Bhoja’s ChampuRamayanam – Balakandam

भोजचम्पूरामायणम् – बालकाण्डम् – श्रीमती. सौम्या कृष्णपुर् – व्योमा संस्कृतपाठशाला
King Bhoja’s Champu-Ramayanam – Balakandam – (File #2) Weekly online classes conducted by Smt. Sowmya Krishnapur, Vyoma Labs.

View the playlist “Champuramayana – Baalakaanda” in YouTube Channel “vyoma-samskrta-pathasala

Downloadable files are available here

Word Document files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

PDF files

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 1

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 2

Bhoja Raja_s Champu Ramayanam – Balakanda – Sowmya Krishnapur – Part 3

चम्पूरामायणे बालकाण्डम्

ग्रन्थारम्भः

1.  श्लोकः

प्रस्तावना

मङ्गलश्लोकः ।

मूलपाठः

लक्ष्मीं तनोतु नितरामितरानपेक्षमङ्घ्रिद्वयं निगमशाखिशिखाप्रवालम् ।
हैरम्बमम्बुरुहडम्बरचौर्यनिघ्नं विघ्नाद्रिभेदशतधारधुरन्धरं नः ॥ १ ॥

पदच्छेदः

लक्ष्मीम्, तनोतु, नितराम्, इतरानपेक्षम्, अङ्घ्रिद्वयम्, निगमशाखिशिखाप्रवालम्, हैरम्बम्, अम्बुरुहडम्बरचौर्यनिघ्नम्, विघ्नाद्रिभेदशतधारधुरन्धरम्, नः

(लक्ष्मीम् तनोतु नितराम् इतर+अनपेक्षम् अङ्घ्रि+द्वयम् निगम+शाखि+शिखा+प्रवालम् हैरम्बम् अम्बुरुह+डम्बर+चौर्य+निघ्नम् विघ्न+अद्रि+भेद+शतधार+धुरन्धरम् नः)

अन्वयः

इतरानपेक्षं निगमशाखिशिखाप्रवालम् अम्बुरुहडम्बरचौर्यनिघ्नम् विघ्नाद्रिभेदशतधारधुरन्धरं हैरम्बम् अङ्घ्रिद्वयं नः नितरां लक्ष्मीं तनोतु ।

आकाङ्क्षा

  • तनोतु
    • किं [कर्मपदम्] तनोतु ? लक्ष्मीम्
    • कथं तनोतु ? नितराम्
    • कस्य तनोतु ? नः
    • किं [कतृपदम्] तनोतु ? अङ्घ्रिद्वयम्
      • कथंभूतम् अङ्घ्रिद्वयम् ? हैरम्बम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? इतरानपेक्षम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? निगमशाखिशिखाप्रवालम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? अम्बुरुहडम्बरचौर्यनिघ्नम्
      • पुनः कीदृशम् अङ्घ्रिद्वयम् ? विघ्नाद्रिभेदशतधारधुरन्धरम्

अन्वयार्थः

  • तनोतु = विस्तारयतु, सम्पादयतु
  • लक्ष्मीम् = अभिलषितार्थसम्पत्तिम्
  • नितराम् = अतिशयेन
  • नः = अस्माकम्
  • अङ्घ्रिद्वयम् = पादयुगलम्
  • हैरम्बम् = गणेशस्य इदम्
  • इतरानपेक्षम् = भजनीयान्तरनिरपेक्षम्
  • निगमशाखिशिखाप्रवालम् = वेदान्तवेद्यम्, वेदाः एव वृक्षाः, तेषां शिखा उपनिषदः, तासां नवपल्लवम्
    • निगमाः = वेदाः
    • शाखिनः = वृक्षाः
    • शिखा =  शाखा, अत्र उपनिषद्
    • प्रवालम् = नवपल्लवम्
  • अम्बुरुहडम्बरचौर्यनिघ्नम् = कमलसौभाग्यापहारि, तत्सदृशं सुन्दरम्
    • अम्बुरुहम् = कमलम्
    • डम्बरः = सौभाग्यम् / सौन्दर्यम्
    • चौर्यम् = अपहरणम्
    • निघ्नम् = आयत्तम्
  • विघ्नाद्रिभेदशतधारधुरन्धरम् = विघ्नाः एव पर्वताः, तेषां विदारणस्य श्रेष्ठवज्रः । अशेषविघ्नविनाशकम् ।
    • विघ्नाः = प्रत्यूहाः
    • अद्रयः = पर्वताः
    • भेदः = विदारणम्
    • शतधार = वज्रः
    • धुरन्धरम् = श्रेष्ठम्

पदपरिचयः

  • तनोतु = तन् ‘तनुँ विस्तारे’ (८-उभय), आशीरर्थे लोट्. (‘आशिषि लिङ्लोटौ’ ३.३.१७३), प्र.पु., ए.व.
  • इतरानपेक्षम् = इतर-अनपेक्षम्
    • अनपेक्षम् = अविद्यमाना अपेक्षा यस्य तद्
    • इतरानपेक्षम् = इतरस्य अनपेक्षम्
  • निगमशाखिशिखाप्रवालम् = निगम-शाखि-शिखा-प्रवालम्
    • निगमशाखिनः = निगमाः एव शाखिनः
    • निगमशाखिशिखा = निगमशाखिनां शिखा
    • निगमशाखिशिखाप्रवालम् = निगमशाखिशिखानां प्रवालम्
  • अम्बुरुहडम्बरचौर्यनिघ्नम् = अम्बुरुह-डम्बर-चौर्य-निघ्नम्
    • अम्बुरुहम् = अम्बुनि रोहति इति
    • अम्बुरुहडम्बरः = अम्बुरुहस्य डम्बरः
    • अम्बुरुहडम्बरचौर्यम् = अम्बुरुहडम्बरस्य चौर्यम्
    • अम्बुरुहडम्बरचौर्यनिघ्नम् = अम्बुरुहडम्बरचौर्यस्य निघ्नम्
  • विघ्नाद्रिभेदशतधारधुरन्धरम् = विघ्न-अद्रि-भेद-शतधार-धुरन्धरम्
    • विघ्नाद्रयः = विघ्नाः एव अद्रयः
    • विघ्नाद्रिभेदः = विघ्नाद्रिणां भेदः
    • शतधारधुरन्धरः = शतधारः च असौ धुरन्धरः
    • विघ्नाद्रिभेदशतधारधुरन्धरम् = विघ्नाद्रिभेदस्य शतधारधुरन्धरः, तम्
  • हैरम्बम्
    • हे = रणे शिवसमीपे वा ।
    • रम्बते = शब्दं करोति, तिष्ठति । रम्ब् “रबिँ शब्दे” धातोः अच् प्रत्ययः ।
    • रणे शिवसमीपे वा शब्दं करोति, तिष्ठति इत्यर्थे हेरम्बशब्दः निष्पाद्यते ।
    • हैरम्बम् = हेरम्बस्य इदं । हेरम्ब + अण् (तद्धितः) ।

विशेषविषयाः

  • ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्’ ।
    • आशीर्वादरूपं मङ्गलम् ।
    • ‘लक्ष्मीः’ इति प्रथमं पदमपि मङ्गलद्योतकम् ।

अलङ्काराः

  • आशीरलङ्कारः – ‘आशीर्नामाभिलषितवस्तुनः शासनं मतम्’ ।
  • शब्दालङ्कारः वृत्त्यनुप्रासः – ‘एकद्विप्रभृतीनां तु व्यञ्जनानां यदा भवेत् । आवृत्तिर्यत्र सन्दर्भे वृत्त्यनुप्रास इष्यते’ ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’
1 2 3 4 5 6 7 8 9 10 11 12 13 14
गु गु गु गु गु गु गु
लक्ष् मीं नो तु नि रा मि रा पे क्ष
मङ् घ्रि द्व यं नि शा खि शि खा प्र वा लम्
है रम् मम् बु रु डम् चौ र्य नि घ्नं
वि घ्ना द्रि भे धा धु रन् रं नः

Word-Meaning

  • लक्ष्मीम् = Wealth
  • तनोतु = Bestow
  • नितराम् = immense
  • इतरानपेक्षम् = that which has no dependency (अनपेक्ष) on others (इतरान्)
  • अङ्घ्रिद्वयम् = pair (द्वयम्) of feet (अङ्घ्रि)
  • निगमशाखिशिखाप्रवालम् = The sprouts (प्रवालम्) of the branches (i.e., Vedanta) (शिखा) of the Veda (निगम) tree (शाखि) i.e., those that are understood and praised by the Upanishads
  • हैरम्बम् = That which is Vinayaka’s
  • अम्बुरुहडम्बरचैर्यनिघ्नम् = That which has the intention (निघ्न) of stealing (चैर्य) the lustre (डम्बर) of the lotus (अम्बुरुह)
  • विघ्नाद्रिभेदशतधारधुरन्धरम् = That which is the superior (धुरन्धर ) thunder-bolt (शतधार) (that which has hundred edges) which destroys (भेद) the mountain (अद्रि) of obstacles (विघ्न)
  • नः = our

2.  श्लोकः

प्रस्तावना

विप्रनमस्काररूपं द्वितीयं मङ्गलम् ।

मूलपाठः

उच्चैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत् तस्य प्रमा च वचनैः कृतकेतरैश्चेत् ।
तेषां प्रकाशनदशा च महीसुरैश्चेत् तानन्तरेण निपतेत् क्व नु मत्प्रणामः ॥ २ ॥

पदच्छेदः

उच्चैः, गतिः, जगति, सिद्ध्यति, धर्मतः, चेत्, तस्य, प्रमा, च, वचनैः, कृतक+इतरैः, चेत्, तेषाम्, प्रकाशन+दशा, च, मही+सुरैः, चेत्, तान्, अन्तरेण, निपतेत्, क्व, नु, मत्+प्रणामः

अन्वयः

जगति उच्चैः गतिः धर्मतः सिद्ध्यति चेत्, तस्य प्रमा च कृतकेतरैः वचनैः (सिद्ध्यति) चेत्, तेषां प्रकाशनदशा च महीसुरैः (सिद्ध्यति) चेत्, तान् अन्तरेण मत्प्रणामः क्व नु निपतेत् ?

आकाङ्क्षा

  • निपतेत्
    • कः निपतेत् ? मत्प्रणामः
    • कुत्र निपतेत् ? क्व नु
      • कान् विना कुत्र वा निपतेत् ? तान् अन्तरेण
    • कस्मिन् सन्दर्भे निपतेत् ? … सिद्ध्यति चेत्
      • कः सिद्ध्यति ? गतिः
        • कीदृशः गतिः ? उच्चैः
      • कुत्र सिद्ध्यति ? जगति
    • पुनः कस्मिन् सन्दर्भे निपतेत् ? … सिद्ध्यति चेत्
      • पुनः का सिद्ध्यति ? प्रमा च
        • कस्य प्रमा ? तस्य
      • कैः सिद्ध्यति ? वचनैः
        • कीदृशैः वचनैः ? कृतकेतरैः
      • पुनः कस्मिन् सन्दर्भे निपतेत् ? … सिद्ध्यति चेत्
        • पुनः का सिद्ध्यति ? प्रकाशनदशा च
          • केषां प्रकाशनदशा ? तेषाम्
        • कैः सिद्ध्यति ? महीसुरैः

अन्वयार्थः

  • उच्चैः गतिः = स्वर्गादि गतिः
    • उच्चैः = उन्नतम्
    • गतिः = स्थानम्
  • जगति = प्रपञ्चे
  • सिद्ध्यति = निष्पन्ना भवति
  • धर्मतः = वेद-शास्त्रोक्त-धर्माचरणेन
  • चेत् = यदि
  • तस्य प्रमा च = (अत्र) धर्मस्य यथार्थानुभवः च
  • कृतकेतरैः वचनैः चेत् = वेदवाक्यैः चेत्
    • वचनैः = कथनैः
    • कृतकेतरैः = अकृत्रिमैः
  • तेषाम् प्रकाशनदशा च = पाठतः अर्थतश्च वेदवाक्यानां स्फुटीकरणप्रकारः
  • महीसुरैः चेत् = भूदेवैः, द्विजैः चेत्
  • मही = भूः
  • सुराः = देवाः
  • तान् अन्तरेण = तान् महीसुरान् विना
  • क्व नु = कुत्र वा
  • मत्प्रणामः = मत्कृतः नमस्कारः
  • निपतेत् = प्रवर्तेत

तात्पर्यम्

प्रपञ्चे उन्नतस्थानप्राप्तिः वेदशास्त्रोक्तस्य धर्मस्य आचरणेन सिद्ध्यति, धर्मस्य तत्त्वज्ञानं वेदमूलकम्, वेदानां ज्ञानं ब्राह्मणेभ्यः प्राप्यते, अतः ब्राह्मणान् विना अन्येषां नमस्कारः कथं क्रियेत ? परमश्रेयोहेतूनां वेदविदां द्विजानां नमस्कारो विधीयते इत्यर्थः ।

पदपरिचयः

  • सिद्ध्यति = सिध् ‘षिधु संराद्धौ’ (६, परस्मै), लट्., प्र.पु., ए.व.
  • निपतेत् = पत् “पत्लृ गतौ” (१, परस्मै), विधिलिङ्., प्र.पु. ए.व.
  • तान् अन्तरेण = “अन्तरान्तरेण युक्ते” (२.३.४) इति द्वितीया
  • उच्चैः = सकारान्तम् अव्ययम्
  • गतिः = गम् “गम्लृ गतौ” + क्तिन् (कृत्) । इकारान्तः, स्त्री, प्र.पु. ए.व.
  • जगति = जगत् तकारान्तः, नपुं, स.वि., ए.व.
  • धर्मतः = धर्म + तसिल् (तद्धितः पञ्चम्यर्थे) । अव्ययम् ।
  • कृतकेतरैः = कृतकेभ्यः इतरे, तैः ।
  • प्रकाशनदशा = प्रकाशनस्य दशा ।
  • महीसुरैः = मह्याः सुराः, तैः ।
  • मत्प्रणामः = मम प्रणामः ।

अलङ्कारः

एकावल्यलङ्कारः – ‘यत्र विशेषणभावः पूर्वंपूर्वं प्रति क्रमेणैव । भजति परम्परमेषालंकृतिरेकावली कथिता’ ।

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • उच्चैः = Higher
  • गतिः = state
  • जगति = in the world
  • सिद्ध्यति = is achieved
  • धर्मतः = by Dharma
  • चेत् = if it be so
  • तस्य = its (Dharma’s)
  • प्रमा = knowledge
  • च = and
  • वचनैः = by the words
  • कृतकेतरैः = by the Vedas, which arise naturally and hence are other than (इतर) the created ones (कृतक)
  • चेत् = if it be so
  • तेषाम् = their (Vedas’)
  • प्रकाशनदशा = exposition, the state (दशा) of becoming evident (प्रकाशन)
  • च = and
  • महीसुरैः = By the Brahmins, who are the devas (सुर) in the earth (मही)
  • चेत् = if it be so
  • तान् = them (the Brahmins)
  • अन्तरेण = expect for them
  • निपतेत् = ought to fall (i.e., be placed)
  • क्व = where else
  • नु = verily
  • मत्प्रणामः = our salutations

3.  श्लोकः

प्रस्तावना

सहृदयानाम् आसक्तिप्रचोदनाय चिकीर्षितस्य काव्यस्य स्वरूपनिरूपणम्

मूलपाठः

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः हृद्या हि वाद्यकलया कलितेव गीतिः ।
तस्माद्दधातु कविमार्गजुषां सुखाय चम्पूप्रबन्धरचनां रसना मदीया ॥ ३ ॥

पदच्छेदः

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः, हृद्या, हि, वाद्यकलया, कलिता, इव, गीतिः, तस्मात्, दधातु, कविमार्गजुषां, सुखाय, चम्पूप्रबन्धरचनां, रसना, मदीया

(गद्य+अनुबन्ध+रस+मिश्रित+पद्य+सूक्तिः, हृद्या, हि, वाद्य+कलया, कलिता, इव, गीतिः, तस्मात् दधातु कवि+मार्ग+जुषाम्, सुखाय, चम्पू+प्रबन्ध+रचनाम्, रसना, मदीया)

अन्वयः

गद्यानुबन्धरसमिश्रितपद्यसूक्तिः वाद्यकलया कलिता गीतिः इव हृद्या हि । तस्मात् कविमार्गजुषां सुखाय मदीया रसना चम्पूप्रबन्धरचनां दधातु ।

आकाङ्क्षा

  • हृद्या हि (भवति)
    • का इव ? गीतिः इव
      • कीदृशी गीतिः ? कलिता
        • कया कलिता ? वाद्यकलया
      • का हृद्या (भवति) ? गद्यानुबन्धरसमिश्रितपद्यसूक्तिः
      • तस्मात् किम् ? तस्मात् … दधातु
        • कां दधातु ? चम्पूप्रबन्धरचनाम्
        • का दधातु ? रसना
          • कीदृशी रसना ? मदीया
        • किमर्थं दधातु ? सुखाय
          • केषां सुखाय ? कविमार्गजुषाम्

अन्वयार्थः

  • गद्यानुबन्धरसमिश्रितपद्यसूक्तिः । गद्यानि अपादनिवद्धानि, गद्यानाम् अनुबन्धः = अनुषङ्गः, तेन यः रसः = आस्वादः, तेन मिश्रिता = मिलिता, पद्यानाम् = वृत्तबद्धानां श्लोकानां सूक्तिः = सम्यग्रचना
  • हृद्या = मनोज्ञा, सहृदय-हृदयाह्लादिनी
  • वाद्यकलया = वीणावेणुमृदङ्गादिवाद्यशिल्पेन, कलिता = मिश्रिता, गीतिः = गानविद्या इव
  • हि = निश्चयेन
  • तस्मात् = गद्यपद्यमिश्रितप्रबन्धस्य सर्वानन्दकरत्वात्
  • दधातु = प्रवर्तयतु, पोषयतु
  • मदीया रसना = मम जिह्वा
  • चम्पू-प्रबन्ध-रचनाम् = चम्पूः इत्याख्यस्य काव्यस्य निर्माणं
  • कविमार्गजुषाम् = कवीनां मार्गः पन्थाः, तेन जुषन्ते प्रीयन्ते, तेषाम्, कवितारसाभिज्ञानाम्
  • सुखाय = मनोरञ्जनाय ।

तात्पर्यम्

गद्य-पद्ययोः मिश्रणरूपं चम्पूकाव्यं वाद्यमिश्रितं गानमिव सर्वानन्दकरं भवति । अतः काव्यरसास्वादिनां मनोरञ्जनाय मम जिह्वा चम्पूकाव्यस्य निर्माणं करोतु / निर्माणे प्रवर्तताम् ।

पदविवरणम्

  • दधातु = धा ‘डुधाञ् धारणपोषणयोः’ (३, उभय) । लोट्, प्र.पु., ए.व. ।
  • गद्यानुबन्धरसमिश्रितपद्यसूक्तिः = गद्यानाम् अनुबन्धः, गद्यानुबन्धस्य रसः, गद्यानुबन्धरसेन मिश्रिता, पद्यानां सूक्तिः, गद्यानुबन्धरसमिश्रिता पद्यसूक्तिः । इकारान्तः, स्त्री, प्र.पु., ए.व. ।
  • हृद्या = हृदयस्य प्रिया । हृदय + यत् (तद्धितः) ।
  • वाद्यकलया = वाद्यानां कला, तया ।
  • कविमार्गजुषाम् = कवीनां मार्गः, कविमार्गस्य जुषः, तेषाम् । षकारान्तः पुं, ष.वि., ब.व. । जुट्, जुषौ, जुषः…. जुषः, जुषोः, जुषाम् ।
  • चम्पू-प्रबन्ध-रचनाम् = चम्प्वाः प्रबन्धः, चम्पूप्रबन्धस्य रचना, ताम् ।
  • रसना = ‘रसज्ञा रसना जिह्वा’ (अमरः), आकारान्तः, स्त्री, प्र.पु., ए.व. ।
  • मदीया = मम इयम् । तद्धितः छप्रत्ययः ।

अलङ्कारः

  • पूर्णोपमा । ‘उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः’ ।
    • उपमेयः – गद्यानुबन्धरसमिश्रितपद्यसूक्तिः,
    • उपमानम् – वाद्यकलया कलिता गीतिः
    • साधारणधर्मः – हृद्यत्वम्, उपमावाचकः – इव ।

Word-Meaning

  • गद्यानुबन्धरसमिश्रितपद्यसूक्तिः = The verses (सूक्ति) in the form of the poems (पद्य) mixed with (मिश्रित) the melody (रस) due to the addition (अनुबन्ध) of prose (गद्य)
  • हृद्या = heart-touching
  • हि = certainly
  • वाद्यकलया = by the art forms (कला) of the instruments (वाद्य)
  • कलिता = one that is mixed
  • इव = like
  • गीतिः = song
  • तस्मात् = so
  • दधातु = let it give
  • कविमार्गजुषाम् = For those who are pleased (जुष्) by the path (here, works) (मार्ग) of the poets (कवि)
  • सुखाय = for the pleasure
  • चम्पूप्रबन्धरचनाम् = the literature (रचना) of the treatise (प्रबन्ध) in the form of Champu (चम्पू)
  • रसना = Tongue
  • मदीया = that which is mine

4.  श्लोकः

प्रस्तावना

वाल्मीकेः सर्वोत्कृष्टे रामायणे वर्तमाने नूतनरामायणप्रबन्धः कुतः ?

मूलपाठः

वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः तृप्तिं करोमि कथमप्यधुना बुधानाम् ।
गङ्गाजलैर्भुवि भगीरथयत्नलब्धैः किं तर्पणं न विदधाति नरः पितॄणाम् ॥ ४ ॥

पदच्छेदः

वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः, तृप्तिम्, करोमि, कथमपि, अधुना, बुधानाम्, गङ्गाजलैः, भुवि, भगीरथयत्नलब्धैः, किम्, तर्पणम्, न, विदधाति, नरः, पितॄणाम्

(वाल्मीकि-गीत-रघु-पुङ्गव-कीर्ति-लेशैः, तृप्तिम्, करोमि, कथमपि, अधुना, बुधानाम्, गङ्गा-जलैः, भुवि, भगीरथ-यत्न-लब्धैः, किम्, तर्पणम्, न, विदधाति, नरः, पितॄणाम् )

अन्वयार्थः

  • करोमि = सम्पादयामि
  • तृप्तिम् = सन्तुष्टिम्
  • बुधानाम् = पण्डितानाम्
  • अधुना = इदानीम्
  • कथमपि = महता प्रयत्नेन
  • वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः = वाल्मीकिना उपवर्णिताः रघूणां श्रेष्ठस्य श्रीरामस्य यशसः लवैः । ‘चरितं रघुनाथस्य शतकोटिप्रविस्तरम्’ ।
    • वल्मीकस्यापत्यं वाल्मीकिः
    • गीताः = उपवर्णिताः
    • रघूणां पुङ्गवः = रघूणां श्रेष्ठः श्रीरामः
    • कीर्तीनाम् = वीर्यौदार्यादिगुणमूलकस्य यशसः
    • लेशाः = लवाः
  • विदधाति = निर्वर्तयति
  • नरः = कश्चिन्मनुष्यः
  • तर्पणम् = निवापाञ्जलिदानेन सन्तृप्तिम्
  • पितॄणाम् = पूर्वजानाम्
  • गङ्गाजलैः = भागीरथीसलिलैः
  • भुवि = भूलोके, भगीरथस्य यत्नेन लब्धैः
  • न विदधाति किम् ? इति काकुः । विदधात्येव ।

अन्वयः

वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः अधुना कथमपि बुधानां तृप्तिं करोमि । भुवि भगीरथयत्नलब्धैः गङ्गाजलैः नरः पितॄणां तर्पणं न विदधाति किम् ?

आकाङ्क्षा

  • करोमि
    • किं करोति ? तृप्तिम्
      • केषां तृप्तिम् ? बुधानाम्
    • कः करोति ? अहम्
    • कैः करोति ? वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः
    • कदा करोति ? अधुना
    • कथं करोति ? कथमपि
  • न विदधाति किम्
    • किं विदधाति ? तर्पणम्
      • केषां तर्पणम् ? पितॄणाम्
    • कः विदधाति ? नरः
    • कैः विदधाति ? गङ्गाजलैः
      • कीदृशैः गङ्गाजलैः ? भगीरथयत्नलब्धैः
    • कुत्र विदधाति ? भुवि

पदविवरणम्

  • करोमि = कृ “डुकृञ् करणे” (८-उभय), लट्, उत्तम.पु., ए.व. ।
  • विदधाति = वि + धा “डुधाञ् धारणपोषणयोः” (३-उभय), लट्, प्र.पु., ए.व. ।
  • वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः
    • रघूपुङ्गवः = रघूणां पुङ्गवः
    • रघुपुङ्गवकीर्तयः = रघुपुङ्गवस्य कीर्तयः
    • रघुपुङ्गवकीर्तिलेशः = रघुपुङ्गवकीर्तीनां लेशः ।
    • वाल्मीकिगीताः = वाल्मीकिना गीताः ।
    • वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः = वाल्मीकिगीताः रघुपुङ्गवकीर्तिलेशाः, तैः ।
  • तृप्तिम् = “तृप प्रीणने” (४,परस्मै) + क्तिन् (कृत्) । इकारान्तः, स्त्री., द्वि.वि., ए.व.
  • बुधानाम् = ‘विद्वान् विपश्चिद् दोषज्ञः सन् सुधीः कोविदो बुधः’ (अमरः)
  • गङ्गाजलैः = गङ्गायाः जलानि, तैः ।
  • भुवि = ऊकारान्तः, स्त्रीलिङ्गः, स.वि., ए.व. । भूः, भुवौ, भुवः … भुवि, भुवोः, भूषु ।
  • भगीरथयत्नलब्धैः = भगीरथस्य यत्नः, भगीरथयत्नेन लब्धाः, तैः । अकारान्तः, नपुं., तृ.वि., ब.व.
  • तर्पणम् = तृप् “तृपँ प्रीणने” (४,परस्मै) + ल्युट् (कृत्) । अकारान्तः, नपुं., द्वि.वि., ए.व.
  • पितॄणाम् = ऋकारान्तः, पुं., ष.वि., ब.व. ।

अलङ्कारः

दृष्टान्तालङ्कारः – ‘चेद्बिम्ब-प्रतिबिम्बत्वं दृष्टान्तस्तदलङ्कृतिः’ ।

Word-Meaning

  • वाल्मीकिगीतरघुपुङ्गवकीर्तिलेशैः = By the bits & pieces (लेश) of the glory (कीर्ति) of Srirama, the scion (पुङ्गव) of the Raghu (रघु) race, which was sung (गीत) by Sage Valmiki (वाल्मीकि)
  • तृप्तिम् = satisfaction
  • करोमि = I will make
  • कथमपि = somehow
  • अधुना = now
  • बुधानाम् = of the scholars
  • गङ्गाजलैः = By the water (जलै) of Ganga (गङ्गा)
  • भुवि = in this world
  • भगीरथयत्नलब्धैः = that which was obtained (लब्ध) by the efforts (यत्न) of Bhageeratha (भगीरथ)
  • किम् = is it ?
  • तर्पणम् = oblations
  • न = not
  • विदधाति = performs
  • नरः = men
  • पितॄणाम् = of the forefathers

5.  श्लोकः

प्रस्तावना

कथारम्भः । वाल्मीकिमहर्षिः नारदोक्तां रामकथां श्रुत्वा ततः माध्याह्निकार्थं तमसानदीं गच्छति ।

मूलपाठः

वाचं निशम्य भगवान् स तु नारदस्य प्राचेतसः प्रवचसां प्रथमः कवीनाम् ।
माध्यन्दिनाय नियमाय महर्षिसेव्यां पुण्यामवाप तमसां तमसां निहन्त्रीम् ॥ ५ ॥

पदच्छेदः

वाचम्, निशम्य, भगवान्, सः, तु, नारदस्य, प्राचेतसः, प्रवचसाम्, प्रथमः, कवीनाम्, माध्यन्दिनाय, नियमाय, महर्षि+सेव्याम्, पुण्याम्, अवाप, तमसाम्, तमसाम्, निहन्त्रीम्

अन्वयार्थः

  • अवाप = प्राप्तवान्, गतवान्
  • तमसाम् = तमसानदीम्
  • महर्षिसेव्याम्
    • महर्षिभिः = ऋषिप्रवरैः,
    • सेव्या = आश्रयितुं योग्या (अनुष्ठानार्थम्), ताम्
  • पुण्याम् = पावनीम्
  • तमसाम् = अज्ञानानाम्
  • निहन्त्रीम् = विनाशिनीम्
  • माध्यन्दिनाय नियमाय = माध्याह्निकक्रियां कर्तुम्
  • सः प्राचेतसः = प्रचेतसः अपत्यं, वाल्मीकिः
  • भगवान् = पूज्यः
  • प्रवचसाम् = प्रकृष्टगिरां, कवीनाम् = काव्यकर्तॄणाम्, प्रथमः = आद्यः
  • नारदस्य = त्रिलोकसञ्चारिणः देवर्षिप्रवरस्य
  • वाचम् = गिरम्
  • निशम्य = श्रुत्वा

अन्वयः

प्रवचसां कवीनां प्रथमः सः भगवान् प्राचेतसः नारदस्य वाचं निशम्य माध्यन्दिनाय नियमाय महर्षिसेव्यां पुण्यां तमसां निहन्त्रीं तमसाम् अवाप ।

आकाङ्क्षा

  • अवाप
    • किम् अवाप ? तमसाम्
      • कीदृशीं तमसाम् ? निहन्त्रीम्
        • कस्य निहन्त्रीम् ? तमसाम्
      • पुनः कीदृशीं तमसाम् ? पुण्याम्
      • पुनः कीदृशीं तमसाम् ? महर्षिसेव्याम्
    • किमर्थम् अवाप ? नियमाय
      • कीदृशाय नियमाय ? माध्यन्दिनाय
    • किं कृत्वा अवाप ? निशम्य
      • किं निशम्य ? वाचम्
        • कस्य वाचम् ? नारदस्य
          • कीदृशस्य नारदस्य ? प्राचेतसः
        • कः अवाप ? सः
          • कः सः ? भगवान्
            • कीदृशः सः ? प्रथमः
              • केषां प्रथमः ? कवीनाम्
                • कीदृशां कवीनाम् ? प्रवचसाम्

तात्पर्यम्

आदिकविः पूज्यः वाल्मीकिः नारदमुखात् रामकथां श्रुत्वा माध्याह्निकक्रियां कर्तुम् ऋषिप्रवराश्रितां पावनीम् अज्ञानविनाशिनीं तमसानदीं गतः ।

पदविवरणम्

  • अवाप = अव + आप् “आपॢँ व्याप्तौ” (५, परस्मै), लिट्, प्र.पु., ए.व.
  • निशम्य = ‘शमु उपशमे’ (४, परस्मै), ल्यबन्ताव्ययम्
  • वाचम् = चकारान्तः, स्त्रीलिङ्गः, द्वि.वि., ए.व.
  • भगवान् = तकारान्तः, पुंलिङ्गः, प्र.वि., ए.व. । भगः अस्य अस्तीति भगवान् । भग+मतुप् (तद्धितः)
  • प्राचेतसः = प्रचेतसः अपत्यं पुमान् । प्रचेतस् + अण् (तद्धितः)
  • प्रवचसाम् = प्रकृष्टानि वचांसि येषां ते । सकारान्तः, पुं., तृ.वि., ब.व.
  • माध्यन्दिनः = मध्ये भवः । मध्य+अञ् (तद्धितः)
  • तमसाम् = आकारान्तः, स्त्री, द्वि.वि., ए.व. । अपि च सकारान्तः, नपुं., तृ.वि., ब.व.
  • निहन्त्रीम् = नि + हन् “हन हिंसागत्योः” + तृच् (कृत्) + ङीप् (स्त्री) । ईकारान्तः, स्त्री., द्वि.वि., ए.व.

रामायणप्रसङ्गः

  • तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥ (बाल १.१)
  • को न्वस्मिन्‌ साम्प्रतं लोके गुणवान्‌ कश्च वीर्यवान्‌ । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत: ॥ (बाल १.२)
  • मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः । इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ॥ (बाल १.७)
  • स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा । जगाम तमसातीरं जाह्नव्या अविदूरतः ॥ (बाल २.३)
  • अकर्दममिदं तीर्थं भरद्वाज निशामय । रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ॥ (बाल २.५)

Word-Meaning

  • वाचम् = the words
  • निशम्य = having heard
  • भगवान् = the revered person
  • सः = he
  • तु = verily
  • नारदस्य = of Sage Narada
  • प्राचेतसः = of the intelligent
  • प्रवचसाम् = among those who possess great speech
  • प्रथमः = foremost
  • कवीनाम् = among those poets
  • माध्यन्दिनाय = for those that are related to the afternoon
  • नियमाय = for the practices
  • महर्षिसेव्याम् = one who is approached (सेव्य) by the great rishis (महर्षि)
  • पुण्याम् = the purifier
  • अवाप = reached
  • तमसाम् = the river Tamasaa
  • तमसाम् = of the darkness
  • निहन्त्रीम् = the destroyer

5a. गद्यम्

प्रस्तावना

क्रौञ्चघातिनं व्याधं प्रति वाल्मीकेः शापः ।

मूलपाठः

तत्र कञ्चन क्रौञ्चमिथुनादेकं पञ्चशरविद्धमपि व्याधेनानुविद्धं निध्यायतो बद्धानुकम्पस्य भगवतो वाल्मीकेर्वदनारविन्दाच्छन्दोमयी काचिदेवं निस्ससार सरस्वती ।

पदच्छेदः

तत्र कञ्चन क्रौञ्चमिथुनात् एकम् पञ्चशरविद्धम् अपि व्याधेन अनुविद्धम् निध्यायतः बद्धानुकम्पस्य भगवतः वाल्मीकेः वदनारविन्दात् छन्दोमयी काचित् एवम् निःससार सरस्वती

(तत्र, कञ्चन, क्रौञ्च+मिथुनात्, एकम्, पञ्च+शर+विद्धम्, अपि, व्याधेन, अनुविद्धम्, निध्यायतः, बद्ध+अनुकम्पस्य, भगवतः, वाल्मीकेः, वदन+अरविन्दात्, छन्दोमयी, काचित्, एवम्, निस्ससार, सरस्वती)

अन्वयार्थः

  • तत्र = तमसातीरे
  • क्रौञ्चमिथुनात् = बकविशेषद्वन्द्वात्
  • एकम् = पुमांसम्
  • पञ्चशरविद्धम् = मन्मथाहतम्
  • व्याधेन = निषादेन
  • अनुविद्धम् = पुनः प्रहृतम्
  • निध्यायतः = पश्यतः
  • बद्धानुकम्पस्य = उत्पन्नकरुणस्य
  • भगवतो वाल्मीकेः = महर्षेः प्राचेतसस्य
  • वदनारविन्दात् = मुखकमलात्
  • छन्दोमयी = अनुष्टुप्-छन्दसि निबद्धा
  • काचित् = अपूर्वा
  • एवम् = वक्ष्यमाणरीत्या
  • निस्ससार = निर्गता, निजप्रयत्नं विना बहिर्याता
  • सरस्वती = वाक्

अन्वयः

तत्र पञ्चशरविद्धं व्याधेन अपि अनुविद्धं कञ्चन क्रौञ्चमिथुनात् एकं निध्यायतः बद्धानुकम्पस्य भगवतः वाल्मीकेः वदनारविन्दात् छन्दोमयी काचित् सरस्वती एवं निःससार ।

आकाङ्क्षा

  • निःससार
    • कथं निःससार ? एवम्
    • का निःससार ? सरस्वती
      • कीदृशी सरस्वती ? काचित्
      • पुनः कीदृशी सरस्वती ? छन्दोमयी
    • कुतः निःससार ? वदनारविन्दात्
      • कस्य वदनारविन्दात् ? वाल्मीकेः
        • कीदृशस्य वाल्मीकेः ? भगवतः
      • पुनः कीदृशस्य वाल्मीकेः ? बद्धानुकम्पस्य
      • पुनः कीदृशस्य वाल्मीकेः ? निध्यायतः
        • किं निध्यायतः ? एकम्
          • कस्मात् एकम् ? क्रौञ्चमिथुनात्
          • कीदृशं एकम् ? कञ्चन
          • पुनः कीदृशं एकम् ? पञ्चशरविद्धम्
          • पुनः कीदृशं एकम् ? अनुविद्धम्
            • केन अनुविद्धम् ? व्याधेन अपि
          • निःससार ? तत्र

तात्पर्यम्

तमसातीरे परस्परं सन्तोषेण रममाणयोः द्वयोः क्रौञ्चयोः मध्ये एकं पक्षिणं व्याधेन प्रहृतं दृष्ट्वा (क्रौञ्च्याः आर्तनादं च श्रुत्वा) उत्पन्नकरुणस्य वाल्मीकिमहर्षेः मुखात् छन्दोबद्धा अपूर्वा वाणी निर्गता ।

पदविवरणम्

  • क्रौञ्चमिथुनात् – क्रौञ्चयोः मिथुनम्, तस्मात्
  • पञ्चशरविद्धम् – पञ्च शराः यस्य सः, पञ्चशरेण विद्धम् । ‘व्यध ताडने’ (४, परस्मै) + क्त (कृत्) । ‘कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः’ (अमरः)
  • निध्यायतः – तकारान्तः, पुं, ६.१ । नि-‘ध्यै चिन्तायाम्’ (१, परस्मै)+शतृ (कृत्)
  • बद्धानुकम्पस्य – बद्धा अनुकम्पा यस्य सः, तस्य । ‘कृपा दयानुकम्पा स्यात्’ (अमरः)
  • वदनारविन्दात् – वदनम् अरविन्दम् इव, तस्मात्
  • छन्दोमयी – छन्दस् + मयट् (तद्धितः, ताद्रूप्ये) + ङीप् (स्त्री)
  • निस्ससार – निस् + सृ “सृ गतौ” (१, परस्मै), लिट्, प्र.पु., ए.व.
  • सरस्वती – ‘ब्राह्मी तु भारती भाषा गीर्वाग् वाणी सरस्वती’ (अमरः)

रामायणप्रसङ्गः

  • ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ॥ (बाल २.१३)
  • ततः करुणवेदित्वाद् अधर्मोऽयमिति द्विजः ॥ (बाल २.१४)
  • शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा ॥ (बाल २.१८)
  • शोकः श्लोकत्वम् आगतः ॥ (बाल २.४०)

Word-Meaning

  • तत्र = there, on the shores of the river Tamasaa
  • कञ्चन = some specific
  • क्रौञ्चमिथुनात् = among the pair (मिथुन) of heron birds (क्रौञ्च), a type of water birds like duck
  • एकम् = one
  • पञ्चशरविद्धम् = one that is attacked (विद्ध) by Manmatha, the possessor of the five (पञ्च) arrows (शर)
  • अपि = also
  • व्याधेन = by the hunter
  • अनुविद्धम् = again attacked
  • निध्यायतः = by one who has seen
  • बद्धानुकम्पस्य = of one who was stuck (बद्ध) by compassion (अनुकम्प)
  • भगवतः = of the revered one
  • वाल्मीकेः = of Sage Valmiki
  • वदनारविन्दात् = from the lotus (अरविन्द) face (वदन)
  • छन्दोमयी = one that is set to (literally, filled with) Chandas (छन्दः), a poetic meter
  • काचित् = something
  • एवम् = in this way
  • निःससार = spontaneously oozed out
  • सरस्वती = the words

6.  श्लोकः

प्रस्तावना

वाल्मीकेः मुखात् निर्गतां वाणीम् अनुवदति ।

मूलपाठः

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकम् अवधीः काममोहितम् ॥ ६ ॥

पदच्छेदः

मा, निषाद, प्रतिष्ठाम्, त्वम्, अगमः, शाश्वतीः, समाः, यत्, क्रौञ्चमिथुनात्, एकम्, अवधीः, काममोहितम्

अन्वयार्थः

  • हे निषाद = हे व्याध!
  • त्वं मा अगमः = त्वं मा गच्छ, त्वं मा प्राप्नुहि
  • प्रतिष्ठाम् = स्थितिम्, माहात्म्यम्, यशः, ऐश्वर्यानन्दावाप्तिम्
  • शाश्वतीः समाः = अनन्तसंवत्सरान्
  • यत् = यस्मात् कारणात्
  • अवधीः = हतवान्
  • क्रौञ्चमिथुनात् एकम् = क्रौञ्चद्वयात् एकं क्रौञ्चपक्षिणं
  • काममोहितम् = स्मरविवशम्

अन्वयः

(हे) निषाद ! यत् काममोहितं क्रौञ्चमिथुनात् एकम् अवधीः, (तस्मात्) त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः ।

आकाङ्क्षा

  • (हे) निषाद
  • मा अगमः
    • काम् मा अगमः ? प्रतिष्ठाम्
    • कियत् कालं मा अगमः ? समाः
      • कियत् समाः ? शाश्वतीः
    • कः मा अगमः ? त्वम्
    • किमर्थं मा अगमः ? यत् … अवधीः (अस्ति)
      • किम् अवधीः अस्ति ? एकम्
        • कस्मात् एकम् ? क्रौञ्चमिथुनात्
        • कीदृशं एकम् ? काममोहितम्

पदविवरणम्

  • अगमः = ‘गम्लृ गतौ’ (१.परस्मै), लुङ्, मध्यम.१ ।
  • अवधीः = ‘हन हिंसागत्योः’ (२.परस्मै), लुङ्, मध्यम.१ ।
  • मा = अव्ययम् । ‘माङि लुङ्’ (३.३.१७५) । ‘न माङ्योगे’ (६.४.७४) इति अडागमनिषेधः । मा भूत्, मा कार्षीः, मा श्रौषम् । अत्र अडागमः आर्षः ।
  • समाः = ‘संवत्सरो वत्सरोऽब्दः हायनोऽस्त्री शरत् समाः’ (अमरः) । आकारान्तः, स्त्री, २.३ । ‘कालाध्वनोरत्यन्तसंयोगे’ (२.३.५) इति द्वितीया ।

तात्पर्यम्

(साक्षाच्छ्रुतार्थः) हे व्याध! निर्दयः त्वं स्मरविवशं (प्रियया सह क्रीडारतं) क्रौञ्चपक्षिणं हतवान् । अतः अनन्तसंवत्सरकालं प्रतिष्ठां मा प्राप्नुहि । [ बहुधा व्याख्यातः श्लोकः । रामपरत्वेन (मानिषाद), रावणपरत्वेन, इत्यादि । ]

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • मानिषाद
    • (In the context of Vishnu) मानिषाद = The abode of Lakshmi (मा)
    • (In the context of the hunter) मा = Don’t ; निषाद = Hey Hunter
  • प्रतिष्ठाम् = state (i.e., a good status)
  • त्वम् = you
  • अगमः = obtain
  • शाश्वतीः = eternal
  • समाः = years
  • यत् = because
  • क्रौञ्चमिथुनात् = among the pair (मिथुन) of Heron birds (क्रौञ्च)
  • एकम् = one
  • अवधीः = One who killed
  • काममोहितम् = which was engaged in enjoying with its mate

6a. गद्यम्

मूलपाठः

तदनु समयोचितकृत्यं निर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ

पदच्छेदः

तदनु, समय-उचित-कृत्यम्, निर्वर्त्य, स्व-आश्रमम्, प्रति, गतवति, भगवति, वाल्मीकौ

अन्वयार्थः

  • तदनु = ततः, ‘मा निषाद..’ इति छन्दोमय्याः वाचः निस्सरणानन्तरम्
  • समयोचितकृत्यम् = मध्याह्नकालोचितं कार्यम्, माध्याह्निकम्
  • निर्वर्त्य = कृत्वा
  • स्वाश्रमं प्रति = नैज-पर्णशालाम् उद्दिश्य
  • गतवति = याते सति
  • भगवति वाल्मीकौ = पूज्ये वाल्मीकिमहर्षौ

अन्वयः

तदनु समयोचितकृत्यं निर्वर्त्य स्वाश्रमं प्रति गतवति भगवति वाल्मीकौ (सति) … (भवति)

आकाङ्क्षा

  • भवति (किं भवति इति अग्रिमश्लोके उच्यते)
    • कदा भवति ? गतवति वाल्मीकौ (सति)
      • कीदृशे वाल्मीकौ ? भगवति
        • कं प्रति गतवति ? स्वाश्रमं प्रति
        • किं कृत्वा गतवति ? निर्वर्त्य
          • किं निर्वर्त्य ? समयोचितकृत्यम्
        • कदा भवति ? तदनु

पदविवरणम्

  • समयोचितकृत्यम्
    • समयोचितम् = समयस्य उचितम्
    • समयोचितकृत्यम् = समयोचितं कृत्यम्
  • निर्वर्त्य = निर् + वृत् “वृतु वर्तने” (१.आत्मने) + णिजन्तात् ल्यप् (कृत्)
  • स्वाश्रमम् = स्वस्य आश्रमः, तम्
  • गतवति = गम् “गम्लृ गतौ” + क्तवतु (कृत्), तकारान्तः, पुं, स.वि., ए.व., (सतिसप्तमीप्रयोगः)

Word-Meaning

  • तदनु = After that
  • निर्वर्त्य = having accomplished
    • समयोचितकृत्यम् = the afternoon rites, i.e., the actions (कृत्यम्) appropriate (उचित) for the time (समय) of the day
  • गतवति भगवति वाल्मीकौ (सति) = When Bhagavan Valmiki went
  • स्वाश्रमम् प्रति = towards the ashram

7.  श्लोकः

प्रस्तावना

रामायणरचनां चोदयितुं वाल्मीकेः पुरतः ब्रह्मा आविर्भवति

मूलपाठः

वाणीविलासमपरत्र कृतोपलम्भम् अम्भोजभूरसहमान इवाविरासीत् ।

आभाति यत्कृतिरनेकविधप्रपञ्च-व्याजेन्द्रजालविधिसाधकपिञ्छिकेव ॥ ७ ॥

पदच्छेदः

वाणी-विलासम्, अपरत्र, कृत-उपलम्भम्, अम्भोज-भूः, अ-सहमानः, इव, आविर्-आसीत्, आभाति, यत्-कृतिः, अनेक-विध-प्रपञ्च-व्याज-इन्द्रजाल-विधि-साधक-पिञ्छिका, इव ।

अन्वयार्थः

  • आविरासीत् = प्रादुर्भूतः
  • अम्भोजभूः = कमलभवः, चतुर्मुखब्रह्मा
  • अपरत्र = अन्यस्मिन्, वाल्मीकौ
  • कृतोपलम्भम्
    • कृतः = विहितः
    • उपलम्भः = प्राप्तिः येन तादृशम्
  • वाणीविलासम् = सरस्वत्याः लीलाम्
  • असहमानः इव = अमृष्यमाणः इव (स्वस्य पत्न्याः सरस्वत्याः विलासस्य अन्यस्मिन् उपलब्धिं सोढुम् अशक्तः इव, असूयया इव)
  • यत्कृतिः = यस्य ब्रह्मणः क्रियाशक्तिः
  • आभाति = प्रकाशते
  • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका
    • पिञ्छिका = पिच्छम्, ऐन्द्रजालिकैः उपयुज्यमानः कूर्चः
    • इन्द्रजालविधिसाधकपिञ्छिका = इन्द्रजालविधेः साधकपिञ्छिका
    • अनेकविधः = बहुप्रकारकः
    • प्रपञ्चव्याजः = सर्गः एव अस्य अपदेशः (अयथार्थप्रदर्शनम्)
      • प्रपञ्चः = सर्गः
      • व्याजः = अपदेशः
    • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका = ब्रह्मा बहुप्रकारकस्य मिथ्यारूपस्य जगतः सृष्टिरूपम् इन्द्रजालं करोति । तस्य क्रियाशक्तिः एव अस्य इन्द्रजालस्य साधकपिञ्छिका

आकाङ्क्षा

  • आविरासीत्
    • किमिव आविरासीत् ? असहमानः इव
      • किम् असहमानः ? वाणीविलासम्
        • कुत्र वाणीविलासम् ? अपरत्र
        • कीदृशं वाणीविलासम् ? कृतोपलम्भम्
      • कः आविरासीत् ? अम्भोजभूः
        • कीदृशः अम्भूजभूः ? यत्कृतिः आभाति
          • कथं आभाति ? अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका इव

अन्वयः

अपरत्र कृतोपलम्भं वाणीविलासम् असहमानः इव अम्भोजभूः आविरासीत्, यत्कृतिः अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका इव आभाति ।

तात्पर्यम्

सृष्टिकर्ता ब्रह्मा स्वस्य क्रियाशक्त्या बहुप्रकारकस्य प्रपञ्चस्य सृष्टिरूपम् इन्द्रजालं प्रदर्शयति । तादृशः सः पत्न्याः सरस्वत्याः विलासम् अन्यस्मिन् (वाल्मीकौ) उपलब्धम् असूयया सोढुम् अशक्तः इव (वाल्मीकेः पुरतः) प्रादुर्भूतः ।

पदविवरणम्

  • आविरासीत् = अस् “अस भुवि” (२,परस्मै), लङ्, प्र.पु., ए.व. ।
    • आविस् – अव्ययम्, कृ-भू इत्येताभ्यां योगे प्रयुज्यते – आविर्भवति, आविष्करोति । ‘प्राकाश्ये प्रादुराविः स्यात्’ (अमरः) ।
  • आभाति = आ + भा “भा दीप्तौ” (२.परस्मै), लट्, प्र.पु., ए.व. ।
  • वाणीविलासम् = वाण्याः विलासः, तम्
  • अपरत्र = अपर + त्रल् प्रत्ययः (सप्तम्यर्थे तद्धितः – किंसर्वनामबहुभ्यः) । अव्ययम् ।
  • कृतोपलम्भम् = कृतः उपलम्भः येन सः, तम्
  • अम्भोजभूः
    • अम्भसि जायते इत्यम्भोजम्,
    • अम्भोजभूः = अम्भोजात् भवति
  • असहमानः = न सहमानः । सह् “षहँ मर्षणे” (१.आत्मने) + शानच् (कृत्)
  • यत्कृतिः = यस्य कृतिः
  • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका
    • इन्द्रजालस्य विधिः = इन्द्रजालविधिः
    • साधिका पिञ्छिका = साधकपिञ्छिका
    • अनेके विधाः यस्य सः = अनेकविधः
    • अनेकविधः प्रपञ्चः = अनेकविधप्रपञ्चः
    • अनेकविधप्रपञ्चः व्याजः यस्य सः = अनेकविधप्रपञ्चव्याजः
    • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिः = अनेकविधप्रपञ्चव्याजः इन्द्रजालविधिः
    • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका = अनेकविधप्रपञ्चव्याजेन्द्रजालविधेः साधकपिञ्छिका ।

अलङ्कारः

  • असहमानः इव – उत्प्रेक्षालङ्कारः । ‘सम्भावना स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना’ ।
  • पिञ्छिकेव – उपमालङ्कारः ।

Word-Meaning

  • असहमानः इव = as though unable to tolerate
    • वाणीविलासम् = the sport of Saraswati
      • कृतोपलम्भम् = that which was accomplished
        • अपरत्र = elsewhere (i.e., in Valmiki)
      • अम्भोजभूः = Brahma, who was born out of lotus
        • यत्कृतिः = that Brahma, whose ability to create
          • इव आभाति = seems as though
            • अनेकविधप्रपञ्चव्याजेन्द्रजालविधिसाधकपिञ्छिका = the brush (पिञ्छिका) used as a tool (साधक) in his magic show (इन्द्रजालविधि) of creating an illusion (व्याज) of different types (अनेकविध) of cosmos (प्रपञ्च)
          • आविरासीत् = manifested

7a. गद्यम्

प्रस्तावना

रामायणं रचयितुं ब्रह्मणः आज्ञा ।

मूलपाठः

ततः परमहर्षेण महर्षिणा विधिवदभ्यर्चितः परमेष्ठी मध्यलोकेऽपि स्ववृत्तं प्रकाशयितुं किल भवन्तमेवोपतिष्ठमानयानया भारत्या रामचरितं यथाश्रुतं व्याक्रियतामिति व्याहृत्यान्तरधात् ।

पदच्छेदः

ततः, परम-हर्षेण, महर्षिणा, विधिवत्, अभ्यर्चितः, परमेष्ठी, मध्य-लोके, अपि, स्व-वृत्तम्, प्रकाशयितुम्, किल, भवन्तम्, एव, उपतिष्ठमानया, अनया, भारत्या, राम-चरितम्, यथा-श्रुतम्, व्याक्रियताम्, इति, व्याहृत्य, अन्तर्-अधात् ।

अन्वयार्थः

  • ततः = ब्रह्मणः प्रादुर्भावानन्तरम्
  • परमहर्षेण = अत्यन्तं सन्तुष्टेन
  • महर्षिणा = वाल्मीकिना
  • विधिवत् = यथाशास्त्रम्
  • अभ्यर्चितः = अर्घ्य-पाद्य-आसनादिभिः पूजितः
  • परमेष्ठी = सृष्टिकर्ता ब्रह्मा
  • मध्यलोके = भूलोके अपि (स्वर्गः – भूमिः – पातालम्)
  • अपि = लोकान्तरेषु ज्ञातपूर्वम् इत्यर्थः
  • स्ववृत्तम् = आत्मनः चरित्रम्/महिमानम्, अथवा वृत्तम् – छन्दोरूपत्वम्
  • प्रकाशयितुम् = उद्द्योतयितुम्
  • किल = खलु
  • भवन्तम् एव = अर्हं त्वामेव, नान्यम्
  • उपतिष्ठमानया = अनुवर्तमानया
  • अनया = भवतः मुखात् निर्गतया
  • भारत्या = वाण्या, एतादृशैरेव छन्दोबद्धैः वचनैः इत्यर्थः
  • रामचरितम् = श्रीरामस्य चरित्रम्
  • यथाश्रुतम् = नारदमुखेन श्रुतं क्रममेव अनुसृत्य
  • व्याक्रियताम् = व्याख्यायताम्
  • इति व्याहृत्य = एवम् उक्त्वा
  • अन्तरधात् = अदृश्यः अभूत्

अन्वयः

ततः परमहर्षेण महर्षिणा विधिवत् अभ्यर्चितः परमेष्ठी मध्यलोके अपि स्ववृत्तम् प्रकाशयितुम् किल भवन्तम् एव उपतिष्ठमानया अनया भारत्या रामचरितम् यथाश्रुतम् व्याक्रियताम् इति व्याहृत्य अन्तरधात् ।

आकाङ्क्षा

  • अन्तरधात्
    • कुतः अन्तरधात् ? ततः
    • कः अन्तरधात् ? परमेष्ठी
    • कथम्भुतः परमेष्ठी ? अभ्यर्चितः
      • कथम् अभ्यर्चितः ? विधिवत्
      • केन अभ्यर्चितः ? महर्षिणा
        • कीदृशेन महर्षिणा ? परमहर्षेण
      • किंकृत्वा अन्तरधात् ? व्याहृत्य
        • किमिति व्याहृत्य ? व्याक्रियताम् इति
        • कथं व्याक्रियताम् ? यथाश्रुतम्
        • किं व्याक्रियताम् ? रामचरितम्
        • कया व्याक्रियताम् ? अनया
          • कया अनया ? भारत्या
            • कीदृश्या भारत्या ? उपतिष्ठमानया
              • कमेव उपतिष्ठमानया ? भवन्तम् एव
              • किमर्थम् उपतिष्ठमानया ? प्रकाशयितुम् किल
                • किं प्रकाशयितुम् ? स्ववृत्तम्
                • कुत्र प्रकाशयितुम् ? मध्यलोके अपि

तात्पर्यम्

सृष्टिकर्तुः ब्रह्मणः आगमनेन अत्यन्तं सन्तुष्टः वाल्मीकिः यथाविधि तम् अर्घ्यादिभिः अर्चयामास । “आत्मनः छन्दोबद्धं रूपं भूलोके प्रकाशयितुमेव इयं वाणी भवतः मुखात् निर्गता । तादृशैरेव छन्दोबद्धैः वचनैः नारदात् श्रुतं रामचरित्रं वर्णय” इति वाल्मीकिम् आदिश्य ब्रह्मा अदृश्यः अभूत् ।

पदविवरणम्

  • परमहर्षेण = परमः हर्षः यस्य सः, तेन
  • महर्षिणा = महान् ऋषिः, तेन
  • विधिवत् = विधिम् अर्हति । विधि + वति (तद्धितः)
  • अभ्यर्चितः = अभि + अर्च “अर्च पूजायाम्” + क्त (कृत्)
  • परमेष्ठी = परमे तिष्ठति, अलुक्समासः । “ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः” (अमरः) । नकारान्तः, पुं, प्र.वि., ए.व.
  • प्रकाशयितुम् = प्र + काशृ “काशृ दीप्तौ” + तुमुन् (कृत्) – अव्ययम्
  • भवन्तम् = तकारान्तः सर्वनामशब्दः, पुं, दि.व., ए.व.
  • उपतिष्ठमानया = उप + स्था “ष्ठा गतिनिवृत्तौ” + शानच् (कृत्) । आकारान्तः, स्त्री, तृ.व., ए.व.
  • भारत्या = ईकारान्तः, स्त्री, तृ.वि., ए.व. । “ब्राह्मी तु भारती भाषा” (अमरः)
  • यथाश्रुतम् = श्रुतम् अनतिक्रम्य । अव्ययीभावः ।
  • व्याक्रियताम् = वि + आ + “डुकृञ् करणे”, कर्मणि लोट्, प्र.पु., ए.व.
  • रामचरितं भवता व्याक्रियताम् (कर्मणि) -> रामचरितं भवान् व्याकरोतु (कर्तरि)
  • व्याहृत्य = वि + आ + हृ “हृञ् हरणे” + ल्यप् (कृत्), अव्ययम्
  • अन्तरधात् = अन्तर् + धा “डुधाञ् धारणपोषणयोः”, लुङ्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती । रामस्य चरितं कृत्स्नं कुरु त्वम् ऋषिसत्तम ॥ (बाल २.३१)
  • धर्मात्मनो भगवतो लोके रामस्य धीमतः । वृत्तं कथय धीरस्य यथा ते नारदात् श्रुतम् ॥ (बाल २.३२)

Word-Meaning

  • ततः = After that, i.e., after Brahma appeared
  • अभ्यर्चितः = One who was worshipped
    • महर्षिणा = by Valmiki
    • विधिवत् = in the way ordained by the shastras
    • परमहर्षेण = with excessive happiness
  • परमेष्ठी = Brahma, the creator
  • अन्तरधात् = disappeared
  • इति व्याहृत्य = Having said this
    • व्याक्रियताम् = May it be composed
      • अनया भारत्या = using those verses (which were set to poetic meter)
        • उपतिष्ठमानया = using those which followed
        • भवन्तम् एव = only you
        • प्रकाशयितुम् = to bring to light
        • किल = indeed
        • स्ववृत्तम् = one’s greatness or one’s poetic meter form
        • मध्यलोके = in the earth which is the middle one among Heaven, earth and the nether world
        • अपि = even
      • रामचरितम् = the story of Sri Rama
      • यथाश्रुतम् = in the same way (in which it was heard from Sage Narada, without any exaggeration)

8.  श्लोकः

प्रस्तावना

वाल्मीकिना रामायणस्य प्रणयनम्

मूलपाठः

अथ सरसिजयोनेराज्ञया रामवृत्तं करबदरसमानं प्रेक्ष्य दृष्ट्या प्रतीच्या ।

शुभमतनुत काव्यं स्वादु रामायणाख्यम् मधुमयफणितीनां मार्गदर्शी महर्षिः ॥ ८ ॥

पदच्छेदः

अथ, सरसिज-योनेः, आज्ञया, राम-वृत्तम्, कर-बदर-समानम्, प्रेक्ष्य, दृष्ट्या, प्रतीच्या, शुभम्, अतनुत, काव्यम्, स्वादु, रामायण-आख्यम्, मधुमय-फणितीनाम्, मार्गदर्शी, महर्षिः

अन्वयार्थः

  • अथ = ब्रह्मणः अन्तर्धानानन्तरम्
  • अतनुत = व्यरचयत्
  • काव्यम् = कविप्रबन्धम्
  • रामायणाख्यम् = ‘रामायणम्’ इति विख्यातम्
  • शुभम् = वक्तॄणां श्रोतॄणां च कल्याणकरम्
  • स्वादु = पाठतः गानतश्च मधुरम्
  • महर्षिः = वाल्मीकिः
  • मधुमयफणितीनाम् = अमृततुल्यानां रसयुक्तानां वचनानां
  • मार्गदर्शी = पथिप्रदर्शकः, सकलकविकुलगुरुः
  • आज्ञया = शासनेन
  • सरसिजयोनेः = कमलसम्भवस्य ब्रह्मणः
  • प्रेक्ष्य = दृष्ट्वा
  • रामवृत्तम् = श्रीरामस्य चरितम्
  • प्रतीच्या दृष्ट्या = योगचक्षुषा
  • करबदरसमानम् = हस्तस्थितेन बदरफलेन तुल्यम्, निःशेषम् इत्यर्थः

अन्वयः

अथ सरसिजयोनेः आज्ञया प्रतीच्या दृष्ट्या रामवृत्तं करबदरसमानं प्रेक्ष्य मधुमयफणितीनां मार्गदर्शी महर्षिः रामायणाख्यं शुभं स्वादु काव्यम् अतनुत ।

आकाङ्क्षा

  • अतनुत = व्यरचयत्
    • कदा अतनुत ? अथ
    • किम् अतनुत ? काव्यम्
      • किंनामकं काव्यम् ? रामायणाख्यम्
      • कीदृशं काव्यम् ? शुभम्
      • पुनः कीदृशं काव्यम् ? स्वादु
    • कः अतनुत ? महर्षिः
      • कीदृशः महर्षिः ? मार्गदर्शी
        • केषां मार्गदर्शी ? मधुमयफणितीनाम्
      • कया कारणतया अतनुत ? आज्ञया
        • कस्य आज्ञया ? सरसिजयोनेः
      • किंकृत्वा अतनुत ? प्रेक्ष्य
        • किं प्रेक्ष्य ? रामवृत्तम्
        • कया प्रेक्ष्य ? दृष्ट्या
          • कीदृश्या दृष्ट्या ? प्रतीच्या
        • कथं प्रेक्ष्य ? करबदरसमानम्

तात्पर्यम्

ब्रह्मणः आज्ञानुगुणं योगदृष्टिं प्राप्य वाल्मीकिः रामचरितं सर्वमपि हस्तस्थितं बदरफलमिव द्रष्टुं शक्तवान् । ततः सः रामायणनामकं कल्याणप्रदं मधुरं काव्यं विरचय्य स्वस्य मधुरैः वचनैः सर्वेषां कवीनां मार्गदर्शनं कृतवान् ।

पदविवरणम्

  • अतनुत = तन् “तनु विस्तारे” (६, उभय), आत्मनेपदे, लङ्, प्र.पु., ए.व.
  • प्रेक्ष्य = प्र + ईक्ष् “ईक्ष दर्शने” (१, आत्मने) + ल्यप् (कृत्)
  • सरसिजयोनेः
    • सरसि जायते इति = सरसिजम् । उपपदसमासः – अलुक् ।
    • सरसिजयोनेः = सरसिजं योनिः यस्य सः, तस्य । “धाता-अब्जयोनिः-द्रुहिणः” (अमरः)
  • करबदरसमानम्
    • करबदरम् = करे बदरम्
    • करबदरसमानम् = करबदरेण समानम् ।
  • प्रतीच्या = ईकारान्तः, स्त्री, ३.१ । “प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिण-पश्चिमाः” (अमरः) । प्रत्यञ्चति – अन्तर्मुखं याति इत्यर्थे अत्र प्रयोगः ।
  • रामायणाख्यम्
    • रामायणाम् = रामस्य अयनम् ।
    • रामायणाख्यम् = रामायणम् इति आख्या यस्य तत् ।
  • मधुमयफणितीनाम्
    • मधुमयी = मधु + मयट् (ताद्रूप्ये तद्धितः) + ङीप्,
    • मधुमयफणितीनाम् = मधुमय्यः फणितयः, तासाम् । ‘भणितिः’ इति पाठान्तरम् ।
  • मार्गदर्शी = मार्गं दर्शयति – ताच्छील्ये णिनिः (कृत्), उपपदसमासः । नकारान्तः पुं, प्र.पु., ए.व. ।

छन्दः

मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15
गु गु गु गु गु गु गु
सि यो ने रा ज्ञ या रा वृ त्तं
मा नं प्रेक्ष् दृ ष्ट्या प्र ती च्या
शु नु का व्यं स्वा दु रा मा णा ख्यम्
धु णि ती नां मा र्ग र्शी र्षिः

रामायणप्रसङ्गः

  • रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः । रामस्य सह सौमित्रे राक्षसानां च सर्वशः ॥
  • वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः । तच्चाप्यविदितं सर्वं विदितं ते भविष्यति ॥
    (बाल २.३३, २.३४)
  • ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः । पुरा यत् तत्र निर्वृत्तं पाणावामलकं यथा ॥
    (बाल ३.६)

Word-Meaning

  • अथ = After that, i.e., after Brahma disappeared
  • महर्षिः = Valmiki
    • मार्गदर्शी = the mentor who showed this new way
    • मधुमयफणितीनाम् = of the verses filled with melodiousness
    • आज्ञया = by the order
    • सरसिजयोनेः = of Brahma, who was born out of lotus
  • प्रेक्ष्य = after having seen
    • रामवृत्तम् = the life (वृत्त) of Sri Rama (राम)
    • प्रतीच्या दृष्ट्या = using his inward (प्रतीची) sight (दृष्टि)
    • करबदरसमानम् = with the clarity similar (समान) to the sight of the gooseberry (बदर) in one’s hand (कर)
  • अतनुत = composed
    • काव्यम् = Poetic work
    • रामायणाख्यम् = named Ramayana
    • शुभम् = which is auspicious
    • स्वादु = which is melodious (for reading and singing)

8a. गद्यम्

प्रस्तावना

मूलपाठः

एनं प्रबन्धं प्रयोक्तुं कः समर्थ इति चिन्तामुपगतवति सति भगवति वाल्मीकौ

पदच्छेदः

एनम्, प्रबन्धम्, प्रयोक्तुम्, कः, समर्थः, इति, चिन्ताम्, उपगतवति, सति, भगवति, वाल्मीकौ

अन्वयार्थः

  • एनं प्रबन्धम् = रामायणकाव्यम्
  • प्रयोक्तुम् = पठितुं गातुं वा
  • कः समर्थः = कः अधिकारी
  • इति = एवंरूपतया
  • चिन्ताम् = पर्यालोचनम्
  • उपगतवति सति = प्राप्तवति सति
  • भगवति वाल्मीकौ = पूज्ये प्राचेतसे

अन्वयः

भगवति वाल्मीकौ एनं प्रबन्धं प्रयोक्तुं कः समर्थः इति चिन्ताम् उपगतवति सति …

आकाङ्क्षा

  • … (अभवत्)
  • कदा अभवत् ? उपगतवति सति
    • कस्मिन् उपगतवति सति ? वाल्मीकौ
      • कीदृशे वाल्मीकौ ? भगवति
    • किम् उपगतवति सति ? चिन्ताम्
      • किमिति चिन्ताम् ? कः समर्थः इति
        • किंकर्तुं समर्थः ? प्रयोक्तुम्
          • किं प्रयोक्तुम् ? एनम्
            • किम् एनम् ? प्रबन्धम्

तात्पर्यम्

रामायणं विरचय्य वाल्मीकिः तत् काव्यं सम्यगधीत्य अन्येभ्यः प्रसारयितुं कः शक्नुयात् इति चिन्तयति । तदा…

पदविवरणम्

  • एनम् – इदम्/एतद् शब्दः, २.१ । अन्वादेशे ‘द्वितीयाटौस्स्वेनः’ (२.४.३४) । एतम्/एनम्, इमम्/एनम् ।
  • वाल्मीकौ उपगतवति सति – सतिसप्तमीप्रयोगः

Word-Meaning

  • भगवति वाल्मीकौ = When Bhagavan Valmiki
  • उपगतवति सति = when he got
  • इति चिन्ताम् = the thought as to
  • कः समर्थः = who is fit
  • प्रयोक्तुम् = to utilize (recite)
  • एनं प्रबन्धम् = this (इदम्) literary work (प्रबन्ध)

9.  श्लोकः

प्रस्तावना

लव-कुशयोः वर्णनम् ।

मूलपाठः

उपागतौ मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ ।

विचक्षणौ विविधनरेन्द्रलक्षणौ कुशीलवौ कुशलवनामधारिणौ ॥ ९ ॥

पदच्छेदः

उपागतौ, मिलित-परस्पर-उपमौ, बहु-श्रुतौ, श्रुति-मधुर-स्वर-अन्वितौ, विचक्षणौ, विविध-नरेन्द्र-लक्षणौ, कुशीलवौ, कुश-लव-नाम-धारिणौ

अन्वयार्थः

  • उपागतौ = समीपं प्राप्तौ
  • कुशीलवौ = चारणौ, गायकौ
  • मिलितपरस्परोपमौ
    • मिलिता = सङ्गता
    • परस्परयोः = अन्योन्ययोः
  • उपमा = सादृश्यम् ययोः
  • मिलितपरस्परोपमौ = अन्योन्यसदृशौ, यमलत्वात् परस्पर-तुल्यरूपौ
  • बहुश्रुतौ = वेदवेदाङ्गादि-सकलविद्या-विशारदौ
  • श्रुतिमधुरस्वरान्वितौ
    • श्रुतिमधुरेण = श्रवणानन्दकरेण
    • स्वरेण = श्रुत्या
    • अन्वितौ = सहितौ
  • विचक्षणौ = धीमन्तौ
  • विविधनरेन्द्रलक्षणौ
    • विविधानि = बहुप्रकाराणि
    • नरेन्द्रलक्षणानि = राजचिह्नानि ययोः
  • कुशलवनामधारिणौ = कुशः, लवः चेति संज्ञातौ

अन्वयः

मिलितपरस्परोपमौ बहुश्रुतौ श्रुतिमधुरस्वरान्वितौ विचक्षणौ विविधनरेन्द्रलक्षणौ कुशलवनामधारिणौ कुशीलवौ उपागतौ ।

आकाङ्क्षा

  • उपागतौ = समीपं प्राप्तौ
    • कौ उपागतौ ? कुशीलवौ
      • कीदृशौ कुशीलवौ ? मिलितपरस्परोपमौ
      • पुनः कीदृशौ तै ? बहुश्रुतौ
      • पुनः कीदृशौ तै ? श्रुतिमधुरस्वरान्वितौ
      • पुनः कीदृशौ तै ? विचक्षणौ
      • पुनः कीदृशौ तै ? विविधनरेन्द्रलक्षणौ
      • पुनः कीदृशौ तै ? कुशलवनामधारिणौ

तात्पर्यम्

यदा वाल्मीकिः चिन्तयन् आसीत्, तदैव अन्योन्यसदृशौ, सकलविद्याविशारदौ, श्राव्यकण्ठस्वरसम्पन्नौ, धीमन्तौ, बहुप्रकारकराजचिह्नयुक्तौ कुश-लवनामकौ गायकौ तत्समीपं प्राप्तौ ।

पदविवरणम्

  • उपागतौ = उप + आ + गम् “गम्लृ गतौ” + क्त (कृत्), पुं., प्र.वि., द्वि.व.
  • मिलितपरस्परोपमौ = परस्परयोः उपमा, मिलिता परस्परोपमा ययोः तौ
  • बहुश्रुतौ = बहु श्रुतं याभ्यां तौ
  • श्रुतिमधुरस्वरान्वितौ = श्रुतेः मधुरः, श्रुतिमधुरः स्वरः, श्रुतिमधुरस्वरेण अन्वितौ
  • विचक्षणौ = ‘धीमान् सूरिः कृती कृष्टिः लब्धवर्णो विचक्षणः’ (अमरः)
  • विविधनरेन्द्रलक्षणौ – नरेन्द्रस्य लक्षणम्, विविधानि नरेन्द्रलक्षणानि ययोः तौ
  • कुशीलवौ = ‘चारणास्तु कुशीलवाः’ (अमरः)
  • कुशलवनामधारिणौ = कुशश्च लवश्च, कुशलवौ इति नामनी, कुशलवनामनी धरतः । नकारान्तः, पुं., प्र.वि., द्वि.व. ।
    • “स तौ कुशलवोन्मृष्ट-गर्भक्लेदौ तदाख्यया । कविः कुशलवावेव चकार किल नामतः” (रघुवंशम् १५.३२)
    • ‘अस्त्री कुशं कुथो दर्भः’ (अमरः), लवः = गोपुच्छलोम ।

रामायणप्रसङ्गः

  • तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः । अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥
    (बाल ४.४)
  • तौ तु गान्धर्व-तत्त्वज्ञौ स्थान-मूर्च्छनकोविदौ । भ्रातरौ स्वरसम्पन्नौ गन्धर्वा इव रूपिणौ ॥
  • रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ । बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥
    (बाल ४.१०, ४.११)
  • ‘अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम्’

अलङ्कारः

गुणः – उदात्तता । ‘श्लाघ्यैर्विशेषणैर्योगो यत्रा सा स्याद् उदात्तता’

छन्दः

वृत्तम् – रुचिरा । ‘चतुर्ग्रहैरिह रुचिरा जभस्जगा’ । प्रतिपादं १३ (४+९)

1 2 3 4 5 6 7 8 9 10 11 12 13
गु गु गु गु गु
पा तौ मि लि स्प रो मौ
हु श्रु तौ श्रु ति धु स्व रा न्वि तौ
वि क्ष णौ वि वि रे न्द्र क्ष णौ
कु शी वौ कु ना धा रि णौ

Word-Meaning

  • उपागतौ = those two approached
  • कुशीलवौ = those two singers who move around
  • मिलितपरस्परोपमौ = those two whose resemblance (उपम) with each other (परस्पर) is matching or extremely evident (मिलित)
  • बहुश्रुतौ = those two who have learned the numerous (बहु) knowledge sources (श्रुति) like Vedas, Vedangas, etc.
  • श्रुतिमधुरस्वरान्वितौ = those two whose possess (अन्वित) voices (स्वरा) that are sweet (मधुर) to hear (श्रुति)
  • विचक्षणौ = those two who were wise
  • विविधनरेन्द्रलक्षणौ = those two are endowed with different signs or indicators (लक्षण) of Royal nature (नरेन्द्र)
  • कुशलवनामधारिणौ = Those two having the names Kusha and Lava

9a. गद्यम्

मूलपाठः

एतौ मुनिः परिगृह्य स्वां कृतिमपाठयत् ।

पदच्छेदः

मुनिः एतौ परिगृह्य स्वाम् कृतिम् अपाठयत्

अन्वयार्थः

  • मुनिः = मननशीलः वाल्मीकिः
  • एतौ = कुशलवौ
  • परिगृह्य = शिष्यत्वेन स्वीकृत्य
  • स्वां कृतिम् = आत्मना रचितं रामायणकाव्यम्
  • अपाठयत् = अध्यापयामास

अन्वयः

मुनिः एतौ परिगृह्य स्वां कृतिम् अपाठयत्

आकाङ्क्षा

  • अपाठयत्
    • काम् अपाठयत् ? कृतिम्
      • कीदृशं कृतिम् ? स्वाम्
    • कः अपाठयत् ? मुनिः
    • किंकृत्वा अपाठयत् ? परिगृह्य
      • कौ परिगृह्य ? एतौ

तात्पर्यम्

वाल्मीकिः मुनिः कुशलवौ शिष्यत्वेन स्वीकृत्य आत्मना रचितं रामायणकाव्यम् अध्यापयामास

पदविवरणम्

  • अपाठयत् = “पठ व्यक्तायां वाचि” + णिच् प्रत्ययः, लङ्., प्र.पु., ए.व.
  • परिगृह्य = परि + ग्रह् “ग्रह उपादाने” + ल्यप् (कृत्) – अव्ययम्

रामायणप्रसङ्गः

  • स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ । वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ (बाल ४.६)

Word-Meaning

  • मुनिः = Valmiki, who is engaged in contemplation
  • परिगृह्य = Accepting them as his disciples
    • एतौ = these two (Lava and Kusha)
  • अपाठयत् = taught
    • स्वां कृतिम् = his own (स्व) creation (कृति)

9b. गद्यम्

मूलपाठः

तौ पुनरितस्ततो गायमानौ दृष्ट्वा रामः प्रहृष्टमनाः स्वभवनमानीय भ्रातृभिः परिवृतो निजचरितं गातुमन्वयुङ्क्त ।

पदच्छेदः

तौ, पुनः, इतस्ततः, गायमानौ, दृष्ट्वा, रामः, प्रहृष्ट-मनाः, स्व-भवनम्, आनीय, भ्रातृभिः, परिवृतः, निज-चरितम्, गातुम्, अन्वयुङ्क्त

अन्वयार्थः

  • तौ = कुशलवौ
  • इतस्ततः = तत्र तत्र प्रदेशेषु
  • गायमानौ = गानरूपेण रामायणं पठन्तौ
  • दृष्ट्वा = वीक्ष्य
  • प्रहृष्टमनाः रामः = तयोः गानमाधुर्येण सन्तुष्टान्तःकरणः रामः
  • स्वभवनम् = निजमन्दिरम्
  • आनीय = भृत्यैः प्रापय्य
  • भ्रातृभिः = भरत-लक्ष्मण-शत्रुघ्नैः सहोदरैः
  • परिवृतः = सहितः
  • निजचरितम् = स्वचरित्रम्
  • गातुम् अन्वयुङ्क्त = गातुम् अपृच्छत्

अन्वयः

इतस्ततः गायमानौ तौ दृष्ट्वा प्रहृष्टमनाः रामः भ्रातृभिः परिवृतः स्वभवनम् आनीय

निजचरितं गातुम् अन्वयुङ्क्त

आकाङ्क्षा

  • अन्वयुङ्क्त
    • किंकर्तुम् अन्वयुङ्क्त ? गातुम्
      • किं गातुम् ? निजचरितम्
    • कः अन्वयुङ्क्त ? रामः
      • कीदृशः रामः ? प्रहृष्टमनाः
        • किंकृत्वा प्रहृष्टमनाः ? दृष्ट्वा
          • कौ दृष्ट्वा ? तौ
            • कौ तौ ? गायमानौ
              • कुत्र गायमानौ ? इतस्ततः
            • किंकृत्वा अन्वयुङ्क्त ? आनीय
              • कुत्र आनीय ? स्वभवनम्
            • कथम्भुतः सन् अन्वयुङ्क्त ? परिवृतः (सन्)
            • कैः परिवृतः सन् अन्वयुङ्क्त ? भ्रातृभिः

तात्पर्यम्

तत्र तत्र प्रदेशेषु गानरूपेण रामायणं पठन्तौ कुशलवौ वीक्ष्य, तयोः गानमाधुर्येण सन्तुष्टान्तःकरणः रामः, निजमन्दिरं आनीय, भरत-लक्ष्मण-शत्रुघ्नैः सहोदरैः सहितः सन्, स्वचरित्रं गातुम् अपृच्छत् ।

पदविवरणम्

  • गायमानौ = गै “गै शब्दे” + शानच् (कृत्) – पुं, द्वि.वि., द्वि.व.
  • दृष्ट्वा – “दृशिर् प्रेक्षणे” + क्त्वा (कृत्) । अव्ययम् ।
  • प्रहृष्टमनाः = प्रहृष्टं मनः यस्य सः । सकारान्तः, पुं, प्र.वि., ए.व.
  • स्वभवनम् = स्वस्य भवनम् / स्वं भवनम् । ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने’ (अमरः)
  • आनीय = आ + नी “णीञ् प्रापणे” + ल्यप् (कृत्) – अव्ययम्
  • भ्रातृभिः = ऋकारान्तः, पुं, तृ.वि., ब.व.
  • परिवृतः = परि + वृ + क्त (कृत्) – पुं, प्र.वि., ए.व.
  • निजचरितम् = निजं च तत् चरितम्
  • गातुम् = गै “गै शब्दे” + तुमुन् (कृत्) – अव्ययम्
  • अन्वयुङ्क्त – अनु+ “युजिर् योगे” – लङ्, प्र.पु., ए.व. । ‘प्रश्नोऽनुयोगः पृच्छा च’ (अमरः)
  • पुनः इति वाक्यालङ्कारे इति व्याख्याने ।

रामायणप्रसङ्गः

  • प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ । रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥
  • स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ । पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ॥
    (बाल ४.२४, २५)
  • श्रूयतामिदमाख्यानम् अनयोः देववर्चसोः । विचित्रार्थपदं सम्यक् गायकौ समचोदयत् ॥
    (बाल ४.३२)

Word-Meaning

  • दृष्ट्वा = having seen
  • तौ = those two (Lava and Kusha)
  • गायमानौ = those two who were singing (Ramayana)
  • इतस्ततः = here and there
  • प्रहृष्टमनाः रामः = Rama, who was happy at heart
  • स्वभवनम् = his own palace
  • आनीय = having brought them
  • परिवृतः = one who was surrounded
  • भ्रातृभिः = by his brothers
  • निजचरितम् = his own story
  • गातुम् = to sing
  • अन्वयुङ्क्त = asked them
  • पुनः (Note: It is just a filling word without conveying any specific meaning in this verse)

10.     श्लोकः

प्रस्तावना

लवकुशाभ्यां रामायणगानम् आरभ्यते ।

मूलपाठः

ततश्च

छन्दोमयीनां निलयस्य वाचामन्तेवसन्तौ मुनिपुङ्गवस्य ।

एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुमुपाक्रमेताम् ॥ १० ॥

पदच्छेदः

छन्दोमयीनाम्, निलयस्य, वाचाम्, अन्ते-वसन्तौ, मुनि-पुङ्गवस्य, एतौ, कुमारौ, रघु-वीर-वृत्तम्, यथा-क्रमम्, गातुम्, उपाक्रमेताम् ।

अन्वयार्थः

  • उपाक्रमेताम् = आरब्धवन्तौ
  • एतौ कुमारौ = कुशलवौ
  • अन्तेवसन्तौ = शिष्यौ
  • मुनिपुङ्गवस्य = मुनिश्रेष्ठस्य वाल्मीकेः
  • छन्दोमयीनां वाचां निलयस्य = वृत्तबद्धानां वचनानां निकेतनस्य, पद्यकाव्यनिर्माणचतुरस्य
  • गातुम् = गानेन प्रस्तोतुम्
  • रघुवीरवृत्तम् = श्रीरामस्य चरितम्
  • यथाक्रमम् = उपदेशानुसारेण

अन्वयः

छन्दोमयीनां वाचां निलयस्य मुनिपुङ्गवस्य अन्तेवसन्तौ एतौ कुमारौ रघुवीरवृत्तं यथाक्रमं गातुम् उपाक्रमेताम् ।

आकाङ्क्षा

  • उपाक्रमेताम् = आरब्धवन्तौ
    • कौ उपाक्रमेताम् ? एतौ
      • कौ एतौ ? कुमारौ
        • कीदृशौ कुमारौ ? अन्तेवसन्तौ
          • कस्य अन्तेवसन्तौ ? मुनिपुङ्गवस्य
            • कीदृशस्य मुनिपुङ्गवस्य ? निलयस्य
              • केषां निलयस्य ? वाचाम्
                • कीदृशां वाचाम् ? छन्दोमयीनां
              • किं कर्तुम् उपाक्रमेताम् ? गातुम्
                • किं गातुम् ? रघुवीरवृत्तम्
                  • कथं गातुम् ? यथाक्रमम्

तात्पर्यम्

आदिकवेः वाल्मीकेः शिष्यौ लवकुशौ वाल्मीकिना उपदिष्टेनैव क्रमेण रामायणं गातुम् आरब्धवन्तौ ।

पदविवरणम्

  • उपाक्रमेताम् = उप + क्रम् “क्रमु पादविक्षेपे” – लङ्, प्र.पु., द्वि.व.
  • गातुम् = गै “गै शब्दे” + तुमुन् (कृत्) – अव्ययम्
  • वाचाम् = चकारान्तः, स्त्री, ष.वि., ब.व. । ‘गीर्वाग्वाणी सरस्वती’ (अमरः)
  • अन्तेवसन्तौ = वस् “वस निवासे”+ शतृ (कृत्) – तकारान्तः, पुं, प्र.वि., द्वि.व. । ‘छात्रान्तेवासिनौ शिष्ये’ (अमरः) ।
  • मुनिपुङ्गवस्य = मुनीनां पुङ्गवः, तस्य
  • रघुवीरवृत्तम्
    • रघुवीरः = रघूणां वीरः
    • रघुवीरवृत्तम् = रघुवीरस्य वृत्तम्
  • यथाक्रमम् = क्रमम् अनतिक्रम्य

रामायणप्रसङ्गः

  • तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् । वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥
  • ऋषीणां च द्विजातीनां साधूनां च समागमे । यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ॥ (बाल ४.१२-१३)

छन्दः

  • वृत्तम् – उपजातिः (इन्द्रवज्रा १,२,३ + उपेन्द्रवज्रा ४)
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु गु गु
न्दो यी नां नि स्य वा चा
न्ते न्तौ मु नि पु ङ्ग स्य
तौ कु मा रौ घु वी वृ त्तं
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु गु
था क्र मं गा तु मु पा क्र मे ताम्

Word-Meaning

  • एतौ कुमारौ = These two boys namely Kusha and Lava
    • अन्तेवसन्तौ = these two who were Disciples (those who reside in the ashram)
      • मुनिपुङ्गवस्य = Of Valmiki, who was the best among the sages
        • छन्दोमयीनां वाचां निलयस्य = of Valmiki, who was the abode (निलय) of verses (वाच) which are set to poetic meter (छन्दोमयी)
      • उपाक्रमेताम् = started
        • गातुम् = to sing
          • रघुवीरवृत्तम् = the story (वृत्त) of Rama, the warrior (वीर) in Raghu’s (रघु) clan
            • यथाक्रमम् = in the way that they were taught

11.     श्लोकः

प्रस्तावना

कथारम्भः – अयोध्यायाः वर्णनम्

मूलपाठः

अस्ति प्रशस्ता जलोचनानामानन्दसन्दायिषु कोसलेषु ।

आज्ञासमुत्सारितदानवानां राज्ञामयोध्येति पुरी रघूणाम् ॥ ११ ॥

पदच्छेदः

अस्ति, प्रशस्ता, जन-लोचनानाम्, आनन्द-सन्दायिषु, कोसलेषु, आज्ञा-समुत्सारित-दानवानाम्, राज्ञाम्, अयोध्या, इति, पुरी, रघूणाम्

अन्वयार्थः

  • अस्ति = विद्यते
  • पुरी = नगरी
  • अयोध्या इति = योद्धुमशक्या अन्वर्थनामिका
  • प्रशस्ता = प्रख्याता
  • कोसलेषु = उत्तरकोसलेषु जनपदेषु
  • जनलोचनानाम् आनन्दसन्दायिषु = समस्तसमृद्धतया प्रजानां नेत्रानन्दकरेषु
  • रघूणाम् = रघुवंशोत्पन्नानाम्
  • राज्ञाम् = प्रजारञ्जकानां नृपाणाम्
  • आज्ञया = आदेशेनैव
  • समुत्सारिताः = दूरात् निरस्ताः दानवाः (असुराः) येषां, तेषाम् । प्रचण्डशासनानाम् इत्यर्थः ।

अन्वयः

जनलोचनानाम् आनन्दसन्दायिषु कोसलेषु आज्ञासमुत्सारितदानवानां रघूणां राज्ञाम् अयोध्या इति प्रशस्ता पुरी अस्ति ।

आकाङ्क्षा

  • अस्ति
    • का अस्ति ? पुरी
      • किंनाम्नी पुरी ? अयोध्या इति
      • कीदृशी पुरी ? प्रशस्ता
      • केषां पुरी ? राज्ञाम्
        • केषां राज्ञाम् ? रघूणाम्
        • कीदृषानां राज्ञाम् ? आज्ञा-समुत्सारित-दानवानाम्
      • कुत्र अस्ति ? कोसलेषु
        • कीदृशेषु कोसलेषु ? आनन्द-सन्दायिषु
          • केषाम् आनन्द-सन्दायिषु ? जन-लोचनानाम्

तात्पर्यम्

सकलसम्पत्समृद्धे उत्तरकोसलजनपदे प्रचण्डशासनानां प्रजारञ्जकाणां रघुवंशस्य नृपाणाम् अयोध्या इत्यन्वर्थनामिका प्रसिद्धा नगरी विद्यते ।

पदविवरणम्

  • अस्ति = अस् “अस भुवि” लट्., प्र.पु., ए.व.
  • जनलोचनानाम् = जनानां लोचनानि, तेषाम् । ‘लोचनं नयनं नेत्रम् ईक्षणं चक्षुरक्षिणी’ (अमरः) । अकारान्तः, नपुं., ष.वि., ब.व.
  • आनन्दसन्दायिषु = आनन्दं सन्ददति इति । उपपदसमासः, ताच्छील्ये णिनिः (कृत्) । नकारान्तः, पुं., स.वि., ब.व.
  • कोसलेषु = देशविशेषस्य संज्ञा बहुवचनान्ता
  • आज्ञा-समुत्सारित-दानवानाम्
    • आज्ञया समुत्सारिताः = आज्ञासमुत्सारिताः
    • आज्ञा-समुत्सारित-दानवानाम् = आज्ञासमुत्सारिताः दानवाः येषां ते, तेषाम्
  • राज्ञाम् = नकारान्तः, पुं., ष.वि., ब.व. । ‘राजा राट्-पार्थिव-क्ष्माभृत्-नृप-भूप-महीक्षितः’, ‘राजा मृगाङ्के क्षत्त्रिये नृपे’ (अमरः)
  • अयोध्या
    • योध्या = योद्धुम् शक्या । युध् “युधँ सम्प्रहारे” + ण्यत् (कृत्) ।
    • अयोध्या = न योध्या ।
  • पुरी = आकारान्तः, स्त्री., प्र.वि., ए.व. । ‘पूः स्त्री पुरी-नगर्यौ वा’ (अमरः) ।
  • रघूणाम् = बहुवचने तद्वंशजानाम् इत्यर्थः ।

छन्दः

  • वृत्तम् – इन्द्रवज्रा । ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ (११ अक्षराणि)

Word-Meaning

  • पुरी अस्ति = There is a city
    • अयोध्या इति = called Ayodhya, (that which cannot be fought against by the enemies)
    • प्रशस्ता = (feminine) which is famous
    • राज्ञाम् = belonging to the kings
      • रघूणाम् = of the Raghu clan
      • आज्ञा-समुत्सारित-दानवानाम् = to those (kings), by whose mere order (आज्ञा) the asuras will be driven far away (समुत्सारित)
    • कोसलेषु = within the kingdom of Uttara Koshala
      • आनन्द-सन्दायिषु = in that, which causes delight
        • जन-लोचनानाम् = to the eyes of the people

12.     श्लोकः

मूलपाठः

तामावसद्दशरथः सुरवन्दितेन सङ्क्रन्दनेन विहितासनसंविभागः ।

वृन्दारकारिविजये सुरलोकलब्धमन्दारमाल्यमधुवासितवासभूमिः ॥ १२ ॥

पदच्छेदः

ताम्, आवसत्, दशरथः, सुरवन्दितेन, सङ्क्रन्दनेन, विहित+आसन-संविभागः, वृन्दारक+अरि-विजये, सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः

अन्वयार्थः

  • आवसत् = अधिवसति स्म
  • ताम् = अयोध्यानगरीम्
  • दशरथः = दशरथनामा अजपुत्रः रघुवंशनृपः
  • विहितासनसंविभागः = कृत-सिंहासन-विभागः, दत्त-अर्धासनः
  • सङ्क्रन्दनेन = इन्द्रेण
  • सुरवन्दितेन = देवपूजितेन
  • वृन्दारकारिविजये = वृन्दारकाः देवानाम् अरयः, शत्रवः, असुराः । तेषां विजये पराभवे सति
  • सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः = भूलोके अपि स्वर्गसुखम् अनुभवति इत्यर्थः ।
    • सुरलोके = स्वर्गे ।
    • लब्धानि = प्राप्तानि, सन्तुष्टैः सुरैः दत्तानि ।
    • मन्दाराणाम् = पारिजातकुसुमानाम् ।
    • माल्यानि = स्रजः, मालाः ।
    • मधुना = (तेषां) पुष्परसेन ।
    • वासिता = सुरभीकृता ।
    • वासभूमिः = निवासस्थानं यस्य तादृशः ।

अन्वयः

सुरवन्दितेन सङ्क्रन्दनेन विहितासनसंविभागः, वृन्दारकारिविजये सुरलोक-लब्ध-मन्दारमाल्य-मधु-वासित-वासभूमिः दशरथः ताम् आवसत्

आकाङ्क्षा

  • आवसत्
    • (कुत्र) काम् आवसत् ? ताम्
    • कः आवसत् ? दशरथः
      • कीदृशः दशरथः ? विहितासन-संविभागः
        • विहित+आसन-संविभागः ? सक्रन्दनेन
          • कीदृशेन सक्रन्दनेन ? सुरवन्दितेन
        • पुनः कीदृशः दशरथः ? सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः
          • कस्मिन् समये लब्धं माल्यम् ? वृन्दारकारि-विजये

तात्पर्यम्

दशरथो नाम नृपश्रेष्ठः अयोध्यानगरीम् अधिवसति स्म । सः दशरथः देवराजस्य इन्द्रस्यापि माननीयः, इन्द्रेण स्वस्य सिंहासने अर्धभागः तस्मै प्रदत्तः आसीत् । किञ्च, दानवानां विजयोत्तरं स्वर्गलोकात् लब्धानां पारिजातमालानां सुगन्धेन तस्य निवासः सुरभितो बभूव ।

पदविवरणम्

  • आवसत् – आ+ “वस निवासे” – लङ्, प्रथम.१
  • ताम् आवसत् – व्याकरणविशेषः । अयोध्यायां वसति – अयोध्याम् आवसति/अधिवसति/उपवसति । ‘उपान्वध्याङ्वसः’ (१.४.४८) इति अधिकरणस्य कर्मसंज्ञा ।
  • सुरवन्दितेन – सुरैः वन्दितः, तेन
  • सङ्क्रन्दनेन – ‘इन्द्रो मरुत्वान् मघवा…. सङ्क्रन्दनो दुश्च्यवनः’ (अमरः)
  • विहितासनसंविभागः – आसनस्य संविभागः, विहितः आसनसंविभागः यस्य सः
  • वृन्दारकारिविजये – वृन्दारकाणाम् अरयः, वृन्दारकारीणां विजयः, तस्मिन् । ‘वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्’ (अमरः) । ‘रिपौ वैरि-सपत्न-अरि-द्विषद्-द्वेषण-दुर्हृदः’ (अमरः) ।
  • सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः
    • सुराणां लोकः = सुरलोकः
    • सुरलोके लब्धानि = सुरलोकलब्धानि
    • मन्दाराणां माल्यानि = मन्दारमाल्यानि
    • सुरलोकलब्धानि मन्दारमाल्यानि = सुरलोकलब्धमन्दारमाल्यानि
    • सुरलोकलब्धमन्दारमाल्यानां मधु = सुरलोकलब्धमन्दारमाल्यमधु
    • सुरलोकलब्धमन्दारमाल्यमधुना वासिता = सुरलोकलब्धमन्दारमाल्यमधुवासिता
    • वासस्य भूमिः = वासभूमिः
    • सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः = सुरलोकलब्धमन्दारमाल्यमधुवासिता वासभूमिः यस्य सः । इकारान्तः, पुं., प्र.पु., ए.व.

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • दशरथः = Dasaratha
    • ताम् आवसत् = resided in it
  • विहितासन-संविभागः = He who has been given (विहित) a share (संविभाग) of the throne (आसन)
    • सक्रन्दनेन = by Indra
      • सुरवन्दितेन = by him, who is worshipped by the devas
    • सुरलोक-लब्ध-मन्दार-माल्य-मधु-वासित-वासभूमिः = He whose residence is scented by the nectar in the garlands made of the Paarijaata flowers that are obtained only in the land (लोक) of the Devas (सुर)
      • वृन्दारकारि-विजये (सति) = (those garlands were obtained) when victory (विजय) was obtained over the enemies (अरि) of the Devas (वृन्दारक)

12a. गद्यम्

प्रस्तावना

दशरथस्य पुत्राभावप्रयुक्तः शोकः, सुमन्त्रेण सूचितः उपायः

मूलपाठः

अथास्मिन्ननपत्यतया दूयमानमानसे पुत्रार्थं क्रतुमश्वमेधं विधातुं मन्त्रिभिः समं मन्त्रयमाणे दशरथे सुमन्त्रः प्रहृष्टमना महर्षेरङ्गदेशसङ्गतावग्रहनिग्रहशौण्डस्य विभाण्डकसूनोरवश्यमृष्यशृङ्गस्य प्रसादात्प्रभवो भविता कुमाराणामिति सनत्कुमारोदीरितं पुरावृत्तमस्मै दशरथाय कथयामास ।

पदच्छेदः

अथ, अस्मिन्, अनपत्यतया, दूयमान-मानसे, पुत्रार्थम्, क्रतुम्, अश्वमेधम्, विधातुम्, मन्त्रिभिः, समम्, मन्त्रयमाणे, दशरथे, सुमन्त्रः, प्रहृष्टमनाः, महर्षेः, अङ्ग-देश-सङ्गत-अवग्रह-निग्रह-शौण्डस्य, विभाण्डक-सूनोः, अवश्यम्, ऋष्यशृङ्गस्य, प्रसादात्, प्रभवः, भविता, कुमाराणाम्, इति, सनत्कुमार-उदीरितम्, पुरा-वृत्तम्, अस्मै, दशरथाय, कथयामास

सन्धिः

  • अस्मिन्ननपत्यतया = अस्मिन् + अनपत्यतया (ङमुडागमसन्धिः)

अन्वयार्थः

  • अथ = अनन्तरम्
  • अस्मिन् दशरथे = कोसलनृपे
  • अनपत्यतया = सन्ततेः अभावेन
  • दूयमानमानसे = परितप्यमानं मनः यस्य तादृशे
    • दूयमानम् = परितप्यमानम्
    • मानसम् = मनः
  • पुत्रार्थम् = सन्ततिप्राप्तये
  • अश्वमेधं क्रतुम् = अश्वमेधसंज्ञकं यज्ञम्
  • विधातुम् = कर्तुम्
  • मन्त्रिभिः समम् = अमात्यैः सह
  • मन्त्रयमाणे = विचारयति सति
  • सुमन्त्रः = दशरथस्य अमात्येषु अन्यतमः
  • प्रहृष्टमनाः = सन्तुष्टचित्तः
  • अस्मै दशरथाय = दशरथाय
  • सनत्कुमारोदीरितम् = सनत्कुमारमहर्षिणा ब्रह्ममानसपुत्रेण (ब्रह्मसभायां) कथितम्
  • पुरावृत्तम् = पूर्ववृत्तान्तम्
  • कथयामास = उवाच
  • महर्षेः = ऋषिवर्यस्य
  • अङ्ग-देश-सङ्गत-अवग्रह-निग्रह-शौण्डस्य
    • अङ्गदेशे = अङ्गनामकराष्ट्रे
    • सङ्गतः = प्राप्तः
    • अवग्रहः = वृष्टिप्रतिबन्धे
    • निग्रहे = निवर्तने
    • शौण्डस्य = दक्षस्य
  • विभाण्डकसूनोः = विभाण्डकमहर्षेः पुत्रस्य
  • प्रसादात् = अनुग्रहेण
  • अवश्यम् = निश्चयेन
  • कुमाराणां प्रभवः = पुत्रजन्म
  • भविता इति = भविष्यति इति

अन्वयः

अथ अस्मिन् दशरथे अनपत्यतया दूयमानमानसे (सति), पुत्रार्थम् अश्वमेधं क्रतुं विधातुं मन्त्रिभिः समं मन्त्रयमाणे (सति), प्रहृष्टमनाः सुमन्त्रः, महर्षेः अङ्ग-देश-सङ्गत-अवग्रह-निग्रह-शौण्डस्य विभाण्डकसूनोः प्रसादात् अवश्यं कुमाराणां प्रभवः भविता इति सनत्कुमारोदीरितं पुरावृत्तम् अस्मै दशरथाय कथयामास

आकाङ्क्षा

  • कथयामास
    • कस्मै कथयामास ? अस्मै
      • कस्मै अस्मै ? दशरथाय
    • किं कथयामास ? पुरावृत्तम्
      • कीदृशं पुरावृत्तम् ? सनत्कुमारोदीरितम्
      • किं इति पुरावृत्तम् ? अवश्यं भविता इति
        • कः भविता ? प्रभवः
          • केषां प्रभवः ? कुमाराणाम्
        • कस्मात् हेतोः भविता ? प्रसादात्
          • कस्य प्रसादात् ? महर्षेः
            • कस्य महर्षेः ? विभाण्डकसूनोः
              • कीदृशस्य विभाण्डकसूनोः ? अङ्ग-देश-सङ्गत-अवग्रह-निग्रह-शौण्डस्य
            • कः कथयामास ? सुमन्त्रः
              • कीदृशः सुमन्त्रः ? प्रहृष्टमनाः
            • कदा कथयामास ? मन्त्रयमाणे (सति)
              • कैः सह मन्त्रयमाणे (सति) ? मन्त्रिभिः समम्
              • किमर्थं मन्त्रयमाणे (सति) ? विधातुम्
                • कं विधातुम् ? क्रतुम्
                  • कं क्रतुम् ? अश्वमेधम्
                • किमर्थं विधातुम् ? पुत्रार्थम्
              • कदा मन्त्रयमाणे (सति) ? दूयमानमानसे (सति)
                • कस्मिन् दूयमानमानसे (सति) ? अस्मिन्
                  • कस्मिन् अस्मिन् ? दशरथे
                • कया हेतुना दूयमानमानसे (सति) ? अनपत्यतया
                • कदा दूयमानमानसे (सति) ? अथ

तात्पर्यम्

पुत्राभावेन दुःखितः दशरथः पुत्रप्राप्त्यर्थं अश्वमेधयागं कर्तुं स्वस्य अमात्यैः सह चर्चां करोति स्म । तदा तस्य अमात्येषु अन्यतमः सुमन्त्रः कदाचित् ब्रह्मणः मानसपुत्रेण सनत्कुमारेण कथितं पूर्ववृत्तान्तमेकं स्मृत्वा दशरथाय उक्तवान् – “अङ्गदेशे सञ्जातस्य अवग्रहस्य निवारकः, विभाण्डकपुत्रः ऋष्यशृङ्गः । तस्य अनुग्रहेण दशरथस्य पुत्राः जनिष्यन्ति” इति ।

पदविवरणम्

  • अनपत्यतया = न अपत्यम्, अनपत्यम् । अनपत्यस्य भावः अनपत्यतया । अनपत्य+तल् (तद्धितः), तया । आकारान्तः, स्त्री., तृ.वि., ए.व.
  • दूयमानमानसे = दूयमानं मानसं यस्य सः, तस्मिन् । दू “दूङ् परितापे” + शानच्
  • मन्त्रिभिः समम् = ‘सहयुक्तेऽप्रधाने’ (२.३.१९) इति तृतीया
  • मन्त्रयमाणे = मन्त्र् “मत्रिँ गुप्तपरिभाषणे” + शानच् (कृत्), पुं., स.वि., ए.व.
  • अवग्रहः = “वृष्टिर्वषं तद्विघाते अवग्राह-अवग्रहौ समौ” (अमरः)
  • भविता = भू “भू सत्तायाम्” लुट्., प्र.पु., ए.व. । अनद्यतने भविष्यति लुट्.
  • कथयामास = कथ “कथ वाक्यप्रबन्धे” लिट्., प्र.पु., ए.व.

रामायणप्रसङ्गः

  • तस्य चैवंप्रभावस्य धर्मज्ञस्य महात्मनः ।
    सुतार्थं तप्यमानस्य नासीद् वंशकरः सुतः ॥
    (बाल ८.१)
  • एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
    श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥
  • ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।
    सनत्कुमारो भगवान् पूर्वं कथितवान् स्वयम् ॥
    (बाल ९.१-२)

अन्यविषयाः

  • ऋष्यशृङ्गः
    ऋष्यशृङ्गाय मुनये विभाण्डकसुताय च ।
    नमः शान्ताधिपतये सद्यः सद्वृष्टिहेतवे । ।

Word-Meaning

  • अथ = Then
  • दशरथे = when Dasaratha
    • अस्मिन् = when he (Dasaratha)
      • दूयमानमानसे = when he, whose mind (मानस) was extremely agitated (दूयमान)
        • अनपत्यतया = due to lack of progeny (अनपत्यता)
      • मन्त्रयमाणे = when he was discussing in private
        • मन्त्रिभिः समम् = with the ministers
          • विधातुम् = to carry out
            • अश्वमेधं क्रतुम् = the yagna called Ashwamedha
              • पुत्रार्थम् = for begetting children
            • सुमन्त्रः = Sumantra, one of Dasaratha’s ministers
              • प्रहृष्टमनाः = one who was happy at heart
            • अस्मै दशरथाय = to this Dasaratha
            • कथयामास = told
            • पुरावृत्तम् = an earlier-known information
              • सनत्कुमार+उदीरितम् = that which was told by the sage Sanatkumara
              • इति = that
              • प्रभवः = the birth
                • कुमाराणाम् = of the sons
                • अवश्यम् = definitely
                • भविता = will happen
                • प्रसादात् = by the grace
                  • महर्षेः ऋष्यशृङ्गस्य = of Sage Rishyashrunga
                    • विभाण्डकसूनोः = of him, who is the son of Sage Vibhaandaka
                    • अङ्गदेश-सङ्गत+अवग्रह-निग्रह-शौण्डस्य = of him, who is an expert (शौण्ड) who succeeded in eliminating (निग्रह) the drought (अवग्रह) that had befallen (सङ्गत) on the country (देश) named Anga (अङ्ग)

12b. गद्यम्

प्रस्तावना

ऋष्यशृङ्गम् अङ्गदेशाद् आनीय दशरथः अश्वमेधयज्ञं पुत्रकामेष्टिं च आचरति

मूलपाठः

सोऽपि सुमन्त्रवचनाच्छान्ताधिः शान्ताकुटुम्बिनं सम्बन्धिनं मुनिमानीय वसिष्ठादिष्टमश्वमेधाध्वरं सरयूरोधसि विधाय तत्र पुत्रीयामिष्टिं विधिवत्कर्तुमारभत ।

पदच्छेदः

सः, अपि, सुमन्त्र-वचनात्, शान्त+आधिः, शान्ता-कुटुम्बिनम्, सम्बन्धिनम्, मुनिम्, आनीय, वसिष्ठ+आदिष्टम्, अश्वमेध+अध्वरम्, सरयू-रोधसि, विधाय, तत्र, पुत्रीयाम्, इष्टिम्, विधिवत्, कर्तुम्, आरभत ।

सन्धिः

सुमन्त्रवचनाच्छान्ताधिः = सुमन्त्रवचनात् + शान्ताधिः (छत्वसन्धिः)

अन्वयार्थः

  • सोऽपि = दशरथः अपि
  • सुमन्त्रवचनात् = सुमन्त्रेण कथितात् सनत्कुमारप्रसङ्गात्
  • शान्ताधिः = शमं गतः मानसिकव्यथा यस्य सः
    • शान्तः = शमं गतः
    • आधिः = मानसिकव्यथा
  • शान्ताकुटुम्बिनम् = रोमपादपुत्र्याः शान्तायाः पतिम्
  • सम्बन्धिनम् = भ्रातृसमस्य रोमपादस्य जामातारम्
  • मुनिम् = ऋष्यशृङ्गम्
  • आनीय = स्वयम् उपसर्प्य सगौरवम् अयोध्याम् आगमय्य
  • वसिष्ठादिष्टम् = कुलगुरुणा वसिष्ठेन उपदिष्टम्
  • अश्वमेधाध्वरम् = अश्वमेधनामकं यज्ञम्
  • सरयूरोधसि = सरयूनद्याः तीरे
  • विधाय = कृत्वा
  • तत्र = सरयूतीरे एव
  • पुत्रीयाम् इष्टिम् = पुत्रोत्पादनहेतुं यागम्
  • विधिवत् = यथाशास्त्रम्
  • कर्तुम् = विधातुम्
  • आरभत = उपाक्रमत

अन्वयः

सुमन्त्रवचनात् शान्ताधिः सः अपि, शान्ताकुटुम्बिनं सम्बन्धिनं मुनिम् आनीय, वसिष्ठादिष्टम् अश्वमेधाध्वरं सरयूरोधसि विधाय, तत्र पुत्रीयाम् इष्टिं विधिवत् कर्तुम् आरभत ।

आकाङ्क्षा

  • कर्तुम् आरभत
    • किं कर्तुम् आरभत ? इष्टिम्
      • कां इष्टिम् ? पुत्रीयाम्
    • कथं कर्तुम् आरभत ? विधिवत्
    • कुत्र कर्तुम् आरभत ? तत्र (सरयूरोधसि)
    • कः आरभत ? सः अपि
      • कथम्भुतः सः ? शान्ताधिः
        • कस्मात् हेतोः शान्ताधिः ? सुमन्त्रवचनात्
      • किं कृत्वा आरभत ? आनीय
        • कम् आनीय ? मुनिम्
          • कीदृशं मुनिम् ? शान्ताकुटुम्बिनम्
          • पुनः कीदृशं मुनिम् ? सम्बन्धिनम्
        • पुनः किं कृत्वा आरभत ? विधाय
          • कुत्र विधाय ? सरयूरोधसि
          • किं विधाय ? अश्वमेधाध्वरम्
            • कीदृशं अश्वमेधाध्वरम् ? वसिष्ठादिष्टम्

तात्पर्यम्

सुमन्त्रस्य वचनं श्रुत्वा समाहितः दशरथः स्वयं गत्वा शान्तापतिम् ऋष्यशृङ्गम् अयोध्यां प्रति आनीय तस्य याजकत्वे सरयूतीरे अश्वमेधयज्ञं कृत्वा ततः पुत्रकामेष्टिं कर्तुम् आरब्धवान् ।

पदविवरणम्

  • शान्ताधिः = इकारान्तः पुं., प्र.वि., ए.व. । शान्तः आधिः यस्य सः । ‘पुंस्याधिर्मानसी व्यथा’ (अमरः)
  • शान्ताकुटुम्बिनम् = कुटुम्बः अस्य अस्तीति कुटुम्बी । कुटुम्ब+इन् (तद्धितः) । शान्तायाः कुटुम्बी । नकारान्तः, पुं., द्वि.वि., ए.व. ।
  • सम्बन्धिनम् = सम्बन्धः अस्य अस्ति । सम्बन्ध + इन् (तद्धितः) । नकारान्तः, पुं., द्वि.वि., ए.व. ।
  • वसिष्ठादिष्टम् = वसिष्ठेन आदिष्टः, तम्
  • अश्वमेधाध्वरम् = अश्वमेधः इति अध्वरः, तम् । ‘यज्ञः सवोऽध्वरो यागः’ (अमरः)
  • सरयूरोधसि = सरय्वाः रोधः, तस्मिन् । सकारान्तः, नपुं, स.वि., ए.व. । ‘कूलं रोधश्च तीरं च’ (अमरः)
  • पुत्रीयाम् = पुत्राणाम् इयम् । पुत्र + छ (तद्धितः) + टाप् (स्त्रीप्रत्ययः)
  • आरभत = आ + रभ “रभ राभस्ये” । लङ्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • सुमन्त्रस्य वचः श्रुत्वा हृष्टो दशरथोऽभवत् ।
    अनुमान्य वसिष्ठं च सूतवाक्यं निशाम्य च ।
    सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः ॥
    (बाल ११.१३)
  • इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् ।
    अथर्वशिरसि प्रोक्तैः मत्रैः सिद्धां विधानतः ॥
    (बाल १५.२)

Word-Meaning

  • आरभत = Started
    • कर्तुम् = to perform
      • विधिवत् = in the prescribed manner
      • इष्टिम् = the yagna
        • पुत्रीयाम् = that, which is of those who wish to beget children
      • सः अपि = Dasaratha also
        • शन्त+आधिः = one, whose mental affliction has been pacified
          • सुमन्त्रवचनात् = due to the words of Sumantra
        • आनीय = after bringing
          • मुनिम् = Him, that Sage
            • शान्ताकुटुम्बिनम् = Him, who is the husband of Shanta
            • सम्बन्धिनम् = Him, who is a relative (of Dasaratha since Shanta is the daughter of Dasaratha’s friend or since Shanta is the Dasaratha’s daughter given in adoption to his friend)
          • विधाय = having done
            • अश्वमेध+अध्वरम् = the yagna called Ashvamedha
              • वसिष्ठ+आदिष्टम् = that whose execution has been ordered by Sage Vashishta
                • तत्र = there
                  • सरयूरोधसि = in the shores (रोधः) of River Sarayu

12c. गद्यम्

प्रस्तावना

पुत्रकामेष्टियज्ञे हविः स्वीकर्तुम् आगताः देवाः ब्रह्माणं पुरस्कृत्य वैकुण्ठं गच्छन्ति, रावणाद् रक्षणं प्रार्थयितुम्

मूलपाठः

तदनु हविराहरणाय धरणौ कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाश्चतुर्मुखाय दशमुखप्रतापग्रीष्मोष्मसम्प्लोषणमावेद्य तेन सह शरणमिति शार्ङ्गधन्वानं मन्वाना नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिमासेदुः ।

पदच्छेदः

तदनु, हविर्-आहरणाय, धरणौ, कृत-अवतरणाः, सर्वे, गीर्वाण-गणाः, शतमख-प्रमुखाः, चतुर्मुखाय, दशमुख-प्रताप-ग्रीष्म-ऊष्म-सम्प्लोषणम्, आवेद्य, तेन, सह, शरणम्, इति, शार्ङ्गधन्वानम्, मन्वानाः, नाना-विध-प्रस्तुत-स्तुतयः, क्षीर-अम्बु-राशिम्, आसेदुः

अन्वयार्थः

  • तदनु = तदनन्तरम्, दशरथे पुत्रकामेष्टिं कुर्वति
  • हविराहरणाय = हविर्भागस्य स्वीकाराय
  • धरणौ = भूमौ
  • कृतावतरणाः = प्राप्ताः
  • सर्वे = निखिलाः
  • गीर्वाणगणाः = देवसमूहाः
  • शतमखप्रमुखाः = इन्द्राद्याः
  • चतुर्मुखाय = ब्रह्मणे
  • दशमुख-प्रताप-ग्रीष्म-ऊष्म-सम्प्लोषणम् = रावणस्य यः पराक्रमः स एव निदाघजनितम् औष्ण्यम् । रावणस्य पराक्रमः ग्रीष्मकालस्य आतप इव सर्वान् दहति इत्यर्थः ।
    • दशमुखस्य = रावणस्य
    • प्रतापः = पराक्रमः
    • ग्रीष्मोष्मा = निदाघजनितम् औष्ण्यम्
    • सम्प्लोषणम् = दाहः, तम्
  • आवेद्य = विज्ञाप्य
  • तेन सह = ब्रह्मणा साकम्
  • शार्ङ्गधन्वानम् = शार्ङ्गनामक-धनुर्धरम् श्रीमहाविष्णुम्
  • शरणम् इति = रक्षिता इति
  • मन्वानाः = अवबुध्यमानाः
  • नाना-विध-प्रस्तुत-स्तुतयः = बहुप्रकारकाः तत्कालोचिताः/उपक्रान्ताः स्तोत्राणि येषाम्, तादृशाः
    • नानाविधाः = बहुप्रकारकाः
    • प्रस्तुताः = तत्कालोचिताः/उपक्रान्ताः
    • स्तुतयः = स्तोत्राणि
  • क्षीराम्बुराशिम् = दुग्धसमुद्रम्
  • आसेदुः = प्रापुः

अन्वयः

तदनु हविराहरणाय धरणौ कृतावतरणाः सर्वे गीर्वाणगणाः शतमखप्रमुखाः चतुर्मुखाय दशमुखप्रतापग्रीष्मोष्मसम्प्लोषणम् आवेद्य तेन सह शार्ङ्गधन्वानं शरणमिति मन्वानाः नानाविधप्रस्तुतस्तुतयः क्षीराम्बुराशिम् आसेदुः ।

आकाङ्क्षा

  • आसेदुः
    • कम् आसेदुः ? क्षीराम्बुराशिम्
    • के आसेदुः ? सर्वे
      • के सर्वे ? गीर्वाणगणाः
        • कीदृशाः गीर्वाणगणाः ? शतमखप्रमुखाः
        • पुनः कीदृशाः गीर्वाणगणाः ? कृतावतरणाः
          • कुत्र कृतावतरणाः ? धरणौ
          • कस्मै कृतावतरणाः ? हविराहरणाय
        • कदा आसेदुः ? तदनु
        • किंकृत्वा आसेदुः ? आवेद्य
          • कं आवेद्य ? दशमुखप्रतापग्रीष्मोष्मसम्प्लोषणम् (कर्मपदम्)
          • कस्मै आवेद्य ? चतुर्मुखाय
        • कथंभूताः गीर्वाणगणाः ? मन्वानाः
          • किम् इति मन्वानाः ? शार्ङ्गधन्वानं शरणमिति
            • केन सह ? तेन सह
          • पुनः कथंभूताः गीर्वाणगणाः ? नानाविधप्रस्तुतस्तुतयः

तात्पर्यम्

दशरथस्य पुत्रकामेष्टौ हविर्भागं स्वीकर्तुम् आगताः इन्द्राद्याः देवाः चतुर्मुखब्रह्मणे रावणपराक्रमेण दन्दह्यमानं विश्वं विज्ञाप्य, तमेव पुरस्कृत्य रक्षणार्थं महाविष्णुं प्रार्थयितुं क्षीरसमुद्रं प्राप्य विविधैः स्तुतिभिः नारायणं प्रार्थयामासुः ।

पदविवरणम्

  • हविराहरणाय = हविषः आहरणम्, तस्मै । अकारान्तः, नपुं., च.वि., ए.व.
  • धरणौ = इकारान्तः, स्त्री., स.वि., ए.व. । “धरा धरित्री धरणिः क्षोणिः ज्या काश्यपी क्षितिः”
  • कृतावतरणाः = कृतम् अवतरणं यैः ते
  • शतमखप्रमुखाः
    • शतं मखाः यस्य सः शतमखः । “यज्ञः सवोऽध्वरो यागः सप्ततन्तुः मखः क्रतुः” (अमरः) ।
    • शतमखप्रमुखाः = शतमखः प्रमुखः येषां ते ।
  • दशमुख-प्रताप-ग्रीष्म-ऊष्म-सम्प्लोषणम्
    • दश मुखानि यस्य सः = दशमुख: ।
    • दशमुखस्य प्रतापः = दशमुखप्रतापः ।
    • ग्रीष्मस्य ऊष्मा = ग्रीष्मोष्मा ।
    • दशमुख-प्रताप-ग्रीष्म-ऊष्मा = दशमुखप्रताप एव ग्रीष्मोष्मा ।
    • दशमुख-प्रताप-ग्रीष्म-ऊष्म-सम्प्लोषणम् = दशमुख-प्रताप-ग्रीष्म-ऊष्मणः सम्प्लोषणम् ।
  • शार्ङ्गधन्वानम् = शार्ङ्गं धनुः यस्य सः । नकारान्तः पुं., द्वि.वि., ए.व. ।
  • मन्वानाः = मन् “मनुँ अवबोधने” + शानच् (कृत्) । अकारान्तः, पुं., प्र.वि., ब.व. ।
  • आसेदुः = आ + सद् “षदॢँ विशरणगत्यवसादनेषु” (विशरण-गति-अवसादनेषु) । लिट्., प्र.पु., ब.व.

रामायणप्रसङ्गः

  • ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।
    भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥
  • ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः ।
    अब्रुवन् लोककर्तारम् ब्रह्माणं वचनं ततः ॥
  • भगवन् त्वत्प्रसादेन रावणो नाम राक्षसः ।
    सर्वान् नो बाधते वीर्यात् शासितुं तं न शक्नुमः । ।

(बाल १५.४,५,६)

  • एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः ।
    शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥
  • ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः ।
    तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥
  • त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया ।
    तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ।
    अवध्यं दैवतैर्विष्णो समरे जहि रावणम् ॥

(बाल १५.१६,१८,२१)

Word-Meaning

  • तदनु = After that (after Dasarata’s yagna)
  • सर्वे गीर्वाणगणाः = all the group of devas
    • शतमखप्रमुखाः = those headed (प्रमुख) by Indra, one who had done 100 (शत) ashwamedha yagna (मख)
    • धरणौ कृतावतरणाः = those who had descended, on the earth
      • हविः आहरणाय = to accept the oblations
    • आवेद्य = having narrated
      • चतुर्मुखाय = to Brahma
      • दशमुख-प्रताप-ग्रीष्म-ऊष्म-सम्प्लोषणम् = the scorching (सम्प्लोषण) of the severe heat (ऊष्म) of the summer (ग्रीष्म) in the form of the valour (प्रताप) of the ten-faced (दशमुख) Ravana.
    • मन्वानाः = those who understand
      • शार्ङ्गधन्वानम् शरणम् इति = like “the one who possesses the bow called Saarnga is our savior”
      • तेन सह = along with him, i.e., Brahma
    • नानाविध-प्रस्तुत-स्तुतयः = those who sang the different varieties of praises, appropriate for that time (प्रस्तुत) or those that were started (प्रस्तुत)
      • क्षीराम्बुराशिम् आसेदुः = reached (आ+सिद्) the milky ocean (क्षीराम्बुराशि)

13.     श्लोकः

प्रस्तावना

महाविष्णोः वर्णनम्

मूलपाठः

सन्तापघ्नं सकलजगतां शार्ङ्गचापाभिरामं लक्ष्मीविद्युल्लसितमतसीगुच्छसच्छायकायम् ।

वैकुण्ठाख्यं मुनिजनमनश्चातकानां शरण्यं कारुण्यापं त्रिदशपरिषत्कालमेघं ददर्श ॥ १३ ॥

पदच्छेदः

सन्ताप-घ्नम्, सकल-जगताम्, शार्ङ्ग-चाप-अभिरामम्, लक्ष्मी-विद्युत्-लसितम्, अतसी-गुच्छ-सच्छाय-कायम्, वैकुण्ठ-आख्यम्, मुनि-जन-मनस्-चातकानाम्, शरण्यम्, कारुण्य-अपम्, त्रिदश-परिषत्, काल-मेघम्, ददर्श

अन्वयार्थः

  • ददर्श = अपश्यत्
  • त्रिदशपरिषत् = देवानां गोष्ठी
  • कालमेघम् = नीलाम्बुदम्
  • सकलजगताम् = सर्वेषां लोकानाम्
  • सन्तापघ्नम् = दुःखनाशकम्
  • शार्ङ्गचापाभिरामम् = शार्ङ्गनामकेन धनुषा मनोज्ञम्
  • लक्ष्मीविद्युल्लसितम् = श्रीः एव सौदामिनी, तया श्लिष्टम्
    • लक्ष्मीः = श्रीः
    • विद्युत् = सौदामिनी
    • लसितम् = श्लिष्टम्
  • अतसी-गुच्छ-सच्छाय-कायम् = क्षुमाख्यः वृक्षविशेषस्य पुष्पस्तबकेन समाना देहः यस्य तम्
    • अतसी = क्षुमाख्यः वृक्षविशेषः
    • गुच्छम् = पुष्पस्तबकम् ।
    • छाया = कान्तिः
    • कायः = देहः
  • वैकुण्ठाख्यम् = वैकुण्ठनामकम्
  • मुनि-जन-मनस्-चातकानाम् = मुनिजनानां मनांसि एव चातकाः, तादृशानाम्
    • चातकाः = पक्षिविशेषाः
  • शरण्यम् = रक्षकम्
  • कारुण्यापम् = दया एव जलम् यस्य तादृशम्
    • कारुण्यम् = दया
    • आपः = जलम्

अन्वयः

त्रिदशपरिषत् सकलजगतां सन्तापघ्नं, शार्ङ्गचापाभिरामं, लक्ष्मीविद्युल्लसितम्, अतसीगुच्छसच्छायकायं, मुनिजनमनश्चातकानां शरण्यं, कारुण्यापं, वैकुण्ठाख्यं कालमेघं ददर्श ।

आकाङ्क्षा

  • ददर्श
    • के ददर्श ? त्रिदशपरिषत्
    • कम् ददर्श ? कालमेघम्
      • कीदृशं कालमेघम् ? वैकुण्ठाख्यम्
      • पुनः कीदृशं कालमेघम् ? सन्तापघ्नम्
        • केषां सन्तापघ्नम् ? सकलजगताम्
      • पुनः कीदृशं कालमेघम् ? शार्ङ्गचापाभिरामम्
      • पुनः कीदृशं कालमेघम् ? लक्ष्मीविद्युल्लसितम्
      • पुनः कीदृशं कालमेघम् ? अतसीगुच्छसच्छायकायम्
      • पुनः कीदृशं कालमेघम् ? शरण्यम्
        • केषां शरण्यम् ? मुनिजनमनश्चातकानाम्
      • पुनः कीदृशं कालमेघम् ? कारुण्यापम्

तात्पर्यम्

देवगोष्ठी वैकुण्ठं प्राप्य नारायणं ददर्श । सः नारायणः सर्वलोकानां दुःखनाशकः, शार्ङ्गनामकेन धनुषा मनोज्ञः, लक्ष्मीरूपविद्युता युक्तः, अतसीपुष्पसमानकान्तिः, मुनिजनमनोरूपचातकानां शरण्यः, दयारसपूर्णः कालमेघसदृशः आसीत् ।

पदविवरणम्

  • ददर्श = दृश् “दृशिर् वीक्षणे” । लिट्., प्र.पु., ए.व.
  • सतापघ्नम् = सन्तापं हन्ति – उपपदसमासः । सन्ताप + हन् “हनँ हिंसागत्योः” + टक् (कृत्) । अकारान्तः पुं., द्वि.वि., ए.व.
  • सकलजगताम् = सकलानि जगन्ति, तेषाम् । तकारान्तः, नपुं., ष.वि., ब.व.
  • शार्ङ्गचापाभिरामम्
    • शार्ङ्गचापः = शार्ङ्गम् इति चापः
    • शार्ङ्गचापाभिरामम् = शार्ङ्गचापेन अभिरामः, तम्
  • लक्ष्मीविद्युल्लसितम् = लक्ष्मीः एव विद्युत्, लक्ष्मीविद्युता लसितः, तम् । “तडित् सौदामिनी विद्युत्” (अमरः)
  • अतसीगुच्छसच्छायकायम्
    • अतसीगुच्छम् = अतस्याः गुच्छम्
    • अतसीगुच्छसच्छायः = अतसीगुच्छेन समाना छाया यस्य सः
    • अतसीगुच्छसच्छायकायम् = अतसीगुच्छसच्छायः कायः यस्य सः, तम् । “छाया त्वनातपे कान्तौ” (वैज.)
  • वैकुण्ठाख्यम् = वैकुण्ठः आख्या यस्य सः, तम् । “विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः” (अमरः)
  • मुनिजनमनश्चातकानाम्
    • मुनिजनाः = मुनयः जनाः
    • मुनिजनमनांसि = मुनिजनानां मनांसि
    • मुनिजनमनश्चातकानाम् = मुनिजनमनांसि एव चातकाः, तेषाम् । “सर्वंसहापतितमम्बु न चातकानाम्” ।
  • शरण्यम् = शरणे साधुः । शरण + यत् (तद्धितः)
  • कारुण्यापम् = कारुण्यम् आपः यस्य सः । समासः अकारान्तः ।
  • त्रिदशपरिषत् = त्रिदशानां परिषत् । दकारान्तः, स्त्री., प्र.वि., ए.व. । “अमरा निर्जरा देवाः त्रिदशा विबुधाः सुराः” । “समज्या परिषद् गोष्ठी सभा-समिति-संसदः”
  • कालमेघम् = कालः मेघः, तम् ।

अलङ्कारः

रूपकालङ्कारः । अतसीगुच्छसच्छाय इति उपमा । अनुप्रासः ।

छन्दः

मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तो गुरू चेत्” (४+६+७ = १७ प्रतिपादम्, म-भ-न-त-त गणाः, गुरुः, गुरुः)

1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17
गु गु गु गु गु गु गु गु गु गु
न्ता घ्नं तां शा र्ङ्ग चा पा भि रा मं
क्ष्मी वि द्यु ल्ल सि सी गु च्छ च्छा का यम्
वै कु ण्ठा ख्यं मु नि श्चा का नां ण्यं
का रु ण्या पं त्रि रि त्का मे घं र्श

Word-Meaning

  • त्रिदश-परिषत् = the assembly (परिषत्) of gods (त्रिदश)
    • ददर्श = saw (दृश्)
    • काल-मेघम् = the dark cloud
      • सकलजगतां सन्तापघ्नम् = the destroyer (घ्न) of the miseries (सन्ताप) of all (सकल) the worlds (जगत्)
      • शार्ङ्गचाप-अभिरामम् = the one who delights / (अभिराम) in the Sarnga (शार्ङ्ग) bow (चाप)
      • लक्ष्मीविद्युल्लसितम् = the one who is embraced by the lightning in the form of Lakshmi
      • अतसी-गुच्छ-सच्छाय-कायम् = the one whose body (काय) has the shine (सच्छाय) like (समम् = सत्) that of the bunch of flowers (गुच्छ) of the Atasee (अतसी) or Kshumaa tree
      • वैकुण्ठ-आख्यम् = the one who has the name (आख्य) Vaikuta (वैकुण्ठ)
      • मुनि-जन-मनः-चातकानां शरण्यम् = the liberator (शरण्य) of the chataka (चातक) birds (which drink only the rain water) in the form of the minds (मनः) of the saintly (मुनि) people (जन)
      • कारुण्य-आपम् = the one who is filled with water (आप) in the form of kindness (कारुण्य)

14.     श्लोकः

मूलपाठः

क्षीराम्भोधेर्जठरमभितो देहभासां प्ररोहैः कालोन्मीलत्कुवलयदलाद्वैतमापादयन्तम् ।

आतन्वानं भुजगशयने कामपि क्षौमगौरे निद्रामुद्रां निखिलजगतीरक्षणे जागरूकाम् ॥ १४ ॥

पदच्छेदः

क्षीर-अम्भोधेः, जठरम्, अभितः, देह-भासाम्, प्ररोहैः, काल-उन्मीलत्-कुवलय-दल-अद्वैतम्, आपादयन्तम्, आतन्वानम्, भुजग-शयने, कामपि, क्षौम-गौरे, निद्रा-मुद्राम्, निखिल-जगती-रक्षणे, जागरूकाम्

अन्वयार्थः

  • आपादयन्तम् = सम्पादयन्तम्
  • काल-उन्मीलत्-कुवलय-दल-अद्वैतम् = चन्द्रोदयकाले यानि नीलोत्पलपत्राणि विकसन्ति तैः अभेदम्
    • काले = चन्द्रोदयकाले
    • उन्मीलन्ति = विकसन्ति
    • कुवलयदलानि = नीलोत्पलपत्राणि
    • अद्वैतम् = अभेदम्
  • क्षीराम्भोधेः = दुग्धसमुद्रस्य
  • जठरम् = मध्यभागम्
  • अभितः = समन्तात्
  • देहभासाम् = निजशरीरकान्तीनाम्
  • प्ररोहैः = अङ्कुरैः
  • देहभासां प्ररोहैः अद्वैतम् आपादयन्तम् = स्वस्य देहकान्तेः किरणैः क्षीरसमुद्रस्य नीलवर्णतां जनयन्तम् इत्यर्थः ।
  • आतन्वानम् = प्रदर्शयन्तम्
  • निद्रामुद्राम् = योगनिद्रावस्थाम्
  • निखिलजगतीनाम् = समस्तलोकानाम्
  • रक्षणे = पालने
  • जागरूकाम् = जाग्रतीम्
  • कामपि = अपूर्वाम्, अनिर्वाच्याम्, लोकविलक्षणत्वात्
  • भुजगशयने = शेषपर्यङ्के
  • क्षौमगौरे = दुकूलवत् शुभ्रे
  • भुजगशयने निखिलजगतीरक्षणे जागरूकां कामपि निद्रामुद्राम् आतन्वानः = आदिशेषस्योपरि योगनिद्रारतः महाविष्णुः वस्तुतो लोकानां पालनतत्पर एव इत्यर्थः ।

अन्वयः

देहभासां प्ररोहैः क्षीराम्भोधेः जठरम् अभितः कालोन्मीलत्कुवलयदलाद्वैतम् आपादयन्तम्, क्षौमगौरे भुजगशयने निखिलजगतीरक्षणे जागरूकां कामपि निद्रामुद्राम् आतन्वानं (विष्णुं त्रिदशपरिषत् ददर्श) ।

आकाङ्क्षा

  • (ददर्श)
    • के ददर्श ? (त्रिदशपरिषत्)
    • कं ददर्श ? (विष्णुम्)
      • कीदृशं विष्णुम् ? आतन्वानम्
        • किम् आतन्वानम् ? निद्रामुद्राम्
          • कीदृशीं निद्रामुद्राम् ? कामपि
          • पुनः कीदृशीं निद्रामुद्राम् ? जागरूकाम्
            • कस्मिन् विषये जागरूकाम् ? निखिलजगतीरक्षणे
            • कुत्र निद्रामुद्राम् ? भुजगशयने
              • कीदृशे भुजगशयने ? क्षौमगौरे
            • कीदृशं विष्णुम् ? आपादयन्तम्
              • आपादयन्तम् ? कालोन्मीलत्कुवलयदलाद्वैतम्
                • कुत्र कालोन्मीलत्कुवलयदलाद्वैतम् ? जठरम् अभितः
                  • कस्य जठरम् ? क्षीराम्भोधेः
                • कैः आपादयन्तम् ? प्ररोहैः
                  • कासां प्ररोहैः ? देहभासाम्

तात्पर्यम्

देवानां समूहः क्षीरसमुद्रस्य मध्यभागे दुकूलवत् शुभ्रशरीरस्य आदिशेषस्योपरि शयानं महाविष्णुम् अद्राक्षीत् । विष्णोः इन्द्रनीलसन्निभस्य देहस्य कान्त्या क्षीरसमुद्रस्य मध्यभागे कुवलयदलानि विकसितानि इव नीलत्वम् आसीत् । किञ्च, विष्णुः योगनिद्रायां निरतः सन्नेव सर्वेषां लोकानां पालनं करोति स्म ।

पदविवरणम्

  • क्षीराम्भोधेः – क्षीरस्य अम्भोधिः, तस्य । इकारान्तः, पुं., स.वि., ए.व.
  • जठरम् अभितः – ‘अभितः-परितः-सम्या-निकषा-हा-प्रतियोगेऽपि’ इति वार्त्तिकेन द्वितीयाविभक्तिः
  • देहभासाम् – देहस्य भासः, तासाम् । सकारान्तः, स्त्री., ष.वि., ब.व. । “स्युः प्रभा रुक् रुचिः त्विट् भा भास्-छवि-द्युति-दीप्तयः” (अमरः)
  • प्ररोहैः – अकारान्तः, पुं., तृ.वि., ब.व.
  • कालोन्मीलत्कुवलयदलाद्वैतम्
    • कालोन्मीलन्ति = काले उन्मीलन्ति
    • कुवलयदलानि = कुवलयस्य दलानि
    • कालोन्मीलत्कुवलयदलानि = कालोन्मीलन्ति कुवलयदलानि
    • कालोन्मीलत्कुवलयदलाद्वैतम् = कालोन्मीलत्कुवलयदलानाम् अद्वैतम्
  • आपादयन्तम् = आ + पद “पद गतौ” + णिच् + शतृ (कृत्) । पुं., द्वि.वि., ए.व.
  • आतन्वानम् = आ + तन् “तनु विस्तारे” + शानच् (कृत्) । पुं., द्वि.वि., ए.व.
  • भुजगशयने = भुजगः एव शयनम्, तस्मिन् । “सर्पः पृदाकुः भुजगः” (अमरः)
  • क्षौमगौरे = क्षौमः इव गौरम्, तस्मिन् । अकारान्तः, नपुं., स.वि., ए.व.
  • निद्रामुद्राम् = निद्रायाः मुद्रा, ताम् ।
  • निखिलजगतीरक्षणे
    • निखिलजगत्यः = निखिलाः जगत्यः,
    • निखिलजगतीरक्षणे = निखिलजगतीनां रक्षणम्, तस्मिन् । “जगती लोको विष्टपं भुवनं जगत्” (अमरः)
  • जागरूकाम् = “जागृ निद्राक्षये” + ऊक (कृत्), आकारान्तः, स्त्री., द्वि.वि., ए.व.

अन्यविषयाः

  • ‘त्रिदशपरिषत् ददर्श’ इति पूर्वश्लोकात् अनुवर्तते । कुलकम् ।
  • विष्णुम् इत्यध्याहारः ।

अलङ्कारः

  • पूर्वार्धे तद्गुणालङ्कारः – “तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः” । क्षीरं स्वस्य धवलतां परित्यज्य विष्णोः नीलवर्णं स्वीकरोति ।
  • उत्तरार्धे विरोधाभासः – “आभासत्वे विरोधस्य विरोधाभास उच्यते”

छन्दः

  • मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तो गुरू चेत्” (४+६+७ = १७ प्रतिपादम्, म-भ-न-त-त गणाः, गुरुः, गुरुः)

Word-Meaning

  • त्रिदश-परिषत् = the assembly (परिषत्) of gods (त्रिदश)
    • (ददर्श) = saw (दृश्)
    • आपादयन्तम् = one who is creating
      • काल-उन्मीलत्-कुवलय-दल-अद्वैतम् = indistinguishableness (अद्वैत) from the petals (दल) of the lilles (कुवलय) that are blossoming (उन्मीलत्) during the moonrise (काल) (i.e., he is creating the darkness of the water lilies in the ocean)
        • जठरम् अभितः = around (अभितः) the middle portion
          • क्षीराम्भोधेः = of the milk ocean
          • देह-भासाम् प्ररोहैः = by the shooting flashes (प्ररोह) of his body’s (देह) shine (भासा)
        • आतन्वानम् = One who is exhibiting
          • निद्रा-मुद्राम् = the posture (मुद्रा) of the sleep (निद्रा)
            • काम् अपि = some specific posture (the Yoga Nidra which is mystic, which cannot be described)
              • भुजग-शयने = on the serpent bed
            • जागरूकाम् = One which is alert and attentive (जागरूका)
              • निखिल-जगती-रक्षणे = in the protection (रक्षण) of all (निखिल) the worlds (जगती)
            • क्षौम-गौरे = the white color (गौर) of the skin (क्षौम)

15.     श्लोकः

प्रस्तावना

नृसिंहावतारस्य वर्णनम्

मूलपाठः

प्रह्लादस्य व्यसनममितं दैत्यवर्गस्य दम्भं स्तम्भं वक्षःस्थलमपि रिपोर्यौगपद्येन भेत्तुम् ।

बद्धश्रद्धं पुरुषवपुषा मिश्रिते विश्वदृष्टे दंष्ट्रारोचिर्विशदभुवने रंहसा सिंहवेषे ॥ १५ ॥

पदच्छेदः

प्रह्लादस्य, व्यसनम्, अमितम्, दैत्य-वर्गस्य, दम्भम्, स्तम्भम्, वक्षः-स्थलम्, अपि, रिपोः, यौगपद्येन, भेत्तुम्, बद्ध-श्रद्धम्, पुरुष-वपुषा, मिश्रिते, विश्व-दृष्टे, दंष्ट्रा-रोचिर्-विशद-भुवने, रंहसा, सिंह-वेषे

अन्वयार्थः

  • बद्धश्रद्धम् = कृतसङ्कल्पम्
  • रंहसा = वेगेन
  • सिंहवेषे = कण्ठीरवाकारे
  • पुरुषवपुषा मिश्रिते = नरशरीरेण मिलिते । नरसिंहावतारे इत्यर्थः ।
  • विश्वदृष्टे = सर्वैः (आश्चर्यतया) अवलोकिते
  • दंष्ट्राणाम् = खरदन्तानाम्, रोचिषा = कान्त्या, विशदानि = शुभ्राणि, भुवनानि = लोकाः । नृसिंहस्य दन्तकान्त्या सर्वे लोकाः प्रकाशिता इत्यर्थः ।
  • भेत्तुम् = विदारयितुम्
  • यौगपद्येन = समकाले
  • प्रह्लादस्य = हिरण्यकशिपुसुतस्य
  • अमितम् = अपारम्
  • व्यसनम् = विपदम्
  • दैत्यवर्गस्य = असुरसमूहस्य
  • दम्भम् = कपटम्
  • स्तम्भम् = अयःस्तम्भम्
  • रिपोः = शत्रोः हिरण्यकशिपोः
  • वक्षःस्थलम् = उरःस्थलम्

अन्वयः

दंष्ट्रारोचिर्विशदभुवने, विश्वदृष्टे, पुरुषवपुषा मिश्रिते सिंहवेषे प्रह्लादस्य अमितं व्यसनम्, दैत्यवर्गस्य दम्भम्, स्तम्भम्, रिपोः वक्षःस्थलम् अपि यौगपद्येन भेत्तुं रंहसा बद्धश्रद्धं (त्रिदशपरिषत् ददर्श)

आकाङ्क्षा

  • त्रिदशपरिषत् ददर्श
    • कं ददर्श ? विष्णुम्
      • कीदृशं विष्णुम् ? बद्धश्रद्धम्
        • कथं बद्धश्रद्धम् ? रंहसा
        • कुत्र बद्धश्रद्धम् ? सिंहवेषे
          • कीदृशे सिंहवेषे ? पुरुषवपुषा मिश्रिते
          • पुनः कीदृशे सिंहवेषे ? विश्वदृष्टे
          • पुनः कीदृशे सिंहवेषे ? दंष्ट्रारोचिर्विशदभुवने
        • किमर्थं सिंहवेषे बद्धश्रद्धम् ? भेत्तुम्
          • कथं भेत्तुम् ? यौगपद्येन
          • किं भेत्तुम् ? प्रह्लादस्य अमितं व्यसनम्
          • पुनः किं भेत्तुम् ? दैत्यवर्गस्य दम्भम्
          • पुनः किं भेत्तुम् ? स्तम्भम्
          • पुनः किं भेत्तुम् ? रिपोः वक्षःस्थलम् अपि

तात्पर्यम्

यः विष्णुः दन्तकान्त्या लोकं प्रकाशयन्तं सर्वजनदर्शनीयं नरसिंहवेषं झटिति स्वीकृत्य स्वभक्तस्य प्रह्लादस्य विपदम्, असुराणां कपटम्, अयःस्तम्भम्, शत्रोः वक्षःस्थलं च समकाले विदारितवान्, तादृशं विष्णुं देवाः अपश्यन् ।

पदविवरणम्

  • अमितम् = न मितम् । नञ्तत्पुरुषः ।
  • दैत्यवर्गस्य = दैत्यानां वर्गः, तस्य ।
  • दम्भम् = अकारान्तः, पुं., द्वि.वि., ए.व. । “कपटोऽस्त्री व्याज-दम्भ-उपधयः छद्म-कैतवे”
  • रिपोः = उकारान्तः, पुं, ष.वि., ए.व. । “रिपौ वैरि-सपत्न-अरि-द्विषद्-द्वेषण-दुर्हृदः”
  • यौगपद्येन = युगपद् + भावे ष्यञ् (तद्धितः) । अकारान्तः, नपुं., तृ.वि., ए.व.
  • भेत्तुम् = “भिदिर् विदारणे” + तुमुन् (कृत्) – अव्ययम् ।
  • बद्धश्रद्धम् = बद्धा श्रद्धा यस्य सः, तम्
  • पुरुषवपुषा = पुरुषस्य वपुः, तेन । षकारान्तः, नपुं., तृ.वि., ए.व.
  • विश्वदृष्टे = विश्वेन दृष्टः / विश्वैः दृष्टः, तस्मिन्
  • दंष्ट्रारोचिर्विशदभुवने
    • दंष्ट्रारोचिः = दंष्ट्राणां रोचिः
    • दंष्ट्रारोचिर्विशदानि = दंष्ट्रारोचिषा विशदानि
    • दंष्ट्रारोचिर्विशदभुवने = दंष्ट्रारोचिर्विशदानि भुवनानि यस्य सः, तस्मिन् ।
  • रंहसा = सकारान्तः, नपुं., तृ.वि., ए.व.
  • सिंहवेषे = सिंहस्य वेषः, तस्मिन्

छन्दः

मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तो गुरू चेत्” (४+६+७ = १७ प्रतिपादम्, म-भ-न-त-त गणाः, गुरुः, गुरुः)

Word-Meaning

  • बद्धश्रद्धम् = One who had commitment (taken a decision to be commited)
    • रंहसा = Quickly / instantaneously
    • सिंहवेषे = in the form of a lion
      • पुरुषवपुषा मिश्रिते = in that one which is mixed with human form
      • विश्वदृष्टे = in that one which was watched in wonder by the whole world
      • दंष्ट्रारोचिर्विशदभुवने = in that one whose protruding sharp teeth’s (दंष्ट्रा) shine (रोचि) whitens (विशद) up the world (भुवन)
    • भेत्तुम् = To destroy – to rend them apart
      • यौगपद्येन = At the same time
      • प्रह्लादस्य अमितं व्यसनम् = Prahlada’s (प्रह्लाद) boundless (अमित) dangers / miseries / distress (व्यसन)
      • दैत्यवर्गस्य दम्भम् = The Asura clan’s (दैत्यवर्ग) croocked ways / arrogance / cunningness (दम्भ)
      • स्तम्भम् = pillar
      • रिपोः वक्षःस्थलम् अपि = and (अपि) the enemy’s (रिपु) chest (वक्षःस्थल)

16.     श्लोकः

प्रस्तावना

देवैः कृता भगवतो नारायणस्य स्तुतिः ।

मूलपाठः

नारायणाय नलिनायतलोचनाय नामावशेषितमहाबलिवैभवाय ।

नानाचराचरविधायकजन्मदेश-नाभीपुटाय पुरुषाय नमः परस्मै ॥ १६ ॥

पदच्छेदः

नारायणाय, नलिन-आयत-लोचनाय, नाम-अवशेषित-महा-बलि-वैभवाय, नाना-चर-अचर-विधायक-जन्म-देश-नाभी-पुटाय, पुरुषाय, नमः, परस्मै

अन्वयार्थः

  • नमः = अभिवादनम्
  • नारायणाय = विष्णवे
  • नलिने = कमले इव, आयते = विशाले, लोचने = नयने यस्य, तादृशाय । पुण्डरीकाक्षाय
  • नाम्ना = आख्यामात्रेण, अवशेषितम् = शेषीकृतम्, महत् = भूयिष्ठम्, बलेः = दैत्यचक्रवर्तिनः, वैभवम् = सम्पत् येन तस्मै
  • नाना = बहुप्रकारकं, चराचरम् = स्थावरजङ्गमात्मकं जगत्, तस्य विधायकः = सृष्टिकर्ता ब्रह्मा, तस्य जन्मदेशः = उत्पत्तिस्थानम्, नाभीपुटम् = नाभिपद्मकोशं
  • परस्मै पुरुषाय = परमात्मने

अन्वयः

नारायणाय नलिन-आयत-लोचनाय नाम-अवशेषित-महा-बलि-वैभवाय नाना-चर-अचर-विधायक-जन्म-देश-नाभी-पुटाय परस्मै पुरुषाय नमः

आकाङ्क्षा

  • नारायणाय नमः
    • कीदृषाय नारायणाय ? नलिन-आयत-लोचनाय
    • पुनः कीदृषाय नारायणाय ? नाम-अवशेषित-महा-बलि-वैभवाय
    • पुनः कीदृषाय नारायणाय ? नाना-चर-अचर-विधायक-जन्म-देश-नाभी-पुटाय
    • पुनः कीदृषाय नारायणाय ? परस्मै पुरुषाय

तात्पर्यम्

नारायणाय, पुण्डरीकविशालनेत्राय, असुरचक्रवर्तिनः बलेः भूयिष्ठां सम्पदं नाममात्रशिष्टां कृतवते, सृष्टिकर्तुः ब्रह्मणः उत्पत्तिस्थानभूतं नाभिकमलं दधते परमात्मने नमः

पदविवरणम्

  • नमः – “नमः-स्वस्ति-स्वाहा-स्वधा-अलं-वषड्-योगाच्च” (२.३.१६) इति नमःशब्दयोगे चतुर्थीविभक्तिः
  • नलिनायतलोचनाय
    • नलिने इव आयते = नलिनायते,
    • नलिनायतलोचनाय = नलिनायते लोचने यस्य सः, तस्मै
  • नाम-अवशेषित-महा-बलि-वैभवाय
    • नाम-अवशेषितम् = नाम्ना अवशेषितम्
    • बलिवैभवम् = बलेः वैभवम्
    • महाबलिवैभवम् = महत् बलिवैभवम्
    • नाम-अवशेषित-महा-बलि-वैभवाय = नामावशेषितं महाबलिवैभवं येन सः, तस्मै
  • नाना-चर-अचर-विधायक-जन्म-देश-नाभी-पुटाय
    • चराचरम् = चरं च अचरं च,
    • नानाचराचरम् = नाना चराचरम्,
    • नानाचराचरविधायकः = नानाचराचरस्य विधायकः,
    • जन्मदेशः = जन्मनः देशः,
    • नानाचराचरविधायकजन्मदेशः = नानाचराचरविधायकस्य जन्मदेशः
    • नानाचराचरविधायकजन्मदेशनाभीपुटाय = नानाचराचरविधायकजन्मदेशः नाभीपुटं यस्य सः, तस्मै
  • परस्मै – अकारान्तः, सर्वनाम, च.वि., ए.व.

अन्यविषयाः

नतोऽस्म्यहं त्वाऽखिलहेतुभूतं नारायणं पूरुषमाद्यमव्ययम् ।
यन्नाभिजातादरविन्दकोशाद् ब्रह्माविरासीद् यत एष लोकः ॥ (भागवतम् १०.४०.१)

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • नारायणाय = to Narayana
  • नलिनायतलोचनाय = to him who has wide eyes like the petals of the lotus
  • नामावशेषितमहाबलिवैभवाय = to him by whom the great (महत्) wealth (वैभव) of Bali (बलि) was reduced (अवशेषित) only to the name (नाम)
  • नानाचराचरविधायकजन्मदेशनाभीपुटाय = to him, the lotus (पुट) growing from whose navel (नाभी) is the birth place (जन्मदेश) of the creator (विधायक) of the world comprising of the different (नाना) mobile (चर) and immobile entities (अचर) (living and non-living)
  • परस्मै पुरुषाय = to supreme (पर) being (पुरुष)
  • नमः = salutations

गद्यम्

मूलपाठः

इति प्रणम्योत्थितानेतान् स्तुतिरवमुखरितहरिन्मुखान् हरिहयप्रमुखानखिलानमरानरुणारुणतामरसविलासचोरैर्लोचनमरीचिसन्तानैरानन्दयन्नरविन्दलोचनः स्फुटमभाषत ।

पदच्छेदः

इति, प्रणम्य, उत्थितान्, एतान्, स्तुति-रव-मुखरित-हरित्-मुखान्, हरिहय-प्रमुखान्, अखिलान्, अमरान्, अरुण-अरुण-तामरस-विलास-चोरैः, लोचन-मरीचि-सन्तानैः, आनन्दयन्, अरविन्द-लोचनः, स्फुटम्, अभाषत ।

सन्धिः

  • स्तुतिरवमुखरितहरिन्मुखान् = स्तुति-रव-मुखरित-हरित् + मुखान् । अनुनासिकसन्धिः

अन्वयार्थः

  • इति = एवंप्रकारेण
  • प्रणम्य = साष्टाङ्गप्रणामं कृत्वा
  • उत्थितान् = उत्थानं प्राप्तवतः
  • एतान् = इमान्
  • स्तुति-रव-मुखरित-हरित्-मुखान्
    • स्तुतेः = स्तोत्रस्य
    • रवेण = ध्वनिना
    • मुखरितानि = अनुरणितानि
    • हरिताम् = दिशाम्
    • मुखानि = प्रदेशाः येषां तान् ।
    • स्तुति-रव-मुखरित-हरित्-मुखान् = देवानां स्तोत्रस्य उच्चध्वनिना सर्वाः दिशः पूरिताः इत्यर्थः
  • हरिहयप्रमुखान् = इन्द्रादीन्
  • अखिलान् = सर्वान्
  • अमरान् = देवान्
  • अरुण-अरुण-तामरस-विलास-चोरैः
    • अरुणारुणम् = अत्यन्तलोहितम्
    • तामरसम् = कमलम्
    • विलासचोरैः = सौन्दर्यापहारिभिः । तत्तुल्यैः इत्यर्थः ।
  • लोचनमरीचिसन्तानैः
    • लोचनयोः = नेत्रयोः
    • मरीचीणां = किरणानाम्
    • सन्तानैः = समूहैः
  • आनन्दयन् = तोषयन्
  • अरविन्दलोचनः = राजीवाक्षः
  • स्फुटम् = स्पष्टम्
  • अभाषत = अब्रवीत्

अन्वयः

इति प्रणम्य उत्थितान् एतान् स्तुति-रव-मुखरित-हरित्-मुखान् हरिहय-प्रमुखान् अखिलान् अमरान् अरुण-अरुण-तामरस-विलास-चोरैः लोचन-मरीचि-सन्तानैः आनन्दयन् अरविन्द-लोचनः स्फुटम् अभाषत ।

आकाङ्क्षा

  • इति अभाषत ।
    • कथम् अभाषत ? स्फुटम्
      • कः अभाषत ? अरविन्द-लोचनः
      • किं कुर्वन् अभाषत ? आनन्दयन्
        • कान् आनन्दयन् ? एतान् अखिलान् अमरान्
        • कीदृषान् अमरान् ? उत्थितान्
          • किं कृत्वा उत्थितान् ? प्रणम्य
        • पुनः कीदृषान् अमरान् ? स्तुति-रव-मुखरित-हरित्-मुखान्
        • पुनः कीदृषान् अमरान् ? हरिहय-प्रमुखान्
      • कैः आनन्दयन् ? लोचन-मरीचि-सन्तानैः
        • कीदृशैः लोचन-मरीचि-सन्तानैः ? अरुण-अरुण-तामरस-विलास-चोरैः

तात्पर्यम्

इन्द्रादीनां देवानां स्तुतिध्वनिभिः दिशः परिपूर्णाः । ततः एतान् देवान् कमलवत्सुन्दरैः नेत्रप्रभाभिः तोषयन् राजीवाक्षः विष्णुः व्यक्तम् अवोचत् ।

पदविवरणम्

  • प्रणम्य = नम् “णम प्रह्वत्वे शब्दे च” + ल्यप्, अव्ययम्
  • उत्थितान् = उत् + स्था “ष्ठा गतिनिवृत्तौ” + क्त (कृत्) । अकारान्तः, पुं., द्वि.वि., ब.व.
  • स्तुति-रव-मुखरित-हरित्-मुखान्
    • स्तुतिरवः = स्तुतीनां रवः
    • स्तुतिरवमुखरितानि = स्तुतिरवेण मुखरितानि
    • हरिन्मुखानि = हरितां मुखानि
    • स्तुतिरवमुखरित-हरित्-मुखान् = स्तुतिरवमुखरितानि हरिन्मुखानि येषां तान्
  • हरिहयप्रमुखान् = हरिहयः प्रमुखः येषां तान् । “जम्भभेदी हरिहयः स्वाराट् नमुचिसूदनः” (अमरः)
  • अमरान् = “अमरा निर्जरा देवाः त्रिदशा विबुधाः सुराः” (अमरः)
  • अरुण-अरुण-तामरस-विलास-चोरैः
    • अरुण-अरुण-तामरसम् = अरुणारुणं तामरसम्
    • अरुण-अरुण-तामरस-विलासः = अरुणारुणतामरसस्य विलासः,
    • अरुण-अरुण-तामरस-विलास-चोरैः अरुण-अरुण-तामरस-विलासस्य चोराः, तैः
  • लोचनमरीचिसन्तानैः
    • लोचनमरीचयः = लोचनयोः मरीचयः,
    • लोचनमरीचिसन्तानैः = लोचनमरीचीणां सन्तानाः, तैः । “लोचनं नयनं नेत्रम्” (अमरः), “भानुः करो मरीचिः”
  • आनन्दयन् = आ+ नद् “टुनदि समृद्धौ” + णिच् + शतृ (कृत्) – तकारान्तः, पुं., प्र.वि., ए.व.
  • अरविन्दलोचनः = अरविन्दे इव लोचने यस्य सः । “वा पुंसि पद्मं नलिनम् अरविन्दं महोत्पलम् । पङ्केरुहं तामरसं सारसं सरसीरुहम्” (अमरः)
  • स्फुटम् = “स्पष्टं स्फुटं प्रव्यक्तम् उल्बणम्” (अमरः)
  • अभाषत = भाष “भाष व्यक्तायां वाचि” – लङ्, प्र.पु., ए.व.

अन्यविषयाः

“पाणिपादतले रक्ते नेत्रान्तौ च नखास्तथा । तालु-जिह्वा-अधरोष्ठं च सप्तरक्तः सुखी भवेत्” – महाभाग्यलक्षणानि ।

Word-Meaning

  • एतान् = all those
    • उत्थितान् = those who rose up
      • प्रणम्य = after prostrating
      • इति = saying this (the praise mentioned in the earlier shloka)
    • स्तुतिरवमु्खरितहरित्-मुखान् = those whose spaces (मुख) of the directions (हरित्) were as though speaking out (मु्खरित) (i.e., echoing) with the sound (रव) of the praises (स्तुति) that they sang
    • अरिहयप्रमुखान् = those comprising of Indra and others
    • अखिलान् = all of them
    • अमरान् = devas
    • आनन्दयन् = causing delight in them
      • लोचनमरीचिसन्तानैः = through the collection (सन्तान) of the rays (मरीचि) of his eyes (लोचन), i.e., through his glances,
        • अरुणारुणतामरसविलासचोरैः = through them, which steal (i.e., excel) (चोर) the beauty (विलास) of the deep pink (अरुण+अरुण) coloured lotus (तामरस)
      • अरविन्दलोचनः = lotus eyed one
        • अभाषत = spoke
          • स्फुटम् = with clarity

17.     श्लोकः

प्रस्तावना

देवानुद्दिश्य नारायणकृतः कुशलप्रश्नः ।

मूलपाठः

अपि कुशलममर्त्याः स्वागतं साम्प्रतं वः शमितदनुजदम्भा किं नु दम्भोलिकेलिः ।
अपि धिषणमनीषानिर्मिता नीतिमार्गाः त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते ॥ १७ ॥

पदच्छेदः

अपि, कुशलम्, अमर्त्याः, स्वागतम्, साम्प्रतम्, वः, शमित-दनुज-दम्भा, किम्, नु, दम्भोलि-केलिः, अपि, धिषण-मनीषा-निर्मिताः, नीतिमार्गाः, त्रिदश-नगर-योगक्षेम-कृत्ये, क्षमन्ते

अन्वयार्थः

  • हे अमर्त्याः = हे देवाः
  • अपि कुशलम् ? = क्षेमं वा ?
  • वः = युष्माकम्
  • साम्प्रतम् = इदानीम्
  • स्वागतम् = सुखागमनम्
  • दम्भोलिकेलिः
    • दम्भूलेः = वज्रायुधस्य
    • केलिः = विलासः
  • शमितदनुजदम्भा
    • शमितः = निवारितः
    • दनुजानाम् = दानवानम्
    • दम्भः = कपटः यया तादृशी
  • किं नु ? दानवाः विध्वस्ताः किम् इति प्रश्नः
  • अपि = किम्
  • क्षमन्ते = समर्थाः भवन्ति
  • नीतिमार्गाः = नयपद्धतयः
  • धिषणमनीषानिर्मिताः
    • धिषणस्य = देवगुरोः बृहस्पतेः
    • मनीषया = बुद्ध्या
    • निर्मिताः = रचिताः
  • त्रिदशनगरयोगक्षेमकृत्ये
    • त्रिदशानाम् = देवानाम्
    • नगरम् = पुरम् (अमरावती)
    • योगक्षेमकृत्ये = संरक्षणकर्मणि

अन्वयः

अमर्त्याः! अपि कुशलम् ? वः साम्प्रतं स्वागतम् । दम्भोलिकेलिः शमितदनुजदम्भा किम् ? धिषणमनीषानिर्मिताः नीतिमार्गाः त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते अपि ?

आकाङ्क्षा

  • अमर्त्याः!
  • अपि कुशलम् ?
  • वः साम्प्रतं स्वागतम् ।
  • दम्भोलिकेलिः शमितदनुजदम्भा किम् ?
  • क्षमन्ते अपि ?
    • के क्षमन्ते ? नीतिमार्गाः
      • कीदृशाः नीतिमार्गाः ? धिषणमनीषानिर्मिताः
      • कस्मै क्षमन्ते ? त्रिदशनगरयोगक्षेमकृत्ये

तात्पर्यम्

हे देवाः! क्षेमं किम् ? भवताम् इदानीं स्वागतम् । वज्रायुधः दानवानां कपटनाशनं करोति किल ? देवगुरोः बृहस्पतेः नयोपायाः अमरावत्याः संरक्षणे समर्थाः सन्ति ननु ?

पदविवरणम्

  • अमर्त्याः – अकारान्तः, पुं., सम्बोधनप्रथमा. वि., ब.व. । “आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः” (अमरः)
  • वः – युष्मद्-शब्दः, ष.वि., ब.व.
  • शमितदनुजदम्भा
    • दनुजदम्भः = दनुजानां दम्भः
    • शमितदनुजदम्भा = शमितः दनुजदम्भः यया सा
  • दम्भोलिकेलिः = दम्भोलेः केलिः । इकारान्तः, स्त्री., प्र.वि., ए.व. । “शतकोटिः स्वरुः शम्बो दम्भोलिः अशनिर्द्वयोः” (अमरः)
  • धिषणमनीषानिर्मिताः
    • धिषणमनीषा = धिषणस्य मनीषा
    • धिषणमनीषानिर्मिताः = धिषणमनीषया निर्मिताः । “बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः”, “बुद्धिर्मनीषा धिषणा” (अमरः)
  • त्रिदशनगरयोगक्षेमकृत्ये
    • त्रिदशनगरम् = त्रिदशानां नगरम्
    • योगक्षेमम् = योगश्च क्षेमश्च तयोः समाहारः
    • त्रिदशनगरयोगक्षेमम् = त्रिदशनगरस्य योगक्षेमम्,
    • त्रिदशनगरयोगक्षेमकृत्ये = त्रिदशनगरयोगक्षेमस्य कृत्यम् , तस्मै । “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः” (अमरः) । अलब्धलाभो योगः, लब्धस्य परिपालनं क्षेमः ।
  • क्षमन्ते = क्षम् “क्षमूष् सहने”, आत्. प., लट्., प्र. वि., ब. व.

छन्दः

मालिनीवृत्तम् – ‘ननमयययुतेयं मालिनी भोगिलोकैः’ – १५ (८+७) वर्णाः

Word-Meaning

  • अमर्त्याः! O Devas!
  • अपि कुशलम् ? Are you all doing fine ?
  • वः साम्प्रतं स्वागतम् । A warm welcome (स्वागतम्) to all of you (वः) now (साम्प्रतम्)
  • दम्भोलिकेलिः शमितदनुजदम्भा किम् ? Has the sport (केलि) of Vajra (दम्भोलि) been successful in warding off (शमित) the conceit (दम्भ) of the asuras (दनुज) ?
  • धिषणमनीषानिर्मिताः नीतिमार्गाः त्रिदशनगरयोगक्षेमकृत्ये क्षमन्ते अपि ? Have the governance policies (नीतिमार्ग), that have been framed (निर्मित) by the intelligence (मनीषा) of Bruhaspati (धिषण) been able (क्षम्) to do the work (कृति) of the protection (योगक्षेम) of the city (नगर) of the devas, who have only three stages without the fourth state of old age (त्रिदश) ?

गद्यम्

मूलपाठः

एवं भगवतः कुशलानुयोगपुरःसरीममृतासारसरसां सरस्वतीमाकर्ण्य सम्पूर्णमनोरथानां सुमनसां संसत्पुंसे परस्मै विज्ञापयामास ।

पदच्छेदः

एवम्, भगवतः, कुशल-अनुयोग-पुरःसरीम्, अमृत-आसार-सरसाम्, सरस्वतीम्, आकर्ण्य, सम्पूर्ण-मनोरथानाम्, सुमनसाम्, संसत्, पुंसे, परस्मै, विज्ञापयामास ।

अन्वयार्थः

  • एवम् = उक्तप्रकारेण
  • भगवतः = नारायणस्य
  • कुशलानुयोगपुरःसरीम् = कुशलप्रश्नपूर्विकाम्
  • अमृतासारसरसाम् = सुधाधारावत् रुचिराम्
  • सरस्वतीम् = वाणीम्
  • आकर्ण्य = श्रुत्वा
  • सम्पूर्णमनोरथानाम् = कृतार्थानां
  • सुमनसाम् = देवानाम्
  • संसत् = समितिः
  • परस्मै पुंसे = परमपुरुषाय
  • विज्ञापयामास = न्यवेदयत्

अन्वयः

एवम् भगवतः कुशल-अनुयोग-पुरःसरीम् अमृत-आसार-सरसां सरस्वतीम् आकर्ण्य सम्पूर्ण-मनोरथानां सुमनसां संसत् परस्मै पुंसे विज्ञापयामास ।

आकाङ्क्षा

  • विज्ञापयामास
    • कस्मै विज्ञापयामास ? परस्मै पुंसे
    • कः विज्ञापयामास ? संसत्
      • केषां संसत् ? सुमनसाम्
        • कीदृशां सुमनसाम् ? सम्पूर्ण-मनोरथानाम्
      • किं कृत्वा विज्ञापयामास ? आकर्ण्य
        • किम् आकर्ण्य ? सरस्वतीम्
          • कीदृशीं सरस्वतीम् ? अमृत-आसार-सरसाम्
          • पुनः कीदृशीं सरस्वतीम् ? कुशल-अनुयोग-पुरःसरीम्
          • कस्य सरस्वतीम् ? भगवतः
          • किमिति सरस्वतीम् ? एवम्

तात्पर्यम्

नारायणस्य ईदृशां कुशलप्रश्नपूर्विकाम् सुधाधारावत् रुचिरां वाणीं श्रुत्वा कृतार्थानां देवानां समितिः परमपुरुषाय विष्णवे न्यवेदयत्

पदविवरणम्

  • कुशलानुयोगपुरःसरीम्
    • कुशलस्य = क्षेमस्य
    • अनुयोगः = प्रश्नः
    • कुशलानुयोगपुरःसरीम् = कुशलानुयोगः पुरःसरः यस्याः सा, ताम् । “कुशलं क्षेममस्त्रियाम्”, “प्रश्नोऽनुयोगः पृच्छा च” (अमरः) । पुरस्+सृ+टच् + ङीप् ।
  • अमृतासारसरसाम्
    • अमृतासारः = अमृतस्य आसारः
    • अमृतासारसरसाम् = अमृतासार इव सरसा, ताम् । “धारासम्पात आसारः” (अमरः)
  • सम्पूर्णमनोरथानाम् = सम्पूर्णः मनोरथः येषां ते, तेषाम्
  • सुमनसाम् = “सुपर्वाणः सुमनसः त्रिदिवेशा दिवौकसः” (अमरः) । सकारान्तः, पुं, ६.३ ।
  • संसत् = दकारान्तः, स्त्री., प्र.वि., ए.व.
  • पुंसे = “पुंस्” सकारान्तः, पुं., च.वि., ए.व.
  • आकर्ण्य = आ + कर्ण् “कर्ण भेदने” – ल्यबन्ताव्ययम्
  • विज्ञापयामास = वि + ज्ञा “ज्ञा नियोगे” + णिच् । लिट्., प्र.पु., ए.व.

Word-Meaning

  • एवम् = in this way
  • आकर्ण्य = having heard
    • भगवतः = the Lord’s
    • सरस्वतीम् = speech
    • कुशलानुयोगपुरःसरीम् = those that were begun with the inquiries about the welfare
    • अमृतासारसरसाम् = those that are sweet like the nectar
  • संसत् = the assembly
    • सुमनसाम् = of those devas
    • सम्पूर्णमनोरथानाम् = of those whose desires have been fulfilled
  • विज्ञापयामास = put forth the request
    • परस्मै पुंसे = to the supreme person

गद्यम्

मूलपाठः

देव ! कथमकुशलमाविर्भवेद्भवता कृतावलम्बानामस्माकम् ? किन्तु ।

पदच्छेदः

देव, कथम्, अकुशलम्, आविर्भवेत्, भवता, कृत-अवलम्बानाम्, अस्माकम्, किन्तु

अन्वयार्थः

  • हे देव = भोः स्वामिन्
  • कथम् = केन प्रकारेण
  • अकुशलम् = अशुभम्
  • आविर्भवेत् = उत्पद्येत
  • भवता = महात्मना त्वया
  • कृतावलम्बानाम् = दत्ताश्रयाणाम्
  • अस्माकम् = नः
  • काकुः । निश्चयेन अकुशलं नाविर्भवति
  • किन्तु = तथापि (किञ्चिद् विज्ञापनीयमस्ति)

अन्वयः

देव कथम् अकुशलम् आविर्भवेत् भवता कृत-अवलम्बानाम् अस्माकम् किन्तु

आकाङ्क्षा

  • देव
  • कथम् आविर्भवेत्
    • किम् आविर्भवेत् ? अकुशलम्
      • केषाम् अकुशलम् ? अस्माकम्
        • कीदृषाम् अस्माकम् ? कृत-अवलम्बानाम्
          • केन कृत-अवलम्बानाम् ? भवता
        • किन्तु

तात्पर्यम्

महात्मना त्वया दत्ताश्रयाणाम् अस्माकं केन प्रकारेण अशुभम् आविर्भवति । (निश्चयेन अशुभं न आविर्भवति इति काकुः ) । तथापि … (किञ्चिद् विज्ञापनीयमस्ति)

पदविवरणम्

  • अकुशलम् = न कुशलम् । नञ् तत्पुरुषः ।
  • आविर्भवेत् = आविस् + भू “भू सत्तायाम्” । विधिलिङ्., प्र.पु., ए.व.
  • कृतावलम्बानाम् = कृतः अवलम्बः येषां ते, तेषाम्

Word-Meaning

  • हे देव = O Lord
  • कथम् अकुशलम् आविर्भवेत् = How (कथम्) can inauspiciousness (अकुशलम्) happen (आविर्भवेत्) ? i.e., there cannot be any inauspiciousness.
  • अस्माकम् = ours
    • कृतावलम्बानाम् = of those who have been given protection
      • भवता = by you
    • किन्तु = Yet (there is some request)

18.     श्लोकः

प्रस्तावना

लङ्कायाः वर्णनम् ।

मूलपाठः

अस्ति प्रशस्तविभवैर्विबुधैरलङ्घ्या लङ्केति नाम रजनीचरराजधानी ।

माणिक्यमन्दिरभुवां महसां प्ररोहैः तेजस्त्रयाय दिनदीपदशां दिशन्ती ॥ १८ ॥

पदच्छेदः

अस्ति, प्रशस्त-विभवैः, विबुधैः, अलङ्घ्या, लङ्का, इति, नाम, रजनीचर-राजधानी, माणिक्य-मन्दिर-भुवाम्, महसाम्, प्ररोहैः, तेजस्-त्रयाय, दिन-दीप-दशाम्, दिशन्ती

अन्वयार्थः

  • अस्ति = विद्यते
  • रजनीचरराजधानी
    • रजनीचराणाम् = राक्षसानाम्
    • राजधानी = प्रधाननगरी
  • लङ्का इति नाम = लङ्कानाम्ना प्रसिद्धा
  • अलङ्घ्या = अतिशयितुम् अशक्या
  • विबुधैः = देवैः
  • प्रशस्तविभवैः = प्रख्यातः सम्पत् येषां तादृशैः
    • प्रशस्तः = प्रख्यातः
    • विभवः = सम्पत्
  • माणिक्यमन्दिरभुवां महसां प्ररोहैः तेजस्त्रयाय दिनदीपदशां दिशन्ती = लङ्कायाः मणिमण्डपानां तेजसां पुरतः सूर्य-चन्द्र-अग्नीनामपि निस्तेजकत्वम् आपतितम् इत्यर्थः
    • दिशन्ती = कल्पयन्ती
    • दिनदीपदशाम् = अह्नि यः प्रदीपः तस्य अवस्थाम् । निस्तेजकताम् इत्यर्थः ।
      • दिने = अह्नि
      • दीपः = प्रदीपः
      • दशाम् = अवस्थाम्
    • तेजस्त्रयाय = सूर्य-चन्द्र-अग्निभ्यः
    • प्ररोहैः = अङ्कुरैः
    • महसाम् = तेजसाम्
    • माणिक्यमन्दिरभुवाम् = मणिमयगृहप्रभवानाम्

अन्वयः

प्रशस्तविभवैः विबुधैः अलङ्घ्या, माणिक्यमन्दिरभुवां महसां प्ररोहैः तेजस्त्रयाय दिनदीपदशां दिशन्ती लङ्क्ता इति नाम रजनीचरराजधानी अस्ति

आकाङ्क्षा

  • अस्ति = विद्यते
    • का अस्ति ? रजनीचरराजधानी
      • कीदृशी रजनीचरराजधानी ? लङ्केति नाम
      • पुनः कीदृशी ? अलङ्घ्या
        • कैः अलङ्घ्या ? विबुधैः
          • कीदृशैः विबुधैः ? प्रशस्तविभवैः
        • किं कुर्वन्ती रजनीचरराजधानी ? दिशन्ती
          • किं दिशन्ती ? दिनदीपदशाम्
          • कस्मै दिशन्ती ? तेजस्त्रयाय
          • कथं दिशन्ती ? प्ररोहैः
            • केषां प्ररोहैः ? महसाम्
              • केषां महसाम् ? माणिक्यमन्दिरभुवाम्

तात्पर्यम्

लङ्कानाम्नी राक्षसानां प्रधाननगरी विद्यते, या प्रख्यातसम्पद्भिः देवैः अपि अतिशयितुम् अशक्या । तस्याः मणिमयभवनानां तेजसा सूर्य-चन्द्र-अग्नयः अपि दिनदीपाः इव निस्तेजसः दृश्यन्ते ।

पदविवरणम्

  • प्रशस्तविभवैः = प्रशस्तः विभवः येषां ते, तैः
  • विबुधैः = “अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः” (अमरः)
  • अलघ्ङ्घ्या
    • लङ्घ्या = लङ्घितुं शक्या । लङ्घ् “लघिँ गतौ भोजननिवृत्तौ च” (अत्र गतौ) + ण्यत् (कृत्)
    • अलघ्ङ्घ्या = न लङ्घ्या । नञ् तत्पुरुषसमासः ।
  • रजनीचरराजधानी
    • रजनीचराः = रजन्यां चरन्ति इति । रजनी + चर् “चरँ गतौ भक्षणे च” + ट (कृत्) । उपपदसमासः ।
    • रजनीचरराजधानी = रजनीचराणां राजधानी ।
  • माणिक्यमन्दिरभुवाम्
    • माणिक्यमन्दिराणि = माणिक्यमयानि अथवा माणिक्यप्रचुराणि मन्दिराणि । मध्यमपदलोपी कर्मधारयः ।
    • माणिक्यमन्दिरभुवाम् = माणिक्यमन्दिरं भूः येषां तानि, तेषाम्
  • महसाम् = सकारान्तः, नपुं., ष.वि., ब.व. । प्रथमाविभक्तौ – महः महसी महांसि । षष्ठीविभक्तौ महसः महसोः महसाम् । “महस्तूत्सवतेजसोः” (अमरः)
  • तेजस्त्रयाय = त्रयः अवयवाः यस्य । त्रि + तयप् (तद्धित) । तेजसां त्रयम्, तस्मै ।
  • दिनदीपदशाम्
    • दिनदीपः = दिने दीपः / दिनस्य दीपः ।
    • दिनदीपदशाम् = दिनदीपस्य दशा, ताम्
  • दिशन्ती = दिश् “दिशँ अतिसर्जने” + शतृ (कृत्) + ङीप् (स्त्री) । अतिसर्जनम् = त्यागः दानं च ।

रामायणप्रसङ्गः

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।
गृहैश्च ग्रहसंकाशैः शारदाम्बुदसन्निभैः । । ५-२-१६ ॥

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।
ददर्श हनुमान् लङ्कां दिवि देवपुरीं यथा ॥ ५-२-१८ ॥

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा ।
प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम् ॥ ५-२-२० ॥

अलङ्कारः

अतिशयोक्तिः अलङ्कारः

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • अस्ति = exists
  • रजनीचरराजधानी = the capital city (राजधानी) of the Rakshashaas (रजनीचर), who roam (चर) around in the night (रजनी)
    • लङ्का इति नाम = named Lanka
    • अलङ्घ्या = that which cannot be surpassed
      • विबुधैः = by the Devas
        • प्रशस्तविभवैः = by those who possess glorious (प्रशस्त) wealth (विभव) (like Airavatha, Kalpavruksha, Amaraavati, Uchhaihshrava)
      • तेजस्त्रयाय दिशन्ती = who is making (दिशन्ती) the three illuminant bodies (तेजस्त्रय) namely the sun, the moon and the fire
        • दिनदीपदशाम् = to take upon the state (दशा) of the lamp (दीप) that is lit in broad day light (दिन) – i.e., they are made unnoticeable and insignificant, losing the importance of their lusture
          • प्ररोहैः = by the sprouts
            • महसाम् = of the rays
              • माणिक्यमन्दिरभुवाम् = of the shining (भुव) ruby (माणिक्य) studded palaces (मन्दिर)

19.     श्लोकः

प्रस्तावना

रावणवर्णनस्य आरम्भः

मूलपाठः

एनां पुराणनगरीं नगरीतिसालां सालाभिरामभुजनिर्जितयक्षराजः ।
हेलाभिभूतजगतां रजनीचराणां राजा चिरादवति रावणनामधेयः ॥ १९ ॥

पदच्छेदः

एनाम्, पुराण-नगरीम्, नग-रीति-सालाम्, साल-अभिराम-भुज-निर्जित-यक्ष-राजः, हेला-अभिभूत-जगताम्, रजनी-चराणाम्, राजा, चिरात्, अवति, रावण-नामधेयः

अन्वयार्थः

  • अवति = पालयति
  • एनाम् = पूर्वोक्तां लङ्काम्
  • पुराणनगरीम् = पुरातनपुरीम्
  • नगरीतिसालाम् = पर्वतस्य आकृतिः यस्य तादृशः प्राकारः यस्याः ताम् । पर्वतोपमप्राकाराम् अतिदुर्गमाम् इत्यर्थः ।
    • नगस्य = पर्वतस्य
    • रीतिः = आकृतिः
    • सालः = प्राकारः
  • राजा = नृपः
  • रजनीचराणाम् = राक्षसानाम्
  • हेलाभिभूतजगताम् = लीलया तिरस्कृतानि लोकाः यैः तेषाम्
    • हेलया = लीलया
    • अभिभूतानि = तिरस्कृतानि / पराजितानि
    • जगन्ति = लोकाः यैः तेषाम्
  • रावणनामधेयः = रावणनामकः
  • सालाभिरामभुजनिर्जितयक्षराजः = सर्जवृक्षाः इव मनोज्ञाः बाहवः विंशतिसंख्याकाः तैः पराजितः कुबेरः येन तादृशः
    • सालाः = सर्जवृक्षाः
    • अभिरामाः = मनोज्ञाः
    • भुजाः = बाहवः विंशतिसंख्याकाः
    • निर्जितः = पराजितः
    • यक्षराजः = कुबेरः
  • चिरात् = बहोः कालात्

अन्वयः

एनां नगरीतिसालां पुराणनगरीं रावणनामधेयः, सालाभिरामभुजनिर्जितयक्षराजः, हेलाभिभूतजगतां रजनीचराणां राजा चिरात् अवति ।

आकाङ्क्षा

  • अवति = पालयति
    • कां अवति ? एनाम्
      • कीदृशीम् एनाम् ? पुराणनगरीम्
      • पुनः कीदृशीम् ? नगरीतिसालाम्
    • कः अवति ? राजा
      • केषां राजा ? रजनीचराणाम्
        • कीदृशानां रजनीचराणाम् ? हेलाभिभूतजगताम्
      • किंनामधेयो राजा ? रावणनामधेयः
      • कीदृशः राजा ? सालाभिरामभुजनिर्जितयक्षराजः
    • कदा अवति ? चिरात्

तात्पर्यम्

गिरिदुर्गैः आवृताम् इमां लङ्कानगरीं रावणो नाम राजा पालयति । सः रावणः स्वस्य सालवृक्षसदृशैः भुजैः यक्षराजं कुबेरं पराजितवान् । तस्य नेतृत्वे राक्षसाः सर्वान् लोकान् लीलया जितवन्तः ।

पदविवरणम्

  • एनाम् = एतद् / इदम् शब्दः, द्वि.वि., ए.व. । “द्वितीयाटौस्स्वेनः” (२.४.३४)
  • पुराणनगरीम् = पुरा भवा । पुरा + ट्यु (तद्धितः) + ङीप् (स्त्री) । पुराणी नगरी, ताम्
  • नगरीतिसालाम्
    • नगरीतिः = नगानां रीतिः यस्य सः
    • नगरीतिसालाम् = नगरीतिः सालः यस्याः सा, ताम् । “प्राकारो वरणः सालः” (अमरः)
  • सालाभिरामभुजनिर्जितयक्षराजः
    • सालाभिरामाः = सालाः इव अभिरामाः । कर्मधारयः ।
    • सालाभिरामभुजाः = सालाभिरामाः भुजाः । कर्मधारयः ।
    • सालाभिरामभुजनिर्जितः = सालाभिरामभुजैः निर्जितः
    • यक्षराजः = यक्षाणां राजा
    • सालाभिरामभुजनिर्जितयक्षराजः = सालाभिरामभुजनिर्जितः यक्षराजः येन सः । “साले तु सर्ज-कार्श्य-अश्वकर्णकाः सस्यसंवरः” (अमरः)
  • हेलाभिभूतजगताम्
    • हेलाभिभूतानि = हेलया अभिभूतानि
    • हेलाभिभूतजगताम् = हेलाभिभूतानि जगन्ति यैः ते, तेषाम् । तकारान्तः, पुं., ष.वि., ब.व. ।
  • रजनीचराणाम् = रजन्यां चरन्ति । रजनी + चर्+ट (कृत्) । उपपदसमासः
  • राजा = नकारान्तः, पुं., प्र.वि., ए.व. । “राजा राट्-पार्थिव-क्ष्माभृत्-नृप-भूप-महीक्षितः” (अमरः)
  • चिरात् = विभक्तिप्रतिरूपकम् अव्ययम् । “चिराय चिररात्राय चिरस्याद्याः चिरार्थकाः” (अमरः)
  • अवति = अव “अव रक्षणादौ” लट्, प्र.पु., ए.व.
  • रावणनामधेयः = रावणः नामधेयं यस्य सः । विश्रवसः अपत्यं पुमान् रावणः । विश्रवस् + अण् (तद्धितः), “विश्रवसो विश्रवणरवणौ” (ग.सू.४.१.११२) इति प्रकृतेः रवणादेशः – वैश्रवणः, रावणः । रावयतीति रावणः – रु “रु शब्दे”+णिच्+ल्युट् ।

रामायणप्रसङ्गः

शैलाक्रान्तेन यो मुक्तस्त्वया रावः सुदारुणः ।
यस्माल्लोकत्रयं चैतद्रावितं भयमागतम् ।
तस्मात्त्वं रावणो नाम नाम्ना वीर भविष्यसि । (रामा० ७.१६.४३)

Word-Meaning

  • राजा = the king
    • रजनीचराणाम् = of the demons
      • हेलाभिभूतजगताम् = of those who have conquered (अभिभूत) the worlds (जगत्) very easily (हेल)
    • रावणनामधेयः = He who has the name Ravana
    • सालाभिरामभुजनिर्जितयक्षराजः = He who has conquered (निर्जित) the king (राजा) of Yaksas (यक्ष), Kubera, with his (twenty) arms (भुज), which are captivating (अभिराम) like the Saala (साल) or the Sarja tree.
  • अवति = Protects
    • एनाम् = this one (the city of Lanka)
      • पुराणनगरीम् = an ancient city
      • नगरीतिसालाम् = that which has the form (रीति) of the mountain (नग) for its compound wall (साल)
    • चिरात् = for a long time

20.     श्लोकः

प्रस्तावना

रावणवर्णनम्

मूलपाठः

यद्बाहुराहुरसनायितशस्त्रधाराः दिक्पालकीर्तिमयचन्द्रमसं ग्रसन्ति ।

यद्वैरिणां रणमुखे शरणप्रदायी नैवास्ति कश्चिदमुमन्तकमन्तरेण ॥ २० ॥

पदच्छेदः

यद्-बाहु-राहु-रसनायित-शस्त्र-धाराः, दिक्पाल-कीर्तिमय-चन्द्रमसम्, ग्रसन्ति, यद्-वैरिणाम्, रण-मुखे, शरण-प्रदायी, न, एव, अस्ति, कश्चित्, अमुम्, अन्तकम्, अन्तरेण

अन्वयार्थः

  • ग्रसन्ति = गिलन्ति
  • यद्बाहुराहुरसनायितशस्त्रधाराः
    • यस्य = रावणस्य
    • बाहवः = भुजाः एव
    • राहवः = विधुन्द्तुदाः
    • तेषां रसनायिताः = जिह्वारूपाः
    • शस्त्रधाराः = आयुधश्रेणयः
  • दिक्पालकीर्तिमयचन्द्रमसम्
    • दिक्पालानाम् = इन्द्रादीनां दिगीश्वराणां
    • कीर्तिमयः = यशोरूपः, यः
    • चन्द्रमाः = इन्दुः, तम्
  • नैव अस्ति = सर्वथा न विद्यते
  • कश्चित् = यः कोऽपि
  • शरणप्रदायी = रक्षणशीलः
  • यद्वैरिणाम् – यस्य = रावणस्य, वैरिणाम् = शत्रूणाम्
  • रणमुखे = युद्धभूमेः अग्रभागे
  • अन्तरेण = विना
  • अमुम् = एनं (पुरःस्थितम्), अन्तकम् = यमम्

अन्वयः

यद्बाहुराहुरसनायितशस्त्रधाराः दिक्पालकीर्तिमयचन्द्रमसं ग्रसन्ति, अमुम् अन्तकम् अन्तरेण यद्वैरिणां रणमुखे शरणप्रदायी कश्चित् नैव अस्ति (तादृशः रावणनामधेयः अवति इति पूर्वश्लोकेन अन्वयः) ।

आकाङ्क्षा

  • ग्रसन्ति = गिलन्ति
    • के ग्रसन्ति ? यद्बाहुराहुरसनायितशस्त्रधाराः
    • किं ग्रसन्ति ? दिक्पालकीर्तिमयचन्द्रमसम्
  • नैव अस्ति
    • कः नैवास्ति ? कश्चित् शरणप्रदायी
      • केषां शरणप्रदायी ? यद्वैरिणाम्
      • कुत्र शरणप्रदायी ? रणमुखे
    • कम् अन्तरेण ? अमुम् अन्तकम् अन्तरेण

तात्पर्यम्

रावणस्य भुजाः एव राहुरूपाः, तैः गृहीतानि अस्त्राणि एव जिह्वारूपाणि, तैः इन्द्रादीनां दिक्पालकानां कीर्तिरूपः चन्द्रः कवलीक्रियते । रणाङ्गणे रावणस्य अरीन् त्रातुं कोऽपि न शक्नोति – सर्वेऽपि ते निश्चयेन यमलोकं प्राप्नुवन्ति ।

पदविवरणम्

  • यद्बाहुराहुरसनायितशस्त्रधाराः
    • यद्बाहवः = यस्यः बाहवः
    • यद्बाहुरावः = यद्बाहवः एव राहवः
    • रसनायिताः = रसना इव आचरन्ति । रसना + क्यप् (नामधातुः) + कर्तरि क्तः (कृत्)
    • यद्बाहुराहुरसनायिताः = यद्बाहुराहूणां रसनायिताः
    • शस्त्रधाराः = शस्त्राणां धाराः
    • यद्बाहुराहुरसनायितशस्त्रधाराः = यद्बाहुराहुरसनायिताः शस्त्रधाराः ।
  • दिक्पालकीर्तिमयचन्द्रमसम्
    • दिक्पालाः = दिशां पालाः
    • दिक्पालकीर्तिमयः = दिक्पालानां कीर्तिमयः
    • दिक्पालकीर्तिमयचन्द्रमसम् = दिक्पालकीर्तिमयः चन्द्रमाः, तम् । सकारान्तः, पुं., द्वि.वि., ए.व. । “हिमांशुः चन्द्रमाः चन्द्रः इन्दुः कुमुदबान्धवः” (अमरः)
  • ग्रसन्ति = ग्रस् “ग्रसुँ अदने” । लट्., प्र.पु., ब.व.
  • यद्वैरिणाम् = यस्य वैरिणः, तेषाम् । नकारान्तः, पुं., तृ.वि., ब.व.
  • रणमुखे = रणस्य मुखम्, तस्मिन्
  • शरणप्रदायी = शरणं प्रदातुं शीलं यस्य सः । शरण +प्र + दा “डुदाञ् दाने” + णिनिः (कृत्) । उपपदसमासः । नकारान्तः, पुं., प्र.वि., ए.व.
  • अमुम् = सकारान्तः ‘अदस्’ शब्दः, पुं., द्वि. वि., ए.व.
  • अन्तकम् = “कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः” (अमरः)
  • अन्तरेण = विभक्तिप्रतिरूपकम् अव्ययम् । “अन्तरान्तरेण युक्ते” (२.३.४) अन्तरेण पदस्य योगे द्वितीयाविभक्तिः प्रयोक्तव्यम् ।

अलङ्कारः

रूपकालङ्कारः

Word-Meaning

  • यद्बाहुराहुरसनायितशस्त्रधाराः = the streams (धार) of weapons (शस्त्र), which are the tongues of the serpents (राहु), which are verily the arms (बाहु) of this person (यत्)
    • ग्रसन्ति = swallows
      • दिक्पालकीर्तिमयचन्द्रमसम् = the moon which is the fame of the protectors of the eight directions
    • कश्चित् = Any person
      • शरणप्रदायी = who is the giver (प्रदायिन्) of refuge (शरण)
        • यद्वैरिणाम् = of his (यत्) enemies (वैरिन्)
        • रणमुखे = in the forefront (मुख) of the battlefield (रण)
      • नैव अस्ति = does not exist
        • अन्तरेण = except
          • अमुम् = this
          • अन्तकम् = yama

कक्ष्या ११ – २२.०१.२०१८

21.     श्लोकः

प्रस्तावना

ब्रह्मणः वरेण रावणस्य दौर्जन्यम्

मूलपाठः

अम्भोजसम्भवममुं बहुभिस्तपोभिः

आराधयन् वरमवाप परैर्दुरापम् ।

तस्मादशेषभुवनं निजशासनस्य

लक्ष्यीकरोति रजनीचरचक्रवर्ती ॥ २१ ॥

पदच्छेदः

अम्भोज-सम्भवम्, अमुम्, बहुभिः, तपोभिः, आराधयन्, वरम्, अवाप, परैः, दुरापम् । तस्मात्, अशेष-भुवनम्, निज-शासनस्य, लक्ष्यीकरोति, रजनी-चर-चक्रवर्ती

अन्वयार्थः

  • अवाप = प्राप्नोत्
  • रजनीचरचक्रवर्ती = राक्षससार्वभौमः रावणः
  • वरम् = नरवानरौ अन्तरेण अन्यैः अवध्यत्वरूपं वरम्
  • परैः = अन्यैः
  • दुरापम् = लब्धुमशक्यम्
  • आराधयन् = पूजयन्
  • अमुम् = एतम् (पुरःस्थितम्)
  • अम्भोजसम्भवम् = कमलभुवं ब्रह्माणम्
  • बहुभिः = अनेकैः
  • तपोभिः = उग्रतपश्चर्याभिः
  • तस्मात् = तेन कारणेन
  • लक्ष्यीकरोति = विषयीकरोति
  • अशेषभुवनम्
    • अशेषम् = निखिलम्
    • भुवनम् = प्रपञ्चम्
  • निजशासनस्य = स्वस्य आज्ञायाः

अन्वयः

रजनीचरचक्रवर्ती अमुम् अम्भोजसम्भवं बहुभिः तपोभिः आराधयन् परैः दुरापं वरम् अवाप । तस्माद् अशेषभुवनं निजशासनस्य लक्ष्यीकरोति ।

आकाङ्क्षा

  • अवाप
    • कः अवाप ? रजनीचरचक्रवर्ती
    • किम् अवाप ? वरम्
      • कीदृशं वरम् ? दुरापम्
        • कैः दुरापम् ? परैः
      • किं कुर्वन् अथवा कथम् अवाप ? आराधयन्
    • कम् आराधयन् ? अमुम् = एतम् (पुरःस्थितम्), अम्भोजसम्भवम् = कमलभुवं ब्रह्माणम्
    • कैः आराधयन् ? तपोभिः
      • कीदृशैः तपोभिः ? बहुभिः
    • तस्मात् .. लक्ष्यीकरोति
      • किं लक्ष्यीकरोति ? अशेषभुवनम्
      • कस्य लक्ष्यीकरोति ? निजशासनस्य

तात्पर्यम्

राक्षससार्वभौमो रावणः उग्रतपसा ब्रह्माणं प्रसाद्य अन्यैः प्राप्तुं दुःशकम् अवध्यत्वरूपं वरं प्राप्तवान् । तेन वरेण दृप्तः सर्वान् लोकान् स्वाधीनान् करोति ।

पदविवरणम्

  • अम्भोजसम्भवम् = अम्भोजे सम्भवः यस्य सः, तम् ।
  • तपोभिः = “तपस्” सकारान्तः, नपुं, तृ.वि., ब.व.
  • आराधयन् = आ+ राध् “राधँ संसिद्धौ” + णिच् + शतृ (कृत्) । तकारान्तः, पुं., प्र.वि., ए.व.
  • अवाप = अव + आप् “आपॢँ व्याप्तौ” लिट्., प्र.पु., ए.व.
  • दुरापम् = दुःखेन आप्तुं शक्यम् । दुस् + आप् “आपॢँ व्याप्तौ” + खल् (ईषद्-दुः-सुषु कृच्छ्र-अकृच्छ्रार्थेषु खल्)
  • अशेषभुवनम्
    • अशेषम् = नास्ति शेषः यस्य तत्
    • अशेषभुवनम् = अशेषं भुवनम्
  • लक्ष्यीकरोति = अलक्ष्यं लक्ष्यं करोति । अभूततद्भावे च्विः (कृत्) ।
  • रजनीचरचक्रवर्ती = नकारान्तः पुं., प्र.वि., ए.व. । रजन्यां चरन्ति, रजनीचराणां चक्रवर्ती ।

रामायणप्रसङ्गः

  • भगवन् त्वत्प्रसादेन रावणो नाम राक्षसः ।
    सर्वान् नो बाधते वीर्यात् शासितुं तं न शक्नुमः ॥ (बाल० १५.६)
  • उद्वेजयति लोकान् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः ।
    शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥ (बाल० १५.८)

Word-Meaning

  • रजनीचरचक्रवर्ती = Ravana, the emperor of the demons
  • अवाप = obtained
    • वरम् = boon
      • परैः दुरापम् = that which is very difficult to be obtained by others
    • आराधयन् = by worshipping
    • बहुभिः तपोभिः = through a lot of tough austerities
    • अमुम् अम्भोजसंभवम् = this Brahma, one who is born out of lotus
  • तस्मात् = So
    • लक्ष्यीकरोति = He targets
    • अशेषभुवनं = the whole world
    • निजशासनस्य = for his own rule (i.e., brought the entire world under his control)

गद्यम्

मूलपाठः

तेन वयं पराधीना इव भवामः ।

पदच्छेदः

तेन, वयम्, पराधीनाः, इव, भवामः ।

अन्वयार्थः

  • तेन = रावणेन
  • वयम् = देवाः
  • पराधीनाः इव = परतन्त्राः इव
  • भवामः = वर्तामहे

अन्वयः

तेन वयं पराधीनाः इव भवामः ।

आकाङ्क्षा

  • भवामः
    • के भवामः ? वयम्
    • कथमिव भवामः ? पराधीनाः इव
    • केन कारणेन तादृशं भवामः ? तेन

तात्पर्यम्

रावणस्य पराक्रमेण भीताः वयं तदाज्ञावर्तिनः, तदधीना इव स्मः । वस्तुतस्तु भवत्परतन्त्रा एव वयमिति ध्वनिः ।

रामायणप्रसङ्गः

नैनं सूर्यं प्रतपति पार्श्वे वाति न मारुतः ।

चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥ (बाल० १५.१०)

Word-Meaning

  • तेन = Because of that
  • वयम् = we
  • भवामः = are
  • पराधीनाः इव = as though we are under the control of another person

गद्यम्

प्रस्तावना

मूलपाठः

तथा हि

सोऽयं कदाचित् क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्यां सञ्चरेत चेदागमिष्यत्याग इत्यनाविष्कृतातपो भयेन भगवान् सहस्रभानुरपि सङ्कुचितभानुरेव तत्सानूनि नूनं संश्रयते ।

पदच्छेदः

सः, अयम्, कदाचित्, क्रीडा-धराधरम्, आरुह्य, स-अवरोध-वधू-जनः, चरणाभ्याम्, सञ्चरेत, चेत्, आगमिष्यति, आगः, इति, अनाविष्कृत-आतपः, भयेन, भगवान्, सहस्र-भानुः, अपि, सङ्कुचित-भानुः, एव, तत्-सानूनि, नूनम्, संश्रयते

अन्वयार्थः

  • सोऽयम् = रावणः
  • कदाचित् = कस्मिंश्चित् समये
  • क्रीडाधराधरम् = लीलापर्वतम्
  • आरुह्य = अधिरुह्य
  • सावरोधवधूजनः = अन्तःपुरस्त्रीभिः सहितः
  • चरणाभ्याम् = पादाभ्याम्
  • सञ्चरेत चेत् = विहरेत् यदि
  • आगः = अपराधः
  • आगमिष्यति = सम्भविष्यति
  • इति = इति मत्वा
  • भयेन = भीत्या
  • अनाविष्कृतातपः = अप्रकटित-द्योतः
  • भगवान् = पूज्यः
  • सहस्रभानुः अपि = सूर्यः अपि
  • सङ्कुचितभानुः एव = उपसंहृतमरीचिः एव
  • तत्सानूनि = क्रीडापर्वतस्य प्रस्थान् (अधःप्रदेशान्)
  • नूनम् = निश्चयेन
  • संश्रयते = आश्रयति

अन्वयः

सोऽयं सावरोधवधूजनः चरणाभ्याम् कदाचित् क्रीडाधराधरम् आरुह्य सञ्चरेत चेत्, भगवान् सहस्रभानुः अपि आगः आगमिष्यति इति भयेन अनाविष्कृतातपः सङ्कुचितभानुः एव तत्सानूनि नूनं संश्रयते ।

आकाङ्क्षा

  • संश्रयते
    • कथं संश्रयते ? नूनम्
    • कः संश्रयते ? सहस्रभानुः अपि
      • कीदृशः सहस्रभानुः ? भगवान्
      • कथंभूतः सहस्रभानुः ? अनाविष्कृतातपः
        • कथं अनाविष्कृतातपः ? सङ्कुचितभानुः एव
      • कुत्र अथवा कानि संश्रयते ? तत्सानूनि
      • केन कारणेन संश्रयते ? भयेन
        • किमिति भयेन ? आगमिष्यति इति
          • कः आगमिष्यति इति ? आगः
          • कदा आगमिष्यति इति ? सञ्चरेत चेत्
            • कः सञ्चरेत चेत् ? सोऽयम्
              • कथम्भूतः सः ? सावरोधवधूजनः
            • काभ्यां सञ्चरेत चेत् ? चरणाभ्याम्
            • कदा सञ्चरेत चेत् ? कदाचित्
            • किं कृत्वा सञ्चरेत चेत् ? आरुह्य
              • कुत्र अथवा किम् आरुह्य ? क्रीडाधराधरम्

तात्पर्यम्

यदा रावणः अन्तःपुरस्त्रीभिः सह क्रीडपर्वतम् आरुह्य पद्भ्यां विहरति, तदा तस्य कोपभयेन सूर्यः स्वस्य आतपं संहृत्य सङ्कुचितकिरणः पर्वतस्य अधोभागम् आश्रयति ।

रावणस्य विहारकाले दण्डभीत्या जगत्प्रकाशकोऽपि सूर्यः निलीय आत्मनः प्रकाशं संहरति इत्यर्थः ।

पदविवरणम्

  • सावरोधवधूजनः
    • अवरोधवध्वः = अवरोधस्य वध्वः
    • अवरोधवधूजनः = अवरोधवध्वः एव जनः
    • सावरोधवधूजनः = अवरोधवधूजनेन सह ।
  • आगः = “आगोऽपराधो मन्तुश्च” (अमरः)
  • अनाविष्कृतातपः
    • अनाविष्कृतः = न आविष्कृतः ।
    • अनाविष्कृतातपः = अनाविष्कृतः आतपः येन सः । “प्रकाशो द्योत आतपः” (अमरः)
  • सहस्रभानुः = सहस्रं भानवः यस्य सः । “भानुर्हंसः सहस्रांशुः तपनः सविता रविः” (अमरः)
  • सङ्कुचितभानुः = सङ्कुचिताः भानवः यस्य सः । “भानुः करो मरीचिः” (अमरः)
  • तत्सानूनि
    • सानूनि = सानु उकारान्तः नपुं., द्वि.व., ब.व. । प्रथमाविभक्तौ – सानु सानुनी सानूनि ।
    • तत्सानूनि = तस्य सानूनि

अलङ्कारः

  • अनुप्रासः
  • अतिशयोक्तिः ।

रामायणप्रसङ्गः

नैनं सूर्यं प्रतपति … ॥ (बाल० १५.१०)

Word-Meaning

  • सः अयम् = Ravana
  • कदाचित् = sometimes
  • सञ्जरेत चेत् = If he moves around
    • चरणाभ्याम् = on his feet
    • आरुह्य = having climbed
    • क्रीडाधराधरम् = a hill station for enjoyment
    • सावरोधवधूजनः = along with his women folk
  • भयेन = due to the fear
    • इति = that
    • आगः आगमिष्यति = a trouble (आग) will come (आ+गम्) (i.e., I will be blamed for a crime)
      • अपि = even
      • भगवान् = the respected and worshiped
        • सहस्रभानुः = Sun, he who has thousands of rays
        • सङ्कुचितभानुः एव = becoming one who has withdrawn the rays
        • अनाविष्कृतातपः = becoming one who has not exposed the heat
      • नूनम् = definitely
        • संश्रयते = takes refuge there (to avoid incurring his wrath).
          • तत्सानूनि = in that mountain’s (तत्) the slopes (सानूनि)

कक्ष्या १२ – १९.०२.२०१८

गद्यम्

प्रस्तावना

रावणं प्रसादयितुं चन्द्रस्य प्रयत्नः

मूलपाठः

एष मृगाङ्कोऽपि मृगयायासपरिश्रान्तिविश्रान्त्यै ससम्भ्रमं नमज्जनपरिवृते मज्जनगृहाभिमुखे दशमुखे तत्रत्यविचित्रतरशातकुम्भस्तम्भाग्रप्रत्यग्रप्रत्युप्त-स्फटिकशिलाशालभञ्जिकापुञ्जकरतलकलितनिजोपलमयकलशमुखादच्छाच्छामविच्छिन्नधारामम्बुधारां निजकराभिमर्शादापादयंस्तस्य प्रसादपिशुनानां शुनासीरचिरकाङ्क्षितानां विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।

पदच्छेदः

एषः, मृगाङ्कः, अपि, मृगया-आयास-परिश्रान्ति-विश्रान्त्यै, ससम्भ्रमम्, नमत्-जन-परिवृते, मज्जन-गृह-अभिमुखे, दश-मुखे, तत्रत्य-विचित्रतर-शातकुम्भ-स्तम्भ-अग्र-प्रत्यग्र-प्रत्युप्त-स्फटिक-शिला-शालभञ्जिका-पुञ्ज-करतल-कलित-निज-उपलमय-कलश-मुखाद्, अच्छ-अच्छाम्, अविच्छिन्न-धाराम्, अम्बु-धाराम्, निज-कर-अभिमर्शाद्, आपादयन्, तस्य, प्रसाद-पिशुनानाम्, शुनासीर-चिर-काङ्क्षितानाम्, विंशति-विध-वीक्षणानाम्, क्षणमात्रम्, पात्रम्, भवति

सन्धिः

  • आपादयंस्तस्य = आपादयन् + तस्य, सत्वसन्धिः । न् + च, छ, ट, ठ, त, थ => ं + स्

अन्वयार्थः

  • एषः = अयम्
  • मॄगाङ्कः अपि = चन्द्रः अपि
  • मृगयया = आखेटेन, यः आयासः = श्रमः, तेन या परिश्रान्तिः = खेदातिरेकः, तस्याः विश्रान्त्यै = विश्रमार्थम्
  • ससम्भ्रमम् = सत्वरम्
  • नमज्जनपरिवृते – नमद्भिः = वन्दमानैः, जनैः = परिचरैः, परिवृते = परिवेष्टिते
  • दशमुखे = रावणे
  • मज्जनगृहाभिमुखे = स्नानमण्डपोन्मुखे सति
  • तत्रत्याः = स्नानगृहस्थाः
  • विचित्रतराः = अत्यन्त-आश्चर्यकराः
  • शातकुम्भस्तम्भाग्रेषु = हिरण्मय-स्तम्भानाम् उपरिभागे
  • प्रत्यग्रप्रत्युप्तः = नूतनतया प्रतिष्ठापितः
  • स्फटिकशिला-शालभञ्जिका-पुञ्जः = स्फटिकमणिनिर्मितानां सुन्दरस्त्रीविग्रहाणां समूहः
  • करतलकलिताः = (तेषां विग्रहाणां) हस्तेषु गृहीताः
  • निजोपलमयकलशाः = चन्द्रकान्तशिलानिर्मिताः घटाः, तेषां
  • मुखाद् = मुखरूपविवरात्
  • अच्छाच्छाम् = अत्यन्तनिर्मलाम्
  • अविच्छिन्नधाराम् = अखण्डप्रवाहाम्
  • अम्बुधाराम् = जलधाराम्
  • निजकराभिमर्शाद् = स्वस्य (चन्द्रस्य), कराणाम् = किरणानां, अभिमर्शात् = स्पर्शाद्
  • आपादयन् = उत्पादयन्
  • तस्य = रावणस्य
  • प्रसादपिशुनानाम् = अनुग्रहसूचकानाम्
  • शुनासीरचिरकाङ्क्षितानाम् – शुनासीरेण = देवराजेन इन्द्रेण, चिरम् = बहोः कालात्, काङ्क्षितानाम् = अभिलषितानाम् (न तु प्राप्तानाम्)
  • विंशतिविधवीक्षणानाम् = विंशतिसंख्याकानां कटाक्षाणाम्
  • क्षणमात्रम् = अल्पकालम्
  • पात्रम् भवति = योग्यः भवति

अन्वयः

एषः मॄगाङ्कः अपि, मृगया-आयास-परिश्रान्ति-विश्रान्त्यै नमज्जनपरिवृते दशमुखे मज्जनगृहाभिमुखे (सति), अच्छाच्छाम् अविच्छिन्न-धाराम् अम्बुधारां ससम्भ्रमं तत्रत्य-विचित्रतर-शातकुम्भ-स्तम्भ-अग्र-प्रत्यग्र-प्रत्युप्त-स्फटिक-शिला-शालभञ्जिका-पुञ्ज-करतल-कलित-निज-उपलमय-कलश-मुखाद् आपादयन्, शुनासीरचिरकाङ्क्षितानां प्रसादपिशुनानां तस्य विंशतिविधवीक्षणानां क्षणमात्रं पात्रं भवति ।

आकाङ्क्षा

  • भवति
    • कियत् कालं भवति ? क्षणमात्रम्
    • किं भवति ? पात्रम्
      • केषां पात्रम् ? विंशतिविधवीक्षणानाम्
        • कस्य विंशतिविधवीक्षणानाम् ? तस्य
        • कीदृशानां विंशतिविधवीक्षणानाम् ? प्रसादपिशुनानाम्
        • पुनः कीदृशानां विंशतिविधवीक्षणानाम् ? शुनासीरचिरकाङ्क्षितानाम्
      • कः भवति ? एषः
        • कः एषः ? मॄगाङ्कः अपि
        • किं कुर्वन् एषः ? आपादयन्
          • किम् आपादयन् ? अम्बुधाराम्
            • कीदृशम् अम्बुधाराम् ? अच्छाच्छाम्
            • पुनः कीदृशम् अम्बुधाराम् ? अविच्छिन्न-धाराम्
          • कस्मात् आपादयन् ? तत्रत्य-विचित्रतर-शातकुम्भ-स्तम्भ-अग्र-प्रत्यग्र-प्रत्युप्त-स्फटिक-शिला-शालभञ्जिका-पुञ्ज-करतल-कलित-निज-उपलमय-कलश-मुखात्
          • कदा आपादयन् ? मज्जनगृहाभिमुखे (सति)
            • कस्मिन् मज्जनगृहाभिमुखे (सति) ? दशमुखे
              • कीदृशे दशमुखे ? नमज्जनपरिवृते
                • कथं नमज्जनपरिवृते ? ससम्भ्रमम्
              • किमर्थं मज्जनगृहाभिमुखे (सति) ? मृगया-आयास-परिश्रान्ति-विश्रान्त्यै

तात्पर्यम्

रावणः मृगयां समाप्य श्रान्तः सन् निवृत्य स्नानगृहं प्रति गच्छति । तस्य स्नानगृहे स्वर्णस्तम्भेषु नूतनतया प्रतिष्ठापिताः स्फटिकनिर्मिताः सुन्दरस्त्रीविग्रहाः विद्यन्ते । तासां स्त्रीणां हस्तेषु चन्द्रकान्तशिलानिर्मिताः घटाः सन्ति । रावणस्य स्नानार्थं चन्द्रः स्वस्य किरणैः तेभ्यः घटेभ्यः निर्मलजलस्य सततप्रवाहं कल्पयति । तदा प्रसन्नः रावणः क्षणमात्रं स्वस्य विंशत्या नेत्रैः चन्द्रं वीक्षते चेत् चन्द्रस्य कृतकृत्यभावना उत्पद्यते, यतो हि देवराजः इन्द्रोऽपि बहोः कालात् रावणस्य अनुग्रहकटाक्षं काङ्क्षमाणः प्राप्तुं न शक्तवान् अस्ति ।

पदविवरणम्

  • मृगाङ्कः = मृगः अङ्कः यस्य सः । “अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः” (अमरः)
  • मृगया = मृग्यन्ते पशवः अस्याम् । मृग “मृग अन्वेषणे” + णिच् + श (कृत्) । “आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्” (अमरः)
  • विश्रान्त्यै = वि + श्रम् “श्रमुँ तपसि खेदे च” + क्तिन् । इकारान्तः, स्त्री.लि., च.वि., ए.व.
  • ससम्भ्रमम् = सम्भ्रमेण सह, अव्ययीभावः
  • नमज्जनपरिवृते = नमन्तः जनाः, नमज्जनैः परिवृतः तस्मिन्
  • शातकुम्भम् = “स्वर्णं सुवर्णं कनकम्… तपनीयं शातकुम्भम्” (अमरः)
  • प्रत्यग्रः = “प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः” (अमरः)
  • शालभञ्जिका = शालेन वृक्षेण भज्यते निर्मीयते इति । “वृक्षो महीरुहः शाखी…. अनोकहः कुटः शालः” (अमरः)
  • अविच्छिन्नधाराम् = अविच्छिन्ना धारा यस्याः सा, ताम्
  • अम्बुधाराम् = अम्बूनां धारा, ताम् । “अम्भोऽर्णः तोय-पानीय-नीर-क्षीर-अम्बु-शम्बरम्” (अमरः) । अम्बु, अम्बुनी, अम्बूनि
  • अभिमर्शः = मृश् “मृ॒शँ आमर्शणे” तुदादिः । आमर्शनम् = स्पर्शः । घञ्
  • आपादयन् = आ + पद् “पदँ गतौ” + णिच् + शतृ । तकारान्तः, पुं., प्र.वि., ए.व.
  • प्रसादपिशुनानाम् = प्रसादस्य पिशुनाः, तेषाम् । “पिशुनौ खल-सूचकौ” (अमरः)
  • विंशतिविधवीक्षणानाम्
    • विंशतिविधानि = विंशतिः विधाः येषां तानि,
    • विंशतिविधवीक्षणानाम् = विंशतिविधानि वीक्षणानि, तेषाम् ।
  • क्षणमात्रम् = क्षणं मात्रम्, “मात्रं कार्त्स्न्येऽवधारणे” (अमरः)
  • पात्रम् = “योग्यभाजनयोः पात्रम्” (अमरः)

Word-Meaning

  • एषः मॄगाङ्कः अपि = Even this Chandra, one who has the sign (अङ्क) of the deer (मॄग)
  • ससम्भ्रमं नमज्जनपरिवृते दशमुखे मज्जनगृहाभिमुखे (सति) = when Ravana (दशमुख), who is surrounded (परिवृत) hastily (ससम्भ्रम) by the servants (जन) who are

bowing (नमन्) at him, went towards (अभिमुख) the bathing room (मज्जनगृह)

  • मृगया-आयास-परिश्रान्ति-विश्रान्त्यै = for relieving (विश्रान्ति) the exhaustion (परिश्रान्ति) due to the fatigue (आयास) caused by hunting (मृगया)
  • आपादयन् = generating
    • अम्बुधाराम् = the stream (धारा) of water (अम्बु)
    • अविच्छिन्न-धाराम् = that flow (धारा) which is without any break (अविच्छिन्न)
    • अच्छाच्छाम् = that were extremely pure (अच्छ-अच्छा)
    • तत्रत्य-विचित्रतर-शातकुम्भ-स्तम्भ-अग्र-प्रत्यग्र-प्रत्युप्त-स्फटिक-शिला-शालभञ्जिका-पुञ्ज-करतल-कलित-निज-उपलमय-कलश-मुखाद्
      • मुखाद् = from the openings or the mouths (मुख) of
      • निजोपलमयकलशाः = the pots (कलशाः) that were made of (मय) Chandrakanthamani, which are Chandra’s his own (निज) stone (उपल)
      • करतलकलिताः = those that were held (कलित) in the hands (करतल) of
      • स्फटिकशिला-शालभञ्जिका-पुञ्जः = the collection (पुञ्ज) of the sculpted images of beautiful damsels (शालभञ्जिका) (usually made from the wood शाल tree) of made of crystal rocks (स्फटिकशिला)
      • प्रत्यग्रप्रत्युप्तः = that were newly (प्रत्यग्र) installed (प्रत्युप्त)
      • शातकुम्भस्तम्भाग्रेषु = at the top (अग्र) of the golden (शातकुम्भ) pillars (स्तम्भ)
      • तत्रत्याः = those that were present there (in the bath house)
      • विचित्रतराः = those that were extremely astonishing
    • निजकराभिमर्शाद् = by means of the touch (अभिमर्श) of his (निज) rays (कर)
    • पात्रं भवति = became the suitable recipient
      • क्षणमात्रम् = for a short duration
      • विंशतिविधवीक्षणानाम् = of the sight (वीक्षण) by the eyes numbering (विध) twenty (विंशति)
      • तस्य प्रसादपिशुनानाम् = of those that show (प्रसाद) his (तत्) (Ravana’s) gratification (पिशुन)
      • शुनासीरचिरकाङ्क्षितानाम् = of those that were wished (काङ्क्षित) for by Indira (शुनासीर) for a very long time (चिर)

गद्यम्

प्रस्तावना

रावणाद् भीताः मरुतः

मूलपाठः

तेन पुलस्त्यनन्दनेन सङ्क्रन्दननन्दनात्स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतरुवृन्दस्य बन्दीकृतसुरसुन्दरीनयनेन्दीवरद्वन्द्वाच्च करारविन्दकलितकनककलशाच्च मन्दोष्णं स्यन्दमानैरम्बुभिर्जम्बालितालवालस्य पचेलिमानामपि कुसुमानां पतनभयमाशङ्कमानाः पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति ।

पदच्छेदः

तेन, पुलस्त्य-नन्दनेन, सङ्क्रन्दन-नन्दनात्, स्व-मन्दिर-उद्यानम्, आनीतस्य, मन्दार-प्रमुखस्य, वृन्दारक-तरु-वृन्दस्य, बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात्, च, कर-अरविन्द-कलित-कनक-कलशात्, च, मन्द-उष्णम्, स्यन्दमानैः, अम्बुभिः, जम्बालित-आलवालस्य, पचेलिमानाम्, अपि, कुसुमानाम्, पतन-भयम्, आशङ्कमानाः, पवमानाः, परिस्पन्दितुम्, अपि, प्रभवः, न, भवन्ति ।

अन्वयार्थः

  • तेन = रावणेन
  • पुलस्त्यनन्दनेन = विश्रवसः पुत्रेण
  • सङ्क्रन्दननन्दनात् = इन्द्रस्य नन्दनवनात्
  • स्वमन्दिरोद्यानम् = निजगृहस्य आरामं प्रति
  • आनीतस्य = प्रापितस्य
  • मन्दारप्रमुखस्य = “पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ” (अमरः)
  • वृन्दारकतरुवृन्दस्य = देववृक्षसमूहस्य
  • बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात्
    • बन्दीकृताः = बलेन निरुद्धाः, याः सुरसुन्दर्यः = देवकन्याः, तासां नयनेन्दीवरद्वन्द्वात् = नेत्रोत्पलयुगलात्
  • कर-अरविन्द-कलित-कनक-कलशात्
    • करारविन्देषु = हस्तपद्मेषु, कलितः = गृहीतः, यः कनककलशः = स्वर्णकुम्भः, तस्मात् बन्दीकृताः देवकन्याः उद्याने जलसेचनकार्ये नियुक्ताः इत्यर्थः
  • मन्दोष्णम् = ईषदुष्णम् (कलशोदकं शीतम्, तासां बाष्पोदकं च उष्णम्)
  • स्यन्दमानैः = प्रसवद्भिः
  • अम्बुभिः = जलैः
  • जम्बालितालवालस्य
    • जम्बालितानि = पङ्कीकृतानि, आलवालानि = जलाधारमूलवलयानि, यस्य तस्य
    • मन्दारादीनां देववृक्षाणां मूलानि जलसेचने नियुक्तानां देवसुन्दरीणां बाष्पजलेन कलशोदकेन च संमिश्रितेन पङ्कीकृतानि इत्यर्थः
  • पचेलिमानाम् अपि = पतनोन्मुखानाम् अपि
  • कुसुमानाम् = पुष्पाणाम्
  • पतनभयम् = अधःपातम्
  • आशङ्कमानाः = आतङ्किताः
  • पवमानाः = मरुतः
  • परिस्पन्दितुम् अपि = चलितुम् अपि
  • प्रभवः = समर्थाः
  • न भवन्ति = न विद्यन्ते

अन्वयः

तेन पुलस्त्यनन्दनेन सङ्क्रन्दननन्दनात् स्वमन्दिरोद्यानम् (प्रति) आनीतस्य, मन्दारप्रमुखस्य, वृन्दारकतरुवृन्दस्य बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात्, कर-अरविन्द-कलित-कनक-कलशात् च, मन्दोष्णम् स्यन्दमानैः अम्बुभिः जम्बालितालवालस्य, पचेलिमानाम् अपि कुसुमानाम् पतनभयम् आशङ्कमानाः पवमानाः परिस्पन्दितुम् अपि प्रभवः न भवन्ति ।

आकाङ्क्षा

  • प्रभवः न भवन्ति
    • किं कर्तुं प्रभवः न भवन्ति ? परिस्पन्दितुम् अपि
    • के ? पवमानाः
      • कीदृशाः पवमानाः ? आशङ्कमानाः
        • किम् आशङ्कमानाः ? पतनभयम्
          • केषां पतनम् ? कुसुमानाम्
            • कीदृशां कुसुमानाम् ? पचेलिमानाम् अपि
            • कस्य कुसुमानाम् ? वृन्दारकतरुवृन्दस्य
              • कीदृशस्य वृन्दारकतरुवृन्दस्य ? मन्दारप्रमुखस्य
              • पुनः कीदृशस्य वृन्दारकतरुवृन्दस्य ? आनीतस्य
                • केन आनीतस्य ? तेन
                  • केन तेन ? पुलस्त्यनन्दनेन
                • कुतः आनीतस्य ? सङ्क्रन्दननन्दनात्
                • कुत्र आनीतस्य ? स्वमन्दिरोद्यानम् (प्रति)
              • कथम्भुतस्य वृन्दारकतरुवृन्दस्य ? जम्बालितालवालस्य
                • कैः जम्बालितम् ? अम्बुभिः
                  • कीदृशैः अम्बुभिः ? स्यन्दमानैः
                    • कथं स्यन्दमानैः ? मन्दोष्णम्
                    • कस्मात् स्यन्दमानैः ? बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात्
                    • पुनः कस्मात् स्यन्दमानैः ? कर-अरविन्द-कलित-कनक-कलशात् च

तात्पर्यम्

रावणः इन्द्रं पराजित्य तस्य नन्दनवनात् मन्दारादीन् देववृक्षान् अपहृत्य स्वस्य गृहोद्याने स्थापितवान् । बन्दीकृताः सुरसुन्दरीश्च तेषां वृक्षाणां जलसेचनकार्ये नियोजितवान् । जलसेचनकाले शीतेन कलशोदकेन सह तासां बाष्पोदकस्य मिश्रणेन कदुष्णं जलं वृक्षाणाम् मूले पतति, येन तेषाम् आलवालानि पङ्कीकृतानि । तद्वृक्षाणां सुपक्वानामपि पुष्पाणां पतनं रावणस्य क्रोधमुत्पादयेदिति भिया मरुतः चलितुमपि असमर्थाः, किमुत यथेच्छं विहर्तुम् ?!

पदविवरणम्

  • पुलस्त्यनन्दनेन = पुलस्त्यस्य नन्दनः, तेन
  • सङ्क्रन्दननन्दनात् = सङ्क्रन्दनस्य नन्दनम्, तस्मात् । “सङ्क्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः” (अमरः)
  • वृन्दारकतरुवृन्दस्य = वृन्दारकाणां तरवः, वृन्दारकतरूणां वृन्दः, तस्य । “वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्” (अमरः)
  • बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात्
    • सुराणां सुन्दर्यः,
    • बन्दीकृताः सुरसुन्दर्यः,
    • नयनम् इन्दीवरम् इव,
    • नयनेन्दीवरस्य द्वन्द्वम्,
    • बन्दीकृतसुरसुन्दरीणां नयनेन्दीवरद्वन्द्वम्, तस्मात् । “लोचनं नयनं नेत्रम् ईक्षणं चक्षुरक्षिणी”, “नीलाम्बुजन्म च इन्दीवरं च” (अमरः)
  • मन्दोष्णम् = “कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति” (अमरः)
  • स्यन्दमानैः = स्यन्द् “स्यन्दूँ प्रस्रवणे” + शानच् (कृत्)
  • अम्बुभिः = उकारान्तः, नपुं., तृ.वि., ब.व. । “अम्भोऽर्णः तोय-पानीय-नीर-क्षीर-अम्बु-शम्बरम्” (अमरः)
  • जम्बालः = “निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शाद-कर्दमौ” (अमरः)
  • पचेलिमानाम् = स्वयमेव पच्यन्ते = पच् + केलिमर् (कृत्) । “कर्मकर्तरि केलिमर् वाच्यः”
  • कुसुमानाम् = “स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्” (अमरः)
  • पवमानाः = “नभस्वद्-वात-पवन-पवमान-प्रभञ्जनाः” (अमरः)
  • परिस्पन्दितुम् = परि-“स्पदि किञ्चिच्चलने” + तुमुन्

Word-Meaning

  • पवमानाः = The winds
    • प्रभवः न भवन्ति = are not ready
    • परिस्पन्दितुम् अपि = even to move slightly
    • आशङ्कमानाः = as they were scared and worried (आशङ्क)
    • पतनभयम् = about the fear of falling down
      • कुसुमानाम् = of the flowers
        • पचेलिमानाम् अपि = even of those that are about to fall without any external effort
          • वृन्दारकतरुवृन्दस्य = of the group (वृन्द) of trees (तरु) of the devas (वृन्दारक)
          • मन्दारप्रमुखस्य = of those starting with the tree Mandaara (मन्दार)
          • आनीतस्य = of those which have been brought (आनीत)
            • तेन = by Ravana
              • पुलस्त्यनन्दनेन = by Vishravas’ (पुलस्त्य) son (नन्दन)
            • सङ्क्रन्दननन्दनात् = from the Indra’s (सङ्क्रन्दन) garden (नन्दन)
              • स्वमन्दिरोद्यानम् (प्रति) = to the garden (उद्यान) in his (स्व) residence (मन्दिर)
            • जम्बालितालवालस्य = of those trees whose basin (आलवाल) (for water round the root) has been made swampy (जम्बालित)
              • मन्दोष्णम् अम्बुभिः = by the slightly warm waters
                • स्यन्दमानैः = by those that have been sprinkled
                  • बन्दीकृत-सुर-सुन्दरी-नयन-इन्दीवर-द्वन्द्वात् = from the two (द्वन्द्व) blue-lotus (इन्दीवर) eyes (नयन) of the captured (बन्दीकृत) celestial (सुर) women (सुन्दरी) who have been brought to Lanka to take of those trees
                  • कर-अरविन्द-कलित-कनक-कलशात् च = and also (च) from the golden (कनक) pots (कलश) that are held (कलित) in their lotus (अरविन्द) hands (कर)

कक्ष्या १३ – २६.०२.२०१८

गद्यम्

प्रस्तावना

अग्नेरवस्थां वर्णयति ।

मूलपाठः

एतेऽपि पावका रूढिशङ्कावहां हुतवहाख्यां वहन्तस्तद्गृहे गार्हपत्यपुरोगाः पौरोगवधुरं दधते ।

पदच्छेदः

एते, अपि, पावकाः, रूढि-शङ्का-आवहाम्, हुत-वह-आख्याम्, वहन्तः, तद्-गृहे, गार्हपत्य-पुरोगाः, पौरोगव-धुरम्, दधते ।

अन्वयार्थः

  • एते अपि = इमे अपि
  • पावकाः = अग्नयः
  • रूढिशङ्कावहाम् = यौगिकार्थं विना यादृच्छिकी संज्ञा इति भावनाम् उत्पादयन्तीम्
  • हुतवहाख्याम् = “हुतवहः” इति अभिधानम्
  • वहन्तः = दधतः
  • हुतम् = हविः वहति = प्रापयति इति यौगिकः “हुतवह”शब्दः । किन्तु रावणस्य शासने यज्ञानां विध्वंसितत्वात् हविषामभावेन “हुतवह”शब्दस्य यौगिकार्थः न युज्यते इत्यर्थः ।
  • तद्गृहे = रावणस्य निवासे
  • गार्हपत्यपुरोगाः = गार्हपत्यः, आहवनीयः, दक्षिणाग्निः इत्यादयः सर्वेऽपि अग्निविशेषाः
  • पौरोगवधुरम्
    • पौरोगवस्य = पाकशालाध्यक्षस्य
    • धुरम् = भारम्/स्थानम्
  • दधते = धरन्ति

अन्वयः

एते अपि गार्हपत्यपुरोगाः पावकाः रूढिशङ्कावहां हुतवहाख्यां वहन्तः तद्गृहे पौरोगवधुरं दधते

आकाङ्क्षा

  • दधते
    • कां दधते ? पौरोगवधुरम्
      • कुत्र पौरोगवधुरम् ? तद्गृहे
    • के दधते ? एते अपि
      • के एते ? पावकाः
      • कीदृशाः पावकाः ? गार्हपत्यपुरोगाः
      • कथंभूताः पावकाः ? वहन्तः
        • किं वहन्तः ? हुतवहाख्याम्
          • कीदृशां हुतवहाख्याम् ? रूढिशङ्कावहाम्

तात्पर्यम्

गार्हपत्यादयः अग्नयः यज्ञादिषु कर्मसु उपयुक्ताः हविषः प्रापकत्वेन “हुतवहाः” इत्येव प्रसिद्धाः । किन्तु रावणेन सर्वेषां यज्ञानां विध्वंसितत्वात् अधुना एते अग्नयः पाककार्यार्थमेव उपयुज्यन्ते, न तु यागादिषु ।

पदविवरणम्

  • पावकाः = “कृशानुः पावकोऽनलः” (अमरः) । पुनाति इति पावकः । पू “पू पावने” (also mentioned as “पूञ् शोधने”) + ण्वुल् ।
  • रूढिशङ्कावहाम्
    • रूढिशङ्का = रूढेः शङ्का
    • रूढिशङ्कावहाम् = रूढिशङ्काम् आवहति । रूढिः अवयवार्थाभावेन समुदायप्रसिद्धिः – रथन्तरं साम, अश्वकर्णः ओषधिविशेषः । (These are the examples of conventional words whose literal meaning is not taken).
  • हुतवहाख्याम् = हुतवहस्य आख्या, ताम् । “हिरण्यरेता हुतभुग् दहनो हव्यवाहनः” (अमरः)
  • वहन्तः = वह् “वहँ प्रापणे” + शतृ । तकारान्तः, पुं., प्र.वि., ब.व.
  • गार्हपत्यपुरोगाः
    • पुरः = अग्रे गच्छति इति । पुरस् – गम् + ड (कृत्) । “पुरोग-अग्रेसर-प्रष्ठ-अग्रतःसर-पुरःसराः” (अमरः) । “दक्षिणाग्निः गार्हपत्य-आहवनीयौ त्रयोऽग्नयः”
    • गार्हपत्यपुरोगाः = गार्हपत्यः पुरोगः येषां ते ।
  • पौरोगवधुरम् = पौरोगवस्य धूः, ताम् । धुर् इति रेफान्तः, स्त्री., द्वि.वि., ए.व. । धूः धुरौ धरः, धुरं धुरौ धरः । “समानौ रसवत्यां तु पाकस्थान-महानसे । पौरोगवः तदध्यक्षः” (अमरः)
  • दधते = धा “डु धाञ् धारण-पोषणयोः”, आत्मनेपदे लट्., प्र.पु., ब.व. । धत्ते दधाते दधते ।

Word-Meaning

  • एते अपि = even these
  • पावकाः = fires
    • गार्हपत्यपुरोगाः = the different types of fires like गार्हपत्यः, आहवनीयः, दक्षिणाग्निः
    • वहन्तः = have become the bearers of
      • हुतवहाख्याम् = the name हुतवहः (which means he who carries (वहः) the oblations (हुत))
      • रूढिशङ्कावहाम् = which bears the doubt of being a conventional word rather than their literal meaning of carrier of oblations, as there are no yagnas being conducted under Ravana’s rule
    • दधते = bear
    • पौरोगवधुरम् = the adornment (धुर्) as the head of the kitchen (पौरोगव)
      • तद्गृहे = in his residence

गद्यम्

प्रस्तावना

देवानां निवेदनस्य अन्तिमो भागः

मूलपाठः

किं बहुना । स एष मानुषादवमाननमागमिष्यतीत्यमन्वान-स्तदितरैरवध्यत्वं चतुराननवराल्लब्ध्वा समुद्धतः सम्प्रति सम्प्रहारसमाक्रान्तदिगन्तदन्तावलदन्तकुन्तव्रणकिणस्थपुटित-वक्षःस्थलः स्थलकमलिनीं वनवारण इव रावणस्त्रिलोकीमभिभवन् भवदीयानित्यस्मान्न जातु किञ्चिदपि जानातीति ।

पदच्छेदः

किम्, बहुना । सः, एषः, मानुषाद्, अवमाननम्, आगमिष्यति, इति, अ-मन्वानः, तद्-इतरैः, अ-वध्यत्वम्, चतुरानन-वरात्, लब्ध्वा, समुद्धतः, सम्प्रति, सम्प्रहार-समाक्रान्त-दिगन्त-दन्तावल-दन्त-कुन्त-व्रण-किण-स्थपुटित-वक्षः-स्थलः, स्थल-कमलिनीम्, वन-वारणः, इव, रावणः, त्रि-लोकीम्, अभिभवन्, भवदीयान्, इति, अस्मान्, न, जातु, किञ्चित्, अपि, जानाति, इति

अन्वयार्थः

  • किं बहुना = बहुभिः कालयापनवाक्यैः अलम्
  • स एषः = पूर्ववर्णितः रावणः
  • मानुषात् = मर्त्यात्
  • अवमाननम् = पराभवः
  • आगमिष्यति = समापतेत्
  • इति अमन्वानः = न गणयन्
  • तदितरैः = मनुष्यभिन्नैः
  • अवध्यत्वम् = अव्यापाद्यत्वम्
  • चतुराननवरात् = चतुर्मुखस्य ब्रह्मणः अनुग्रहात्
  • लब्ध्वा = प्राप्य
  • समुद्धतः = दर्पोद्रिक्तः
  • सम्प्रति = अधुना
  • सम्प्रहार-समाक्रान्त-दिगन्त-दन्तावल-दन्त-कुन्त-व्रण-किण-स्थपुटित-वक्षः-स्थलः
    • सम्प्रहारः = युद्धम्, तस्मिन् समाक्रान्ताः = समवरुद्धाः, ये दिगन्तदन्तावलाः = ऐरावतादयो दिग्गजाः, तेषां दन्ताः = रदनाः, एव कुन्ताः = शूलाः (आयुधविशेषाः), तैः यानि व्रणानि = क्षतानि, तेषां ये किणाः = शुष्कग्रन्थयः, तैः स्थपुटितम् = निम्नोन्नतम्, वक्षःस्थलम् = उरः यस्य सः
  • स्थलकमलिनीम् – स्थले = निर्जलभूमौ, कमलिनीम् = पद्मिनीम्
  • वनवारणः इव = वनगजः इव
  • रावणः = पौलस्त्यः
  • त्रिलोकीम् = जगत्त्रयीम्
  • अभिभवन् = आक्रामन्
  • भवदीयान् = तावकीनान् । निग्रहानुग्रहसमर्थस्य भवतः आश्रितान्
  • इति अस्मान्
  • जातु = कदाचित्
  • किञ्चिदपि = ईषदपि
  • न जानाति = न वेत्ति
  • इति (सुमनसां संसत् पुंसे परस्मै विज्ञापयामास)

अन्वयः

किं बहुना । स एषः मानुषात् अवमाननम् आगमिष्यति इति अमन्वानः तदितरैः अवध्यत्वम् चतुराननवरात् लब्ध्वा समुद्धतः सम्प्रति सम्प्रहार-समाक्रान्त-दिगन्त-दन्तावल-दन्त-कुन्त-व्रण-किण-स्थपुटित-वक्षः-स्थलः स्थलकमलिनीम् वनवारणः इव रावणः त्रिलोकीम् अभिभवन् अस्मान् भवदीयान् इति जातु किञ्चिदपि न जानाति इति (सुमनसां संसत् पुंसे परस्मै विज्ञापयामास) ।

आकाङ्क्षा

  • किं बहुना ।
  • न जानाति
    • कियत् न जानाति ? किञ्चिदपि
    • कदा न जानाति ? जातु
    • किं न जानाति ? भवदीयान् इति
      • कान् भवदीयान् इति ? अस्मान्
    • कः न जानाति ? स एषः
      • कः एषः ? रावणः
      • कीदृशः रावणः ? अमन्वानः
        • किमिति अमन्वानः ? आगमिष्यति इति
          • किम् आगमिष्यति इति ? अवमाननम्
            • कस्मात् आगमिष्यति इति ? मानुषात्
          • पुनः कीदृशः रावणः ? समुद्धतः
            • किंकृत्वा समुद्धतः ? लब्ध्वा
              • कस्मात् लब्ध्वा ? चतुराननवरात्
              • किं लब्ध्वा ? अवध्यत्वम्
                • कैः अवध्यत्वम् ? तदितरैः
              • पुनः कीदृशः रावणः ? सम्प्रहार-समाक्रान्त-दिगन्त-दन्तावल-दन्त-कुन्त-व्रण-किण-स्थपुटित-वक्षः-स्थलः
              • किं कुर्वन् रावणः ? अभिभवन्
                • कदा अभिभवन् ? सम्प्रति
                • काम् अभिभवन् ? त्रिलोकीम्
                • कः इव अभिभवन् ? वनवारणः इव
                  • काम् अभिभवन् वनवारणः इव ? स्थलकमलिनीम्

तात्पर्यम्

रावणः अत्यन्तं पराक्रमी – युद्धे दिग्गजानां दन्तकृतानां व्रणानां किणैः तस्य वक्षःस्थलं निम्नोन्नतमस्ति (दिग्गजैः प्रहृतस्यापि व्रणमात्रं तस्य उत्पन्नम्, न तु महती कापि हानिः इति ध्वनिः) । तादृशः सः मनुष्यैः पराभवः कदाचिदपि भवितुं नार्हतीति तद्भिन्नैः सर्वैरपि अवध्यत्वं चतुर्मुखब्रह्मणः प्रसादात् प्राप्तवान् । तेन च वरेण दर्पोद्रिक्तः जगत्त्रयीमपि बाधते । भवतः महिमानं अजानन् सः भवदीयान् अस्मान् बहु पीडयति । [सेवकानाम् अपमाननं स्वामिन एव तिरस्कारः । अतः भवता सः शासनीयः] ।

पदविवरणम्

  • मानुषात् = “मनुष्या मानुषा मर्त्या मनुजा मानवा नराः” (अमरः)
  • अमन्वानः = न मन्वानः । मन् “मनुँ अवबोधने” + शानच् ।
  • अवध्यत्वम् = वधम् अर्हति । वध + यत् (तद्धितः) । न वध्यः । अवध्यस्य भावः ।
  • चतुराननवरात्
    • चतुराननः = चत्वारि आननानि यस्य सः ।
    • चतुराननवरात् = चतुराननस्य वरः, तस्मात्
  • दन्तावलः = “दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः” (अमरः)
  • दन्तः = “रदना रशना दन्ताः” (अमरः)
  • वनवारणः = “मतङ्गजो गजो नागः कुञ्जरो वारणः करी” (अमरः)
  • त्रिलोकीम् = त्रयाणां लोकानां समाहारः । समाहारद्विगुः । “अदन्तोत्तरपदो द्विगुः स्त्रियामिष्टः” (वार्तिकम्) । त्रिलोक + ङीप् (स्त्री), द्वि.वि., ए.व.
  • अभिभवन् = अभि + भू “भू सत्तायाम्” + शतृ ।
  • भवदीयान् = भवतः इमे । भवत् + छ (तद्धितः) । अकारान्तः, पुं., द्वि.वि., ब.व.
  • जानाति = ज्ञा “ज्ञा अवबोधने” । लट्., प्र.पु., ए.व.

Word-Meaning

  • किं बहुना = Enough of elaboration
  • स एषः = this person
  • रावणः = Ravana
  • इति अमन्वानः = one who did not consider that
    • अवमाननम् = defeat
    • आगमिष्यति = will happen
    • मानुषात् = from any man
  • लब्ध्वा = obtaining
    • अवध्यत्वम् = the state of not being killed
      • तदितरैः = by everyone other than man
    • चतुराननवरात् = through the boon of Brahma
  • समुद्धतः = becoming arrogant with pride
  • सम्प्रति = these days
  • सम्प्रहार-समाक्रान्त-दिगन्त-दन्तावल-दन्त-कुन्त-व्रण-किण-स्थपुटित-वक्षःस्थलः = one who possesses the chest (वक्षःस्थल) which is uneven (स्थपुटित) due to the dried scar (किण) of the injuries (व्रण) caused by the sharp pointed weapon (कुन्त) which is verily the tusks (दन्त) of the elephants (दन्तावल) that uphold the eight directions (दिगन्त), that have been defeated (समाक्रान्त) by him in the battle (सम्प्रहार)
  • अभिभवन् = who is conquering
    • त्रिलोकीम् = the three worlds
    • वनवारणः इव = like an elephant
      • स्थलकमलिनीम् = to the lotus that is present on the land
    • न जानाति = does not know
      • किञ्चिदपि = even to a little extent
      • जातु = at any time
      • अस्मान् भवदीयान् इति = that we are yours
    • इति = this was told by the Devas

कक्ष्या १४ – ०५.०३.२०१८

गद्यम्

मूलपाठः

अथ भगवानाकर्ण्य गीर्वाणगणवाणीम्

पदच्छेदः

अथ, भगवान्, आकर्ण्य, गीर्वाण-गण-वाणीम्

अन्वयार्थः

  • अथ = देवानां विज्ञापनानन्तरम्
  • भगवान् = नारायणः
  • आकर्ण्य = श्रुत्वा
  • गीर्वाणगणवाणीम् = सुरसङ्घस्य वचनम्

अन्वयः

अथ, गीर्वाण-गण-वाणीम् आकर्ण्य भगवान् …

आकाङ्क्षा

  • कः ? भगवान्
  • किं कृत्वा ? आकर्ण्य
    • काम् आकर्ण्य ? गीर्वाण-गण-वाणीम्

तात्पर्यम्

भगवान् नारायणः देवानां विज्ञापनं श्रुत्वा स्वयं वक्तुम् आरभते ।

पदविवरणम्

  • आकर्ण्य = आ + कर्ण् “कर्ण भेदने” – ल्यबन्ताव्ययम्

Word-Meaning

  • अथ = Then
  • भगवान् = Bhagavan Naaraayana
  • आकर्ण्य = having heard
  • गीर्वाणगणवाणीम् = the words (वाणी) of the Devagana (गीर्वाण-गण)

22.     श्लोकः

मूलपाठः

इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः ।

वाचमूचे सुधाधारां मधुरां मधुसूदनः ॥ २२ ॥

पदच्छेदः

इन्द्रनील-अचल-उदञ्चत्-चन्द्रिका-धवल-स्मितः, वाचम्, ऊचे, सुधा-धाराम्, मधुराम्, मधुसूदनः ।

अन्वयार्थः

  • ऊचे = अब्रवीत्
  • मधुसूदनः = विष्णुः
  • इन्द्रनील-अचल-उदञ्चत्-चन्द्रिका-धवल-स्मितः
    • इन्द्रनीलाचलः = मरकतशैलः, तत्र उदञ्चती = विलसन्ती, या चन्द्रिका = ज्योत्स्ना, तद्वत् धवलम् = शुभ्रम्, स्मितम् = हासः यस्य तादृशः ।
  • वाचम् = वाणीम्
  • सुधाधाराम् = अमृतस्यन्दिनीम्
  • मधुराम् = माधुर्ययुक्ताम्

अन्वयः

इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः मधुसूदनः सुधाधारां मधुरां वाचम् ऊचे ।

आकाङ्क्षा

  • ऊचे
    • कः ऊचे ? मधुसूदनः
      • कीदृशः मधुसूदनः ? इन्द्रनील-अचल-उदञ्चत्-चन्द्रिका-धवल-स्मितः
    • किम् ऊचे ? वाचम्
      • कीदृशीं वाचम् ? सुधाधाराम्
      • पुनः कीदृशीं वाचम् ? मधुराम्

तात्पर्यम्

मरकतशैले विलसन्त्या ज्योत्स्नया सदृशेन मन्दहासेन युक्तः मरकतमणिनिभशरीरः विष्णुः अमृतस्यन्दिनीं मधुरां वाणीम् अब्रवीत् ।

पदविवरणम्

  • इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः
    • इन्द्रनीलाचलः = इन्द्रनीलस्य अचलः
    • इन्द्रनीलाचलोदञ्चच्चन्द्रिका = इन्द्रनीलाचले उदञ्चती चन्द्रिका,
    • इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलम् = इन्द्रनीलाचलोदञ्चच्चन्द्रिका इव धवलम्
    • इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलस्मितः = इन्द्रनीलाचलोदञ्चच्चन्द्रिकाधवलं स्मितं यस्य सः । “अद्रि-गोत्र-गिरि-ग्रावा-अचल-शैल-शिलोच्चयाः”, “चन्द्रिका कौमुदी ज्योत्स्ना” (अमरः)
  • वाचम् = चकारान्तः, स्त्री., द्वि.वि., ए.व.
  • ऊचे = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लिट् लकारः, आत्मनेपदम्, प्र.पु., ए.व. । लिट् परस्मैपदे उवाच, ऊचतुः, ऊचुः । लिट् आत्मनेपदे ऊचे, ऊचाते, ऊचिरे ।
  • सुधाधाराम् = सुधायाः धारा, ताम्
  • मधुराम् = “स्वादु-प्रियौ च मधुरौ” (अमरः)
  • मधुसूदनः = मधोः सूदनः । शब्देनानेन दैत्यनाशकत्वं व्यज्यते ।

अलङ्कारः

  • उपमालङ्कारः

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • ऊचे = told
  • मधुसूदनः = Vishnu, the destroyer of the demon Madhu
  • इन्द्रनील-अचल-उदञ्चत्-चन्द्रिका-धवल-स्मितः
    • he whose smile (स्मित) resembles the shine in bright white color (धवल) of the moon (चन्द्रिका) that is as though playing (उदञ्चत्) upon the mountain (अचल) of Indraneela (इन्द्रनील) or the Marakata gem
  • वाचम् = the words
  • सुधाधाराम् = that which were like the stream of nectar
  • मधुराम् = that which were very sweet

गद्यम्

मूलपाठः

भवतामपराधविधायिनस्तस्य यातुधानस्य निधनमधुनैव विधातुं शक्यम् ।

पदच्छेदः

भवताम्, अपराध-विधायिनः, तस्य, यातुधानस्य, निधनम्, अधुना, एव, विधातुम्, शक्यम्

अन्वयार्थः

  • भवताम् = युष्माकम्
  • अपराधविधायिनः = अन्याय्यम् आचरतः
  • तस्य यातुधानस्य = राक्षसस्य
  • निधनम् = वधः
  • अधुनैव = इदानीमेव
  • विधातुम् शक्यम् = कर्तुम् शक्यम्

अन्वयः

भवताम् अपराध-विधायिनः तस्य यातुधानस्य निधनम् अधुना एव विधातुं शक्यम् ।

आकाङ्क्षा

  • शक्यम्
    • कदा शक्यम् ? अधुना एव
    • किं कर्तुं शक्यम् ? विधातुम्
      • किं विधातुं शक्यम् ? निधनम्
        • कस्य निधनम् ? तस्य यातुधानस्य
          • कीदृशस्य तस्य ? अपराध-विधायिनः
            • केषां अपराध-विधायिनः ? भवताम्

तात्पर्यम्

युष्मान् अन्याय्येन पीडयन्तं तं राक्षसं झटिति मारयितुं शक्यते ।

पदविवरणम्

  • अपराधविधायिनः = अपराधं विधातुं शीलं यस्य सः, वि + धा “डुधाञ् धारणपोषणयोः” + ताच्छील्ये णिनिः (कृत्), नकारान्तः, पुं., ष.वि., ए.व.
  • यातुधानस्य = “यातुधानः पुण्यजनो नैरृतो यातुरक्षसी” (अमरः)
  • निधनम् = “अन्तो नाशो द्वयोर्मृत्युः मरणं निधनोऽस्त्रियाम्” (अमरः)

Word-Meaning

  • अधुनैव = now itself
  • निधनम् = destruction
    • तस्य यातुधानस्य = of that Raakshasha
    • अपराधविधायिनः = of him who habitualy commits injustice
      • भवताम् = to you all
    • विधातुम् शक्यम् = is possible

गद्यम्

प्रस्तावना

मूलपाठः

किन्तु सरसिजासनशासनमप्यमोघीकुर्वन्नुर्वीतले पुत्रीयतः सुत्राममित्रस्य दशरथस्य मनोरथमपि पूरयितुमादृतमानुषवेषः सन्नहमेव तं हनिष्यामीति व्याहृत्यान्तरधात् ।

पदच्छेदः

किन्तु, सरसिज-आसन-शासनम्, अपि, अमोघीकुर्वन्, उर्वी-तले, पुत्रीयतः, सुत्राम-मित्रस्य, दशरथस्य, मनोरथम्, अपि, पूरयितुम्, आदृत-मानुष-वेषः, सन्, अहम्, एव, तम्, हनिष्यामि, इति व्याहृत्य, अन्तर्-अधात् ।

सन्धिः

  • ङमुडागमसन्धिः
    • कुर्वन् + उर्वीतले = कुर्वन्नुर्वीतले
    • सन् + अहमेव = सन्नहमेव

अन्वयार्थः

  • किन्तु
  • सरसिजासनशासनम् अपि
    • सरसिजासनः = कमलासनः ब्रह्मा, तस्य शासनम् = आज्ञाम्, मनुष्येतरैः अवध्यत्वरूपं वरम्
  • अमोघीकुर्वन् – सत्यं विधास्यन्
  • उर्वीतले = भूलोके
  • पुत्रीयतः = सुतार्थिनः
  • सुत्राममित्रस्य दशरथस्य = इन्द्रसखस्य दशरथस्य
  • मनोरथम् अपि = इच्छाम् अपि
  • पूरयितुम् = सफलीकर्तुम्
  • आदृतमानुषवेषः सन् = गृहीतमानवाकारः भूत्वा
  • अहमेव तं हनिष्यामि = अहमेव रावणं व्यापादयिष्यामि
  • इति = एवम्
  • व्याहृत्य = उक्त्वा
  • अन्तरधात् = तिरोहितः

अन्वयः

किन्तु सरसिजासनशासनम् अपि अमोघीकुर्वन् उर्वीतले पुत्रीयतः सुत्राम-मित्रस्य दशरथस्य मनोरथम् अपि पूरयितुम् आदृतमानुषवेषः सन् अहम् एव तम् हनिष्यामि इति व्याहृत्य अन्तरधात् ।

आकाङ्क्षा

  • अन्तरधात्
    • किं कृत्वा अन्तरधात् ? व्याहृत्य
    • किमिति व्याहृत्य ? हनिष्यामि इति
      • कं हनिष्यामि इति ? तम्
      • कः हनिष्यामि इति ? अहम् एव
        • कथम्भुतः सन् ? किन्तु आदृतमानुषवेषः सन्
          • किमर्थम् आदृतमानुषवेषः सन् ? पूरयितुम्
            • किं पूरयितुम् ? मनोरथम् अपि
              • कस्य मनोरथम् ? दशरथस्य
                • कीदृशस्य दशरथस्य ? सुत्राम-मित्रस्य
                • कथम्भुतस्य दशरथस्य ? पुत्रीयतः
              • कुत्र आदृतमानुषवेषः सन् ? उर्वीतले
            • पुनः कथम्भुतः सन् ? अमोघीकुर्वन्
              • किं अमोघीकुर्वन् ? सरसिजासनशासनम् अपि

तात्पर्यम्

“(अधुनैव रावणः हन्तुं शक्यः), किन्तु ब्रह्मणः वरं सत्यापयितुम्, तथैव भूलोके सुतार्थिनः इन्द्रसखस्य दशरथस्य इच्छां पूरयितुं च अहमेव मानवाकारं गृहीत्वा तं रावणं व्यापादयिष्यामि” इत्युक्त्वा भगवान् नारायणः अदृश्यः अभूत् ।

पदविवरणम्

  • सरसिजासनशासनम्
    • सरसिजम् = सरसि जायते
    • सरसिजासनः = सरसिजम् आसनं यस्य सः,
    • सरसिजासनशासनम् = सरसिजासनस्य शासनम्
  • अमोघीकुर्वन् = न मोघः अमोघः, अनमोघम् अमोघं कुर्वन् । अभूततद्भावे च्विः ।
  • उर्वीतले = उर्व्याः तलम्, तस्मिन् । “सर्वंसहा वसुमती वसुधा-उर्वी-वसुन्धरा” (अमरः)
  • पुत्रीयतः = पुत्रम् आत्मनः इच्छति – नामधातुः । पुत्र + क्यच् (“सुप आत्मनः क्यच्” ३.१.८) । “सनाद्यन्ता धातवः” (३.१.३२) । पुत्रीय + शतृ । तकारान्तः, पुं., ष.वि., ए.व. ।
  • सुत्राममित्रस्य = सुत्रामन् नकारान्तः । सुत्रामा इति प्रथमाविभक्तौ । सुत्राम्णः मित्रम्, तस्य । “सुत्रामा गोत्रभिद् वज्री” (अमरः)
  • आदृतमानुषवेषः
    • मानुषवेषः = मानुषस्य वेषः,
    • आदृतमानुषवेषः = आदृतः मानुषवेषः येन सः
  • हनिष्यामि = हन् “हनँ हिंसागत्योः” लृट्., उ.पु., ए.व.
  • व्याहृत्य = वि + आ + हृ “हृञ् हरणे” + ल्यप्
  • अन्तर्-अधात् = अन्तर्+ धा “डुधाञ् धारणपोषणयोः”, लुङ्., प्र.पु., ए.व.

Word-Meaning

  • किन्तु = But
  • सरसिजासनशासनम् अपि अमोघीकुर्वन् = making even (अपि) Brahma’s (सरसिजासन) order (शासनम्) be not untrue, i.e., proving it to be true
  • उर्वीतले = in the earth
  • पूरयितुम् = fulfilling
    • मनोरथम् अपि = even the desire
    • दशरथस्य = of Dasharata
      • सुत्राममित्रस्य = of him who is a friend (मित्र) of Indra (सुत्रामन्),
      • पुत्रीयतः = of one who wishes for a son
    • आदृतमानुषवेषः सन् = becoming one who has taken on (आदृत) the form (वेष) of a man (मानुष)
    • इति व्याहृत्य = saying thus,
      • अहमेव तं हनिष्यामि = I will only kill him (Ravana)
    • अन्तरधात् = (Vishnu) disappeared

गद्यम्

मूलपाठः

ततः सा परिषदनिमिषाणामुन्मिषितहर्षा हृषीकेशादेशात्प्रशमितदुर्दशानि निर्दशाननानि चतुर्दशभुवनानि बुद्ध्वा दुग्धसागरान्निरगात् ।

पदच्छेदः

ततः, सा, परिषद्, अनिमिषाणाम्, उन्मिषित-हर्षा, हृषीकेश-आदेशात्, प्रशमित-दुर्दशानि, निर्दशाननानि, चतुर्दश-भुवनानि, बुद्ध्वा, दुग्ध-सागरात्, निरगात्

सन्धिः

  • अनुनासिकसन्धिः
    • दुग्धसागरान्निरगात् = दुग्ध-सागरात् + निरगात्

अन्वयार्थः

  • ततः = विष्णोः अन्तर्धानानन्तरम्
  • सा = पूर्वोक्ता
  • अनिमिषाणां परिषद् = देवसंसत्
  • उन्मिषितहर्षा = समुत्पन्नानन्दा
  • हृषीकेशादेशात् = नारायणस्य आज्ञया
  • प्रशमितदुर्दशानि = निवारित-दुरवस्थानि
  • निर्दशाननानि = रावणमुक्तानि
  • चतुर्दशभुवनानि = भूरादीन् चतुर्दशसङ्ख्यकान् लोकान्
  • बुद्ध्वा = ज्ञात्वा
  • दुग्धसागरात् = क्षीरसमुद्रात्
  • निरगात् = प्रातिष्ठत

अन्वयः

ततः सा अनिमिषाणां परिषद् उन्मिषित-हर्षा हृषीकेश-आदेशात् प्रशमित-दुर्दशानि निर्दशाननानि चतुर्दश-भुवनानि बुद्ध्वा दुग्ध-सागरात् निरगात्

आकाङ्क्षा

  • ततः निरगात्
    • कुतः निरगात् ? दुग्ध-सागरात्
    • का निरगात् ? सा परिषद्
      • केषां परिषद् ? अनिमिषाणाम्
      • कथंभूता सा परिषद् ? उन्मिषित-हर्षा
        • कस्मात् कारणात् उन्मिषित-हर्षा ? हृषीकेश-आदेशात्
        • किं कृत्वा निरगात् अथवा केन कारणेन उन्मिषित-हर्षा ? बुद्ध्वा
          • किं बुद्ध्वा ? (भविष्यति इति)
            • किं भविष्यति इति ? चतुर्दश-भुवनानि
              • कथं भविष्यति इति ? प्रशमित-दुर्दशानि
              • पुनः कथं भविष्यति इति ? निर्दशाननानि

तात्पर्यम्

विष्णोः वचनं श्रुत्वा देवसमूहः अत्यन्तं सन्तुष्टः, अचिरादेव भगवतः आज्ञया सर्वे लोकाः निवारितदुरवस्थाः रावणमुक्ताः भविष्यन्ति इति ज्ञात्वा क्षीरसमुद्रात् प्रातिष्ठत ।

पदविवरणम्

  • अनिमिषाणाम् = न निमिषन्ति इति अनिमिषाः । “सुर-मत्स्यौ अनिमिषौ” (अमरः)
  • उन्मिषितहर्षा = उन्मिषितः हर्षः यस्याः सा
  • प्रशमितदुर्दशानि = प्रशमिता दुर्दशा येषां तानि
  • निर्दशाननानि = निर्गतः दशाननः येभ्यः तानि
  • चतुर्दशभुवनानि = भूः, भुवः, सुवः, महः, जनः, तपः, सत्यम् । अतलम्, वितलम्, सुतलम्, तलातलम्, महातलम्, रसातलम्, पातालम् ।
  • दुग्धसागरात् = दुग्धस्य सागरः, तस्मात् । “दुग्धं क्षीरं पयः समम्” (अमरः)
  • निरगात् = निर् + इ “इण् गतौ” – लुङ्., प्र.पु., ए.व. । “इणो गा लुङि” (२.४.४५)

Word-Meaning

  • ततः = Afterwards,
  • सा अनिमिषाणां परिषद् = that congregation of the devas (those who do not have to blink)
    • उन्मिषितहर्षा = that whose happiness has expanded
      • हृषीकेशादेशात् = by the order of Narayana
    • बुद्ध्वा = having known
      • चतुर्दशभुवनानि = that the fourteen worlds
      • प्रशमितदुर्दशानि = (will become) those whose bad circumstances has been avoided
      • निर्दशाननानि = (and) those from where Ravana has been removed
    • निरगात् = returned
      • दुग्धसागरात् = from the milky ocean

कक्ष्या १५ – १२.०३.२०१८

गद्यम्

मूलपाठः

ततस्तानमरान् प्राह स्म पितामहः ।

पदच्छेदः

ततः, तान्, अमरान्, प्र+आह, स्म, पितामहः

अन्वयार्थः

  • ततः = तदनन्तरम्, दुग्धसागरात् निर्गत्य
  • तान् अमरान् = देवान्
  • पितामहः = ब्रह्मा
  • प्राह स्म = प्रोवाच

अन्वयः

ततः पितामहः तान् अमरान् प्राह स्म

आकाङ्क्षा

  • प्राह स्म
    • कदा प्राह स्म ? ततः
    • कः प्राह स्म ? पितामहः
    • कान् प्रति प्राह स्म ? तान्
      • कान् तान् ? अमरान्

तात्पर्यम्

वैकुण्ठात् निवर्त्य सृष्टिकर्ता ब्रह्मा तान् देवानुद्दिश्य उवाच ।

पदविवरणम्

  • अमरान् = “अमरा निर्जरा देवाः त्रिदशा विबुधाः सुराः” (अमरः)
  • प्राह स्म
    • ब्रू “ब्रूञ् व्यक्तायां वाचि”, लट्, प्र.पु., ए.व. । लट् (परस्मैपदम्) ब्रवीति / आह, ब्रूतः / आहतुः, ब्रुवन्ति / आहुः । लट् (आत्मनेपदम्) ब्रूते, ब्रुवाते, ब्रुवते ।
    • “ब्रुवः पञ्चानामादित आहो ब्रुवः” (३.४.८४) ।
    • “लट् स्मे” (३.२.११८), “अपरोक्षे च” (३.२.११९) – स्म-योगे भूत-अनद्यतने परोक्षे अपरोक्षे च लट्-लकारः भवति । लिट्-लङोः अपवादः ।
  • पितामहः = “ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः” (अमरः)

Word-Meaning

  • ततः पितामहः तान् अमरान् प्राह स्म = Then Brahma spoke (प्राह स्म) to the devas

गद्यम्

मूलपाठः

भवन्तस्तावदवतरिष्यतो लक्ष्मीसहायस्य साहाय्यार्थमप्सरःप्रभृतिषु युवतिषु वानराच्छभल्लगोपुच्छनीलमुखवेषभृतः प्रथितप्रभावाः प्रजाः प्रजनयेयुरिति ।

पदच्छेदः

भवन्तः, तावत्, अवतरिष्यतः, लक्ष्मी-सहायस्य, साहाय्यार्थम्, अप्सरः-प्रभृतिषु, युवतिषु, वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः, प्रथितः-प्रभावाः, प्रजाः, प्रजनयेयुः, इति

अन्वयार्थः

  • भवन्तः = यूयं देवाः
  • तावत् = इदानीम्
  • अवतरिष्यतः = भूलोके जनिष्यतः
  • लक्ष्मीसहायस्य = श्रीरमणस्य विष्णोः
  • साहाय्यार्थम् = सहयोगं दातुम्
  • अप्सरःप्रभृतिषु युवतिषु = मेनकादिषु देवकन्यकासु
  • वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः
    • वानराः = मर्कटाः, अच्छभल्लाः = भल्लूकाः, गोपुच्छाः नीलमुखाः = कपिप्रभेदाः, तद्वेषभृतः = तत्तद्भूमिकाधारिणः
  • प्रथितप्रभावाः = विख्यातपराक्रमान्
  • प्रजाः = पुत्रान्
  • प्रजनयेयुः = उत्पादयेयुः

अन्वयः

“भवन्तः तावत् अवतरिष्यतः लक्ष्मी-सहायस्य साहाय्यार्थम् अप्सरःप्रभृतिषु युवतिषु वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः प्रथितःप्रभावाः प्रजाः प्रजनयेयुः” इति

आकाङ्क्षा

  • प्राह स्म
    • कः प्राह स्म ? पितामहः
    • किमिति प्राह स्म ? प्रजनयेयुः इति
      • के प्रजनयेयुः ? भवन्तः
        • काः प्रजनयेयुः ? प्रजाः
          • कीदृशाः प्रजाः ? प्रथितःप्रभावाः
          • पुनः कीदृशाः प्रजाः ? वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः
          • कासु ? युवतिषु
            • कीदृषीषु युवतिषु ? अप्सरःप्रभृतिषु
          • किमर्थं प्रजनयेयुः ? साहाय्यार्थम्
            • कस्य साहाय्यार्थम् ? लक्ष्मीसहायस्य
            • कीदृशस्य लक्ष्मीसहायस्य ? अवतरिष्यतः
              • कदा अवतरिष्यतः ? तावत्

तात्पर्यम्

“हे देवाः ! भूलोके जनिष्यतः लक्ष्मीपतेः विष्णोः सहयोगार्थं यूयं सर्वे देवकन्यकासु स्व-स्व-अंशयुतान् पराक्रमिणः पुत्रान् मर्कट-भल्लूकादिषु रूपेषु उत्पादयत” इति पितामहः देवान् आदिष्टवान् ।

पदविवरणम्

  • अवतरिष्यतः = अव + तॄ “तॄ प्लवनतरणयोः” लृटः शतृ । “लृटः सद्वा” (३.३.१४) । तकारान्तः, पुं., ष.वि., ए.व.
  • लक्ष्मीसहायस्य
    • सह एति = गच्छति इति सहायः
    • लक्ष्मीसहायस्य = लक्ष्म्याः सहायः, तस्य
  • साहाय्यार्थम् =
    • सहायस्य भावः । सहाय + ष्यञ् (तद्धितः) । साहाय्याय इदम् । चतुर्थीतत्पुरुषः ।
  • वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः
    • वानर-अच्छभल्ल-गोपुच्छ-नीलमुखाः = वानराश्च अच्छभल्लाश्च, गोपुच्छाश्च नीलमुखाश्च ।
    • वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेषः = वानर-अच्छभल्ल-गोपुच्छ-नीलमुखानां वेषः ।
    • वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः = वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेषं बिभ्रति – उपपदसमासः । तकारान्तः, स्त्री., द्वि.वि., ब.व. । प्रथमाविभक्तौ भृत् भृतौ भृतः, द्वितीयाविभक्तौ भृतम् भृतौ भृतः ।
  • प्रथितप्रभावाः = प्रथितः प्रभावः यासां ताः । आकारान्तः, स्त्री., द्वि.वि., ब.व. ।
  • प्रजाः = “प्रजा स्यात् सन्ततौ जने” (अमरः) । आकारान्तः, स्त्री., द्वि.वि., ब.व. ।
  • प्रजनयेयुः = प्र + जन् “जनी प्रादुर्भावे”, विधिलिङ्., प्र.पु., ब.व.

रामायणप्रसङ्गः

  • पुत्रत्वं तुगते विष्णौ राज्ञस्तस्य सुमहात्मन: ।
    उवाच देवतास्सर्वास्स्वयम्भूर्भगवानिदम् । ।17.1 । ।
  • सत्यसन्धस्य वीरस्य सर्वेषान्नो हितैषिण: ।
    विष्णोस्सहायान्बलिनस्सृजध्वं कामरूपिण: । ।17.2 । ।
  • माया विदः च शूराम् च वायु वेग समान् जवे ।
    नयज्ञान् बुद्धि संपन्नान् विष्णु तुल्य पराक्रमान् ॥ १-१७-३ ॥
  • असंहार्यान् उपायज्ञान् दिव्य संहनन अन्वितान् ।
    सर्व अस्त्र गुण संपन्नानन् अमृत प्राशनान् इव ॥ १-१७-४ ॥
  • अप्सरस्सु च मुख्यासुगन्धर्वीणां तनूषु च ।
    सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान् । । 17.5 । ।

Word-Meaning

  • भवन्तः = You all Devas
    • साहाय्यार्थम् = To be of support (for helping)
      • अवतरिष्यतः = Of him who is going to take birth in the bhoo loka
        • तावत् = Now
      • लक्ष्मी-सहायस्य = Of him who goes with Lakshmi
    • वानर-अच्छभल्ल-गोपुच्छ-नीलमुख-वेष-भृतः = Taking the forms of Apes, bears and the kinds of monkey like gopuchcha (cow-tailed monkey), neelamukha (black faced monkey)
    • प्रजनयेयुः = Produce
      • अप्सरःप्रभृतिषु युवतिषु = In the women (युवती), the celestial women like the apasaras (अप्सरःप्रभृती)
    • प्रजाः = Children
      • प्रथितःप्रभावाः = Whose greatness (प्रभाव) is wellknown (प्रथित)
    • … इति (ब्रह्मा प्राह स्म) = so said Brahma

गद्यम्

मूलपाठः

पुरैव किल मम जृम्भारम्भे सम्भूतवाञ्जाम्बवानिति ।

पदच्छेदः

पुरा, एव, किल, मम, जृम्भ-आरम्भे, सम्भूतवान्, जाम्बवान्, इति

अन्वयार्थः

  • पुरा = पूर्वकाले
  • मम = ब्रह्मणः
  • जृम्भारम्भे = जृम्भणसमये
  • सम्भूतवान् = उत्पन्नः
  • जाम्बवान् = तन्नामा भल्लूकाधिपतिः

अन्वयः

पुरा एव किल मम जृम्भ-आरम्भे सम्भूतवान् जाम्बवान् इति

आकाङ्क्षा

  • (ब्रह्मा प्राह स्म)
    • किमिति (ब्रह्मा प्राह स्म) ? सम्भूतवान् इति
      • कः सम्भूतवान् ? जाम्बवान्
      • कदा सम्भूतवान् ? जृम्भ-आरम्भे
        • कस्य जृम्भ-आरम्भे ? मम
      • पुनः कदा सम्भूतवान् ? पुरा एव किल

तात्पर्यम्

पूर्वमेव मम जृम्भणसमये जाम्बवन्नामा भल्लूकाधिपतिः सृष्टः । (सोऽपि विष्णोः साहाय्यमाचरिष्यति) ।

पदविवरणम्

  • जाम्बवान् – जम्बोः वर्णं जाम्बवम्, तदस्य अस्तीति जाम्बवान् । जम्बूफलतुल्यवर्णः इत्यर्थः । तकारान्तः, पुं., प्र.वि., ए.व. ।

रामायणप्रसङ्गः

  • पूर्वमेव मया सृष्टो जाम्बवानृक्षपुङ्गवः ।
    जृम्भमाणस्य सहसा मम वक्त्रादजायत ॥ (बाल १७.७)

Word-Meaning

  • पुरा एव किल = Earlier itself
  • मम जृम्भ-आरम्भे = At the time of my yawning
  • जाम्बवान् = A bear king named Jaambhavaan, who is black in color like the Jamoon fruit (naagapazham in Tamil)
  • सम्भूतवान् = Had been created
  • … इति (ब्रह्मा प्राह स्म) = so said Brahma

गद्यम्

मूलपाठः

ततस्ते गीर्वाणास्तथाकुर्वन् ।

पदच्छेदः

ततः, ते, गीर्वाणाः, तथा, अकुर्वन्

अन्वयार्थः

  • ततः = ब्रह्मणः आदेशानन्तरम्
  • ते गीर्वाणाः = देवाः
  • तथा अकुर्वन् = तदनुगुणम् आचरितवन्तः

अन्वयः

ततः ते गीर्वाणाः तथा अकुर्वन्

आकाङ्क्षा

  • अकुर्वन्
    • के अकुर्वन् ? ते
      • ते के ? गीर्वाणाः
    • कदा अकुर्वन् ? ततः

तात्पर्यम्

ब्रह्मणः वचनानुगुणं देवाः वानरादिवेषेषु पुत्रान् जनयामासुः ।

पदविवरणम्

  • अकुर्वन् = कृ “डुकृञ् करणे” लङ्., प्र.पु., ब.व.

Word-Meaning

  • ततः = After that
  • ते गीर्वाणाः = Those devas
  • अकुर्वन् = Acted
  • तथा = accordingly

गद्यम्

मूलपाठः

अथ वैतानाद्वैश्वानरान्नरः प्राजापत्यः सहेमपात्रः कश्चिदुत्थाय पुत्रीयते दशरथाय पायसममृतप्रायं प्रायच्छत् ।

पदच्छेदः

अथ, वैतानात्, वैश्वानरात्, नरः, प्राजापत्यः, स-हेम-पात्रः, कश्चित्, उत्थाय, पुत्रीयते, दशरथाय, पायसम्, अमृत-प्रायम्, प्रायच्छत्

अन्वयार्थः

  • अथ = अनन्तरम्
  • वैतानात् = यज्ञीयात्
  • वैश्वानरात् = अग्नेः
  • प्राजापत्यः नरः = प्रजापतिना प्रेषितः पुरुषः
  • कश्चित् सहेमपात्रः = कश्चित् हिरण्मयपात्रसहितः
  • उत्थाय = निर्गत्य
  • पुत्रीयते = सन्ततिं कामयते
  • दशरथाय = दशरथस्य कृते
  • पायसम् = परमान्नम्
  • अमृतप्रायम् = सुधाकल्पम्
  • प्रायच्छत् = दत्तवान्

अन्वयः

अथ वैश्वानरात् वैतानात् स-हेम-पात्रः प्राजापत्यः कश्चित् नरः उत्थाय पुत्रीयते दशरथाय अमृत-प्रायं पायसं प्रायच्छत्

आकाङ्क्षा

  • प्रायच्छत्
    • किं प्रायच्छत् ? पायसम्
      • कीदृशं पायसम् ? अमृत-प्रायम्
    • कस्मै प्रायच्छत् ? दशरथाय
      • कीदृशाय दशरथाय ? पुत्रीयते
    • किम्कृत्वा प्रायच्छत् ? उत्थाय
      • कस्मात् उत्थाय ? वैतानात्
        • कीदृशात् वैतानात् ? वैश्वानरात्
      • कः प्रायच्छत् ? कश्चित् नरः
        • कीदृशः नरः ? प्राजापत्यः
        • कथम्भुतः नरः ? सहेमपात्रः
      • कदा प्रायच्छत् ? अथ

तात्पर्यम्

ततः यज्ञाग्नेः प्रजापतिना प्रेषितः कश्चित् दिव्यपुरुषः हिरण्मयपात्रसहितः समुत्थाय सुधाकल्पं परमान्नं पुत्रार्थिने दशरथाय दत्तवान् ।

पदविवरणम्

  • वैतानात्
    • वितानः = यज्ञः,
    • वैतानात् वितानः तस्य अयं, तस्मात् । वितान + अण् (तद्धितः) । “क्रतु-विस्तारयोरस्त्री वितानम्” (अमरः)
  • वैश्वानरात् = “अग्निर्वैश्वानरो वह्निः वीतिहोत्रो धनञ्जयः” (अमरः)
  • प्राजापत्यः = प्रजापतेः अयम् । प्रजापति + ण्य (तद्धितः)
  • सहेमपात्रः
    • सहेमपात्रम् = हेम्नः पात्रम् ।
    • सहेमपात्रः = हेमपात्रेण सहितः । बहुव्रीहिः । सहस्य सः “वोपसर्जनस्य” ६.३.८१ – सहपुत्रः/सपुत्रः

रामायणप्रसङ्गः

  • ततो वै यजमानस्य पावकादतुलप्रभम् । प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम् ॥
  • दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् । प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥
  • समवेक्ष्याब्रवीद्वाक्यम् इदं दशरथं नृपम् । प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥ (बाल १६.११)

Word-Meaning

  • अथ = Then
  • कश्चित् प्राजापत्यः नरः = some divine being sent by Brahma
    • स-हेम-पात्रः = along with a golden vessel
    • उत्थाय = raising up
      • वैश्वानरात् = from the fire
        • वैतानात् = from that which is related to the Yagna i.e., sacrificial
      • प्रायच्छत् = gave
        • पायसम् = the sweet pudding, payasam
        • अमृत-प्रायम् = which was equivalent to nectar
          • दशरथाय = to Dasharata
            • पुत्रीयते = to him who wishes to have a son

23.     श्लोकः

प्रस्तावना

पायसविभागः

मूलपाठः

कौसल्यायै प्रथममदिशद्भूपतिः पायसार्धम्

प्रादादर्धं प्रणयमधुरं केकयेन्द्रस्य पुत्र्यै ।

एते देव्यौ तरलमनसः पत्युरालोच्य भावम्

स्वार्धांशाभ्यां स्वयमकुरुतां पूर्णकामां सुमित्राम् ॥ २३ ॥

पदच्छेदः

कौसल्यायै, प्रथमम्, अदिशत्, भूपतिः, पायस-अर्धम्, प्रादात्, अर्धम्, प्रणय-मधुरम्, केकय-इन्द्रस्य, पुत्र्यै, एते, देव्यौ, तरल-मनसः, पत्युः, आलोच्य, भावम्, स्व-अर्ध-अंशाभ्याम्, स्वयम्, अकुरुताम्, पूर्ण-कामाम्, सुमित्राम्

अन्वयार्थः

  • अदिशत् = प्रायच्छत्
    • भूपतिः = राजा दशरथः
    • पायसार्धम् = पायसस्य अर्धभागम्
    • कौसल्यायै = राजमहिष्यै
    • प्रथमम् = आदौ
  • प्रादात् = प्रदत्तवान्
    • अर्धम् = पायसस्य अपरम् अर्धभागम्
    • प्रणयमधुरम् = प्रेम्णा स्वादु
    • केकयेन्द्रस्य पुत्र्यै = प्रेमास्पदायै कैकेय्यै
  • अकुरुताम् = कृतवत्यौ
    • एते देव्यौ स्वयम् = कौसल्या कैकेयी च स्वयमेव (दशरथेन अकथिते एव)
    • सुमित्रां पूर्णकामाम् = सफल-मनोरथाम्
    • स्वार्धांशाभ्याम् = आत्मनोः भागस्य अर्धाभ्याम्
    • आलोच्य = विचिन्त्य
    • भावम् = अभिप्रायम्
    • पत्युः = दशरथस्य
    • तरलमनसः = आकुलचित्तस्य

अन्वयः

भूपतिः प्रथमं कौसल्यायै पायसार्धम् अदिशत् । [ततः] प्रणयमधुरम् अर्धं केकयेन्द्रस्य पुत्र्यै प्रादात् । एते देव्यौ तरलमनसः पत्युः भावम् आलोच्य स्वयं स्वार्धांशाभ्यां सुमित्रां पूर्णकामाम् अकुरुताम् ।

आकाङ्क्षा

  • अदिशत्
    • कः अदिशत् ? भूपतिः
    • किम् अदिशत् ? पायसार्धम्
    • कस्मै अदिशत् ? कौसल्यायै
    • कदा अदिशत् ? प्रथमम्
  • प्रादात् = प्रदत्तवान्
    • किं प्रादात् ? अर्धम्
      • कीदृशम् अर्धम् ? प्रणयमधुरम्
    • कस्यै प्रादात् ? केकयेन्द्रस्य पुत्र्यै
  • अकुरुताम्
    • कौ अकुरुताम् ? एते देव्यौ स्वयम्
    • किम् अकुरुताम् ? सुमित्रां पूर्णकामाम्
    • कथम् अकुरुताम् ? स्वार्धांशाभ्याम्
    • किंकृत्वा अकुरुताम् ? आलोच्य
      • किम् आलोच्य ? भावम्
        • कस्य भावम् ? पत्युः
          • कीदृशस्य पत्युः ? तरलमनसः

तात्पर्यम्

प्राप्तपायसः दशरथः आदौ राजमहिष्यै कौसल्यायै पायसार्धं दत्त्वा, ततः प्रेमास्पदायै कैकेय्यै प्रीत्या अपरमर्धं दत्तवान् । ततः सुमित्रायै पायसं न शिष्टमिति व्याकुलस्य तस्य मनोभावं विज्ञाय कौसल्या कैकेयी च स्वयम् स्वभागाभ्याम् अर्धमर्धं सुमित्रायै दत्त्वा तस्याः मनोरथं पूरितवत्यौ ।

पदविवरणम्

  • अदिशत् = दिश् “दिश अतिसर्जने” – लङ्, प्र.पु., ए.व.
  • प्रादात् = प्र + दा “डुदाञ् दाने” – लुङ्, प्र.पु., ए.व.
  • तरलमनसः = तरलं मनः यस्य सः, तस्य । सकारान्तः, पुं., ष.वि., ए.व.
  • अकुरुताम् = कृ “डुकृञ् करणे” – लङ्, प्र.पु., द्वि.व.
  • पूर्णकामाम् = पूर्णः कामः यस्याः सा, ताम्

रामायणप्रसङ्गः

  • कौसल्यायै नरपतिः पायसार्धं ददौ तदा । अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥
  • कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् । प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥
  • अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः । एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥ (बाल १६.२७-२९)
  • ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः । चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ (रघु १०.५७)

छन्दः

  • मन्दाक्रान्ता वृत्तम् । “मन्दाक्रान्ता जलधिषडगैः म्भौ नतौ तो गुरू चेत्” (४+६+७ = १७ प्रतिपादम्, म-भ-न-त-त गणाः, गुरुः, गुरुः)

Word-Meaning

  • भूपतिः = Raja Dasharatha
    • अदिशत् = gave
    • प्रथमम् = initially
    • पायस-अर्धम् = half of the payasam
    • कौसल्यायै = To Kausalyaa
  • The King
    • प्रादात् = gave
    • अर्धम् = the (other) half
      • प्रणय-मधुरम् = which was sweeter because of his affection
      • केकय-इन्द्रस्य पुत्र्यै = to Kaikeyi, the daughter of the lord of Kekaya
    • एते देव्यौ = These two ladies
      • स्वयम् = on their own accord
      • अकुरुताम् = made
        • सुमित्राम् = Sumitra
          • पूर्ण-कामाम् = Become one whose desire is fulfilled
            • स्व-अर्ध-अंशाभ्याम् = through half of their portions
            • आलोच्य = on considering
            • भावम् = the intention
              • पत्युः = of their husband, Dasharatha
                • तरल-मनसः = of him who is disturbed (since he does not have any more for Sumitra)

कक्ष्या १६ – १९.०३.२०१८

24.     श्लोकः

प्रस्तावना

यज्ञसमाप्तौ अयोध्यां प्रति गमनम् ।

मूलपाठः

अवभृथेऽवसिते सरयूतटाद् अथ यथायथमुच्चलिते जने ।

दशरथः परिपूर्णमनोरथः पुरमगात्पुरुहूतपुरोपमाम् ॥ २४ ॥

पदच्छेदः

अवभृथे, अवसिते, सरयू-तटात्, अथ, यथा-यथम्, उच्चलिते, जने, दशरथः, परिपूर्ण-मनोरथः, पुरम्, अगात्, पुरुहूत-पुर-उपमाम् ।

अन्वयार्थः

  • अथ = तदनन्तरम्, पायसस्वीकरणादनन्तरम्
  • अगात् = गतवान्
  • परिपूर्णमनोरथः = सिद्धकामः
  • पुरम् = नगरीम्, अयोध्यानामिकां स्वराजधानीम्
  • पुरुहूत-पुरोपमाम् = इन्द्रनगरेण अमरावत्या तुल्याम्
  • अवसिते = समाप्ते सति
  • अवभृथे = दीक्षान्तस्नाने
  • उच्चलिते = प्रस्थिते सति
  • जने = यज्ञार्थमागते जनसमूहे
  • सरयूतटात् = यज्ञस्थानात् सरयूतीरात्
  • यथायथम् = यथास्वम्, स्व-स्व-गृहं प्रति

अन्वयः

अथ अवभृथे अवसिते, जने सरयूतटात् यथायथम् उच्चलिते (सति), परिपूर्णमनोरथः दशरथः पुरुहूतपुरोपमां पुरम् अगात् ।

आकाङ्क्षा

  • अथ अगात्
    • कः अगात् ? दशरथः
      • कीदृशः दशरथः ? परिपूर्णमनोरथः
    • किम् अगात् ? पुरम्
      • कीदृशीं पुरम् ? पुरुहूत-पुरोपमाम्
    • कदा अगात् ? अवसिते
      • कस्मिन् अवसिते ? अवभृथे
    • उच्चलिते
      • कस्मिन् उच्चलिते ? जने
      • कस्माद् उच्चलिते ? सरयूतटात्
      • कुत्र उच्चलिते ? यथायथम्

तात्पर्यम्

पुत्रकामेष्टौ समाप्तायाम्, यज्ञार्थमागतेषु सर्वेषु जनेषु सरयूतीरात् स्व-स्व-प्रदेशं प्रति प्रस्थितेषु, पायसलाभेन सिद्धकामः दशरथः इन्द्रनगरेण तुल्यां स्वराजधानीम् अयोध्यां प्रत्यगच्छत् ।

पदविवरणम्

  • अवभृथे = “दीक्षान्तोऽवभृथो यज्ञे” (अमरः)
  • अवसिते = अव + सो “षो अन्तकर्मणि” + क्त
  • यथायथम् = यथा अनतिक्रम्य । अव्ययीभावः । “यथास्वं तु यथायथम्” (अमरः)
  • पुरम् = रेफान्तः, स्त्री., द्वि.वि., ए.व. ।
  • अगात् = इ “इण् गतौ” – लुङ्, प्र.पु., ए.व.
  • पुरुहूतपुरोपमाम्
    • पुरुहूतपुरम् = पुरुहूतस्य पुरम्
    • पुरुहूतपुरोपमाम् = पुरुहूतपुरम् उपमा यस्याः सा, ताम् । “वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः” (अमरः)

छन्दः

  • द्रुतविलम्बितं वृत्तम् “द्रुतविलम्बितमाह नभौ भरौ” । प्रतिपादं १२ अक्षराणि । न-भ-भ-र गणाः ।
1 2 3 4 5 6 7 8 9 10 11 12
गु गु गु गु
भृ थे सि ते यू टाद्
था मु च्च लि ते ने
थः रि पू र्ण नो थः
पु गा त्पु रु हू पु रो माम्

Word-Meaning

  • अथ = Then
  • दशरथः = Dasharata
    • परिपूर्ण-मनोरथः = He whose desire was fulfilled
      • अगात् = Went
        • पुरम् = To his city, Ayodhya
          • पुरुहूत-पुर-उपमाम् = To that which resembled Amaravathi, the city of the Indra, who is much (puruhu) invoked or worshipped
        • अवभृथे अवसिते सति = When the Avabhruta snaanaa (a customary ritual bath that indicates the completion of the Yagna) was completed
        • जने सरयू-तटात् यथा-यथम् उच्चलिते सति = When the people (जन) had left (उच्चलित) from the shores (तट) of River Sarayu (सरयू) to their own respective places (यथा-यथम्)

25.     श्लोकः

प्रस्तावना

गर्भधारणम् ।

मूलपाठः

अपाटवात् केवलमङ्गकानां मनोज्ञकान्तेर्महिषीजनस्य ।

शनैः शनैः प्रोज्झितभूषणानि चकाशिरे दौहृदलक्षणानि ॥ २५ ॥

पदच्छेदः

अपाटवात्, केवलम्, अङ्गकानाम्, मनोज्ञ-कान्तेः, महिषी-जनस्य, शनैः, शनैः, प्रोज्झित-भूषणानि, चकाशिरे, दौहृद-लक्षणानि ।

अन्वयार्थः

  • चकाशिरे = अराजन्त
  • दौहृदलक्षणानि = गर्भचिह्नानि
  • महिषीजनस्य = राजपत्नीनां कौसल्या-सुमित्रा-कैकेयीनाम्
  • मनोज्ञकान्तेः = मनोहरलावण्यस्य
  • केवलम् = अत्यन्तम्
  • अङ्गकानाम् = हस्ताद्यवयवानाम्
  • अपाटवात् = पटुत्वाभावात्, श्रान्तत्वात्
  • शनैः शनैः = मन्दं मन्दम्, दिने दिने
  • प्रोज्झितभूषणानि = त्यक्ताभरणानि

अन्वयः

महिषीजनस्य मनोज्ञकान्तेः, अङ्गकानां केवलम् अपाटवात् प्रोज्झितभूषणानि दौहृदलक्षणानि शनैः शनैः चकाशिरे ।

आकाङ्क्षा

  • चकाशिरे
    • के चकाशिरे ? दौहृदलक्षणानि
    • कीदृशानि दौहृदलक्षणानि ? प्रोज्झितभूषणानि
      • कस्मात् कारणात् प्रोज्झितभूषणानि ? केवलम् अपाटवात्
        • केषां अपाटवात् ? अङ्गकानाम्
          • कस्य अङ्गकानाम् ? महिषीजनस्य
            • कीदृशस्य महिषीजनस्य ? मनोज्ञकान्तेः
          • कथं चकाशिरे ? शनैः शनैः

तात्पर्यम्

राजपत्नीनां वर्धमानलावण्यात्, हस्ताद्यवयवानां श्रान्तत्वात् त्यक्ताभरणानि गर्भचिह्नानि दिने दिने व्यक्तानि बभूवुः ।

पदविवरणम्

  • अपाटवात्
    • पाटवम् = पटोः भावः
    • अपाटवात् = न पाटवम्, तस्मात्
  • अङ्गकानाम् = अल्पानि अङ्गानि, तेषाम् । अङ्ग + क ।
  • महिषीजनस्य = “कृताभिषेका महिषी” (अमरः)
  • प्रोज्झितभूषणानि = प्रोज्झितानि भूषणानि येषु तानि
  • चकाशिरे = काश् “काशृँ दीप्तौ”, लिट्, प्र.पु., ब.व. । चकाशे चकाशाते चकाशिरे ।
  • दौहृदलक्षणानि = दौहृदस्य लक्षणानि । “द्विहृदयां नारीं दौहृदिनीमाचक्षते” (अष्टाङ्गसङ्ग्रहः) ।

छन्दः

  • उपेन्द्रवज्रा वृत्तम् ।

Word-Meaning

  • दौहृद-लक्षणानि = the symptoms of pregnancy (referred to as the second heart as the mother has the child’s heart also in her)
    • प्रोज्झित-भूषणानि = those in which the heavy ornaments are given up
    • अङ्गकानां केवलम् अपाटवात् = solely (केवलम्) due to the tiredness (अपाटव) (absence of energy) of the limbs that have lost weight (अङ्गक)
      • महिषी-जनस्य = of the group of royal wives of Dasharata (note महिषी = literally refers to coronated queen)
      • मनोज्ञ-कान्तेः = of those whose beauty was captivating
    • शनैः शनैः = slowly
    • चकाशिरे = manifested

26.     श्लोकः

प्रस्तावना

गर्भिण्याः कौसल्यायाः वर्णनम्

मूलपाठः

मन्दमन्दमपयद्वलित्रया गाधताविषयनाभिगह्वरा ।

कोसलेन्द्रदुहितुः शनैरभूत् मध्ययष्टिरपि दृष्टिगोचरा ॥ २६ ॥

पदच्छेदः

मन्दमन्दम्, अपयत्, वलित्रया, गाधता-विषय-नाभि-गह्वरा, कोसलेन्द्र-दुहितुः, शनैः, अभूत्, मध्य-यष्टिः, अपि, दृष्टि-गोचरा

अन्वयार्थः

  • अपयत् = अपगच्छत्
    • वलित्रया = उदरभागस्थं चर्मरेखात्रयम्
    • कोसलेन्द्रदुहितुः = कौसल्यायाः
  • अभूत् = जातम्
    • दृष्टिगोचरा = चक्षुर्विषयः
    • मध्ययष्टिः = तन्तुसदृशः मध्यभागः
    • गाधताविषयनाभिगह्वरा
      • गाधतायाः = उत्तानत्वस्य विषयीभूतं यत्
      • नाभिगह्वरम् = नाभिरूपं कुहरं, तेन युक्ता
    • शनैः = मन्दम्

अन्वयः

कोसलेन्द्रदुहितुः वलित्रया मन्दमन्दम् अपयत्, गाधताविषयनाभिगह्वरा मध्ययष्टिः अपि शनैः दृष्टिगोचरा अभूत्

आकाङ्क्षा

  • अपयत्
    • का अपयत् ? वलित्रया
    • कस्याः अपयत् ? कोसलेन्द्रदुहितुः
  • अभूत्
    • कीदृशम् अभूत् ? दृष्टिगोचरा
    • का अभूत् ? मध्ययष्टिः
      • कीदृशी मध्ययष्टिः ? गाधताविषयनाभिगह्वरा
    • कथं अभूत् ? शनैः

तात्पर्यम्

वर्धमानेन गर्भेण कौसल्यायाः उदरे विद्यमानं महाभाग्यसूचकं वलित्रयम् अपगतम्, तस्याः नाभिरूपं कुहरम् उत्तानत्वं प्राप्तम्, तस्याः तन्तुसदृशः मध्यभागः शनैः चक्षुर्विषयः अभूत् ।

पदविवरणम्

  • अपयत् = पय् “पयँ गतौ” – लङ्, प्र.पु., ए.व.
  • गाधताविषयनाभिगह्वरा
    • गाधताविषयः = गाधतायाः विषयः
    • नाभिगह्वरम् = नाभिः एव गह्वरम्
    • गाधताविषयनाभिगह्वरा = गाधताविषयः नाभिगह्वरं यस्याः सा
  • कोसलेन्द्रदुहितुः = कोसलेन्द्रस्य दुहिता, ऋकारान्तः, स्त्री., ष.वि., ए.व.
  • अभूत् = भू “भू सत्तायाम्”, लुङ्, प्र.पु., ए.व.
  • मध्ययष्टिः = मध्यं यष्टिः इव

छन्दः

  • रथोद्धता वृत्तम् – “रान्नराविह रथोद्धता लगौ” । प्रतिपादम् ११ अक्षराणि, र-न-र-लघु-गुरु ।
1 2 3 4 5 6 7 8 9 10 11
गु गु गु गु गु
न्द न्द द्व लि त्र या
गा ता वि ना भि ह्व रा
को ले न्द्र दु हि तुः नै भूत्
ध्य ष्टि पि दृ ष्टि गो रा

Word-Meaning

  • वलित्रया = The three folds of skin in her abdominal portion
    • कोसलेन्द्रदुहितुः = of the daughter of the king of Koshala
    • मन्दमन्दम् अपयत् = disappeared slowly
  • मध्ययष्टिः अपि = Even her waist (मध्य) which was like a thin stick (यष्टि)
    • गाधताविषयनाभिगह्वरा = whose cave (गह्वर) like navel (नाभि), had become an object (विषय) of reduced depth (गाधता)
    • शनैः दृष्टिगोचरा अभूत् = gradually (शनैः) become (भू) visible (गोचर) to see (दृष्टि)

27.     श्लोकः

मूलपाठः

न्यग्रोधपत्रसमतां क्रमशः प्रयाताम्

अङ्गीचकार पुनरप्युदरं कृशाङ्ग्याः ।

जीवातवे दशमुखोरगपीडितानां

गर्भच्छलेन वसता प्रथमेन पुंसा ॥ २७ ॥

पदच्छेदः

न्यग्रोध-पत्र-समताम्, क्रमशः, प्रयाताम्, अङ्गीचकार, पुनः, अपि, उदरम्, कृशाङ्ग्याः, जीवातवे, दश-मुख-उरग-पीडितानाम्, गर्भ-च्छलेन, वसता, प्रथमेन, पुंसा

अन्वयार्थः

  • अङ्गीचकार = प्राप्नोत्
  • उदरम् = कुक्षिः
  • कृशाङ्ग्याः = तन्वङ्ग्याः कौसल्यायाः
  • न्यग्रोधपत्रसमताम् = वटपत्रतुल्यत्वम्
  • क्रमशः प्रयाताम् = शनैः अपगताम्
  • पुनरपि = भूयोऽपि
  • गर्भच्छलेन वसता प्रथमेन पुंसा = गर्भरूपेण तिष्ठता आदिपुरुषेण नारायणेन
  • जीवातवे = सञ्जीवनौषधार्थम्
  • दशमुखोरगपीडितानाम् = रावणरूपेण महासर्पेण दष्टानाम्

अन्वयः

दशमुखोरगपीडितानां जीवातवे गर्भच्छलेन वसता प्रथमेन पुंसा कृशाङ्ग्याः उदरं क्रमशः प्रयातां न्यग्रोधपत्रसमतां पुनरपि अङ्गीचकार ।

आकाङ्क्षा

  • अङ्गीचकार
    • कः अङ्गीचकार ? उदरम्
      • कस्याः उदरम् ? कृशाङ्ग्याः
    • काम् अङ्गीचकार ? न्यग्रोधपत्रसमताम्
      • कीदृशीं न्यग्रोधपत्रसमताम् ? प्रयाताम्
        • कथं प्रयाताम् ? क्रमशः
      • कथम् अङ्गीचकार ? पुनरपि
        • केन हेतुना अङ्गीचकार ? पुंसा
          • कीदृशेन पुंसा ? प्रथमेन
          • पुनः कीदृशेन पुंसा ? वसता
            • कथं वसता ? गर्भच्छलेन
            • किमर्थं वसता ? जीवातवे
              • केषां जीवातवे ? दशमुखोरगपीडितानाम्

तात्पर्यम्

पूर्वं कौसल्यायाः उदरं वटपत्रतुल्यं कृशमासीत् । गर्भवृद्ध्या क्रमेण तत्तुल्यत्वम् अपगतम् । तथाऽपि रावणरूपमहासर्पपीडितानां सञ्जीवनौषधाय गर्भरूपेण तिष्ठता आदिपुरुषेण नारायणेन तस्याः उदरं पुनरपि वटपत्रतुल्यमेव जातम् (वटपत्रशायी नारायणः इति पुराणप्रसिद्धिः) ।

पदविवरणम्

  • न्यग्रोधपत्रसमताम् = न्यग्रोधस्य पत्रम्, न्यग्रोधपत्रस्य समता । “न्यग्रोधो बहुपाद् वटः”
  • जीवातवे = उकारान्तः, पुं., च.वि., ए.व. । “जीवातुर्जीवनौषधम्” (अमरः)
  • दशमुखोरगपीडितानाम्
    • दशमुखोरगः = दशमुखः एव उरगः
    • दशमुखोरगपीडितानाम् = दशमुखोरगेण पीडिताः, तेषाम् । “उरगः पन्नगो भोगी” (अमरः)
  • गर्भच्छलेन = गर्भस्य छलम्, तेन । गर्भ + छल – तुगागमः । “छे च” (६.१.७३) – ह्रस्वस्य च्छकारे परे तकारागमः । तस्य श्चुत्वेन चकारः । e., Before छ, a त् gets added which changes to च् making it च्छ ।
  • वसता = वस “वस निवासे” + शतृ । तकारान्तः, पुं., तृ.वि., ए.व.
  • पुंसा = सकारान्तः, पुं., तृ.वि., ए.व.

अलङ्कारः

  • उत्प्रेक्षा, रूपकम्

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • उदरम् = the abdomen
    • कृशाङ्ग्याः = of Kausalya, whose body (अङ्ग) was thin (कृश)
    • पुनरपि अङ्गीचकार = again gained
    • न्यग्रोधपत्रसमताम् = the similarity to the banyan leaf
      • क्रमशः प्रयाताम् = that (resemblance) which had been gradually (क्रमशः) lost (प्र + या) (since it was no longer thin like a leaf as she put on weight during the pregnancy)
      • गर्भच्छलेन वसता प्रथमेन पुंसा = since the primordial (प्रथम) person (पुंस्), Adipurusha (who resides on the banyan leaf), who was residing (वसत) in it taking the guise (छल) of an embryo (गर्भ)
        • जीवातवे = for the sake of being the life-giver (जीवातव) (like an antidote for a snakebite)
          • दशमुखोरगपीडितानाम् = to the those who were tormented (पीडित) by the snake (उरग) in the form of Ravana (दशमुख)

कक्ष्या १७ – २६.०३.२०१८

28.     श्लोकः

मूलपाठः

मध्यं तनुत्वादविभाव्यमानम्

आकाशमासीदसितायताक्ष्याः ।

गर्भोदये विष्णुपदापदेशात्

कार्श्यं विहायापि विहाय एव ॥ २८ ॥

पदच्छेदः

मध्यम्, तनुत्वात्, अविभाव्यमानम्, आकाशम्, आसीत्, असित-आयत-अक्ष्याः, गर्भ-उदये, विष्णु-पद-अपदेशात्, कार्श्यम्, विहाय, अपि, विहायः, एव ।

अन्वयार्थः

  • आसीत् = बभूव
  • मध्यम् = कटिप्रदेशः
  • कस्याः मध्यम् ? असितायताक्ष्याः = कृष्णविशालनेत्रायाः कौसल्यायाः
  • कीदृशम् आसीत् ? अविभाव्यमानम् = अदृश्यमानम्
  • आकाशम् = नभस्तुल्यम्
  • केन हेतुना अविभाव्यमानम् ? तनुत्वात् = कार्श्यात्
  • गर्भोदये = गर्भोत्पत्तौ सत्याम्
  • विष्णुपदापदेशात् = गर्भरूपेण वसतः नारायणस्य निवासस्थानत्वात् “विष्णुपदम्” इति व्यवह्रियमाणत्वात्
  • कार्श्यं = तनुत्वम्
  • विहाय अपि = त्यक्त्वा अपि
  • विहायः एव = आकाशः एव
  • पूर्वं कार्श्यकारणेन अदृश्यत्वात् आकाशत्वमासीत् । अधुना विष्णुपदत्वात् कार्श्यं त्यक्त्वापि आकाशत्वम् । [“वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी” इत्यमरः]

अन्वयः

असितायताक्ष्याः मध्यं तनुत्वाद् आकाशम् (इव) अविभाव्यमानम् आसीत् । गर्भोदये [सति] विष्णुपदापदेशात् कार्श्यं विहाय अपि विहायः एव ।

आकाङ्क्षा

  • आसीत्
    • किम् आसीत् ? मध्यम्
      • कस्याः मध्यम् ? असितायताक्ष्याः
    • कीदृशम् आसीत् ? अविभाव्यमानम्
      • किमिव अविभाव्यमानम् ? आकाशम् (इव)
      • केन हेतुना अविभाव्यमानम् ? तनुत्वात्
    • विहायः एव अस्ति
      • कस्मिन् सन्दर्भे अपि विहायः एव ? विहाय अपि
        • किं विहाय ? कार्श्यम्
      • कस्मात् कारणात् विहायः एव ? विष्णुपदापदेशात्
      • कदा विहायः एव ? गर्भोदये (सति)

तात्पर्यम्

कौसल्यायाः कटिभागः पूर्वम् अत्यन्तं कृशः, तेन हेतुना अदृश्यप्रायः आकाशकल्पः आसीत् । गर्भोत्पत्तौ सत्यां तु कार्श्ये विगते अपि, नारायणस्य निवासस्थानत्वात् “विष्णुपदम्” इति विख्यातम्, नामसाम्येन आकाशतुल्यमेव आसीत् ।

पदविवरणम्

  • असितायताक्ष्याः
    • असितायते असिते च आयते च,
    • असितायताक्ष्याः = असितायते अक्षिणी यस्याः सा । ईकारान्तः, स्त्री., ष.वि., ए.व.
  • विष्णुपदापदेशात्
    • विष्णुपदम् = विष्णोः पदम्
    • विष्णुपदापदेशात् = विष्णुपदस्य अपदेशः, तस्मात्
  • कार्श्यम् = कृशस्य भावः – कृश + ष्यञ् (तद्धितः)
  • विहाय = वि + हा “ओँहाक् त्यागे” – ल्यबन्ताव्ययम्
  • विहायः = सकारान्तः, नपुं., प्र.वि., ए.व. । “वियद् विष्णुपदं वा तु पुंस्याकाश-विहायसी” “विहायाः शकुनौ पुंसि गगने पुंनपुंसकम्” ।

अलङ्कारः

  • पूर्वार्धे अतिशयोक्तिः, उत्तरार्धे विरोधाभासः । विष्णुपदशब्दे श्लेषः ।
  • “कार्श्यं विहायापि विहाय एव” इत्यत्र यमकम्

छन्दः

  • वृत्तम् – इन्द्रवज्रा । ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ (११ अक्षराणि)

Word-Meaning

  • मध्यम् = the waist
    • असितायताक्ष्याः = of Kausalya, whose eyes (अक्षी) were dark (असित where सित indicates white) and wide (आयत)
    • अविभाव्यमानम् आकाशम् आसीत् = was like the imperceptible sky
      • तनुत्वाद् = due to slenderness
    • गर्भोदये [सति] = during the time of pregnancy, on the advent of the embryo (गर्भ)
      • विष्णुपदापदेशात् = due to being refered to as the place of Vishnu (note that the sky is also referred to by the term Vishnupada)
      • कार्श्यं विहाय अपि = even after leaving the aspect of slenderness
      • विहायः एव = it is only the sky

29.     श्लोकः

प्रस्तावना

रामजननम् ।

मूलपाठः

उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ

लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि ।

निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेः

आविर्भूतमभूतपूर्वमपरं यत्किञ्चिदेकं महः ॥ २९ ॥

पदच्छेदः

उच्चस्थे, ग्रह-पञ्चके, सुर-गुरौ, स-इन्दौ, नवम्याम्, तिथौ, लग्ने, कर्कटके, पुनर्वसु-युते, मेषम्, गते, पूषणि, निर्दग्धुम्, निखिलाः, पलाश-समिधः, मेध्याद्, अयोध्या-अरणेः, आविर्भूतम्, अ-भूत-पूर्वम्, अपरम्, यत्किञ्चित्, एकम्, महः

अन्वयार्थः

  • आविर्भूतम् = स्वयमेव अभिव्यक्तम् अभूत्
  • महः = ज्योतिः
  • अभूतपूर्वम् = पुरा कदाप्यविद्यमानम्, सजातीय-भेद-रहितम्
  • अपरम् = अद्वितीयम्, विजातीय-भेद-रहितम्
  • एकम् = स्वगत-भेद-रहितम्
  • यत्किञ्चित् = त्रिविधभेदरहिततया अनिर्वाच्यम्
  • अयोध्यारणेः – अयोध्या एव अरणिः = अग्निमन्थनदारुविशेषः, तस्मात्
  • मेध्यात् = पवित्रात्
  • निर्दग्धुम् = भस्मीकर्तुम्
  • निखिलाः = समस्तानि, पलाशसमिधः = राक्षसरूपाणि एधांसि
  • ग्रहपञ्चके उच्चस्थे = सूर्य-कुज-गुरु-शुक्र-शनिरूपेषु पञ्चसु ग्रहेषु स्व-तुङ्गस्थान-सङ्गतेषु
  • सुरगुरौ सेन्दौ = बृहस्पतौ चन्द्रेण युक्ते सति
  • नवम्यां तिथौ
  • कर्कटके लग्ने
  • पुनर्वसुयुते = पुनर्वसूनक्षत्रयुक्ते
  • पूषणि मेषं गते = सूर्ये मेषराशिं प्रविष्टे सति

अन्वयः

ग्रहपञ्चके उच्चस्थे, सुरगुरौ सेन्दौ, नवम्यां, कर्कटके लग्ने, पुनर्वसुयुते तिथौ, पूषणि मेषं गते, निखिलाः पलाशसमिधः निर्दग्धुं मेध्याद् अयोध्यारणेः अभूतपूर्वम्, अपरम्, एकं यत्किञ्चित् महः आविर्भूतम्

आकाङ्क्षा

  • आविर्भूतम्
    • किम् आविर्भूतम् ? महः
      • कीदृशं महः ? अभूतपूर्वम्
      • पुनः कीदृशं महः ? अपरम्
      • पुनः कीदृशं महः ? एकम्
      • पुनः कीदृशं महः ? यत्किञ्चित्
    • कुतः आविर्भूतम् ? अयोध्यारणेः
      • कीदृशाद् अयोध्यारणेः ? मेध्यात्
    • किमर्थम् आविर्भूतम् ? निर्दग्धुम्
      • काः निर्दग्धुम् (कर्मपदम्) ? पलाशसमिधः
        • कीदृशाः पलाशसमिधः ? निखिलाः
      • कदा आविर्भूतम् ? ग्रहपञ्चके उच्चस्थे सति
        • पुनः कदा आविर्भूतम् ? सुरगुरौ सेन्दौ सति
        • पुनः कदा आविर्भूतम् ? नवम्यां तिथौ
        • पुनः कदा आविर्भूतम् ? कर्कटके लग्ने
        • पुनः कदा आविर्भूतम् ? पुनर्वसुयुते
        • पुनः कदा आविर्भूतम् ? पूषणि मेषं गते सति

तात्पर्यम्

सूर्यादिषु पञ्चसु ग्रहेषु स्वतुङ्गस्थानेषु सत्सु, बृहस्पतौ चन्द्रेण युक्ते, नवम्यां, कर्कटकलग्ने, पुनर्वसुनक्षत्रयुक्ते दिने, सूर्ये मेषराशिं प्रविष्टे सति, सर्वाणि राक्षसरूपाणि एधांसि भस्मीकर्तुं पवित्रात् अयोध्यारूपाद् अरणेः पूर्वमदृष्टम्, अद्वितीयम्, एकम् अनिर्वचनीयं ज्योतिः स्वयम् अभिव्यक्तम् अभूत्

पदविवरणम्

  • उच्चस्थे = उच्चे तिष्ठति, तस्मिन् – उपपदस्मासः
  • सुरगुरौ = सुराणां गुरुः, तस्मिन् । “बृहस्पतिः सुराचार्यः” (अमरः)
  • सेन्दौ = इन्दुना सह विद्यते इति, तस्मिन् । उकारान्तः, पुं., स.वि., ए.व. । “हिमांशुश्चन्द्रमाश्चन्द्रः इन्दुः कुमुदबान्धवः” (अमरः)
  • पूषणि = नकारान्तः, पुं., स.वि., ए.व. । “विकर्तन-अर्क-मार्तण्ड-मिहिर–अरुण-पूषणः” (अमरः)
  • निर्दग्धुम् = निर् + दह् “दहँ भस्मीकरणे” – तुमुन्नन्ताव्ययम्
  • पलाशसमिधः
    • पलम् = मांसम्
    • पलाशाः = राक्षसाः । पलाशाः मांसम् अश्नन्ति इति ।
    • पलाशसमिधः = पलाशाः एव समिधः । धकारान्तः, स्त्री., द्वि.वि., ब.व. ।
  • मेध्यात् = “पूतं पवित्रं मेध्यं च” (अमरः)
  • अयोध्यारणेः = अयोध्या एव अरणिः, तस्मात् । इकारान्तः, पुं., प.वि., ए.व.
  • आविर्भूतम् = आविस् + भू “भू सत्तायाम्” + क्त
  • अभूतपूर्वम्
    • भूतपूर्वम् = पूर्वं भूतम्,
    • अभूतपूर्वम् = न भूतपूर्वम् ।
  • अपरम् = न विद्यते परं यस्मात् तत्
  • महः = “महस्तूत्सवतेजसोः” (अमरः)

रामायणप्रसङ्गः

  • ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।
    ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥
  • नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पंञ्चसु ।
    ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥
  • प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् ।
    कौसल्याऽजनयद्रामं सर्वलक्षणसंयुतम् ॥ (बाल १८.८-१०)

अलङ्कारः

  • रूपकालङ्कारः

छन्दः

  • शार्दूलविक्रीडितं वृत्तम् (majestic like the gait of the lion or tiger) – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” । प्रतिपादं १९ अक्षराणि । म-स-ज-स-त-त-गुरुः । द्वादशाक्षरानन्तरं यतिः ।

Word-Meaning

  • आविर्भूतम् = manifested itself
  • महः = lustre (or fire)
    • अभूतपूर्वम् = that which did not exist earlier
    • अपरम् = that for which there is nothing different from it
    • एकम् = that which is unique
    • यत्किञ्चित् = that which is indescribable (as there is no way to the show difference)
    • अयोध्यारणेः = from the Arani wood (that is used to create the fire for yagnas) in the form of Ayodhya
      • मेध्यात् = from that which is very sacred
      • निर्दग्धुम् = for the sake of destroying (or burning)
      • निखिलाः पलाशसमिधः = the entire group (निखिल) of demons (पलाश) in the form of fuel sticks (or the sticks of Palasha (पलाश) tree)
    • ग्रहपञ्चके उच्चस्थे = when five of the planets (Sun, Mars, Jupiter, Venus and Saturn) were are their ascendency
      • सुरगुरौ सेन्दौ = when Jupiter was associated with Chandra
      • नवम्यां तिथौ = on the tithi of Navami
      • कर्कटके लग्ने = on the lagna of Karkata
      • पुनर्वसुयुते = when the nakshtra was punarvasu
      • पूषणि मेषं गते = when Surya had entered the mesha raashi

30.     श्लोकः

मूलपाठः

अथ रामाभिधानेन कवेः सुरभयन् गिरः ।

अलञ्चकार कारुण्याद् रघूणामन्वयं हरिः ॥ ३० ॥

पदच्छेदः

अथ, राम-अभिधानेन, कवेः, सुरभयन्, गिरः, अलञ्चकार, कारुण्याद्, रघूणाम्, अन्वयम्, हरिः ।

अन्वयार्थः

  • अथ = तदनन्तरम्, रामजननानन्तरम्
  • अलञ्चकार = भूषयामास
  • हरिः = विष्णुः (भक्तजनदुरितानि हरति इति हरिः)
  • अन्वयम् = वंशम्
  • रघूणाम् = रघोः अपत्यानाम्
  • कारुण्याद् = करुणया
  • सुरभयन् = सुगन्धीनि/मनोज्ञानि कुर्वन्
  • गिरः = वाचः
  • कवेः = आदिकवेः वाल्मीकेः
  • रामाभिधानेन = “राम” इति नाम्ना

अन्वयः

अथ रामाभिधाने कवेः गिरः सुरभयन् हरिः कारुण्यात् रघूणाम् अन्वयम् अलञ्चकार ।

आकाङ्क्षा

  • अलञ्चकार
    • कदा अलञ्चकार ? अथ
    • कः अलञ्चकार ? हरिः
    • किम् अलञ्चकार ? अन्वयम्
      • केषाम् अन्वयम् ? रघूणाम्
    • केन हेतुना अलञ्चकार ? कारुण्याद्
    • कथम्भूतः अलञ्चकार ? सुरभयन्
      • किम् सुरभयन् ? गिरः
        • कस्य वाचः सुरभयन् ? कवेः
      • केन सुरभयन् ? रामाभिधानेन

तात्पर्यम्

परमकारुणिकः हरिः श्रीरामरूपेण रघुवंशे अवतीर्य वाल्मीकेः वचनानि स्वनान्म्ना भूषयामास ।

पदविवरणम्

  • रामाभिधानेन – रामः इति अभिधानम्, तेन ।
    • “रामेति द्व्यक्षरं नाम मानभङ्गः पिनाकिनः”
    • “सहस्रनाम तत्तुल्यं रामनाम वरानने” ।
    • रमन्ते योगिनः अस्मिन् इति रामः – “रम क्रीडायाम्” + अधिकरणे घञ् (कृत्) ।
    • “रमन्ते योगिनोऽनन्ते सदानन्दे चिदात्मनि । इति रामपदेनासौ परब्रह्माभिधीयते ॥ ”
  • सुरभयन् = सुरभिं कुर्वन् – सुरभि + णिच् (नामधातुः) + शतृ – तकारान्तः, पुं., प्र.वि., ए.व.
  • गिरः = रेफान्तः, स्त्री, द्वि.वि., ब.व.
  • अलञ्चकार = अलम् + कृ “डुकृञ् करणे” – लिट्., प्र.पु., ए.व.
  • कारुण्यात् = “कारुण्यं करुणा घृणा” (अमरः) । करुणा एव कारुण्यम् । करुणा + स्वार्थे ष्यञ् (तद्धितः)
  • अन्वयम् = “सन्ततिः गोत्र-जनन-कुलानि अभिजन-अन्वयौ” (अमरः)
  • हरिः = हरति इति हरिः । हृ “हृञ् हरणे” + इन् (उणादिप्रत्ययः) । “यम-अनिल-इन्द्र-चन्द्र-अर्क-विष्णु-सिंह-अंशु-वाजिषु । शुक-अहि-कपि-भेकेषु हरिर्ना कपिले त्रिषु” ॥ (अमरः) 14 different meanings of the word Hari – Yama, Agni, Indra, Chandra, Surya, Vishnu, Lion, Ray, Horse, Parrot, Snake, Monkey, Frog and a specific color called kapila.

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • अथ = Then
  • हरिः = Vishnu
  • कारुण्यात् = due to his compassion
  • अलञ्चकार = emblished
    • अन्वयम् = the race
      • रघूणाम् = of Raghu
    • सुरभयन् = by putting in fragrance (i.e., making it attractive)
      • गिरः = to the words
      • कवेः = of the poet (Valmiki)
      • रामाभिधाने = through the name “Rama”

कक्ष्या १८ – ०९.०४.२०१८

31.     श्लोकः

प्रस्तावना

रामानन्तरं त्रयः कुमाराः जाताः

मूलपाठः

तमेनमन्वजायन्त त्रयस्त्रेताग्नितेजसः ।
अग्रजस्यानुकुर्वन्तस्तैर्तैर्लोकोत्तरैर्गुणैः ॥ ३१ ॥

पदच्छेदः

तम्, एनम्, अनु, अजायन्त, त्रयः, त्रेता-अग्नि-तेजसः, अग्रजस्य, अनु-कुर्वन्तः, तैः, तैः, लोक-उत्तरैः, गुणैः

अन्वयार्थः

  • अजायन्त = जाताः
  • त्रयः = त्रिसङ्ख्याकाः कुमाराः
  • त्रेताग्नितेजसः
    • त्रेता = आहवनीय-गार्हपत्य-दक्षिणाग्नयः
    • त्रेताग्नितेजसः = त्रेता तत्तुल्यवर्चसः
  • तम् एनम् अनु = पूर्वोपवर्णितस्य श्रीरामस्य पश्चात्
  • अनुकुर्वन्तः = अनुवर्तमानाः
  • अग्रजस्य = ज्येष्ठभ्रातुः श्रीरामस्य
  • तैस्तैः = बहुभिः
  • लोकोत्तरैः = अत्युत्कृष्टैः
  • गुणैः = विद्या-विनय-शौर्य-औदार्यादिभिः

अन्वयः

त्रेताग्नितेजसः त्रयः तैस्तैः लोकोत्तरैः गुणैः अग्रजस्य अनुकुर्वन्तः तम् एनम् अनु अजायन्त ।

आकाङ्क्षा

  • अजायन्त
    • के अजायन्त ? त्रयः
      • कीदृशाः त्रयः ? त्रेताग्नितेजसः
    • कदा अजायन्त ? तम् एनम् अनु
    • कथम्भूताः अजायन्त ? अनुकुर्वन्तः
      • कस्य अनुकुर्वन्तः ? अग्रजस्य
      • कैः अनुकुर्वन्तः ? गुणैः
        • कीदृशैः गुणैः ? तैस्तैः
        • पुनः कीदृशैः गुणैः ? लोकोत्तरैः

तात्पर्यम्

सद्गुणबाहुल्येन अग्रजसदृशाः अग्निवत् वर्चस्विनः त्रयः कुमाराः तस्य श्रीरामस्य पश्चात् जाताः ।

पदविवरणम्

  • तम् अनु = “अनुर्लक्षणे” (१.४.८४) इति कर्मप्रवचनीयसंज्ञा । “कर्मप्रवचनीययुक्ते द्वितीया” (२.३.८)
  • अजायन्त = जन् “जनी प्रादुर्भावे” – लङ्, प्र.पु., ब.व.
  • त्रयः = त्रि-शब्दः, नित्यं बहुवचनान्तः, पुं., प्र.वि., ब.व.
  • त्रेताग्नितेजसः
    • त्रेताग्निः = त्रेता चासौ अग्निश्च
    • त्रेताग्नितेजसः = त्रेताग्नेः तेजः इव तेजः येषां ते । “अग्नित्रयमिदं त्रेता”, “त्रेता त्वग्नित्रये युगे” (अमरः)
  • अग्रजस्य अनुकुर्वन्तः – सम्बन्धसामान्ये षष्ठी (अग्रजम् अनुकुर्वन्तः अपि सम्यक्)
  • अनुकुर्वन्तः = अनु + कृ “डुकृञ् करणे” + शतृ – तकारान्तः, पुं., प्र.वि., ब.व.
  • लोकोत्तरैः = लोकस्य उत्तरे, तैः

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • त्रयः = the three (kids)
    • अजायन्त = were born
      • तम् एनम् अनु = after him (Rama)
    • त्रेताग्नितेजसः = who were like radiant like the three fires (called Aahavaneeyaagni, Gaarhapathyaagni, and Dakshinaagni)
    • अनुकुर्वन्तः = who followed
      • अग्रजस्य = their elder (brother)
        • तैस्तैः लोकोत्तरैः गुणैः = by (their) numerous extraordinary good qualities (similar to that of Rama)

32.     श्लोकः

मूलपाठः

भरतस्तेषु कैकेय्यास्तनयो विनयोज्ज्वलः ।
अन्यौ लक्ष्मणशत्रुघ्नौ सुमित्रायां कृतोदयौ ॥ ३२ ॥

पदच्छेदः

भरतः, तेषु, कैकेय्याः, तनयः, विनय-उज्ज्वलः, अन्यौ, लक्ष्मण-शत्रुघ्नौ, सुमित्रायाम्, कृत-उदयौ

अन्वयार्थः

  • तेषु = रामम् अनु जातेषु त्रिषु
  • विनयोज्ज्वलः = विनयगुणेन (प्रश्रयेण) भूषितः
  • भरतः कैकेय्याः तनयः = भरतः कैकेय्याः पुत्रः
  • अन्यौ लक्ष्मण-शत्रुघ्नौ = इतरौ द्वौ कुमारौ लक्ष्मण-शत्रुघ्नौ
  • सुमित्रायां कृतोदयौ = सुमित्रायां समुत्पन्नौ

अन्वयः

तेषु विनयोज्ज्वलः भरतः कैकेय्याः तनयः,

आकाङ्क्षा

  • आसीत्
    • कथंभूतः आसीत् ? तनयः
      • कयाः तनयः ? कैकेय्याः
    • कः आसीत् ? भरतः
      • कीदृशः भरतः ? विनयोज्ज्वलः
    • केषु मद्ये आसीत् ? तेषु
  • आस्ताम्
    • कौ आस्ताम् ? अन्यौ
      • कौ अन्यौ ? लक्ष्मण-शत्रुघ्नौ
        • कीदृशौ लक्ष्मण-शत्रुघ्नौ ? कृतोदयौ
          • कस्यां कृतोदयौ ? सुमित्रायाम्

तात्पर्यम्

रामस्यानन्तरं जातेषु त्रिषु कुमारेषु कैकेय्याः पुत्रः भरतनाम्ना ख्यातः, विनयेन भूषितः आसीत् । सुमित्रायां यमलौ जातौ, ययोः लक्ष्मणः, शत्रुघ्नश्चेति नामनी आस्ताम् ।

पदविवरणम्

  • विनय-उज्ज्वलः = विनयेन उज्ज्वलः इति समासः
  • लक्ष्मण-शत्रुघ्नौ = लक्ष्मणश्च शत्रुघ्नश्च इति द्वन्द्वसमासः
  • कृत-उदयौ = कृतः उदयः याभ्यां तौ

रामायणप्रसङ्गः

  • भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।

साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥

  • अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ ।

वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥

  • पुष्ये जातस्तु भरतः मीनलग्ने प्रसन्नधीः ।

सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥ (बाल १८.१३-१५)

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • तेषु = Among (those three)
    • भरतः = Bharata
    • विनय-उज्ज्वलः = one who is adorned with humility
    • तनयः = (was born as) the son
    • कैकेय्याः = of Kaikeyi
  • अन्यौ = The other two
    • लक्ष्मण-शत्रुघ्नौ = Lakshmana and Shatrugna
    • सुमित्रायां कृत-उदयौ = were born in (i.e. to) Sumitra

33.     श्लोकः

मूलपाठः

एते ववृधिरे वीरा ब्रह्मक्षेमाय दीक्षिताः ।
लोकानन्दमुकुन्दस्य चत्वार इव बाहवः ॥ ३३ ॥

पदच्छेदः

एते, ववृधिरे, वीराः, ब्रह्म-क्षेमाय, दीक्षिताः, लोक-आनन्द-मुकुन्दस्य, चत्वारः, इव, बाहवः

अन्वयार्थः

  • ववृधिरे = प्रवृद्धाः
  • एते वीराः = इमे शूराः रामादयः चत्वारः
  • दीक्षिताः = कृतसङ्कल्पाः
  • ब्रह्मक्षेमाय = विप्ररक्षणाय/वेदरक्षणाय/तपोरक्षणाय
  • चत्वारः बाहवः इव = चतुर्भुजोपमाः
  • लोकानन्दमुकुन्दस्य = भुवनानां आनन्ददायकस्य विष्णोः

अन्वयः

एते वीराः ब्रह्मक्षेमाय दीक्षिताः लोकानन्दमुकुन्दस्य चत्वारः बाहवः इव ववृधिरे ।

आकाङ्क्षा

  • ववृधिरे
    • के ववृधिरे ? एते वीराः
    • कथम्भूताः ववृधिरे ? दीक्षिताः
      • कस्मै दीक्षिताः ? ब्रह्मक्षेमाय
    • किमिव ववृधिरे ? चत्वारः बाहवः इव
      • कस्य बाहवः ? लोकानन्दमुकुन्दस्य

तात्पर्यम्

रामादयः चत्वारः पराक्रमिणः कुमाराः बाल्यादेव वेदानां, विप्राणां, तपसश्च रक्षणाय कृतसङ्कल्पाः, भुवनानाम् आनन्ददायकस्य विष्णोः चत्वारः भुजाः इव प्रवृद्धाः ।

पदविवरणम्

  • ववृधिरे = वृध् “वृधुँ वृधौ” – लिट्., प्र.पु., ब.व. – लिट्लकारे – ववृधे, ववृधाते, ववृधिरे ।
  • ब्रह्मक्षेमाय = ब्रह्मणः क्षेम, तस्मै । “वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः” (अमरः)
  • दीक्षिताः = दीक्षाऽस्य सञ्जाता – दीक्षा + इतच् (तद्धितः) । “यष्टा च यजमानश्च स सोमवति दीक्षितः” (अमरः)
  • लोकानन्दमुकुन्दस्य
    • लोकानन्दः = लोकानाम् आनन्दः
    • लोकानन्दमुकुन्दस्य = लोकानन्दश्चासौ मुकुन्दश्च, तस्य
  • चत्वारः = चतुर्-शब्दः, नित्यं बहुवचनान्तः, पुं., प्र.वि., ब.व.
  • बाहवः = उकारान्तः पुं., प्र.वि., ब.व. । “भुज-बाहू प्रवेष्टो दोः” (अमरः)

रामायणप्रसङ्गः

  • सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ।

सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः ॥ (बाल १८.२५)

अलङ्कारः

  • उपमालङ्कारः

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • एते वीराः = these warriors
    • दीक्षिताः = who are committed
      • ब्रह्मक्षेमाय = to the protection of Vedas / Tapas / Brahmin
    • ववृधिरे = grew up
      • चत्वारः बाहवः इव = like the four arms
        • लोकानन्दमुकुन्दस्य = of Vishnu, who brings delight to the worlds

गद्यम्

प्रस्तावना

विश्वामित्रस्यागमनम्

मूलपाठः

अथ कदाचिदपरिमेयमायाभयानकयुद्धसमुद्धतदैत्यबलावस्कन्द-कान्दिशीकवृन्दारकानीकपरिवार्यमाणरथः पङ्क्तिरथस्तपश्चर्याजाताना-माश्चर्याणामायतनं त्रिशङ्कुयाजिनं भगवन्तं पद्यप्रबन्धमिव दर्शितसर्गभेदं प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासं बुधमिव सोमसुतं कुशिकसुतमद्राक्षीत् ।

पदच्छेदः

अथ, कदाचित्, अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः, पङ्क्ति-रथः, तपस्-चर्या-जातानाम्, आश्चर्याणाम्, आयतनम्, त्रिशङ्कु-याजिनम्, भगवन्तम्, पद्य-प्रबन्धम्, इव, दर्शित-सर्ग-भेदम्, प्राकृत-व्याकरणम्, इव, प्रकटित-वर्ण-व्यत्यासम्, बुधम्, इव, सोम-सुतम्, कुशिक-सुतम्, अद्राक्षीत्

अन्वयार्थः

  • अथ कदाचित् पङ्क्तिरथः
    • अथ = रामादिषु प्रवृद्धेषु यौवनं प्राप्तेषु
    • कदाचित् = कस्मिंश्चिद् दिने
    • पङ्क्तिरथः = दशरथः
  • अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः पङ्क्ति-रथः
    • अपरिमेया = अपरिमिता, या माया = कपटविद्या
    • मायया भयानकानि = भयङ्कराणि,
    • युद्धेषु = समरेषु, समुद्धतानि = दृप्तानि
    • दैत्यानाम् = असुराणाम्, बलानि = सैन्यानि
    • तादृशानां सैन्यानाम् अवस्कन्दः = आक्रमणम्, तस्मात्
    • कान्दिशीकाः = भयेन पलायमानाः
    • वृन्दारकाणाम् = देवानाम्, अनीकाः = सेनाः, तैः
    • परिवार्यमाणः = रक्षणार्थम् उपसृत्य आवृतम्, रथः = स्यन्दनः यस्य तादृशः
    • दैत्यैः सह मायायुद्धे पराजयं प्राप्य पलायमानैः देवैः दशरथः रक्षणार्थं प्रार्थितः इत्यर्थः
  • कुशिकसुतम् अद्राक्षीत् ।
    • कुशिकसुतम् = विश्वामित्रम्
    • अद्राक्षीत् = दृष्टवान्
  • तपस्-चर्या-जातानाम् आश्चर्याणाम् आयतनम्, त्रिशङ्कु-याजिनम्,
    • तपश्चर्याजातानाम् = तपोबलेन समुत्पन्नानाम्
    • आश्चर्याणाम् = अद्भुतानाम्
    • आयतनम् = आस्पदम्
    • त्रिशङ्कुयाजिनम् = सदेहस्वर्गगमनम् इच्छतः त्रिशङ्कोः याजकम्
  • भगवन्तम्, पद्य-प्रबन्धम् इव, दर्शित-सर्ग-भेदम्,
    • भगवन्तम् = पूज्यम्
    • पद्यप्रबन्धम् इव = छन्दोबद्धं काव्यम् इव
    • दर्शितसर्गभेदम् = पद्यप्रबन्धपक्षे सर्गरूपैः अध्यायैः अन्वितम्, विश्वामित्रपक्षे नूतनसृष्टेः प्रदर्शकम् । “अन्यमिद्रं करिष्यामि”!
  • प्राकृत-व्याकरणम् इव प्रकटित-वर्ण-व्यत्यासम्, बुधम् इव सोम-सुतम्,
    • प्राकृतव्याकरणम् इव = प्राकृतभाषाणां व्याकरणम् इव
    • प्रकटितवर्णव्यत्यासम् = व्याकरणपक्षे अक्षरव्यत्ययसाधकम्, विश्वामित्रपक्षे क्षत्त्रियवर्णात् ब्राह्मणवर्णं प्राप्तवन्तम्
    • बुधम् इव = सौम्यग्रहम् इव
    • सोमसुतम् = बुधपक्षे सोमस्य चन्द्रस्य पुत्रः, विश्वामित्रपक्षे सोमयाजी

अन्वयः

अथ कदाचित् अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः पङ्क्ति-रथः तपस्-चर्या-जातानाम् आश्चर्याणाम् आयतनं त्रिशङ्कु-याजिनं भगवन्तं पद्यप्रबन्धमिव दर्शितसर्गभेदं प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासं बुधमिव सोमसुतं कुशिकसुतम् अद्राक्षीत् ।

आकाङ्क्षा

  • अद्राक्षीत्
    • कः अद्राक्षीत् ? पङ्क्ति-रथः
      • कीदृशः पङ्क्तिरथः ? अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः
    • कम् अद्राक्षीत् ? कुशिकसुतम्
      • कीदृशः कुशिकसुतम् ? आयतनम्
        • केषाम् आयतनम् ? आश्चर्याणाम्
          • कीदृशां आश्चर्याणाम् ? तपस्-चर्या-जातानाम्
        • पुनः कीदृशः कुशिकसुतम् ? त्रिशङ्कु-याजिनम्
        • पुनः कीदृशः कुशिकसुतम् ? भगवन्तम्
        • पुनः कीदृशः कुशिकसुतम् ? दर्शित-सर्ग-भेदम्
          • किमिव दर्शित-सर्ग-भेदम् ? पद्य-प्रबन्धम् इव
        • पुनः कीदृशः कुशिकसुतम् ? प्रकटित-वर्ण-व्यत्यासम्
          • किमिव प्रकटित-वर्ण-व्यत्यासम् ? प्राकृत-व्याकरणम् इव,
        • पुनः कीदृशः कुशिकसुतम् ? सोम-सुतम्
          • किमिव सोम-सुतम् ? बुधम् इव
        • कदा अद्राक्षीत् ? अथ कदाचित्

तात्पर्यम्

युद्धे दैत्येभ्यः पलायमानानां देवानामपि शरणप्रदायी दशरथः कदाचित् पूज्यं ब्रह्मर्षिं विश्वामित्रं दृष्टवान्, यः विश्वामित्रः स्वस्य तपोबलेन बहूनि अद्भुतानि घटयामास; सदेहस्वर्गगमनं कामयमानं त्रिशङ्कुं याजितवान्; अन्यामेव सृष्टिं निर्मातुं प्रवृत्तः; जन्मना क्षत्त्रियः सन्नपि उग्रेण तपसा ब्राह्मण्यम् अवाप; सोमयाजी च बभूव ।

पदविवरणम्

  • अथ कदाचित् पङ्क्तिरथः कुशिकसुतम् अद्राक्षीत् ।
    • पङ्क्तिः = दश । पङ्क्तिरथः, पङ्क्तिग्रीवः । “पङ्क्तिश्छन्दोऽपि दशमम्” (अमरः) । गायत्री (६) – उष्णिक् (७) – अनुष्टुप् (८) – बृहती (९) – पङ्क्तिः (१०) – त्रिष्टुप् (११) – जगती (१२)
    • कुशिकसुतम् – कुशिकस्य सुतः, तम्
    • अद्राक्षीत् – “दृशिर् प्रेक्षणे” – लुङ्, प्रथम.१
  • अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः पङ्क्ति-रथः
    • अपरिमेय = परिमातुं शक्या परिमेया । न परिमेया ।
    • दैत्यः = “असुरा दैत्य-दैतेय-दनुज-इन्द्रारि-दानवाः” (अमरः)
    • कान्दिशीकः = “कान्दिशीको भयद्रुतः” (अमरः)
    • वृन्दारकः = “वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम्” (अमरः)
    • अनीकः = “वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम्” (अमरः)
    • रथः = “शताङ्गः स्यन्दनो रथः” (अमरः)
  • त्रिशङ्कुयाजिनम् = त्रिशङ्कुं याजयति इति, तम् । नकारान्तः, पुं, द्वि.वि., ए.व.
  • दर्शितसर्गभेदम् = सर्गस्य भेदः, दर्शितः सर्गभेदः येन सः
  • प्रकटितवर्णव्यत्यासः = वर्णस्य व्यत्यासः, प्रकटितः वर्णव्यत्यासः येन सः
  • सोमसुतम्
    • सोमस्य सुतः – अकारान्तः, पुं., द्वि.वि., ए.व. ।
    • सोमं सुनोति – तकारान्तः, पुं, द्वि.वि., ए.व. – प्रथमाविभक्तौ – सोमसुत् सोमसुतौ सोमसुतः

अलङ्कारः

  • श्लेषः

Word-Meaning

  • अथ = Then (when Rama and his brothers had grown up)
    • कदाचित् = at some point of time
    • पङ्क्तिरथः = Dasharata, one who was capable of driving his chariot in ten (Pankti) directions
      • अपरिमेय-माया-भयानक-युद्ध-समुद्धत-दैत्य-बल-अवस्कन्द-कान्दिशीक-वृन्दारक-अनीक-परिवार्यमाण-रथः = one whose chariot (रथ) is being surrounded (परिवार्यमाण) (for protection) by the armies (अनीक) of the Devas (वृन्दारक), who were fleeing (कान्दिशीक) from the attack (अवस्कन्द) of the armies (बल) of the Asuras (दैत्य), who instilled fear (भयानक) due to the immeasurable (अपरिमेय) power of trickery or Maya (माया) and who were confidently arrogant (समुद्धत) in the battle (युद्ध) (e., दैत्यैः सह मायायुद्धे पराजयं प्राप्य पलायमानैः देवैः दशरथः रक्षणार्थं प्रार्थितः इत्यर्थः When the devas were tormented by the demons, Dasaratha had gone for their rescue)
    • अद्राक्षीत् = saw
    • कुशिकसुतम् = Vishvamitra, i.e., Kaushika, the son of Kushika
      • तपश्चर्याजातानाम् आश्चर्याणाम् आयतनम् = He who was the abode (आयतन) of the miracles (आश्चर्य) generated (जात) through his Tapas (तपश्चर्या)
      • त्रिशङ्कुयाजिनम् = He who made Trishanku (त्रिशङ्कु) perform the sacrifice (याजिन् – i.e., one who makes a person do sacrifice)
      • भगवन्तम् = one who is revered
      • पद्यप्रबन्धमिव दर्शितसर्गभेदम् = like (इव) a metrical (पद्य) poem (प्रबन्ध), which show (दर्शित) the divisions (भेद) in the form of chapters (सर्ग), he demonstrated (दर्शित) the divisions (भेद) of the creations (सर्ग)
      • प्राकृतव्याकरणमिव प्रकटितवर्णव्यत्यासम् = Like the grammar of Prakruta Languages (i.e., Regional Dialects) (प्राकृत) which exhibits (प्रकटित) the change (व्यत्यास) of letters (वर्ण) (eg. Dharma becomes Dhamma in some language), he exhibited (प्रकटित) a change (व्यत्यास) in his caste (वर्ण) (i.e., by becoming a Brahmana though he was born as a Kshatriya).
      • बुधमिव सोमसुतम् = Like (इव) Budha (बुध), who is the son (सुत) of Moon (सोम), he is the performer (सुत्) of Soma Yaga (सोम)

कक्ष्या १९ – १६.०४.२०१८

गद्यम्

मूलपाठः

तदनु यथाविधि कृतसपर्येण मर्यादातीतमहिम्ना महितेन गाधेतरहृदयेन गाधिनन्दनेन सत्रपरित्राणार्थमित्थमभ्यर्थितोऽभूत् ।

पदच्छेदः

तदनु, यथा-विधि, कृत-सपर्येण, मर्यादा-अतीत-महिम्ना, महितेन, गाध-इतर-हृदयेन, गाधि-नन्दनेन, सत्र-परित्राणार्थम्, इत्थम्, अभ्यर्थितः, अभूत्

अन्वयार्थः

  • तदनु = तदनन्तरम्, विश्वामित्र-दशरथयोः मेलनानन्तरम्
  • अभ्यर्थितः अभूत् = प्रार्थितः
  • गाधिनन्दनेन = गाधिसुतेन विश्वामित्रेण
  • यथाविधि कृतसपर्येण = पाद्य-अर्घ्य-आचमनीय-आसनादिभिः सत्कृतेन इत्यर्थः
    • यथाविधि = शास्त्रानुगुणम्
    • कृतसपर्येण = पूजितेन
  • मर्यादातीतमहिम्ना = अपरिमित-माहात्म्य-शालिना
  • महितेन = पूज्येन
  • गाधेतरहृदयेन = गम्भीरचेतसा
  • सत्रपरित्राणार्थम्
    • सत्रस्य = यज्ञस्य,
    • परित्राणार्थम् = रक्षणार्थम्
  • इत्थम् = वक्ष्यमाणप्रकारेण

अन्वयः

तदनु यथाविधि कृतसपर्येण, मर्यादातीतमहिम्ना, महितेन, गाधेतरहृदयेन, गाधिनन्दनेन [दशरथः] सत्रपरित्राणार्थम् इत्थम् अभ्यर्थितः अभूत् ।

आकाङ्क्षा

  • अभ्यर्थितः अभूत्
    • कथम् अभ्यर्थितः ? इत्थम्
    • किमर्थम् अभ्यर्थितः ? सत्रपरित्रानार्थम्
    • केन अभ्यर्थितः ? गाधिनन्दनेन
      • कीदृशेन गाधिनन्दनेन ? महितेन
      • पुनः कीदृशेन गाधिनन्दनेन ? गाधेतरहृदयेन
      • पुनः कीदृशेन गाधिनन्दनेन ? मर्यादातीतमहिम्ना
      • पुनः कीदृशेन गाधिनन्दनेन ? कृतसपर्येण
      • कीदृशं कृतसपर्येण ? यथाविधि
    • कदा अभ्यर्थितः ? तदनु

तात्पर्यम्

दशरथः विश्वामित्रं विधिवत् पूजितवान् । ततः पूज्यः, अपरिमितमाहात्म्यशाली, गम्भीरमनस्कः विश्वामित्रः यज्ञस्य रक्षणार्थं दशरथम् एवं प्रार्थयामास ।

पदविवरणम्

  • यथाविधि = विधिम् अनतिक्रम्य । अव्ययीभावसमासः – अव्ययम् ।
  • कृतसपर्येण = कृता सपर्या यस्य सः । “पूजा नमस्या-अपचितिः सपर्या-अर्चा-अर्हणाः समाः” (अमरः)
  • मर्यादातीतमहिम्ना
    • मर्यादातीतः = मर्यादाम् अतीतः
    • मर्यादातीतमहिम्ना = मर्यादातीतः महिमा यस्य सः । मर्यादातीतमहिमन् नकारान्तः, पुं., तृ.वि., ए.व. ।
  • गाधेतरहृदयेन
    • गाधेतरम् = गाधात् इतरम्
    • गाधेतरहृदयेन = गाधेतरं हृदयं यस्य सः, तेन
  • गाधिनन्दनेन = गाधेः नन्दनः, तेन
  • सत्रपरित्राणार्थम् = सत्रस्य परित्राणम्, तस्मै । “सत्रमाच्छादने यज्ञे”
  • अभ्यर्थितः = अभि + अर्थ “अर्थ उपयाच्ञायाम्” + क्त (कृत्)
  • अभूत् = भू “भू सत्तायाम्” – लुङ्, प्र.पु., ए.व.

Word-Meaning

  • तदनु = After that
  • (दशरथः) अभूत् = (Dasharata) became
  • अभ्यर्थितः = one who has been requested (अभि+अर्थित)
  • सत्रप्रित्रानार्थम् = for (अर्थम्) the protection (परित्रान) of the sacrifice (सत्र)
  • गाधिनन्दनेन = by Vishwamitra, who is the beloved son (नन्दन) of Gaadhi (गाधि)
    • यथाविधि कृतसपर्येण = by him, to whom worship (सपर्या) was done (कृत) as per (यथा) the custom (विधि)
    • मर्यादातीतमहिम्ना = by him, whose greatness (महिमन्) has crossed (अतीत) all boundaries (मर्याद)
    • महितेन = by him, who is venerable (महित)
    • गाधेतरहृदयेन = by him, who is deep (गाधेतर – other than इतर shallow गाघ) at heart or mind (हृदय)
  • इत्थम् = in this manner (to be explained in the following verses)

गद्यम्

मूलपाठः

राजन् भवतस्तनयेन विनयाभिरामेण रामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन क्रियमाणक्रतुरक्षो रक्षोदुरितमुत्तीर्य कृतावभृथो भवितुमभिलषामीति ।

पदच्छेदः

राजन्, भवतः, तनयेन, विनय-अभिरामेण, रामेण, शर-आसन-मित्रेण, सौमित्रि-मात्र-परिजनेन, क्रियमाण-क्रतु-रक्षः, रक्षः-दुरितम्, उत्तीर्य, कृत-अवभृथः, भवितुम्, अभिलषामि, इति

अन्वयार्थः

  • राजन् = हे नृप !
  • अभिलषामि = इच्छामि
  • कृतावभृथः भवितुम् = यज्ञं समाप्य दीक्षान्तस्नानं कर्तुम्
  • उत्तीर्य = तीर्त्वा
  • रक्षोदुरितम् = राक्षसरूपं विघ्नम्
  • क्रियमाणक्रतुरक्षः = संरक्ष्यमाणयज्ञः
  • भवतः = दशरथस्य
  • तनयेन = पुत्रेण
  • विनयाभिरामेण = विनयगुणभूषितेन
  • शरासनमित्रेण
    • शरासनम् = धनुः
    • मित्रम् = सुहृदः
    • शरासनमित्रेण = धनोः मित्रम्, तेन । चापधारिणा इत्यर्थः
  • सौमित्रिमात्रपरिजनेन = लक्ष्मणेन केवलम् अनुसृतेन

अन्वयः

राजन्, विनयाभिरामेण शरासनमित्रेण सौमित्रिमात्रपरिजनेन भवतः तनयेन रामेण क्रियमाणक्रतुरक्षः रक्षोदुरितमुत्तीर्य कृतावभृथः भवितुम् अभिलषामि इति ।

आकाङ्क्षा

  • किं इति (दशरथः अभ्यर्थितः अभूत्) ? … इति
  • हे राजन्
  • अभिलषामि
    • किं कर्तुम् अभिलषामि ? भवितुम्
      • कथं भवितुम् ? कृतावभृथः
        • किं कृत्वा कृतावभृथः ? उत्तीर्य
          • किम् उत्तीर्य ? रक्षोदुरितम्
        • कः अभिलषति ? अहम् अभिलषामि
          • कीदृशः सन् अहम् ? क्रियमाणक्रतुरक्षः
            • केन क्रियमाणक्रतुरक्षः ? रामेण
              • कीदृशेन रामेण ? तनयेन
                • कस्य तनयेन ? भवतः
              • पुनः कीदृशेन रामेण ? विनयाभिरामेण
              • पुनः कीदृशेन रामेण ? सौमित्रिमात्रपरिजनेन
              • पुनः कीदृशेन रामेण ? शरासनमित्रेण

तात्पर्यम्

हे नृप! विनयगुणभूषितेन, चापधारिणा, लक्ष्मणसहायेन भवतः पुत्रेण रामेण संरक्ष्यमाणयज्ञः सन् अहं राक्षसरूपं विघ्नम् अतीत्य यज्ञं समाप्य दीक्षान्तस्नानं कर्तुम् इच्छामि ।

पदविवरणम्

  • तनयेन = “आत्मजः तनयः सूनुः सुतः पुत्रः” (अमरः)
  • विनयाभिरामेण = विनयेन अभिरामः, तेन
  • शरासनमित्रेण
    • शरासनम् = शरस्य आसनम् । “धनुः-चापौ धन्व-शरासन-कोदण्ड-कार्मुकम्” (अमरः)
    • शरासनमित्रेण = शरासनस्य मित्रम्, तेन
    • (अथवा) शरासनमित्रेण = शरासनं मित्रं यस्य सः, तेन
  • सौमित्रिमात्रपरिजनेन
    • सौमित्रिमात्रम् = सौमित्रिः एव । सुमित्रायाः अपत्यं पुमान् सौमित्रिः – सुमित्रा + इञ् (तद्धितः)
    • सौमित्रिमात्रपरिजनेन = सौमित्रिमात्रं परिजनः यस्य सः
  • क्रियमाणक्रतुरक्षः
    • क्रतुरक्षा = क्रतोः रक्षा
    • क्रियमाणक्रतुरक्षः = क्रियमाणा क्रतुरक्षा यस्य सः
  • रक्षोदुरितम् = रक्षांसि एव दुरितम् । “यातुधानः पुण्यजनो नैर्ऋतो यातु-रक्षसी” (अमरः)
  • उत्तीर्य = उद् + तॄ “तॄ प्लवनतरणयोः” – ल्यबन्ताव्ययम्
  • कृतावभृथः = कृतः अवभृथः येन सः
  • अभिलषामि = अभि + लष् “लषँ कान्तौ” – लट्., उ.पु., ए.व.

रामायणप्रसङ्गः

  • स्वपुत्रं राजशार्दूलं रामं सत्यपराक्रमम् ।
    काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ (बाल. १९.८)
  • शक्यो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
    राक्षसा ये विकर्तारः तेषामपि विनाशने ॥ (बाल. १९.९)
  • श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।
    त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ (बाल. १९.१०)

Word-Meaning

  • राजन् = O King!
  • अभिलषामि = I desire
    • भवितुम् = to become
    • क्रियमाणक्रतुरक्षः = one for whom the protection (रक्ष) of the yagna (क्रतु) is being done (क्रियमाण)
      • रामेण = by Rama
        • भवतः तनयेन = by your (भवतः) son (तनय)
        • विनयाभिरामेण = by him, who is gleaming (अभिराम) with obedience (विनय)
        • शरासनमित्रेण = by him, for whom the bow (शरासन – the seat आसन of the arrows शर), is the friend (मित्र) e., one who holds the bow
        • सौमित्रिमात्रपरिजनेन = by him, for whom Lakshmana (सौमित्रि), the son of Sumitra, himself alone (मात्र) is the attendant (परिजन), i.e., for whom Lakshmana is enough to do all the service
      • कृतावभृथः = one who has completed (कृत) the bath called Avabhruta (अवभृत) that is taken after the Yagna is completed
        • रक्षोदुरितम् उत्तीर्य = having crossed (उत्तीर्य) the evil actions (दुरित) of the demons (रक्षस्) (or the hinderances in the form of demons)
      • इति = Thus (he spoke)

गद्यम्

मूलपाठः

एतदाकर्ण्य कर्णपरुषं महर्षिभाषिततिमात्रपुत्रवात्सल्यात् कौसल्याजानिः सशल्यान्तःकरणोऽभूत् ।

पदच्छेदः

एतत्, आकर्ण्य, कर्ण-परुषम्, महर्षि-भाषितम्, अति-मात्र-पुत्र-वात्सल्यात्, कौसल्या-जानिः, सशल्य-अन्तःकरणः, अभूत्

अन्वयार्थः

  • सशल्यान्तःकरणः अभूत् = विदीर्णहृदयः अभवत्
  • कौसल्याजानिः = दशरथः
  • आकर्ण्य = श्रुत्वा
  • एतत् महर्षिभाषितम् = पूर्ववर्णितं विश्वामित्रवचनम्
  • कर्णपरुषम् = श्रोत्रकठोरं
  • अतिमात्रपुत्रवात्सल्यात् = अपरिमितात् सुतस्नेहात्

अन्वयः

एतत् कर्णपरुषं महर्षिभाषितम् आकर्ण्य अतिमात्रपुत्रवात्सल्यात् कौसल्याजानिः सशल्यान्तःकरणः अभूत् ।

आकाङ्क्षा

  • सशल्यान्तःकरणः अभूत्
    • कः सशल्यान्तःकरणः अभूत् ? कौसल्याजानिः
    • किं कृत्वा ? आकर्ण्य
      • किम् आकर्ण्य ? एतत्
        • किम् एतत् ? महर्षिभाषितम्
        • कीदृशम् एतत् ? कर्णपरुषम्
      • किमर्थं सशल्यान्तःकरणः अभूत् ? अतिमात्रपुत्रवात्सल्यात्

तात्पर्यम्

“पुत्रं रामं राक्षसनाशाय प्रेषय” इत्येवंरूपं कर्णकठोरम् ऋषिवचनं श्रुत्वा अपरिमितेन पुत्रस्नेहेन दशरथः विदीर्णहृदयः अभवत् ।

पदविवरणम्

  • आकर्ण्य = आ + कर्ण् “कर्ण भेदने” – ल्यबन्ताव्ययम्
  • कर्णपरुषम् = कर्णस्य परुषम् । “कर्ण-शब्दग्रहौ श्रोत्रम्” (अमरः)
  • महर्षिभाषितम्
    • ऋषिः = “ऊर्ध्वरेताः तपस्युग्रः नियताशी च संयमी । शापानुग्रहयोः शक्तः सत्यसन्धो भवेदृषिः”
    • महर्षिः = महान् ऋषिः ।
    • महर्षिभाषितम् = महर्षेः भाषितम् ।
  • अतिमात्रपुत्रवात्सल्यात्
    • अतिमात्रम् = मात्राम् अतिक्रान्तम् ।
    • अतिमात्रपुत्रवात्सल्यात् = अतिमात्रं पुत्रवात्सल्यं, तस्मात्
  • कौसल्याजानिः = कौसल्या जाया यस्य सः । “जायाया निङ्” ।
  • सशल्यान्तःकरणः
    • सशल्यम् = शल्येन सहितं ।
    • सशल्यान्तःकरणः = सशल्यम् अन्तःकरणं यस्य सः ।

रामायणप्रसङ्गः

  • स तं निशम्य राजेन्द्रो विश्वामित्रवचः शुभम् ।
  • शोकेन महताविष्टः चचाल च मुमोह च ।
    लब्धसंज्ञस्ततोत्थाय व्यषीदत भयान्वितः ॥ (बाल १९-२१)

Word-Meaning

  • आकर्ण्य = On hearing
  • एतत् = these
  • महर्षिभाषितम् = words (भाषित) of the sage (महर्षि)
  • कर्णपरुषम् = which were harsh (परुष) to the ears (कर्ण)
  • कौसल्याजानिः = Dasharatha, the husband (जाया यस्य सः) of Kausalyaa (कौसल्या)
  • अभूत् = became
  • सशल्यान्तःकरणः = one whose heart (अन्तःकरण) was associated with (स) the metallic tip of the arrow (शल्य) (i.e., excessively agitated similar to that of a heart being pierced by an arrow)
  • अतिमात्रपुत्रवात्सल्यात् = due to his immeasurable (अति+मात्र) affection (वात्सल्य) for his son (पुत्र)

कक्ष्या १ – .०.२०१८

गद्यम्

मूलपाठः

ततस्तस्मिन् बहुप्रकारैरवार्यनिश्चये भगवति विश्वामित्रे दशरथस्तपनकुलहितेन पुरोहितेनैवमभिहितोऽभूत् ।

पदच्छेदः

ततः, तस्मिन्, बहु-प्रकारैः, अवार्य-निश्चये, भगवति, विश्वामित्रे, दशरथः, तपन-कुल-हितेन, पुरोहितेन, एवम्, अभिहितः, अभूत् ।

अन्वयार्थः

  • ततः = तदनन्तरम्
  • अभिहितः अभूत् = उक्तः अभवत्
  • पुरोहितेन = कुलगुरुणा वसिष्ठेन
  • तपनकुलहितेन = सूर्यवंशस्य हितकारिणा
  • भगवति = पूज्ये
  • बहुप्रकारैः = नानाविधैः उपायान्तरैः
  • अवार्यनिश्चये – अवार्यः = निवारयितुम् अशक्यः, निश्चयः = निर्धारः यस्य तादृशः
  • विश्वामित्रे

अन्वयः

ततः बहुप्रकारैः अवार्यनिश्चये भगवति तस्मिन् विश्वामित्रे दशरथः तपनकुलहितेन पुरोहितेन एवम् अभिहितः अभूत् ।

आकाङ्क्षा

  • अभिहितः अभूत्
    • कथम् अभिहितः अभूत् ? एवम्
    • केन अभिहितः अभूत् ? पुरोहितेन
      • कीदृशेन पुरोहितेन ? तपनकुलहितेन
    • कः अभिहितः अभूत् ? दशरथः
    • कदा अभिहितः अभूत् ? अवार्यनिश्चये तस्मिन् विश्वामित्रे
      • कीदृशे विश्वामित्रे ? भगवति
      • कथम् अवार्यनिश्चये ? बहुप्रकारैः अवार्यनिश्चये

तात्पर्यम्

  • [दशरथेन बहुधा प्रार्थितोऽपि विश्वामित्रः श्रीरामः एव नेतव्यः इत्यात्मनः निश्चयं न परिवर्तयामास ।] नानाविधैः समाधानान्तरैरपि विश्वामित्रे स्वनिर्धाराद् अविचाल्ये सति, राजा दशरथः सूर्यवंशस्य हितकारिणा कुलगुरुणा इत्थम् उक्तः ।

पदविवरणम्

  • अवार्यनिश्चये भगवति विश्वामित्रे इति सतिसप्तमी प्रयोगः
  • अवार्यनिश्चये = अवार्यः निश्चयः यस्य सः, तस्मिन्
  • तपनकुलहितेन
    • तपनकुलम् = तपनस्य कुलम् ।
    • तपनकुलहितेन = तपनकुलस्य हितः, तेन । “भानुर्हंसः सहस्रांशुः तपनः सविता रविः”
  • अभिहितः = अभि + धा “डुधाञ् धारणपोषणयोः” + क्त (कृत्)

रामायणप्रसङ्गः

  • ऊनषोडशवर्षो मे रामो राजीवलोचनः ।
    न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः ॥ (२०.२)
  • इमे शूराश्च विक्रान्ताः भृत्या मेऽस्त्रविशारदाः ।
    योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि ॥ (२०.४)
  • अहमेव धनुष्पाणिः गोप्ता समरमूर्द्धनि ।
    यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥ (२०.५)
  • यदि वा राघवं ब्रह्मन् नेतुमिच्छसि सुव्रत ।
    चतुरङ्गसमायुक्तं मया सह च तं नय ॥ (२०.९)

Word-Meaning

  • ततः = After that
  • तस्मिन् भगवति विश्वामित्रे = When (सति) that (तत्) Bhagavan (भगवत्) Viswamitra (विश्वामित्र)
  • बहुप्रकारैः अवार्यनिश्चये (सति) = when he had this resolution (निश्चय) be unrestrainable (अवार्य) in spite of multiple attempts in different ways (बहुप्रकारैः) to change it
  • दशरथः = Dasharatha
  • अभूत् = became
  • अभिहितः = the person who was spoken to
  • एवम् = in this way
  • पुरोहितेन = by the priest (i.e., royal priest) (पुरोहित)
  • तपनकुलहितेन = by one who cares for the welfare (हित) of the solar (तपन) race (कुल)

कक्ष्या २० – २३.०४.२०१८

34.     श्लोकः

मूलपाठः

पर्याप्तभाग्याय भवानमुष्मै कुर्यात्सपर्यां कुशिकात्मजाय ।
निर्यातुधानां वसुधां विधातुं निर्यातु रामः सह लक्ष्मणेन ॥ ३४ ॥

पदच्छेदः

पर्याप्त-भाग्याय, भवान्, अमुष्मै, कुर्यात्, सपर्याम्, कुशिक-आत्मजाय, निर्-यातुधानाम्, वसुधाम्, विधातुम्, निर्यातु, रामः, सह, लक्ष्मणेन ।

अन्वयार्थः

  • कुर्यात् = विदध्यात्
  • सपर्याम् = पूजाम्
  • भवान् = राजा दशरथः
  • कुशिकात्मजाय = कौशिकाय विश्वामित्राय
  • अमुष्मै = एतस्मै
  • पर्याप्तभाग्याय
    • पर्याप्तम् = परिपूर्णम्
    • भाग्यम् = ब्रह्मवर्चसप्राप्तिरूपं भागधेयं यस्य
    • पर्याप्तभाग्याय = यस्य ब्रह्मवर्चसप्राप्तिरूपं भागधेयं परिपूर्णम् अस्ति, तादृशाय
  • निर्यातु = निर्गच्छतु
  • वसुधाम् = पृथ्वीम्
    • वसूनि = रत्नानि
    • दधाति = धरति
  • निर्यातुधानाम् = राक्षसरहिताम्
  • विधातुम् = कर्तुम्

अन्वयः

भवान् अमुष्मै पर्याप्तभाग्याय कुशिकात्मजाय सपर्यां कुर्यात् । वसुधां निर्यातुधानां विधातुं रामः लक्ष्मणेन सह निर्यातु ।

आकाङ्क्षा

  • कुर्यात्
    • किं कुर्यात् ? सपर्याम्
      • कस्मै सपर्यां कुर्यात् ? कुशिकात्मजाय
        • कीदृशाय कुशिकात्मजाय ? अमुष्मै
        • पुनः कीदृशाय कुशिकात्मजाय ? पर्याप्तभाग्याय
      • कः कुर्यात् ? भवान्
    • निर्यातु
      • कः निर्यातु ? रामः
      • केन सह निर्यातु ? लक्ष्मणेन सह
      • किं कर्तुं निर्यातु ? विधातुम्
        • कथं विधातुम् ? निर्यातुधानाम्
        • कां विधातुम् ? वसुधाम्

तात्पर्यम्

वसिष्ठः दशरथम् आह – “भो राजन्! परिपूर्णभागधेयाय पूज्याय विश्वामित्राय भवान् (तस्य इच्छापूरणद्वारा) पूजां कुर्यात् । पृथ्वीं राक्षसरहितां कर्तुं रामः लक्ष्मणेन सह निर्गच्छतु ।”

पदविवरणम्

  • पर्याप्तभाग्याय = पर्याप्तं भाग्यं यस्य सः, तस्मै, च.वि., ए.व.
  • अमुष्मै = “अदस्” सकारान्तः, पुं., च.वि., ए.व. [ प्रथमा – असौ अमू अमी । द्वितीया – अमुम् अमू अमून् । तृतीया – अमुना अमूभ्याम् अमीभिः । चतुर्थी – अमुष्मै अमूभ्याम् अमीभ्यः ]
  • कुर्यात् = “डुकृञ् करणे” – विधिलिङ्, प्र.पु., ए.व.
  • कुशिकात्मजाय = कुशिकस्य आत्मजः, तस्मै । च.वि., ए.व.
  • निर्यातुधानाम् = निर्गताः यातुधानाः यस्याः सा, ताम् । द्वि.वि., ए.व. । “यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी” (अमरः),
  • वसुधाम् = वसूनि दधाति इति । द्वि.वि., ए.व. । “सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा” (अमरः)
  • निर्यातु = निर् + या “या प्रापणे” लोट्., प्र.पु., ए.व.

रामायणप्रसङ्गः

  • एष विग्रहवान् धर्मः एष वीर्यवतां वरः ।
    एष विद्याधिको लोके तपसश्च परायणम् ॥ (बाल. २१.१०)
  • तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
    तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥ (बाल. २१.२१)

अलङ्कारः

  • अनुप्रासालङ्कारः

छन्दः

  • वृत्तम् – इन्द्रवज्रा । ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ (११ अक्षराणि)

Word-Meaning

  • भवान् = You
    • कुर्यात् = do
    • सपर्याम् = worship (by fulfilling his desire)
    • अमुष्मै = to him
    • पर्याप्तभाग्याय = to one whose fortunes (भाग्य) are sufficient (पर्याप्त) [i.e., to the one who has acquired the Brahmavarchas nothing is impossible, to such a person]
    • कुशिकात्मजाय = to Viswamitra, born in the lineage (आत्मज) of Kushika (कुशिक)
  • रामः निर्यातु = Let Rama proceed
    • लक्ष्मणेन सह = along with Lakshmana
    • विधातुम् = to make
    • वसुधाम् = earth, the one which adorns (धा) valuable gems (वसु)
      • निर्यातुधानाम् = become one from which demons (यातुधान) have left (निः e., निर्गत)

गद्यम्

मूलपाठः

एवं वसिष्ठेन प्रतिष्ठापितधृतिर्दशरथः सुतप्रदानेन कुशिकसुतमनोरथमेव पूरयामास ।

पदच्छेदः

एवम्, वसिष्ठेन, प्रतिष्ठापित-धृतिः, दशरथः, सुत-प्रदानेन, कुशिक-सुत-मनोरथम्, एव, पूरयामास

अन्वयार्थः

  • पूरयामास = सफलीचकार
  • कुशिकसुतमनोरथम् एव = विश्वामित्रस्य इच्छामेव
  • सुतप्रदानेन = श्रीरामस्य प्रेषणेन
  • एवम् = पूर्वोक्तप्रकारेण
  • वसिष्ठेन = कुलगुरुणा
  • प्रतिष्ठापितधृतिः = जनितधैर्यः

अन्वयः

एवं वसिष्ठेन प्रतिष्ठापितधृतिः दशरथः सुतप्रदानेन कुशिकसुतमनोरथम् एव पूरयामास ।

आकाङ्क्षा

  • पूरयामास
    • किं पूरयामास ? कुशिकसुतमनोरथम् एव
    • कथं पूरयामास ? एवम्
      • कथम् एवम् पूरयामास ? सुतप्रदानेन
    • कः पूरयामास ? दशरथः
      • कीदृशः दशरथः ? प्रतिष्ठापितधृतिः
        • केन प्रतिष्ठापितधृतिः ? वसिष्ठेन

तात्पर्यम्

कुलगुरुणा वसिष्ठेन आश्वासितः दशरथः श्रीरामप्रेषणेन विश्वामित्रस्य इच्छामेव सफलीकृतवान् ।

पदविवरणम्

  • प्रतिष्ठापितधृतिः = प्रतिष्ठापिता धृतिः यस्य सः
  • सुतप्रदानेन = सुतस्य प्रदानम्, तेन, तृ.वि., ए.व.
  • पूरयामास = पूर् “पूरीँ आप्यायने” लिट्., प्र.पु., ए.व.

रामायणप्रसङ्गः

  • तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् ।
    प्रहृष्टवदनो रामम् आजुहाव सलक्ष्मणम् ॥ बाल.२२.१

Word-Meaning

  • एवम् = In this way
  • दशरथः = Dasharatha
  • प्रतिष्ठापितधृतिः = one whose courage (धृति) has been established (प्रतिष्ठापित)
  • वसिष्ठेन = by Vasishta
  • पूरयामास = fulfilled
  • कुशिकसुतमनोरथम् एव = the desire (मनोरथ) itself (एव) of Vishvamitra, the son (i.e., descendent) (सुत) of Kushika (कुशिक)
  • सुतप्रदानेन = by giving (प्रदान) his son(s) (सुत)

35.     श्लोकः

मूलपाठः

योगेन लभ्यो यः पुंसां संसारापेतचेतसाम् ।
नियोगेन पितुः सोऽयं रामः कौशिकमन्वगात् ॥ ३५ ॥

पदच्छेदः

योगेन, लभ्यः, यः, पुंसाम्, संसार-अपेत-चेतसाम्, नियोगेन, पितुः, सः, अयम्, रामः, कौशिकम्, अन्वगात्

अन्वयार्थः

  • अन्वगात् = अनुगतवान्
  • कौशिकम् = विश्वामित्रम्
  • पितुः = तातस्य
  • नियोगेन = आज्ञया
  • लभ्यः = प्राप्तुं शक्यः
  • योगेन = चित्तवृत्तिनिरोधेन / ध्यानेन
  • संसारापेतचेतसाम् = विरागिणाम्
  • पुंसाम् = जनानाम्

अन्वयः

यः रामः संसारापेतचेतसां पुंसां योगेन लभ्यः सः अयं पितुः नियोगेन कौशिकम् अन्वगात् ।

आकाङ्क्षा

  • अन्वगात्
    • कम् अन्वगात् ? कैशिकम्
    • केन कारणेन अन्वगात् ? नियोगेन
      • कस्य नियोगेन ? पितुः
    • कः अन्वगात् ? अयम्
      • कः अयम् अन्वगात् ? रामः
        • कीदृशः रामः ? यः … लभ्यः सः
          • केन लभ्यः ? योगेन
            • केषां योगेन ? पुंसाम्
              • कीदृशां पुंसाम् ? संसारापेतचेतसाम्

तात्पर्यम्

यः वैराग्यशीलैः जनैः चित्तवृत्तिनिरोधेन, ध्यानेन, महता तपसा वा प्राप्तुं शक्यः, तादृशः रामः तातस्य आज्ञया (स्वयं) विश्वामित्रम् अनुगतवान् ।

पदविवरणम्

  • लभ्यः = लब्धुं शक्यः – लभ् “डुलभँष् प्राप्तौ” + यत् (कृत्)
  • पुंसाम् = “पुंस्” सकारान्तः, पुं., ष.वि., ब.व.
  • संसारापेतचेतसाम्
    • संसारापेतम् = संसारात् अपेतम्
    • संसारापेतचेतसाम् = संसारापेतं चेतः येषां ते, तेषाम् । संसारापेतचेतस् सकारान्तः, पुं., ष.वि., ब.व.
  • अन्वगात् = अनु + इ “इण् गतौ” – लुङ्., प्र.पु., ए.व.

Word-Meaning

  • यः रामः = That Rama who
    • लभ्यः = obtained
    • योगेन = through Yoga
    • पुंसाम् = by men
    • संसारापेतचेतसाम् = by those whose minds (चेतस्) have become free (अपेत) from the worldly life (संसार)
  • सः = He
    • अयम् = this person
    • अन्वगात् = followed
    • कैशिकम् = Vishwamitra, the descendent of Kushika (कुशिक)
    • नियोगेन = by the orders
    • पितुः = of his father

36.     श्लोकः

मूलपाठः

तत्र सत्रं परित्रातुं विश्वामित्रो महामुनिः ।
सौमित्रिसहितं रामं नयन्नयमवोचत ॥ ३६ ॥

पदच्छेदः

तत्र, सत्रम्, परित्रातुम्, विश्वामित्रः, महा-मुनिः, सौमित्रि-सहितम्, रामम्, नयन्, अयम्, अवोचत

सन्धिः

  • नयन् + अयम् = नयन्नयम् – ङमुडागमसन्धिः

अन्वयार्थः

  • तत्र = तस्मिन् समये
  • अवोचत = उक्तवान्
  • महामुनिः = ऋषिश्रेष्ठः
  • सौमित्रिसहितम् = सलक्ष्मणं रामम्
  • सत्रम् = यज्ञम्
  • परित्रातुम् = रक्षितुम्

अन्वयः

तत्र अयं महामुनिः विश्वामित्रः सत्रं परित्रातुं सौमित्रिसहितं रामं नयन् अवोचत ।

आकाङ्क्षा

  • अवोचत ।
    • कः अवोचत ? अयम्
      • कः अयम् अवोचत ? विश्वामित्रः
        • कीदृशः विश्वामित्रः ? महामुनिः
        • कथम्भुतः विश्वामित्रः ? नयन्
          • कं नयन् ? रामम्
            • कथंभूतं रामम् ? सौमित्रिसहितम्
          • किमर्थं नयन् ? परित्रातुम्
            • किं परित्रातुम् ? सत्रम्
            • कुत्र परित्रातुम् ? तत्र

तात्पर्यम्

ऋषिश्रेष्ठः विश्वामित्रः यज्ञरक्षणार्थं रामलक्ष्मणौ नयन् एवम् अभाषत ।

पदविवरणम्

  • परित्रातुम् = परि + त्रै “त्रैङ् पालने” + तुमुन्
  • सौमित्रिसहितम् = सौमित्रिणा सहितः, तम्
  • नयन् = नी “णीञ् प्रापणे” + शतृ – उभयपदी [ Note: णीञ् ending with ञ् – उभयपदी]
  • अवोचत = ब्रू “ब्रूञ् व्यक्तायां वाचि” – उभयपदी, [ Note: णीञ् ending with ञ् – उभयपदी] लुङ्., अत्र आत्मनेपदे प्र.पु., ए.व.

Word-Meaning

  • तत्र = There
  • अयम् = This
  • महामुनिः = Great sage
  • विश्वामित्रः = Viswamitra
  • नयन् = taking
  • रामम् = Rama
  • सौमित्रिसहितम् = along with (सहित) Lakshmana, the son of Sumitra (सौमित्रि)
  • परित्रातुम् = to protect
  • सत्रम् = Sacrifice, Homa, Yaaga
  • अवोचत = spoke

37.     श्लोकः

मूलपाठः

बलेन तपसां लब्धे बलेत्यतिबलेति च ।
विद्येते मयि काकुत्स्थ विद्ये ते वितरामि ते ॥ ३७ ॥

पदच्छेदः

बलेन, तपसाम्, लब्धे, बला, इति, अतिबला, इति, च, विद्येते, मयि, काकुत्स्थ, विद्ये, ते, वितरामि, ते

अन्वयार्थः

  • काकुत्स्थ = हे राम!
  • विद्येते = स्तः
  • विद्ये = मन्त्रौ
  • तपसां बलेन = तपःशक्त्या
  • लब्धे = प्राप्ते
  • मयि = विश्वामित्रे
  • वितरामि = उपदिशामि
  • ते = तुभ्यम् (रामाय)
  • ते = अमू विद्ये (बला-अतिबला-नामकौ मन्त्रौ)

अन्वयः

हे काकुत्स्थ । तपसां बलेन लब्धे बला इति अतिबला इति च विद्ये मयि विद्येते । ते ते वितरामि ।

आकाङ्क्षा

  • हे काकुत्स्थ ।
  • विद्येते ।
    • कुत्र विद्येते ? मयि
    • के विद्येते ? विद्ये
      • के विद्ये ? बला इति च अतिबला इति च
      • कीदृशे विद्ये ? लब्धे
        • केन लब्धे ? बलेन
          • केषां बलेन ? तपसाम्
        • वितरामि ।
          • कः वितरति ? अहम्
          • कस्मै वितरामि ? ते (तुभ्यम्)
          • के विरतामि ? ते

तात्पर्यम्

हे राम! तपःशक्त्या प्राप्तं बला-अतिबला-नामकं मन्त्रद्वयं मम सकाशे अस्ति । तौ मन्त्रौ तुभ्यम् उपदिशामि ।

पदविवरणम्

  • तपसाम् = सकारान्तः, नपुं., ष.वि., ब.व.
  • लब्धे = आकारान्तः, स्त्री., प्र.पु., द्वि.व. । लभ् “डुलभँष् प्राप्तौ” + क्त (कृत्)
  • विद्येते = विद् “विदँ सत्तायाम्” लट्., प्र.पु., द्वि.व.
  • काकुत्स्थ
    • ककुत्स्थः = ककुदि तिष्ठति इति ककुत्स्थः ।
    • काकुत्स्थ = ककुत्स्थस्य गोत्रापत्यं पुमान् काकुत्स्थः । ककुत्स्थ + अण् (तद्धितः) । सम्बोधनम्
  • ते = “युष्मद्” शब्दः, दकारान्तः, च.वि., ए.व. [ तुभ्यम् / ते, युवाभ्याम् / वाम्, युष्मभ्यम् / वः ]
  • ते = “तद्” शब्दः दकारान्तः, स्त्री., द्वि.वि., द्वि.व. [ ताम्, ते, ताः ]
  • विद्ये = आकारान्तः, स्त्री., अत्र द्वि. वि., द्वि. व.
  • वितरामि = वि + तॄ “तॄ प्लवनतरणयोः” – लट्, उ.पु., ए.व.

रामायणप्रसङ्गः

  • गृहाण वत्स सलिलं मा भूत् कालस्य पर्ययः ।
    मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ॥ (बाल २२.११)
  • पितामहसुते ह्येते विद्ये तेजःसमन्विते ।
    प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव ॥ (बाल २२.१८)
  • एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव ।
    बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥ (बाल २२.१६)

Word-Meaning

  • हे काकुत्स्थ = O Rama, the descendent of Kakustha, ककुत्स्थ, the one who stays (स्था) on the bull (ककुत्)
  • विद्ये = two knowledge
    • बला इति = one called Balaa
      • अतिबला इति च = and one called Atibalaa
    • लब्धे = these two that are got
      • बलेन = by the power
      • तपसाम् = of the penances
    • विद्येते = exist
      • मयि = in me
    • ते = these two
      • वितरामि = I bestow
      • ते = on to you

गद्यम्

मूलपाठः

ततो गृहीतविद्यस्य दाशरथेः प्रदेशमेकं प्रदर्श्य भगवानित्थमकथयत्

पदच्छेदः

ततः, गृहीत-विद्यस्य, दाशरथेः, प्रदेशम्, एकम्, प्रदर्श्य, भगवान्, इत्थम्, अकथयत्

अन्वयार्थः

  • ततः = तदनन्तरम्, मन्त्रोपदेशानन्तरम्
  • अकथयत् = उक्तवान्
  • भगवान् = पूज्यः विश्वामित्रः
  • इत्थम् = एवम्
  • प्रदर्श्य = दर्शयित्वा
  • एकं प्रदेशम् = मार्गे किञ्चित् स्थलम्
  • दाशरथेः = श्रीरामस्य
  • गृहीतविद्यस्य = अधीतमन्त्रस्य

अन्वयः

ततः गृहीतविद्यस्य दाशरथेः एकं प्रदेशं प्रदर्श्य, भगवान् इत्थम् अकथयत् ।

आकाङ्क्षा

  • अकथयत्
    • कः अकथयत् ? भगवान्
    • किम् अकथयत् ? इत्थम्
    • किंकृत्वा अकथयत् ? प्रदर्श्य
      • किं प्रदर्श्य ? एकं प्रदेशम्
    • कस्य कृते अकथयत् ? दाशरथेः
      • कीदृशस्य दाशरथेः ? गृहीतविद्यस्य

तात्पर्यम्

रामाय मन्त्रोपदेशानन्तरं पूज्यः विश्वामित्रः मार्गे किञ्चित् स्थलं दर्शयित्वा एवम् उक्तवान् ।

पदविवरणम्

  • गृहीतविद्यस्य = गृहीता विद्या येन सः, तस्य, पुं., ष.वि., ए.व.
  • दाशरथेः = दशरथस्य अपत्यं पुमान् = दशरथ + इञ् (तद्धितः) । इकारान्तः, पुं., ष.वि., ए.व.
  • प्रदर्श्य = प्र + दृश् “दृशिर् प्रेक्षणे” – ल्यबन्ताव्ययम्
  • अकथयत् = कथ “कथ वाक्यप्रबन्धे” – लङ्., प्र.पु., ए.व.

Word-Meaning

  • ततः = Then
  • भगवान् = The venerable (भगवत्) Vishwamitra
  • प्रदर्श्य = having shown
    • एकं प्रदेशं = one place
    • गृहीतविद्यस्य दाशरथेः (कृते) = to Rama (दाशरथि), one who had grasped (गृहीत) the knowledge (विद्य)
  • अकथयत् = told
  • इत्थम् = in this way

38.     श्लोकः

मूलपाठः

अस्मिन्पुरा पुरभिदः परमेश्वरस्य
फालान्तरालनयनज्वलने मनोभूः
सद्यः प्रपद्य शलभत्वममुञ्चदङ्गं
तस्मादमुं जनपदं विदुरङ्गसंज्ञम् ॥ ३८ ॥

पदच्छेदः

अस्मिन्, पुरा, पुर-भिदः, परमेश्वरस्य, फाल-अन्तराल-नयन-ज्वलने, मनो-भूः, सद्यः, प्रपद्य, शलभत्वम्, अमुञ्चत्, अङ्गम्, तस्मात्, अमुम्, जनपदम्, विदुः, अङ्गसंज्ञम्

अन्वयार्थः

  • अमुञ्चत् = त्यक्तवान्
  • मनोभूः = मनसिजः, मन्मथः
  • अङ्गम् = शरीरम्
  • सद्यः = झटिति
  • शलभत्वम् = पतङ्गभावम्
  • प्रपद्य = प्राप्य
  • फालान्तरालनयनज्वलने = ललाटमध्ये स्थितस्य नेत्रस्य अग्नौ
  • परमेश्वरस्य = शिवस्य
  • पुरभिदः = त्रिपुरान्तकस्य
  • अस्मिन् = एतस्मिन् प्रदेशे
  • पुरा = पूर्वकाले
  • तस्मात् = तेन कारणेन
  • विदुः = जानन्ति
  • अमुं जनपदम् = एतं प्रदेशम्
  • अङ्गसंज्ञम् = “अङ्गदेशः” इति

अन्वयः

अस्मिन् पुरा पुरभिदः परमेश्वरस्य फालान्तरालनयनज्वलने मनोभूः सद्यः शलभत्वं प्रपद्य अङ्गम् अमुञ्चत् । तस्मात् अमुं जनपदम् अङ्गसंज्ञं विदुः ।

आकाङ्क्षा

  • अमुञ्चत्
    • कः अमुञ्चत् ? मनोभूः
    • किम् अमुञ्चत् ? अङ्गम्
    • कथं अमुञ्चत् ? सद्यः
    • किं कृत्वा अमुञ्चत् ? प्रपद्य
      • किं प्रपद्य ? शलभत्वम्
      • कुत्र प्रपद्य ? फालान्तरालनयनज्वलने
        • कस्य फालान्तरालनयनज्वलने ? परमेश्वरस्य
          • कीदृशस्य परमेश्वरस्य ? पुरभिदः
        • कुत्र अमुञ्चत् ? अस्मिन्
        • कदा अमुञ्चत् ? पुरा
      • विदुः
        • किं विदुः ? अमुं जनपदम्
        • किमिति विदुः ? अङ्गसंज्ञम्
        • कस्मात् कारणात् विदुः ? तस्मात्

तात्पर्यम्

अस्मिन् प्रदेशे पूर्वकाले मन्मथः त्रिपुरान्तकस्य शिवस्य ललाटनेत्राग्नौ पतङ्गभावं प्राप्य झटिति अङ्गं (शरीरं) त्यक्तवान् । तेन कारणेन अयं देशः “अङ्ग”नाम्ना विख्यातः ।

पदविवरणम्

  • पुरभिदः = पुरं भिनत्ति इति पुरभित्, तस्य । पुर + भिद् + क्विप् (कृत्) । दकारान्तः, पुं., ष.वि., ए.व.
  • फालान्तरालनयनज्वलने
    • फालान्तरालम् = फालस्य अन्तरालम्
    • फालान्तरालनयनम् = फालान्तरालस्य नयनम्
    • फालान्तरालनयनज्वलने = फालान्तरालनयनस्य ज्वलनः, तस्मिन् ।
  • मनोभूः – मनसि भवति इति मनोभूः । मनस् + भू + क्विप् (कृत्) । ऊकारान्तः, पुं., प्र.वि., ए.व. । “शम्बरारिर्मनसिजः” (अमरः)
  • सद्यः इति अव्ययम्
  • प्रपद्य = प्र + पद् “पदँ गतौ” – ल्यबन्ताव्ययम् ।
  • शलभत्वम् = शलभस्य भावः – शलभ + त्व (तद्धितः) । “समौ पतङ्ग-शलभौ” (अमरः)
  • अमुञ्चत् = मुच् “मुचॢँ मोक्षणे” – लङ्, प्र.पु., ए.व.
  • आकर्ण्य = आ + कर्ण् “कर्ण भेदने” – ल्यबन्ताव्ययम्
  • विदुः = विद् “विदँ ज्ञाने” – लट्., प्र.पु., ब.व. [ वेत्ति / वेद, वित्तः / विदतुः, विदुः / विदन्ति ]

छन्दः

  • वसन्ततिलकावृत्तम् – ‘उक्ता वसन्ततिलका तभजा जगौ गः’

Word-Meaning

  • अस्मिन् = In this place
  • पुरा = earlier
  • मनोभूः = Manmatha, one who is born (भू) in the mind (मनस्)
  • अमुञ्जत् = gave up
    • अङ्गम् = his body
    • सद्यः = immediately
  • प्रपद्य = having obtained
    • शलभत्वम् = the state of a locust or a moth (शलभ)
    • फालान्तरालनयनज्वलने = in the fire (ज्वलन) of the eye (नयन) in the middle (अन्तराल) of the forehead (फाल – another word for भाल)
      • परमेश्वरस्य = of Shiva, the Supreme Lord
      • पुरभिदः = of him who destroyed the Tripura
    • विदुः = Know that
      • अमुं जनपदम् = this country
        • अङ्गसंज्ञम् = is called as Anga
        • तस्मात् = for that reason

कक्ष्या २१ – ३०.०४.२०१८

गद्यम्

मूलपाठः

तदनु मानससरःप्रसृतां सरयूमतिक्रम्य वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोर्मलदकरूषनाम्नोर्जनपदयोः सीम्नि कृतपदयोर्दाशरथ्योः पुनरप्येवमब्रवीत् ।

पदच्छेदः

तदनु, मानस-सरः-प्रसृताम्, सरयूम्, अतिक्रम्य, वृत्र-वध-प्रवृद्ध-वृद्धश्रवस्-पङ्क-क्षालन-लब्ध-मलयोः, मलद-करूष-नाम्नोः, जनपदयोः, सीम्नि, कृत-पदयोः, दाशरथ्योः, पुनः, अपि, एवम्, अब्रवीत् ।

अन्वयार्थः

  • तदनु = तदनन्तरम्, अङ्गदेशम् अतीत्य
  • मानससरःप्रसृताम् = मानससरोवरात् प्रभवन्तीम्
  • सरयूम् = सरयूनदीम्
  • अतिक्रम्य = अतीत्य
  • वृत्र-वध-प्रवृद्ध-वृद्धश्रवस्-पङ्क-क्षालन-लब्ध-मलयोः
    • वृत्रस्य = वृत्रासुरस्य
    • वधः = हननम्
    • वृत्रवधेन प्रवृद्धम् = समेधितम्
    • वृद्धश्रवसः = इन्द्रस्य
    • पङ्कम् = पापम् / ब्रह्महत्यादोषः
    • तस्य पापस्य क्षालनम् = मार्जनम्
    • तेन लब्ध-मलम् = प्राप्त-कल्मषम्
    • पङ्क-क्षालन-लब्ध-मलयोः = पङ्क-क्षालन-लब्धमलं ययोः तादृश्योः
  • मलद-करूष-नाम्नोः जनपदयोः = देशयोः
  • सीम्नि = सीमप्रदेशे
  • कृतपदयोः = न्यस्तपादयोः
  • दाशरथ्योः = रामलक्ष्मणयोः
  • पुनरपि = भूयोऽपि
  • एवम् = वक्ष्यमाणप्रकारेण
  • अब्रवीत् = अवदत्

अन्वयः

तदनु मानससरःप्रसृताम् सरयूम् अतिक्रम्य वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोः मलदकरूषनाम्नोः जनपदयोः सीम्नि दाशरथ्योः कृतपदयोः सतोः पुनः अपि एवम् अब्रवीत् ।

आकाङ्क्षा

  • अब्रवीत्
    • कथम् अब्रवीत् ? पुनः अपि एवम्
    • कदा अब्रवीत् ? दाशरथ्योः कृतपदयोः सतोः
      • कुत्र कृतपदयोः ? सीम्नि
        • कयोः सीम्नि ? जनपदयोः
          • कीदृशोः जनपदयोः ? मलदकरूषनाम्नोः
          • पुनः कीदृशोः जनपदयोः ? वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोः
        • किं कृत्वा अब्रवीत् ? अतिक्रम्य
          • काम् अतिक्रम्य ? सरयूम्
            • कीदृशीं सरयूम् ? मानससरःप्रसृताम्
          • कदा अब्रवीत् ? तदनु

तात्पर्यम्

अङ्गदेशं दृष्ट्वा रामलक्ष्मणौ विश्वामित्रेण सह मानससरोवरात् प्रभवन्तीं सरयूनदीम् अतीत्य मलद-करूष-नामकयोः देशयोः सीमप्रदेशं प्राप्तवन्तौ । वृत्रासुरस्य वधेन ब्रह्महत्यादोषं प्राप्तः इन्द्रस्य अस्मिन् प्रदेशे पापनिवृत्तिः जाता । तस्य पापस्य सम्पर्कात् अनयोः देशयोः मलदः-करूषः इति नाम अभूत् । तं प्रदेशं प्रविश्य विश्वामित्रः भूयोऽपि रामलक्ष्मणौ उद्दिश्य अकथयत् ।

पदविवरणम्

  • मानससरःप्रसृताम्
    • मानससरः = मानसम् इति सरः
    • मानससरःप्रसृताम् = मानससरसः प्रसृता, ताम्
  • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोः
    • वृत्रवधः = वृत्रस्य वधः
    • वृत्रवधप्रवृद्धम् = वृत्रवधेन प्रवृद्धम्
    • वृद्धश्रवःपङ्कम् = वृद्धश्रवसः पङ्कम्, “वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः”, “अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम्”
    • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कम् = वृत्रवधप्रवृद्धं वृद्धश्रवःपङ्कम्
    • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनम् = वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कस्य क्षालनम्
    • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धम् = वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनेन लब्धम्,
    • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोः = वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धं मलं ययोः तौ, तयोः ।
  • मलदकरूषनाम्नोः
    • मलदकरूषौ = मलदश्च करूषश्च,
    • मलदकरूषनाम्नोः = मलदकरूषौ नामनी ययोः तौ, तयोः । नकारान्तः, पुं., ष.वि., द्वि.व.
  • सीम्नि = नकारान्तः, स्त्रीलिङ्गः, स.वि., ए.व.
  • कृतपदयोः = कृतं पदं याभ्यां तौ, तयोः, पुं., ष.वि., द्वि.व.
  • अब्रवीत् = ब्रू “ब्रूञ् व्यक्तायां वाचि”, लङ्., प्र.पु., ए.व. । लिट् परस्मैपदे उवाच

Word-Meaning

  • तदनु = Then
  • पुनः अपि एवम् अब्रवीत् = Viswamitra once again (पुनः अपि) spoke (अब्रवीत्) in this way (एवम्)
  • अतिक्रम्य = having crossed
    • सरयूम् = the river Sarayu
      • मानससरःप्रसृताम् = which rose (प्रसृत) from the lake (सरस्) Maanasa (मानस)
    • दाशरथ्योः कृतपदयोः = when the two sons of Dasharatha (दशरथ) placed (कृत) their foot (पद)
      • सीम्नि = on the border (सीमा)
        • जनपदयोः = of those two countries (जनपद)
          • मलदकरूषनाम्नोः = of those two, having the names (नाम) Malada (मलद) and Karusha (करूष)
          • वृत्रवधप्रवृद्धवृद्धश्रवःपङ्कक्षालनलब्धमलयोः = of those two, which got their names, as they had obtained (लब्ध) the blemish or the sin (मल) of Indra (वृद्धश्रवस्) when he washed off (क्षालन) the great sin (पङ्क) that had accumulated (प्रवृद्ध) by the slaughter (वध) of Vritra (वृत्र)

39.     श्लोकः

प्रस्तावना

ताटकावृत्तान्तः

मूलपाठः

यक्षः सुकेतुर्द्रुहिणप्रसादाल्लेभे सुतां कामपि ताटकाख्याम् ।
सुन्दः किलैनां परिणीय तस्यां मारीचनीचं जनयाम्बभूव ॥ ३९ ॥

पदच्छेदः

यक्षः, सुकेतुः, द्रुहिण-प्रसादात्, लेभे, सुताम्, काम्, अपि, ताटका-आख्याम्, सुन्दः, किल, एनाम्, परिणीय, तस्याम्, मारीच-नीचम्, जनयाम्बभूव

सन्धिः

  • प्रसादात् + लेभे = प्रसादाल्लेभे – परसवर्णसन्धिः (“तोर्लि” ८ ।४ ।६०) The takara followed by lakara changes to lakara by तोः लि ।

अन्वयार्थः

  • लेभे = प्राप
  • यक्षः = गुह्यकः
  • कामपि = काञ्चित्
  • सुताम् = पुत्रीम्
  • ताटकाख्याम् = ताटकानाम्नीम्
  • द्रुहिणप्रसादात् = ब्रह्मणः वरात्
  • जनयाम्बभूव = उत्पादितवान्, किल
  • सुन्दः = सुन्दनामा यक्षः
  • एनाम् = ताटकाम्
  • परिणीय = विवाहं कृत्वा
  • तस्याम् = ताटकायाम्
  • मारीचनीचम् = क्षुद्रं मारीचम्

अन्वयः

सुकेतुः यक्षः द्रुहिणप्रसादात् ताटकाख्यां कामपि सुतां लेभे । सुन्दः एनां परिणीय तस्यां मारीचनीचं जनयाम्बभूव किल ।

आकाङ्क्षा

  • लेभे
    • कः लेभे ? यक्षः
      • किंनामा यक्षः ? सुकेतुः
    • कां लेभे ? सुताम्
      • कीदृशीं सुताम् ? काम् अपि
      • पुनः कीदृशीं सुताम् ? ताटकाख्याम्
    • कस्मात् कारणात् लेभे ? द्रुहिणप्रसादात्
  • जनयाम्बभूव किल
    • कस्यां जनयाम्बभूव ? तस्याम्
    • किं कृत्वा जनयाम्बभूव ? परिणीय
      • कां परिणीय ? एनाम्
    • कः जनयाम्बभूव ? सुन्दः
    • कं जनयाम्बभूव ? मारीचनीचम्

तात्पर्यम्

सुकेतुनामा यक्षः ब्रह्मणः वरेण ताटकानाम्नीं पुत्रीं प्राप्तवान् । सुन्दाख्यः यक्षः ताम् ऊढ्वा तस्यां मारीचनामकं क्षुद्रम् उत्पादितवान् ।

पदविवरणम्

  • द्रुहिणप्रसादात् = द्रुहिणस्य प्रसादः, तस्मात् । “धाता-अब्जयोनिः द्रुहिणः विरिञ्चिः कमलासनः” (अमरः)
  • लेभे = लभ् “डुलभँष् प्राप्तौ” लिट्, प्र.पु., ए.व.
  • परिणीय = परि + नी “णीञ् प्रापणे” – ल्यबन्ताव्ययम्
  • मारीचनीचम् = मारीचश्चासौ नीचश्च
  • जनयाम्बभूव = जन् “जनी प्रादुर्भावे” + णिच् – लिट् प्र.पु., ए.व.

छन्दः

  • वृत्तम् – इन्द्रवज्रा । ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ (११ अक्षराणि)

Word-Meaning

  • सुकेतुः यक्षः = A Yaksha, a celestial being (यक्षः) named Suketu (सुकेतुः)
    • द्रुहिणप्रसादात् = by Brahma’s (द्रुहिण) blessings (प्रसाद)
    • लेभे = got
    • काम् अपि = a (someone)
    • सुताम् = daughter
  • सुन्दः = Sunda
    • परिणीय = after marrying
    • एनाम् = this person (female) (एताम् / एनाम्)
    • तस्यां मारीचनीचं जनयाम्बभूव = caused to take birth (जनयाम्बभूव) a lowly person (नीच) named Maareecha (मारीच) in her (सा), i.e., Taatakaa
  • किल = isn’t it ?

गद्यम्

प्रस्तावना

ताटकावृत्तान्तः

मूलपाठः

एकदा सुन्दे निहते मारीचः कुम्भसम्भवमभिभूय तस्य शापादवाप कौणपताम् । ताटकाप्यभूत्पुरुषादिनी ।

पदच्छेदः

एकदा, सुन्दे, निहते, मारीचः, कुम्भ-सम्भवम्, अभिभूय, तस्य, शापात्, अवाप, कौणपताम् ।

अन्वयार्थः

  • एकदा = कदाचित्
  • सुन्दे निहते = अगस्त्यशापेन सुन्दे मृते सति
  • अवाप = प्राप्तवान्
  • मारीचः = सुन्द-ताटकयोः पुत्रः
  • कौणपताम् = राक्षसत्वम्
  • कुम्भसम्भवम् = अगस्त्यम् (यस्य उत्पत्तिस्थानं कलसः)
  • अभिभूय = आक्रम्य
  • तस्य = अगस्त्यस्य
  • शापात् = आक्रोशात्
  • पुरुषादिनी = मनुष्यभक्षिणी राक्षसी

अन्वयः

एकदा सुन्दे निहते (सति) मारीचः कुम्भसम्भवम् अभिभूय तस्य शापात् कौणपताम् अवाप ।

ताटका अपि पुरुषादिनी अभूत् ।

आकाङ्क्षा

  • अवाप
    • किम् अवाप ? कौणपताम्
    • कस्मात् कारणात् अवाप ? शापात्
      • कस्य शापात् ? तस्य
    • किं कृत्वा अवाप ? अभिभूय
      • कम् अभिभूय ? कुम्भसम्भवम्
    • कः अवाप ? मारीचः
    • कदा अवाप ? एकदा
      • पुनः कदा अवाप ? सुन्दे निहते (सति)
    • अभूत्
      • कथंभूता अभूत् ? पुरुषादिनी
      • का अभूत् ? ताटका अपि

तात्पर्यम्

कदाचित् अगस्त्यमहर्षेः शापेन सुन्दः हतः । तदा कोपेन तत्पुत्रः मारीचः (ताटकया सह) अगस्त्यम् आक्रम्य तस्य शापात् राक्षसत्वं प्राप्तवान् ।

ताटकापि अगस्त्यशापेन मनुष्यभक्षिणी राक्षसी जाता ।

पदविवरणम्

  • कुम्भसम्भवम् = “अगस्त्यः कुम्भसम्भवः” (अमरः) । कुम्भः सम्भवः यस्य सः, तम् ।
  • अवाप = अव + आप् “आपॢँ व्याप्तौ” लिट्., प्र.पु., ए.व.
  • कौणपताम् = “राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः” (अमरः) । कौणपस्य भावः – कौणप + तल् (तद्धितः) । आकारान्तः, स्त्री, द्वि.वि., ए.व.
  • पुरुषादिनी = पुरुषान् अत्तुं शीलम् अस्याः । पुरुष + अद् “अदँ भक्षणे” + णिनि (कृत्) । ईकारान्तः, स्त्री., प्र.वि., ए.व.

Word-Meaning

  • एकदा = Once upon a time
    • सुन्दे निहते (सति) = when Sunda was eliminated
    • मारीचः = Maaricha
    • कुम्भसम्भवम् अभिभूय = having attacked (अभिभू) Agastya, one whose birthplace (सम्भव) is a pot (कुम्भ)
    • तस्य शापात् = due to his (तत्) curse (शाप)
    • कौणपताम् अवाप = obtained (अव + आप्) the state of cannibalism (कौणपत)
  • ताटका अपि = Taatakaa also
    • अभूत् = became
    • पुरुषादिनी = a man-eater (पुरुष + अद्)

गद्यम्

प्रस्तावना

रामस्य स्त्रीवधशङ्कः

मूलपाठः

सेयमब्जासनसिद्धसिन्धुरसहस्रप्राणात्मजेन सह जनपदविपदं विदधाना व्यापादनीया त्वयेति ।
रामस्तमाकर्ण्य स्त्रीवधशङ्कामकरोत् ।

पदच्छेदः

सा, इयम्, अब्ज-आसन-सिद्ध-सिन्धुर-सहस्र-प्राणा, आत्मजेन, सह, जनपद-विपदम्, विदधाना, व्यापादनीया, त्वया, इति (अब्रवीत्) ।
रामः, तम्, आकर्ण्य, स्त्री-वध-शङ्काम्, अकरोत् ।

अन्वयार्थः

  • व्यापादनीया = मारणीया
  • त्वया = रामेण
  • सा इयम् = पूर्ववर्णिता ताटका
  • अब्जासनसिद्धसिन्धुरसहस्रप्राणा
    • अब्जासनः = ब्रह्मा
    • तेन सिद्धम् = प्राप्तम्
    • सिन्धुरसहस्रस्य = सहस्रसङ्ख्यकानां गजानाम्
    • प्राणः = बलम्
    • अब्जासनसिद्धसिन्धुरसहस्रप्राणा = तादृशं बलं यस्याः तादृशी
  • विदधाना = कुर्वाणा
  • जनपदविपदम् = देशे उपप्लवम्
  • आत्मजेन = पुत्रेण मारीचेन सह
  • रामः तम् = रामः विश्वामित्रकथितं ताटकावृत्तान्तम्
  • आकर्ण्य = श्रुत्वा
  • स्त्रीवधशङ्काम् = नारीहननस्य शास्त्रनिषिद्धत्वात् संशयम्
  • अकरोत् = कृतवान्

अन्वयः

अब्जासनसिद्धसिन्धुरसहस्रप्राणा, आत्मजेन सह जनपदविपदं विदधाना, इयं सा त्वया व्यापदनीया इति । रामः तम् आकर्ण्य स्त्रीवधशङ्काम् अकरोत् ।

आकाङ्क्षा

  • व्यापदनीया इति (उक्तवान्)
    • केन व्यापदनीया ? त्वया
    • का व्यापदनीया ? इयम्
      • का इयम् ? सा
      • कीदृशी सा ? अब्जासनसिद्धसिन्धुरसहस्रप्राणा
      • पुनः कीदृशी सा ? विदधाना
        • किं विदधाना ? जनपदविपदम्
        • केन सह विदधाना ? आत्मजेन सह
      • अकरोत्
        • किम् अकरोत् ? स्त्रीवधशङ्काम्
        • किं कृत्वा अकरोत् ? आकर्ण्य
          • किम् आकर्ण्य ? तम्
        • कः अकरोत् ? रामः

तात्पर्यम्

एषा ताटका ब्रह्मणः प्रसादेन सहस्रगजबलयुक्ता पुत्रेण मारीचेन सह देशे उपप्लवं जनयन्ती त्वया मारणीया (इति विश्वामित्रः रामम् अब्रवीत्) ।

रामः विश्वामित्रकथनं श्रुत्वा शास्त्रनिषिद्धत्वात् नारीहननं कथं कर्तव्यमिति सन्देहं पृष्टवान् ।

पदविवरणम्

  • अब्जासनसिद्धसिन्धुरसहस्रप्राणा
    • अब्जासनः = अब्जम् आसनं यस्य सः ।
    • अब्जासनसिद्धः = अब्जासनेन सिद्धः ।
    • सिन्धुरसहस्रम् = सिन्धुराणां सहस्रम् ।
    • सिन्धुरसहस्रप्राणः = सिन्धुरसहस्रस्य प्राणः ।
    • अब्जासनसिद्धसिन्धुरसहस्रप्राणा = अब्जासनसिद्धः सिन्धुरसहस्रप्राणः यस्याः सा ।
  • आत्मजेन = “आत्मजः तनयः सूनुः सुतः पुत्रः” (अमरः)
  • जनपदविपदम् = जनपदस्य विपत्, ताम् । दकारान्तः, स्त्री., द्वि.वि., ए.व.
  • विदधाना = धा ‘डुधाञ् धारणपोषणयोः’ + शानच् + टाप्, (उभय)
  • व्यापादनीया = वि + आ + पद “पद गतौ” / पद् “पदँ गतौ” + णिच् + अनीयर् + टाप् । लट्लकारे पद्यते ।
  • स्त्रीवधशङ्काम्
    • स्त्रीवधः = स्त्रियाः वधः
    • स्त्रीवधशङ्काम् = स्त्रीवधस्य शङ्का

Word-Meaning

  • इयम् सा = this person
    • अब्जासनसिद्धसिन्धुरसहस्रप्राणा = She who has the vital energy (प्राण) of a thousand (सहस्र) elephants (सिन्धुर), which had resulted (सिद्ध) due to Brahma, whose seat (आसन) in the lotus (अब्ज)
    • आत्मजेन सह = along with her son
    • जनपदविपदं विदधाना = She who is causing (विदधा) calamities (विपद्) to the countries (जनपद)
  • त्वया = by you
    • व्यापदनीया = to be slain
    • इति = so he said
  • रामः = Rama
    • तम् आकर्ण्य = having listened (आकर्ण्य) to this (तम्)
    • स्त्रीवधशङ्काम् अकरोत् = did (i.e., had) (अकरोत्) the doubt (शङ्का) about killing (वध) a woman (स्त्री)

गद्यम्

प्रस्तावना

दृष्टान्तप्रदर्शनेन शङ्कानिवारणम्

मूलपाठः

किञ्च वैरोचनीं मन्थरां वसुन्धरापराधधुरन्धरां पुरन्दरेण निहतां जनार्दनकृतमर्दनां च भार्गवजननीं प्रदर्श्य दाशरथेरमन्दां सुन्दवधूवधविचिकित्सामुत्सारयामास ।

पदच्छेदः

किञ्च, वैरोचनीम्, मन्थराम्, वसुन्धरा-अपराध-धुरन्धराम्, पुरन्दरेण, निहताम्, जनार्दन-कृत-मर्दनाम्, च, भार्गव-जननीम्, प्रदर्श्य, दाशरथेः, अमन्दाम्, सुन्द-वधू-वध-विचिकित्साम्, उत्सारयामास

अन्वयार्थः

  • उत्सारयामास = निवारितवान्
  • सुन्दवधूवधविचिकित्साम् = सुन्दपत्न्याः ताटकायाः मारणविषये संशयम्
  • अमन्दाम् = अनल्पाम्
  • दाशरथेः = रामस्य
  • प्रदर्श्य = दृष्टान्ततया निर्दिश्य
  • वैरोचनीम् = विरोचनपुत्रीम् मन्थराम्
  • वसुन्धरापराधधुरन्धराम् = लोकपीडनतत्पराम्
  • पुरन्दरेण = इन्द्रेण
  • निहताम् = मारिताम्
  • जनार्दनकृतमर्दनाम् = विष्णुना व्यापादिताम्
  • भार्गवजननीम् = शुक्रमातरम्

अन्वयः

किं च, पुरन्दरेण निहतां वसुन्धरापराधधुरन्धरां वैरोचनीं मन्थरां च जनार्दनकृतमर्दनां भार्गवजनानीं च प्रदर्श्य दाशरथेः अमन्दां सुन्दवधूवधविचिकित्साम् उत्सारयामास ।

आकाङ्क्षा

  • उत्सारयामास
    • कः उत्सारयामास ? विश्वामित्रः
    • काम् उत्सारयामास ? सुन्दवधूवधविचिकित्साम्
      • कीदृशीं सुन्दवधूवधविचिकित्साम् ? अमन्दाम्
      • कस्य सुन्दवधूवधविचिकित्साम् ? दाशरथेः
    • किं कृत्वा उत्सारयामास ? प्रदर्श्य
      • कां प्रदर्श्य ? मन्थराम्
        • कीदृशीं मन्थराम् ? वैरोचनीम्
        • पुनः कीदृशीं मन्थराम् ? वसुन्धरापराधधुरन्धराम्
        • पुनः कीदृशीं मन्थराम् ? निहताम्
          • केन निहताम् ? पुरन्दरेण
        • पुनः च कां प्रदर्श्य ? भार्गवजननीं च
          • कीदृशीं भार्गवजननीम् ? जनार्दनकृतमर्दनाम्

तात्पर्यम्

विश्वामित्रः पूर्वकाले लोकपीडनतत्परां विरोचनपुत्रीं मन्थराम् इन्द्रेण मारिताम्, विष्णुना व्यापादितां शुक्रमातरं च दृष्टान्तत्वेन निर्दिश्य रामस्य ताटकवधविषयकं गभीरं सन्देहं निवारितवान् ।

पदविवरणम्

  • वैरोचनीम् = विरोचनस्य अपत्यं स्त्री । विरोचन + अण् + ङीप्
  • वसुन्धरापराधधुरन्धराम्
    • वसुन्धरापराधः= वसुन्धरायाः अपराधः
    • वसुन्धरापराधधुरन्धराम् = वसुन्धरापराधस्य धुरन्धरा, ताम्
  • पुरन्दरेण = “वृद्धश्रवाः शुनासीरः पुरुहूतः पुरन्दरः” (अमरः)
  • जनार्दनकृतमर्दनाम्
    • जनार्दनकृतम् = जनार्दनेन कृतम्
    • जनार्दनकृतमर्दनाम् = जनार्दनकृतं मर्दनं यस्याः सा, ताम्
  • भार्गवजननीम्
    • भार्गवः = भृगोरपत्यं पुमान्
    • भार्गवजननीम् = भार्गवस्य जननी, ताम्
  • अमन्दाम् = न मन्दा, ताम्
  • सुन्दवधूवधविचिकित्साम्
    • सुन्दवधूः = सुन्दस्य वधूः
    • सुन्दवधूवधः = सुन्दवध्वाः वधः
    • सुन्दवधूवधविचिकित्साम् = सुन्दवधूवधस्य विचिकित्सा, ताम् । “विचिकित्सा तु संशयः” (अमरः)
  • उत्सारयामास = उत् + सृ “सृ गतौ” + णिच् । लिट्, प्र.पु., ए.व.

रामायणप्रसङ्गः

  • श्रूयते हि पुरा शक्रो विरोचनसुतां नृप । पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥
  • विष्णुना च पुरा राम भृगुपत्नी पतिव्रता । अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥
  • एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः । अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ॥
  • तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनात् नृप ॥ (बाल० २५-२०-२२)

Word-Meaning

  • किं च = But
  • प्रदर्श्य = citing (the cases of)
  • मन्थराम् = Mantharaa (मन्थरा)
    • वैरोचनीम् = who was the daughter of Virochana (विरोचन)
    • वसुन्धरापराधधुरन्धराम् = who stood first (धुरन्धरा) to offend (अपराध) Bhoomi Devi (वसुन्धरा)
    • पुरन्दरेण निहताम् = who was eliminated (निहता) by Indra (पुरन्दर), who takes possession (दर) of the cities (पुर) of his enemies
  • च = and
    • भार्गवजननीम् = the mother (जननी) of Shukraacharya, i.e., Bhaargava (भार्गव), the son of Sage Bhrgu (भृगु)
    • जनार्दनकृतमर्दनाम् = whose assassination (मर्दन) was done (कृत) by Vishnu (जनार्दन), who causes suffering (अर्दन) to evil people (जन)
  • उत्सारयामास = (Vishvamitra) removed
    • दाशरथेः अमन्दां सुन्दवधूवधविचिकित्साम् = Rama’s (दाशरथि) serious (not causal न मन्दा) perplexity (विचिकित्सा) about the killing (वध) of Taatakaa, the wife (वधू) of Sunda (सुन्द)

40.     श्लोकः

प्रस्तावना

रामेण ताटकावधस्य प्रतिज्ञा

मूलपाठः

आश्रुतः श्रुतवृत्तेन तेन सुन्दप्रियावधः ।
तमेवान्ववदत्तस्य चापः शिञ्जारवच्छलात् ॥ ४० ॥

पदच्छेदः

आश्रुतः, श्रुत-वृत्तेन, तेन, सुन्द-प्रिया-वधः, तम्, एव, अन्ववदत्, तस्य, चापः, शिञ्जा-रव-च्छलात्

अन्वयार्थः

  • आश्रुतः = प्रतिज्ञातः
  • सुन्दप्रियावधः = ताटकायाः हननम्
  • तेन = रामेण
  • श्रुतवृत्तेन = आकर्णित-पूर्ववृत्तान्तेन
  • अन्ववदत् = अनुसृत्य अब्रवीत्
  • तस्य = रामस्य
  • चापः = धनुः
  • तम् एव = ताटकावधमेव
  • शिञ्जारवच्छलात् = ज्याघोषव्याजेन

अन्वयः

श्रुतवृत्तेन तेन सुन्दप्रियावधः आश्रुतः । तस्य चापः शिञ्जारवच्छलात् तम् एव अन्ववदत् ।

आकाङ्क्षा

  • आश्रुतः
    • (कर्मपदम्) कः आश्रुतः ? सुन्दप्रियावधः
    • (कर्तृपदम्) केन आश्रुतः ? तेन
      • कीदृशेन तेन ? श्रुतवृत्तेन
    • अन्ववदत्
      • कः अन्ववदत् ? चापः
        • कस्य चापः ? तस्य
      • कम् अन्ववदत् ? तम् एव
      • कथम् अन्ववदत् ? शिञ्जारवच्छलात्

तात्पर्यम्

विश्वामित्रकथितं पूर्ववृत्तान्तं श्रुत्वा रामः ताटकावधं प्रतिज्ञातवान् । तस्य धनुरपि ज्याघोषव्याजेन तमेव अनुसृत्य अवदत् । (प्रतिज्ञासमनन्तरं रामः धनुष्ठङ्कारं चकार) ।

पदविवरणम्

  • आश्रुतः = आ + श्रु “श्रु श्रवणे” + क्त
  • श्रुतवृत्तेन = श्रुतं वृत्तं येन सः, तेन
  • सुन्दप्रियावधः
    • सुन्दप्रिया = सुन्दस्य प्रिया
    • सुन्दप्रियावधः = सुन्दप्रियायाः वधः
  • शिञ्जारवच्छलात्
    • शिञ्जारवः = शिञ्जायाः रवः
    • शिञ्जारवच्छलात् = शिञ्जारवस्य छलम्, तस्मात् । “मौर्वी ज्या शिञ्जिनी गुणः” (अमरः) । शिञ्जारव + छलम् = शिञ्जारवच्छलम् । तुगागमसन्धिः ।

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

लघु

गुरु

लघु

गुरु

लघु

श्रु तः श्रु वृ त्ते ते सु न्द प्रि या धः
मे वा न्व त्त स्य चा पः शि ञ्जा च्छ लात्

Word-Meaning

  • सुन्दप्रियावधः = The killing (वध) of Taatakaa, the beloved (प्रिया) of Sunda (सुन्द)
    • आश्रुतः = was promised
    • तेन = by him (i.e., Rama)
      • श्रुतवृत्तेन = by him who had heard (श्रुत) the instances (वृत्त) of other women being killed
    • तस्य चापः = His (तस्य) bow (चापः)
      • शिञ्जारवच्छलात् = under the disguise (छलात्) of the sound (रव) of the bowstring (शिञ्जा)
      • अन्ववदत् = echoed
      • तम् एव = only (एव) that (तत्) (killing of Taataka)

कक्ष्या २२ – ०७.०५.२०१८

41.     श्लोकः

मूलपाठः

तत्काले पिशिताशनाशपिशुना सन्ध्येव काचिन्मुने-
रध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा ।
स्वाधीने हनने पुरीं विदधती मृत्योः स्वकृत्यात्यय-
क्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां ताटका ॥
४१

पदच्छेदः

तत्-काले, पिशिताश-नाश-पिशुना, सन्ध्या, इव, काचित्, मुनेः, अध्वानम्, तरसा, रुरोध, रुधिर-क्षोद-अरुणा, दारुणा, स्व-अधीने, हनने, पुरीम्, विदधती, मृत्योः, स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकाम्, ताटका

अन्वयार्थः

  • तत्काले = तस्मिन् समये
  • रुरोध = निरुद्धवती
  • तरसा = वेगेन / बलेन
  • मुनेः = विश्वामित्रस्य
  • अध्वानम् = मार्गम्
  • सन्ध्यायाः पक्षे
    • पिशिताशन-आश-पिशुना = राक्षसानां भोजनकालस्य सूचिका
    • रुधिर-क्षोद-अरुणा = कुङ्कुमपुष्पस्य रजः इव रक्तवर्णा
    • दारुणा = पिशाचादिसञ्चारात् भयङ्करी
  • ताटकायाः पक्षे
    • पिशिताश-नाश-पिशुना = राक्षसानां विनाशस्य सूचिका,
    • रुधिर-क्षोद-अरुणा = रक्तस्य पङ्केन अरुणिता
    • दारुणा = स्वस्याः रूपबलाभ्यां भयङ्करी
  • हनने = मारणादिहिंस्रकार्ये
  • स्वाधीने = स्वायत्ते सति
  • मृत्योः पुरीम् = यमस्य नगरीम्
  • स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकाम् = …. यस्याः तादृशीम्
    • स्वकृत्यस्य = मारणस्य
    • अत्ययेन = विपर्ययेण
    • क्रीडन्तः = यथेच्छं विहरन्तः
    • किङ्कराः = यमदूताः
    • तेषां सङ्घैः = समूहैः
    • सङ्कटम् = सङ्कुलम्
    • महत् = विपुलम्
    • शृङ्गाटकम् = चतुष्पथम्
  • विदधती = कुर्वती
  • प्राणस्वीकारः यमकिङ्कराणां कार्यम् । तत्कार्यं ताटकया स्वायत्तीकृतम् इत्यतः यमकिङ्कराः कार्यरहिताः यथेच्छं विहरन्तः यमपुर्याः विशालासु मुख्यवीथीषु संमर्दं जनयन्ति इत्यर्थः ।

अन्वयः

स्वाधीने हनने (सति) स्वकृत्यात्ययक्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां मृत्योः पुरीं विदधती, पिशिताशनाशपिशुना रुधिरक्षोदारुणा दारुणा काचित् सन्ध्या इव ताटका तत्काले मुनेः अध्वानं तरसा रुरोध ।

आकाङ्क्षा

  • रुरोध = निरुद्धवती
    • कदा रुरोध ? तत्काले
    • कथं रुरोध ? तरसा
    • किं रुरोध ? अध्वानम्
      • कस्य अध्वानम् ? मुनेः
    • का रुरोध ? ताटका
      • का इव ताटका ? काचित् सन्ध्या इव
        • कीदृशी सन्ध्या इव ? पिशिताशनाशपिशुना
        • पुनः कीदृशी सन्ध्या इव ? रुधिरक्षोदारुणा
        • पुनः कीदृशी सन्ध्या इव ? दारुणा
      • पुनः कीदृशी ताटका ? हनने स्वाधीने मृत्योः पुरीं स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकां विदधती
    • स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकां – स्वकृत्यस्य = मारणस्य, अत्ययेन = विपर्ययेण, क्रीडन्तः = यथेच्छं विहरन्तः, किङ्कराः = यमदूताः, तेषां सङ्घैः = समूहैः, सङ्कटम् = सङ्कुलम्, महत् = विपुलम्, शृङ्गाटकम् = चतुष्पथम् यस्याः तादृशीम्
    • विदधती = कुर्वती

तात्पर्यम्

तस्मिन् समये एव सन्ध्या इव ताटका महर्षेः विश्वामित्रस्य मार्गं निरुद्धवती । (सन्ध्या राक्षसानां भोजनकालसूचिका, कुङ्कुमपुष्पस्य रज इव रक्तवर्णा, पिशाचादीनां सञ्चारेण भयङ्करी, अनुष्ठानकालत्वात् मुनीनां प्रयाणस्य अवरोधिका च । ताटका तु राक्षसानां विनाशकालसूचिका, रक्तपङ्केन अरुणिता, रूप-बलाभ्यां भयङ्करी, स्वभावेनैव मुनीनां प्रयाणस्य अवरोधिका)

किञ्च, इयं ताटका मारणकार्यं स्वायत्तं कृत्वा, यमपुर्याः विशालां मुख्यवीथीं कार्यरहितैः यथेच्छं विहरद्भिः किङ्करसमूहैः समाकीर्णां कृतवती ।

पदविवरणम्

  • पिशिताशनाशपिशुना
    • सन्ध्यायाः पक्षे
      • पिशितं तरसं मांसं पललं क्रव्यमामिषम्” (अमरः)
      • पिशिताशनाः = पिशितम् अश्नन्ति इति, अच्-प्रत्ययः
      • आशः = अश् “अश भोजने” + घञ्
      • पिशिताशनाशः = पिशिताशनानाम् आशः
      • पिशिताशनाशपिशुना = पिशिताशनाशस्य पिशुना ।
    • ताटकायाः पक्षे
      • पिशिताशाः = पिशितम् अश्नन्ति इति, ल्यु-प्रत्ययः
      • नाशः = नश् “णशँ अदर्शने” + घञ्
      • पिशिताशनाशः = पिशिताशनां नाशः
      • पिशिताशनाशपिशुना = पिशिताशनाशस्य पिशुना ।
    • अध्वानम् = अध्वन् शब्दः, नकारान्तः, पुं, द्वि.वि., ए.व. । “अयनं वर्त्म-मार्ग-अध्व-पन्थानः पदवी सृतिः” (अमरः)
    • तरसा = तरस् शब्दः, सकारान्तः, नपुं, तृ.वि., ए.व. । “रंहस्-तरसी तु रयः स्यदः”, “तरः-सहः-बल-शौर्याणि” (अमरः) ।
    • रुरोध = रुध्“रुधिँर् आवरणे” – लिट्, प्र.पु., ए.व.
    • रुधिरक्षोदारुणा
      • रुधिरक्षोदः = रुधिरस्य क्षोदः
      • रुधिरक्षोदारुणा = रुधिरक्षोदेन अरुणा
    • स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकाम्
      • स्वकृत्यम् = स्वेषां कृत्यम्
      • स्वकृत्यात्ययः = स्वकृत्यस्य अत्ययः
      • स्वकृत्याययक्रीडन्तः = स्वकृत्यात्ययेन क्रीडन्तः
      • स्वकृत्याययक्रीडत्किङ्कराः = स्वकृत्याययक्रीडन्तः किङ्कराः
      • स्वकृत्यात्ययक्रीडत्किङ्करसङ्घाः = स्वकृत्यात्ययक्रीडत्किङ्कराणां सङ्घाः
      • स्वकृत्यात्ययक्रीडत्किङ्करसङ्घसङ्कटम् = स्वकृत्यात्ययक्रीडत्किङ्करसङ्घैः सङ्कटम्
      • महाशृङ्गाटकम् = महत् च तत् शृङ्गाटकं च
      • स्व-कृत्य-अत्यय-क्रीडत्-किङ्कर-सङ्घ-सङ्कट-महा-शृङ्गाटकाम् = स्वकृत्यात्ययक्रीडत्किङ्करसङ्घसङ्कटं महाशृङ्गाटकं यस्याः सा, ताम्

अलङ्कारः

  • शब्दालङ्कारः – अनुप्रासः (letters like श repeating), यमकः (repetition of word दारुणा) ।
  • अर्थालङ्कारः – उपमा, श्लेषः (सभङ्गः, अभङ्गः)

छन्दः

  • शार्दूलविक्रीडितम् – “सूर्याश्वैर्मसजाः स्तताः सगुरवः शार्दूलविक्रीडितम्” – प्रतिपादं १९ अक्षराणि, म-स-ज-स-त-त-गुरुः । सूर्य = १२ (द्वादश आदित्याः), अश्व = ७ (सप्तसप्तिः – seven horses) ।
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19
गु गु गु गु गु गु   गु गु गु गु गु
तत् का ले पि शि ता ना पि शु ना सन्ध् ये का चिन् मु ने
रध् वा नं सा रु रो रु धि क्षो दा रु णा दा रु णा
स्वा धी ने ने पु रीं वि ती मृत् योः स्व कृत् यात्
क्री डत् किङ् सङ् सङ् हा शृङ् गा कां ता का

Word-Meaning

  • तत्काले = At that time
    • ताटका = Taatakaa
    • विदधतीम् = one who is rendering
      • मृत्योः पुरीम् = city (पुरी) of death (मृत्युः)
      • स्व+कृत्य+अत्यय+क्रीडत्+किङ्कर+सङ्घ+सङ्कट+महाशृङ्गाटकाम् = (is being made into) a place, whose wide (महा) junctions (शृङ्गाटक), e., where four roads would meet, have been jammed (सङ्कट) by the groups (सङ्घ) of Yama’s servants (किङ्कर), devoid of their work, were playing (क्रीडत्), as Taatakaa has taken over (अत्यय) their (स्व) job (कृत्य),
        • स्वाधीने हनने (सति) = When she was killing (हनन) freely (स्वाधीन), i.e., on her own wish
      • काचित् सन्ध्या इव = (that Taataka who was) like the dusk
      • पिशिताशनाशपिशुना
        • In the context of dusk, पिशिताशन-आश-पिशुना means that it is the indicator (पिशुना) of the meal-time (आश) of the meat-eating demons (पिशित+आशन)
        • In the context of Taatakaa, पिशिताश-नाश-पिशुना means that she is the indicator (पिशुना) of destruction (नाश) of the meat-eating demons (पिशित+आशन)
      • रुधिरक्षोदारुणा
        • In the context of dusk, it is red (अरुणा) in color like the pollen dust (क्षोद) of the saffron flower (रुधिर)
        • In the context of Taatakaa, she is red (अरुणा) because of the smears (क्षोद) of blood (रुधिर)
      • दारुणा = The generator of fear,
        • In the context of dusk, since the evil forces wander out during that time
        • In the context of Taatakaa, by her strength and form
      • रुरोध = blocked
      • तरसा = quickly or forcibly
      • मुनेः अध्वानम् = the path (अध्वान) of the Rishi (मुनि)
        • In the context of Taataka, she blocked Vishwamitra
        • In the context of dusk, it stops the travel of the muni, (i.e., a person who strictly follows the stipulated rituals) as he would stop his travel to do his evening rituals

42.     श्लोकः

मूलपाठः

अथ दाशरथेः कर्णमविशत्ताटकागुणः ।
तथा धनुर्गुणस्तूर्णं प्राविशत्तज्जिघांसया ॥ ४२ ॥

पदच्छेदः

अथ, दाशरथेः, कर्णम्, अविशत्, ताटका-गुणः, तथा, धनुर्-गुणः, तूर्णम्, प्राविशत्, तत्-जिघांसया

अन्वयार्थः

  • अथ = तदनन्तरम्
  • अविशत् = प्रविष्टः
  • ताटकागुणः = ताटकायाः शब्दः
  • कर्णम् = श्रोत्रम्
  • दाशरथेः = रामस्य
  • प्राविशत् = प्रविष्टः
  • धनुर्गुणः = चापस्य मौर्वी
  • तूर्णम् = वेगेन
  • तज्जिघांसया = ताटकायाः हननेच्छया

अन्वयः

अथ ताटकागुणः दाशरथेः कर्णम् अविशत्, तथा धनुर्गुणः तज्जिघांसया तूर्णं (दाशरथेः कर्णं) प्राविशत् ।

आकाङ्क्षा

  • अथ अविशत्
    • कः अविशत् ? ताटकागुणः
    • किम् अविशत् ? कर्णम्
  • तथा प्राविशत्
    • कः प्राविशत् ? धनुर्गुणः
    • किम् अविशत् ? कर्णम्
      • कस्य कर्णम् ? दाशरथेः
    • कथम् अविशत् ? तूर्णम्
    • किमर्थम् अविशत् ? तज्जिघांसया

तात्पर्यम्

ताटकायाः शब्दः यावता रामस्य कर्णं प्राप्तः, तावता एव तस्याः हननेच्छया तस्य चापस्य ज्यापि तस्य कर्णदेशं प्राप । अर्थात्, ताटकायाः घोरं नादं श्रुत्वा रामः तां हन्तुं झटिति ज्यां कर्णपर्यन्तम् आकृष्टवान् ।

पदविवरणम्

  • गुणः = रूप-रस-गन्ध-स्पर्श-शब्दाः इन्द्रियविषयाः / रूप-रस-गन्ध-स्पर्श-संख्या-परिमाणादयः २४ गुणाः (तर्कशास्त्रे) ।
  • धनुर्गुणः = धनुषः गुणः । “मौर्वी ज्या शिञ्जिनी गुणः” (अमरः)
  • तूर्णम् = “सत्वरं चपलं तूर्णम् अविलम्बितम् आशु च” (अमरः)
  • प्राविशत् – प्र + विश् “विशँ प्रवेशे” – लङ्, प्र.पु., ए.व.
  • तज्जिघांसया = तस्याः जिघांसा, तया । हन्तुम् इच्छा जिघांसा – “हन हिंसागत्योः + सन् + अ (कृत्) + टाप् (स्त्री) । आकारान्तः, स्त्री, तृ.वि., ए.व.

अलङ्कारः

  • अतिशयोक्तिः अलङ्कारः । (because the bow’s string does not enter the ears)

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • अथ = Then
  • ताटकागुणः = Taatakaa’s sound (literal meaning is qualities, here it means sound)
    • अविशत् = entered
    • दाशरथेः = Rama’s
    • कर्णम् = ears
  • तथा = at the same time
  • धनुर्गुणः = the bow’s string
    • प्राविशत् = entered (here it means reached)
    • दाशरथेः कर्णम् = Rama’s ears
    • तूर्णम् = quickly
    • तज्जिघांसया = with a desire to kill

43.     श्लोकः

मूलपाठः

ततो भाविनि सङ्ग्रामे बद्धश्रद्धस्य ताटका ।
स्वप्राणान् रामबाणस्य वीरपाणमकल्पयत् ॥ ४३ ॥

पदच्छेदः

ततः, भाविनि, सङ्ग्रामे, बद्ध-श्रद्धस्य, ताटका, स्व-प्राणान्, राम-बाणस्य, वीर-पाणम्, अकल्पयत्

अन्वयार्थः

  • ततः = तदनन्तरम्
  • ताटका अकल्पयत् = कल्पितवती created
  • स्वप्राणान् वीरपाणम् = स्वीय-प्राणरूपं वीरपाणम् । “वीरपाणं तु यत्पानं वृत्ते भाविनि वा रणे” her life as a drink that increases the enthusiasm of the warriors
  • रामबाणस्य = श्रीरामशरस्य for the arrow of Rama
  • बद्धश्रद्धस्य = विहितादरस्य that which is committed to
  • भाविनि सङ्ग्रामे = भविष्यति युद्धे in the impending war

अन्वयः

ततः ताटका भाविनि सङ्ग्रामे बद्धश्रद्धस्य रामबाणस्य स्वप्राणान् वीरपाणम् अकल्पयत् ।

आकाङ्क्षा

  • अकल्पयत्
    • कथंभूतम् अकल्पयत् ? वीरपाणम्
      • कस्य वीरपाणम् ? रामबाणस्य
        • कीदृशस्य रामबाणस्य ? बद्धश्रद्धस्य
          • कुत्र बद्धश्रद्धस्य ? सङ्ग्रामे
            • कस्मिन् सङ्ग्रामे ? भाविनि
          • किम् वीरपाणम् अकल्पयत् ? स्वप्राणान्
          • का अकल्पयत् ? ताटका
          • कदा अकल्पयत् ? ततः

तात्पर्यम्

ततः ताटका भविष्यति युद्धे विहितादरस्य श्रीरामशरस्य वीरपाणरूपेण स्वप्राणानेव समर्पितवती । अर्थात्, असुरनाशार्थं प्रवृत्तस्य रामबाणस्य प्रथमम् उत्साहवर्धकं पानं ताटकायाः प्राणरूपमेव आसीत् ।

पदविवरणम्

  • भाविनि = भाविन् शब्दः, नकारान्तः, पुं, स.वि., ए.व.
  • सङ्ग्रामे = “युद्धम् आयोधनं जन्यम्… सङ्ग्राम-अभ्यागम-आहवाः” (अमरः)
  • बद्धश्रद्धस्य = बद्धा श्रद्धा यस्य सः, तस्य
  • स्वप्राणान् = स्वस्य प्राणाः, तान् । “पुंसि भूम्न्यसवः प्राणाः” (अमरः) One’s life is refered as प्राणाः in plural
  • वीरपाणम् = वीराणां पानम् । “वा भावकरणयोः” (८ ।४ ।१०) इति वैकल्पिकं णत्वम् । वीरपानम् / वीरपाणम्

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • ततः = then
  • ताटका अकल्पयत् = Taataka created
  • स्वप्राणान् वीरपाणम् = her life as a drink that increases the enthusiasm of the warriors
  • रामबाणस्य = for the arrow of Rama
  • बद्धश्रद्धस्य = that which was committed to
  • भाविनि सङ्ग्रामे = in the impending war

44.     श्लोकः

मूलपाठः

मुनिर्भृशाश्वोपज्ञानि ताटकामाथिने ददौ ।
अस्त्राणि जृम्भकादीनि जम्भशासनशासनात् ॥ ४४ ॥

पदच्छेदः

मुनिः, भृशाश्व-उपज्ञानि, ताटका-माथिने, ददौ, अस्त्राणि, जृम्भक-आदीनि, जम्भ-शासन-शासनात्

अन्वयार्थः

  • अस्त्राणि ददौ = अस्त्राणि प्रायच्छत्
  • मुनिः = ब्रह्मर्षिः विश्वामित्रः
  • ताटकामाथिने = ताटकान्तकाय श्रीरामाय
  • जृम्भकादीनि = जृम्भकप्रभृतीनि
  • भृशाश्वोपज्ञानि = भृशाश्वेन आदौ ज्ञातानि
  • जम्भशासनशासनात् = इन्द्रस्य आज्ञया

अन्वयः

मुनिः जम्भशासनशासनात् भृशाश्वोपज्ञानि जृम्भकादीनि अस्त्राणि ताटकामाथिने ददौ ।

आकाङ्क्षा

  • ददौ
    • कस्मै ददौ ? ताटकामाथिने
    • कानि ददौ ? अस्त्राणि
      • कीदृशानि अस्त्राणि ? जृम्भकादीनि
      • पुनः कीदृशानि अस्त्राणि ? भृशाश्वोपज्ञानि
    • कस्मात् कारणात् ददौ ? जम्भशासनशासनात्
    • कः ददौ ? मुनिः

तात्पर्यम्

विश्वामित्रः इन्द्रस्य आज्ञया ताटकान्तकाय रामाय भृशाश्वेन आदौ ज्ञातानि जृम्भकादीनि अस्त्राणि प्रायच्छत् ।

पदविवरणम्

  • भृशाश्वोपज्ञानि = भृशाश्वस्य उपज्ञा ।
  • ताटकामाथिने = ताटकां मथ्नाति इति । ताटकामाथिन् शब्दः, नकारान्तः, पुं, च.वि., ए.व.
  • ददौ = दा “डुदाञ् दाने” – लिट्, प्र.पु., ए.व.
  • जम्भशासनशासनात् = जम्भशासनस्य शासनम्, तस्मात् । “जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः” (अमरः)

छन्दः

  • अनुष्टुप् (श्लोकः) ‘पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषाम् एतच्छ्लोकस्य लक्षणम् ॥ ’

Word-Meaning

  • मुनिः = The sage
    • ददौ = gave (i.e., taught the spell of missiles)
    • ताटकामाथिने = to that destroyer of Taataka
    • अस्त्राणि = the missiles [Weapons which are used with mantras as astras. Shastras are the physical weapons]
    • जृम्भकादीनि = named Jrimbhaka (जृम्भक), (आदीनि)
      • भृशाश्वोपज्ञानि = those that were discovered (उपज्ञा) by the sage Bhrshaashva (भृशाश्व)
    • जम्भशासनशासनात् = by the order (शासन) of Indra, who is the punisher (शासन) of Jamba (जम्भ), a demon

References:

  1. http://sanskritfromhome.in/course/champuramayana

Classes conducted by Smt. Sowmya Krishnapur of Vyoma Labs. In all, there were 43 sessions, in a span of over a year’s time, from 23rd October 2017 till 26th November 2018. Online classes were held on Mondays, between 10.00 AM and 11.00 AM IST.

  1. English translation
    http://samkshiptasahityam.blogspot.in/2013/08/bhojarajas-champuramayanam.html
  2. Champu-ramayana by Javaji Tukaram; Text and commentary – PDF – https://archive.org/stream/in.ernet.dli.347687/2015.347687.Champu-ramayana#page/n41/mode/2up
  3. Original Text (updated in wikisource using Smt. Sowmya’s material) — wikisource.org/wiki/चम्पूरामायणम्/बालकाण्डः
  4. Downloadable file with these notes are also available in https://nivedita2015.wordpress.com/sanskrit-kavyas/bhojas-champuramayanam-balakandam/

Other References:

  1. Word-Meanings – http://spokensanskrit.org/
  2. Word-Meanings – http://sanskritdictionary.com/
  3. Dhatu – http://ashtadhyayi.com/dhatu/
  4. Morphological Analyzer – http://sanskrit.uohyd.ac.in/scl/
  5. Chandas – https://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/

7 thoughts on “Bhoja’s ChampuRamayanam – Balakandam

    1. हेरम्बस्य इदं हैरम्बम् – हेरम्ब + अण् (तद्धितः) ।

      हे = रणे/शिवसमीपे वा रम्बते = शब्दं करोति, तिष्ठति इत्यर्थे हेरम्बशब्दः निष्पाद्यते । ’रबि शब्दे’ धातोः अच् प्रत्ययः ।

      Like

  1. Respected Sowmya Mahadayaaa has completed 75 slokas in Champuramayanam but details are available for 47 slokas only in VIDYAADAANAM. Can we expected the updation of the remaining shortly?

    Like

      1. Respected Madam, Thank You fr your reply. I have seen the same and it covers upto 50th sloka. Thanks again

        Like

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s