(Video) Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh2

ttps://www.youtube.com/playlist?list=PLTWf5ZhGT362dCx4-a-wqb7f7B-Fj1SKU Amar Chitra Katha sdfsfरघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै (Raghuvamsha Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai). https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page contains the detailed notes of the shlokas covered in the sessions. Link to the main reference book – Raghuvamsha of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft  More references are given at the end.
Downloadable file is available here. –> https://drive.google.com/open?id=15xOL_e_3BA-yk5bdVlUdeUNFD3-c-eew

द्वितीयः सर्गः – नन्दिनीवरप्रदानः – Part 2

Kalidasa’s Raghuvamsham – Second Sarga – Vidhya Ramesh – Part 2

Here is the playlist with all the sessions.

 

 

रघुवंशमहाकाव्यम् – द्वितीयः सर्गःश्रीमती. विद्या रमेशःसंस्कृतभारतीचेन्नै

(Raghuvamsa Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh/ This page will contain the detailed notes of all the 75 shlokas (to be) covered in these sessions.

Link to the main reference book – Raghuvamsa of Kalidasa with the commentary (The Sanjivini) of Mallinatha – Moreshwar Ramachandra Kale – 1922 https://archive.org/details/raghuvamsaofkali00kliduoft 

More references are given at the end. Downloadable file is available here.

द्वितीयः सर्गः – नन्दिनीवरप्रदानः

29. श्लोकः

कक्ष्या 21 – https://www.youtube.com/watch?v=Cdhsyp2Wyjo

मूलपाठः

स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श ।
अधित्यकाया
मिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम् ।। २.२९ ।।

पदच्छेदः

सः, पाटलायाम्, गवि, तस्थिवांसम्, धनुर्धरः, केसरिणम्, ददर्श, अधित्यकायाम्, इव, धातुमय्याम्, लोध्रद्रुमम्, सानुमतः, प्रफुल्लम्

अन्वयार्थः

  • धनुर्धरः सः = चापभृत् दिलीपराजः
  • पाटलायां गवि = श्वेतरक्तवर्णायां धेनौ
  • तस्थिवांसं केसरिणम् = स्थितं सिंहम्
  • सानुमतः = पर्वतस्य
  • धातुमय्याम् अधित्यकायाम् = गैरिकवत्यां पर्वतस्योपरिभूमौ
  • प्रफुल्लं लोध्रद्रुमम् इव = विकसितं लोध्रवृक्षं यथा
  • ददर्श = अपश्यत्

अन्वयः

धनुर्धरः सः पाटलायां गवि तस्थिवांसं केसरिणं सानुमतः धातुमय्याम् अधित्यकायां प्रफुल्लं लोध्रद्रुमम् इव ददर्श |

आकाङ्क्षा

  • ददर्श
    • कः ददर्श ? सः धनुर्धरः
    • कं ददर्श ? केसरिणम्
      • कीदृशं केसरिणम् ? तस्थिवांसम्
        • कुत्र तस्थिवांसम् ? गवि
          • कीदृशायां गवि ? पाटलायाम्
            • कथम् इव ददर्श ? सानुमतः धातुमय्याम् अधित्यकायां प्रफुल्लं लोध्रद्रुमम् इव

तात्पर्यम्

दिलीपराजः श्वेतरक्तवर्णधेनोः उपरि आक्रम्य स्थितं सिंहं पर्वतस्य गैरिकवत्याम् ऊर्ध्वभूमौ विकसितलोध्रतरुम् इव अपश्यत् ।

पदविवरणम्

  • गवि = गो शब्दः, स्त्री., स.वि., ए.व. | प्रथमा – गौः, गावौ, गावः | सप्तमी – गवि, गवोः, गोषु |
  • तस्थिवांसम् = स्था + (वस्) क्वसु-प्रत्ययः [form used in the Vedas]
  • तस्थिवांसम् = स्था + (वस्) भूतार्थे क्वसु-प्रत्ययः प्रथमा ए.व. [वेदे प्रयुक्तं रूपम् । काव्येषु अपि अयं प्रयोगः दृश्यते ] तस्थिवस् शब्दः प्र.वि. तस्थिवान् तस्थिवांसौ तस्थिवांसः । द्वि.वि. तस्थिवांसम्
  • धनुर्धरः = धरतीति धरः | धनुषः धरः |
  • केसरिणम् = केसरिन् – नकारान्तः, पुं., द्वि.वि., ए.व. | केसराः जटाः सन्ति अस्य इति केसरी, तम् ।
  • ददर्श = दृश् “दृशिँर् प्रेक्षणे” प.प., लिट्., प्र.पु., ए.व. |
  • अधित्यकायाम् इव = पर्वतस्योपरिभूमौ इव
    • (उपत्यका – पर्वतस्य अधोभूमिः)
    • ‘उपत्यका अद्रेः आसन्ना भूमिः, ऊर्ध्वम् अधित्यका’ – इत्यमरः
    • “उपाधिभ्यां त्यकन्-आसन्न-आरूढयोः” ५/२/३४ इति सूत्रेण त्यकन् – प्रत्ययः।
    • आसन्न इत्यर्थे प्रयुज्यमानः उप
    • आरूढ इत्यर्थे प्रयुज्यमानः अधि
    • एताभ्यां त्यकन् प्रत्ययः विधीयत् ।
    • उप + त्यकन् = उपत्यक
    • अधित्यकन् = अधित्यक ।
  • धातुमय्याम् = धातु + मयट् -प्रत्ययः (प्राचुर्यार्थे मयट्)
    • धातोः (गैरिकस्य – red mineral ) विकारः ।
    • अत्र पर्वतस्य गैरिकवती ऊर्ध्वभूमिः
  • लोध्रद्रुमम्
    • द्रुमः = द्रवति ऊर्ध्वं गच्छति इति द्रुः branch of a tree | द्रुवः अस्य सन्तीति (द्रु + म) द्रुमः |
    • लोध्रद्रुमम् = लोध्रस्य द्रुमः, तम्
  • सानुमतः= सानु+ मत् | सानूनि अस्य सन्तीति सानुमान्, तस्य |
  • प्रफुल्लम् = फुल्लति –फुल्ल् विकसने

अलङ्कारः

  • उपमा
    • पाटला गौः – धातुमयी अधित्यका
    • केसरी – लोध्रद्रुमः
    • केसराः (सिंहस्य) – द्रुमस्य प्रफुल्लत्वम्
    • अनेन अस्मिन् श्लोके प्रयुक्तं केसरी पदम् औचित्यं भजति ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः धनुर्धरः = That (eminent) archer
  • ददर्श = saw
  • केसरिणम् = the lion, (etimology – those that have mane – केसर)
    • तस्थिवांसम् = that which was seated
      • गवि = on that cow
        • पाटलायाम् = on that which is reddish brown or rose (पाटल) in color
      • लोध्रद्रुमम् इव = like (इव) a Lodhra (लोध्र) tree (द्रुम)
        • प्रफुल्लम् = which is fully bloomed
        • अधित्यकायाम् = in the plateau (अधित्यका)
          • धातुमय्याम् = in that which is filled with mineral ores (धातु)
            • सानुमतः = of the mountains, having peaks or a level plot of ground (सानु)

30. श्लोकः

कक्ष्या 22 – https://www.youtube.com/watch?v=U9R6MuE4Dp0

मूलपाठः

ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तु
म् ऐच्छत्प्रसभोद्धृतारिः ।। २.३० ।।

पदच्छेदः

ततः, मृगेन्द्रस्य, मृगेन्द्रगामी, वधाय, वध्यस्य, शरम्, शरण्यः, जाताभिषङ्गः, नृपतिः, निषङ्गात्, उद्धर्तुम्, ऐच्छत्, प्रसभोद्धृतारिः

अन्वयार्थः

  • ततः = सिंहदर्शनानन्तरम्
  • शरण्यः = शरणागतरक्षकः
  • प्रसभोद्धृतारिः = प्रचण्डतया नाशिताः शत्रवः येन सः
  • मृगेन्द्रगामी = सिंहगतिः इव गमनं यस्य सः
  • वध्यस्य मृगेन्द्रस्य वधाय = वधार्हस्य सिंहस्य मारणाय
  • जाताभिषङ्गः (सन्) नृपतिः = जातपराभवः सन् राजा
  • निषङ्गात् शरम् उद्धर्तुम् = तूणीरात् बाणं निष्कासयितुम्
  • ऐच्छत् = इष्टवान्

अन्वयः

ततः मृगेन्द्रगामी शरण्यः प्रसभोद्धृतारिः नृपतिः जाताभिषङ्गः (सन्) वध्यस्य मृगेन्द्रस्य वधाय निषङ्गात् शरम् उद्धर्तुम् ऐच्छत् |

आकाङ्क्षा

  • ऐच्छत्
    • कः ऐच्छत् ? नृपतिः
      • कीदृशः नृपतिः ? मृगेन्द्रगामी
      • पुनः कीदृशः नृपतिः ? शरण्यः
      • पुनः कीदृशः नृपतिः ? प्रसभोद्धृतारिः
    • कथं भूतः सन् ऐच्छत् ? जाताभिषङ्गः (सन्)
    • किं कर्तुम् ऐच्छत् ? उद्धर्तुम्
      • किम् उद्धर्तुम् ? शरम्
      • कस्मात् उद्धर्तुम् ? निषङ्गात्
      • किमर्थम् उद्धर्तुम् ? वधाय
        • कस्य वधाय ? मृगेन्द्रस्य
          • कीदृशस्य मृगेन्द्रस्य ? वध्यस्य
        • कदा ऐच्छत् ? ततः

तात्पर्यम्

यः वीरः सिंहगामी शत्रूणाम् उन्मूलने सर्वथा समर्थः सः शरणागतवत्सलः सिंहाक्रान्तां नन्दिनीम् आलोक्य पश्यतः मम कथम् इदं सिंहाक्रमणम् इति पराभवम् अनुभवन् इव वधार्हं सिंहं मारयितुं तूणीरात् बाणं स्वीकर्तुम् उद्यतः अभवत् ।

पदविवरणम्

  • मृगेन्द्रस्य = मृगाणाम् इन्द्रः, तस्य
  • मृगेन्द्रगामी = मृगेन्द्रः इव गन्तुं शीलम् अस्य अस्ति इति
  • शरण्यः = शरणे साधुः
  • जाताभिषङ्गः = जातः अभिषङ्गः (पराभवः) यस्य सः
  • नृपतिः = नॄणां पतिः
  • निषङ्गात् = नितरां सज्यन्ते अस्मिन् शराः इति निषङ्गः, तस्मात्
  • उद्धर्तुम् = उत् + हृ“हृञ्हरणे” + तुमुन्
  • ऐच्छत् = इष्“इषुँइच्छायाम्”, प.प., लङ्., प्र.पु., ए.व.
  • प्रसभोद्धृतारिः = प्रसभेन उद्धृताः अरयः येन सः

अलङ्कारः

  • अत्र छेकानुप्रासः चारुतया प्रयुक्तः
    • मृगेन्द्रस्य मृगेन्द्रगामी
    • वधाय वध्यस्य
    • शरं शरण्यः
    • नृपतिः निषङ्गात्

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • ततः = Then
  • नृपतिः = the king
    • मृगेन्द्रगामी = one who walks like a lion
    • शरण्यः = the protector of the distressed
    • प्रसभोद्धृतारिः = one who has extirpated his enemies
  • जाताभिषङ्गः (सन्) = becoming one who has been humiliated (अभिषङ्ग)
  • ऐच्छत् = wished
    • उद्धर्तुम् = to take out
      • शरम् = an arrow
      • निषङ्गात् = from the quiver
      • वधाय = for killing
        • मृगेन्द्रस्य = of the lion
          • वध्यस्य = of it which deserves to be killed

31. श्लोकः

कक्ष्या 23 – https://www.youtube.com/watch?v=MLP-7pyBw4E

मूलपाठः

वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्त्रे ।
सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इ
वावतस्थे ।। २.३१ ।।

पदच्छेदः

वामेतरः, तस्य, करः, प्रहर्तुः, नखप्रभाभूषितकङ्कपत्त्रे, सक्ताङ्गुलिः, सायकपुङ्खे, एव, चित्रार्पितारम्भः, इव, अवतस्थे

अन्वयार्थः

  • प्रहर्तुः तस्य= ताडयितुः दिलीपस्य
  • वामेतरः करः= दक्षिणः करः
  • नखप्रभाभूषितकङ्कपत्त्रे
    • कङ्कपत्त्राणि – पक्षिविशेषस्य पक्षाः
    • नखप्रभाभूषितानि – नखानां कान्त्या शोभितानि
    • नखकान्त्या शोभितानि कङ्कपत्त्राणि यस्य, तस्मिन् (बाणमूले)
  • सायकपुङ्खे एव = बाणमूले एव
  • सक्ताङ्गुलिः (सन्)= संलग्नाः अङ्गुल्यः यस्य सः (करः)
  • चित्रार्पितारम्भः= आलेख्ये लिखितः बाणनिष्कासनोद्योगः
  • इव अवतस्थे= इव अवस्थितः अभूत् ।

अन्वयः

प्रहर्तुः तस्य वामेतरः करः नखप्रभाभूषितकङ्कपत्त्रे सायकपुङ्खे एव सक्ताङ्गुलिः (सन्) चित्रार्पितारम्भः इव अवतस्थे |

आकाङ्क्षा

  • अवतस्थे
    • कः अवतस्थे ? करः
      • कीदृशः करः ? वामेतरः
      • कस्य करः ? तस्य प्रहर्तुः
    • कथम्भूतः सन् ? सक्ताङ्गुलिः (सन्)
    • कुत्र अवतस्थे ? सायकपुङ्खे एव
      • कीदृशे सायकपुङ्खे ? नखप्रभाभूषितकङ्कपत्त्रे
    • कथमिव अवतस्थे ? चित्रार्पितारम्भः इव

तात्पर्यम्

सिंहं प्रहर्तुम् तूणीरात् शरम् उद्धर्तुकामः दिलीपराजः स्वदक्षिणकरं तूणीरं प्रति अनयत् । तत्करनखकान्तिः बाणमूलस्थानि कङ्कपत्त्राणि भासयन्ति स्म । किन्तु विस्मापकेन केनापि प्रभावेण निश्चेष्टस्य दिलीपस्य कराङ्गुल्यः बाणमूले एव संलग्नाः अभूवन् । तदा तूणीरात् तस्य बाणनिष्कासनक्रिया आलेख्यगतचेष्टा इव जडवत् दृश्यते स्म ।

पदविवरणम्

  • वामेतरः = वामात् इतरः
  • प्रहर्तुः = प्र + हृ “हृञ् हरणे” + तृच् । कर्त्रर्थे तृच् – प्रहर्ता ।
  • नखप्रभाभूषितकङ्कपत्त्रे
    • कङ्कपत्त्राणि= कङ्कस्यपत्त्राणि
    • नखप्रभाः = नखानां प्रभाः
    • नखप्रभाभूषितम् = नखप्रभाभिः भूषितम्
    • नखप्रभाभूषितकङ्कपत्त्रे = नखप्रभाभूषितानि कङ्कपत्त्राणि यस्य सः नखप्रभाभूषितकङ्कपत्त्रः (सायकपुङ्खः), तस्मिन्
  • सायकपुङ्खे = सायकस्य पुङ्खः, तस्मिन् (पक्षिपत्त्रयुतं बाणस्य मूलभागः पुङ्खः इत्युच्यते)
  • सक्ताङ्गुलिः= सक्ताः अङ्गुल्यः यस्य सः (करः)
  • चित्रार्पितारम्भः
    • चित्रार्पितः= चित्रेअर्पितः
    • चित्रार्पितारम्भः= चित्रार्पितःआरम्भः
    • चित्रार्पितारम्भः= आलेख्ये लिखितः बाणनिष्कासनोद्योगः
  • अवतस्थे = अव + स्था “ष्ठागतिनिवृत्तौ”, प.प. (अत्र अव + स्था आ.प.), कर्मणि., लिट्., प्र.पु., ए.व. |
    • स्था 1 P. (Ā also in certain senses, when preceded by सम्, अव, प्र, वि) ; तिष्ठति- ते, तस्थौ, तस्थे, अस्थात्-अस्थित, स्थास्यति-ते, स्थातुं, स्थित; pass. स्थीयते; the स् of this root is changed to ष् after a pre position ending in इ or उ)

अलङ्कारः

  • उपमा
    • सादृश्यम् – सक्ताङ्गुलिः (दिलीपस्य) करः = चित्रार्पितारम्भः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • वामेतरः करः = The right (other than इतर left वाम) hand
    • तस्य = of him
      • प्रहर्तुः = of him who was about to strike
    • सक्ताङ्गुलिः (सन्) = being one whose fingers (अङ्गुलि) have got stuck (सक्त)
      • सायकपुङ्खे एव = in the feathered part (पुङ्ख) of the arrow (सायक)
        • नखप्रभाभूषितकङ्कपत्त्रे = in that which the brightness (प्रभा) of the nails (नख) decorated (भूषित) the feathers (पत्त्र) of the white heron(कङ्क)
      • अवतस्थे = remained
        • चित्रार्पितारम्भः इव = like the action (आरम्भ) that was committed (अर्पित) to a picture (चित्र)

32. श्लोकः

कक्ष्या 24 – https://www.youtube.com/watch?v=77AlSL71vSc

मूलपाठः

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णम् आगस्कृतम् अस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ।। २.३२ ।।

पदच्छेदः

बाहुप्रतिष्टम्भविवृद्धमन्युः, अभ्यर्णम्, आगस्कृतम्, अस्पृशद्भिः, राजा, स्वतेजोभिः, अदह्यत, अन्तः, भोगी, इव, मन्त्रौषधिरुद्धवीर्यः

अन्वयार्थः

  • बाहुप्रतिष्टम्भविवृद्धमन्युः राजा = बाह्वोः प्रतिबन्धेन प्रवृद्धरोषः दिलीपराजः
  • मन्त्रौषधिरुद्धवीर्यः भोगी इव = मन्त्रौषधिभ्यां प्रतिबद्धशक्तिः सर्पः यथा
  • अभ्यर्णम् = समीपम् (स्थितम्)
  • आगस्कृतम् = अपराधकारिणम्
  • अस्पृशद्भिः स्वतेजोभिः = स्प्रष्टुम् असमर्थैः स्वप्रभावैः
  • अन्तः अदह्यत = स्वान्तः (स्वस्मिन्) एव अतप्यत

अन्वयः

बाहुप्रतिष्टम्भविवृद्धमन्युः राजा मन्त्रौषधिरुद्धवीर्यः भोगी इव अभ्यर्णम् आगस्कृतम् अस्पृशद्भिः स्वतेजोभिः अन्तः अदह्यत |

आकाङ्क्षा

  • अदह्यत
    • कुत्र अदह्यत ? अन्तः
    • कः अदह्यत ? राजा
      • कीदृशः राजा ? बाहुप्रतिष्टम्भविवृद्धमन्युः
      • कः इव राजा ? भोगी इव
        • कीदृशः भोगी ? मन्त्रौषधिरुद्धवीर्यः
      • कैः अदह्यत ? स्वतेजोभिः
      • कैः कारणैः अदह्यत ? अस्पृशद्भिः
        • कम् अस्पृशद्भिः ? आगस्कृतम्
          • कीदृशं आगस्कृतम् ? अभ्यर्णम्

तात्पर्यम्

भुजस्तम्भेन प्रवृद्धक्रोधः दिलीपराजः अपराधकारिणं समीपे स्थितः अपि सिंहं हन्तुम् असमर्थः सन् मन्त्रौषधिरुद्धप्रभावः सर्पः इव स्वतेजसा अतप्यत ।

पदविवरणम्

  • बाहुप्रतिष्टम्भविवृद्धमन्युः = बाह्वोः प्रतिष्ठम्भेन विवृद्धः मन्युः यस्य सः
  • भोगी= भोगः अस्य अस्ति इति भोगी (सर्पः) । “भोगीराजभुजङ्गयोः” इति शाश्वतः ।
  • अभ्यर्णम् =अभि+ ऋण् “ऋणुँ गतौ” + घञ् । (अन्तिकम्) । लट्लकारे ऋणोति ।
  • आगस्कृतम्
    • आगः= आगस् शब्दः (अपराधः) । सहसा एति इति आगः ।
    • आगस्कृतम्= आगःकरोति इति आगस्कृत्, तम्

अन्यविषयाः

  • तेजः
    • अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत्
      प्राणत्यागेऽप्यसहनं तत्तेजः समुदाहृतम् ।

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • राजा = The king
    • बाहुप्रतिष्टम्भविवृद्धमन्युः = whose rage (मन्यु) had increased (विवृद्ध) due to the the paralysis (प्रतिष्टम्भ) of the hands (बाहु)
    • मन्त्रौषधिरुद्धवीर्यः भोगी इव = who was like (इव) a cobra (भोगी) whose power (वीर्य) has been restrained (रुद्ध) by the charms (मन्त्र) and herbs (औषधि)
  • अदह्यत = was burnt
  • अन्तः = inside, i.e., within himself,
  • स्वतेजोभिः = by his own (स्व) energy (तेजस्)
    • अस्पृशद्भिः = which could not touch (अस्पृश)
      • आगस्कृतम् = the offender
        • अभ्यर्णम् = who was very near

33. श्लोकः

कक्ष्या 25 – https://www.youtube.com/watch?v=XhQnhxgZKnk

मूलपाठः

मार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्
विस्माययन्विस्मित
मात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ।। २.३३ ।।

पदच्छेदः

तम्, आर्यगृह्यम्, निगृहीतधेनुः, मनुष्यवाचा, मनुवंशकेतुम्, विस्माययन्, विस्मितम्, आत्मवृत्तौ, सिंहोरुसत्त्वम्, निजगाद, सिंहः

अन्वयार्थः

  • निगृहीतधेनुः सिंहः = येन धेनुः पीडिता सः सिंहः
  • आर्यगृह्यम् = यः आर्यैः स्वाश्रयत्वेन सेव्यते, तथोक्तम् (साधुपक्षाश्रितम्)
  • मनुवंशकेतुम् = मनुकुलभूषणम् (केतुवद् व्यावर्तकम्)
  • सिंहोरुसत्त्वम् = सिंहः इव महाबलशाली, तम्
  • आत्मवृत्तौ विस्मितं = आत्मनः बाहुस्तम्भरूपात् अभूतपूर्व-व्यापारात् आश्चर्यान्वितम्
  • तम् = दिलीपराजम्
  • मनुष्यवाचा विस्माययन् = मनुष्यवाण्या आश्चर्यं प्रापयन्
  • निजगाद = उवाच

अन्वयः

निगृहीतधेनुः सिंहः आर्यगृह्यं मनुवंशकेतुं सिंहोरुसत्त्वम् आत्मवृत्तौ विस्मितं तं मनुष्यवाचा विस्माययन् निजगाद |

आकाङ्क्षा

  • निजगाद
    • कः निजगाद ? सिंहः
      • कीदृशः सिंहः ? निगृहीतधेनुः
    • किं कुर्वन् सिंहः ? विस्माययन्
      • कया विस्माययन् ? मनुष्यवाचा
      • कं विस्माययन् ? तम्
        • कीदृशं तम् ? आर्यगृह्यम्
        • पुनः कीदृशं तम् ? मनुवंशकेतुम्
        • पुनः कीदृशं तम् ? सिंहोरुसत्त्वम्
        • पुनः कीदृशं तम् ? विस्मितम्
          • कस्मिन् विषये विस्मितम् ? आत्मवृत्तौ

तात्पर्यम्

मनुकुलभूषणस्य सज्जनानां रक्षितुः सिंहस्य इव बलवतः दिलीपचक्रवर्तिनः पुरः रक्ष्या धेनुः सिंहेन निगृहीता । ततः पराभवं प्राप्तस्य सिंहवधाय शरम् उद्धर्तुकामस्य तस्य कराङ्गुल्यः बाणमूले सक्ताः अभवन् । अहो ! प्रवर्तमानं किमिदम् इति आश्चर्यान्वितं दिलीपम् इतोऽपि आश्चर्यं प्रापयन् सः सिंहः मनुष्यवाण्या अभाषत ।

पदविवरणम्

  • निगृहीतधेनुः = निगृहीता धेनुः येन सः
  • आर्यगृह्यम् = आर्यैः गृह्यः आर्यगृह्यः, तम्
  • मनुवंशकेतुम् = मनोः वंशः, मनुवंशः । मनुवंशस्य केतुः – मनुवंशकेतुः, तम्
  • सिंहोरुसत्त्वम् = सिंहस्य इव उरुसत्त्वः यस्य सः सिंहोरुसत्त्वः, तम्
  • आत्मवृत्तौ = आत्मनः वृत्तिः – आत्मवृत्तिः तस्याम्
  • मनुष्यवाचा = मनुष्यस्य वाक् मनुष्यवाक्, तया
  • विस्मितम् = स्मिङ् स्मयते + क्त (कर्तरि क्त)
  • विस्माययन् = स्मिङ् ईषद्धसने + णिच् (स्माययति) + शतृ (करणे)
  • निजगाद = नि + गद् + लिट् प्र पु, ए. व.

अन्यविषयाः

  • केतुः = द्वजः । Since a flag prominently attracts attention and is the most important factor in an army, it means ‘the most prominent or chief thing in a class’
  • आर्यः कः
    • कर्तव्यम् आचरन् कार्यम् अकर्तव्यम् अनाचरन्

तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः ॥

  • विस्मायान्
    • केचन विस्मापयन् इति पठन्ति । किन्तु यत्र हेतुतः (न तु कर्तृतः) भयस्य विस्मयस्य च उत्पत्तिः तत्र भी/स्मि-धात्वोः परस्मैपदमेव स्यात् (विस्माययति) । पुगागमः न स्यात् (विस्मापयते)। अत्र तु हेतुतः एव विस्मयस्य विवक्षा । अतः विस्माययन् इति साधु ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सिंहः = The lion
    • निगृहीतधेनुः = who had seized (निगृहीत) the cow (धेनु)
  • निजगाद = spoke
    • विस्माययन् = astonishing
    • तम् = him
      • आर्यगृह्यम् = who was always taken (गृह्य) by the noble men (आर्य)
      • मनुवंशकेतुम् = the most illustrious (केतु) of the manu (मनु) race (वंश)
      • सिंहोरुसत्त्वम् = whose strength (सत्त्व) was as great (उरु) as that of a lion (सिंह)
      • आत्मवृत्तौ विस्मितम् = who was astonished (विस्मित) at his own (आत्मन्) state (वृत्ति) of being paralysed
    • मनुष्यवाचा = by speaking in human (मनुष्य) accent (वाक्)

34. श्लोकः

कक्ष्या 26 – https://www.youtube.com/watch?v=pnKKQlEchfE

मूलपाठः

अलं महीपाल तव श्रमेण प्रयुक्तप्यस्त्रमितो वृथा स्यात्
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मू
र्च्छति मारुतस्य ।। २.३४ ।।

पदच्छेदः

अलम्, महीपाल, तव, श्रमेण, प्रयुक्तम्, अपि, अस्त्रम्, इतः, वृथा, स्यात्, न, पादपोन्मूलनशक्ति, रंहः, शिलोच्चये, मूर्छति, मारुतस्य

अन्वयार्थः

  • महीपाल = पृथिवीनाथ !
  • तव श्रमेण अलम् = भवतः प्रयासः मास्तु । साध्याभावात् श्रमः न कर्तव्यः
  • इतः मयि = अस्मिन् मयि
  • प्रयुक्तम् अपि अस्त्रम् = क्षिप्तम् आयुधम्
  • वृथा स्यात् = व्यर्थं / मोघं भवेत् ।
  • पादपोन्मूलनशक्ति = वृक्षोत्पाटने सामर्थ्यं यस्य (रंहसः), तत्
  • मारुतस्य रंहः = पवनस्य वेगः
  • शिलोच्चये = पर्वते
  • न मूर्च्छति = न प्रसरति

अन्वयः

महीपाल ! तव श्रमेण अलम् ! इतः मयि प्रयुक्तम् अपि अस्त्रं वृथा स्यात् । (तथा हि) मारुतस्य पादपोन्मूलनशक्ति रंहः शिलोच्चये न मूर्च्छति ।

आकाङ्क्षा

  • महीपाल !
  • अलम् (अस्तु) ।
    • केन अलम् ? श्रमेण
      • कस्य श्रमेण ? तव
    • स्यात् ।
      • किं स्यात् ? अस्त्रम्
        • कथम्भूता अस्त्रं स्यात् ? वृथा
        • कीदृशम् अस्त्रम् ? प्रयुक्तम्
          • कस्मिन् प्रयुक्तम् ? इतः मयि
        • न मूर्च्छति ।
          • न मूर्च्छति ? रंहः (कर्तृपदम्)
            • कीदृशं रंहः ? पादपोन्मूलनशक्ति
            • कस्य रंहः ? मारुतस्य
          • कुत्र न मूर्च्छति ? शिलोच्चये

तात्पर्यम्

भूपते ! त्वं प्रसभोद्धृतारिः स्याः नाम । किन्तु मयि बाणप्रहाररूपः तव प्रयासः व्यर्थः एव स्यात् । यथा तरूणाम् उत्पाटने समर्थः पवनः पर्वते विफलः भवति तथा इतरान् पराजेतुं समर्थः त्वं मादृशान् नाशयितुम् नैव शक्नोषि ।

पदविवरणम्

  • महीपाल = महीं पाति इति महीपालः, तत् सम्बुद्धौ ।
  • अलम् = (अव्ययम्) भूषणम्, पर्याप्तिः, शक्तिः, वारणम्
  • इतः मयि = अनेन / अस्मात् / अस्मिन् वा इत्यर्थे
    • अत्र अस्मिन् मयि इति बोध्यम् ।
    • तद् ब्रूत वत्साःकिमितःप्रार्थयध्वं समागताः (कुमार २.२८) इत्यत्र पञ्चम्यर्थः ।
  • प्रयुक्तम् = प्र + युज् “युजिँर् योगे” + क्त । युङ्क्ते ।
  • अस्त्रम् = अस्यते क्षिप्यते यत् । क्षेपनयोग्यबाणादि ।
  • वृथा = अव्ययम् । अविधिविफलयोः ।
  • पादपोन्मूलनशक्ति
    • पादपाः = पादैः पिबन्ति इति पादपाः
    • पादपोन्मूलनम् = पादपानाम् उन्मूलनम्
    • पादपोन्मूलनशक्ति = पादपोन्मूलने शक्तिः यस्य तत्, तथोक्तम्
  • रंहः = रंहस् स. नपुं. प्र.वि, ए.व.
  • शिलोच्चये = शिलानाम् उच्चयः शिलोच्चयः, तस्मिन्
  • मूर्च्छति = मूर्च्छ् “मुर्छाँ मोहसमुच्छ्राययोः”
  • (श्रयति = प्रसरति) ।

अन्यविषयाः

  • “इतः मयि प्रयुक्तम् अपि अस्त्रं वृथा स्यात्”
    • भवान् इतरान्अभिभवितुं शक्तोऽपि मादृशान् विनाशयितुं न शक्नोति इति भावः

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • (हे) महीपाल = O King
  • तव श्रमेण अलम् = Enough (अलम्) of your (युष्मद्) effort (श्रम)
  • अस्त्रम् = The weapon
    • प्रयुक्तम् अपि = even though (अपि) discharged
    • इतः (मयि) = against me
    • वृथा स्यात् = would be of no avail
  • मारुतस्य रंहः = The fury (रंहस्) of the storm (मारुत)
    • पादपोन्मूलनशक्तिः = that which has the strength (शक्ति) for uprooting (उन्मूलन) the trees (पादप)
    • न मूर्च्छति = does not (न) move forward (i.e., has no effect)
      • शिलोच्चये = on a mountain (शिलोच्चय)

35. श्लोकः

https://www.youtube.com/watch?v=Sz2g5lYRjpU

मूलपाठः

कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्टम्
अवेहि मां कि
ङ्करं अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ।। २.३५ ।।

पदच्छेदः

कैलासगौरम्, वृषम्, आरुरुक्षोः, पादार्पणानुग्रहपूतपृष्ठम्, अवेहि, माम्, किङ्करम्, अष्टमूर्तेः, कुम्भोदरम्, नाम, निकुम्भमित्रम्

अन्वयार्थः

  • कैलासगौरं वृषम् = कैलासपर्वतसदृशं शुभ्रम्
  • आरुरुक्षोः अष्टमूर्तेः = आरोढुम् इच्छुकस्य परमशिवस्य
  • पादार्पणानुग्रहपूतपृष्ठम् = (स्वस्य उपरि) पादन्यासः एव प्रसादः । तेन पवित्रीभूतः यस्य पृष्ठभागः, तादृशं (माम्)
  • कुम्भोदरं नाम = कुम्भोदरनामकम्
  • किङ्करम् = सेवकम्
  • निकुम्भमित्रम् = निकुम्भः नामकः सखा यस्य, तादृशं
  • माम् अवेहि = मां जानीहि

अन्वयः

कैलासगौरं वृषम् आरुरुक्षोः अष्टमूर्तेः पादार्पणानुग्रहपूतपृष्ठं कुम्भोदरं नाम किङ्करं निकुम्भमित्रं माम् अवेहि ।

आकाङ्क्षा

  • अवेहि
    • कः अवेहि ? त्वम् (कर्तृपदम्)
    • कम् अवेहि ? माम्
      • कीदृशं माम् ? पादार्पणानुग्रहपूतपृष्ठम्
        • कस्य पादार्पणानुग्रहपूतपृष्ठम् ? अष्टमूर्तेः
          • कीदृशस्य अष्टमूर्तेः ? आरुरुक्षोः
            • कम् आरुरुक्षोः ? वृषम्
              • कीदृशं वृषम् ? कैलासगौरम्
            • पुनः कीदृशं माम् ? किङ्करम्
            • पुनः कीदृशं माम् ? निकुम्भमित्रम्
            • पुनः कीदृशं माम् ? कुम्भोदरं नाम

तात्पर्यम्

दिलीपं विस्माययन् सिंहः मनुष्यवाचा उवाच – ‘कुम्भोदरः इति अभिधानं मम । मम पृष्ठे पदं निक्षिप्य धवलकान्तिं वृषभम् आरोहति परमशिवः । महादेवस्य चरणस्पर्शलाभात् पूतपृष्ठः अहम् इति आत्मानं धन्यं मन्ये । निकुम्भः मदीयः सखा । इत्थम् अष्टमूर्तेः शिवस्य सेवकं मां विजानीहि ।

पदविवरणम्

  • कैलासगौरं वृषम् = कैलासः इव गौरः कैलासगौरः तम् ,
  • आरुरुक्षोः = आरोढुम् इच्छुः आरुरुक्षुः, तस्य (इच्छार्थे सन् प्रत्ययः) । उ.पुं. ‘आरुरुक्षु’ ष. ए.व. ।
  • अष्टमूर्तेः = अष्ट मूर्तयः यस्य सः अष्टमूर्तिः, तस्य
  • पादार्पणानुग्रहपूतपृष्ठम्
    • पादार्पणम् = पादयोः अर्पणम्
    • पादार्पणानुग्रहः = पादार्पणम् एव अनुग्रहः
    • पादार्पणानुग्रहपूतपृष्ठम् = पादार्पणानुग्रहेण पूतं पृष्ठं यस्य सः पादार्पणानुग्रहपूतपृष्ठः, तम्
  • किङ्करम् = किञ्चित् करोति इति किङ्करः
  • निकुम्भमित्रम् = निकुम्भः मित्रं यस्य सः
  • अवेहि = अव् + इण् “इण् गतौ” म.पु. ए.व.

अन्यविषयाः

  • अष्टमूर्तिः
    • “पृथिवी सलिलं तेजो वायुराकाशमेव च ।
      सूर्याचन्द्रमसौ सोमयाजी चेत्यष्टमूर्तयः ॥” इति यादवः
  • निकुम्भः = महादेवस्य किङ्करेषु अन्यतमः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • अवेहि = You know
  • माम् = me (to be)
  • कुम्भोदरम् नाम किङ्करम् = A servant or Kinkara (किङ्कर) named Kumbhodara (कुम्भोदर)
  • निकुम्भमित्रम् = a friend (मित्र) of Nikumbha (निकुम्भ)
  • पादार्पणानुग्रहपूतपृष्ठम् = One whose back (पृष्ठ) has been purified (पूत) by the favour (अनुग्रह) of placing or offering (अर्पण) of the feet (पाद)
  • अष्टमूर्तेः = of Shiva, the eight (अष्ट) formed (मूर्ति) one
  • आरुरुक्षोः = of him, who is interested in ascending (on to)
  • वृषम् = Nandi, the bull (वृष)
  • कैलासगौरम् = which is white (गौर) like the Kailasa (कैलास) mountain

36. श्लोकः

https://www.youtube.com/watch?v=JU7yF2Zyjf8

मूलपाठः

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।। २.३६ ।।

पदच्छेदः

अमुम्, पुरः, पश्यसि, देवदारुम्, पुत्रीकृतः, असौ, वृषभध्वजेन, यः, हेमकुम्भस्तननिःसृतानाम्, स्कन्दस्य, मातुः, पयसाम्, रसज्ञः

अन्वयार्थः

  • पुरः = अग्रतः
  • अमुं देवदारुम् = इमम् देवदारुनामकं वृक्षम्
  • पश्यसि = वीक्षसे ।
  • यः असौ = यः अयं (अग्रतः दृश्यमानः)
  • वृषभध्वजेन = वृषभवाहनेन शिवेन
  • पुत्रीकृतः = पुत्रत्वेन स्वीकृतः
  • स्कन्दस्य मातुः = कुमारस्य अम्बायाः
  • हेमकुम्भस्तननिःसृतानाम् = see the section on Almkaara given below
  • पयसां रसज्ञः = क्षीराणाम् स्वादज्ञः (‘पयः क्षीरं पयोऽम्बु च’ इत्यमरः) ।

अन्वयः

पुरः अमुं देवदारुं (त्वं) पश्यसि । असौ वृषभध्वजेन पुत्रीकृतः यः स्कन्दस्य मातुः हेमकुम्भस्तननिःसृतानां पयसां रसज्ञः (अस्ति) ।

आकाङ्क्षा

  • (त्वं) पश्यसि
    • कं पश्यसि ? अमुं देवदारुम्
    • कुत्र पश्यसि ? पुरः
  • रसज्ञः (अस्ति)
    • कः रसज्ञः ? यः असौ पुत्रीकृतः (अस्ति)
      • केन पुत्रीकृतः ? वृषभध्वजेन
    • केषां रसज्ञः ? पयसाम्
      • कीदृशं पयसाम् ? हेमकुम्भस्तननिःसृतानाम्
      • कस्याः पयसाम् ? मातुः
        • कस्य मातुः ? स्कन्दस्य

तात्पर्यम्

हे राजन् ! अग्रे एनं देवदारुवृक्षं पश्यसि खलु ! अयं पार्वतीपरमेश्वराभ्यां पुत्ररूपेण स्वीकृतः । यथा पार्वतीदेवी स्कन्दं वात्सल्येन क्षीरं पाययति स्म तथा जलसेचनेन एनं देवदारुं पालितवती । स्कन्दसमानप्रेमास्पदः इति भावः ।

पदविवरणम्

  • पुत्रीकृतः = अपुत्रः पुत्रः संपद्यमानः कृतः
  • वृषभध्वजेन = वृषभः ध्वजे यस्य सः, तेन
  • हेमकुम्भस्तननिःसृतानाम्
    • हेमकुम्भः = हेम्नः कुम्भः
    • हेमकुम्भस्तनौ = हेमकुम्भः एव स्तनौ (इति देवदारुपक्षे)
    • हेमकुम्भस्तनौ = हेमकुम्भः इव स्तनौ (इति स्कन्दपक्षे)
    • हेमकुम्भस्तननिःसृतानाम् = हेमकुम्भस्तनाभ्यां निःसृतानि, तेषाम्
  • रसज्ञः = रसं जानाति इति

अन्यविषयाः

  • पुरः अमुं देवदारुं (त्वं) पश्यसि
    • पश्यसि इत्यत्र काकु ।
    • भिन्नकण्ठध्वनिः धीरैः काकुः इत्यभिधीयते । अत्र कण्ठस्वरभङ्गी-विश्लेषेण ‘पश्यसि’ इत्यनेन पश्यस्येव इत्यर्थः प्रतीयते ।
  • पुत्रीकृतः
    • अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः
    • अभूतपूर्वस्य पुत्रस्य पुत्ररूपेण सम्पादनं कृतम् । तस्मात् च्विप्रत्ययः विधीयते ।
    • कृ, भू, अस् – एतेषां धातूनां योगे एव च्विप्रत्ययः भवति ।
    • सम्पद्यते – पूर्वं पुत्रः न आसीत् किन्तु इदानीं सम्पन्नः (पुत्रीकृतः) ।

अलङ्कारः

  • श्लिष्टरूपकालङ्कारः, श्लेषः, उपमा च
    • हेमकुम्भस्तनौ =हेमकुम्भः एवस्तनौ (इति देवदारुपक्षे)
    • हेमकुम्भस्तनौ =हेमकुम्भः इवस्तनौ (इति स्कन्दपक्षे)
    • हेमकुम्भस्तननिःसृतानां पयसां (क्षीराणां) रसज्ञः स्कन्दः ।
    • हेमकुम्भस्तननिःसृतानां पयसां (जलानां) रसज्ञः देवदारुः ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • पुरः = Over here,
    • (त्वं) पश्यसि = you see
    • अमुम् = this
    • देवदारुम् = Devadaaru tree
  • यः असौ = He who is the one that
    • पुत्रीकृतः = was made (कृत) to become his son (पुत्र)
      • वृषभध्वजेन = by Shiva, who has the bull (वृषभ) in his banner (ध्वज)
    • रसज्ञः (अस्ति) = is one who knows (ज्ञा) the flavour or taste (रस) of
      • पयसाम् = milk / water (पयस्)
        • हेमकुम्भस्तननिःसृतानाम् = that which issues out (निःसृत) of golden (हेम) pitchers (कुम्भ) that are like the breasts (स्तन) [in the context of Devadaaru]
        • हेमकुम्भस्तननिःसृतानाम् = that which issues out (निःसृत) of the breasts (स्तन) that are like golden (हेम) pitchers (कुम्भ) [in the context of Skanda]
          • मातुः = of the mother (मातृ)
            • स्कन्दस्य = of Skanda (स्कन्द)

37. श्लोकः

https://www.youtube.com/watch?v=v-2yGyMC2Pw

मूलपाठः

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैन
द्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ।। २.३७ ।।

पदच्छेदः

कण्डूयमानेन, कटम्, कदाचित्, वन्यद्विपेन, उन्मथिता, त्वग्, अस्य, अथ, एनम्, अद्रेः, तनया, शुशोच, सेनान्यम्, आलीढम्, इव, असुरास्त्रैः

अन्वयार्थः

  • कदाचित् = कस्मिंश्चित् समये
  • कटम् = कपोलम्
  • कण्डूयमानेन वन्यद्विपेन = घर्षयता वनगजेन
  • अस्य त्वग् = अस्य देवदारोः वल्कलम्
  • उन्मथिता = उत्पाटिता
  • अथ अद्रेः तनया = पश्चात्, पार्वती
  • असुरास्त्रैः आलीढम् = दैत्यायुधैः क्षतम्
  • सेनान्यम् इव = सेनापतिं स्कन्दम् इव
  • एनम् = इमं तरुम्
  • शुशोच = शोचितवती

अन्वयः

कदाचित् कटं कण्डूयमानेन वन्यद्विपेन अस्य त्वग् उन्मथिता । अथ अद्रेः तनया असुरास्त्रैः आलीढं सेनान्यम् इव एनं शुशोच ।

आकाङ्क्षा

  • उन्मथिता (अभवत्)
    • का उन्मथिता ? त्वग्
      • कस्य त्वग् ? अस्य
    • केन उन्मथिता ? वन्यद्विपेन
      • कीदृशेन वन्यद्विपेन ? कण्डूयमानेन
        • किं कण्डूयमानेन ? कटम्
        • कदा कण्डूयमानेन ? कदाचित्
      • अथ शुशोच
        • का शुशोच ? तनया
          • कस्य तनया ? अद्रेः
        • कं शुशोच ? एनम्
        • कमिव एनम् ? सेनान्यम् इव
          • कथम्भूतं सेनान्यम् ? आलीढम्
            • कैः आलीढम् ? असुरास्त्रैः

तात्पर्यम्

सिंहः पुनः आह – ‘पुरः दृश्यमानः पार्वत्या पुत्रतुल्यः एषः देवदारुः कदाचित् क्षतग्रस्तः जातः । कस्मिंश्चिद् वनगजे अस्य वृक्षस्य काण्डे स्वकपोलं घर्षितवति, अस्य वल्कलम् उत्पाटितम् । ततः गौरी युद्धे दैत्यायुधैः स्वनन्दनं स्कन्दम् आहतं विदित्वा यथा विषीदेत् तथा एतम् व्रणितं वृक्षं दृष्ट्वा विषण्णा अभवत्’ ।

पदविवरणम्

  • कण्डूयमानेन = कण्डूय् ‘गात्रविघर्षणे’ कण्डूयते, शानजन्तं पदम् ।
  • वन्यद्विपेन
    • वन्यः = वने भवः ।
    • द्विपः = द्वाभ्यां (मुखशुण्डाभ्यां) पिबति इति द्विपः ।
    • वन्यद्विपेन = वन्यः द्विपः वन्यद्विपः, तेन
  • त्वग् = त्वच् शब्दः, चकारान्तः स्त्री. प्र. ए.व. । त्वक् त्वचौ त्वचः ।
  • उन्मथिता = उत् + मन्थ् “मन्थँ विलोडने” + क्त । उन्मथ्नाति ।
  • असुरास्त्रैः = असुराणाम् अस्त्राणि असुरास्त्राणि, तैः
  • आलीढम् = आङ् + लिह् “लिहँआस्वादने” + क्त ।
    • लेढि इति लटि । ‘आलीढ’ शब्दः, अकारान्तः पुं. द्वि. ए.व. ।
    • आङ् (आसमन्तात्) उपसर्गपूर्वकः लिह् धातुः क्षतः इति अर्थं बोधयति ।
  • सेनान्यम् = सेनां नयति इति सेनानीः, तम् । सेनानी शब्दः, ईकारान्तः पुं. सेनानीः सेनान्यौ सेनान्यः ।
  • शुशोच = शुच् “शुचँशोके” – लिट् प्र.पु. ए.व. । लटि – शोचति ।

अन्यविषयाः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • कदाचित् = On one occasion
    • अस्य = its, this tree’s
    • त्वग् = bark
    • उन्मथिता = was destroyed
    • वन्यद्विपेन = by a wild (वन्य) elephant (द्विप)
      • कण्डूयमानेन = by one which was scratching
      • कटम् = its temples (against the tree)
    • अथ = Due to that
      • अद्रेः तनया = Parvati, the daughter (तनया) of the mountain (अद्रि)
      • शुशोच = grieved for
      • एनम् = it, this Devadaaru tree.
      • इव = as if (it is)
        • सेनान्यम् = Skanda, the commander of the divine forces
          • आलीढम् = who is beaten or wounded (literal meaning is licked out)
          • असुरास्त्रैः = by the asuras’ (असुर) weapons (अस्त्र)

38. श्लोकः

https://www.youtube.com/watch?v=MQiKsYANPjM

मूलपाठः

तदाप्रभृत्येव वनद्विपानां त्रासार्थम् अस्मिन्नहम् अद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्व
म् अङ्कागतसत्त्ववृत्ति ।। २.३८ ।।

पदच्छेदः

तदाप्रभृति, एव, वनद्विपानाम्, त्रासार्थम्, अस्मिन्, अहम्, अद्रिकुक्षौ, व्यापारितः, शूलभृता, विधाय, सिंहत्वम्, अङ्कागतसत्त्ववृत्ति

अन्वयार्थः

  • तदाप्रभृति एव= तत्कालाद् आरभ्य एव
  • वनद्विपानांत्रासार्थम् =वनगजानां भयार्थम्
  • शूलभृता= शिवेन
  • अङ्कागतसत्त्ववृत्ति = समीपं प्राप्ताः प्राणिनः एव वृत्तिः यस्मिन् तत्
  • सिंहत्वं= केसरित्वम्
  • विधाय= कृत्वा
  • अस्मिन्अद्रिकुक्षौ= एतस्मिन् गह्वरे (पर्वतोदरे)
  • अहम् व्यापारितः(अस्मि) =अहं नियुक्तः ।

अन्वयः

तदाप्रभृति एव वनद्विपानां त्रासार्थं शूलभृता अङ्कागतसत्त्ववृत्ति सिंहत्वम् विधाय अस्मिन् अद्रिकुक्षौ अहं व्यापारितः (अस्मि) ।

आकाङ्क्षा

  • अहम् व्यापारितः (अस्मि)
    • कुत्र व्यापारितः ? अस्मिन् अद्रिकुक्षौ
    • किं कृत्वा व्यापारितः ? विधाय
      • किं विधाय ? सिंहत्वम्
        • कीदृशं सिंहत्वम् ? अङ्कागतसत्त्ववृत्ति
      • केन व्यापारितः ? शूलभृता
      • किमर्थं व्यापारितः ? त्रासार्थम्
        • केषां त्रासार्थम् ? वनद्विपानाम्
      • कदा आरभ्य व्यापारितः ? तदाप्रभृति एव

तात्पर्यम्

सिंहः दिलीपम् आह – कपोलं घर्षयता वन्यद्विपेन देवदारुः उत्पाटितवल्कलः जातः इति विदित्वा अस्य रक्षणाय परमशिवेन कश्चन उपायः विहितः अस्ति । “सिंहरूपधारिणा समीपागतजन्तुभोजिना सता त्वया वनगजेभ्यः अयं वृक्षः रक्षणीयः” इति मत्स्वामिनः आज्ञा । तदारभ्य अस्यां गुहायां निवसामि ।

पदविवरणम्

  • तदाप्रभृति= सः कालः प्रभृतिः (आदिः) यस्मिन् कर्मणि तत् तथा (क्रियाविशेषणम्)
  • वनद्विपानाम्
    • द्विपाः = द्वाभ्यां (मुखशुण्डाभ्यां) पिबन्ति इति ।
    • वनद्विपानाम् = वनस्य द्विपाः वनद्विपाः, तेषाम्
  • त्रासार्थम् =त्रासाय इति (अस्वपदविग्रहः)
  • शूलभृता= शूलं बिभर्ति इति शूलभृत्, तेन
  • अङ्कागतसत्त्ववृत्ति = अङ्कम् आगताः सत्त्वाः एव वृत्तिः यस्मिन् तत्
  • सिंहत्वम्= सिंहस्य भावः सिंहत्वम् (भावार्थेक-तद्धितप्रत्ययः त्व)
  • विधाय= वि + धा “डुधाञ् धारणपोषणयोः” + ल्यप् । दधाति ।
  • अद्रिकुक्षौ= अद्रेः कुक्षिः अद्रिकुक्षिः, तस्मिन्
  • व्यापारितः= वि + आङ् + पृ “व्याङ् पृङ्व्यायामे” + क्त । व्याप्रियते लटि । व्यापारयति णिचि ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तदाप्रभृति एव = From then (तदा) onwards (प्रभृति) itself (एव),
    • अहम् व्यापारितः (अस्मि) = I have been ordained
    • शूलभृता = by Lord Shiva, the trident (शूल) holder (भृत्)
    • वनद्विपानां त्रासार्थम् = for scraing (त्रास) away the wild (वन्य) elephants (द्विप)
    • विधाय = after being given (धा)
    • सिंहत्वम् = the form and nature of a lion (सिंह)
    • अङ्कागतसत्त्ववृत्ति = one which is sustained (वृत्ति) by the animals (सत्त्व) which come within its reach (अङ्क+आगत)
    • अस्मिन् अद्रिकुक्षौ = in this cave (कुक्षि) of this mountain (अद्रि)

39. श्लोकः

https://www.youtube.com/watch?v=reCGHwFfA2M

मूलपाठः

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ।। २.३९ ।।

पदच्छेदः

तस्य, अलम्, एषा, क्षुधितस्य, तृप्त्यै, प्रदिष्टकाला, परमेश्वरेण, उपस्थिता, शोणितपारणा, मे, सुरद्विषः, चान्द्रमसी, सुधा, इव

अन्वयार्थः

  • अलम् = अत्यर्थम् / पर्याप्तम्
  • क्षुधितस्य तस्य मे = बुभुक्षितस्य अङ्कागतसत्त्ववृत्तेः मम (सिंहस्य)
  • तृप्त्यै = उदरपूर्त्यै
  • शोणितपारणा इयम् = रुधिरस्य व्रतान्तभोजनम् इदम् (गोरूपम्)
  • परमेश्वरेण प्रदिष्टकाला एषा = परमशिवेन निर्दिष्टसमया
  • सुरद्विषः चान्द्रमसीसुधा इव = राहोः शशिसम्बन्धि अमृतम् इव
  • उपस्थिता= प्राप्ता

अन्वयः

अलं क्षुधितस्य तस्य मे तृप्त्यै एषा शोणितपारणा परमेश्वरेण प्रदिष्टकाला सुरद्विषः चान्द्रमसी सुधा इव उपस्थिता ।

आकाङ्क्षा

  • अलम्(अस्ति)
    • कस्यै अलम् ? तृप्त्यै
      • कस्यतृप्त्यै ? तस्य मे
    • का अलम्? एषा (गौः)
      • कीदृशी एषा? प्रदिष्टकाला
        • केनप्रदिष्टकाला ? परमेश्वरेण
      • पुनः कीदृशी एषा? शोणितपारणा
      • पुनः कीदृशी एषा? उपस्थिता
        • कथम् इव उपस्थिता ? सुरद्विषः चान्द्रमसी सुधा इव
      • उपस्थिता
        • काउपस्थिता ? शोणितपारणा एषा (गौः)
          • कीदृशी एषा? प्रदिष्टकाला
            • केनप्रदिष्टकाला ? परमेश्वरेण
          • कथम्भूता एषा ? अलम् (भवति)
            • कस्यै अलम् ? तृप्त्यै
              • कस्य तृप्त्यै ? क्षुधितस्य मे
            • कथम् इव उपस्थिता ? सुरद्विषः चान्द्रमसी सुधा इव

तात्पर्यम्

सिंहः भूयोऽपि अवदत् – “परमशिवस्य आदेशम् अनु मम समीपे ये जीवाः आगच्छन्ति तान् भक्षयित्वा जीवामि । तथा (अङ्कागतसत्त्ववृत्तेः) आ बहोः कालात् बुभुक्षितस्य मम क्षुधानिवृत्त्यै परमेश्वरेण निर्दिष्टसमया इव या इयं गोरूपा पारणा स्वयम् अत्र प्राप्ता सा मम उदरपूरणाय पर्याप्ता ।“

पदविवरणम्

  • अलम् = अत्यर्थम् । (अव्ययम्) भूषणम्, पर्याप्तिः, शक्तिः, वारणम् । अत्र पर्याप्तिः ।
  • क्षुधितस्य = क्षुध् “क्षुधँबुभुक्षायाम्” + (कर्तरि) क्त । क्षुध्यति ।
  • तृप्त्यै = ‘तृप्ति’ शब्दः, इकारान्तः, स्त्री. च.वि. ए.व. ।
    • ‘नमः–स्वस्ति-स्वाहा-स्वधा-अलम्-वषड्-योगाच्च’ इत्यनेन सूत्रेण ‘अलम्’ इति अव्यययोगात् ‘तृप्ति’ पदस्य चतुर्थी ।
  • शोणितपारणा
    • १. शोणितस्य पारणा (षष्ठीतत्पुरुषः)
    • २. शोणितम् एव पारणा (अवधारणा पूर्वपदकर्मधारयः)
  • परमेश्वरेण = परमः ईश्वरः, परमेश्वरः तेन
  • प्रदिष्टकाला = प्रदिष्टः कालः यस्याः सा
  • सुरद्विषः = सुरान् द्वेष्टि इति सुरद्विट्, तस्य । सुरद्विष् – प्रातिपदिकम् । सुरद्विट् – प्र.वि., ए.व. । सुरद्विषः – ष.वि., ए.व. ।
  • चान्द्रमसी = चन्द्रमसः इयम् (सम्बन्धार्थकः तद्धितान्तः)
  • उपस्थिता = उप + स्था “ष्ठागतिनिवृत्तौ” + कर्तरि क्त ।

अन्यविषयाः

  • अलं महीपाल तव श्रमेण (३४)
    • अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा
    • श्रमः न कर्तव्यः इत्यर्थः । (अलं प्रयोगद्वारा अत्र ‘प्रतिषेधः’ विवक्षितः)
  • एषा शोणितपारणा क्षुधितस्य मे तृप्त्यै अलम् (३९)
    • नमः–स्वस्ति-स्वाहा-स्वधा-अलम्-वषड्-योगाच्च(अलं प्रयोगद्वारा अत्र ‘पर्याप्तिः’ विवक्षिता)

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तृप्त्यै= For the gratification
    • मे = of me
      • तस्य = of such a person (who is here in this manner)
      • क्षुधितस्य = of one who is hungry
    • एषा= this one
      • शोणितपारणा = one who is the breaking-fast food (पारणा), in the form or made of blood (शोणित)
      • प्रदिष्टकाला = one whose time (काल) has been destined (प्रदिष्ट)
        • परमेश्वरेण = by Lord Shiva (परमेश्वर)
      • उपस्थिता= who has arrived in my proximity
    • अलम् = is enough
    • इव= just as
      • चान्द्रमसीसुधा = the nectar (सुधा) of the moon (चन्द्रमस्)
      • सुरद्विषः = for Rahu, the enemy (द्विट्) of the devas (सुर)

40. श्लोकः

https://www.youtube.com/watch?v=nPA6yl4a6e0

मूलपाठः

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।

शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।। २.४० ।।

पदच्छेदः

सः, त्वम्, निवर्तस्व, विहाय, लज्जाम्, गुरोः, भवान्, दर्शितशिष्यभक्तिः, शस्त्रेण, रक्ष्यम्, यद्, अशक्यरक्षम्, न, तद्, यशः, शस्त्रभृताम्, क्षिणोति

अन्वयार्थः

  • सः त्वम् = एवम् उपायशून्यः त्वम्
  • लज्जां विहाय = व्रीडां परित्यज्य
  • निवर्तस्व =प्रतिगच्छ
  • भवान् = दिलीपः त्वम्
  • गुरोः दर्शितशिष्यभक्तिः(अस्ति) = गुरौ वसिष्ठे आत्मनः प्रश्रयं प्रकाशितवान् अस्ति
  • यद् शस्त्रेण अशक्यरक्षम् = यत् (धनम् अथवा वस्तु) आयुधेन अपि रक्षितुम् अशक्यम्
  • तद् रक्ष्यम् = तद् संरक्षणीयं वस्तु नष्टं चेदपि
  • शस्त्रभृतां यशः = शस्त्रधराणां कीर्तिम्
  • न क्षिणोति = न हिनस्ति

अन्वयः

सः त्वं लज्जां विहाय निवर्तस्व । भवान् गुरोः दर्शितशिष्यभक्तिः अस्ति । यद् रक्ष्यं शस्त्रेण अशक्यरक्षं तद् शस्त्रभृतां यशः न क्षिणोति ।

आकाङ्क्षा

  • त्वं निवर्तस्व
    • कः त्वम् ? सः
    • किं कृत्वा निवर्तस्व ? विहाय
      • कां विहाय ? लज्जाम्
    • दर्शितशिष्यभक्तिः अस्ति
      • कः दर्शितशिष्यभक्तिः ? भवान्
      • कस्य दर्शितशिष्यभक्तिः ? गुरोः
    • न क्षिणोति
      • किं न क्षिणोति (कर्तृपदम्)? तद्अशक्यरक्षम्
        • कीदृशं तद्? यद् रक्ष्यम्
        • केन अशक्यरक्षम् ? शस्त्रेण
      • किं न क्षिणोति (कर्मपदम्) ? यशः
        • केषां यशः ? शस्त्रभृताम्

तात्पर्यम्

‘गुरोः यज्ञसम्पदं धेनुं केनाप्युपायेन रक्षितुम् अशक्तोऽहम्’ इति प्रवर्तमाने विस्मयं स्वस्मिन् च परिभवम् अन्वभवत् दिलीपः । तस्य शङ्कासमाधानाय सिंहः आह – “ननु गुरुधनं विनाश्य कथमहं तत्समीपं गच्छेयम् इति मा मन्यस्व । गुरुधनस्य रक्षणे तव श्रद्धा महती । प्रतिविधानाय त्वया यत्नः विहितः । किन्तु शस्त्रेणापि यस्य वस्तुनः रक्षणं न सिद्धं तद् नष्टं चेदपि त्वादृशस्य शस्त्रधारिणः अपकीर्तये न भवति । तव यशः किञ्चिदपि कुण्ठितं न भवति । अतः अलं व्रीडया ! अपगतशोकः सन् प्रतिगच्छ” इति ।

पदविवरणम्

  • विहाय = वि + हा “ओँहाक्त्यागे” + ल्यप् । लटि. जहाति ।
  • निवर्तस्व =नि + वृतु “वृतुँवर्तने”, लोट्., म.पु., ए.व. । लटि. वर्तते ।
  • दर्शितशिष्यभक्तिः
    • शिष्यस्य भक्तिः = शिष्यभक्तिः
    • दर्शितशिष्यभक्तिः = दर्शिता शिष्यभक्तिः येन सः
  • रक्ष्यम् = रक्षितुं योग्यम्
  • अशक्यरक्षम्
    • न शक्या = अशक्या
    • अशक्यरक्षम् = अशक्या रक्षा यस्य तद्
  • शस्त्रभृताम् = शस्त्राणि बिभ्रति इति शस्त्रभृतः, तेषाम्
  • क्षिणोति = क्षिण् “क्षिणुँ हिंसायाम्” लट्., प्र.पु., ए.व. । लटि. क्षेणोति / क्षिणोति ।

अन्यविषयाः

  • “ननु गुरुधनं विनाश्य कथं तत्समीपं गच्छेयम्” अतः आह शस्त्रेण रक्ष्यम्…
  • अशक्यार्थेषु अप्रतिविधानं न दोषाय इति भावः
    • “शौर्यं तेजो धृतिर्दाक्ष्यंयुद्धे चाप्यपलायनम्
      दानम् ईश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥” श्रीमद्भगवद्गीता १८/४३

अलङ्कारः

  • अर्थान्तरन्यासः

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः त्वं = You, being that person (who is rendered helpless)
    • निवर्तस्व = go back,
      • लज्जां विहाय = shedding your shame (लज्जा)
    • भवान् = You
      • दर्शितशिष्यभक्तिः अस्ति = are one who has demonstrated (दर्शित) the devotion (भक्ति) of disciple (शिष्य)
        • गुरोः = towards the guru (गुरु)
      • यद् अशक्यरक्षम् = That inability to protect
        • रक्ष्यम् = that which deserves to be protected
          • शस्त्रेण = using the weapons
        • तद् = that (inability)
          • न क्षिणोति = does not damage
            • शस्त्रभृतां यशः = the reputation of armed men

41. श्लोकः

https://www.youtube.com/watch?v=nPA6yl4a6e0

मूलपाठः

इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।

प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। २.४१ ।।

पदच्छेदः

इति, प्रगल्भम्, पुरुषाधिराजः, मृगाधिराजस्य, वचः, निशम्य, प्रत्याहतास्त्रः, गिरिशप्रभावात्, आत्मनि, अवज्ञाम्, शिथिलीचकार

अन्वयार्थः

  • पुरुषाधिराजः = नृपः
  • इति = स त्वं निवर्तस्व… इति एवम्
  • मृगाधिराजस्य प्रगल्भं वचः = वनराजस्य प्रकृष्टं वचनम्
  • निशम्य =श्रुत्वा
  • गिरिशप्रभावादात् = ईश्वरस्य तेजोविशेषात्
  • प्रत्याहतास्त्रः (सन्) =कुण्ठितास्त्रः सन् (विफलीकृतास्त्रः)
  • आत्मनि अवज्ञाम् =स्वस्य विषये अपमानम्
  • शिथिलीचकार =अत्यज्यत्

अन्वयः

पुरुषाधिराजः इति प्रगल्भं मृगाधिराजस्य वचः निशम्य गिरिशप्रभावात् प्रत्याहतास्त्रः (सन्) आत्मनि अवज्ञां शिथिलीचकार ।

आकाङ्क्षा

  • शिथिलीचकार
    • कः शिथिलीचकार ? पुरुषाधिराजः
      • कथं भूतः पुरुषाधिराजः ? प्रत्याहतास्त्रः (सन्)
        • कस्मात् प्रत्याहतास्त्रः ? गिरिशप्रभावात्
      • किं कृत्वा शिथिलीचकार ? निशम्य
        • कां निशम्य ? वचः
          • कस्य वचः ? मृगाधिराजस्य
          • कीदृशं वचः ? प्रगल्भम्
          • पुनः कीदृशं वचः ? इति
        • कां शिथिलीचकार ? अवज्ञाम्
          • कस्मिन् अवज्ञाम् ? आत्मनि

तात्पर्यम्

वनराजस्य असन्दिग्धं वचनं श्रुत्वा नरराजः प्रवृत्तम् इदं मदीयः क्षात्रतेजसः न्यूनतया न अपि तु परमशिवस्य तेजोविशेषात् इति अवगत्य आत्मनि उद्गतम् अपमानभावम् अत्यजत् । ‘हि समानेषु क्षत्रियाणाम् अभिमानः । न सर्वेश्वरं प्रति’ इति भावः ।

पदविवरणम्

  • पुरुषाधिराजः
    • अधिकः राजा = अधिराजः
    • पुरुषाधिराजः = पुरुषाणाम् अधिराजः
  • मृगाधिराजस्य = मृगाणाम् अधिराजः, तस्य
  • निशम्य =नि + शम् “शमुँउपशमे” + ल्यप् । लटि. शाम्यति ।
  • गिरिशप्रभावादात्
    • गिरौ शेते इति = गिरिशः
    • गिरिशप्रभावादात् = गिरिशस्य प्रभावः (तेजः), तस्मात्
  • प्रत्याहतास्त्रः= प्रत्याहतम् अस्त्रं यस्य सः
  • शिथिलीचकार =अशिथिलां शिथिलां कृतवान्

अन्यविषयाः

  • अवज्ञातोऽहम् इति निर्वेदं न प्राप इत्यर्थः । समानेषु हि क्षत्रियाणाम् अभिमानः । न सर्वेश्वरं प्रति इति भावः ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • पुरुषाधिराजः = The supreme king (अधिराज) of the people (पुरुष)
    • प्रत्याहतास्त्रः (सन्) = being one whose weapon (अस्त्र) was blocked or struck back (प्रत्याहत)
      • गिरिशप्रभावात् = by the power (प्रभाव) of Shiva (गिरिश), one who resides in the mountain
    • निशम्य = on hearing
      • प्रगल्भं मृगाधिराजस्य वचः = the bold and significant (प्रगल्भम्) speech (वचस्) of the supreme king (अधिराज) of the animals (मृग)
      • इति = in this way
    • शिथिलीचकार = relaxed or slackened
      • आत्मनि अवज्ञाम् = the low opinion towards himself

42. श्लोकः

https://www.youtube.com/watch?v=K7feCrku4Ac

मूलपाठः

प्रत्यब्रवीच्चैनं इषुप्रयोगे तत्पूर्वसङ्गे वितथप्रयत्नः ।

जडीकृतस्त्र्यम्बकविक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ।। २.४२ ।।

पाठभेदः

प्रत्याह वैनं शरमोक्षवन्ध्यो मा पत्त्रपर्वात्स्वरभेदं आप्तः ।

प्रहीणपूर्वध्वनिनाधिरूढस्तुलां असारेन शरद्घनेन ।। २.४२* ।।

पदच्छेदः

प्रत्यब्रवीत्, च, एनम्, इषुप्रयोगे, तत्पूर्वसङ्गे, वितथप्रयत्नः, जडीकृतः, त्र्यम्बकविक्षणेन, वज्रम्, मुमुक्षन्, इव, वज्रपाणिः

अन्वयार्थः

  • तत्पूर्वभङ्गे = सः एव प्रथमः भङ्गः (प्रतिबन्धः) यस्य तस्मिन्
  • इषुप्रयोगे = बाणप्रयोगे
  • वितथप्रयत्नः =विफलप्रयासः
  • वज्रं मुमुक्षन् =कुलिशं (वज्रायुधं) मोक्तुम् इच्छन्
  • त्र्यम्बकवीक्षणेन = हरस्य अवलोकनेन
  • जडीकृतः =निष्पन्दीकृतः / निःश्चेष्टीकृतः
  • वज्रपाणिः इव =इन्द्रः इव
  • एनम् =सिंहम्
  • प्रत्यब्रवीत् च =प्रत्यवदत्

अन्वयः

तत्पूर्वसङ्गे इषुप्रयोगे वितथप्रयत्नः वज्रं मुमुक्षन् त्र्यम्बकविक्षणेन जडीकृतः वज्रपाणिः इव एनं प्रत्यब्रवीत् च ।

आकाङ्क्षा

  • प्रत्यब्रवीत् च
    • कः प्रत्यब्रवीत् ? वितथप्रयत्नः
      • कस्मिन् वितथप्रयत्नः ? इषुप्रयोगे
        • कीदृशे इषुप्रयोगे ? तत्पूर्वसङ्गे
      • कः इव वितथप्रयत्नः ? वज्रपाणिः
        • कीदृशः वज्रपाणिः ? जडीकृतः
          • केन जडीकृतः ? त्र्यम्बकविक्षणेन
        • किं कुर्वन्वज्रपाणिः ? मुमुक्षन्
          • कं मुमुक्षन् ? वज्रम्
        • कं प्रत्यब्रवीत् ? एनम्

तात्पर्यम्

महेश्वरस्य अवलोकनेन प्रतिष्टब्धवज्रप्रहारः सन् स्थितः देवराजः इव बाणप्रयोगे निश्चेष्टीकृतः दिलीपराजः मृगराजम् प्रत्यभाषत ।

महाभारते द्रोणपर्वणि अयं वृत्तान्तः विद्यते –

“असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः

बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः” । द्रोणपर्व –

देवैः प्रार्थितः परमशिवः त्रिपुर-पुराणि अदहत् । दृश्यमिमं साक्षात्कर्तुं शिशुम् एकम् धारयन्ती देवी पार्वती तत्र उपस्थिता । सा सुरान् दृष्ट्वा अपृच्छत् – ‘ब्रूत कोऽयं बालः’ इति ? इन्द्रस्तु बालस्य अतुल्यं तेजः दृष्ट्वा असूयाविष्टः तं बालं हन्तुं उद्यतवज्रायुधः सन् स्थितः । बालरूपाधारी शङ्करः तस्य तं भुजम् अस्तम्भयत् । तदा भीताः देवा ब्रह्माणं रक्षोपायम् प्रार्थयन्त । ततः ब्रह्मपुरःसराः देवाः शङ्करम् अस्तुवन् । शङ्करस्य कृपया शक्रस्य बाहुः प्रकृतिं प्राप्तः ।

महा. द्रोणपर्व अ.२०२

पदविवरणम्

  • तत्पूर्वभङ्गे = सः एव पूर्वः भङ्गः यस्य सः तत्पूर्वभङ्गः, तस्मिन्
  • इषुप्रयोगे = इषोः प्रयोगः इषुप्रयोगः, तस्मिन्
  • वितथप्रयत्नः =वितथः प्रयत्नः यस्य सः
  • मुमुक्षन् =मोक्तुम् इच्छन् । मुञ्च मुच् “मुचॢँ मोक्षणे” + सन् + शतृ
  • त्र्यम्बकवीक्षणेन
    • त्रीणि अम्बकानि यस्य सः = त्र्यम्बकः
    • त्र्यम्बकवीक्षणेन = त्र्यम्बकस्य वीक्षणं त्र्यम्बकवीक्षणम्, तेन
  • तिस्रो देवीः यदा चैव भजते भुवनेश्वरः ।

द्यामपःपृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ॥ द्रोणपर्व/२०२/१३०

  • जडीकृतः =अजडः जडः सम्पद्यमानः कृतः जडीकृतः
  • वज्रपाणिः =वज्रं पाणौ यस्य सः
  • प्रत्यब्रवीत् =प्रति + ब्रू “ब्रूञ् व्यक्तायां वाचि” लङ्., प्र.पु., ए.व. । लटि ब्रवीति ।

अलङ्कारः

  • उपमा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • वितथप्रयत्नः = He whose attempt had failed
    • इषुप्रयोगे = in releasing the arrow
    • तत्पूर्वसङ्गे = in that task, which for the first time knew what failure was
  • वज्रपाणिः इव = like Indra, the one having thunderbolt (वज्र) in his hand (पाणि)
    • मुमुक्षन् = who was wanting to release
      • वज्रम् = the thunderbolt
    • जडीकृतः = one who was paralysed
    • त्र्यम्बकविक्षणेन = by the glance (विक्षण) of Shiva, the third-eyed (त्रि+अम्बक) one
  • प्रत्यब्रवीत् च = also spoke
  • एनम् = to it, the lion.

43. श्लोकः

https://www.youtube.com/watch?v=K7feCrku4Ac

मूलपाठः

संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद्यदहं विवक्षुः ।

अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान्भावतोऽभिधास्ये ।। २.४३ ।।

पदच्छेदः

संरुद्धचेष्टस्य, मृगेन्द्र, कामम्, हास्यम्, वचः, तद्, यद्, अहम्, विवक्षुः, अन्तर्गतम्, प्राणभृताम्, हि, वेद, सर्वम्, भवान्, भावम्, अतः, अभिधास्ये

अन्वयार्थः

  • मृगेन्द्र = हे वनराज !
  • संरुद्धचेष्टस्य (मम) = प्रतिबद्धव्यापारस्य मम
  • तद् वचः कामंहास्यम् अस्ति = तद् वाक्यं नूनं परिहसनीयम्
  • यद् (वचः) अहम् विवक्षुः (अस्मि)= यत् वाक्यं वक्तुम् इच्छुः अस्मि ।
  • हि = निश्चयेन
  • प्राणभृताम् = जीवानाम्
  • अन्तर्गतं सर्वं भावम् = हृद्गतम् अभिप्रायं भवान् वेद= भवान् जानाति
  • अतः अभिधास्ये = तस्मात् कथयिष्यामि

अन्वयः

(हे) मृगेन्द्र । संरुद्धचेष्टस्य (मम) तद् वचः कामं हास्यम् अस्ति, यद् (वचः) अहम् विवक्षुः (अस्मि) । हि भवान् प्राणभृताम् अन्तर्गतं सर्वं भावं वेद, अतः अभिधास्ये ।

आकाङ्क्षा

  • (हे) मृगेन्द्र ।
  • अहम् विवक्षुः (अस्मि)
    • किं विवक्षुः ? वचः
      • कस्य वचः ? संरुद्धचेष्टस्य (मम)
      • कीदृशं वचः ? यद् वचः कामंहास्यम् अस्ति तद्
    • (अहम्) अभिधास्ये
      • किमर्थम् अभिधास्ये ? हि भवान् वेद अतः
        • कं वेद ? भावम्
        • कीदृशं भावम् ? सर्वम्
        • पुनः कीदृशं भावम् ? अन्तर्गतम्
          • केषाम् अन्तर्गतम् ? प्राणभृताम्

तात्पर्यम्

हे मृगेन्द्र ! शस्त्रप्रयोगे विफलीकृतस्य मम वचनं (स त्वं मदीयेन शरीरवृत्तिं… इति वचनं) यद्यपि परिहासास्पदं तथापि भूतानां मनोगतं सर्वं त्वं जानासि इति हेतोः वदिष्यामि ।

पदविवरणम्

  • मृगेन्द्र = मृगाणाम् इन्द्रः मृगेन्द्रः, तत्सम्बुद्धौ
  • संरुद्धचेष्टस्य =संरुद्धा चेष्टा यस्य सः
  • कामम् = अव्ययम् (प्रकामार्थे) । स्वाच्छन्द्य-अनिच्छाङ्गीकारे-पर्याप्ति-प्रकाम-असूया-अनुगमनादिषु अर्थेषु अव्ययमिदम्
  • हास्यम् = हसितुं योग्यम्
  • विवक्षुः = वक्तुम् इच्छुः
  • हि = निश्चयेन । स्फुटार्थ-निश्चय-हेतु-पादपूरण-विशेषावधारण-प्रत्युक्तिषु वर्ततेऽयम्
  • प्राणभृताम् = प्राणान् बिभ्रति इति प्राणभृतः, तेषाम्
  • अभिधास्ये = अभि + धा “डुधाञ् धारणपोषणयोः” लिट्., उ.पु., ए.व. । लटि धत्ते ।

अन्यविषयाः

  • “अन्ये तु ईदृग्वचनम् आकर्ण्य असम्भावितार्थमेतद् इति अपहसन्ति । अतस्तु मौनम् एव भूषणम् । त्वं तु वाङ्मानसयोरेकविध एवायमिति जानासि अतः अभिधास्ये यद् वचोऽहं विवक्षुः इत्यर्थः”।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • हे मृगेन्द्र = O lord of the beasts
  • अहम् विवक्षुः (अस्मि) = I am indeed the person who wishes to tell
    • तद् वचः = that speech (i.e., those words)
    • संरुद्धचेष्टस्य (मम) = of me, one whose actions (चेष्टा) are suspended (संरुद्ध)
    • यद् = which
    • कामंहास्यम् अस्ति = is indeed laughable
  • हि भवान् वेद = Because you know
    • सर्वं भावम् = all (सर्व) the feelings (भाव)
      • अन्तर्गतम् = that are in (गत) the hearts (अन्तः)
      • प्राणभृताम् = of the living beings (प्राणभृत्), those that hold (भृ) the breath (प्राण)
    • अतः अभिधास्ये = therefore (अतः) I would submit (अभिधा) or place those words before you
  1. श्लोकः

https://www.youtube.com/watch?v=K7feCrku4Ac

मूलपाठः

मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः ।

गुरोरपीदं धनमाहिताग्नेर्नश्यत्पुरस्तादनुपेक्षणीयम् ।। २.४४ ।।

पदच्छेदः

मान्यः, सः, मे, स्थावरजङ्गमानाम्, सर्गस्थितिप्रत्यवहारहेतुः, गुरोः, अपि, इदम्, धनम्, आहिताग्नेः, नश्यत्, पुरस्तात्, अनुपेक्षणीयम्

अन्वयार्थः

  • स्थावरजङ्गमानाम् = चराचराणाम् (मनुष्यादीनां चराणाम्
  • तरुशैलादीनाम् अचराणाम्)
  • सर्गस्थितिप्रत्यवहारहेतुः सः = उत्पत्तिरक्षणप्रलयकारणं (अलङ्घ्यशासनः) सः ईश्वरः
  • मे मान्यः = मम पूज्यः । (तस्य शासनं मम आदरणीयम् इत्यर्थः)
  • पुरस्तात् =अग्रे(प्रतिविधानं कर्तुम् अवकाशः अस्ति)
  • नश्यत् इदम् =प्रलीयमानम् एतत्
  • आहिताग्नेः = अग्निहोत्रिणः
  • गुरोः धनम् अपि = कुलाचार्यस्य धनम् अपि (हविःसाधनं गोरूपं गुरोः धनं)
  • अनुपेक्षणीयम् = उपेक्षानर्हम्

अन्वयः

स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः सः मे मान्यः । पुरस्तात्

नश्यत् इदम् आहिताग्नेः गुरोः धनम् अपि अनुपेक्षणीयम् ।

आकाङ्क्षा

  • मान्यः (अस्ति)
    • कस्य मान्यः? मे
    • कः मान्यः? सः
      • कीदृशः सः? सर्गस्थितिप्रत्यवहारहेतुः
        • केषां सर्गस्थितिप्रत्यवहारहेतुः? स्थावरजङ्गमानाम्
      • अनुपेक्षणीयम् (अस्ति)
        • किम् अनुपेक्षणीयम्? इदं धनम् अपि
          • कीदृशं धनम्? नश्यत्
            • कुत्र नश्यत्? पुरस्तात्
          • कस्य धनम्? गुरोः
            • कीदृशस्य गुरोः? आहिताग्नेः

तात्पर्यम्

दिलीपः सिंहम् उवाच – ‘ईश्वरशासनेन अङ्कागतसत्त्ववृत्तिः सिंहरूपधरः त्वं वृक्षस्यास्य रक्षणे व्यापारितः । पारणार्थम् अङ्कागतायाः अस्याः वधः तव दृष्ट्या न्याय्यः । जगतः प्रभोः शासनं सर्वभूतानां यथा, तथा ममापि अनुल्लङ्घनीयम् इत्यत्र मम नास्ति संशयः । किन्तुः नित्याग्निहोत्रेः वसिष्ठगुरोः हविःसाधनभूता इयं गौः । अस्याः रक्षणे गुरुणा व्यापारितोऽहम् । मम पुरतः एव अपायग्रस्ताम् एनाम् कथम् उपेक्षितुम् अर्हामि ।’ इति ।

तदाप्रभृत्येव वनद्विपानां त्रासार्थम् अस्मिन्नहम् अद्रिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्वम् अङ्कागतसत्त्ववृत्ति ।। २.३८ ।।

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । १/६१

पदविवरणम्

  • स्थावरजङ्गमानाम्
    • तिष्ठन्ति इति स्थावराः
    • गच्छन्ति इति जङ्गमाः
    • स्थावरजङ्गमानाम् = स्थावराः च जङ्गमाः च स्थावरजङ्गमाः, तेषाम्
  • सर्गस्थितिप्रत्यवहारहेतुः
    • सर्गस्थितिप्रत्यवाराः = सर्गश्च स्थितिश्च प्रत्यवहारश्च
    • सर्गस्थितिप्रत्यवहारहेतुः = सर्गस्थितिप्रत्यवहाराणां हेतुः
  • मान्यः = मानितुं योग्यः
  • पुरस्तात् = अव्ययम्
  • नश्यत् =नश्यत् शब्दः, तकारान्तः, शतृप्रत्ययः, नपुं., प्र.वि., ए.व.
  • आहिताग्नेः
  • अनुपेक्षणीयम् = न उपेक्षणीयम्

अन्यविषयाः

  • आहिताग्नेः इति विशेषणेन अनुपेक्षाकारणं हविःसाधनत्वं सूचयति ।

छन्दः

  • वृत्तम्– उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://nivedita2015.wordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः =He, Lord Shiva
    • सर्गस्थितिप्रत्यवहारहेतुः =he, who is the cause (हेतु)of the creation (सर्ग), sustenance (स्थिति)and destruction (प्रत्यवहार)
    • स्थावरजङ्गमानाम् =of all the immovable (स्थावर)and movable beings (जङ्गम)
    • मे मान्यः =is highly regarded by me
  • इदं धनम् अपि =Even this wealth
    • आहिताग्नेः गुरोः =belonging to the guru (गुरु), who keeps up (आहित)the sacrificial fire (अग्नि)
    • नश्यत् =that which is perishing
    • पुरस्तात् =in front of me
    • अनुपेक्षणीयम् =ought not to be disregarded (न + उपेक्षणीय)
  1. श्लोकः

https://www.youtube.com/watch?v=YgVJj-hrfzo

मूलपाठः

स त्वं मदीयेन शरीरवृत्तिं देहेन निर्वर्तयितुं प्रसीद ।

दिनावसानोत्सुकबालवत्सा विसृज्यतां धेनुरियं महर्षेः ।। २.४५ ।।

पदच्छेदः

सः, त्वम्, मदीयेन, शरीरवृत्तिम्, देहेन, निर्वर्तयितुम्, प्रसीद, दिनावसानोत्सुकबालवत्सा, विसृज्यताम्, धेनुः, इयम्, महर्षेः

अन्वयार्थः

  • सः त्वम् =समीपम् आगतप्राणी एव यस्य आहारः तादृशः त्वम्
  • मदीयेन देहेन =मम शरीरेण
  • शरीरवृत्तिं निर्वर्तयितुम् = देहस्य निर्वहणं कर्तुम्
  • प्रसीद = प्रसन्नो भव
  • दिनावसानोत्सुकबालवत्सा इयम् = दिनान्ते मातुः प्रत्यागमनाय उत्कण्ठितः यस्याः वत्सः तादृशी एषा गौः
  • महर्षेः धेनुः इयम् = वसिष्ठाचार्यस्य गौः एषा
  • विसृज्यताम् = मुच्यताम्

अन्वयः

सः त्वं मदीयेन देहेन शरीरवृत्तिं निर्वर्तयितुं प्रसीद । दिनावसानोत्सुकबालवत्सा इयं महर्षेः धेनुः विसृज्यताम् ।

आकाङ्क्षा

  • प्रसीद
    • कः प्रसीद? त्वम्
      • कीदृशः त्वम् ? सः
    • किं कर्तुं प्रसीद? निर्वर्तयितुम्
      • कां निर्वर्तयितुम्? शरीरवृत्तिम्
      • केन निर्वर्तयितुम्? देहेन
        • कीदृशेन देहेन? मदीयेन
      • विसृज्यताम्
        • का विसृज्यताम्? इयं धेनुः
          • कस्य धेनुः? महर्षेः
          • कीदृशी धेनुः? दिनावसानोत्सुकबालवत्सा
        • केन विसृज्यताम्? त्वया

तात्पर्यम्

हे सिंह ! ‘त्वं मम शरीरेण स्वबुभुक्षां शामय । हि यदि धेनुः तव पारणा तर्हि गुरोः यज्ञसम्पद् विनष्टा भवेत् । अपि च दिनान्ते कदा नु अम्बा आगमिष्यति इति उत्कण्ठितः अस्याः वत्सः तदर्शनात् व्याकुलः भवेत । मम वचनम् इदम् अवेक्ष्य त्वं एनां परित्यज ! मयि प्रसन्नो भव ।’

उत्सुकबालवत्सा इत्यनेन पदेन द्वयोरपि (नन्दिन्याः तद्वत्सस्य च) सम्भावितः नाशः सूचितः ।

पदविवरणम्

  • मदीयेन = मम अयम् (देहः) – मदीयः, तेन ।सम्बन्धार्थे ‘ईय’ तद्धितप्रत्ययः ।
  • शरीरवृत्तिम् = शरीरस्य वृत्तिः शरीरवृत्तिः, ताम्
  • निर्वर्तयितुम् =निर् + वृत् “वृतुँ वर्तने” + णिच् + तुमुन्
  • प्रसीद =प्र + सद् “षदॢँ विशरणगत्यवसादनेषु”, लोट्., म.पु., ए.व. । लटि सीदति । 0990 and 06.0163 – present in both ganas ।
  • दिनावसानोत्सुकबालवत्सा
    • दिनावसानम् = दिनसय अवसानम्
    • बालः वत्सः = बालवत्सः
    • दिनावसानोत्सुकबालवत्सा = दिनावसाने उत्सुकः बालवत्सः यस्याः सा
  • महर्षेः = महान् ऋषिः, तस्य
  • विसृज्यताम् = वि + सृज् “सृजँ विसर्गे”, कर्मणि लोट्., प्र.पु., ए.व. । लटि. सृज्यते ।

छन्दः

  • वृत्तम्– उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://nivedita2015.wordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • सः त्वम् =You, one who is such a person
    • प्रसीद =be pleased
    • शरीरवृत्तिं निर्वर्तयितुं =to accomplish the subsistence of the body, i.e., to appease your hunger,
    • मदीयेन देहेन =with my body
  • विसृज्यताम् =Let go
    • इयम् =this
    • महर्षेः धेनुः =the great sage’s (महर्षि) cow (धेनु)
    • दिनावसानोत्सुकबालवत्सा =she whose young (बाल) calf (वत्स) is eager (उत्सुक) (e., eagerly awaiting her arrival) at the end (अवसान) of the day (दिन)

46. श्लोकः

https://www.youtube.com/watch?v=HvGYXFYZCrY

मूलपाठः

अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन् ।

भूयः स भूतेश्वरपार्श्ववर्ती किञ्चिद्विहस्यार्थपतिं बभाषे ।। २.४६ ।।

पदच्छेदः

अथ, अन्धकारम्, गिरिगह्वराणाम्, दंष्ट्रामयूखैः, शकलानि, कुर्वन्, भूयः, सः, भूतेश्वरपार्श्ववर्ती, किञ्चित्, विहस्य, अर्थपतिम्, बभाषे

अन्वयार्थः

  • अथ = ‘मदीयं देहं तवाहाराय अर्पयामि धेनुरियं विसृज्यताम्’ इति राज्ञः कथनानन्तरम्
  • भूतेश्वरपार्श्ववर्ती सः = परमशिवकिङ्करः सः सिंहः
  • गिरिगह्वराणाम् अन्धकारम् = पर्वतस्य गुहानां ध्वान्तम्
  • दंष्ट्रामयूखैः = तीक्ष्णदन्तानां किरणैः
  • शकलानि कुर्वन् = खण्डानि कुर्वन् / निरस्यन् / दूरीकुर्वन्
  • किञ्चित् विहस्य = ईषत् स्मितं कृत्वा
  • अर्थपतिम् = नृपम्
  • भूयः बभाषे = पुनः उवाच

अन्वयः

अथ भूतेश्वरपार्श्ववर्ती सः गिरिगह्वराणाम् अन्धकारं दंष्ट्रामयूखैः शकलानि कुर्वन् किञ्चित् विहस्य अर्थपतिं भूयः बभाषे ।

आकाङ्क्षा

  • बभाषे
    • कः बभाषे ? सः (सिंहः)
      • कीदृशः सः ? भूतेश्वरपार्श्ववर्ती
      • पुनः कीदृशः सः ? कुर्वन्
        • किं कुर्वन् ? शकलानि कुर्वन्
        • कं शकलानि कुर्वन् ? अन्धकारम्
          • केषाम् अन्धकारम् ? गिरिगह्वराणाम्
        • कैः शकलानि कुर्वन् ? दंष्ट्रामयूखैः
      • किं कृत्वा बभाषे ? किञ्चित् विहस्य
      • कदा बभाषे ? भूयः
      • कम् (उद्दिश्य) बभाषे ? अर्थपतिम्

तात्पर्यम्

नन्दिन्याः रक्षणाय स्वशरीरं त्यक्तुम् उद्यतं नृपं दृष्ट्वा ईषद् हसित्वा सिंहः पुनरपि अभाषत ।

हासकारणम् ‘अल्पस्य हेतोः बहु हातुम् इच्छन्’ २/४७ इति वक्ष्यमाणं द्रष्टव्यम् ।

पदविवरणम्

  • भूतेश्वरपार्श्ववर्ती
    • पार्श्ववर्ती = पार्श्वे वर्तितुं शीलम् अस्य इति । “ताच्छील्ये इनि” ।
    • भूतेश्वरः = भूतानाम् ईश्वरः
    • भूतेश्वरपार्श्ववर्ती = भूतेश्वरस्य पार्श्ववर्ती
  • गिरिगह्वराणाम् = गिरेः गह्वराणि गिरिगह्वराणि, तेषाम्
  • दंष्ट्रामयूखैः = दंष्ट्राणां मयूखाः, दंष्ट्रामयूखाः, तैः
  • अन्धकारम् = अन्धकार शब्दः, अकारान्तः पुं., द्वि.वि., ए.व.
  • शकलानि = शकल शब्दः, अकारान्तः नपुं., द्वि.वि., ब.व. । अत्र ‘शकलानि’ इति ‘अन्धकारम्’ इत्यस्य विधेयविशेषणम् ।
  • विहस्य = वि +हस् “हसेँ हसने” + ल्यप् । लटि. हसति ।
  • अर्थपतिम् = अर्थानां पतिः, तम्
  • बभाषे = भाष् “भाषँ व्यक्तायां वाचि” लिट्. प्र.पु., ए.व. । लटि. भाषते ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • अथ = Then
  • किञ्चित् विहस्य = after mildly smiling
  • सः भूतेश्वरपार्श्ववर्ती = He, the lion, the attendant (पार्श्ववर्ती) of Shiva, the Lord of all creatures (भूतेश्वर)
  • बभाषे = spoke
    • भूयः = again
    • अर्थपतिम् = to the King, the Lord of Riches
  • शकलानि कुर्वन् = breaking into pieces
    • गिरिगह्वराणाम् अन्धकारम् = the darkness of the caves of the mountain
    • दंष्ट्रामयूखैः = with the rays (मयूख) of its teeth (दंष्ट्रा)

47. श्लोकः

https://www.youtube.com/watch?v=HvGYXFYZCrY

मूलपाठः

एकातपत्रं जगतः प्रभुत्वं नवं यः कान्तमिदं वपुश्च ।

अल्पस्य हेतोर्बहु हातुमिच्छन्विचारमूढः प्रतिभासि मे त्वम् ।। २.४७ ।।

पदच्छेदः

एकातपत्रम्, जगतः, प्रभुत्वम्, नवम्, वयः, कान्तम्, इदम्, वपुः, च, अल्पस्य, हेतोः, बहु, हातुम्, इच्छन्, विचारमूढः, प्रतिभासि, मे, त्वम्

अन्वयार्थः

  • एकातपत्रम् = एकच्छत्रम् (राजच्छत्रम्)
  • जगतः प्रभुत्वम् = संसारस्य स्वामित्वम्
  • नवं वयः = यौवनम्
  • कान्तम् इदं वपुः च = इदं रम्यं गात्रं च
  • (एतत्सर्वं) बहु = इत्येवं प्रभूतम्
  • अल्पस्य हेतोः = स्वल्पेन कारणेन (अल्पफलाय)
  • हातुम् इच्छन् = त्यक्तुम् इच्छन्
  • त्वं विचारमूढः = त्वं कार्याकार्यविमर्शे मूर्खः
  • मे प्रतिभासि =मम लक्ष्यसे

अन्वयः

एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तम् इदं वपुः च (एतत्सर्वं) बहु, अल्पस्य हेतोः हातुम् इच्छन् त्वं विचारमूढः मे प्रतिभासि ।

आकाङ्क्षा

  • (अस्ति)
    • किम् अस्ति ? प्रभुत्वम्
      • कीदृशं प्रभुत्वम् ? एकातपत्रम्
      • कस्य प्रभुत्वम् ? जगतः
    • पुनः किम् अस्ति ? वयः
      • कीदृशं वयः ? नवम्
    • पुनः किम् अस्ति ? वपुः
      • कीदृशं वपुः ? इदम्
      • पुनः कीदृशं वपुः ? कान्तम्
    • प्रतिभासि
      • कस्मै प्रतिभासि ? मे
      • कः प्रतिभासि ? त्वम्
        • कथं भूतः त्वम् ? इच्छन्
          • किं कर्तुम् इच्छन् ? हातुम्
            • किं हातुम् ? बहु
          • कस्य हेतोः हातुम् इच्छन् ? अल्पस्य हेतोः

तात्पर्यम्

सिंहः ईषद् हसित्वा चक्रवर्तिनं दिलीपम् आह –
समग्रे जगति यस्य प्रतिद्वन्द्वी नृपः न विद्यते तादृशः एकच्छत्रभूषितः चक्रवर्ती त्वम् । तरुणः अपि असि । भोगसुखाय योग्यं तव वयः । कमनीयगात्रः च असि । अल्पार्थाय स्वामित्वतारुण्यसौन्दर्यादीनि विपुलैश्वर्याणि त्यक्तुम् इच्छन् त्वं मम सर्वथा विवेकरहितः लक्ष्यसे ।

पदविवरणम्

  • एकातपत्रम्
    • आतपत्रम् = आतपात् त्रायते इति आतपत्रम्
    • एकातपत्रम् = एकम् आतपत्रम्
  • प्रभुत्वम् = प्रभोः भावः
  • अल्पस्य हेतोः = ‘षष्ठी हेतुप्रयोगे’ इति षष्ठी
  • हातुम् = हा “ओँहाक् त्यागे” + तुमुन् । लटि. जहाति ।
  • विचारमूढः = विचारे मूढः
  • प्रतिभासि =प्रति + भा “भा दीप्तौ” लट्., म.पु., ए.व. ।

अन्यविषयाः

  • प्रतिद्वन्द्वि-नृपान्तराभावात्-अद्वितीयम् आतपत्रं यस्मिन् तत् (जगतः प्रभुत्वम्)

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • एकातपत्रं जगतः प्रभुत्वम् = Unrivalled sovereignity
    • नवं वयः = blooming youth
    • कान्तम् इदं वपुः च = and this beautiful body.
  • मे प्रतिभासि = It seems to me that
    • त्वं विचारमूढः = you lack discretion
    • हातुम् इच्छन् = you being one who wishes to lose
    • (एतत्सर्वं) बहु = a lot
    • अल्पस्य हेतोः = for the sake of a little

48. श्लोकः

https://www.youtube.com/watch?v=WkHIRF1XvmI

मूलपाठः

भूतानुकम्पा तव चेदियं गौरेका भवेत्स्वस्तिमती त्वदन्ते ।

जीवन्पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि ।। २.४८ ।।

पदच्छेदः

भूतानुकम्पा, तव, चेत्, इयम्, गौः, एका, भवेत्, स्वस्तिमती, त्वदन्ते, जीवन्, पुनः, शश्वत्, उपप्लवेभ्यः, प्रजाः, प्रजानाथ, पिता, इव, पासि

अन्वयार्थः

  • तव भूतानुकम्पा चेत् = भवतः भूतेषु दया यदि अस्ति
  • त्वदन्ते(सति)= (तर्हि) भवतः विनाशे सति
  • एका इयं गौः= केवला एषा नन्दिनी
  • स्वस्तिमती भवेत् = रक्षिता स्यात्
  • प्रजानाथ ! = नरेश !
  • जीवन् (त्वम्) = प्राणान् धारयन्
  • पुनः = भूयः
  • पिता इव = जनकः यथा
  • प्रजाः = (तथा) जनान्
  • उपप्लवेभ्यः = विघ्नेभ्यः
  • शश्वत् = सदा
  • पासि = रक्षसि

अन्वयः

तव भूतानुकम्पा चेत् त्वदन्ते (सति) इयं एका गौः स्वस्तिमती भवेत् । प्रजानाथ! जीवन् पुनः पिता इव प्रजाः उपप्लवेभ्यः शश्वत् पासि ।

आकाङ्क्षा

  • प्रजानाथ !
  • भवेत्
    • का भवेत् ? एका
      • कीदृशी एका ? गौः
      • पुनः कीदृशी एका ? इयम्
      • पुनः कीदृशी एका ? स्वतिमती
    • केन हेतुना स्वस्तिमती भवेत् ? तव भूतानुकम्पा (चेत्)
    • कदा स्वस्तिमती भवेत् ? त्वदन्ते (सति)
  • पासि
    • कः पासि ? (त्वम्)
      • कीदृशः त्वम् ? जीवन्
    • काः पासि ? प्रजाः
    • केभ्यः पासि ? उपप्लवेभ्यः
    • कदा पासि ? शश्वत्
    • कः इव पासि ? पिता इव

तात्पर्यम्

मत्पारणायै स्वशरीरार्पणेन केवला इयं नन्दिनीधेनुः कल्याणवती भवेत् । किन्तु त्वयि मृते समस्तं जगद् सङ्कटाकुलं भवेत् । हे प्रजापालक ! प्रजाहितम् तव सर्वथा अनुपेक्षणीयम् । अतः विवेकम् अवलम्ब्य साम्प्रतं कठोरमनाः यदि भवेः तर्हि चिराय पिता इव प्रजाः सङ्कटेभ्यः रक्षिष्यसि ।

“स्वप्राणव्ययेन एकधेनुरक्षणात् जीवितेन एव शश्वद् अखिलजगत्त्राणं वरम् इत्यर्थः ।”

पदविवरणम्

  • भूतानुकम्पा = भूतेषु अनुकम्पा
  • त्वदन्ते = तव अन्तःत्वदन्तः, तस्मिन्
  • स्वस्तिमती = स्वस्ति (क्षेमम्) अस्याः अस्तीति
  • प्रजानाथ = प्रजानां नाथः प्रजानाथः, तत्सम्बुद्धौ
  • उपप्लवेभ्यः = उपप्लव शब्दः, अकारान्तः, पुं., पं.वि., ब.व.
  • शश्वत् = अव्ययम्
  • पासि =पा “पा रक्षणे” लट्., म.पु., ए.व. । लटि. प्र.पु. पाति ।

अन्यविषयाः

  • “एका गौः स्वस्तिमती भवेत्” अनेन त्वयि मृते सकलं जगत् विपद्ग्रस्तं भवेत् अतः तव अतिनृशंसता एव प्रसज्येत इति सूचितम् । तदुक्तं शुक्रनीतौ –
    • यदि न स्यान्नरपतिः सम्यङ् नेता ततः प्रजा ।
      अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ इति

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तव भूतानुकम्पा चेत् = If your compassion (अनुकम्पा) is there for living beings (भूत)
    • त्वदन्ते (सति) = when your end (अन्त) happens
    • इयं एका गौः = this one (एका) cow (गो)
    • स्वस्तिमती भवेत् = will be happy
  • प्रजानाथ = O Lord of the subjects!
  • जीवन् = By living
    • पुनः पिता इव = again like a father
    • पासि = you (can) protect
    • प्रजाः उपप्लवेभ्यः = the subjects (प्रजा) from calamities (उपप्लव)
    • शश्वत् = always

49. श्लोकः

https://www.youtube.com/watch?v=Mr_hubqVRQ0

मूलपाठः

अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्बिभेषि ।

शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ।। २.४९ ।।

पदच्छेदः

अथ, एकधेनोः, अपराधचण्डात्, गुरोः, कृशानुप्रतिमात्, बिभेषि, शक्यः, अस्य, मन्युः, भवता, विनेतुम्, गाः, कोटिशः, स्पर्शयता, घटोध्नीः

अन्वयार्थः

  • अथ= पक्षान्तरे (अथवा)
  • एकधेनोः= एका एव धेनुः यस्य तस्मात् (गुरोः)
  • अपराधचण्डात्= धेनोः उपेक्षारूपापराधे अतिकोपनात् / अतिक्रुद्धात्
  • कृशानुप्रतिमात्= अग्निकल्पात्
  • गुरोः= आचार्यवसिष्ठात्
  • बिभेषि चेत्= त्रस्यसि चेत्
  • घटोध्नीः कोटिशः गाः= कुम्भाः इव ऊधांसि यासां, तादृशीः कोटिसंख्याकाः धेनूः
  • स्पर्शयता भवता= ददता त्वया
  • अस्य मन्युः= अस्य आचार्यस्य कोपः
  • विनेतुं शक्यः= दूरीकर्तुं समर्थः

अन्वयः

अथ एकधेनोः अपराधचण्डात् कृशानुप्रतिमात् गुरोः बिभेषि चेत् अस्य मन्युः घटोध्नीः कोटिशः गाः स्पर्शयता भवता विनेतुं शक्यः ।

आकाङ्क्षा

  • अथ (अथवा)
    • बिभेषि (चेत्)
      • कः बिभेषि ? (त्वम्)
      • कस्मात् बिभेषि ? गुरोः
        • कीदृशात् गुरोः ? एकधेनोः
        • पुनः कीदृशात् गुरोः ? अपराधचण्डात्
        • पुनः कीदृशात् गुरोः ? कृशानुप्रतिमात्
      • शक्यः अस्ति ।
        • किं कर्तुं शक्यः ? विनेतुम्
        • कः विनेतुं शक्यः ? मन्युः (कर्मपदम्)
          • कस्य मन्युः ? अस्य
          • केन शक्यः ? भवता (कर्तृपदम्)
            • कीदृशेन भवता ? स्पर्शयता
              • काः स्पर्शयता? गाः
                • कतिसंख्याकाः गाः ? कोटिशः
                • कीदृशीः गाः ? घटोध्नीः

तात्पर्यम्

राजन् ! धेनोः रक्षणे कृतलोपः यदि स्यां तर्हि एकमात्रयज्ञसाधनीभूतायाः अस्याः नाशात् अतिकोपनम् अग्निसदृशं तं गुरुं कथं सम्मुखीकुर्याम् इति तव भीतिः अनुचिता । यतो हि तादृशीनां पयस्विनीनां कोटिसङ्ख्याकानां धेनूनां प्रदानेन गुरोः कोपाग्निम् उपशामयितुं प्रभवसि ।

पदविवरणम्

  • एकधेनोः = एका एव धेनुः यस्य सः एकधेनुः तस्मात् (गुरोः), पुं.
  • अपराधचण्डात्
    • चण्डः = अत्यन्तकोपनः
    • अपराधचण्डात्= अपराधे चण्डः अपराधचण्डः, तस्मात्
  • कृशानुप्रतिमात्
    • प्रतिमा = उपमा
    • कृशानुप्रतिमात् = कृषानुः प्रतिमा यस्य सः कृशानुप्रतिमः तस्मात्
  • घटोध्नीः = घटाः इव ऊधांसि यासांताःघटोध्न्यः, ताः । ऊधसः अनङ् इति अनङादेशः । घटोध्न + बहुव्रीहेः ङीष् घटोध्नी ।
  • स्पर्शयता =स्पर्शयत् शब्दः, तकारान्तः, पुं., तृ.वि., ए.व.
  • विनेतुम्= वि + नी “णीञ्प्रापणे” + तुमुन्

अन्यविषयाः

  • `गुरोः बिभेषि’ इति काकुः – अल्पवित्तस्य धनहानिः अतिदुःसहा इति भावः ।
  • काकुः – अत्र कण्ठध्वनिविशेषेण ‘त्वं बिभेषि’ किन्तु न ते भयम् युक्तम् इति अर्थसूचनात्काकुः ।

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • अथ = Else
    • बिभेषि चेत् = if you fear
    • अपराधचण्डात् = the furious wrath (चण्ड) at your fault (अपराध)
      • गुरोः = of your guru (गुरु)
      • एकधेनोः = of him who possesses only one (एक) cow (धेनु)
      • कृशानुप्रतिमात् = of him who is like (प्रतिमा) the blazing fire (कृशानु)
    • शक्यः = it is possible
      • विनेतुम् = to pacify
      • अस्य मन्युः = his anger
      • भवता = by you
        • घटोध्नीः कोटिशः गाः स्पर्शयता = by one who can be presenting (स्पर्शयत्) him with crores (कोटि) of cows (गो) with udders (ऊधस्) as big as pot (घट)

50. श्लोकः

https://www.youtube.com/watch?v=_hjDIrGXAKY

मूलपाठः

तद्रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम्
महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पद
मैन्द्रमाहुः ।। २.५० ।।

पदच्छेदः

तत्, रक्ष, कल्याणपरम्पराणाम्, भोक्तारम्, ऊर्जस्वलम्, आत्मदेहम्, महीतलस्पर्शनमात्रभिन्नम्, ऋद्धम्, हि, राज्यम्, पदम्, ऐन्द्रम्, आहुः

अन्वयार्थः

  • तत्= तस्मात् कारणात्
  • कल्याणपरम्पराणां भोक्तारम्= उत्तरोत्तरं मङ्गलानाम् अनुभवितारम्
  • ऊर्जस्वलम्= बलवन्तम्
  • आत्मदेहम्= स्वकायम्
  • रक्ष= पालय
  • हि = यतः
  • ऋद्धं राज्यम् = समृद्धं राज्यम् / राजकर्म
  • महीतलस्पर्शनमात्रभिन्नम् ऐन्द्रं पदम् = भूतलसम्बन्धमात्रेण भिन्नम्इन्द्रसम्बन्धि स्थानम्
  • आहुः = कथयन्ति ।

अन्वयः

तत् कल्याणपरम्पराणां भोक्तारम् ऊर्जस्वलम् आत्मदेहं रक्ष । हि ऋद्धं राज्यं महीतलस्पर्शनमात्रभिन्नम् ऐन्द्रं पदं (पण्डिताः) आहुः ।

आकाङ्क्षा

  • रक्ष
    • कः रक्ष ? (त्वम्)
    • कम् रक्ष ? आत्मदेहम् (कर्मपदम्)
      • कीदृशम् आत्मदेहम् ? भोक्तारम्
        • कासां भोक्तारम् ? कल्याणपरम्पराणाम्
      • पुनः कीदृशम् आत्मदेहम् ? ऊर्जस्वलम्
    • किमर्थं रक्ष ? तत् (अव्ययम्)
  • हि आहुः ।
    • किम् आहुः ? राज्यम्
      • कीदृशं राज्यम् ? ऋद्धम्
      • कथम्भूतं राज्यम् ? महीतलस्पर्शमात्रभिन्नम् ऐन्द्रं पदम्

तात्पर्यम्

हे राजन् ! देहे सति धर्मार्थकाममोक्षाः चतुर्वर्गाः साध्यन्ते । ते च कल्याणपरम्परासाधकाः । एवं सति राज्यसुखम् उपभोक्तुं समर्थं स्वबलवच्छरीरं पालय । “ननु गामुपेक्ष्य आत्मरक्षणे स्वर्गहानिः स्यात्” इति चिन्तयसि चेत् तथा न । यतः परम्परया अधिगतं त्वया च सुष्ठु पाल्यमानं समृद्धं राज्यमिदं भूतलसम्बन्धेन केवलेन स्वर्गात् भिद्यते । अन्यथा तु ईदृग्राज्यम् इन्द्रस्थानकल्पम् वदन्ति पण्डिताः । मनुजेन्द्रः भूतलं स्पृशति देवन्द्रः न । अयम् एकमात्रः भेदः इत्यर्थः ।

पदविवरणम्

  • तत्= हेत्वर्थे अव्ययम्
  • कल्याणपरम्पराणाम् = कल्याणानां परम्पराः कल्याणपरम्पराः, तासाम्
  • भोक्तारम्= भोक्तृऋकारान्तः, भुज् “भुजोँ कौटिल्ये” + तृच् (कर्त्रर्थे) पुं., द्वि.वि., ए.व.
  • ऊर्जस्वलम्= ऊर्जाः(बलम्) अस्य अस्तीति ऊर्जस्वलः, तम् (वलच् प्रत्ययान्तः निपातः)
  • आत्मदेहम्= आत्मनः देहः आत्मदेहः, तम्
  • हि = यतः । स्फुटार्थ-निश्चय-हेतु-पादपूरण-विशेषावधारण-प्रत्युक्तिषु ।
  • ऋद्धम् = ऋद्ध् + क्त । ऋद्ध् “ऋद्धुँवृद्धौ” लटि. ऋद्ध्यति / ऋद्ध् “ऋद्धुँवृद्धौ” लटि. ऋद्ध्नोति
  • राज्यम् = राज्ञः कर्म भावो वा
  • महीतलस्पर्शनमात्रभिन्नम्
    • मह्याः तलम् = महीतलम्
    • महीतलस्य स्पर्शनम् = महीतलस्पर्शनम्
    • केवलं महीतलस्पर्शनम् = महीतलस्पर्शनमात्रम्
    • महीतलस्पर्शनमात्रभिन्नम् = महीतलस्पर्शनमात्रेण भिन्नम्
  • ऐन्द्रम् = इन्द्रयस्य इदम् ऐन्द्रम्, तत्
  • आहुः = ब्रू “ब्रूञ् व्यक्तायां वाचि” लट्., प्र.पु., ब.व. । “आह आहतुः आहुः”

अन्यविषयाः

  • ऊर्जस्वलम् इत्यनेन भोगसामर्थ्यम् उक्तम् ।
  • भोज्यं भोजनशक्तिश्च … विभवो दानशक्तिश्च नाल्पस्य तपसः फलम् ॥ इति
  • कल्याणपरम्पराणां भोक्तृत्वम्
  • शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ श्रीमद्भगवद्गीता १८/४४

  • शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् ।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥ रघु.१/८

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • तत् = Therefore
  • आत्मदेहं रक्ष = protect your body
    • कल्याणपरम्पराणां भोक्तारम् = that which is the enjoyer (भोक्ता) of the series (परम्परा) of blessings (कल्याण)
    • ऊर्जस्वलम् = and which has strength (ऊर्जस्वल)
  • हि = because
    • (पण्डिताः)आहुः = wise men say
      • ऋद्धं राज्यम् = the prosperous (ऋद्ध) kingdom (राज्य)
      • ऐन्द्रं पदम् = is the very status (पद) of Indra (इन्द्र)
      • महीतलस्पर्शनमात्रभिन्नम् = just the only (मात्र) difference (भिन्न) being its touching (स्पर्शन) the earth (महीतल)

51. श्लोकः

https://www.youtube.com/watch?v=5aViznVw3rk

मूलपाठः

एतावदुक्त्वा विरते मृगेन्द्रे प्रतिस्वनेनास्य गुहागतेन ।
शिलोच्चयोऽपि क्षितिपाल
मुच्चैः प्रीत्या तमेवार्थभाषतेव ।। २.५१ ।।

पदच्छेदः

एतावत्, उक्त्वा, विरते, मृगेन्द्रे, प्रतिस्वनेन, अस्य, गुहागतेन, शिलोच्चयः, अपि, क्षितिपालम्, उच्चैः, प्रीत्या, तम्, एव, अर्थम्, अभाषत, इव

अन्वयार्थः

  • मृगेन्द्रे एतावत् उक्त्वा विरते (सति) = यदा सिंहः पूर्वोक्तं भाषित्वा तूष्णींभूतः तदा
  • गुहागतेन अस्य प्रतिस्वनेन = स्वगह्वप्राप्तेन सिंहस्य प्रतिशब्देन
  • शिलोच्चयः अपि = हिमालयः अपि
  • प्रीत्या = प्रेम्णा
  • तम् एव अर्थम् = सिंहोक्तम् एव आशयम्
  • क्षितिपालम् = राजानम्
  • उच्चैः = तारस्वरेण
  • अभाषत इव = अकथयत् इव

अन्वयः

मृगेन्द्रे एतावत् उक्त्वा विरते (सति) गुहागतेन अस्य प्रतिस्वनेन शिलोच्चयः अपि प्रीत्या तम् एव अर्थं क्षितिपालम् उच्चैः अभाषत इव ।

आकाङ्क्षा

  • अभाषत इव – इव इति उत्प्रेक्षा
    • कः अभाषत ? शिलोच्चयः
    • कदा अभाषत इव ? मृगेन्द्रे विरते सति
      • किं कृत्वा विरते सति ? एतावद् उक्त्वा
    • किम् अभाषत इव ? अर्थम् (कर्मपदम्)
      • कीदृशम् अर्थम् ? तम् एव अर्थम्
    • कम् अभाषत इव ? क्षितिपालम् (कर्मपदम्)
    • कथम् अभाषत इव ? प्रीत्या
    • पुनः कथम् अभाषत इव ? प्रतिस्वनेन
      • कीदृशेन प्रतिस्वनेन ? गुहागतेन
      • कस्य प्रतिस्वनेन ? अस्य (सिंहस्य)
    • पुनः कथम् अभाषत इव ? उच्चैः

तात्पर्यम्

सिंहकथने अवसिते सति पुनः तदेव कथनं श्रुतं राज्ञा । पर्वतगुहातः उत्थितः सः प्रतिध्वनिः तथा प्रतिभाति स्म यथा हिमगिरिरपि हर्षेण सिंहवचनं समर्थयन् तमेव आशयम् उच्चैः प्रकटितवान् ।

पदविवरणम्

  • मृगेन्द्रे = मृगाणाम् इन्द्रः मृगेन्द्रः तस्मिन्
  • विरते = वि + रम् “रमुँ क्रीडायाम्” + क्त । स.वि. ए.व.
  • गुहागतेन = गुहां गतः गुहागतः, तेन
  • शिलोच्चयः = शिलानाम् उच्चयः
  • क्षितिपालम् = क्षितिं पालयति इति क्षितिपालः, तम्
  • अभाषत = भाष् “भाषँ व्यक्तायां वाचि” लङ्., प्र.पु., ए.व.
  • शिलोच्चयःक्षितिपालम् अर्थम्अभाषत इव ।
    • भाषिः अयं ब्रुविसमानार्थत्वाद् द्विकर्मकः । ब्रुविस्तु द्विकर्मकेषु पठितः
    • द्विकर्मकधातवः १६ सन्ति ।
      • दुह्, याच्, पच्, दण्ड्
      • रुद्ध्, पृच्छ्, चि, ब्रू
      • शास्, जि, मन्थ्, मुष
      • नी, हृ, कृष, वह

अलङ्कारः

  • उत्प्रेक्षा

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • मृगेन्द्रे एतावत् उक्त्वा विरते (सति) = When the lion ceased to talk having spoken till then,
    • गुहागतेन अस्य प्रतिस्वनेन = on account of the echo of his words
    • इव = it seemed that as though
      • शिलोच्चयः अपि = the mountain too
      • उच्चैः अभाषत = loudly said
      • प्रीत्या = with love
      • तम् एव अर्थम् = the very same meaning
      • क्षितिपालम् = to King Dileepaa

(Rest continued in the next part)

श्लोकः (Template)

प्रस्तावना

TODO

मूलपाठः

पदच्छेदः

TODO

सन्धिः

  • TODO

अन्वयार्थः

  • TODO

अन्वयः

TODO

आकाङ्क्षा

  • TODO

तात्पर्यम्

TODO

पदविवरणम्

  • TODO

अन्यविषयाः

  • TODO

अलङ्कारः

  • TODO

छन्दः

  • वृत्तम् – उपजातिः । इन्द्रवज्रा उपेन्द्रवज्रा च इति वृत्तद्वयमपि त्रिष्टुब्भेदान्तर्भूतम् । विस्तरेण ज्ञातुं प्रथमश्लोकं वा अत्र वा https://niveditawordpress.com/chandas-2/#upajaatih पश्यतु ।

Word-Meaning

  • TODO


References

http://www.giirvaani.in/giirvaani/rv/rv_kmj/02_rv_kmj.pdf

 

Other references