Yaadavaabhyudayam3

यादवाभ्युदयम्

Yādavābhyudayam

श्रीवेदान्तदेशिकेन विरचितम्प्रथमः सर्गः
First chapter of the Mahakavyam by Sri Vedaantadeshika
on the Life & Leela of Sri Krishna

Sessions in Sanskrit by Smt. Vidhya Ramesh

Second Part for Shlokas 1.71 to 1.100

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

71. श्लोकः

मूलपाठः

स्वकान्तिजलधेरन्तस्सिद्धसंहननं स्वतः ।
महिम्ना जातवैचित्र्यं महानीलमिवोदितम् ॥ ७१ ॥

पदच्छेदः

स्वकान्तिजलधेः, अन्तः, सिद्धसंहननम्, स्वतः, महिम्ना, जातवैचित्र्यम्, महानीलम्, इव, उदितम् ।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम् ? सिद्धसंहननम्
      • कथं सिद्धसंहननम् ? स्वतः
    • पुनः कीदृशं तम् ? जातवैचित्र्यम्
      • केन जातवैचित्र्यम् ? महिम्ना
    • कथम् इव ददृशुः ? उदितं महानीलम् इव
    • कुत्र ददृशुः ?  अन्तः
      • कस्य अन्तः ? स्वकान्तिजलधेः

अन्वयः

स्वकान्तिजलधेः अन्तः स्वतः सिद्धसंहननं महिम्ना जातवैचित्र्यम् उदितं महानीलम् इव (तं ददृशुः) ।

तात्पर्यम्

स्वप्रकाशरूप-समुद्रमध्ये आत्ममायया कर्माद्यनधीनतया कॢप्तदिव्यरूपः सन् स्वशक्ति-मात्रायत्त-अपूर्व-करचरणाद्यवयव-शोभी सन् आविरभूत् भगवान् ।  समुद्रोद्भूतं भासमानम् इन्द्रनीलमणिम् इव तम् अद्भुतरूपं विष्णुं देवाः ददृशुः ।

पदार्थः

  • स्वकान्तिजलधेः = स्वतेजः एव समुद्रः,  तस्य
  • अन्तः = मध्ये
  • स्वतः = स्वेच्छया / कर्माद्यनधीनतया
  • सिद्धसंहननम् = सम्पन्न-वपुषम्
  • महिम्ना =  माहात्म्येन
  • जातवैचित्र्यम् = सम्पन्नावयव-वैचित्र्यम्
  • उदितम् = उद्भूतम्
  • महानीलम् इव = इन्द्रनीलमणिविशेषम् इव

विशेषः

  • स्वतः सिद्धसंहननम्
    • अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
      प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ।। गीता 4.6 ।।
    • संहननम् – संहन्यते इति संहननम् । 
    • कलेवरं गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः कायः देहः  मूर्तिः तनुः तनूः । (अमरकोषे मनुष्यवर्गः)
  • उदितं नीलमणिम् इव
    • महानीलमणिः अपि जलधिमध्ये सिद्ध्यति इति भावः ।
    • विग्रहकान्तिः जलधिः इव । विग्रहः तदन्तर्गत-विचित्रनीलमणिः इव लक्ष्यते ।
  • भगवतः नीलाभा-वर्णनम्
    • हरिनीलशिला-विभङ्गनीलाः

प्रतिभाः सन्तु ममान्तिमप्रयाणे – गोपालविंशतौ

  • विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् – विष्णुसहस्रनामध्यानश्लोके
  • इन्दीवरश्यामलकोमलाङ्गम्
    इन्द्रादिदेवार्चितपादपद्मम् – श्रीबालमुकुन्दाष्टके
  • नीलजीमूतसङ्काशं पीताम्बरतडिद्‍वृतम् – श्रीवेङ्कटाचलमाहात्म्ये
  • जयतु जयतु मेघश्यामलकोमलाङ्गो
    जयतु जयतु पृथ्वीभारनाशो मुकुन्दः  – मुकुन्दमालायाम्
  • शङ्खारिवारिजगदापरिभासितेन मेघासितेन
    परिलेसिथ सूतिगेहे – नारायणीये १०/३८/३

पदविवरणम्

  • स्वकान्तिजलधेः
    • स्वस्य कान्तिः
    • जलानि अस्मिन् धीयन्ते इति जलधिः
    • स्वकान्तिजलधेः = स्वकान्तिः एव जलधिः स्वकान्तिजलधिः, तस्य
  • सिद्धसंहननम्
    • संहन्यते इति संहननम्
    • सिद्धसंहननम् = सिद्धं संहननं यस्य सः –  सिद्धसंहननः तम् 
  • महिम्ना = नकारान्तः पुं महिमन् तृ ए.व.
  • जातवैचित्र्यम्
    • विचित्रस्य भावः वैचित्र्यम्
    • जातवैचित्र्यम् = जातं वैचित्र्यं यस्य सः जातवैचित्र्यः, तम्
  • उदितम् = उत् + इण + क्त। अकारान्तः पुं. उदित द्वि. ए.व.
  • महानीलम् = महान् च असौ नीलः च महानीलः तम् ।

अलङ्कारः

भगवतः महानीलमणिरूपेनोत्प्रेक्षणात् उत्प्रेक्षालङ्कारः ।

72. श्लोकः

मूलपाठः

श्रुतिरूपेण वाहेन शेषकङ्कणशोभिना ।
स्वाङ्घ्रिसौरभदिग्धेन दत्तसङ्ग्रामदोहलम् ॥ ७२ ॥

पदच्छेदः

श्रुतिरूपेण, वाहेन, शेषकङ्कणशोभिना, स्वाङ्घ्रिसौरभदिग्धेन, दत्तसङ्ग्रामदोहलम् ।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम्  ? दत्तसङ्ग्रामदोहलम्
    • केन दत्तसङ्ग्रामदोहलम् ? वाहेन
      • कीदृशेन वाहेन ? श्रुतिरूपेण
      • पुनः कीदृशेन वाहेन ? स्वाङ्घ्रिसौरभदिग्धेन
      • पुनः कीदृशेन वाहेन ? शेषकङ्कणशोभिना

अन्वयः

शेषकङ्कणशोभिना स्वाङ्घ्रिसौरभदिग्धेन श्रुतिरूपेण वाहेन दत्तसङ्ग्रामदोहलं (तं ददृशुः) ।

तात्पर्यम्

शेषः यस्य करे वलयत्वेन शोभते, वहनकाले भगवच्चरणस्पर्शात् यस्य अङ्गं सौरभलिप्तं भवति तादृशस्य वेदात्मनः गरुडस्य दर्शनादेव सञ्जातयुद्धाभिलाषं तं विष्णुं देवा ददृशुः  ।

पदार्थः

  • शेषकङ्कणशोभिना = शेषरूपेण कङ्कणेन यः शोभते, तादृशेन
  • स्वाङ्घ्रिसौरभदिग्धेन = वहनकाले भगवच्चरणसौरभेन यस्य अङ्गं रूषितं तादृशेन
  • श्रुतिरूपेण = वेदरूपेण
  • वाहेन = गरुडेन
  • दत्तसङ्ग्रामदोहलम् = दत्तयुद्धाभिलाषम्
  • तं ददृशुः ।

विशेषः

  • शेषकङ्कणशोभिना –

वामे वैकुण्ठशय्या-फणिपतिकटको वासुकिब्रह्मसूत्रो

रक्षेन्नस्तक्षकेण ग्रथितकटितटश्चारु-कार्कोटहारः ।

पद्मं कर्णेऽपसव्ये प्रथिमवति महापद्ममन्यत्र बिभ्रत्

चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः ॥ ३६ ॥

                        स्वामिवेदान्तदेशिकविरचित-गरुडपञ्चाशत्

  • श्रुतिरूपेण –

सुपर्णोऽसि गरुत्मांस्त्रिवृत् …….इति श्रुतिवाक्यं (शुक्लयजुर्वेदे)

अयं विषयः गरुडपञ्चाशत्-स्तोत्रे इत्थं श्लोकरूपेण निरूपितः स्वामिदेशिकेन –

नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि

छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् ।

यस्य स्तोमात्मनोऽसौ बृहदितरगरुत् तादृशाम्नायपुच्छः

  • स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभितुष्टतात्मा गरुत्मान् ॥ ३ ॥

पदविवरणम्

  • शेषकङ्कणशोभिना        
    • शेषरूपं कङ्कणं शेषकङ्कणम् ।
    • शेषकङ्कणशोभिना = शेषकङ्कणेन शोभते इति शेषकङ्कणशोभी, तेन
  • स्वाङ्घ्रिसौरभदिग्धेन
    • दिह् उपचये (देग्धि दिग्धः दिहन्ति)
    • स्वस्य अङ्घ्री स्वाङ्घ्री ।
    • स्वाङ्घ्र्योः सौरभं स्वाङ्घ्रिसौरभम् ।
    • स्वाङ्घ्रिसौरभदिग्धेन = स्वाङ्घ्रिसौरभेण दिग्धः स्वाङ्घ्रिसौरभदिग्धः, तेन
  • वाहेन = वहति इति वाह  
  • दत्तसङ्ग्रामदोहलम् = सङ्ग्रामस्य दोहलं सङ्ग्रामदोहलम् ।
  • दत्तं सङ्ग्रामदोहलं येन सः दत्तसङ्ग्रामदोहलः, तम्

73. श्लोकः

मूलपाठः

स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन निवेदितम् ।
भक्तिनम्रेण सेनान्या प्रतिशृण्वन्तमिङ्गितैः ॥ ७३ ॥

पदच्छेदः

स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन, निवेदितम्, भक्तिनम्रेण, सेनान्या, प्रतिशृण्वन्तम्, इङ्गितैः ।

अन्वयरचना

  • (तं ददृशुः)
    • कीदृशं तम् ? प्रतिशृण्वन्तम्
      • किं प्रतिशृण्वन्तम् ?  निवेदितम्
      • केन निवेदितम् ?सेनान्या
      • कीदृशेन सेनान्या ? भक्तिनम्रेण
      • पुनः कीदृशेन सेनान्या ? स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन
      • कथं प्रतिशृण्वन्तम् ? इङ्गितैः

अन्वयः

स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन भक्तिनम्रेण सेनान्या निवेदितम् इङ्गितैः प्रतिशृण्वन्तं (तं ददृशुः) ।

तात्पर्यम्

भगवन्तं तत्तत्कार्यं निवेदयितुं तत्समीपम् अहमहमिकया आगच्छन्ति सेवार्थिनः । इत्थम् उपर्युपरापततः तान्  स्ववेत्रदण्डचालनमात्रेण निश्चलीकरोति  विष्वक्सेनः ।  भक्त्या प्रह्वस्य तादृशस्य विष्वक्सेनस्य विज्ञापितवचनं भ्रूभङ्गादिभिरेव तथेति प्रतिजानानं तं भगवन्तं ते देवाः ददृशुः ।

पदार्थः

  • स्ववेत्रस्पन्दनिःस्पन्दनेतव्येन = स्ववेत्रदण्डस्य चालनेन भगवत्समीपं नीयमानान् (सेवार्थिनः) निश्चलान् यः विदधाति तादृशेन  
  • भक्तिनम्रेण = भक्त्या अवनतेन
  • सेनान्या = विष्वक्सेनेन
  • निवेदितम् = विज्ञापितम्
  • इङ्गितैः = शिरःकम्पादिभिः संज्ञाभिः
  • प्रतिशृण्वन्तम् = दास्यामि इति प्रतिजानानम्
  • तं विष्णुं ददृशुः ।

पदविवरणम्

  • स्ववेत्रस्पन्दनिस्पन्दनेतव्येन
    • स्वस्य वेत्रम् स्ववेत्रम्
    • स्ववेत्रस्य स्पन्दः स्ववेत्रस्पन्दः
    • निर्गतः स्पन्दः येभ्यः ते निःस्पन्दाः
    • स्ववेत्रस्पन्दनिस्पन्दनेतव्येन = स्ववेत्रस्पन्देन निःस्पन्दाः नेतव्याः यस्य सः स्ववेत्रस्पन्दनिस्पन्दनेतव्यः, तेन  
  • भक्तिनम्रेण = भक्त्या नम्रः भक्तिनम्रः तेन
  • सेनान्या = ईकारान्तः पुं सेनानी शब्दः तृ., ए.व.
  • निवेदितम् = नि + विद् + णिच् + क्त । अकारान्तः नपुं. निवेदित द्वि., ए.व.
  • इङ्गितैः = इँगि गतौ (इङ्गति) + क्त ।अकारान्तः पुं. इङ्गित शब्दः, तृ. बहु.
  • प्रतिशृण्वन्तम् = प्रति + श्रु + शतृ । तकारान्तः पुं. प्रतिशृण्वत् शब्दः, द्वि., ए.व.

अलङ्कारः

  • स्वभावोक्त्यलङ्कारः
  • अत्र प्रभोः सविधे वेत्रधरक्रियाकलापस्य, तत्र प्रभोः प्रतिक्रियायाश्च सूक्ष्मस्य यथावद्वर्णनात् स्वभावोक्त्यलङ्कारः ।

74. श्लोकः

मूलपाठः

अनपायं तमादित्यमक्षयं तारकाधिपम् ।
अपारममृताम्भोधिममन्यन्त दिवौकसः ॥ ७४ ॥

पदच्छेदः

अनपायम्, तम्, आदित्यम्, अक्षयम्, तारकाधिपम्, अपारम्, अमृताम्भोधिम्, अमन्यन्त, दिवौकसः ।

अन्वयरचना

  • अमन्यन्त
    • के अमन्यन्तः ? दिवौकसः
    • दिवौकसः कम् अमन्यन्तः ? तम्
    • दिवौकसः तं कथम् इव अमन्यन्तः ? अनपायम् आदित्यम्
    • पुनः कथम् इव तम् अमन्यन्तः ? अक्षयं तारकाधिपम्
    • पुनः कथम् इव तम् अमन्यन्तः ? अपारम् अमृताम्भोधिम्

अन्वयः

दिवौकसः तम् अनपायम् आदित्यम् अक्षयं तारकाधिपम् अपारम् अमृताम्भोधिं च अमन्यन्तः ।

तात्पर्यम्

देवाः भगवतः अतिशयितं तेजः, अव्ययं प्रसादं, परमानन्दकरं रूपलावण्यं च ददृशुः । तदा ते भगवन्तं कञ्चिद् अन्यादृशम् आदित्यं मतवन्तः नित्योदितत्वात् । नित्यैकरूपत्वात् अन्यादृशं चन्द्रम् अपरिच्छिन्नत्वात् अन्यादृशं सुधासमुद्रं च अमन्यन्तः ।

सूर्यः अस्तमनं याति, चन्द्रः क्षयं याति, समुद्रस्य पारः विद्यते । एतान् गुणधर्मान् विमृशन्तः देवाः भगवन्तम् अतथाभूतं तद्वस्तुत्रयं मतवन्तः इति भावः । 

पदार्थः

  • दिवौकसः = देवाः
  • तम् = भगवन्तम्
  • अनपायम् आदित्यम् = अस्तमयरहितं सूर्यम्
  • अक्षयं तारकाधिपम् = क्षीणतारहितं चन्द्रम्
  • अपारम् अमृताम्भोधिं च = पाररहितं सुधासमुद्रञ्च
  • अमन्यन्तः = मतवन्तः ।

पदविवरणम्

  • दिवौकसः
    • द्यौः ओकः येषां ते दिवौकसः । दिव् (स्त्री.) – द्यौः दिवौ दिवः
    • ओकस् (नपुं) – ओकः ओकसी ओकांसि
    • दिवौकसः = दिवौकस् (पुं) – दिवौकाः दिवौकसौ दिवौकसः
  • अनपायम् = न विद्यते अपायः यस्य सः अनपायः तम्
  • आदित्यम् = अदितेः अपत्यं पुमान् आदित्यः, तम्
  • अक्षयम् = न विद्यते क्षयः यस्य सः अक्षयः तम्
  • तारकाधिपम् = तारकाणाम् अधिपः तारकाधिपः तम्
  • अपारम् = न विद्यते पारः यस्य सः अपारः तम्
  • अमृताम्बोधिम् 
    • अम्भांसि अस्मिन् धीयन्ते इति अम्भोधिः      
    • अमृताम्बोधिम् = अमृतस्य अम्भोधिः अमृताम्भोधिः तम्
  • अमन्यन्तः = मन् ज्ञाने लङ् प्र.पु. बहु.व.  

अलङ्कारः

  • नानाधर्मबलात् एकस्यैव भगवतः बहुधा उल्लेखात् उल्लेखालङ्कारः ।
  • अनपायादि-विशेषणबलेन आदित्यादि-व्यतिरेक-ज्ञापनात् व्यतिरेकालङ्कारः ।

75. श्लोकः

मूलपाठः

अभयोदारहस्ताग्रमनघस्वागतस्मितम् ।
अवेक्ष्य विबुधा देवमलभन्त दृशोः फलम् ॥ ७५ ॥

पदच्छेदः

अभयोदारहस्ताग्रम्, अनघस्वागतस्मितम्, अवेक्ष्य, विबुधाः, देवम्, अलभन्त, दृशोः, फलम् ।

अन्वयरचना

  • अलभन्त
    • के अलभन्त ? विबुधाः
    • विबुधाः किम् अलभन्त ? फलम्
      • कयोः फलम् ? दृशोः
    • किं कृत्वा अलभन्त ? अवेक्ष्य
      • कम् अवेक्ष्य ? देवम्
        • कीदृशं देवम् ? अभयोदारहस्ताग्रम्
        • पुनः कीदृशं देवम् ? अनघस्वागतस्मितम्

अन्वयः

विबुधाः अभयोदारहस्ताग्रम् अनघस्वागतस्मितं देवम् अवेक्ष्य दृशोः फलम् अलभन्त ।

विबुधाः फलम् अलभन्त । विबुधैः फलम् अलभ्यत ।

तात्पर्यम्

अभयहस्तं पापनाशक-कुशलप्रश्नरूपमन्दस्मित-वदनं भगवन्तं दृष्ट्वा ते देवाः नेत्रसत्ताफलम् अन्वभवन् ।

पदार्थः

  • विबुधाः = देवाः
  • अभयोदारहस्ताग्रम् = उदारः = दाता / महान् / ऋज्वाशयः / दक्षिणः / ख्यातः

अभयमुद्रया ख्यातहस्ताग्रः यस्य तादृशम्  

  • अनघस्वागतस्मितम् = दर्शनमात्रेण एव सकलदुरितापहारि

कुशलप्रश्नरूपमन्दस्मितं यस्य तादृशम्  

  • देवम् = भगवन्तम्
  • अवेक्ष्य = दृष्ट्वा
  • दृशोः फलम् = अक्ष्णोः फलम्
  • अलभन्त= प्राप्तवन्तः

विशेषः

  • अनघस्वागतस्मितम् –
    • “कर्तव्येऽतिप्रियालापे स्वागतं कुशलं मतम्” – शब्दार्णवः ।
  • साभिप्राय-स्मितविकसितं चारुबिम्बाधरोष्ठं

दुःखापायप्रणयिनि जने दूरदत्ताभिमुख्यम् ।

कान्तं वक्त्रं कनकतिलकालङ्कृतं रङ्गभर्तुः

स्वान्ते गाढं मम विलगति स्वागतोदारनेत्रम् ॥  

                                  स्वामिवेदान्तदेशिकविरचिते भगवद्ध्यानसोपाने

पदविवरणम्

  • विबुधाः = विशेषेण बुध्यन्ति इति विबुधाः (देवाः)
  • अभयोदारहस्ताग्रम्
    • हस्तस्य अग्रः हस्ताग्रः
    • न भयम् अभयम् ।
    • अभयोदारहस्ताग्रम् = अभयेन (अभयमुद्रया)  उदारः हस्ताग्रः यस्य सः अभयोदारहस्ताग्रः, तम्  
  • अनघस्वागतस्मितम्  
    • अनघं च तत् स्वागतं (कुशलप्रशनः) च अनघस्वागतम्
    • अनघस्वागतस्मितम् = अनघस्वागतेन स्मितं (मन्दहासः) यस्य सः अनघस्वागतस्मितः,तम्    
  • अवेक्ष्य = अव + ईक्ष् दर्शने + ल्यप्
  • दृशोः = शकारान्तः स्त्री. दृश् ष.वि. द्वि.व. दृक् दृशौ दृशः
    • “बहुष्वपि नयनेषु दृशोः इति द्विवचनं जात्याभिप्रायम्” ।
    • ईदृशजातीनां प्रायेण द्वित्वविशिष्टत्वात् ।  
  • अलभन्त = लभ् प्राप्तौ लङ्., प्र.पु., बहु.व.

76. श्लोकः

मूलपाठः

तस्मै विज्ञापयामासुर्विदितार्थाय नाकिनः ।
निहताशेषदैत्याय निदानं स्वागतेः पुनः ॥ ७६ ॥

पदच्छेदः

तस्मै, विज्ञापयामासुः, विदितार्थाय, नाकिनः, निहताशेषदैत्याय, निदानम्, स्वागतेः, पुनः ।

अन्वयरचना

  • विज्ञापयामासुः
    • के विज्ञापयामासुः ? नाकिनः
    • नाकिनः किं विज्ञापयामासुः ? निदानम्
      • कस्याः निदानम् ? स्वागतेः
    • नाकिनः स्वागतेः निदानं कस्मै विज्ञापयामासुः ? तस्मैः
      • कीदृशाय तस्मै ? निहताशेषदैत्याय
      • पुनः कीदृशाय तस्मै ? विदितार्थाय

अन्वयः

नाकिनः निहताशेषदैत्याय विदितार्थाय तस्मै पुनः स्वागतेः निदानं विज्ञापयामासुः ।

तात्पर्यम्

कालनेमिप्रभृतयः ये दैत्याः पूर्वं भगवता निहताः ते एव भूमौ उत्पन्नाः पुनः बाधन्ते इति यन्निवेदयितुं देवाः आगताः तत् स्वतः एव ज्ञातवते सर्वज्ञाय तस्मै भगवते देवाः स्वागमनस्य कारणं पुनः न्यवेदयन् ।

पदार्थः

  • नाकिनः = देवाः
  • निहताशेषदैत्याय = कालनेमिप्रमुखाखिलराक्षसहन्त्रे
  • विदितार्थाय = देवानाम् आगमनकारणं स्वतः एव ज्ञातवते 
  • तस्मै = पुरुषोत्तमाय
  • पुनः स्वागतेः = भूयः अपि स्वागमनस्य
  • निदानम् = कारणम्
  • विज्ञापयामासुः = निवेदितवन्तः

पदविवरणम्

  • नाकिनः = नाकः येषाम् अस्ति इति नाकिनः
  • निहताशेषदैत्याय
    • न शेषाः अशेषाः
    • निहताशेषदैत्याय = निहताः अशेषाः दैत्याः येन सः निहताशेषदैत्यः, तस्मै
  • विदितार्थाय = विदितः अर्थः (प्रयोजनम्) येन सः विदितार्थः, तस्मै । 
  • स्वागतेः = स्वेषाम् आगतिः स्वागतिः तस्याः
  • विज्ञापयामासुः = वि + ज्ञा + णिच् लिट्., प्र.पु., बहु.व.

77. श्लोकः

मूलपाठः

त इमे क्षत्रिया भूत्वा क्षोभयन्ति क्षमामिमाम् ।
तव तेजसि यैर्नाथ दनुजैश्शलभायितम् ॥ ७७ ॥

पदच्छेदः

ते, इमे, क्षत्रियाः, भूत्वा, क्षोभयन्ति, क्षमाम्, इमाम्, तव, तेजसि, यैः, नाथ, दनुजैः, शलभायितम् ।

अन्वयरचना

  • हे नाथः
  • क्षोभयन्ति
    • के क्षोभयन्ति ? यैः दनुजैः शलभायितं, ते
      • दनुजैः कुत्र शलभायितम् ? तेजसि
      • कस्य तेजसि शलभायितम् ? तव
    • ते कां क्षोभयन्ति ? क्षमाम्
      • कीदृशीं क्षमाम् ? इमाम्
    • ते किं कृत्वा क्षमां क्षोभयन्ति ? क्षत्रियाः भूत्वा
      • कीदृशाः क्षत्रियाः? इमे

अन्वयः

हे नाथ ! तव तेजसि यैः दनुजैः शलभायितं ते इमे क्षत्रियाः भूत्वा इमां क्षमां क्षोभयन्ति ।

तात्पर्यम्

हे प्रभो ! ये राक्षसाः पूर्वं भवतः प्रतापाग्नौ शलभाः इव पतित्वा भस्मीभूताः ते एव सम्प्रति भूमौ पुनः लब्धजन्मानः राजानः भूत्वा एनां भूमिं व्यथयन्ति । 

पदार्थः

  • नाथ ! = प्रभो
  • तव तेजसि = भवतः प्रतापाग्नौ
  • यैः दनुजैः = यैः राक्षसैः 
  • शलभायितम् = शलभवदाचरितम् (शलभाः इव दग्धाः)
  • ते इमे = ते राक्षसाः
  • क्षत्रियाः भूत्वा = राजानः भूत्वा
  • इमां क्षमाम् = एतां पृथ्वीम्
  • क्षोभयन्ति = पीडयन्ति ।

पदविवरणम्

  • शलभायितम् = शलभवत् आचरितम् । शलभायते (क्यङ् प्रत्ययः)
  • क्षोभयन्ति = क्षुभ् सञ्चलने (क्षोभते) + णिच् । प्र.पु., बहु.व.

अलङ्कारः

  • शलभः इव आचरितं शलभायितम् इति उपमालङ्कारः ।
  • तेजः प्रतापः एव अग्निः इति अभेदाध्यवसायात् अतिशयोक्तिः ।
  • उभयोः च सङ्करः ।

78. श्लोकः

मूलपाठः

चतुर्णां पुरुषार्थानां प्रसवो यत्समाश्रयात् ।
हव्यकव्यप्रसूरेषा दीर्यते दैत्यभारतः ॥ ७८ ॥

पदच्छेदः

चतुर्णाम्, पुरुषार्थानाम्, प्रसवः, यत्समाश्रयात्, हव्यकव्यप्रसूः, एषा, दीर्यते, दैत्यभारतः ।

अन्वयरचना

  • v (भवति)
  • Ø कः भवति ? प्रसवः
  • Ø केषां प्रसवः ? पुरुषार्थानाम्
  • Ø कीदृशानाम् / कतिसंख्याकानाम् ? चतुर्णाम्
  • Ø पुरुषार्थानां प्रसवः कस्मात् हेतोः भवति ? यत्समाश्रयात्
  • §  दीर्यते (कर्मणि)
  • §  का दीर्यते ? एषा (कर्मपदम्)
  • §  कीदृशी एषा ? हव्यकव्यप्रसूः
  • §  कस्मात् कारणात् ? दैत्यभारात्

अन्वयः

चतुर्णां पुरुषार्थानां यत्समाश्रयात् प्रसवः एषा हव्यकव्यप्रसूः दैत्यभारतः दीर्यते ।

तात्पर्यम्

याम् आश्रित्य पुरुषार्थोत्पत्तिः भवति या च देवार्थं पित्रर्थं च अन्नं प्रसूते सेयम् अधुना राक्षसभारात् तोद्यते । सर्वथा सर्वपुरुषार्थोपयोगिनी इयम् अवश्यं रक्षणीया इति भावः ।

पदार्थः

  • चतुर्णां पुरुषार्थानाम् = धर्मार्थकाममोक्षाणाम्
  • यत्समाश्रयात् = यस्याः आश्रयणात्
  • प्रसवः = उत्पत्तिः
  • एषा = पुरतः वर्तमानाः (भूमिः)
  • हव्यकव्यप्रसूः = देवान्नस्य पित्रन्नस्य च दोग्ध्री 
  • दैत्यभारतः = राक्षसभारात्
  • दीर्यते =  बाध्यते

विशेषः

  • यत्समाश्रयात् चतुर्णां पुरुषार्थानां प्रसवः –

भूमिमाश्रित्य हि यज्ञादयः धर्माः सम्पादनीयाः ।

धर्ममूलौ अर्थकामौ इह परत्र च ।

मोक्षोऽपि विद्याद्वारा (धर्मसापेक्षः) ; ‘विविदिषन्ति यज्ञेन दानेन’ इति श्रुतिवचनम् । अतः पुरुषार्थचतुष्टयस्यापि क्षित्याश्रयणेन एव उत्पत्तिः इति भावः ।  

  • हव्यकव्यप्रसूः

हव्यकव्ये देवपैत्रे अन्ने इति अमरः ।

हूयन्ते प्रीण्यन्ते देवा येन तद् हव्यम् । हूयते प्रक्षिप्यते वा इति ।

कूयते पितृभ्यः इति कव्यम् ।

देवान्नं हव्यं पित्रन्नं कव्यम् उच्यते । 

पदविवरणम्

  • चतुर्णाम् = ‘चतुर्’ शब्दः ष.वि. नित्यबहुवचनम् ।
  • पुरुषार्थानाम् = पुरुषाणाम् अर्थाः पुरुषार्थाः तेषाम् ।
  • यत्समाश्रयात् = यस्याः समाश्रयः यत्समाश्रयः तस्मात् ।
  •  हव्यकव्यप्रसूः = हव्यं च कव्यं च हव्यकव्ये । हव्यकव्ये प्रसूते इति हव्यकव्यप्रसूः ।
  • दैत्यभारतः =  दितेः अपत्यानि पुमांसः दैत्याः । दैत्यानां भारः दैत्यभारः तस्मात् ।
  • दीर्यते = दॄ विदारणे इति धातोः (कर्मणि) यक् प्रत्ययः । प्र.पु., ए.व.

79. श्लोकः

मूलपाठः

जाता निखिलवेदानामुत्तमाङ्गोपधानतः ।
त्वत्पादकमलादेषा त्वदेकाधीनधारणा ॥ ७९ ॥

पदच्छेदः

जाता, निखिलवेदानाम्, उत्तमाङ्गोपधानतः, त्वत्पादकमलात्, एषा, त्वदेकाधीनधारणा ।

अन्वयरचना

  • वर्तते
    • का वर्तते ? एषा
    • कीदृशी एषा ? जाता
    • कस्मात् जाता ? त्वत्पादकमलात्
    • कीदृशात् त्वत्पादकमलात् ? उत्तमाङ्गोपधानतः
    • केषाम् उत्तमाङ्गोपधानतः ? निखिलवेदानाम्
    • कथम्भूता (सती) वर्तते ? त्वदेकाधीनधारणा

अन्वयः

निखिलवेदानाम् उत्तमाङ्गोपधानतः त्वत्पादकमलात् जाता एषा त्वदेकाधीनधारणा (वर्तते)।

तात्पर्यम्

सर्ववेदानां प्रतिपाद्यं तत्त्वम् उपनिषत्सु वर्तते । अतः वेदानाम् उत्तमाङ्गत्वेन उपनिषदः विलसन्ति ।  तासाम् उपनिषदां समाश्रयणाय उपधानभूतं त्वत्पादपद्मम् । तादृशात् त्वत्पादकमलात् उत्पन्नायाः अस्याः भूदेव्याः भरणभारः त्वदायत्तः एव यथा लोके कन्याभरणदायित्वं पित्रायत्तं तथेति भावः ।

पदार्थः

  • निखिलवेदानाम् = चतुर्णां वेदानाम्
  • उत्तमाङ्गोपधानतः  
    • उत्तमाङ्गानाम् = शिरसाम् उपनिषदाम्
    • उपधानतः = प्रतिपाद्यत्वेन समाश्रयणीतया उपधानभूतात्
  • त्वत्पादकमलात् = तव पादपद्मात्
  • जाता एषा = उत्पन्ना इयं भूमिः
  • त्वदेकाधीनधारणा (वर्तते) = त्वदेकायत्तभरणकृत्या ।

पदविवरणम्

  • निखिलवेदानाम्
    • निर्गतं खिलं येभ्यः ते = निखिलाः
    • निखिलवेदानाम् = निखिलाः वेदाः = निखिलवेदाः तेषाम्
  • उत्तमाङ्गोपधानतः
    • उत्तमानि अङ्गानि = उत्तमाङ्गानि
    • उपधीयते आरोप्यते मस्तकम् अत्र इति उपधानम्
    • उत्तमाङ्गानाम् उपधानम्
    • उत्तमाङ्गोपधानम् + अपादाने ‘तसिः
    • `अपादाने चाहीयरुहोः’ – पा.सू. 5.4.45          
  • त्वत्पादकमलात्
    • पादौ कमलम् इव पादकमलम् ।
    • त्वत्पादकमलात् = तव पादकमलम् त्वत्पादकमलम् तस्मात् ।   
  • त्वदेकाधीनधारणा
    • एकस्मिन् एव अधीनम् = एकाधीनम्
    • तव एकाधीनम् = त्वदेकाधीनम्
  • त्वदेकाधीनं धारणं यस्याः सा त्वदेकाधीनधारणा ।

अलङ्कारः

  • निखिलवेदानाम् उत्तमाङ्गोपधानम् इत्यत्र रूपकम् ।
  • त्वत्पादकमलम् इत्यत्र उपमा ।

80. श्लोकः

मूलपाठः

यदि न त्वरते नाथ भारव्यपनये भवान् ।
प्लावयिष्यन्त्युदन्वन्तः पृथिवीं पृथुवीचयः ॥ ८० ॥

पदच्छेदः

यदि, न, त्वरते, नाथ, भारव्यपनये, भवान्, प्लावयिष्यन्ति, उदन्वन्तः, पृथिवीम्, पृथुवीचयः।

अन्वयरचना

  • नाथ !
  • यदि न त्वरते
    • कः ? भवान्
    • कुत्र न त्वरते (चेत्) ? भारव्यपनये
    • (तर्हि) प्लावयिष्यन्ति
      • के प्लावयिष्यन्ति ? उदन्वन्तः
      • कीदृशाः उदन्वन्तः ? पृथुवीचयः
      • उदन्वन्तः कां प्लावयिष्यन्ति ? पृथिवीम्

अन्वयः

(हे) नाथ ! भवान् भारव्यपनये यदि न त्वरते (तर्हि) पृथुवीचयः उदन्वन्तः पृथिवीं प्लावयिष्यन्ति ।

तात्पर्यम्

हे प्रभो ! भारातिशयात् भृशं क्लिश्यमानायाः अस्याः पृथिव्याः भारहरणे त्वमेकः एव क्षमः । तूर्णं अस्याः भारापनोदनं न करोषि चेत् महातरङ्गयुक्ताः जलनिधयः एनाम् अवश्यं मज्जयिष्यन्ति ।

पदार्थः

  • नाथ ! = प्रभो
  • भवान् = त्वम्
  • भारव्यपनये = भूभारावतारणे
  • यदि न त्वरते (तर्हि) =  विलम्बते चेत्
  • पृथुवीचयः उदन्वन्तः = महातरङ्गाः समुद्राः
  • पृथिवीं प्लावयिष्यन्ति = भूमिं मज्जयिष्यन्ति ।

पदविवरणम्

  • भारव्यपनये = भारस्य व्यपनयः भारव्यपनयः तस्मिन् ।
  • त्वरते = त्वर् सम्भ्रमे आ. लट् प्र. पु. एकवचनम् 
  • पृथुवीचयः = पृथवः वीचयः येषां ते पृथुवीचयः
  • उदन्वन्तः = उदकानि एषां सन्ति इति उदन्वन्तः
  • पृथिवी = प्रथते विस्तारं याति इति पृथिवी प्लावयिष्यन्ति= प्लु गतौ प्लवन्ते + णिच् प्लावयन्ति लृट् प्लावयिष्यन्ति, प्र.पु., बहु.व.  

81. श्लोकः

मूलपाठः

करुणाधीनचित्तेन कर्णधारवती त्वया ।
मावसीदतु पृथ्वीयं महती नौरिवाम्भसि ॥ ८१

पदच्छेदः

करुणाधीनचित्तेन, कर्णधारवती, त्वया, मा, अवसीदतु, पृथ्वी, इयम्, महती, नौः, इव, अम्भसि ।

अन्वयरचना

  • मा अवसीदतु
    • का मा अवसीदतु  ? इयं पृथ्वी
      • कीदृशी पृथ्वी ? कर्णधारवती
        • केन कर्णधारवती ? त्वया
          • कीदृशेन त्वया ? करुणाधीनचित्तेन
    • कथम् इव मा अवसीदतु ? अम्भसि महती नौः इव

अन्वयः

करुणाधीनचित्तेन त्वया कर्णधारवती इयं पृथ्वी अम्भसि महती नौः इव मा अवसीदतु ।

पृथ्वी मा अवसीदतु । पृथ्व्या मा अवसद्यताम् ।

तात्पर्यम्

नाविकवती नौका यथा सागरोदके न निमज्जति तथा भवदधीना इयं भूमिः समुद्रजले मा निमज्जतु । नाविकसदृशे त्वयि जाग्रति सति भूमेः अम्भसि मज्जनं न युक्तम् इति भावः । 

पदार्थः

  • करुणाधीनचित्तेन = दयापरतन्त्रहृदयेन
  • त्वया = भवता
  • कर्णधारवती = नाविकवती
  • इयं पृथ्वी = एषा भूमिः
  • अम्भसि महती नौः इव = जले महानौका इव
  • मा अवसीदतु = अवसन्ना मा भूत् ।  मा निमज्जतु  

पदविवरणम्

  • करुणाधीनचित्तेन
    • करुणायाः अधीनम् – करुणाधीनम्
    • करुणाधीनचित्तेन = करुणाधीनं चित्तं यस्य सः – करुणाधीनचित्तः, तेन
  • कर्णधारवती
    • कर्णधारस्तु नाविकः इत्यमरः ।
    • कर्णधारवती = कर्णधारः अस्याः (नावः) अस्ति इति ।  
  • मा अवसीदतु = अव + सद् (विशरण-गत्यवसादनेषु), लोट्., परस्मै., उ.पु., ए.व. । सीदति, निषीदति, अवसीदति, प्रसीदति ।

अलङ्कारः

  • परिणामालङ्कारः

भगवति कर्णधारत्वारोपस्य पृथिव्यवसाद-परिहरणरूप-प्रस्तुतकार्योपयोगात् परिणामालङ्कारः ।

  •  नौरिव इति उपमालङ्कारः ।

82. श्लोकः

मूलपाठः

रशनारत्नरूपेण पयोधिरशना त्वया ।
प्रशान्तदनुजक्लेशा परिष्करणमर्हति ॥ ८२ ॥

पदच्छेदः

रशनारत्नरूपेण, पयोधिरशना, त्वया, प्रशान्तदनुजक्लेशा, परिष्करणम्, अर्हति ।

अन्वयरचना

  • अर्हति
    • का अर्हति ? पयोधिरशना
    • पयोधिरशना किम् अर्हति ? परिष्करणम्
    • केन परिष्करणम् अर्हति ? त्वया
    • कथम्भूता सती परिष्करणम् अर्हति ? प्रशान्त-दनुज-क्लेशा (सती)
      • कीदृशेन त्वया ? रशनारत्नरूपेण

अन्वयः

पयोधिरशना रशनारत्नरूपेण त्वया प्रशान्तदनुजक्लेशा (सती) परिष्करणम् अर्हति ।

तात्पर्यम्

इयं पृथ्वी सागरमेखला । जलधिशायी भवान् अस्याः मेखलायाः मध्यनीलमणिरिव शेते ।  किन्तु इयं पृथ्वी सम्प्रति दैत्यपीडाक्रान्ता सती क्लेशम् अनुभवति । अतः दैत्योपसंहारेण अस्याः क्लेशमपनीय पश्चात् प्रसाधनरूपेण शयनम् युक्तम् इति भावः ।

पदार्थः

  • पयोधिरशना = सागरमेखला (पृथ्वी)
  • रशनारत्नरूपेण = समुद्रशायित्वेन रशनारत्नवद् भासमानेन
  • त्वया = भवता
  • प्रशान्तदनुजक्लेशा (सती) = उपशमित-राक्षसबाधा सती
  • परिष्करणम् अर्हति = प्रसाधनं प्राप्तुं योग्या भवति ।  

पदविवरणम्

  • पयोधिरशना
    • पयांसि अस्मिन् धीयन्ते इति पयोधिः ।
    • पयोधिरशना = पयोधिः रशना यस्याः सा
  • रशनारत्नरूपेण
    • रशनायाः रत्नं – रशनारत्नम्
    • रशनारत्नरूपेण = रशनारत्नस्य रूपमिव रूपं यस्य सः – रशनारत्नरूपः तेन / अथवा रशनारत्नेन रूपं (तुल्यम्) – रशनारत्नरूपं, तेन
  • प्रशान्तदनुजक्लेशा
    • दनुजानां क्लेशाः दनुजक्लेशाः ।
    • प्रशान्तदनुजक्लेशा  = प्रशान्ताः दनुजक्लेशाः यस्याः सा ।  
  • अर्हति = अर्ह् पूजायाम् परस्मै., लट्., प्र.पु., ए.व.

अलङ्कारः

  • उत्प्रेक्षालङ्कारः – रशनारत्नरूपेण इत्यत्र रूपशब्दस्य सादृश्यार्थः क्रियते चेत् उत्प्रेक्षा ।
  • परिणामालङ्कारः  –  रूपशब्दस्य स्वरूपम् इति अर्थः यदि क्रियते तर्हि भगवति रशनारत्नत्वारोपः प्रसाधनक्रियोपयोगी इति परिणामालङ्कारः ।

83. श्लोकः

मूलपाठः

कंसप्रभृतिभिस्सेयं शल्यैरिव समुद्धृतैः ।
चिरं भवतु ते पृथ्वी शेषमूर्तेः शिखण्डकः ॥ ८३ ॥

पदच्छेदः

कंसप्रभृतिभिः, सा, इयम्, शल्यैः, इव, समुद्धृतैः, चिरम्, भवतु, ते, पृथ्वी, शेषमूर्तेः, शिखण्डकः ।

अन्वयरचना

  • भवतु
    • का भवतु ? सा इयं पृथ्वी
    • कथम्भूतः भवतु ? शिखण्डकः
      • कस्य शिखण्डकः ? ते
      • कीदृशस्य ते ?  शेषमूर्तेः
    • कदा भवतु ? चिरम्
    • केन (हेतुना) शिखण्डकः भवतु ? समुद्धृतैः कंसादिभिः शल्यैः

अन्वयः

सा इयं पृथ्वी शल्यैः इव समुद्धृतैः कंसप्रभृतिभिः चिरं ते शेषमूर्तेः शिखण्डकः भवतु ।

तात्पर्यम्

इयं क्लेशम् अनुभवन्ती पृथ्वी बहिर्निष्कासित-शल्यतुल्य-कंसादिका अतः लाघवं प्राप्ता सती चिरं आदिशेषस्य काकपक्षवत् (शिरोभूषणवत्) सुवहा भवतु ।

पदार्थः

  • सा इयं पृथ्वी = तथा क्लेशम् अनुभवन्ती पृथ्वी एषा
  • शल्यैः इव = प्रविष्टशरैः इव
  • समुद्धृतैः कंसप्रभृतिभिः = निष्कासितैः कंसादिभिः
  • चिरम् = बहुकालम्
  • ते = तव
  • शेषमूर्तेः  = शेषनागस्य
  • शिखण्डकः = काकपक्षः (शिरोभूषणम्)
  • भवतु = अस्तु  ।

विशेषः

  •  समुद्धृतैः कंसप्रभृतिभिः – (विशिष्टहेतुत्वम्) –
  •  कंसादिसमुद्धरणस्य एव सुवहतानिमित्तत्वम् ।

–   कंसादि-दैत्यनिरसनम् एव पृथिव्याः शेषस्य शिखण्डकरूपेण परिवर्तनस्य हेतुत्वम् इति  – उपलक्षणतृतीया ।

पदविवरणम्

  • समुद्धृतैः  = सम् + उत् + हृ + क्त अकारान्तः पुं समुद्धृत शब्दः तृ. बहु.व. ।
  • कंसप्रभृतिभिः = कंसः प्रभृतिः येषां ते कंसप्रभृतयः तैः ।   
  • शेषमूर्तेः  = शेषः इव मूर्तिः यस्य सः शेषमूर्तिः तस्य ।
  • शिखण्डकः = शिरसि खण्डते इति । काकपक्षः ।

अलङ्कारः

  •  शल्यैः इव इत्यत्र उपमालङ्कारः
  • पृथ्वी ते शिखण्डकः भवतु इत्यत्र  रूपकालङ्कारः –
  • अनयोः संसृष्टिः

84. श्लोकः

मूलपाठः

प्रबोधसुभगैः स्मेरैः प्रसन्नैः शीतलैश्च नः ।
कटाक्षैः प्लावय क्षिप्रं कृपैकोदन्वदूर्मिभिः ॥ ८४ ॥

पदच्छेदः

प्रबोधसुभगैः, स्मेरैः, प्रसन्नैः, शीतलैः, च, नः, कटाक्षैः, प्लावय, क्षिप्रम्, कृपैकोदन्वदूर्मिभिः ।

अन्वयरचना

  • प्लावय
  • कः ? त्वम्
    • कान् प्लावय ? नः
    • कथं प्लावय ?  क्षिप्रम्
    • कैः प्लावय ?  कटाक्षैः
      • कीदृशैः कटाक्षैः ? कृपैकोदन्वदूर्मिभिः
      • पुनः कीदृशैः कटाक्षैः ? प्रबोधसुभगैः
      • पुनः कीदृशैः कटाक्षैः ? प्रसन्नैः
      • पुनः कीदृशैः कटाक्षैः ? स्मेरैः
      • पुनः कीदृशैः कटाक्षैः ? शीतलैः

अन्वयः

प्रबोधसुभगैः प्रसन्नैः स्मेरैः शीतलैः च  कृपैकोदन्वदूर्मिभिः कटाक्षैः नः क्षिप्रं प्लावय ।

तात्पर्यम्

भवतापहरं मनोहरं प्रसन्नं हर्षविकासयुक्तं दयासमुद्रतरङ्गरूपं भवदपाङ्गवीक्षणम् अस्मासु प्रसरतु ।

पदार्थः

  • प्रबोधसुभगैः = योगनिद्रापगमेन कान्तैः ।
  • प्रसन्नैः = भ्रूविलासादिभिः
  • स्मेरैः = हर्षविकासादिभिः
  • शीतलैः च = भक्तजनतापहरैः च
  • कृपैकोदन्वदूर्मिभिः = दयैकसमुद्रतरङ्गरूपैः
  • कटाक्षैः = अपाङ्गवीक्षणैः
  • नः = अस्मान्
  • क्षिप्रं प्लावय = शीघ्रं सेचय ।

पदविवरणम्

  • प्रबोधसुभगैः = प्रबोधेन सुभगाः प्रबोधसुभगाः, तैः ।
  • प्रसन्नैः = तत् प्रसन्नं भवेत् सभ्रूविलासं विस्मितं च यत् इति लक्षणम् ।
  • कृपैकोदन्वदूर्मिभिः = कृपा एव एकः उदन्वान् । कृपैकोदन्वान् । कृपैकोदन्वतः ऊर्मयः = कृपैकोदन्वदूर्मयः तैः
  • कटाक्षैः = कटौ अतिशयितौ अक्षिणी यत्र / अथवा  कटं गण्डम् अक्षति व्याप्नोति । अक्षु व्याप्तौ । 
  • प्लावय =  प्लु ‘गतौ’ + णिच् म.पु., ए.व.

अलङ्कारः

रूपकालङ्कारः

85. श्लोकः

मूलपाठः

त्वयि न्यस्तभराणां नस्त्वमेतां क्षन्तुमर्हसि ।
विदिताशेषवेद्यस्य विज्ञापनविडम्बनाम् ॥ ८५ ॥

पदच्छेदः

त्वयि, न्यस्तभराणाम्, नः, त्वम्, एताम्, क्षन्तुम्, अर्हसि, विदिताशेषवेद्यस्य, विज्ञापनविडम्बनाम् ।

अन्वयरचना

  • त्वं अर्हसि
    • त्वं किं कर्तुम् अर्हसि ? क्षन्तुम्
    • कां क्षन्तुमर्हसि ? विज्ञापनविडम्बनाम् एताम्
      • कस्य (सविधे) विज्ञापनविडम्बनाम् ? विदिताशेषवेद्यस्य (तव सविधे)
        • केषां विज्ञापनविडम्बनाम् ? नः
        • कीदृशानां नः ? न्यस्तभराणाम्
          • कस्मिन् न्यस्तभराणाम् ? त्वयि

अन्वयः

त्वयि न्यस्तभराणां नः विदिताशेषवेद्यस्य (तव) विज्ञापनविडम्बनाम् एतां त्वं क्षन्तुम् अर्हसि ।

तात्पर्यम्

सर्वविदः भवतः सविधे एव एवंविधम् अस्मदागमनकारणं यत् वयं निवेदयामः, भवच्छरणागतानाम् अस्माकं  तद्  अनुचितकृत्यं क्षाम्यत्विति प्रार्थयामहे ।

पदार्थः

  • त्वयि = भवति
  • न्यस्तभराणाम् = शरणागतिम् अनुष्ठितवताम्
  • नः = अस्माकम्
  • विदिताशेषवेद्यस्य (तव सविधे) = सर्वज्ञस्य तव सविधे
  • विज्ञापनविडम्बनाम् एताम् = एतद्विज्ञापनरूपम् अनुचितकृत्यम्
  • त्वं क्षन्तुम् अर्हसि = भवान् सोढुम् अर्हति ।

पदविवरणम्

  • न्यस्तभराणाम् = न्यस्तः भरः यैः ते न्यस्तभराः तेषाम् ।
  • विदिताशेषवेद्यस्य  
    • वेत्तुं योग्यम् = वेद्यम् ।
    • अशेषं च तत् वेद्यं च = अशेषवेद्यम् ।
    • विदिताशेषवेद्यस्य  = विदितम् अशेषवेद्यं येन सः = विदिताशेषवेद्यः, तस्य ।
  • विज्ञापनविडम्बनाम् 
    • विशेषेण ज्ञापनम् = विज्ञापनम्
    • विज्ञापनविडम्बनाम्  = विज्ञापनस्य विडम्बना विज्ञापनविडम्बना ताम्
  • क्षन्तुम्  = क्षमूँ सहने  + तुमुन् ।
  • अर्हसि = अर्ह् पूजायाम् । परस्मैपदी लट्., म.पु., ए.व.

86. श्लोकः

मूलपाठः

इत्थं वदति देवानां समाजे वेधसा सह ।
ववन्दे पृथिवी देवं विनतत्राणदीक्षितम् ॥ ८६ ॥

पदच्छेदः

इत्थम्, वदति, देवानाम्, समाजे, वेधसा, सह, ववन्दे, पृथिवी, देवम्, विनतत्राणदीक्षितम् ।

अन्वयरचना

  • ववन्दे
    • का ववन्दे ? पृथिवी
    • कं ववन्दे ? देवम्
      • कीदृशं देवम् ? विनतत्राणदीक्षितम्
    • कदा ववन्दे ? समाजे वदति (सति)
      • केषां समाजः ? देवानाम्
    • केन सह (वर्तमानानां देवानाम्) ?  वेधसा सह
      • कथं वदति सति ? इत्थम्

अन्वयः

देवानां समाजे वेधसा सह इत्थं वदति (सति) विनतत्राणदीक्षितं देवं पृथिवी ववन्दे ।

तात्पर्यम्

ब्रह्मणा सह उपस्थिते देववृन्दे एवं कथयति सति भूमिः आश्रितरक्षणव्रतं भगवन्तम् अवन्दत ।

पदार्थः

  • देवानां समाजे = सुरवृन्दे
  • वेधसा सह = ब्रह्मणा सह
  • इत्थं वदति (सति) = पूर्वोक्तप्रकारेण कथयति सति
  • विनतत्राणदीक्षितम् = श्रितजनपरिपालने कृतव्रतम्
  • देवम् = पुरुषोत्तमम्
  • पृथिवी ववन्दे = भूमिः नमस्कृतवती ।

पदविवरणम्

  •  समाजः = संवीयते अत्र इति समाजः । सङ्घः, संसत्, सभा, सदः ।
  • वेधसा = सकारान्तः पुं. वेधस्-शब्दः, तृ.वि.  ए.व.
  • इत्थम् = इदं + थमु । (प्रकारवचने) । तद्धितप्रत्ययः ।   
  • वदति =  वद् वदति + शतृ प्रत्ययान्तं पदम् । तकारान्तः पुं. वदत् शब्दः सप्तमी ए.व. 
  • विनतत्राणदीक्षितम्
    • विनतानां त्राणम् विनतत्राणम् ।
    • विनतत्राणदीक्षितम् = विनतत्राणे दीक्षितः विनतत्राणदीक्षितः तम् ।  
  • ववन्दे = वन्द् अभिवादनस्तुत्योः । आत्मनेपदी, लिट्., प्र.पु., ए.व. ।

87. श्लोकः

मूलपाठः

तनुमध्या विशालाक्षी तन्वी पीनपयोधरा ।
मायेव महती तस्य वनितारत्नरूपिणी ॥ ८७ ॥

पदच्छेदः

तनुमध्या, विशालाक्षी, तन्वी, पीनपयोधरा, माया, इव, महती, तस्य, वनितारत्नरूपिणी ।

अन्वयरचना

  • सा ववन्दे (पूर्वतनश्लोकेन सम्बन्धः)
    • कीदृशी सा ? (स्थिता सा)
    • पुनः कीदृशी सा ? तन्वी
    • पुनः कीदृशी सा ? तनुमध्या
    • पुनः कीदृशी सा ? विशालाक्षी
    • पुनः कीदृशी सा ? पीनपयोधरा
    • पुनः कीदृशी सा ? वनितारत्नरूपिणी
    • कथमिव (स्थिता) ? महती माया इव
      • कस्य माया ? तस्य

अन्वयः

तन्वी तनुमध्या विशालाक्षी पीनपयोधरा वनितारत्नरूपिणी तस्य महती माया इव (स्थिता ववन्दे) ।

तात्पर्यम्

कृशाङ्गी तनूदरयुक्ता दीर्घनयना पीवरस्तनी नारीषूत्तमा सा भूमिः भगवतः मायाशक्तेः मूर्तरूपा इव स्थिता तम् अवन्दत ।

पदार्थः

  • तन्वी = कृशाङ्गी
  • तनुमध्या = मध्यभागे ततोऽपि तनीयसी
  • विशालाक्षी = दीर्घलोचना
  • पीनपयोधरा = पीवरस्तनी
  • वनितारत्नरूपिणी = उत्तमवनिता-शरीरमास्थिता 
  • तस्य महती माया इव = विष्णोः मूर्ता महामायाशक्तिः इव    
  • (स्थिता ववन्दे) ।

पदविवरणम्

  • तन्वी = कृशा । तनुः / तनूः स्त्री – शरीरम् । तनुः / तन्वी / तनु – अल्प/कृश
  • तनुमध्या = तनु मध्यं यस्याः सा 
  • विशालाक्षी = विशाले अक्षिणी यस्याः सा
  • पीनपयोधरा
    • पयांसि धरतः इति पयोधरौ ।
    • पीनपयोधरा =  पीनौ पयोधरौ यस्याः सा
  • वनितारत्नरूपिणी
    • वनिता रत्नम् इव ।
    • वनितारत्नस्य रूपम् वनितारत्नरूपम् ।
    • वनितारत्नरूपिणी = वनितारत्नरूपम् अस्याः अस्ति इति वनितारत्नरूपिणी ।

88. श्लोकः

मूलपाठः

आबद्धमण्डलैर्भृङ्गैरलकामोदमोहितैः ।
अयत्नलब्धां बिभ्राणा मायूरच्छत्रसम्पदम् ॥ ८८ ॥

पदच्छेदः

आबद्धमण्डलैः, भृङ्गैः, अलकामोदमोहितैः, अयत्नलब्धाम्, बिभ्राणा, मायूरच्छत्रसम्पदम् ।

अन्वयरचना

  • ववन्दे
  • सा तं ववन्दे (पूर्वश्लोकेन (86तमेन) सम्बन्धः)
    • कीदृशी सा ववन्दे ?  बिभ्राणा
      • कां बिभ्राणा ? मायूरच्छत्रसम्पदम्
      • कीदृशीं मायूरच्छत्रसम्पदम् ? अयत्नलब्धाम्
    • कैः लब्धाम् ? भृङ्गैः
      • कीदृशैः भृङ्गैः ? अलकामोदमोहितैः
      • पुनः कीदृशैः भृङ्गैः ? आबद्धमण्डलैः

अन्वयः

अलकामोदमोहितैः आबद्धमण्डलैः भृङ्गैः अयत्नलब्धां मायूरच्छत्रसम्पदम् बिभ्राणा (सा ववन्दे) ।

तात्पर्यम्

कुटिलकेशपाश-सौरभाकृष्टेन भ्रमरवृन्देन शिरसः उपरि भ्रममाणेन अनायासप्राप्तां मायूरातपत्र-शोभाम् आवहन्ती भूमिः भगवन्तं ववन्दे ।

पदार्थः

  • अलकामोदमोहितैः = कुन्तल-सौरभेण आकृष्टैः
  • आबद्धमण्डलैः = उपरि मण्डलं बद्ध्वा भ्रमद्भिः
  • भृङ्गैः = भ्रमरैः
  • अयत्नलब्धाम् = प्रयत्नं विना प्राप्ताम्
  • मायूरच्छत्रसम्पदम् = मयूरपत्रैः विरचिताम् आतपत्रश्रियम्
  • बिभ्राणा (सा ववन्दे) । धारयन्ती

विशेषः

  • मायूरच्छत्रम् = राजमहिषीणाम् उचितं मायूरच्छत्रधारणम् ।
  • मायूरच्छत्रसम्पदम् = शोभार्थेऽपि प्रयुज्यन्ते लक्ष्मीश्रीकान्तिसम्पदः ।

पदविवरणम्

  • अलकामोदमोहितैः
    • अलकानाम् आमोदः अलकामोदः ।
    • अलकामोदेन मोहिताः अलकामोदमोहिताः तैः ।
  • आबद्धमण्डलैः = आबद्धं मण्डलं यैः ते आबद्धमण्डलाः तैः
  • अयत्नलब्धाम्
    • यत्नेन लब्धा यत्नलब्धा ।
    • न यत्नलब्धा अयत्नलब्धा ताम्
  • मायूरच्छत्रसम्पदम्
    • मयूरस्य इमे मायूराः ।
    • मायूराणां छत्रम् = मायूरच्छत्रम् ।
    • मायूरच्छत्रस्य सम्पत् = मायूरच्छत्रसम्पत् ताम् ।
  • बिभ्राणा = डुभृञ् धारणपोषणयोः उभयपदी बिभर्ति / बिभृते । शानजान्तम् पदम् । आकारान्तः स्त्री. बिभ्राणा शब्दः प्र.वि, ए.व.

अलङ्कारः

  • व्यधिकरणपरिणामालङ्कारः  

89. श्लोकः

मूलपाठः

प्रियसन्दर्शनानन्दजनितैरश्रुविन्दुभिः ।
न्यस्तमौक्तिकनैपथ्यैः परिष्कृतपयोधरा ॥ ८९ ॥

पदच्छेदः

प्रियसन्दर्शनानन्दजनितैः, अश्रुविन्दुभिः, न्यस्तमौक्तिकनैपथ्यैः, परिष्कृतपयोधरा ।

अन्वयरचना

  • (सा ववन्दे)
    • कीदृशी सा ?  परिष्कृतपयोधरा
      • कैः परिष्कृतपयोधरा ? न्यस्तमौक्तिकनैपथ्यैः
        • कैः न्यस्तमौक्तिकनैपथ्यैः (करणम्) ? अश्रुबिन्दुभिः
        • कैः अश्रुविन्दुभिः (हेतुः) ? प्रियसन्दर्शनानन्दजनितैः

अन्वयः

प्रियसन्दर्शनानन्दजनितैः न्यस्तमौक्तिकनैपथ्यैः अश्रुविन्दुभिः परिष्कृतपयोधरा (सा ववन्दे) ।

तात्पर्यम्

भर्तुः दर्शनेन आह्लादिता भूदेवी अधर्मिजन्यक्लेशं क्षणं यावत् विस्मृत्य आनन्दबाष्पाकुलनयना सञ्जाता । तदा अश्रुबिन्दवः एव तस्याः पयोधरगत-मौक्तिकमाल्य-रूपतां प्राप्नुवन् । इत्थं शोभमाना पृथ्वी भगवन्तं ववन्दे ।                                                                                                                                                                                                                                                                                   

पदार्थः

  • प्रियसन्दर्शनानन्दजनितैः = भर्तुः दर्शनसन्तोषेण समुत्पन्नैः
  • न्यस्तमौक्तिकनैपथ्यैः = निवेशित-मौक्तिकाभरणैः
  • अश्रुविन्दुभिः = बाष्पवारिकणैः
  • परिष्कृतपयोधरा = अलङ्कृतपयोधरा
  • (सा ववन्दे) ।

पदविवरणम्

  • प्रियसन्दर्शनानन्दजनितैः =
    • प्रियस्य सन्दर्शनं प्रियसन्दर्शनम् ।
    • प्रियसन्दर्शनस्य आनन्दः प्रियसन्दर्शनानन्दः
    • प्रियसन्दर्शनानन्दात् जनिताः प्रियसन्दर्शनानन्दजनिताः तैः ।
  • न्यस्तमौक्तिकनैपथ्यैः =
    • मौक्तिकानां नैपथ्यानि मौक्तिकनैपथ्यानि ।
    • न्यस्तानि मौक्तिकनैपथ्यानि न्यस्तमौक्तिकनैपथ्यानि तैः ।
  • अश्रुविन्दुभिः = अश्रूणां बिन्दवः अश्रुबिन्दवः तैः ।
  • परिष्कृतपयोधरा = परिष्कृतौ पयोधरौ यस्याः सा

अलङ्कारः

  • अतिशयोक्त्यालङ्कारः  

90. श्लोकः

मूलपाठः

प्रस्फुरन्तं प्रियस्येव परिरम्भाभिलाषिणम् ।
दक्षिणादितरं बाहुं दक्षिणा बह्वमन्यत ॥ ९० ॥

पदच्छेदः

प्रस्फुरन्तम्, प्रियस्य, इव, परिरम्भाभिलाषिणम्, दक्षिणात्, इतरम्, बाहुम्, दक्षिणा, बहु, अमन्यत ।

अन्वयरचना

  • बहु अमन्यत
    • का बहु अमन्यत ? दक्षिणा
    • कं बहु अमन्यत ?  प्रस्फुरन्तं दक्षिणादितरं बाहुम्
      • कथमिव (स्थितं बाहुम्) ? परिरम्भाभिलाषिणम् इव (स्थितम्)
        • कस्य परिरम्भाभिलाषिणम् ? प्रियस्य

अन्वयः

दक्षिणा प्रस्फुरन्तं प्रियस्य परिरम्भाभिलाषिणम् इव (स्थितं) दक्षिणात् तरं बाहुं बहु अमन्यत ।

तात्पर्यम्

पतिं वन्दमानायाः भूदेव्याः वामबाहुः प्रियालिङ्गनाभिलाषी इव यत् अस्पन्दत तद् देवी शुभसूचकतया प्राशस्त्यात् बहुमेने ।

पदार्थः

  • दक्षिणा = प्रवीणा
  • प्रस्फुरन्तम् = स्पन्दमानम्
  • प्रियस्य परिरम्भाभिलाषिणम् इव (स्थितम्) = पत्युः आश्लेषम् अभिलषन्तम् इव स्थितम्
  • दक्षिणादितरं बाहुम् = वामबाहुम्
  • बहु अमन्यत = शुभसूचकतया प्रशस्तं भावयति स्म ।

विशेषः

  • वामभागश्च नारीणां श्रेष्ठः पुंसां तु दक्षिणः ।

दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च ॥ इति

पदविवरणम्           

  • प्रस्फुरन्तम् = तकारान्तः पुं प्रस्फुरत् शब्दः द्वि.वि. ए.व.
  • परिरम्भाभिलाषिणम् = अभिलाषः अस्य अस्ति इति अभिलाषी । परिरम्भस्य अभिलाषी परिरम्भाभिलाषी, तम्

अलङ्कारः

  • उत्प्रेक्षालङ्कारः

91. श्लोकः

मूलपाठः

विपदञ्च जगादैषा विपञ्चीमधुरस्वना ।
विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ॥ ९१ ॥

पदच्छेदः

विपदम्, च, जगाद, एषा, विपञ्चीमधुरस्वना, विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा ।

अन्वयरचना

  • जगाद च
    • का जगाद ?  एषा (पृथिवी)
    •  कीदृशी एषा ? विपञ्चीमधुरस्वना
    • कां जगाद  ?  विपदम्
    • कथं भूता सती जगाद ? विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा

अन्वयः

विपञ्चीमधुरस्वना एषा विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा विपदं जगाद च ।

एषा विपदं जगाद ।

एतया विपत् जज्ञे ।

तात्पर्यम्

मधुरस्वना पृथ्वी लज्जया स्मयमाना सती भगवन्तम् वन्दमाना एव असुराक्रमण-जनितं क्लेशम् अपि अवदत् ।

पदार्थः

  • विपञ्चीमधुरस्वना = वीणा इव हृद्यस्वना
  • एषा = पृथिवी
  • विलक्षस्मित-सम्भिन्नमौक्तिकाधरविद्रुमा
    • विलक्षस्मितेन = लज्जान्वितस्मितेन
    • सम्भिन्नमौक्तिकः = मुक्तावलिः लग्ना यस्मिन् (विद्रुमे) तादृशः 
    • (दन्तपङ्क्तिः – मुक्तावलिः, अधरः – विद्रुमः)
    • अधरः एव विद्रुमः यस्याः सा = अधरविद्रुमा
    • विलक्षस्मित-सम्भिन्नमौक्तिकाधरविद्रुमा = लज्जान्वितस्मयकारणेन मौक्तिकदन्तपङ्क्त्या लग्नः अधरविद्रुमः यस्याः, तादृशी
  • विपदम् = असुर-कृत्यम्
  • जगाद च = अवदच्च ।

विशेषः

  • विलक्षस्मितम् – विस्मयान्वितस्मितम् / लज्जान्वितस्मितम् ।

“विलक्षो विस्मयान्वितः” इत्यमरः ।

“आत्मनः स्खलिते सम्यक् ज्ञातेऽन्यैर्यस्य जायते

अपत्रपातिमहती स विलक्ष इति स्मृतः ॥”

पदविवरणम्

  • विपञ्चीमधुरस्वना
    • मधुरश्च सः स्वनश्च  = मधुरस्वनः ।
    • विपञ्च्याः मधुरस्वनः इव मधुरस्वनः यस्याः सा ।
  • विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा
    • विलक्षं च तत् स्मितं च = विलक्षस्मितम् ।
    • सम्भिन्नः मौक्तिकः यस्मिन् सः = सम्भिन्नमौक्तिकः
    • अधरः एव विद्रुमः = अधरविद्रुमः
    • सम्भिन्नमौक्तिकः च असौ अधरविद्रुमः च = सम्भिन्नमौक्तिकाधरविद्रुमः
    • विलक्षस्मितसम्भिन्नमौक्तिकाधरविद्रुमा = विलक्षस्मितेन सम्भिन्नमौक्तिकाधरविद्रुमः यस्याः सा ।

अलङ्कारः

  • विपञ्चीमधुरस्वना इत्यत्र उपमालङ्कारः ।
  • स्मितस्य मौक्तिकत्वेन अधरस्य विद्रुमत्वेन च रूपणात् रूपकालङ्कारः ।
  • अनयोः संसृष्टिः ।

92. श्लोकः

मूलपाठः

अथ तान्भव्यया वाचा भगवान्प्रत्यभाषत  ।
प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया ॥ ९२ ॥

पदच्छेदः

अथ, तान्, भव्यया, वाचा, भगवान्, प्रत्यभाषत, प्रतिश्रुत्प्राप्तनिर्ह्राद-पाञ्चजन्याभिनन्द्यया ।

अन्वयरचना

  • अथ प्रत्यभाषत
    • कः प्रत्यभाषत ? भगवान्
    • कान् प्रत्यभाषत ? तान्
    • कया प्रत्यभाषत ? वाचा
      • कीदृश्या वाचा ? भव्यया
      • पुनः कीदृश्या वाचा ? प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया

अन्वयः

अथ भगवान् भव्यया प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया वाचा तान् प्रत्यभाषत ।

भगवान् तान् प्रत्यभाषत ।

भगवता ते प्रत्यभाष्यन्त ।

तात्पर्यम्

देवैः भूदेव्या च निवेदितं श्रुत्वा भगवान् गम्भीरस्वरेण शुभवाण्या तान् प्रत्यब्रवीत् । स च शब्दः भगवच्छङ्खे प्रतिध्वनिम् उदपादयत् ।  अतः स ध्वनिः पाञ्चजन्यकृतं भगवद्वाक्याभिनन्दनवत् आसीत् ।

पदार्थः

  • अथ = धरणीवचनानन्तरम्
  • भगवान्  = विष्णुः
  • भव्यया =   योग्यया / गम्भीरया                                 
  • प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया = प्रतिध्वनिना लब्धघोषेण पाञ्चजन्येन अभिनन्द्यमाना इव स्थिता (वाक्), तादृश्या
  • वाचा = वाण्या
  • तान् = देवान्
  • प्रत्यभाषत= प्रत्यवदत् ।

पदविवरणम्

  • प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्याभिनन्द्यया
    • प्राप्तः निर्ह्रादः येन सः = प्राप्तनिर्ह्रादः ।
    • प्रतिश्रुता प्राप्तनिर्ह्रादः = प्रतिश्रुत्प्राप्तनिर्ह्रादः ।
    • प्रतिश्रुत्प्राप्तनिर्ह्रादः च असौ पाञ्चजन्यः च = प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्यः ।
    • अभिनन्दितुं योग्या = अभिनन्द्या ।
    • प्रतिश्रुत्प्राप्तनिर्ह्रादपाञ्चजन्येन अभिनन्द्या (वाक्), तया ।

93. श्लोकः

मूलपाठः

मा भैषुरसुरानीकाद्भवन्तो मदुपाश्रयाः ।
मदाज्ञामनवज्ञातुः परिभूत्या न भूयते ॥ ९३ ॥

पदच्छेदः

मा, भैषुः, असुरानीकात्, भवन्तः, मदुपाश्रयाः, मदाज्ञाम्, अनवज्ञातुः, परिभूत्या, न, भूयते ।

अन्वयरचना

  • मा भैषुः
    • के मा भैषुः ? भवन्तः
      • कीदृशाः भवन्तः ? मदुपाश्रयाः
    • कस्मात् मा भैषुः ? असुरानीकात्
  •  न भूयते
    • कया न भूयते ? परिभूत्या
      • कस्य परिभूत्या न भूयते ? अनवज्ञातुः
        • काम् अनवज्ञातुः ? मदाज्ञाम्

अन्वयः

मदुपाश्रयाः भवन्तः असुरानीकात् मा भैषुः । मदाज्ञाम् अनवज्ञातुः परिभूत्या न भूयते ।

 तात्पर्यम्

मयि शरणागतानां भवतां दैत्यभीतिः मास्तु । यः मम वचनम् अनुवर्तते न तु उल्लङ्घते तस्य दुर्गतिः नैव भवति ।

पदार्थः

  • मदुपाश्रयाः भवन्तः = मयि शरणागताः यूयम्
  • असुरानीकात् = असुरसैन्यात्
  • मा भैषुः = मा त्रस्यन्तु / मा त्रासिषुः
  • मदाज्ञाम् = मम आज्ञारूपं वचनम्
  • अनवज्ञातुः = अनतिलङ्घनशीलस्य
  • परिभूत्या न भूयते = तिरस्कारेण / अपमानेन न भूयते ।

पदविवरणम्

  • मदुपाश्रयाः = अहम् उपाश्रयः येषां ते मदुपाश्रयाः ।
  • असुरानीकात् = असुराणाम् अनीकः असुरानीकः तस्मात् ।
  • मा भैषुः = भी भये प. लुङ् प्र.पु. बहु.व. अभैषीत् अभैष्टाम् अभैषुः ।
  • मदाज्ञाम् = मम आज्ञा मदाज्ञा ताम् ।
  • अनवज्ञातुः = अवजानाति इति अवज्ञाता । अव + ज्ञा + तृच् (कर्त्रर्थे), न अवज्ञाता अनवज्ञाता, तस्य ।
  • परिभूत्या = इ. स्त्री. परिभूति शब्दः तृ. ए.व. ।

अलङ्कारः

  • मा भैषुरित्यर्थे उत्तरवाक्यस्य हेतुत्वेन अन्वयात् काव्यलिङ्गालङ्कारः ।

94. श्लोकः

मूलपाठः

अवतार्य भुवो भारमवतारो ममामराः ।
अनादिनिधनं धर्ममक्षतं स्थापयिष्यति ॥ ९४ ॥

पदच्छेदः

अवतार्य, भुवः, भारम्, अवतारः, मम, अमराः, अनादिनिधनम्, धर्मम्, अक्षतम्, स्थापयिष्यति ।

अन्वयरचना

  • (हे) अमराः !
  •  स्थापयिष्यति
    • कः स्थापयिष्यति  ? अवतारः (कर्तृपदम्)
      • कस्य अवतारः ? मम
    • कं स्थापयिष्यति ? धर्मम् (कर्मपदम्)
      • कीदृशं धर्मम् ? अनादिनिधनम्
    • कथं भूतं धर्मं स्थापयिष्यति ? अक्षतम्
    • किं कृत्वा स्थापयिष्यति ? अवतार्य
      • कम् अवतार्य ? भारम्
        • कस्याः भारम् ? भुवः

अन्वयः

(हे) अमराः ! मम अवतारः भुवः भारम् अवतार्य अनादिनिधनं धर्मम् अक्षतं स्थापयिष्यति ।

तात्पर्यम्

हे देवाः ! कृष्णाख्यः ममावतारः भूमिं क्लेशयतः दैत्यरूपकण्टकान् उत्खनिष्यति । ततः अनन्तकालप्रवाहेण एकरूपेण प्रवृत्तं सनातनाख्यं धर्मं स्थापयिष्यति ।

पदार्थः

  • अमराः ! = हे देवाः
  • मम अवतारः = मे कृष्णाख्यः अवतारः
  • भुवः भारम् = दैत्यभारम्
  • अवतार्य = विनाश्य
  • अनादिनिधनम् = अनन्तकाल-प्रवाहेण एकरूपेण प्रवृत्तम्
  • धर्मम् = तथाविधं पुरुषार्थम्
  • अक्षतं स्थापयिष्यति = क्षयरहितं यथा तथा करिष्यति ।

पदविवरणम्

  • भुवः = ऊ. स्त्री. भू शब्दः ष. ए.व. । भवत्यस्याम् इति भू + अधिकरणे क्विप् ।
  • अवतार्य = अव-उपसर्गपूर्वकः तॄ धातुः + णिच् + ल्यप्
  • अनादिनिधनम् = आदि च निधनञ्च आदिनिधने । न विद्येते आदिनिधने यस्य सः अनादिनिधनः, तम्
  • धर्मम्  = धरति लोकान् / ध्रियते पुण्यात्मभिः इति वा । शुभादृष्टम्, पुण्यम्, श्रेयः
  • अक्षतम्  = न विद्यते क्षतं यस्य सः अक्षतः, तम्

95. श्लोकः

यावदिष्टभुजो यावदधिकारमवस्थिताः ।
परिपालयत स्वानि पदानि विगतापदः ॥ ९५ ॥

पदच्छेदः

यावदिष्टभुजः, यावदधिकारम्, अवस्थिताः, परिपालयत, स्वानि, पदानि, विगतापदः ।

अन्वयरचना

  • परिपालयत
    • के परिपालयत ? यूयम्
      • कीदृशाः यूयम् ? विगतापदः
      • कथं भूताः सन्तः पर्यपालयत ? यावदिष्टभुजः (सन्तः)
      • पुनः कथं भूताः सन्तः पर्यपालयत? अवस्थिताः (सन्तः)
        • कथम् अवस्थिताः (सन्तः) ? यावदधिकारम्
    • कानि परिपालयत ? पदानि
      • कीदृशानि पदानि ? स्वानि

अन्वयः

विगतापदः यावदिष्टभुजः यावदधिकारम् अवस्थिताः (सन्तः) स्वानि पदानि परिपालयत ।

तात्पर्यम्

देवाः ! मम अवतारेण दैत्यानाम् उपसंहारे सति आपद्भ्यः विमुक्ताः भवन्तः क्रतून् भुञ्जानाः स्वाधिकारेण स्थिताः च स्वस्थानानि यथावत् संरक्षध्वम् ।

पदार्थः

  • विगतापदः = अपहतदुःखाः
  • यावदिष्टभुजः = यावन्ति इष्टानि यागादीनि तावन्ति भुञ्जानाः / क्रतुभुजः सन्तः
  • यावदधिकारम् अवस्थिताः (सन्तः) =स्वाधिकारेण अवस्थिताः सन्तः
  • स्वानि पदानि = स्वस्थानानि
  • परिपालयत = संरक्षध्वम् ।

पदविवरणम्

  • विगतापदः = विगताः आपदः येभ्यः ते
  • यावदिष्टभुजः = यावन्ति इष्टानि यावदिष्टम् । (अवधाराणार्थे अव्ययीभावः) यावदिष्टं भुञ्जते इति यावदिष्टभुजः ।
  • यावदधिकारम् = यावान् अधिकारः यावदधिकारम् । (अवधाराणार्थे अव्ययीभावः)                                                                                                                                                                  

96. श्लोकः

मूलपाठः

दमनाद्दनुजेन्द्राणां द्रक्ष्यथ त्रिदशाधिपाः ।
भूयोऽपि लघुतां प्राप्तां भुवमुल्लाधितामिव ॥ ९६ ॥

पदच्छेदः

दमनात्, दनुजेन्द्राणाम्, द्रक्ष्यथ, त्रिदशाधिपाः, भूयः, अपि, लघुताम्, प्राप्ताम्, भुवम्, उल्लाधिताम्, इव ।

अन्वयरचना

  • (हे) त्रिदशाधिपाः !
  • द्रक्ष्यथ
    • के द्रक्ष्यथ ? यूयम्
    • यूयं कां द्रक्ष्यथ ? भुवम्
      • कीदृशीं भुवम् ? प्राप्ताम्  
        • कां प्राप्ताम् ? लघुताम्
        • कथं लघुतां प्राप्ताम् ? भूयः अपि
        • कस्मात् लघुतां प्राप्ताम् ? दमनात्
          • केषां दमनात् ? दनुजेन्द्राणाम्
    • काम् इव द्रक्ष्यथ ? उल्लाधिताम् इव

अन्वयः

(हे) त्रिदशाधिपाः ! दनुजेन्द्राणां दमनात् भूयः अपि लघुतां प्राप्तां भुवम् उल्लाधिताम् इव द्रक्ष्यथ ।

तात्पर्यम्

हे देवाः ! राक्षसदमनस्य अनन्तरं पूर्ववत् अपगतभारां भूमिं व्याधिमुक्तीकृताम् इव भवन्तः द्रक्ष्यन्ति ।

पदार्थः

  • (हे) त्रिदशाधिपाः = सुरश्रेष्ठाः
  • दनुजेन्द्राणां दमनात् =असुरप्रधानानां निग्रहणात्
  • भूयः अपि = पुनरपि
  • लघुतां प्राप्तां भुवम् = यथापूर्वं भारहीनतामापन्नां पृथ्वीम्
  • उल्लाधिताम् इव = रोगान्मुक्ताम् इव
  • द्रक्ष्यथ = विलोकयिष्यथ ।

पदविवरणम्

  • त्रिदशाधिपाः = तृतीया यौवनाख्या दशा सदा येषां ते (त्रिशब्दस्य तृतीयार्थता) त्रिदशाः च ते अधिपाः च त्रिदशाधिपाः ।
  • दनुजेन्द्राणाम् = दनुजानाम् इन्द्राः दनुजेन्द्राः, तेषाम् ।
  • उल्लाधिताम् = उल्लाघः – गदात् निर्गतः, नीरोगः ।

97. श्लोकः

मूलपाठः

दैतेयमृगसङ्घाते मृगयारसभागिभिः ।
भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः ॥ ९७ ॥

पदच्छेदः

दैतेयमृगसङ्घाते, मृगयारसभागिभिः, भवद्भिः, अपि, मेदिन्याम्, भवितव्यम्, नराधिपैः ।

अन्वयरचना

  • भवितव्यम्
    • कैः भवितव्यम् ? भवद्भिः अपि
    • कुत्र भवितव्यम् ? मेदिन्याम्
    • कथं भूतैः भवितव्यम् ? नराधिपैः
      • कीदृशैः नराधिपैः ? मृगयारसभागिभिः
    • कस्मिन् मृगयारसभागिभिः भवितव्यम् ? दैतेयमृगसङ्घाते

अन्वयः

मेदिन्यां भवद्भिः अपि दैतेयमृगसङ्घाते मृगयारसभागिभिः नराधिपैः भवितव्यम् ।

तात्पर्यम्

मया करिष्यमाणे असुरसंहार-रूपेऽस्मिन् कार्ये भवन्तः अपि केषाञ्चित् दुष्टानां वधार्थं क्षत्रियकुलेषु अवतरन्तु ।

पदार्थः

  • मेदिन्याम् = पृथिव्याम्
  • भवद्भिः अपि = युष्माभिः अपि
  • दैतेयमृगसङ्घाते = राक्षसाः एव मृगाः तेषां समूहे
  • मृगयारसभागिभिः = मृगयायात्रायां कौतुकभाग्भिः
  • नराधिपैः भवितव्यम् = राड्भिः/ नरेन्द्रैः भवितव्यम् ।

पदविवरणम्

  • दैतेयमृगसङ्घाते = दितेः अपत्यानि पुमांसः दैतेयाः । दैतेयाः एव मृगाः दैतेयमृगाः । दैतेयमृगाणां सङ्घातः दैतेयमृगसङ्घातः, तस्मिन्
  • मृगयारसभागिभिः = मृगयायाः रसः मृगयारसः । मृगयारसं भजन्ते इति मृगयारसभागिनः, तैः । भज् धातोः घिनुण् प्रत्ययः ।
  • नराधिपैः = नराणाम् अधिपाः नराधिपाः तैः ।

अलङ्कारः

दैतेयेषु मृगत्वारोपणात् च यात्रायां मृगयात्वारोपणात् च रूपकालङ्कारः ।

98. श्लोकः

मूलपाठः

इति ताननघादेशस्समादिश्य जनार्दनः ।
अवधीरितदुग्धाब्धि
र्मधुरायां मनो दधे ॥ ९८ ॥

पदच्छेदः

इति, तान्, अनघादेशः, समादिश्य, जनार्दनः, अवधीरितदुग्धाब्धिः, मधुरायाम्, मनः, दधे ।

अन्वयरचना

  • दधे
    • कः दधे ? जनार्दनः (कर्तृपदम्)
      • कीदृशः जनार्दनः ?  अनघादेशः
    • जनार्दनः किं दधे ? मनः (कर्मपदम्)
    • कीदृशः सन् मनो दधे ? अवधीरितदुग्धाब्धिः सन्
    • कुत्र मनः दधे ? मधुरायाम्
    • किं कृत्वा दधे ? समादिश्य
    • किम् समादिश्य ? इति
      • कान् समादिश्य ? तान्

अन्वयः

अनघादेशः जनार्दनः इति तान् समादिश्य अवधीरितदुग्धाब्धिः (सन्) मधुरायां मनः दधे ।

तात्पर्यम्

अप्रतिहतादेशः भगवान् विष्णुः देवान् “भवद्भिरपि मेदिन्यां भवितव्यं नराधिपैः” इति आज्ञाप्य क्षीराम्बुधौः गतस्पृहः सन् मधुरापुर्याम् अवतरितव्यम् इति ऐच्छत् ।

पदार्थः

  • अनघादेशः जनार्दनः = अप्रतिहतनियोगः विष्णुः
  • इति = उक्तप्रकारेण
  • तान् समादिश्य = बिबुधान् समाज्ञाप्य
  • अवधीरितदुग्धाब्धिः (सन्) = तिरस्कृतक्षीरसागरः सन्
  • मधुरायाम् = मधुरापुर्याम्
  • मनः दधे = इच्छामकरोत्

विशेषः

  • जनार्दनः
    • जनैः / लोकैः अर्द्यते / याच्यते पुरुषार्थान् असौ जनार्दनः ।
    • जननं / जन्म अर्दयति हन्ति भक्तस्य मुक्तिदत्वात् इति जनार्दनः ।
    • जनान् लोकान् अर्दति हररूपेण संहारकत्वात् इति जनार्दनः । 
  • अवधीरितदुग्धाब्धिः
    • शेषं भूमौ बलभद्ररूपेण अवताराय सम्प्रेष्य, नागः पर्यङ्कः यत्र तथोक्तं क्षीरार्णवं विहाय / अथवा क्षीराब्धि-निकेतनः इति पदविवक्षितमेव उपेक्ष्य इति भावः ।  

पदविवरणम्

  • अनघादेशः = न विद्यते अघम् यस्मिन् सः (आदेशः) अनघः ।
    • अनघः आदेशः यस्य सः अनघादेशः ।
  • इति = हेतु-प्रकार-स्वरूप-समाप्ति-विवक्षाऽनियम-शब्दप्रदुर्भाव-एवम्-अर्थेषु । – अव्ययकोशः ।
  • समादिश्य = सम् + आङ् + दिश् ‘अतिसर्जने’ + ल्यप्
  • अवधीरितदुग्धाब्धिः = आपः धीयन्ते अस्मिन् इति अब्धिः ।
    • दुग्धानाम् अब्धिः दुग्धाब्धिः ।
    • अवधीरितः दुग्धाब्धिः येन सः ।
  • दधे = दुधाञ् धारणपोषणयोर्दाने च लिट् प्र.पु. ए.व.

99. श्लोकः

मूलपाठः

आश्वास्य वागमृतवृष्टिभिरादितेयान्

दैतेयभारनमितां पृथिवीं च देवीम् ।

प्रादुर्बुभूषुरनघो वसुदेवपत्न्यां
पद्मापतिः प्रणिदधे समयं दयायाः ॥ ९९ ॥

पदच्छेदः

आश्वास्य, वागमृतवृष्टिभिः, आदितेयान्, दैतेयभारनमिताम्, पृथिवीम्, च, देवीम्, प्रादुर्बुभूषुः, अनघः, वसुदेवपत्न्याम्, पद्मापतिः, प्रणिदधे, समयम्, दयायाः ।

अन्वयरचना

  •  प्रणिदधे
    • कः प्रणिदधे ? पद्मापतिः (कर्तृपदम्)
      • कीदृशः पद्मापतिः ? अनघः
    • कं प्रणिदधे ? समयम् (कर्मपदम्)
      • कस्याः समयम्  ? दयायाः
    • कीदृशः सन् पद्मापतिः ? प्रादुर्बुभूषुः सन्
      • कस्यां प्रादुर्बुभूषुः ? वसुदेवपत्न्याम्
    • किं कृत्वा प्रणिदधे ? आश्वास्य
      • कान् आश्वास्य ? आदितेयान्
      • कां च आश्वास्य ? पृथिवीं च
        • कीदृशीं पृथिवीम् ? दैतेयभारनमिताम्
        • पुनः कीदृशीं पृथिवीम् ? देवीम्
      • काभिः आश्वास्य ? वागमृतवृष्टिभिः

अन्वयः

अनघः पद्मापतिः वागमृतवृष्टिभिः आदितेयान् दैतेयभारनमितां देवीं पृथिवीं च आश्वास्य वसुदेवपत्न्यां प्रादुर्बुभूषुः दयायाः समयं प्रणिदधे ।

तात्पर्यम्

लक्ष्मीपतिः वचनामृतवर्षणेन देवान् असुरभाराक्रान्तां पृथिवीञ्च सान्तवयित्वा देवक्यां वासुदेवरूपेण सम्भवितुम् इष्टवान् । सः असुरपीडितेषु साधुषु देवकीवसुदेवयोः च दयां कर्तुकामः तत्तत्कर्मानुसारेण समयं प्रतीक्षितवान् च  ।

पदार्थः

  • अनघः = निरवद्यः / वैषम्यनैर्घृण्यदोषरहितः
  • पद्मापतिः =  श्रीपतिः
  • वागमृतवृष्टिभिः = वचनरूपामृतवर्षेण
  • आदितेयान् = देवान्
  • दैतेयभारनमितां देवीं पृथिवीं च = राक्षसभारव्यथितां भूदेवीं च
  • आश्वास्य = सान्त्वयित्वा
  • वसुदेवपत्न्याम् = देवक्याम्
  • प्रादुर्बुभूषुः = प्रादुर्भवितुम् इच्छुः सन्
  • दयायाः = दयनीयत्वस्य / अनुग्रहस्य
  • समयम् = उचितं कालम्
  • प्रणिदधे = समालोचयत् / प्रतीक्षितवान्

पदविवरणम्

  • अनघः= न विद्यते अघं यस्य सः
  • पद्मापतिः =  पद्मायाः पतिः
  • वागमृतवृष्टिभिः = वाग् एव अमृतम् वागमृतम्
    • वागमृतस्य वृष्टयः वागमृतवृष्टयः, ताभिः
  • आदितेयान् = अदितेः अपत्यानि पुमांसः आदितेयाः, तान्
  • दैतेयभारनमितां = दितेः अपत्यानि पुमांसः दैतेयाः
    • दैतेयानां भारः दैतेयभारः
    • दैतेयभारेण नमिता – दैतेयभारनमिता, ताम् ।
  • आश्वास्य = आङ् + श्वस् प्राणने + ल्यप्
  • वसुदेवपत्न्याम् = वसुदेवस्य पत्नी – वसुदेवपत्नी, तस्याम् ।
  • प्रादुर्बुभूषुः = प्रादुर्भवितुम् इच्छुः
  • प्रणिदधे = प्र + नि + दुधाञ् धारणपोषणयोर्दाने च लिट् प्र.पु. ए.व.

छन्दः

100. श्लोकः

मूलपाठः

साधूनां स्वपदसरोजषट्पदानां
धर्मस्य स्थितिमनघां विधातुकामः ।
यद्गर्भे जगदखिलं स एव गर्भो
देवक्याः समजनि देवदेववन्द्यः ॥ १०० ॥

पदच्छेदः

साधूनाम्, स्वपदसरोजषट्पदानाम्, धर्मस्य, स्थितिम्, अनघाम्, विधातुकामः, यद्गर्भे, जगत्, अखिलम्, सः, एव, गर्भः, देवक्याः, समजनि, देवदेववन्द्यः ।

अन्वयरचना

  • समजनि
    • कः समजनि ? सः एव
    • कथं भूतः सः ? यद्गर्भे अखिलं जगत्
      • कीदृशः सः ? देवदेववन्द्यः
    • कथं भूतः सः समजनि ? गर्भः
      • कस्याः गर्भः ? देवक्याः
    • कीदृशः सन् समजनि ? विधातुकामः (सन्)
      • कां विधातुकामः  ? स्थितिम् 
        • कस्य स्थितिम्  ? धर्मस्य
          • केषां धर्मस्य ? साधूनाम्
            • कीदृशानां साधूनाम् ? स्वपदसरोजषट्पदानाम्
      • स्थितिं कीदृशीं विधातुकामः ? अनघाम्

अन्वयः

यद्गर्भे अखिलं जगत् देवदेववन्द्यः सः एव स्वपदसरोजषट्पदानां साधूनां धर्मस्य स्थितिम् अनघां विधातुकामः (सन्) देवक्याः गर्भः समजनि ।

तात्पर्यम्

यस्य गर्भे सर्वं जगद् वर्तते देवदेवपूज्यः सः एव स्वपदपङ्कजाश्रितानां सज्जनानां धर्मस्य मर्यादां रक्षितुं देवकीदेव्याः गर्भः अभूत् । 

पदार्थः

  • यद्गर्भे = यस्य कुक्षौ
  • अखिलं जगत् = समग्रं जगत् (तिष्ठति)
  • देवदेववन्द्यः = देवानां देवैः ब्रह्मादिभिरेव वन्दनीयः
  • सः एव = वासुदेवः
  • स्वपदसरोजषट्पदानाम्  = स्वचरणारविन्द-भ्रमरतुल्यानाम् / सरोजे भ्रमरवत् स्व-चरणे आसक्तानाम्
  • साधूनाम् = सत्पुरुषाणाम्
  • धर्मस्य स्थितिम् = धर्मस्य मर्यादाम्
  • अनघां विधातुकामः (सन्) = निर्दोषां कर्तुकामः सन्
  • देवक्याः गर्भः समजनि = देवकीदेव्याः गर्भः सञ्जातः ।   

विशेषः

  • साधूनां धर्मस्य स्थितिम् अनघां विधातुकामः

साधवः कीदृशाः ?

साध्नोति परकार्यम् इति साधुः ।

न प्रहृष्यति सम्माने नावमानेन कुप्यति ।

न क्रुद्धः परुषं ब्रूयादेतत् साधोस्तु लक्षणम् ॥ – गारुडपुराणे 113/42

      भवन्ति परदुःखेन साधवो नित्यदुःखिताः ।

      —

आत्मानं पीडयित्वापि साधुः सुखयते परम् । वह्निपुराणे –  372 ।

पदविवरणम्

  • यद्गर्भे = यस्य गर्भः यद्गर्भः, तस्मिन्
  • देवदेववन्द्यः = देवानां देवाः देवदेवाः । देवदेवैः वन्द्यः ।
  • स्वपदसरोजषट्पदानाम्  = स्वीयं पदं स्वपदम् । स्वपदमेव सरोजम् – स्वपदसरोजम् ।
    • षट् पदानि येषां ते –  षट्पदाः ।
    • स्वपदसरोजस्य षट्पदाः स्वपदसरोजषट्पदाः, तेषाम् । 
  • स्थितिम् = व्यवस्था, मर्यादा, सीमा, नियमः
  • अनघाम् = न विद्यते अघं यस्याः सा अनघा (स्थितिः) ताम्
  • विधातुकामः  = विधातुं कामः यस्य सः विधातुकामः । ‘तुं काममनसोरपि’  इति मलोपः ।
  • समजनि = सम् + जनि प्रादुर्भावे लुङ् प्र.पु. ए.व.  ।
    • अजनि / अजनिष्ट्, अजनिषाताम्, अजनिषत

अलङ्कारः

  • रूपकालङ्कारः

छन्दः

  • प्रहर्षिणीवृत्तम्
    • म्नौ जौ गस्त्रिदशयतिः प्रहर्षिणीयम्  इति लक्षणम्
    • प्रतिपादं १३ अक्षराणि । म-न-ज-ज-गु ।  त्रिभिः दशभिः च यतिः यत्र सा ।

श्लोकः

मूलपाठः

इति कवितार्किकसिंहस्य  सर्वतन्त्रस्वतन्त्रस्य वेदान्ताचार्यस्य श्रीमद्वेङ्कटनाथस्य कृतिषु यादवाभ्युदये महाकाव्ये प्रथमः सर्गः ।

  • इति = समाप्ति-वाची
  • कवि-तार्किक-सिंहस्य  = कवयः तार्किकाः च कवितार्किकाः
    • तेषां परिपन्थिभूतानां सिंहवत् भयङ्करस्य
    • तेषु श्रेष्ठस्य इत्यर्थः ।
    • सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः – इत्यमरः ।
  • सर्वतन्त्रस्वतन्त्रस्य = सर्वतन्त्राणि – सर्वसिद्धान्ताः ।
    • न्याय-वैशेषिक-पूर्वोत्तरमीमांसा-साङ्ख्य-योग-शैव-वैष्णवादिषु स्वतन्त्रस्य = स्वेच्छया कञ्चित् अर्थं स्थापयितुं दूषयैतुं वा शक्तस्य,
  • वेदान्ताचार्यस्य श्रीमद्वेङ्कटनाथस्य कृतिषु = वेदान्तरहस्योपदेष्टुः  श्रीमद्वेङ्कटनाथस्य प्रबन्धेषु
  • यादवाभ्युदये = यादवस्य – कृष्णस्य अभ्युदयं अधिकृत्य कृते ग्रन्थे
  • महाकाव्ये  प्रथमः सर्गः = महाकाव्यलक्षणयुक्ते प्रबन्धे प्रथमः सर्गः ॥

इति श्रीमदप्पय्यदीक्षितकृतव्याख्योपेतः श्रीरामकृष्णमाचार्यकृतव्याख्योपेतः (चित्तूरु-संस्कृतभाषाप्रचारिणीसभया प्रकाशितः ग्रन्थः)  च यादवाभ्युदयमहाकाव्ये प्रथमसर्गः ।

प्रथमसर्गस्थाः विषयाः

  • उपोद्घातः – 1-8 
  • यदुवंशमुख्यानां राज्ञां वर्णनम्  9 – 36
  • देवान् प्रति भूदेव्याः प्रार्थना – 37 – 41
  • देवैः कृतक्षीरसागरशायिस्तुतिः – 42 – 64
  • भगवतः दर्शनम् – 65 – 75
  • विज्ञापन-प्रतिभाषणे – 76 – 98
  • देवकीगर्भप्रवेशः – 99, 100

*******************************************

References: