(Video) Namaste Sada Vatsale

नमस्ते सदा वत्सले namaste sada vatsale

राष्ट्रीय-स्वयंसेवक-संघ-प्रार्थना

Rashtriya Swayamsevak Sangh Praarthanaa

(RSS Prayer)

Namaste Sada Vatsale (नमस्ते सदा वत्सले) is Rashtriya Swayamsevak Sangh‘s prayer. The Sangh Prarthana was first publicly sung by RSS Pracharak Yadav Rao Joshi on May 18, 1940 in Sangh Shiksha Varg held at Nagpur. It was written by Shri Narhar Narayan Bhide, a Sanskrit professor, under the guidance of Dr. K. B. Hedgewar and Madhav Sadashiv Golwalkar.

Here in this post, details like Padachcheda, aakaankshaa, padavivaranam, chandas, etc. are provided here for a clear understanding of this inspiring prayer. English transliteration and translation (with the associated Sanskrit words) is provided. Meaning in Tamil, along with the associated Sanskrit words (before and after Sandhi) are also provided.sample text for Sangha Praarthana doc..png

The file containing this content is available for download at https://drive.google.com/open?id=1QrFA4kZpCKtBtY6nyfDNktH_pmW9hHAQ  It is being recommended to use the file rather than reading the post, as it has a better presentation. A video with the text in Sanskrit and English along with Anvaya and English translation is available here – https://youtu.be/zECQWX5SaGs

1. मूलपाठः

नमस्ते सदा वत्सले मातृभूमे

त्वया हिन्दुभूमे सुखं वर्धितोऽहम्

महामङ्गले पुण्यभूमे त्वदर्थे

पतत्वेष कायो नमस्ते नमस्ते ॥१॥

पदच्छेदः

नमः ते सदा वत्सले मातृ-भूमे त्वया हिन्दु-भूमे सुखं वर्धितः अहम् महा-मङ्गले पुण्य-भूमे त्वद्+अर्थे पततु एषः कायः नमः ते नमः ते

अन्वयः

(हे) वत्सले मातृभूमे ! (हे) हिन्दुभूमे ! (हे) महामङ्गले पुण्यभूमे ! सदा ते नमः । अहं त्वया सुखं वर्धितः (अस्मि) । एषः कायः त्वदर्थे पततु । ते नमः । ते नमः ।

आकाङ्क्षा

  • (हे) मातृभूमे ! [ हे मातृरूपे जन्मभूमे । स्त्री, सम्बो., ए.व. । प्रथमा – मातृभूमिः ]
    • (हे) कीदृशी मातृभूमिः ? वत्सले ! [ करुणापरे । स्त्री, सम्बो., ए.व. । प्रथमा – वत्सला ]
  • (हे) हिन्दुभूमे ! [ हिन्दुराष्ट्र । स्त्री, सम्बो., ए.व. । प्रथमा – हिन्दुभूमिः ]
  • (हे) पुण्यभूमे ! [ पवित्रराष्ट्र । स्त्री, सम्बो., ए.व. । प्रथमा – पुण्यभूमिः ]
    • (हे) कीदृशी पुण्यभूमिः ? महामङ्गले ! [ महाभद्र । स्त्री, सम्बो., ए.व. । प्रथमा – महामङ्गला ]
  • नमः (अस्तु) [ अभिवादनम् । नमः अव्ययम् ]
    • कस्यै नमः ? ते [ तुभ्यम् । युष्मद् शब्दः, त्रि., च.वि., ए.व. । प्रथमा – त्वम्, युवाम्, यूयम् । चतुर्थी – ते / तुभ्यम्, वाम् / युवाभ्याम्, वः / युष्मभ्यम् ]
    • कदा (अस्तु) ? सदा [ सर्वदा । अव्ययम् ]
  • (अहम् अस्मि)
    • कीदृशः अस्मि ? वर्धितः [ वर्धनम् प्राप्तवान् । वृध् “वृधुँ वृद्धौ” + क्त, पुं., प्र.वि., ए.व. । लटि. – वर्धते ]
    • कथं वर्धितः ? सुखम् [ सुखेन । अव्ययम् । अत्र क्रियाविशेषणम् ]
    • कया वर्धितः ? त्वया [ भवत्या । युष्मद् शब्दः, त्रि., तृ.वि., ए.व. । तृतीया – त्वया, युवाभ्याम्, युष्माभिः ]
  • पततु [ निहितः भवतु । पत् “पतॢँ गतौ” प.प., लोट्., प्र.पु., ए.व. । लटि पतति, पततः, पतन्ति ]
    • कः पततु ? एषः कायः
      [ एषः – अयम् । एतद् शब्दः, सर्वनाम, पुं., प्र.वि., ए.व. ]

[ कायः – शरीरम् । पुं., प्र.वि., ए.व. ]

  • किमर्थं पततु ? त्वदर्थे [ तव प्रयोजनाय । त्वद् + अर्थे नपुं., स.वि., ए.व. ]
  • नमः (अस्तु) [ अभिवादनम् । नमः अव्ययम् ]
    • कस्यै नमः ? ते [ तुभ्यम् । युष्मद् शब्दः, त्रि., च.वि., ए.व. ]
  • नमः (अस्तु) [ अभिवादनम् । नमः अव्ययम् ]
    • कस्यै नमः ? ते [ तुभ्यम् । युष्मद् शब्दः, त्रि., च.वि., ए.व. ]

तात्पर्यम्

हे वत्सले मातृभूमे ! हे हिन्दुभूमे ! हे महामङ्गले पुण्यभूमे ! सदैव तुभ्यं नमः । अहं त्वया सुखेन वर्धितः अस्मि । मदीयः एषः कायः तव कार्यनिमित्तम् एव अर्पितं भवतु । नमस्ते नमो नमः ।

टिप्पणी

सदावत्सले इत्यपि स्वीकर्तुं शक्नुमः यतः सा सर्वदा वात्सल्यं प्रकटयति ।

Transliteration

namaste sadā vatsale mātṛbhūme
tvayā hindubhūme sukhaṃ vardhitoham ।
mahāmaṅgale puṇyabhūme tvadarthe
patatveṣa kāyo namaste namaste ॥

Meaning

Salutations (namaḥ) to you (te), always (sadā). O compassionate (vatsale) motherland (mātṛ-bhūme). O land (-bhūme) of the Hindus (hindu-). I (aham) have been happily (sukham) brought up (vardhitaḥ) by you (tvayā). O most (mahā-) auspicious (-maṅgale) holy (puṇya-) land (-bhūme). For your cause (tvad-arthe), let this (eṣaḥ) body (kāyaḥ) lay down (i.e., be offered) (patatu). Salutations (namaḥ) to you (te). Salutations (namaḥ) to you (te).

Additional Info

The words sadā and vatsale can be taken together to indicate that she is always (sadā) compassionate (vatsale).

2. मूलपाठः

प्रभो शक्तिमन् हिन्दुराष्ट्राङ्गभूता

इमे सादरं त्वां नमामो वयम् ।

त्वदीयाय कार्याय बद्धा कटीयम्

शुभामाशिषं देहि तत्पूर्तये ॥२॥

पदच्छेदः

प्रभो शक्तिमन् हिन्दु-राष्ट्र+अङ्गभूताः इमे सादरम् त्वाम् नमामः वयम्

त्वदीयाय कार्याय बद्धा कटी इयम् शुभाम् आशिषम् देहि तत्-पूर्तये

अन्वयः

(हे) शक्तिमन् प्रभो । इमे वयं हिन्दुराष्ट्राङ्गभूताः त्वां सादरं नमामः । इयं कटी त्वदीयाय कार्याय बद्धा (अस्ति) । (त्वं) तत्पूर्तये शुभाम् आशिषं देहि ।

आकाङ्क्षा

  • (हे) प्रभो [ स्वामिन् । पुं., प्र. सम्बो., ए.व. । प्रथमा – प्रभुः ]
    • (हे) कीदृशः प्रभुः ? शक्तिमन् [ प्रतापवन् । शक्तिमत् शब्दः, पुं., प्र. सम्बो., ए.व. । प्रथमा – शक्तिमान् ]
  • नमामः [ नमस्कारं कुर्मः । नम् “णमँ प्रह्वत्वे शब्दे च”, प.प., लट्., उ.पु., ब.व. । प्रथमापुरुषे लटि. – नमति । उत्तमपुरुषे लटि. – नमामि, नमावः नमामः ]
    • के नमामः ? इमे वयम्
      [ इमे – एते । इदम् शब्दः, पुं., प्र.वि., ब.व. । प्रथमा – अयम्, इमौ, इमे ]
      [ वयम् – वयं सर्वे । अस्मद् शब्दः, त्रि., प्र.वि., ब.व. । प्रथमा – अहम्, आवाम्, वयम् ]

      • कथम्भूताः वयम् ? हिन्दुराष्ट्राङ्गभूताः [ हिन्दुराष्ट्रस्य अङ्गभूताः निवासिनः । पुं., प्र.वि., ब.व. ]
    • कं नमामः ? त्वाम् [ अत्र ईश्वरम् । युष्मद् शब्दः, त्रि., द्वि.वि., ए.व. – द्वितीया – त्वाम् / त्वा, वाम् / युवाम्, वः / युष्मान् ]
    • कथं नमामः ? सादरम् [ आदरेण सह । पुं., द्वि.वि., ए.व. । क्रियाविशेषणम् ]
  • (अस्ति)
    • का (अस्ति) ? इयम् कटी
      [ इयम् – एषा । इयम् शब्दः, स्त्री., प्र.वि., ए.व. । प्रथमा – इयम्, इमे, इमाः ]
      [ कटी – देहमध्यमाङ्गम् । स्त्री. प्र.वि., ए.व. – कटी, कट्यौ, कट्यः ]
    • कीदृशी अस्ति ? बद्धा [ बन्धिता । स्त्री. प्र.वि., ए.व. ]
      • किमर्थं बद्धा ? कार्याय [ कार्यार्थम् । नपुं. च.वि., ए.व. ]
        • कीदृशाय कार्याय ? त्वदीयाय [ तव सम्बद्धाय । नपुं. च.वि., ए.व. ]
      • (त्वं) देहि [ ददातु । दाडुदाञ् दाने”, प.प., लोट्., म.पु., ए.व. । लटि – ददाति ]
        • किं देहि ? आशिषम् [ आशीर्वादम् । आशिस् शब्दः, स्त्री., द्वि.वि., ए.व. । प्रथमा – आशीः, आशिषौ, आशिषः ]
          • कीदृशं आशिषम् ? शुभाम् [ कल्याणीम् । स्त्री., द्वि.वि., ए.व. ]
        • किमर्थं देहि ? तत्पूर्तये [ तस्य पूर्त्यर्थम् । स्त्री., च.वि., ए.व. ]

तात्पर्यम्

हे शक्तिमन् प्रभो, हिन्दुराष्ट्रस्य अङ्गभूताः वयम् आदरेण भवन्तं नमामः। तव कार्याय सर्वदा सिद्धः अस्मि । तव कार्यस्य पूर्त्यर्थम् आशीर्वादं करोतु ।

Transliteration

prabho śaktiman hindurāṣṭrāṅgabhūtā
ime sādaraṃ tvāṃ namāmo vayam ।
tvadīyāya kāryāya baddhā kaṭīyam
śubhāmāśiṣaṃ dehi tatpūrtaye ॥

Meaning

O Powerful (śaktiman) Lord (prabho)! We (vayam), these people (ime), being an integral part of the Hindu nation (hindurāṣṭra-aṅga-bhūtāḥ) salute (namāmaḥ) you (tvām) with high regards (sādaram). This (iyam) waist (kaṭī) has been tied (baddhā), (i.e., I am geared up), for your (tvadīyāya) work (kāryāya). For completing it (tatpūrtaye), you should give (dehi) your auspicious (śubhām) blessings (āśiṣam).

3. मूलपाठः

अजय्यां च विश्वस्य देहीश शक्तिम्

सुशीलं जगद् येन नम्रं भवेत् ।

श्रुतं चैव यत् कण्टकाकीर्णमार्गम्

स्वयं स्वीकृतं नः सुगङ्कारयेत् ॥

पदच्छेदः

अजय्याम् च विश्वस्य देहि ईश शक्तिम् सुशीलम् जगद् येन नम्रम् भवेत्

श्रुतम् च एव यत् कण्टक+आकीर्ण-मार्गम् स्वयम् स्वीकृतम् नः सुगम् कारयेत्

अन्वयः

(हे) ईश । (त्वम्) विश्वस्य अजय्यां शक्तिं देहि । (त्वं) सुशीलं च (देहि), येन जगत् नम्रं भवेत् । (त्वं) श्रुतं च एव (देहि) यत् स्वयं स्वीकृतं कण्टकाकीर्णमार्गं नः सुगं कारयेत् ।

आकाङ्क्षा

  • (हे) ईश [ ईश्वर । पुं., सम्बो., ए.व. ]
  • (त्वं) देहि [ ददातु । दाडुदाञ् दाने”, प.प., लोट्., म.पु., ए.व. । लटि – ददाति ]
    • कां देहि ? शक्तिम् [ बलम् । स्त्री., द्वि.वि., ए.व. ]
      • कीदृशीं शक्तिम् ? अजय्याम् [ जेतुं अशक्याम् । स्त्री., द्वि.वि., ए.व. ]
        • केन अजय्याम् ? विश्वस्य [ विश्वेन । त्रि., ष.वि., ए.व., तृतीयार्थे कर्तरि षष्टिः ]
      • (त्वं) च (देहि) [ च – तद् अपि । अव्ययम् ]
        • किं देहि ? सुशीलम् [ उत्तमगुणयुक्तम् । नपुं., प्र.वि., ए.व. ]
        • कीदृशं सुशीलम् ? येन भवेत्
          [ येन – येन कारणेन । यद् शब्दः, नपुं., तृ.वि., ए.व. । तृतीया – येन, याभ्याम्, यैः ।
          भवेत् – भवितुमर्हति । भू “भू सत्तायाम्” । प.प., विधिलिङ्., प्र.पु., ए.व. । लटि. – भवति ]

          • किं भवेत् ? जगत् [ विश्वम् । जगत् शब्दः, नपुं., प्र.वि., ए.व. । प्रथमा – जगत्, जगन्ती / जगती, जगन्ति ]
          • कीदृशं भवेत् ? नम्रम् [ विनयसम्पन्नम् । नपुं., प्र.वि., ए.व. ]
        • च एव (देहि) [ तत् निश्चयेन ददातु । च – अव्ययम् । एव – अव्ययम् ]
          • किं देहि ? श्रुतम् [ ज्ञानम् । श्रू “श्रू श्रवणे” + क्त, नपुं., द्वि.वि., ए.व. ]
          • कीदृशं श्रुतम् ? यत् कारयेत्
            [ यत् – यद् शब्दः, नपुं., प्र.वि., ए.व., प्रथमा – यत् / यद्, ये, यानि ]
            [ कारयेत् – कर्तुं प्रेरयेत् । कृ “डुकृञ् करणे” + णिच्, विधिलिङ्., प्र.पु., ए.व. । अणिजन्त-विधिलिङ्गे कुर्यात्, णिजन्त-लटि कारयति ]

            • कान् कारयेत् ? नः [ अस्मान् e., वयं कुर्युः । अस्मद् शब्दः, त्रि., द्वि.वि., ब.व. । द्वितीया – आवाम् / माम् / मा, नौ, अस्मान् / नः । चतुर्थी – मह्यम् / मे, आवाभ्याम् / नौ, अस्मभ्यम् / नः । षष्ठी – मम / मे, आवयोः / नौ, अस्माकम् / नः ]
            • कीदृशं कारयेत् ? सुगम् [ सुष्टु गमनाय योग्यम् । नपुं., द्वि.वि., ए.व. ]
            • किं सुगं कारयेत् ? कण्टकाकीर्णमार्गम् [ कण्टकैः पत्त्रसूचिभिः आकीर्णं पूर्णितं मार्गम् । पुं., द्वि.वि., ए.व. ]
              • कीदृशं कण्टकाकीर्णमार्गम् ? स्वीकृतम् [ चिनुतम् । पुं., द्वि.वि., ए.व. ]
                • कथं स्वीकृतम् ? स्वयम् [ आत्मना । अव्ययम्, अत्र क्रियाविशेषणम् ]

तात्पर्यम्

हे भगवन् | समग्रस्य प्रपञ्चस्य या अजेया शक्तिः अस्ति, तां शक्तिम् अस्मभ्यं देहि | सुगुणं च देहि, यस्मात् जगत् विनयसम्पन्नं भवेत् | एषः मार्गः कण्टकाकीर्णः अस्तिचेदपि स्वयं एतं मार्गं वयं चितवन्तः | एतं मार्गम् अपि गमनाय सरलं कर्तुं यत् ज्ञानम् अस्मान् प्रेरयेत्, तादृशं ज्ञानं च देहि |

टिप्पणी

द्वितीयम् अर्थकरणम् अपि भवितुमर्हति |
अन्वयः – (एतद्) कण्टकाकीर्णमार्गम् इति श्रुतं च एव | स्वयं यत् स्वीकृतं, (तद् भवान्) नः सुगं कारयेत् ।
तात्पर्यम् – एषः मार्गः कण्टकाकीर्णः इति अस्माभिः ज्ञातम् एव | तथापि स्वयं एतं मार्गं चितवन्तः | एषः मार्गः अस्माकं गमनाय सरलः भवेत् इति भवान् अस्मान् कारयतु |

Transliteration

ajayyāṃ ca viśvasya dehīśa śaktim
suśīlaṃ jagad yena namraṃ bhavet ।
śrutaṃ caiva yat kaṇṭakākīrṇamārgam
svayaṃ svīkṛtaṃ naḥ sugaṅkārayet ॥

Meaning

O Lord (īśa). You should give (dehī) us, also (ca) the power (śaktim) invincible (ajayyām) by the universe (viśvasya). You should give (dehī) us, good character (suśīlam), by which (yena), the world (jagat) could be made (bhavet) to bow down in humility (namram). Give us also (ca) indeed (eva) the knowledge (śrutam) which (yat) possibly will prompt us (naḥ) to make (kārayet) [even] the thorn-filled (kaṇṭaka-ākīrṇa-) path (-mārgam), which has been chosen (svīkṛtam) voluntarily (svayam) [by us], a pleasant one to travel (su-gam).

Additional Info

Here is another interpretation: [We have] indeed (ca eva) heard (śrutam) that this path (-mārgam) is thorn-filled (kaṇṭaka-ākīrṇa-). May [you] prompt us to make (kārayet) that (yat) [path], which has been voluntarily (svayam) chosen (svīkṛtam), a pleasant one to travel (su-gam).

4. मूलपाठः

समुत्कर्षनिःश्रेयसस्यैकमुग्रम्

परं साधनं नाम वीरव्रतम् ।

तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा

हृदन्तः प्रजागर्तु तीव्राऽनिशम् ॥

पदच्छेदः

सम्-उत्कर्ष-निःश्रेयसस्य एकम् उग्रम् परम् साधनम् नाम वीर-व्रतम्

तद् अन्तः स्फुरतु अक्षया ध्येय-निष्ठा हृद्+अन्तः प्रजागर्तु तीव्रा अनिशम्

अन्वयः

समुत्कर्षनिःश्रेयसस्य एकम् उग्रं परं साधनं नाम वीरव्रतम् (अस्ति) । तद् अन्तः स्फुरतु । तीव्रा अक्षया ध्येयनिष्ठा अनिशं हृदन्तः प्रजागर्तु ।

आकाङ्क्षा

  • (अस्ति)
    • किम् (अस्ति) ? वीरव्रतम् [ वीरं पराक्रमम् एव व्रतं प्रतिज्ञा । नपुं., प्र.वि., ए.व. ]
    • किम् आख्यं वीरव्रतम् ? साधनं नाम
      [ साधनम् – उपकरणम् । नपुं., प्र.वि., ए.व. ]
      [ नाम – आख्या । अव्ययम् ]

      • कीदृशं साधनम् ? एकम् [ केवलम् । नपुं., प्र.वि., ए.व. ]
      • पुनः कीदृशं साधनम् ? उग्रम् [ तीव्रम् । नपुं., प्र.वि., ए.व. ]
      • पुनः कीदृशं साधनम् ? परम् [ श्रेष्ठम् । नपुं., प्र.वि., ए.व. ]
      • कस्य साधनम् ? समुत्कर्षनिःश्रेयसस्य [ समुत्कर्षः लौकिकभाग्यसमृद्धिः च निःश्रेयसम् आध्यात्मिकपरमानन्दः च तयोः समाहारः, तादृशस्य । नपुं., ष.वि., ए.व. ]
    • स्फुरतु [ समुत्पततु । स्फुर् “स्फुरँ सञ्चलने”, प.प., लोट्., प्र.पु., ए.व. । लटि – स्फुरति ]
      • किं स्फुरतु ? तत् [ अत्र – वीरव्रतम् । नपुं., प्र.वि., ए.व. ]
      • कुत्र स्फुरतु ? अन्तः [ अत्र – मम मनसि । अव्ययम् ]
    • प्रजागर्तु [ प्र + जागृ “जागृ निद्राक्षये”, प.प., लोट्., प्र.पु., ए.व. । लटि – जागर्ति ]
      • का प्रजागर्तु ? ध्येयनिष्ठा [ चिन्तयितुं योग्यं लक्ष्यं ध्येयम् । तस्मिन् निष्ठा धृतिः । स्त्री. प्र.वि., ए.व. ]
        • कीदृशी ध्येयनिष्ठा ? तीव्रा [ दृढा । स्त्री. प्र.वि., ए.व. ]
        • पुनः कीदृशी ध्येयनिष्ठा ? अक्षया [ शाश्वता । स्त्री. प्र.वि., ए.व. ]
      • कदा प्रजागर्तु ? अनिशम् [ सततम् । अव्ययम् ]
      • कुत्र प्रजागर्तु ? हृदन्तः [ हृदयस्य अन्तः । अव्ययम् ]

तात्पर्यम्

अस्मिन् जीवने विकासः, परस्मिन् च मुक्तिः, इति अनयोः किञ्चन उत्कृष्टम् उपकरणं नाम वीरव्रतम् अस्ति । तद् वीरव्रतं मम अन्तः स्फुरतु । तीव्रा अक्षया ध्येयनिष्ठा च सर्वदा मम हृदये जागर्तु ।

Transliteration

samutkarṣaniḥśreyasasyaikamugram
paraṃ sādhanaṃ nāma vīravratam ।
tadantaḥ sphuratvakṣayā dhyeyaniṣṭhā
hṛdantaḥ prajāgartu tīvrāniśam ॥

Meaning

The sole (ekam) powerful (ugram) and ultimate (param) means (sādhanam) of the greatest temporal prosperity (samutkarṣa-) combined with the highest spiritual bliss (-niḥśreyasaḥ) is (nāma) the stern commitment (-vratam) to valor (vīra-). May this (tat) (commitment) spring forth (sphuratu) in [our] minds (antaḥ). May the intense (tīvrā) and everlasting (akṣayā) devotion (-niṣṭhā) to our ideal (dhyeya-) always (aniśam), remain awake (prajāgartu), inside (-antaḥ) our hearts (hṛd-).

5. मूलपाठः

विजेत्री च नः संहता कार्यशक्तिर्

विधायास्य धर्मस्य संरक्षणम् ।

परं वैभवं नेतुमेतत् स्वराष्ट्रम्

समर्था भवत्वाशिषा ते भृशम् ॥

पदच्छेदः

विजेत्री च नः संहता कार्य-शक्तिः विधायास्य धर्मस्य संरक्षणम्

परम् वैभवम् नेतुम् एतत् स्व-राष्ट्रम् समर्था भवतु आशिषा ते भृशम्

अन्वयः

अस्य धर्मस्य संरक्षणं विधाय, नः संहता कार्यशक्तिः, एतत् स्वराष्ट्रं परं वैभवं नेतुं, ते आशिषा, भृशं समर्था, विजेत्री च, भवतु ।

आकाङ्क्षा

  • भवतु [ सम्भवेत् । भू “भू सत्तायाम्”, प.प., लोट्., प्र.पु., ए.व. । लटि. – भवति ]
    • का भवतु ? कार्यशक्तिः [ सत्क्रियानां बलम् । स्त्री. प्र.वि., ए.व. ]
      • केषां कार्यशक्तिः ? नः [ अत्र, अस्माकम् । अस्मद् शब्दः, त्रि., ष.वि., ब.व. । षष्ठी – मम / मे, आवयोः / नौ, अस्माकम् / नः ]
      • कीदृशी कार्यशक्तिः ? संहता [ संमिलिता । स्त्री. प्र.वि., ए.व. ]
    • किं कृत्वा भवतु ? विधाय [ आचर्य | वि + धा “डुधाञ् धारणपोषणयोः” + ल्यप्, अव्ययम् ]
      • किं विधाय ? संरक्षणम् [ सम्यक् रीत्या रक्षणम् । नपुं., द्वि.वि., ए.व. ]
        • कस्य संरक्षणम् ? अस्य धर्मस्य
          [ अस्य – एतस्य । इदम् शब्दः, पुं., ष.वि., ए.व. । प्रथमा – इदम्, इमौ, इमे । षष्ठी – अस्य, अनयोः/एनयोः, एषाम् ]
          [ धर्मस्य – अत्र, सनातनधर्मस्य । पुं., ष.वि., ए.व. ]
      • कीदृशी भवतु ? समर्था [ क्रियायोग्या । स्त्री. प्र.वि., ए.व. ]
        • कथं समर्था ? भृशम् [ शोभनेन । अव्ययम् ]
        • किं कर्तुं समर्था ? नेतुम् [ तत्र प्रापयितुम् । नी “णीञ् प्रापणे” + तुमुन् । अव्ययम् ]
          • किं नेतुम् ? एतत् स्वराष्ट्रम्
            [ एतत् – इदम् । एतद् शब्दः, न.पुं., द्वि.वि., ए.व. ]
            [ स्वराष्ट्रम् – स्वस्य राष्ट्रम्, अस्माकं मातृभूमिम् । न.पुं., द्वि.वि., ए.व. ]
          • कुत्र नेतुम् ? वैभवम् [ यशः । न.पुं., द्वि. वि., ए.व. ]
            • कीदृशं वैभवम् ? परम् [ श्रेष्ठम् । न.पुं., द्वि. वि., ए.व. ]
          • पुनः कीदृशी भवतु ? विजेत्री च

[ विजेत्री – जेतुं अशक्या । स्त्री. प्र.वि., ए.व. ]
[ च – अपि । अव्ययम् ]

  • कया भवतु ? आशिषा [ आशीर्वादेन । आशिस् शब्दः, स्त्री., तृ.वि., ए.व. । प्रथमा – आशीः, आशिषौ, आशिषः । तृतीया – आशिषा, आशीर्भ्याम्, आशीर्भिः ]
    • कस्याः आशिषा ? ते [ तुभ्यम् । युष्मद् शब्दः, त्रि., च.वि., ए.व. ]

तात्पर्यम्

एतस्य सनातनधर्मस्य संरक्षणं विधाय, अस्माकं समष्टि-क्रियाशक्तिः, इमां मातृभूमिं पुनः परं वैभवं स्थानं प्रति नेतुं, तव आशिषा च, अतीव क्षमतायुता, विजेत्री च भवतु ।

Transliteration

vijetrī ca naḥ saṃhatā kāryaśaktir
vidhāyāsya dharmasya saṃrakṣaṇam ।
paraṃ vaibhavaṃ netumetat svarāṣṭram
samarthā bhavatvāśiṣā te bhṛśam ॥

Meaning

May our (naḥ) well-organised (saṃhatā) power (-śaktiḥ) of actions (kārya-), causing (vidhāya) the protection (saṃrakṣaṇam) of this (asya) [Sanaatana] Dharma (dharmasya), completely (bhṛśam) become (bhavatu) victorious (vijetrī) and (ca) a capable one (samarthā) for leading (netum) this (etat) country (-rāṣṭram) of ours (sva-), to its supreme (param) glory (vaibhavam), by your (te) blessings (āśiṣā).

भारत माता की जय! bhārat mātā kī jai
Victory to Mother Bharata!

— ** —

Chandas

  1. Bhujangaprayaatam भुजङ्गप्रयातम्  

    • भुजङ्गप्रयातम् – “भुजङ्गप्रयातं चतुर्भिर्यकारैः”
    • प्रतिपादं १२ अक्षराणि । य-य-य-य । “।SS ।SS।SS ।SS”  | भुजङ्गप्रयातं चतुर्भिः यकारैः
    • उदा. सङ्गप्रार्थना
    • नमस्ते सदा वत्सले मातृभूमे
      त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।
      महामङ्गले पुण्यभूमे त्वदर्थे
      पतत्वेष कायो नमस्ते नमस्ते ॥१॥
    1 2 3 4 5 6 7 8 9 10 11 12
    गु गु गु गु गु गु गु गु
    स्ते दा त्स ले मा तृ भू मे
    त्व या हि न्दु भू मे सु खं र्धि तो हम्
    हा ङ्ग ले पु ण्य भू मे त्व र्थे
    त्वे का यो स्ते स्ते

https://nivedita2015.wordpress.com/chandas-2/#bhujangaprayaatam

— ** —

[ Meaning in Tamil along with the words resulting after “Sandhi” work ]
பிரார்த்தனை (ப்ரார்த்தனா)

நமஸ்தே ஸதா வத்சலே மாத்ருபூமே!
த்வயா ஹிந்துபூமே ஸுகம் வர்த்திதோஹம்
மஹாமங்களே புண்யபூமே த்வதர்த்தே
பதத்வேஷ காயோ நமஸ்தே நமஸ்தே
உனக்கு வணக்கம் (நமஸ்தே), எப்பொழுதும் (ஸதா), [உரித்தாகுக]. அன்பு காட்டுபவளான தாய்நாடே (வத்சலே மாத்ருபூமே) ! ஹிந்து பூமியே (ஹிந்துபூமே), உன்னால் (த்வயா) சுகமாக (ஸுகம்) ஊட்டிவளர்க்கப்பட்டவன் நான் (வர்த்திதோஹம்). மகா மங்கலமயமான புண்ணிய பூமியே (மஹாமங்களே புண்யபூமே)! உனது பணிக்கென (த்வதர்த்தே), அர்ப்பணமாகட்டும் இவ்வுடல் (பதத்வேஷ காயோ). உனக்கு வணக்கம் (நமஸ்தே). உனக்கு வணக்கம் (நமஸ்தே).

ப்ரபோ சக்திமன் ஹிந்துராஷ்ட்ராங்கபூதா
இமே ஸாதரந் த்வான் நமாமோ வயம்
த்வதீயாய கார்யாய பத்தா கடீயம்
சுபாமாசிஷந் தேஹி தத்பூர்தயே
சர்வ சக்தி வாய்ந்த இறைவனே (சக்திமன் ப்ரபோ)! உன்னை (த்வான்) பணிவுடன் (ஸாதரந்) ஹிந்து ராஷ்டிரத்தின் அங்கங்களைப் போன்றுள்ளவர்கள் நாங்கள் வணங்குகின்றோம் (ஹிந்துராஷ்ட்ராங்கபூதா இமே வயம் நமாமோ). உனது பணிக்காகவே (த்வதீயாய கார்யாய) இந்த இடுப்பு (கடீயம்) [கச்சை] கட்டப்பட்டதாக இருக்கிறது (பத்தா). அது நிறைவேற (தத்பூர்தயே) மங்களகரமான ஆசியை (சுபாமாசிஷந்) வழங்குவாயாக (தேஹி)!

அஜய்யாஞ்ச விஷ்வஸ்ய தேஹீச சக்திம்
ஸுசீலஞ் ஜகத்யேன நம்ரம் பவேத்
ஷ்ருதஞ் சைவ யத்கண்டகாகீர்ணமார்கம்
ஸ்வயம் ஸ்வீக்ருதன்நஸ் ஸுகங்காரயேத்
உலகத்தால் வெல்ல முடியாத (விஷ்வஸ்ய அஜய்யாஞ்ச) சக்தியை (சக்திம்) [எங்களுக்கு] அருள்வாயாக, இறைவனே (தேஹீச)! எதனால் (யேன) உலகமே (ஜகத்) [எம்மை] தலை வணங்கி மதிக்கும் ஒன்றாக (நம்ரம்) ஆகிவிடலாமோ (பவேத்) [அப்படிப்பட்ட] நல்லொழுக்கத்தை (ஸுசீலஞ்) [எங்களுக்கு தந்தருள்வாயாக]. [அறிவு பூர்வமாக ஆய்ந்து] எம்மால் (ஸ்வயம்) ஏற்றுக்கொள்ளப்பட்ட (ஸ்வீக்ருதம்) [இந்த] முள் நிறைந்த பாதையை (கண்டகாகீர்ணமார்கம்) கடப்பதற்கு எளிதாக ஆக்கக்கூடிய அந்த (யத் ஸுகங்காரயேத்) ஞானத்தையும் (ஷ்ருதஞ் சைவ) [எங்களுக்கு அளிப்பாயாக]!

ஸமுத்கர்ஷநிஷ்ரேயஸஸ்யைகமுக்ரம்
பரம் ஸாதனன் நாம வீரவ்ரதம்
ததந்தஸ் ஸ்புரத்வக்ஷயா த்யேய-நிஷ்டா
ஹ்ருதன்தஹ் ப்ரஜாகர்து தீவ்ரானிசம்

இம்மையுடன் கூடிய மறுமையின் [அதாவது அதனை பெற] ஒரே தீவிரமான (ஸமுத்கர்ஷ-நிஷ்ரேயஸஸ்யைகமுக்ரம்) மேலான (பரம்) கருவி [அதாவது வழி] (ஸாதனன்) வீர விரதம் (வீரவ்ரதம்) என்பதாகும் (நாம). அது [எங்களது] உள்ளத்தில் (ததந்தஸ்) துடித்துக் கொண்டிருக்கட்டும். குன்றாத (ஸ்புரத்வக்ஷயா), லட்சிய உறுதியானது (த்யேய-நிஷ்டா), தீவிரமான அது, எப்பொழுதும் (தீவ்ரானிசம்) [எங்களது] இதயத்தினுள் (ஹ்ருதன்தஹ்), விழிப்புடனிருக்கட்டும் (ப்ரஜாகர்து).

விஜேத்ரீ ச நஸ் ஸம்ஹதா கார்ய-சக்திர்
விதாயாஸ்ய தர்மஸ்ய ஸம்ரக்ஷணம்
பரம் வைபவன் நேதுமேதத் ஸ்வராஷ்ட்ரம்
ஸமர்த்தா பவத்வாசிஷா தே ப்ருசம்.

வெற்றி பொருந்தியதும் (விஜேத்ரீ) மற்றும் (ச) ஒன்றுதிரண்டதுமான (ஸம்ஹதா) எங்கள் (நஸ்) காரிய சக்தி (கார்ய-சக்திர்) இந்த [சனாதன] தர்மத்தின் பாதுகாவலைச் செம்மையாகச் செய்து (ஸம்ரக்ஷணம் விதாயாஸ்ய தர்மஸ்ய), எங்களது இந்த ராஷ்ட்ரத்தை மகோன்னத நிலைக்குக் கொண்டு செல்ல (பரம் வைபவன் நேதுமேதத் ஸ்வராஷ்ட்ரம்), மிக்க (ப்ருசம்) திறம் பெற்றதாக (ஸமர்த்தா) ஆகட்டும், உனது ஆசியால் (பவத்வாசிஷா தே).
வெல்க பாரத அன்னை! (பாரத் மாதா கீ ஜெய்)
— ** —

[ Meaning in Tamil along with the Sanskrit words before “Sandhi” work ]
பிரார்த்தனை (ப்ரார்த்தனா)

நமஸ்தே ஸதா வத்சலே மாத்ருபூமே!
த்வயா ஹிந்துபூமே ஸுகம் வர்த்திதோஹம்
மஹாமங்களே புண்யபூமே த்வதர்த்தே
பதத்வேஷ காயோ நமஸ்தே நமஸ்தே
உனக்கு (தே) எப்பொழுதும் (ஸதா) வணக்கம் (நம:), [உரித்தாகுக]. அன்பு காட்டுபவளான தாய்நாடே (வத்சலே மாத்ருபூமே) ! ஹிந்து பூமியே (ஹிந்துபூமே)! நான் (அஹம்) உன்னால் (த்வயா) சுகமாக (ஸுகம்) ஊட்டிவளர்க்கப்பட்டவனாக உள்ளேன் (வர்த்தித: ). மகா மங்கலமயமான புண்ணிய பூமியே (மஹாமங்களே புண்யபூமே)! இந்த (ஏஷ: ) உடல் (காய: ) உனது பணிக்கென (த்வதர்த்தே) அர்ப்பணமாகட்டும் (பதது). உனக்கு (தே) வணக்கம் (நம:). உனக்கு (தே) வணக்கம் (நம:).

ப்ரபோ சக்திமன் ஹிந்துராஷ்ட்ராங்கபூதா
இமே ஸாதரந் த்வான் நமாமோ வயம்
த்வதீயாய கார்யாய பத்தா கடீயம்
சுபாமாசிஷந் தேஹி தத்பூர்தயே
சர்வசக்தி வாய்ந்த இறைவனே (சக்திமன் ப்ரபோ)! உன்னை (த்வாம்) பணிவுடன் (ஸாதரம்) ஹிந்து ராஷ்டிரத்தின் அங்கங்களைப் போன்றுள்ளவர்கள் (ஹிந்துராஷ்ட்ராங்கபூதா: இமே) நாங்கள் (வயம்) வணங்குகின்றோம் (நமாம: ). உனது பணிக்காகவே (த்வதீயாய கார்யாய) இந்த (இயம்) இடுப்பு (கடீ) [கச்சை] கட்டப்பட்டதாக இருக்கிறது (பத்தா). அது நிறைவேற (தத்பூர்தயே) மங்களகரமான ஆசியை (சுபாம் ஆசிஷம்) வழங்குவாயாக (தேஹி)!

அஜய்யாஞ்ச விஷ்வஸ்ய தேஹீஷ ஷக்திம்
ஸுசீலஞ் ஜகத்யேன நம்ரம் பவேத்
ஷ்ருதஞ் சைவ யத்கண்டகாகீர்ணமார்கம்
ஸ்வயம் ஸ்வீக்ருதன்நஸ் ஸுகங்காரயேத்
இறைவனே (ஈஷ)! உலகத்தால் (விஷ்வஸ்ய) வெல்ல முடியாததுமான (அஜய்யாம் ச) சக்தியை (ஷக்திம்) [எங்களுக்கு] அருள்வாயாக (தேஹி). எதனால் (யேன) உலகமே (ஜகத்) [எம்மை] தலை வணங்கி மதிக்கும் ஒன்றாக (நம்ரம்) ஆகிவிடலாமோ (பவேத்) [அப்படிப்பட்ட] நல்லொழுக்கத்தை (ஸுசீலம்) [எங்களுக்கு தந்தருள்வாயாக]. [அறிவு பூர்வமாக ஆய்ந்து] எம்மால் (ஸ்வயம்) ஏற்றுக்கொள்ளப்பட்ட (ஸ்வீக்ருதம்) [இந்த] முள் நிறைந்த பாதையை (கண்டகாகீர்ணமார்கம்) கடப்பதற்கு எளிதாக (ஸுகம்) ஆக்கக்கூடிய (காரயேத்), அந்த (யத்) ஞானத்தையும் (ஷ்ருதம் ச ஏவ) [எங்களுக்கு அளிப்பாயாக]!

ஸமுத்கர்ஷநிஷ்ரேயஸஸ்யைகமுக்ரம்
பரம் ஸாதனன் நாம வீரவ்ரதம்
ததந்தஸ் ஸ்புரத்வக்ஷயா த்யேய-நிஷ்டா
ஹ்ருதன்தஹ் ப்ரஜாகர்து தீவ்ரானிசம்

இம்மையுடன் கூடிய மறுமையின் (ஸமுத்கர்ஷ-நிஷ்ரேயஸஸ்ய) [அதாவது அதனை பெற] ஒரே (ஏகம்) தீவிரமான (உக்ரம்) மேலான (பரம்) கருவி [அதாவது வழி] (ஸாதனம்) வீர விரதம் (வீர-வ்ரதம்) என்பதாகும் (நாம). அது (தத்) [எங்களது] உள்ளத்தில் (அந்த:) துடித்துக் கொண்டிருக்கட்டும் (ஸ்புரது). தீவிரமான (தீவ்ரா), குன்றாத (அக்ஷயா), லட்சிய உறுதியானது (த்யேய-நிஷ்டா), எப்பொழுதும் (அனிசம்) [எங்களது] இதயத்தினுள் (ஹ்ருதன்த:), விழிப்புடனிருக்கட்டும் (ப்ரஜாகர்து).

விஜேத்ரீ ச நஸ் ஸம்ஹதா கார்ய-சக்திர்
விதாயாஸ்ய தர்மஸ்ய ஸம்ரக்ஷணம்
பரம் வைபவன் நேதுமேதத் ஸ்வராஷ்ட்ரம்
ஸமர்த்தா பவத்வாசிஷா தே ப்ருசம்.
வெற்றி பொருந்தியதும் (விஜேத்ரீ) மற்றும் (ச) ஒன்றுதிரண்டதுமான (ஸம்ஹதா) எங்கள் (ந:) காரிய சக்தி (கார்ய-சக்தி: ) இந்த (அஸ்ய) [சனாதன] தர்மத்தின் (தர்மஸ்ய) பாதுகாவலைச் (ஸம்ரக்ஷணம்) செம்மையாகச் செய்து (விதாய), இந்த (ஏதத்) எங்களது ராஷ்ட்ரத்தை (ஸ்வராஷ்ட்ரம்) மகோன்னத நிலைக்குக் (பரம் வைபவம்) கொண்டு செல்ல (நேதும்), உனது (தே) ஆசியால் (ஆசிஷா), மிக்க (ப்ருசம்) திறம் பெற்றதாக (ஸமர்த்தா) ஆகட்டும் (பவது).
வெல்க பாரத அன்னை! (பாரத் மாதா கீ ஜெய்)

— ** —

References:

 

(Video) Hastamalakeeyam anvaya

।।  हस्तामलकस्तोत्रम् ।।  हस्तामलकम्  ।। हस्तामलकीयम् ।।

  • हस्तामलकम्
    • हस्तामलकम् = हस्तामलकस्य इदम् (तद्धितः)
      • हस्तामलकः = हस्तामलकम् इव ज्ञानं यस्य सः
        • हस्तामलकम् = हस्ते आमलकः
      • हस्तामलकीयम् = हस्तामलकस्य इयम्

Review pending – Pl. come back later to nivedita2015.wordpress.com for the updated version.

आचार्य उवाच 

कस्त्वं शिशो कस्य कुतोऽसि गन्ता किं नाम ते त्वं कुत आगतोऽसि ।
एतन्मयोक्तं वद चार्भक त्वं मत्प्रीतये प्रीति विवर्धनोऽसि ।।१।।

पदच्छेदः

कः त्वम् शिशो कस्य कुतः असि गन्ता किम् नाम ते त्वम् कुतः आगतः असि ।
एतत् मया उक्तम् वद च अर्भक त्वं मत्प्रीतये प्रीतिविवर्धनः असि ।

अन्वयः

हे शिशो | त्वं कः (असि) | (त्वं) कस्य (असि) | कुतः गन्ता असि | ते नाम किम् | त्वं कुतः आगतः असि । एतत् मया उक्तम् | (त्वम् उत्तरं) मत्प्रीतये वद | हे अर्भक | त्वं प्रीतिविवर्धनः च असि ।

आकाङ्क्षा

  • हे शिशो |
  • त्वं कः (असि) |
  • (त्वं) कस्य (असि) |
  • कुतः गन्ता असि |
  • ते नाम किम् |
  • त्वं कुतः आगतः असि ।
  • एतत् मया उक्तम् |
  • (त्वम् उत्तरं) मत्प्रीतये वद |
  • हे अर्भक |
  • त्वं प्रीतिविवर्धनः च असि ।

पदार्थः

  • अर्भकः = बालकः
  • कुतः गन्ता असि = कस्मात् कारणात् गन्ता असि

हस्तामलक उवाच ।

नाहं मनुष्यो न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः  
न ब्रह्मचारी न गृही वनस्थो भिक्षुर्न चाहं निजबोधरूपः ।।२।।

पदच्छेदः

न अहम् मनुष्यः न च देव-यक्षौ न ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः ।
न ब्रह्मचारी न गृही वनस्थः भिक्षुः न च अहम् निज-बोध-रूपः ।

अन्वयः

अहं मनुष्यः न अस्मि | अहं देव-यक्षौ च न अस्मि | ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः न । ब्रह्मचारी न | गृही न | वनस्थः न | भिक्षुः च न | अहं निज-बोध-रूपः अस्मि ।

आकाङ्क्षा

  • अहं मनुष्यः न अस्मि |
  • अहं देव-यक्षौ च न अस्मि |
  • अहं ब्राह्मण-क्षत्रिय-वैश्य-शूद्राःन अस्मि ।
  • अहं ब्रह्मचारी न अस्मि |
  • अहं गृही न अस्मि |
  • अहं वनस्थः न अस्मि |
  • अहं भिक्षुः च न अस्मि |
  • अहं निज-बोध-रूपः अस्मि ।

पदार्थः

  • निज-बोध-रूपः – स्वयंप्रकाशरूपः ; निज.. = स्वयम् ,  बोधः = ज्ञानम्

निमित्तं मनश्चक्षुरादिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । 
रविर्लोकचेष्टानिमित्तं यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।३।।

पदच्छेदः

निमित्तं मनस्-चक्षुर्-आदि-प्रवृत्तौ निरस्त-अखिल-उपाधिः आकाश-कल्पः ।
रविः लोक-चेष्टा-निमित्तं यथा यः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा रविः लोक-चेष्टा-निमित्तं (तथा) यः मनस्-चक्षुर्-आदि-प्रवृत्तौ निमित्तं सः नित्य-उपलब्धि-स्वरूपः, आकाश-कल्पः निरस्त-अखिल-उपाधिः (च) आत्मा अहम् अस्मि |

आकाङ्क्षा

  • निमित्तं भवति
    • कस्मिन् विषये ? मनस्-चक्षुर्-आदि-प्रवृत्तौ [ प्रवृत्तौ – प्रवृत्ति स्त्री. सप्. एक. ]
    • कः? यः
    • कथमिव निमित्तं भवति ? यथा रविः लोक-चेष्टा-निमित्तं तथा
    • यः एतादृशं निमित्तं भवति सः कः ? स: अहम् अस्मि
      • कः अहम? आत्मा
        • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः
        • पुनः कीदृशः आत्मा ? निरस्त-अखिल-उपाधिः – devoid of all limiting adjuncts
          • यदा निरस्त-अखिल-उपाधिः भवति तदा कथं भवति ? आकाश-कल्पः

पदार्थः

  • मनस्-चक्षुः-आदि = ज्ञानेन्द्रियाणि
  • निमित्तम् = कारणम्
  • निरस्त-अखिल-उपाधिः = स्तूल-सूक्ष्म-कारण-शारीरातीतः
    • निरस्त = [ निर् + अस् “अस भुवी” + क्तप्रत्ययः]  अतीतः
  • आकाश-कल्पः = आकाश-तुल्यः
  • नित्य-उपलब्धि-स्वरूपः which is of the nature of eternal consciousness; i.e., that which is ever present and ever available
    • उपलब्धि = उपलभ्यमानम्
    • नित्य-उपलब्धि-स्वरूपः = सत्स्वरूपः (सत्-चित्-आनन्दे विद्यमानं सत्)

श्लोकस्य सारः “अहं साक्षी”  |

I am that presence which lends itself to all activities without being involved in them, just as even in space – everything is accommodated in space and still space is free from all attributes.

यमग्न्युष्णवन्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । 
प्रवर्तन्त आश्रित्य निष्कम्पमेकं स नित्योपलब्धिस्वरूपोऽहमात्मा ।।४।।

पदच्छेदः

यम् अग्नि-उष्णवत् नित्य-बोध-स्वरूपं मनस्-चक्षुर्-आदीनि अबोध-आत्मकानि ।
प्रवर्तन्ते आश्रित्य निष्कम्पम् एकम् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यम् आश्रित्य अबोधात्मकानि मनस्-चक्षुः-आदीनि प्रवर्तन्ते अग्नि-उष्णवत् नित्य-बोध-स्वरूपं नि:+कम्पम् एकम् सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • प्रवर्तन्ते
    • कथमिव ? अग्नि-उष्णवत्
    • कानि ? मनस्-चक्षुः-आदीनि
      • कीदृशानि ? अबोधात्मकानि
    • किं कृत्वा ? आश्रित्य
      • कम् आश्रित्य ? यम्
    • यम् आश्रित्य प्रवर्तन्ते सः कः ? सः अहम्
      • सः अहंकः ? आत्मा
        • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अबोधात्मकानि = [हेतु-गर्भ-विशेषणम्] | मनस्-चक्षुः-आदीनि अबोधात्मकत्वात् प्रवर्तन्ते |
  • बोदात्मकम् = ज्ञानस्वरूपम्
  • निष्कम्पम् = निस्+कम्पम् = कम्परहितम्  / अचलम्

श्लोकस्य सारः “अहम् अधिष्ठानम्” | मनश्चक्षुरादिनां स्वातन्त्र्यं नास्ति |

मुखाभासको दर्पणे दृश्यमानो मुखत्वात् पृथक्त्वेन नैवास्ति वस्तु । 
चिदाभासको धीषु जीवोऽपि तद्वत् स नित्योपलब्धिस्वरूपोऽहमात्मा ।।५।।

पदच्छेदः

मुखाभासकः दर्पणे दृश्यमानः मुखत्वात् पृथक्त्वेन न एव अस्ति वस्तु ।
चिदाभासकः धीषु जीवः अपि तत्-वत् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

दर्पणे दृश्यमानः मुख-आभासकः मुखत्वात् पृथक्त्वेन वस्तु न एव अस्ति । धीषु दृश्यमानः चिदाभासकः जीवः अपि तत्-वत् पृथक्त्वेन वस्तु न एव अस्ति । सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • न एव अस्ति ।
    • कथम् ? पृथक्त्वेन
      • कस्मात् पृथक्त्वेन ? मुखत्वात्
    • कः ? मुख-आभासकः
      • कथम्भूतः मुख-आभासकः ? दृश्यमानः
        • कुत्र दृश्यमानः ? दर्पणे
      • तत्-वत् किम् ? तत्-वत् न एव अस्ति
        • कथम्भूतं न अस्ति ? वस्तु
          • कीदृशं वस्तु न अस्ति? पृथक्त्वेन
        • कः ? जीवः अपि
          • कीदृशः जीवः ? चिदाभासकः
          • पुनः कीदृशः जीवः ? दृश्यमानः
            • कुत्र दृश्यमानः ? धीषु
          • यः तत्-वत् न एव अस्ति सः कः? सः अहम्
            • सः अहंकः ? आत्मा
              • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • आभासकः / आभासः = प्रतिबिम्बम् |
  • धीः = सुक्ष्मशरीरः
  • जीवः= अत्र आत्मा नास्ति | सूक्ष्म-शरीरः चिदासः च |

श्लोकस्य सारः “चिदाभासकः मित्या”

यथा दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । 
तथा धीवियोगे निराभासको यः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।६।।

पदच्छेदः

यथा दर्पण-अभावे आभासहानौ मुखं विद्यते कल्पना-हीनम् एकम् ।
तथा धी-वियोगे निराभासकः यः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा दर्पण-अभावे आभासहानौ कल्पना-हीनम् एकं मुखं विद्यते, तथा धी-वियोगे निराभासकः यः विद्यते, सः नित्य-उपलब्धि-स्वरूपः आत्मा अहम् अस्मि |

आकाङ्क्षा

  • विद्यते
    • किं विद्यते ? मुखम्
      • कीदृशं मुखम् ? एकम्
      • पुनः कीदृशं मुखम् ? कल्पना-हीनम्
    • कदा ? दर्पण-अभावे
      • पुनः कदा ? आभासहानौ [ हानिः  स्त्री.  सप्. एक. ]
    • यथा मुखं विद्यते तथा कः विद्यते ? निराभासकः
      • कदा ? धी-वियोगे
      • यः निराभासकः विद्यते सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
          • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • कल्पना-हीनम् = प्रतिबिम्ब-रहितम्
  • आभास-हानौ = यदा आभासः न भवति

श्लोकस्य सारः “मनः मित्या”

The birth of this individual happens when there is an identification with the medium rather than the consciousness. One thinks “I am <something that is the attribute of the body-mind-intellect>”.

मनश्चक्षुरादेर्वियुक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । 
मनश्चक्षुरादेरगम्यस्वरूपः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।७।।

पदच्छेदः

मनश्चक्षुरादेः वियुक्तः स्वयं यः मनश्चक्षुरादेः मनश्चक्षुरादिः ।
मनश्चक्षुरादेः अगम्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यः मनश्चक्षुरादेः वियुक्तः, यः स्वयं मनश्चक्षुरादेः मनश्चक्षुरादिः, मनश्चक्षुरादेः अगम्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अस्मि
    • कः? अहम्
    • अहं कः अस्मि ? आत्मा
      • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः
      • कः आत्मा ? यः वियुक्तः सः
        • कस्मात् वियुक्तः ? मनश्चक्षुरादेः
      • पुनः कः आत्मा? यः मनश्चक्षुरादिः
        • कस्य मनश्चक्षुरादिः ? स्वयं मनश्चक्षुरादेः
      • पुनः कः आत्मा? यः अगम्य-स्वरूपः
        • कस्य अगम्य-स्वरूपः ? मनश्चक्षुरादेः

पदार्थः

  • वियुक्तः = तस्मात् भिन्नः
  • अगम्यम् = अवगन्तुं न शक्ष्यम्

श्रोत्रस्य श्रोत्रम् इति केनोपनिषदि अपि अस्ति |

य एको विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपोऽपि नानेव धीषु 
शरावोदकस्थो यथा भानुरेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।८।।

पदच्छेदः

यः एकः विभाति स्वतः शुद्धचेताः प्रकाशस्वरूपः अपि नाना इव धीषु
शराव-उदक-स्थः यथा भानुः एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा शराव-उदक-स्थः भानुः एकः अपि नाना इव विभाति, तथा यः एकः प्रकाशस्वरूपः शुद्धचेताः धीषु एकः अपि नाना इव स्वतः विभाति सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • विभाति
    • कथम् ? स्वतः
    • कः ? प्रकाशस्वरूपः
    • कथमिव विभाति ? एकः अपि नाना इव
    • कुत्र नाना इव विभाति ? धीषु
    • कीदृशः ? शुद्धचेताः[ चेतः – चेतस् इति नपुंसकलिङ्गः  | बहुव्रीहि-समासान्ते शुद्धचेतस् इति सकारान्तः  पुल्लिङ्गः प्रथमाविभक्तिः एकवचनम् ]
    • कथं एकः अपि नाना इव विभाति ? यथा भानुः विभाति
      • कीदृशः भानुः ? शराव-उदक-स्थः
    • यः प्रकाशस्वरूपः विभाति सः कः? सः अहम्
      • सः अहंकः ? आत्मा
      • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • शुद्धचेताः = प्रज्ञानघनः , ज्ञानस्वरूपी
  • शरावम् = पात्रम्

श्लोकस्य सारः – आत्मा एकः, अद्वैतः | नाना इव भाति | आत्मानं ज्ञातुं किमपि अन्यवस्तुनः आवश्यकता नास्ति | सः स्वप्रकाशः |

शरावम् ~= स्थूलशरीरः उदकम् ~= सुक्ष्मशरीरः; भानुः ~= आत्मा ; बिम्बम् ~= चिदाभासः ;

Notes from Swamini Swatmavidyanandaji’s lectures:

In the olden days, people were busy with the nitya and naimittika karma that there was no time for raagah and dveshah to make an appearance. Their minds were purified by these acts. So as time passed by, the agnihotra karma reduced and people started doing worship at the temples. When a lot of people come together, it encourages and becomes an inspiration for bhakti. The spirit of worship is to give up. तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा अनाशकेन [The BrihadAraNyaka upaniShad* (4.4.22)]

The whole crux of the vedantic life is to drop those strong preferences (Raaga and Dvesha) by doing what needs to be done rather than doing what one wants to do. “I dedicate the likes and dislikes at the altar of Bhagavan and I do all that is required to be done. I accept the outcome whether favourable and not as a Prasad from Bhagavan” – should be the attitude. …. One should train oneself, observe and be alert to the purpose of one’s life and stick to it. That is svadharma.

यथाऽनेकचक्षुःप्रकाशो रविर्न क्रमेण प्रकाशीकरोति प्रकाश्यम् । 
अनेका धियो यस्तथैकः प्रबोधः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।९।।

पदच्छेदः

यथा अनेक-चक्षुः-प्रकाशः रविः न क्रमेण प्रकाशी-करोति प्रकाश्यम् ।
अनेकाः धियः यः तथा एकः प्रबोधः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा अनेक-चक्षुः-प्रकाशः रविः प्रकाश्यं क्रमेण न प्रकाशी-करोति, तथा यः एकः प्रबोधः अनेकाः धियः न क्रमेण प्रकाशी-करोति, सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • प्रकाशी-करोति
    • कथम् ? न क्रमेण
    • कः ? प्रबोधः
      • कीदृशः ? एकः
    • काः (कर्मपदम्) प्रकाशी-करोति ? धियः
      • काः धियः ? अनेकाः
    • कथमिव ? यथा रविः न क्रमेण प्रकाशी-करोति तथा
      • कीदृशः रविः प्रकाशी-करोति? अनेक-चक्षुः-प्रकाशः
      • किं प्रकाशी-करोति ? प्रकाश्यम्
    • यः प्रकाशी-करोति सः कः? सः अहम्
      • सः अहंकः ? आत्मा
      • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • प्रकाशीकरोति — अप्रकाशं प्रकाशं करोति इति | च्विप्रत्ययः अभूततद्भावार्थकः भवति अर्थात् यद् वस्तु पूर्वम् तस्मिन् रूपे नासीत् किन्तु सम्प्रति परिवर्तितम् रूपम् धारयति तस्य बोधाय च्विप्रत्ययः प्रयुज्यते।

श्लोकस्य सारः “आत्मा ज्योतिषां ज्योतिः”

विवस्वत-प्रभातं यथा रूपमक्षं प्रगृह्णाति नाभातमेवं विवस्वान् । 
यदाभात आभासयत्यक्षमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा।।१०।।

पदच्छेदः

विवस्वत-प्रभातम् यथा रूपम् अक्षम् प्रगृह्णाति न आभातम् एवं विवस्वान् ।
यत्-आभातः आभासयति अक्षम् एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा अक्षं विवस्वत-प्रभातं रूपं प्रगृह्णाति, न आभातम्, एवं यदाभातः एकः विवस्वान् अक्षम् आभासयति सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अक्षम् प्रगृह्णाति
    • किं प्रगृह्णाति ? रूपम्
      • कीदृशं रूपम् प्रगृह्णाति? विवस्वत-प्रभातम्
    • अक्षम् न प्रगृह्णाति
      • किं प्रगृह्णाति ? रूपम्
        • कीदृशं रूपम् न प्रगृह्णाति ? आभातम्
      • तथा किम् ? एवम् आभासयति
        • किम् आभासयति ? अक्षम्
        • कः आभासयति ? विवस्वान्
          • कीदृशः विवस्वान् ? एकः
          • पुनः कीदृशः विवस्वान् ? यदाभातः
          • यस्मात् विवस्वान् आभातः सः कः? यदाभातः सः अहम्
            • सः अहंकः ? आत्मा
            • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • यदाभातः = येन आभातः, येन आत्मना आभातः

श्लोकस्य सारः “आत्मा मनः प्रकाशयति” |

यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्वग्विभाव्यस्वरूपः
चलासु प्रभिन्नासुधीष्वेवमेकः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।११।।

पदच्छेदः

यथा सूर्यः एकः अप्सु अनेकः चलासु स्थिरासु अपि अनन्वग्-विभाव्य-स्वरूपः
चलासु प्रभिन्नासु धीषु एवम् एकः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा एकः सूर्यः चलासु स्थिरासु (च) अप्सु अनेकः अपि अनन्वग्-विभाव्य-स्वरूपः एवम् एकः प्रभिन्नासु चलासु सुधीषु अनन्वग्-विभाव्य-स्वरूपः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • अनन्वग्-विभाव्य-स्वरूपः अस्ति
    • कः ? सूर्यः
      • कीदृशः ? एकः
      • कथम्भुतः अपि ? अनेकः अपि
    • कुत्र अनन्वग्-विभाव्य-स्वरूपः ? अप्सु [ अप् स्त्री. सप्. (नित्य) बहु. ]
      • कीदृशीसु ? स्थिरासु
      • अथवा कीदृशीसु ? चलासु
    • यथा अनन्वग्-विभाव्य-स्वरूपः एवं कः ? एवम् एकः अनन्वग्-विभाव्य-स्वरूपः
      • कुत्र अनन्वग्-विभाव्य-स्वरूपः ? सुधीषु
        • कीदृशीसु ? चलासु
        • पुनः कीदृशीसु सुधीषु ? प्रभिन्नासु
      • यः एवम् अनन्वग्-विभाव्य-स्वरूपः सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
        • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अनन्वग्-विभाव्य-स्वरूपः
    • विभाव्यम् = चिन्तनीयम्
    • अनन्वक् = न अन्वक् | न स्पृष्टम्
    • अनन्वग्-विभाव्य-स्वरूपः = अनन्वग्त्वेन विभाव्यं स्वरूपं यस्य सः

श्लोकस्य सारः “उपाधेः धर्म आत्मानं न“

घनच्छन्नदृष्टिर्घनच्छन्नमर्कम् यथा निष्प्रभं मन्यते चातिमूढः । 
तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपलब्धिस्वरूपोऽहमात्मा ।।१२।।

पदच्छेदः

घनच्छन्न-दृष्टिः घनच्छन्नम् अर्कम् यथा निष्प्रभं मन्यते च अतिमूढः ।
तथा बद्धवत् भाति यः मूढ-दृष्टेः सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

यथा घनच्छन्न-दृष्टिः अतिमूढः अर्कं घनच्छन्नं निष्प्रभं च मन्यते, तथा यः मूढ-दृष्टेः (दृष्ट्या) बद्धवत् भाति, सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • मन्यते
    • कः ? अतिमूढः
      • कीदृशः ? घनच्छन्न-दृष्टिः
    • कम् ? अर्कम्
      • कथम्भूतमिति मन्यते ? घनच्छन्नम्
      • पुनः कथम्भूतमिति मन्यते ? निष्प्रभं च
    • यथा अतिमूढः मन्यते तथा किं भवति? भाति
      • कः ? यः
      • कथं भाति ? बद्धवत्
      • कया भाति ? (दृष्ट्या)
        • कस्याः दृष्ट्या ? मूढ-दृष्टेः
      • यः बद्धवत् भाति सः कः ? सः अहम्
        • सः अहंकः ? आत्मा
        • कीदृशः ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • घनच्छन्न-दृष्टिः = धनेन मेघेन च्छन्नम् आच्छन्ना दृष्टिः यस्य सः |

श्लोकस्य सारः “अविद्या आत्मानम् आच्छन्नं न करोति” इति बन्दस्य मित्यत्त्वम् |

समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशन्ति । 
वियद्वत्सदा शुद्धमच्छस्वरूपं स नित्योपलब्धिस्वरूपोऽहमात्मा ।।१३।।

पदच्छेदः

समस्तेषु वस्तुषु अनुस्यूतम् एकम् समस्तानि वस्तूनि यम् न स्पृशन्ति ।
वियद्वत् सदा शुद्धम् अच्छ-स्वरूपम् सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

अन्वयः

समस्तेषु वस्तुषु अनुस्यूतम् एकम् |  समस्तानि वस्तूनि यम् न स्पृशन्ति, (तदेकं) वियद्वत् सदा शुद्धम् अच्छ-स्वरूपम् | सः नित्य-उपलब्धि-स्वरूपः अहम् आत्मा ।

आकाङ्क्षा

  • एकम् अस्ति
    • कीदृशम् ? अनुस्यूतम्
      • कुत्र ? वस्तुषु
        • किदृशेषु वस्तुषु ? समस्तेषु
      • न स्पृशन्ति
        • कानि ? वस्तूनि
          • कीदृशानि वस्तूनि ? समस्तानि
        • कं न स्पृशन्ति ? यम्
      • यं न स्पृशन्ति तद् किम् ? तदेकं
        • तद् कीदृशम् ? शुद्धम्
        • पुनः तद् कीदृशम् ? अच्छ-स्वरूपम्
          • कदा शुद्धम् अच्छ-स्वरूपं च ? सदा
        • अस्मि
          • कः? अहम्
          • अहं कः अस्मि ? आत्मा
            • कीदृशः आत्मा ? नित्य-उपलब्धि-स्वरूपः

पदार्थः

  • अनुस्यूतम् = व्याप्तम्
  • वियद्वत् = आकाशवत्
  • अच्छ-स्वरूपम् = अमृत-स्वरूपम्

श्लोकस्य सारः “आत्मा असङ्गः” |

उपाधौ यथा भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । 
यथा चन्द्रिकाणां जले चञ्चलत्वं तथा चञ्चलत्वं तवापीह विष्णो ।।१४।।

पदच्छेदः

उपाधौ यथा भेदता सन्मणीनाम् तथा भेदता बुद्धि-भेदेषु ते अपि ।
यथा चन्द्रिकाणां जले चञ्चलत्वम् तथा चञ्चलत्वम् तव अपि इह विष्णो ।

अन्वयः

यथा उपाधौ सन्मणीनां भेदता तथा ते अपि बुद्धि-भेदेषु भेदता | यथा जले चन्द्रिकाणां चञ्चलत्वं तथा इह तव अपि चञ्चलत्वम् | हे विष्णो |

आकाङ्क्षा

  • भेदता भवति
    • केषाम् ? सन्मणीनाम्
    • कुत्र ? उपाधौ
    • यथा सन्मणीनां भेदता तथा किम् अस्ति ? भेदता अस्ति
      • कस्य ? ते अपि
      • कुत्र ? बुद्धि-भेदेषु
    • चञ्चलत्वम् अस्ति
      • कासाम् ? चन्द्रिकाणाम्
      • कुत्र ? जले
      • यथा चन्द्रिकाणां चञ्चलत्वम् अस्ति तथा किमस्ति ? चञ्चलत्वम् अस्ति
        • कस्य ? तव अपि
        • कुत्र ? इह
      • हे विष्णो

पदार्थः

  • विष्णुः = सर्वव्यापि
  • सन्मणी = स्फटिकः

।। इति श्रीमद् शङ्कराचार्यकृत हस्तामलकसंवादस्तोत्रं संपूर्णम् ।।