(Video) Taddhitaah – Kovida – RRji

Class in Simple Sanskrit on Taddhitaah from Kovida portions by Dr. R. Ramachandranji (RRji) at Gita Shibhiram 2016.

Advertisements

(Video) Alamkara – Dr. R. Ramachandranji

अलङ्कारः – (कोविदः कक्ष्या) – डॉ. आर्. रामचन्द्रः

गीता शिबिरम् – २५-१२-२०१६

An overview of some of the main alamkaras (figures of speech) in Sanskrit Literature.
A session by Dr. R. Ramachandranji (RRji) for Kovida students at Gita Shibhiram 2016 organised by Samskrita Bharathi, Chennai.

  • अलं करोति इति अलङ्कारः |
  • उपमालङ्कारः
    • उदाहरणम् — मुखं चन्द्रः इव सुन्दरम् |
    • पूर्णोपमा / लुप्तोपमा
    • अंशचतुष्टयम्
      • उपमेयम्
      • उपमानम्
      • सादृश्यम्
      • उपमावाचकम्
  • अनन्वयालङ्कारः
    • गगनं गगनाकारं सागरः सागरोपमः ।
      रामरावणयोर्युद्धं रामरावणयोरिव ॥ – रामायण, युद्धकाण्ड
  • व्यतिरेकालङ्कारः
    • शैला इवोन्नताः सन्तः किन्तु प्रकृतिकोमलाः
  • रूपकालङ्कारः
    • कूजन्तं रामरामेति मधुरं मधुराक्षरम् ।
      आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम् ॥
  • अतिशयोक्तिः
    • सिंहः आगच्छति
  • अर्थान्तरन्यासालङ्कारः
    • हनूमानब्धिमतरद् दुष्करं किं महात्मनाम्
  • श्लेषालङ्कारः
    •  सर्वदोमाधवः
      • सर्वदा उमाधवः
      • सर्वदः माधवः
    • पार्वतीपरेमेश्वरौ
      • पार्वती + परमेश्वरः
      • पार्वतीपः + रमेश्वरः

(Video) A glimpse of Raghuvamsam by RRji

 

कालिदासविरचितः रघुवंशः (एकः श्लोकः)
– आर्. रामचन्द्रः, संस्कृतभारती, चेन्नै

एकातपत्रं जगतः प्रभुत्वं
नवं वयः कान्तमिदं वपुश्च ।
अल्पस्य हेतोर्बहु हातुमिच्छन् विचारमूढः प्रतिभासि मे त्वम् ॥
(द्वितीय सर्गः) ॥ ४७ ॥

२५-१२-२०१६ (Dr. RR ji) कोविदः कक्ष्या

Notes for Shikshaa (Level 3) Book 3

सूक्ति: ३
भवितव्यानां द्वाराणि भवन्ति सर्वत्र ।

अर्थ:
यत् भवितव्यं अस्ति तस्य एव आरम्भं सर्वदा भवति, यतः सर्वत्र एषां भवितव्यानां प्रवेशाः एव भवन्ति |
…….

प्रहेलिका
विराजराजपुत्रारे: यन्नाम चतुरक्षरम् ।
पूर्वार्धं तव वैरिणां परार्धं तव सड्गरे ॥

पदविभाग:
विराजराजपुत्रारेः , यत् , नाम , चतुस्+अक्षरम् , पूर्व+अर्धं , तव , वैरिणां , पर+अर्धं , तव , सड्गरे

अन्वय:
विराजराजपुत्रारेः यत् नाम चतुरक्षरं अस्ति, सड्गरे (तस्य पदस्य) पूर्वार्धं तव वैरिणां (भवतु) , (तस्य पदस्य) परार्धं तव (भवतु) ।

अर्थ:
विः इतिचेत् पक्षिः | विराजः तु पक्षिराजः गरुडः |  विराजराजः गरुडस्य स्वामि महाविष्णुः | विराजराजपुत्रः महाविष्णोः पुत्रः मन्मथः | विराजराजपुत्रारिः मन्मथारिः शिवः | विराजराजपुत्रारे: शिवस्य चतुरक्षरं नाम मृत्युज्ञ्जय: | अतः अस्मिन् श्लोकस्य वास्तविकः अर्थ: “युद्धे तव वैरिणां मृत्यु: भवेत् | तव जय: भवेत्” इति अस्ति |

—–

सुभाषितम् ५
शास्त्राण्यधीत्यापि भवन्ति मूर्खा:   यस्तु क्रियावान् पुरुष: स विद्वान् ।
सुचिन्तितं चौषधमातुराणां   न नाममात्रेण करोत्यरोगम् ॥

पदविभागः
शास्त्राणि, अधीत्य , अपि , भवन्ति , मूर्खा:, य: , तु , क्रियावान् , पुरुष: , स: , विद्वान् , सुचिन्तितम्  , च,  औषधम् , आतुराणाम् , न , नाम-मात्रेण , करोति , अरोगम् ॥

अन्वयः
शास्त्राणि अधीत्य अपि (केचन पुरुष:) मूर्खा: भवन्ति  | यः पुरुष: तु क्रियावान् सः (एव) विद्वान् (भवति) । आतुराणां  सुचिन्तितं औषधं नाममात्रेण अरोगं न करोति ॥

अर्थ:
केवलं शास्त्राध्ययनेन पुरुषानानं मूर्खत्वं न गच्छति | प्राप्तं ज्ञानं उपयुज्य यदा पुरुषः कार्याणि करोति तदा एव विद्वान् भवितुम् अर्हति | औशदस्य स्वीकरणं विना, सर्वदा मनसि औषद-नाम-स्मरणं करोति चेदपि रुग्णस्य रोगनिवारणं न भवति | तथा केवलेन पठनेन विद्वान् भवितुम् न अर्हति |

सुभाषितम् 6
आयत्यां गुणदोषज्ञ: तदात्वे क्षिप्रनिश्चय: ।
अतीते कार्यशेषज्ञो विपदा नाभिभूयते ॥

पदविभाग:
आयत्याम् , गुणदोषज्ञ: , तदात्वे ,  क्षिप्र-निश्चय: , अतीते ,  कार्य-शेषज्ञ: , विपदा ,  न, अभिभूयते

अन्वयः
आयत्यां गुणदोषज्ञ:, तदात्वे क्षिप्रनिश्चय:, अतीते कार्यशेषज्ञः विपदा न अभिभूयते |

अर्थ:
(१) यत् कार्यं करणीयम् अस्ति, तस्य कार्यस्य श्रेष्ठ-अंशान् च दोषान् च य: जानाति,
(२) यत् कार्यं इदानीं कुर्वन् अस्ति, तस्मिन् कार्ये किमपि विकल्पजालं भवति चेत् तत्क्षणे एव किं करणीयं इति निर्णयं कर्तुं यः समर्थः अस्ति,
(३) यत् कार्यं कृतं, तस्मिन् कार्ये शेषं करणीयं क्रिया किम् अस्ति इति यः जानाति,
विपदः तं प्रति न आगच्छति ।
तस्य कार्यसिद्धिः एव सर्वदा भवति इति तात्पर्यार्थम् |

—–

Sandhi 

माहेश्‍वरसूत्राणि ।। अइउण्; ऋलृक्; एओङ्; ऐऔच्; हयवरट्; लण्; ञमङ्णनम्; झभञ्; घढधष्; जबगडदश्; खफछटतचटतव्; कपय्; शषसर्; हल् |

परसवर्णसन्धिः
अनुस्वारः + व्यञ्जनम् (except श ष स ह ) = { 5th of second } + {second}
शं + करः = शङ्करः
{ त् थ् द् ध् } + ल = ल्ल  | न् + ल = ँल्ल
तत् + लयः = तल्लयः

अनुस्वारस्य ययि परसवर्णः (8.4.58)

ययि परे सति अनुस्वारस्य परसवर्णः स्यात् |

यय् = य् व् र् | ल् | ञ् म् ङ् ण् न् | झ् भ् | घ् ढ् ध् | ज् ब् ग् ड् द् | ख् फ् छ् ठ् थ् च् ट् त् | क् प् |

चर्तवसन्धिः
वर्गीयव्यञ्जनानि + कर्कशव्यञ्जनानि = क् च् ट् त् प्
{ 1, 2, 3, 4 } + { 1, 2, श ष स ) = { 1st of first } + {second}
e.g., विपद् + कालः = विपत्कालः

खरि च (8.4.55) == खरि परे झलां चरः स्युः |

खर् = खफछटतचटतव्; कपय्; शषसर्; |
i.e., खर् = ख फ छ ट त | च ट त क प | श ष स |
i.e., खर् = क च ट त प ; ख छ ट त फ ; श ष स |
i.e., खर् = { 1, 2 } and { स श ष } = कर्कशव्यञ्जनानि

झल् = झभञ्; घढधष्; जबगडदश्; खफछटतचटतव्; कपय्; शषसर्; हल्
i.e., झल् = झ भ घ ढ ध ; ज ब ग ड द ;  ख फ छ ट त ; च ट त क प ;  श ष स ह ;
i.e., झल् = क ख ग घ ; च छ ज झ ; ट ठ ड ढ ; त थ द ध ; प फ ब भ ; स श ष ह ;
i.e., झल् = { 1, 2, 3, 4 } वर्गीयव्यञ्जनम् and { स श ष ह }

चर् = चटतव्; कपय्; शषसर्;
i.e., चर् = च ट त क प ; श ष स ;
i.e., चर् = क च ट त प ; स श ष ;
i.e., चर् = { 1 } + { स श ष }

Notes for Shikshaa (Level 3) Book 2

सूक्तिः

मनो हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने |

मनः हि हेतुः सर्वेषाम् इन्द्रियाणां प्रवर्तने |

सर्वेषाम् इन्द्रियाणां प्रवर्तने मनः हि हेतुः |

——-

प्रहेलिका
राजन् ! कमलपत्राक्ष ! तत्ते भवतु चाक्षयम् ।
आसादयति यद्रूपं करेणु: करणै: विना ॥

पदच्छेदः
राजन् ! कमलपत्राक्ष ! तत् ते भवतु च अक्षयम् ।
आसादयति यद् रूपं करेणु: करणै: विना ॥

अन्वय:
राजन् ! कमलपत्राक्ष ! यद् रूपं करेणु: करणै: विना आसादयति, अक्षयं तत्  ते भवतु ।

सामान्यः अर्थ:
हे राजन् ! हे कमलपत्राक्ष ! यद् रूपं गजी इन्द्रियैः विना प्राप्नोति,  तत् रूपं सर्वदा तुभ्यं भवतु ।

वास्तविकः अर्थ:
हे राजन् ! हे कमलपत्राक्ष ! भवते अनन्तः आयु: भवेत् |   {करेणु: इति पदे, क्, र्, ण् इति अक्षराणि त्यजामः चेत्,  अ+ए+उ = ऐ + उ = आय् + उ = आयु  भवति ।  }

—–

Sandhi 

माहेश्‍वरसूत्राणि ।। अइउण्; ऋलृक्; एओङ्; ऐऔच्; हयवरट्; लण्; ञमङ्णनम्; झभञ्; घढधष्; जबगडदश्; खफछटतचटतव्; कपय्; शषसर्; हल् |

अनुस्वारसन्धिः
{ म } + { व्यञ्जनम् } = ं + { व्यञ्जनम् }
अहम् प्रातः = अहं प्रातः

मोऽनुस्वारः” ॥८।३।२३॥ मान्तस्य पदस्य अनुस्वारः स्याद्धलि i.e., स्यात् हलि परतः

हल् = हयवरट्; लण्; ञमङ्णनम्; झभञ्; घढधष्; जबगडदश्; खफछटतचटतव्; कपय्; शषसर्; हल् |

i.e., हल् = ह य व र ल ; ञ म ङ् ण न ; झ भ घ ढ ध ; ज ब ग ड द ; ख फ छ ट त ; च ट त क प ; श ष स ह |

i.e., हल् = क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म य र ल व स श ष ह |

जश्त्वसन्धिः
वर्गीयव्यञ्जनम् + { स्वरः / मृदुव्यञ्जनम् ) = ग् ज् ड् द् ब्
{ 1, 2, 3, 4 } + { स्वरः / {3, 4, 5} / य र ल व ह } = { 3rd of first } + {second}
जगत् + गुरु = जगद्गुरु

“झलां जशोऽन्ते” ॥८।२।३९॥ पदान्ते झलां जशः स्युः |

झल् = झभञ्; घढधष्; जबगडदश्; खफछटतचटतव्; कपय्; शषसर्; हल्

i.e., झल् = झ भ घ ढ ध ; ज ब ग ड द ;  ख फ छ ट त ; च ट त क प ;  श ष स ह ;

i.e., झल् = क ख ग घ ; च छ ज झ ; ट ठ ड ढ ; त थ द ध ; प फ ब भ ; स श ष ह ;

i.e., झल् = { 1, 2, 3, 4 } i.e., वर्गीयव्यञ्जनम् and { स श ष ह }

जश् = जबगडदश्;

i.e., जश् = ज ब ग ड द

i.e., जश् = 3rd of the varga  ग ज ड द ब

———

Subhashitam १

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
न ददाति न भुड्क्ते तस्य तृतीया गतिर्भवति ॥

पदविभाग:

दानं भोगः नाशः स्तिस्रः गतयः भवन्ति वित्तस्य ।
यः न ददाति न भुड्क्ते तस्य तृतीया गतिः भवति ॥

अन्वय:

दानं भोगः नाशः च इति वित्तस्य स्तिस्रः गतयः भवन्ति । यः न ददाति न भुड्क्ते, तस्य तृतीया गतिः भवति |

तात्पर्यम्

वित्तस्य सञ्चारः त्रिधः भवति । ते दानं भोग: विनाशः इति त्रयः सन्ति | य: निर्धनेभ्यः दानं न ददाति, अपि च स्वसंतोषार्थम् अपि दनं न व्ययीकरोति, तस्य वित्तस्य नाश: एव भवति ।

Subhashitam 4

व्यसनानन्तरं सौख्यं स्वल्पमप्यध्कं भवेत् ।
काषायरसमासाद्य स्वाद्वतीवाम्बु विन्दते ॥

पदविभाग:

व्यसनानन्तरं सौख्यं स्वल्पम् अपि अधिकं भवेत् ।
काषायरसम् आसाद्य स्वादु अतीव अम्बु विन्दते ॥

अन्वय:

व्यसनानन्तरं सौख्यं स्वल्पम् अपि अधिकं भवेत् । काषायरसम् आसाद्य अम्बु अतीव स्वादु विन्दते ॥

तात्पर्यम्

 

यथा औषदं पीत्वा तदनन्तरं जलं पिबामश्चेत् तद् जलमपि अतिमधुरं भासते, तथा  दुःखस्य अनन्तरं सौक्यं किंचिदेव भवति चेदपि अधिकं इव दृश्यते ।

————

सङ्ग्राह्यविषयाः

कराग्रे वसते लक्ष्मी करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्शनम् ॥

कराग्रे वसते लक्ष्मी कर-मध्ये सरस्वती । कर-मूले स्थिता गौरी प्रभाते कर-दर्शनम् ॥

लक्ष्मी कराग्रे वसते | करमध्ये सरस्वती वसति । गौरी करमूले स्थिता अस्ति | अतः प्रभाते करदर्शनम् अहं करोमि |

समुद्रवसने देवी पर्वतस्तनमण्डले । विष्णुपत्नी नमस्तुभ्यं पादस्पर्शं क्षमस्वमे |

समुद्र-वसने देवी पर्वत-स्तन-मण्डले । विष्णुपत्नि नमः तुभ्यं पाद-स्पर्शं क्षमस्व मे |

समुद्रवसने । देवी । पर्वतस्तनमण्डले । विष्णुपत्नि | तुभ्यं नमः अस्तु | मे पादस्पर्शं त्वं क्षमस्व |

Notes for Shikshaa (Level 3) Book 1

This page will be updated with more details as the online classes progress for Shikshaa.  Come back to check for updates.

Shiksha question papers and answers – https://drive.google.com/folderview?id=0B21vUhfJ2SEvVFQ4ZWdnM2kwaG8&usp=sharing

Book 1

Sukthih

सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः |

सतां हि संदेह-पदेषु वस्तुषु प्रमाणम्  अन्तःकरण-प्रवृत्तयः |

संदेहपदेषु वस्तुषु सतां प्रमाणम्  अन्तःकरणप्रवृत्तयः हि  भवन्ति |

Subhashitam

१.दम्भेन लोभेन भिया हृिया वा
    प्रायो विनीतो जन एष सर्व: ।
    वैराग्यतस्तवाहृदयं विनीतम्
    नरं वरं दुर्लभमेव मन्ये ।।
दम्भेन लोभेन भिया हृिया वा प्रायः विनीतः जनः एषः सर्व: वैराग्यतः तु आहृदयं विनीतम् नरम् वरम् दुर्लभम् एव मन्ये
एषः सर्व: जनः दम्भेन लोभेन भिया हृिया वा प्रायः विनीतः । वैराग्यतः तु आहृदयं विनीतं वरं नरं दुर्लभम् एव इति अहं मन्ये ।
तात्पर्यम्
बहवः जनाः ते उत्तमाः इति प्रकटीकर्तुं कपटेन वा, निरहङ्काराः भवामः चेत् अधिकं प्राप्नुमः इति तृष्णायाः कारणेन वा, वयं तु बलवीनाः इति भीतेः कारणात् वा, अन्ये किं चिन्तयन्ति इति लज्जायाः कारणात् वा विनीतशीलाः भवन्ति । विरागात् येषां सम्पूर्णहृदयं विनीतं भवति, तादृशाः श्रेष्ठपुरुषाः विरलाः इति अहं चिन्तयामि |
२.यथा ह्यकेन चक्रेण न रथस्य गतिर्भवेत् ।
    एवं पुरुषकारेण विना दैवं न सिद्ध्यति  ।।
यथा हि एकेन चक्रेण न रथस्य गतिः भवेत्  एवम् पुरुषकारेण विना दैवम् न सिद्ध्यति ।
यथा एकेन चक्रेण रथस्य गतिः न हि भवेत्, एवं पुरुषकारेण विना दैवं न सिद्ध्यति ।
तात्पर्यम्
रथः एकेन चक्रेण गन्तुं न शक्नोति । रथस्य गमनाय न्यूनादिन्यूनं चक्रद्वयं आवश्यकम् । तथा मनुष्यस्य स्वप्रयत्नं विना, केवलं दैवानुग्रहेण  सिद्धिः न प्राप्यते |
—-
Clarifications
page 6 – स्खलति – slips / trips
page 6 – कीलयति – nails up
page 6 –    भाययति – to frighten someone – to cause fear
Page 21 – चक्रिन् + ढौकसे
you bring near — the possessor of chakra   (vishnu because of sudharshana or the potter because of his potter’s wheel)
——-
Sandhi 
श्चुत्वसन्धिः
{ सकार + तवर्ग: } + { शकार: + चवर्गः } = { शकार: + चवर्गः }
( first varga changes to equivalent in the second varga ) (order can be reversed also )
{ त } + { च … ञ श } or { च … ञ श } + { त } –> { च }
{ स } + { च … ञ श } or { च … ञ श } + { स } –> { श }
सत् + चित् = सच्चित्
The sutra or aphorism is स्तोश्चुना श्चुः  |
स्तो refers to स and त वर्ग | श्चुः refers to श and च वर्ग |  श्चुना – 3rd vibhakti.
ष्टुत्वसन्धिः
{ सकार + तवर्ग: } + { षकार: + टवर्गः } = { षकार: + टवर्गः }
( first varga changes to equivalent in the second varga ) (order can be reversed also )
{ त } + { ट … ण ष } or { ट … ण ष } + { त } –> { ट }
तत् + टीका = तट्टीका
Sutra for ष्टुत्वसन्धिः  —  ष्टुना ष्टुः | where ष्टुः refers to ष and ट वर्ग |
———

अन्वयरचना – श्लोक: १

परोपकाराय फलन्ति वृक्षा:  परोपकाराय वहन्ति नद्य: ।
परोपकाराय दुहन्ति गाव:  परोपकारार्थमिदं शरीरम् ॥
पदविभाग:
परोपकाराय, फलन्ति, वृक्षा:,परोपकाराय, वहन्ति, नद्य:, परोपकाराय, दुहन्ति, गाव:, परोपकारार्थम्, इदम्, शरीरम्
अन्वय:
परोपकाराय वृक्षा: फलन्ति, परोपकाराय नद्य: वहन्ति, परोपकाराय गाव: दुहन्ति, परोपकाराय इदं शरीरम् अस्ति ।
तात्पर्यम्
यथा अन्येषाम् उपकारार्थं  वृक्षा: फलन्ति, यथा अन्येषाम् उपकाराय नद्य: वहन्ति, यथा अन्येषाम् उपकाराय गाव: दुग्धं ददति, तथा परोपकाराय एव एतत् शरीरम् अपि अस्ति ।
……..
अन्वयरचना – श्लोक: २
व्यासं वसिष्ठनप्तारं शक्ते: पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥
पदविभाग:
व्यासम्,  वसिष्ठनप्तारम्,  शक्ते:, पौत्रम्, अकल्मषम्, पराशरात्मजम्,  वन्दे, शुकतातम्, तपोनिधिम्
अन्वय:
अहं वसिष्ठनप्तारं, शक्ते: पौत्रं, पराशरात्मजं, शुकतातम्, अकल्मषं, तपोनिधिं, व्यासं वन्दे ।
तात्पर्यम्
अहं वसिष्ठस्य प्रपौत्रं,  शक्ते: पौत्रं, पराशरस्य पुत्रं, शुकस्य पितरम्, दोषरहितं, श्रेष्ठतपस्विं व्यासम् वन्दे ।
————
सङ्ग्राह्यविषयाः

उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र संततिः ।।

उत्तरं यत् समुद्रस्य हिमाद्रेः च एव दक्षिणम् । वर्षं तद् भारतं नाम भारती यत्र संततिः ।।

यत् समुद्रस्य उत्तरं, यत् हिमाद्रेः दक्षिणम् च एव, यत्र भारती संततिः, तद् वर्षं भारतं नाम ।

रत्नाकराधौतपदां हिमालयकिरीटिनीम् । ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् ।।

रत्नाकरा-धौत-पदां हिमालय-किरीटिनीम् । ब्रह्म-राज-ऋषि-रत्न-आढ्यां वन्दे भारत-मातरम् ।।

रत्नाकरा-धौत-पदां हिमालय-किरीटिनीं ब्रह्म-राज-ऋषि-रत्न-आढ्यां भारत-मातरम् अहं वन्दे ।

—-

प्रहेलिका  (sa.wikiquote.org)

पर्वताग्रे रथो याति भूमौ तिष्ठति सारथिः ।
चलते वायुवेगेन पदमेकं न गच्छति ॥

पर्वतस्य उपरि रथः सञ्चरति । रथस्य सारथिः भूमौ तिष्ठति । रथः वायुवेगेन चलति ।
किन्तु एकमपि पदम् अग्रे न गच्छति । तर्हि किमेतत् ?

उत्तरम्
कुलालचक्रदण्डः |  (अत्र रथ: इत्युक्ते कुम्भकारस्य चक्रम् इति ज्ञातव्यम् । एतत् चक्रम् एकस्मिन् पीठे अस्ति | कुम्भकार: भूमौ स्थित्वा भ्रामयति | अतः चक्रं वायु-वेगेन भ्रमति | परन्तु तत् चक्रम् एकं पदम् अपि अग्रे न गच्छति । )