ॥

पदच्छेदः

ज्ञेयं यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते अनादिमत् परं ब्रह्म न सत् तत् न असत् उच्यते ॥ १२ ॥

अन्वयः

यत् ज्ञेयं यत् ज्ञात्वा अमृतम् अश्नुते तत् प्रवक्ष्यामि । अनादिमत् परं ब्रह्म न सत् । तत् न असत् उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांशः
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = ज्ञेयम्
      • (कर्मणि) कर्मपदम् = यत्
    • “यत्” वाक्यांशः
      • क्रियापदम् =अश्नुते [ अश् “अशू व्याप्तौ संघाते च” आ. लट्. प्रपु. एक. ]
      • कर्मपदम् = अमृतम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् =ज्ञात्वा
        • कर्मपदम् = यत्
      • कर्तृपदम् = (कोऽपि)
    • “तत्” वाक्यांशः
      • क्रियापदम् =प्रवक्ष्यामि [ प्र + वच् “वच परिभाषणे” पर. लट्. उपु. एक. ]
      • कर्मपदम् = तत्
      • कर्तृपदम् = (अहम्)

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३ ॥

पदच्छेदः

सर्वतः पाणिपादं तत् सर्वतः अक्षिशिरोमुखम् सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १३ ॥

अन्वयः

सर्वतः पाणिपादं सर्वतः अक्षिशिरोमुखम्, सर्वतः श्रुतिमत् | तत् लोके सर्वम् आवृत्य तिष्ठति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् =(सन्ति)
    • वाक्यांशः
      • कर्तृपदम् = पाणिपादम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = अक्षिशिरोमुखम्
      • स्थानवाचकपदम् = सर्वतः
    • वाक्यांशः
      • कर्तृपदम् = श्रुतिमत्
      • स्थानवाचकपदम् = सर्वतः
    • द्वितीयवाक्यम्
      • क्रियापदम् = तिष्ठति [ स्था “ष्टा गतिनिवृत्तौ” पर. लट्. प्रपु. एक. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आवृत्य
        • कर्मपदम् = सर्वम्
        • अधिकरणपदम् = लोके
      • कर्तृपदम् = तत्

References –

  1. 19 Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6pe क्षेत्रक्षेत्रज्ञविभागयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Bhagavad Gita – Chapter 12 – Part 2

श्रीमद्भगवद्गीता – द्वादशोऽध्याय: – भक्तियोगः – भाग: २

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥

पदच्छेदः

क्लेशः अधिकतरः तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिः दुःखं देहवद्भिः अवाप्यते ॥ ५ ॥

अन्वयः

अव्यक्तासक्तचेतसां तेषां क्लेशः अधिकतरः । देहवद्भिः हि अव्यक्ता गतिः दुःखम् अवाप्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अधिकतरः [ अ. पुं. प्र. एक. ]
    • वाक्यांशः
      • कर्तृपदम् = क्लेशः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = अव्यक्तासक्तचेतसाम् [ अ. पुं. ष. बहु. ]
      • सम्बन्ध-विशेषण-पदम् = तेषाम् [ तद् द. पुं. ष. बहु. ]
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = अवाप्यते [ अव + आप् “आपॢ व्याप्तौ” उभ. कर्मणि लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् =दुःखम् [ अव्ययम् ]
      • (कर्मणि) कर्मपदम् = गतिः [ इ. पुं. प्र. एक. ]
      • (कर्मणि) कर्मविशेषणम् = अव्यक्ता [ ऋ. पुं. प्र. एक. ]
      • (कर्मणि) कर्तृपदम् = देहवद्भिः [ त. पुं. तृ. बहु. ]
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = हि [ अव्ययम् ]

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।

अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥

पदच्छेदः

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन एव योगेन मां ध्यायन्तः उपासते ॥ ६ ॥

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् भवामि नचिरात् पार्थ मयि आवेशितचेतसाम् ॥ ७ ॥

अन्वयः

पार्थ ! ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन योगेन माम् एव ध्यायन्तः उपासते, अहं नचिरात् मयि आवेशितचेतसां तेषां मृत्युसंसारसागरात् समुद्धर्ता भवामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “ये” वाक्यांशः
      • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आत्म. लट्. प्रपु. बहु. | प्रपु. रूपाणि – आस्ते, आसाते, आसते ]
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= ध्यायन्तः [ त. पुं. प्र. बहु. ]
        • कर्मपदम् = माम् [ अस्मद् द. त्रि. द्वि. एक. ]
        • कर्मविशेषण-सूचक-पदम् = एव [ अव्ययम् ]
        • करणवाचकपदम् = योगेन [ अ. पुं. तृ. एक. ]
        • करणविशेषणम् = अनन्येन [ अ. पुं. तृ. एक. ]
      • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = मत्पराः [ अ. पुं. प्र. बहु. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = सन्न्यस्य [ सम् + नि + अस् “अस भुवि” + ल्यप् प्रत्यय: | अव्ययम् ]
        • कर्मपदम् = कर्माणि [ अ. नपुं. द्वि. बहु. ]
        • कर्मविशेषणम् = सर्वाणि [ अ. नपुं. द्वि. बहु. ]
        • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
      • “तेषाम्” वाक्यांशः
        • क्रियापदम् = भवामि [ भू “भू सत्तायाम्” पर. लट्. उपु. एक. ]
        • क्रियाविशेषणम् = नचिरात् [ अव्ययम् ]
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • कर्तृपदम् = समुद्धर्ता [ ऋ. पुं. प्र. एक. ]
          • सम्बन्ध-पदम् = तेषाम् [ तद् द. पुं. ष. बहु. ]
          • सम्बन्ध-विशेषण-पदम् = आवेशितचेतसाम् [ स. पुं. ष. बहु. ]
          • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
          • अपादानपदम् = मृत्युसंसारसागरात् [ अ. पुं. प. एक. ]
        • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥

पदच्छेदः

मयि एव मनः आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अतः ऊर्ध्वं न संशयः ॥ ८ ॥

अन्वयः

मयि एव मनः आधत्स्व । मयि बुद्धिं निवेशय । अतः ऊर्ध्वं मयि एव निवसिष्यसि | न संशयः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आधत्स्व [ आ + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) लोट्. मपु. एक. ]
    • कर्मपदम् = मनः [ स. नपुं. प्र. एक. ]
    • कर्तृपदम् = (त्वम्)
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • अधिकरण-विशेषणम् = एव [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = निवेशय [ नि + विश् “विश प्रवेशने” पर. णिजन्त: लोट्. मपु. एक. ]
    • णिजन्त-प्रयोज्यकर्ता = बुद्धिम् [ इ. पुं. द्वि. एक. ]
    • णिजन्त-प्रयोजककर्ता = (त्वम्)
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = निवसिष्यसि [ नि + वस “वस निवासे” पर. लृट्. मपु. एक. | मपु. रूपाणि – वत्स्यसि, वत्स्यथः, वत्स्यथ | अत्र निवषिष्यसि इति इडागम: आर्ष: ]
    • कालवाचकपदम् = अतः ऊर्ध्वं [ अव्ययम् ]
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • अधिकरण-विशेषणम् = एव [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = संशयः [ अ. पुं. प्र. एक. ]

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥

पदच्छेदः

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥

अन्वयः

धनञ्जय ! अथ मयि चित्तं स्थिरं समाधातुं न शक्नोषि, ततः अभ्यासयोगेन माम् आप्तुम् इच्छ ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय[ अ. पुं. सम्बो. एक. ]
  • “अथ” वाक्यांशः
    • क्रियापदम् = शक्नोषि [ शक् “शकॢ शक्तौ” पर. लट्. मपु. एक. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्म-वाक्यांश:
      • तुमुनन्तपदम् = समाधातुम् [ सम् + आ + धा “डुधाञ् धारणपोषणयोः” + तुमुन् | अव्ययम् ]
      • क्रियाविशेषणम् = स्थिरम् [ अव्ययम् ]
      • कर्मपदम् = चित्तम् [ अ. नपुं. द्वि. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • कर्तृपदम् = (त्वम्)
    • सम्योजकपदम् = अथ [ अव्ययम् ]
  • “ततः” वाक्यांशः
    • क्रियापदम् = इच्छ [ इच्छ “इष इच्छायाम्” पर. लोट्. मपु. एक. ]
    • कर्म-वाक्यांश:
      • तुमुनन्तपदम् = आप्तुम् [ आप् “आपॢ व्याप्तौ” + तुमुन् | अव्ययम् ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक.]
      • करणवाचकपदम् = अभ्यासयोगेन [ अ. पुं. तृ. एक. ]
    • सम्योजकपदम् = ततः [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥

पदच्छेदः

अभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥

अन्वयः

(यदि) अभ्यासे अपि असमर्थः असि (तर्हि) मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (यदि) वाक्यांशः
      • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = असमर्थः [ अ. पुं. प्र. एक. ]
        • अधिकरणपदम् = अभ्यासे [ अ. पुं. स. एक. ]
        • अधिकरण-विशेषणम् = अपि [ अव्ययम् ]
      • कर्तृपदम् = (त्वम्)
      • सम्योजकपदम् = (यदि)
    • (तर्हि) वाक्यांशः
      • क्रियापदम् = भव [ भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
      • कर्तृविशेषणम् = मत्कर्मपरमः [ अ. पुं. प्र. एक. ]
      • कर्तृपदम् = (त्वम्)
      • सम्योजकपदम् = (तर्हि)

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

पदच्छेदः

अथ एतत् अपि अशक्तः असि कर्तुं मद्योगम् आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अन्वयः

अथ एतत् अपि कर्तुम् अशक्तः असि, ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु ।

पदपरिचय:

  • “अथ” वाक्यांशः
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अशक्तः [ अ. पुं. प्र. एक. ]
      • कर्म-वाक्यांश:
        • तुमुनन्तपदम् = कर्तुम् [ कृ “डुकृञ् करणे” + तुमुन् | अव्ययम् ]
        • कर्मपदम् = एतत् [ द. नपुं. द्वि. एक. ]
        • कर्मविशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
      • कर्तृपदम् = (त्वम्)
      • सम्योजकपदम् = अथ [ अव्ययम् ]
    • “ततः” वाक्यांशः
      • क्रियापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) लोट्. मपु. एक. ]
      • कर्मपदम् = सर्वकर्मफलत्यागम् [ अ. पुं. द्वि. एक. ]
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम् = आश्रितः [ अ. पुं. प्र. एक. ]
        • कर्मपदम् = मद्योगम् [ अ. पुं. द्वि. एक. ]
      • कर्तृविशेषणम् = यतात्मवान् [ त. पुं. प्र. एक. ]
      • कर्तृपदम् = (त्वम्)
      • सम्योजकपदम् = ततः [ अव्ययम् ]

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते ।

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥

पदच्छेदः

श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥

अन्वयः

अभ्यासात् हि ज्ञानं श्रेयः | ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः (विशिष्यते) | त्यागात् अनन्तरं शान्तिः (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः [ स. पुं. प्र. एक. ]
    • कर्तृपदम् = ज्ञानम् [ अ. नपुं. प्र. एक. ]
    • अपादानपदम् = अभ्यासात् [ अ. पुं. प. एक. ]
    • अपादानविशेषणम् = हि [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = विशिष्यते [ वि + शिष् “शिष्ऌ विशेषणे” आ. लट्. प्रपु. एक. ]
    • कर्तृपदम् = ध्यानम् [ अ. नपुं. प्र. एक. ]
    • अपादानपदम् = ज्ञानात् [ अ. पुं. प. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = (विशिष्यते)
    • कर्तृपदम् = कर्मफलत्यागः [ अ. पुं. प्र. एक. ]
    • अपादानपदम् = ध्यानात् [ अ. पुं. प. एक. ]
  • चतुर्थवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् =अनन्तरम् [ अव्ययम् ]
    • कर्तृपदम् = शान्तिः [ इ. पुं. प्र. एक. ]
    • कारणवाचकपदम् = त्यागात् [ अ. पुं. प. एक. ]

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

पदच्छेदः

अद्वेष्टा सर्वभूतानां मैत्रः करुण: एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः स: मे प्रियः ॥ १४ ॥

अन्वयः

यः सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः, मद्भक्तः सः मे प्रियः ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = अद्वेष्टा [ ऋ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = सर्वभूतानाम् [ अ. पुं. ष. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = मैत्रः [ अ. पुं. प्र. एक. ]
    • वाक्यांशः
      • कर्तृपदम् = करुणः [ अ. पुं. प्र. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = निर्ममः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = निरहङ्कारः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = समदुःखसुखः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = क्षमी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = सन्तुष्टः [ अ. पुं. प्र. एक. ]
      • क्रियाविशेषणम् = सततम् [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = योगी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = यतात्मा [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = दृढनिश्चयः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अर्पितमनोबुद्धिः [ इ. पुं. प्र. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

पदच्छेदः

यस्मात् न उद्विजते लोक: लोकान् न उद्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तः यः स: च मे प्रियः ॥

अन्वयः

यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः हर्षामर्षभयोद्वेगैः मुक्तः सः च मे प्रियः ।

पदपरिचय:

  • “यस्मात्” वाक्यांशः
    • क्रियापदम् = उद्विजते [ उत् + विजी “ओविजी भयचलनयोः” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = लोकः [ अ. पुं. प्र. एक. ]
    • अपादानपदम् = यस्मात् [ यद् द. पुं. प. एक. ]
  • “यः” वाक्यांशः
    • सम्योजकपदम् = च [ अव्ययम् ]
    • क्रियापदम् = उद्विजते [ उत् + विजी “ओविजी भयचलनयोः” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
    • अपादानपदम् = लोकात् [ अ. पुं. प. एक. ]
  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= मुक्तः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) कर्तृपदम् = हर्षामर्षभयोद्वेगैः [ अ. पुं. तृ. बहु. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]
    • सम्योजकपदम् = च [ अव्ययम् ]

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

पदच्छेदः

अनपेक्षः शुचिः दक्ष: उदासीनः गतव्यथः सर्वारम्भपरित्यागी यः मद्भक्तः स: मे प्रियः ॥ १६ ॥

अन्वयः

यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी मद्भक्तः सः मे प्रियः ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अनपेक्षः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = शुचिः [ इ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = दक्षः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = उदासीनः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = गतव्यथः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वारम्भपरित्यागी [ न. पुं. प्र. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥

पदच्छेदः

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः स: मे प्रियः ॥ १७ ॥

अन्वयः

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् सः च मे प्रियः ।

  • “यः” वाक्यांशः
    • क्रियापदम् = हृष्यति [ हृष् “हृष तुष्टौ” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = द्वेष्टि [ द्विष् “द्विष अप्रीतौ” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = शोचति [ शुच् “शुच शोके” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = काङ्क्षति [ काक्षि “काक्षि काङ्क्षायाम्” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् =न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-पदम् = शुभाशुभपरित्यागी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-पदम् = भक्तिमान् [ त. पुं. प्र. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • सम्योजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

समः शत्रौ च मित्रे च तथा मानापमानयोः ।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

पदच्छेदः

समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

तुल्यनिन्दास्तुतिः मौनी सन्तुष्टः येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥

अन्वयः

शत्रौ च मित्रे च समः तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • कर्तृ-विशेषण-सूचक-वाक्यांश:
    • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
    • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • कर्तृपदम् = समः [ अ. पुं. प्र. एक. ]
    • अधिकरणपदम् = शत्रौ [ उ. पुं. स. एक. ]
    • अधिकरणपदम् = मित्रे [ अ. पुं. स. एक. ]
    • सम्योजकपदम् = च [ अव्ययम् ]
  • कर्तृ-विशेषण-वाक्यांश:
    • कर्तृपदम् = समः [ अ. पुं. प्र. एक. ]
    • अधिकरणपदम् = मानापमानयोः [ अ. पुं. स. द्वि. ]
    • अधिकरणपदम् = शीतोष्णसुखदुःखेषु [ अ. पुं. स. बहु. ]
    • सम्योजकपदम् = तथा [ अव्ययम् ]
  • कर्तृविशेषणम् = सङ्गविवर्जितः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = तुल्यनिन्दास्तुतिः [ इ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = मौनी [ न. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् =सन्तुष्टः [ अ. पुं. प्र. एक. ]
    • (कर्मणि) कर्तृपदम्= येन [यत् त. पुं. तृ. एक.]
    • (कर्मणि) कर्तृविशेषणम् = केनचित् [ अव्ययम् ]
  • कर्तृविशेषणम् =अनिकेतः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = स्थिरमतिः [ इ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = भक्तिमान् [ त. पुं. प्र. एक. ]
  • कर्तृपदम् = नरः [ अ. पुं. प्र. एक. ]

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

पदच्छेदः

ये तु धर्म्यामृतम् इदं यथा उक्तं पर्युपासते श्रद्दधानाः मत्परमाः भक्ताः ते अतीव मे प्रियाः ॥ १९ ॥

अन्वयः

ये तु भक्ताः श्रद्दधानाः मत्परमाः यथा उक्तम् इदं धर्म्यामृतं पर्युपासते ते मे अतीव प्रियाः ।

  • “ये” वाक्यांश:
    • क्रियापदम् = पर्युपासते [ परि + उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= उक्तम् [ अ. नपुं. द्वि. एक. ]
      • क्रियाविशेषणम् = यथा [ अव्ययम् ]
    • कर्मविशेषणम् =इदम् [ म. नपुं. द्वि. एक. ]
    • कर्मपदम् = धर्म्यामृतम् [ अ. नपुं. द्वि. एक. ]
    • कर्तृविशेषणम् =भक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् =श्रद्दधानाः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् =मत्परमाः [ अ. पुं. प्र. बहु. ]
    • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
  • “ते” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= प्रियाः [ अ. पुं. प्र. बहु. ]
      • क्रियाविशेषणम् =अतीव [ अव्ययम् ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = ते [ युष्मद् द. त्रि. ष. एक. ]

References –

  1. 18 Dec 2015 दिनाङ्के नारायण नम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6mz भक्तियोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site