RaghuveeraGadyam2

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam ;

Link to Playlist session
https://www.youtube.com/playlist?list=PLTWf5ZhGT361doGc7fBYHyOjU681ADpP4

by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #25

षड्काण्डानि

1.बालकाण्डम्

2.अयोध्याकाण्डम्

3.अरण्यकाण्डम्

4.किष्किन्धाकाण्डम्

5.सुन्दरकाण्डम्

6.युद्धकाण्डम्

श्रीमद्रामायणे सुन्दरकाण्डे मुख्याः घट्टाः

1.हनूमतः सागरोल्लङ्घनम्

2.लङ्कानगरप्रवेशः सीतान्वेषणम् च

3.रावणभर्त्सनम्

4.त्रिजटास्वप्नः

5.आञ्जनेय-जानक्योः सम्भाषणम्

6.अङ्गुलीयकप्रदानम्

7.वननाशः राक्षससंहारः च

8.इन्द्रजितः ब्रह्मास्त्रप्रयोगः

9.हनूमतः दौत्यम्

10.लङ्कादहनम्

सुन्दरकाण्डे मुख्यः घट्टः – हनुमते अनुग्रहः

अपार-पारावार-परिघा-परिवृत-परपुर-दवदहन-जवन-पवनभव-कपिवर-परिष्वङ्ग-भावित-सर्वस्वदान ।

श्रीमद्रामायणे मुख्याः घट्टाः

सुन्दरकाण्डम्  — सप्तसर्गी पारायणक्रमः ​

अपार-पारावार-परिघा-परिवृत-परपुर-दवदहन-जवन-पवनभव-कपिवर-परिष्वङ्ग-भावित-सर्वस्वदान ।

[प्रतिपदार्थः] अपारः = परतीररहितः । पारावारः = समुद्रः (समुद्रोsब्धिरकूपारः पारावारः)। परिघा = दुर्गवेष्टनम् । परिवृतः = आवेष्टितः।
परपुरम् = शत्रोः नगरम् । दवदहनः = वनाग्निः (वनारण्य-वह्नी) ।
जवनः = शीघ्रगामी । पवनभवः = वायुपुत्रः, मारुतिः ।
कपिवरः = वानरश्रेष्ठः । परिष्वङ्गः = आश्लेषणम् ।
भावितम् = अभिसंहितम् । सर्वस्वदानः = स्वसर्वस्वं प्रदत्तं येन सः ।

[तात्पर्यम्]

परतीररहितेन (अत्यन्तविशालेन) समुद्रेण आविष्टं शत्रुनगरं गत्वा, तां नगरीं दग्ध्वा शीघ्रगत्या पुनरागतं वानरश्रेष्ठम् आलिङ्ग्य, तस्मै स्व सर्वस्वं दत्तं येन सः रामः।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः

विशेषः चाटुश्लोकः
पञ्चस्वेकेन सृष्टः पटुतरचरितः कोऽपि पञ्चस्वथैकं
तीर्थ्वा गन्तुं व्यवसन्नकुरुत सरणीं पञ्चके सोsयमेकं ।
पञ्चस्वेकेन सृष्टां प्रमुदितहृदयो वीक्ष्य पञ्चस्वथैकं
प्रक्षेप्सीच्छत्रुपुर्यां त्वदिदं बुधाः स्पष्टवाचा गृह्णन्तु ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सात्विकविघ्नः मैनाकः
विशेषः वाल्मीकिरामायणम् 5.58.7, 5.58.8

प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः ।
उदधेर्दक्षिणं पारं काङ्क्षमाणस्समाहितः ॥

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सात्विकविघ्नः मैनाकः
विशेषः वाल्मीकिरामायणम् 5.58.10, 5.58.12

प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ॥
शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥
मैनाकमिति विख्यातं निवसन्तं महोदधौ ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सात्विकविघ्नः – मैनाकः
विशेषः वाल्मीकिरामायणम् 5.58.11, 5.58.19

व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥
पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।

स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – राजसविघ्नः – नागमाता
विशेषः वाल्मीकिरामायणम् 5.58.21, 5.58.22

ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥
मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – राजसविघ्नः – नागमाता
विशेषः वाल्मीकिरामायणम् 5.58.23, 24, 25

विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ॥

तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्या स्सङ्काशं दूतोऽहं गमिष्ये रामशासनात् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – राजसविघ्नः – नागमाता
विशेषः वाल्मीकिरामायणम् 5.58.27, 5.58.28

एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।

विमुक्तस्सुरसया दशयोजनमायतः ॥
ततोर्थगुणविस्तारो बभूव अहं क्षणेन तु ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – राजसविघ्नः – नागमाता
विशेषः वाल्मीकिरामायणम् 5.58.30, 5.58.32

तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥
सुखी भव महाबाहो प्रीताऽस्मि तव वानर ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – तामसविघ्नः – सिंहिका (छायाग्राही)
विशेषः वाल्मीकिरामायणम् 5.58.39, 5.58.41, 5.58.42, 5.58.43

क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥
तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे । न च मां साधु बुबुधे मम वा विकृतं कृतम् ॥

ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् । तस्या हृदयमादाय प्रपतामि नभ:स्थलम् ॥

सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।मया पर्वतसङ्काशा निकृत्तहृदया सती ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – लङ्कानगरप्रवेशः लङ्किणीसंहारः
विशेषः वाल्मीकिरामायणम् 5.3.23, 5.58.49

कस्त्वं केन च कार्येण इह प्राप्तो वनालय ।

कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ॥

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥

त्रिविधाः विघ्नाः

  • विघ्नाः
  • सात्विकः – मैनाकः
  • राजसः – सुरसा
  • तामसः – सिंहिका

Session #26

सुन्दरकाण्डे मुख्यः घट्टः – हनुमते अनुग्रहः

अपार-पारावार-परिघा-परिवृत-परपुर-दवदहन-जवन-पवनभव-कपिवर-परिष्वङ्ग-भावित-सर्वस्वदान ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – पुष्पकसन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.7.7

नारीप्रवेकैरिव दीप्यमानं
तटिद्भिरम्भोदवदर्च्यमानम् ।
हंसप्रवेकैरिव वाह्यमानं
श्रिया युतं खे सुकृतां विमानम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – पुष्पकसन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.9.19

कूटागारैर्वराकारैर्विविधैस्समलङ्कृतम् ।
विमानं पुष्पकं दिव्यमारुरोह महाकपिः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – मन्दोदर्यां सीतावद्बुद्धिः

विशेषः वाल्मीकिरामायणम् 5.10.53

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।
तर्कयामास सीतेति रूपयौवनसम्पदा ॥
हर्षेण महता युक्तो ननन्द हरियूथपः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – मन्दोदर्यां सीतावद्बुद्धिः

विशेषः वाल्मीकिरामायणम् 5.10.54

आस्फोटयामास चुचुम्ब पुच्छं

ननन्द चिक्रीड जगौ जगाम ।
स्तम्भानरोहन्निपपात भूमौ

निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – मन्दोदर्यां सीतावद्बुद्धिः

विशेषः वाल्मीकिरामायणम् 5.11.2, 5.11.3

न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी ।
न भोक्तुं वाप्यलङ्कर्तुं न पानमुपसेवितुम् ॥
नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् ।
न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि ॥
अन्येयमिति निश्चित्य पानभूमौ चचार सः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनूमतः निर्वेदः

विशेषः वाल्मीकिरामायणम् 5.13.20 – 22

यदि सीतामदृष्ट्वाऽहं वानरेन्द्रपुरीमितः ॥ गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।

ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति ॥ प्रवेशश्चैव लङ्कायाः राक्षसानां च दर्शनम् ।

किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ॥ किष्किन्धां समनुप्राप्तं तौ वा दशरथात्मजौ ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनूमतः निर्वेदः

विशेषः वाल्मीकिरामायणम् 5.13.23 – 27

गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ॥ न दृष्टेति मया सीता ततस्त्यक्ष्यति जीवितम् ।

परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम् ॥ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।

तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसम् ॥ भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।

विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ॥ भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।

पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः ॥ कौसल्या च सुमित्रा च कैकेयी च न संशयः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनूमतः निर्वेदः

विशेषः वाल्मीकिरामायणम् 5.13.37

घोरमारोदनं मन्ये गते मयि भविष्यति ॥
इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.13.55

अशोकवनिका चेयं दृश्यते या महाद्रुमा ॥
इमामधिगमिष्यामि न हीयं विचिता मया ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.13.59

नमोऽस्तु रामाय सलक्ष्मणाय

देव्यै च तस्यै जनकात्मजायै ।

नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो

नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.14.49

सन्ध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी ।
नदीं चेमां शुभजलां सन्ध्यार्थे वरवर्णिनी ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम्  5.15.18, 5.15.19

ततो मलिनसंवीतां राक्षसीभिस्समावृताम् ॥

उपवासकृशां दीनां निश्श्वसन्तीं पुनः पुनः ।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥
इमामधिगमिष्यामि न हीयं विचिता मया ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.15.53, 5.15.54

दुष्करं कृतवान्रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सीतासन्दर्शनम्

विशेषः वाल्मीकिरामायणम् 5.16.5

तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम् ।
राघवोऽऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥

Session #27

Raghuveeragadyam
of Srimad Vedaantadeshika
#27 – Sundarakaandam – 3
Presented by Smt. Sujatha Ramesh

प्रस्तोत्री – श्रीमती  सुजाता रमेशः। भागः #27

रावणप्रलोभनं त्रिजटास्वप्नवृत्तान्तः च

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रावणप्रलोभनम्
विशेषः वाल्मीकिरामायणम् 5.19.3

आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ ।
उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – सामोपायः
विशेषः वाल्मीकिरामायणम् 5.20.7, 5.20.13, 5.20.15

देवि नेह भयं कार्यं मयि विश्वसि हि प्रिये ।
प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥

त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् ।
न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥
यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने ।
तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – दानोपायः
विशेषः वाल्मीकिरामायणम् 5.20.9, 5.20.17, 5.20.18

विचित्राणि च माल्यानि चन्दनान्यगरूणि च ।
विविधानि च वासांसि दिव्यान्याभरणानि च ॥

लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै ॥
तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ।

विजित्य पृथिवीं सर्वां नानानगरमालिनीम् ॥
जनकाय प्रदास्यामि तव हेतोर्विलासिनि ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – भेदोपायः
विशेषः वाल्मीकिरामायणम् 5.20.26, 5.20.27, 5.20.34

किं करिष्यसि रामेण सुभगे चीरवाससा ।
निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः ॥

न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते ।
पुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥

न रामस्तपसा देवि न बलेन न विक्रमैः ॥
न धनेन मया तुल्यस्तेजसा यशसापि वा ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – देव्याः प्रतिबोधनम्
विशेषः वाल्मीकिरामायणम् 5.21.3

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।

निवर्तय मनो मत्तः स्वजने क्रियतां मनः॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – उपदेशवचनानि
विशेषः वाल्मीकिरामायणम् 5.21.6, 5.21.7

नाहमौपयिकी भार्या परभार्या सती तव ॥
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ।

यथा तव तथान्येषां दारा रक्ष्या निशाचर ॥
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – उपदेशवचनानि
विशेषः वाल्मीकिरामायणम् 5.21.20, 5.21.28

विदितः स हि धर्मज्ञः शरणागतवत्सलः ॥
तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ॥

असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – दण्डोपायः
विशेषः वाल्मीकिरामायणम् 5.22.8, 5.22.9

द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः ।
ततः शयनमारोह मम त्वं वरवर्णिनि ॥

ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।
मम त्वां प्रातराशार्थमालभन्ते महानसे ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – त्रिजटास्वप्नवृत्तान्तः
विशेषः वाल्मीकिरामायणम् 5.27.18

लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्यवान् ॥
आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – त्रिजटास्वप्नवृत्तान्तः
विशेषः वाल्मीकिरामायणम् 5.27.28 – 30

कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी ॥
काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति ।

एवं तत्र मया दृष्टः कुम्भकर्णो निशाचरः॥
रावणस्य सुतास्सर्वे दृष्टास्तैलसमुक्षिताः ।

वराहेण दशग्रीवश्शिंशुमारेण चेन्द्रजित् ॥
उष्ट्रेण कुम्भकर्णश्च प्रयाता दक्षिणां दिशम् ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – त्रिजटास्वप्नवृत्तान्तः
विशेषः वाल्मीकिरामायणम् 5.27.39

अपगच्छत नश्यध्वं सीतामाप्नोति राघवः॥
घातयेत्परमामर्षी युष्मान्सार्थं हि राक्षसैः।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – आत्महननप्रयासः
विशेषः वाल्मीकिरामायणम् 5.28.15 – 17

मोघं चरित्वाथ तपो व्रतञ्च त्यक्ष्यामि धिग्जीवितमल्पभाग्याम् ॥

सा जीवितं क्षिप्रमहं त्यजेयं विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता न हि मेऽस्ति कश्चि च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥

इतीव देवी बहुधा विलप्य सर्वात्मना राममनुस्मरन्ती ।
प्रवेपमाना परिशुष्कवक्त्रा नगोत्तमं पुष्पितमाससाद ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – आत्महननप्रयासः
विशेषः वाल्मीकिरामायणम् 5.28.18

सा शोकतप्ता बहुधा विचिन्त्य
सीताऽथ वेण्युद्ग्रथनं गृहीत्वा ।
उद्बुध्य वेण्युद्ग्रथनेन शीघ्रमहं
गमिष्यामि यमस्य मूलम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – वैदेहीवायुपुत्रयोर्सम्भाषणम्
विशेषः वाल्मीकिरामायणम् 5.30.17 – 19

अहं त्वतितनुश्चैव वानरश्च विशेषतः ।
वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥
वानरस्य विशेषेण कथं स्यादभिभाषणम् ।

अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् ॥
मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – वैदेहीवायुपुत्रयोर्सम्भाषणम्
विशेषः वाल्मीकिरामायणम् 5.31.2

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।
पुण्यशीलो महाकीर्तिरिक्ष्वाकूणां महायशाः॥

Session #28

सुन्दरकाण्डे मुख्यः घट्टः – हनुमते अनुग्रहः

अपार-पारावार-परिघा-परिवृत-परपुर-दवदहन-जवन-पवनभव-कपिवर-परिष्वङ्ग-भावित-सर्वस्वदान ।


श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – सीतायाः स्वपरिचयः

विशेषः वाल्मीकिरामायणम् 5.33.8, 5.33.9

का त्वं भवसि कल्याणि त्वमनिन्दितलोचने ।

कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणे ॥

वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती ।

को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – सीतायाः स्वपरिचयः

विशेषः वाल्मीकिरामायणम् 5.33.16

स्नुषा दशरथस्याहं शत्रुसैन्यप्रतापिनः ।

दुहिता जनकस्याहं वैदेहस्य महात्मनः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – हनुमति रावणशङ्का

विशेषः वाल्मीकिरामायणम् 5.34.8, 5.34.9

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।
सीतायाश्शोकदीनायास्समीपमुपचक्रमे ॥

यथा यथा समीपं स हनुमानुपसर्पति ।
तथा तथा रावणं सा तं सीता परिशङ्कते ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – रामलक्ष्मणयोरङ्गलक्षणनिरूपणम् 

विशेषः वाल्मीकिरामायणम् 5.34.27, 5.34.28

सीतायाश्चिन्तितं बुद्ध्वा हनुमान्मारुतात्मजः ॥

श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् ।

आदित्य इव तेजस्वी लोककान्तश्शशी यथा ॥

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – रामलक्ष्मणयोरङ्गलक्षणनिरूपणम् 

विशेषः वाल्मीकिरामायणम् 5.34.36, 5.34.37

रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥

नित्यं स्मरति रामस्त्वां ससुग्रीवस्सलक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – रामलक्ष्मणयोरङ्गलक्षणनिरूपणम् 

विशेषः वाल्मीकिरामायणम् 5.35.10, 5.35.11

रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – अङ्गुलीयकप्रदानम् 

विशेषः वाल्मीकिरामायणम् 5.36.2, 5.36.3

वानरोऽहं महाभागे दूतो रामस्य धीमतः ।
रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम् ॥

प्रत्ययार्थं तवाऽनीतं तेन दत्तं महात्मना ।
समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – अङ्गुलीयकप्रदानम्

विशेषः वाल्मीकिरामायणम् 5.36.7 – 5.36.11

विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम । येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्॥

शतयोजनविस्तीर्णस्सागरो मकरालयः । विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥

न हि त्वां प्राकृतं मन्ये वानरं वानरर्षभ । यस्य ते नास्ति सन्त्रासो रावणान्नापि सम्भ्रमः॥

अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम् । यद्यसि प्रेषितस्तेन रामेण विदितात्मना॥

प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम् । पराक्रममविज्ञाय मत्सकाशं विशेषतः॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट सीतायाः कुशलप्रश्नाः प्रणयरोषश्च

विशेषः वाल्मीकिरामायणम् 5.36.13, 5.36.15, 5.36.20

कुशली यदि काकुत्स्थः किं नु सागरमेखलाम् ।
महीं दहति कोपेन युगान्ताग्निरिवोत्थितः ॥

कच्चिन्न व्यथितो रामः कच्चिन्न परितप्यते ।
उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः ॥

कच्चिन्न विगतस्नेहः प्रवासान्मयि राघवः ।
कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानर ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – पृष्टारोहणप्रसङ्गः

विशेषः वाल्मीकिरामायणम् 5.37.24

पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने ।

योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – पृष्टारोहणप्रसङ्गः

विशेषः वाल्मीकिरामायणम् 5.37.30, 5.37.31

कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि ।
सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ ॥

सीताया वचनं श्रुत्वा हनुमान्मारुतात्मजः ।
चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – वायस-मनश्शिलावृत्तान्तौ

विशेषः वाल्मीकिरामायणम् 5.38.69 – 5.38.71

तो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
अङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः॥

मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्ट – वायस-मनश्शिलावृत्तान्तौ

विशेषः वाल्मीकिरामायणम् 5.40.5

मनश्शिलायास्तिलको गण्डपार्श्वे निवेशितः ।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥

Session #29

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिवरकृतवननाशः

विशेषः वाल्मीकिरामायणम् 5.42.1

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।
बभूवुस्त्राससम्भ्रान्तास्सर्वे लङ्कानिवासिनः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिवरकृतवननाशः

विशेषः – वाल्मीकिरामायणम् – 5.42.6, 5.42.7, 5.42.8

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापाङ्गे त्वया किं कृतवानयम् ॥

अथाब्रवीन्महासाध्वी सीता सर्वाङ्गसुन्दरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिं दृष्ट्वा रावणप्रतिक्रिया

विशेषः – वाल्मीकिरामायणम् – 5.50.2

किमेष भगवान्नन्दी
  भवेत्साक्षादिहागतः ॥
येन शप्तोऽस्मि कैलासे
  मया सञ्चालिते पुरा ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिं दृष्ट्वा रावणप्रतिक्रिया

विशेषः – वाल्मीकिरामायणम् 5.50.4, 5.50.5

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।
कालयुक्तमुवाचेदं वचोऽविपुलमर्थवत् ॥

दुरात्मा पृच्छ्यतामेष कुतः किं वात्र कारणम् ।
वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिं दृष्ट्वा रावणप्रतिक्रिया

विशेषः – वाल्मीकिरामायणम् – 5.50.7, 5.50.10

रावणस्य वचश्श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।
समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ॥

न हि ते वानरं तेजो रूपमात्रं तु वानरम् ॥
तत्त्वत: कथयस्वाद्य ततो वानर मोक्ष्यसे ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रावणसम्मुखे हनूमतः स्वपरिचयः

विशेषः – वाल्मीकिरामायणम् – 5.50.12 – 16

एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ॥ अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ॥ जातिरेव मम त्वेषा वानरोऽहमिहागतः ।

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ॥ वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः । रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ॥

अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि ॥ पितामहादेष वरो मामाप्येषोऽभ्युपागतः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रावणसम्मुखे हनूमतः स्वपरिचयः

विशेषः – वाल्मीकिरामायणम् – 5.50.18,19

केनचिद्राजकार्येण सम्प्राप्तोऽस्मि तवान्तिकम् ॥

दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः ।
श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – शिष्टसमुदाचारः

विशेषः – वाल्मीकिरामायणम् – 5.51.2

अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम् ।
राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत् ॥ \

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – शिष्टसमुदाचारः

विशेषः – वाल्मीकिरामायणम् – 5.51.4

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।

पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – शत्रुदेशे तत्समक्षे विषयोपस्थापनम्  

विशेषः – वाल्मीकिरामायणम् – 5.51.7, 5.51.16

तस्य भार्या वने नष्टा सीता पतिमनुव्रता ।
वैदेहस्य सुता राज्ञो जनकस्य महात्मनः ॥

भ्रमता च मया दृष्टा गृहे ते जनकात्मजा ॥
तद्भवान् दृष्टधर्मार्थस्तपःकृतपरिग्रहः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – राघवप्रतापप्रख्यापनम् 

विशेषः – वाल्मीकिरामायणम् – 5.51.11, 5.51.19, 5.51.20

त्वया विज्ञातपूर्वश्च वाली वानरपुङ्गवः।
रामेण निहतस्सङ्ख्ये शरेणैकेन वानरः॥

कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्।
शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि॥

न चापि त्रिषु लोकेषु राजन्विद्येत कश्चन।
राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रामदूतस्य हितोपदेशः

विशेषः – वाल्मीकिरामायणम् – 5.51.17, 5.51.32

परदारान् महाप्राज्ञ नोपरोद्धुं त्वमर्हसि ॥

न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु ।

लङ्कां नाशयितुं शक्तस्तस्यैष तु न निश्चयः ।

रामेण हि प्रतिज्ञातं हर्यृक्षगणसन्निधौ ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रामदूतस्य हितोपदेशः
विशेषः –
वाल्मीकिरामायणम् – 5.51.34

यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे ॥
कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम् ।

Session #30

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनुमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.52.1, 5.52.2

तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः ।
आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः ॥

वधे तस्य समाज्ञप्ते रावणेन दुरात्मना ।
निवेदितवतो दौत्यं नानुमेने विभीषणः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनुमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.52.5, 5.52.11

क्षमस्व रोषं त्यज राक्षसेन्द्र प्रसीद मद्वाक्यमिदं शृणुष्व ।
वधं न कुर्वन्ति परावरज्ञा दूतस्य सन्तो वसुधाधिपेन्द्राः ॥

न पापानां वधे पापं विद्यते शत्रुसूदन ।
तस्मादेनं वधिष्यामि वानरं पापचारिणम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनुमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.52.14, 5.52.15

असंशयं शत्रुरयं प्रवृद्धः कृतं ह्यनेनाप्रियमप्रमेयम्।
न दूतवध्यां प्रवदन्ति सन्तो दूतस्य दृष्टा बहवो हि दण्डाः॥

वैरूप्यमङ्गेषु कशाभिघातो मौण्ड्यं तथा लक्षणसन्निपातः।
एतान् हि दूते प्रवदन्ति दण्डान् वधस्तु न नः श्रुतोऽस्ति ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनुमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.53.3

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनुमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.53.22

चत्वरेषु चतुष्केषु राजमार्गे तथैव च॥

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनूमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.53.28, 5.53.29, 5.53.30

यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भवतु हनूमतः ॥

यदि किञ्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः ॥
यदि वा भाग्यशेषो मे शीतो भवतु हनूमतः ।

यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ॥

स विजानाति धर्मात्मा शीतो भवतु हनूमतः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – हनूमतः लाङ्गूलप्रदीपनम्

विशेषः – वाल्मीकिरामायणम् – 5.53.34
दह्यमाने च लाङ्गूले चिन्तयामास वानरः ॥

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – कपिवरकृतः लङ्कादाहः

विशेषः – वाल्मीकिरामायणम् – 5.54.3, 5.54.4
वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः ॥

बलैकदेशः क्षपितश्शेषं दुर्गविनाशनम् ।

दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम् ॥
अल्पयत्नेन कार्येऽस्मिन् मम स्यात्सफलश्श्रमः ।

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – किष्किन्धापुनरागमनम्

विशेषः – वाल्मीकिरामायणम् 5.57.35


दृष्टा सीतेति विक्रान्त स्संक्षेपेण न्यवेदयत् । •

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – किष्किन्धापुनरागमनम्

विशेषः – वाल्मीकिरामायणम् – 5.60.15
विचेतुं वयमाज्ञाप्ताः दक्षिणां दिशमुत्तमाम् ।

नानेतुं कपिराजेन नैव रामेण धीमता ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – किष्किन्धापुनरागमनम्

विशेषः – वाल्मीकिरामायणम् – 5.61.14, 5.61.17, 5.61.23
गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित् ।
पतन्ति केचिद्विचरन्ति केचित्ल्पवन्ति केचित्प्रलपन्ति केचित् ॥

गायन्तमन्यः प्रहसन्नुपैति हसन्तमन्यः प्ररुदन्नुपैति ।
रुदन्तमन्यः प्रणुदन्नुपैति नुदन्तमन्यः प्रणदन्नुपैति ॥

नखैस्तुदन्तो दशनैर्दशन्त स्तलैश्च पादैश्च समापयन्तः ।
मदात्कपिं तं कपय स्समग्रा महावनं निर्विषयं च चक्रुः ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – रामाय सीतासन्देशनिवेदनम्

विशेषः – वाल्मीकिरामायणम् 5.66.10

चिरं जीवति वैदेही यदि मासं धरिष्यति ।
न जीवेयं क्षणमपि विना तामसितेक्षणाम् ॥

श्रीमद्रामायणे सुन्दरकाण्डे मुख्यः घट्टः – भगवदालिङ्गनसौख्यम्

विशेषः – वाल्मीकिरामायणम् 6.1.12, 6.1.13, 6.1.14

इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ।

यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ॥

एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ।

मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ॥

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ।

हनूमन्तं महात्मानं कृतकार्यमुपागतम् ॥ •

यत्र यत्र रघुनाथ कीर्तनं 

  तत्र तत्र कृतमस्तकाञ्जलिम् ।

भाष्पवारि परिपूर्ण लोचनं

  मारुतिं नमत राक्षसान्तकम् ॥