6 Types of Negation

Words prefixed with अ indicating negation (नञ्) can mean one of the six types of negation.

https://sa.wikisource.org/wiki/शब्दकल्पद्रुमः/अ 

तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता ।
अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्त्तिताः ।।

तत्+सादृश्यम् अभावः च तत्+अन्यत्वं तत्+अल्पता ।
अप्राशस्त्यं विरोधः च  नञ् अर्थाः षट् प्रकीर्त्तिताः ।।

सादृश्ये यथा — अब्राह्मणः ब्राह्मणसदृश- इत्यर्थः ।
अभावे यथा — अभोजनं भोजनाभावः ।
अन्यत्वे यथा, — पटः अघटः, पटः घटभिन्न- इत्यर्थः ।
अल्पत्वे यथा — अनुदरी कन्या अल्पोदरी इत्यर्थः ।
अप्राशस्त्ये यथा, — अधनं चर्म्मधनं, चर्म्मधनम् अप्रशस्तधनम् इत्यर्थः ।
विरोधे यथा — अधर्म्मः परापकारः, परापकारः धर्म्मविरोधी इत्यर्थः ।

*****

The following is from https://simplesanskrit.wordpress.com/2014/01/19/simple-sanskrit-lesson-33/

  1. तत्सादृश्यम् = Looks like that, but it is not that
  2. अभावः = Absent, non-existent
  3. तदन्यत्वम् = Different
  4. तदल्पता = Incomplete, inadequate, too little
  5. अप्राशस्त्यम् = Inappropriate
  6. विरोधः = Opposite

Some Clarifications

This post will be updated with more clarifications in the course of time!

1. What is the padavivaranam of Jaane in the song “Janakee Jaane”?

Ans. It is a samastapada. जानकीजाने !  जानिः = जाया = पत्नी | जानकी जानिः यस्य सः = जानकीजानिः , तस्य सम्बोधनम् । तथा दशरथः कौसल्याजानिः भवति |


2. What is the meaning of यर्हि ?

यर्हि = यद् + र्हिल्प्रत्ययः  | अव्ययम्  | अर्थः = While, wherefore, when. It is the proper correlative of तर्हि but is rarely used in classics.
Eg. कुन्तिस्तुतयां — यर्हि भवतः अदर्शनं, ईशितुः (अदर्शने) हृषीकाणां इव, नामरूपाभ्यां (सहितः) यदुभिः सह पाण्डवाः वयं के ?


 

(Video) Sankshepa Ramayanam Class 16 Anand V (Last of the series)

 

http://sanskrit.uohyd.ac.in/scl/e-readers/sankshepa_ramayanam/ramayana-interface/index.html

मूलश्लोकः-91

न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषा: क्वचित्‌। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रता:।।91।।

श्लोकान्वयः –

केचिद् (अपि) पुरुषा: क्वचित्‌ पुत्रमरणं न द्रक्ष्यन्ति। नार्य: नित्यम्‌ अविधवा: पतिव्रता: च भविष्यन्ति।।91।।

मूलश्लोकः-92

न चाग्निजं भयं किञ्चन्‌ नाप्सु मज्जन्ति जन्तव:। न वातजं भयं किञ्चन्‌ नापि ज्वरकृतं तथा।।92।।

श्लोकान्वयः –

न च अग्निजं किञ्चिद् भयम्‌, न (च) अप्सु जन्तव: मज्जन्ति न किञ्चिद् वातजं भयम्‌, न अपि ज्वरकृतं तथा।।92।।

मूलश्लोकः-93-94

न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च।। 93।। नित्यं प्रमुदिता: सर्वे यथा कृतयुगे तथा।।94।।

श्लोकान्वयः –

न च अपि तत्र क्षुद्भयम्‌, तथा (एव) तस्करभयम्‌ (अपि) न। नगराणि राष्ट्राणि च धनधान्ययुतानि। सर्वे तथा प्रमुदिता: यथा कृतयुगे।।93-94।।

मूलश्लोकः-94-96

अश्वमेधशतैरिष्ट्‌वा तथा बहुसुवर्णकै:।। 94।। गवां कोट्‌ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्‌। असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशा:।। 95।। राजवंशाञ्छतगुणान्‌ स्थापयिष्यति राघव:। चातुर्वर्ण्यं च लोकेऽस्मिन्‌ स्वे-स्वे धर्मे नियोक्ष्यति ।।96।।

श्लोकान्वयः –

महायशा: राघव: अश्वमेधशतै: बहुसुवर्णकै: इष्ट्‌वा गवां कोट्‌ययुतं असंख्येय धनं (च) विद्वद्भ्य: ब्राह्मणेभ्य: विधिपर्वूकं दत्त्वा राजवंशान्‌ शतगुणान्‌ स्थापयिष्यति। अस्मिन्‌ लोके चातुर्वर्ण्यं स्वे-स्वे धर्मे नियोक्ष्यति च।।94-96।।

मूलश्लोकः-97

दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति।।97।।

श्लोकान्वयः –

राम: दशवर्षसहस्राणि दशवर्षशतानि च राज्यम्‌ उपासित्वा ब्रह्मलोकं प्रयास्यति।।97।।

मूलश्लोकः-98

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्‌ । य: पठेद् रामचरितं सर्वपापै: प्रमुच्यते।। 98।।

श्लोकान्वयः –

इदं पवित्रं पापघ्नं पुण्यं वैदेश्च सम्मितं रामचरितं य: पठेत्‌ सर्वपापै: प्रमुच्यते।।98।।

मूलश्लोकः-99

एतदाख्यानमायुष्यं पठन्‌ रामायणं नर:। सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते।। 99।।

श्लोकान्वयः –

एतद् आयुष्यम्‌ आख्यानं रामायणं पठन्‌ नर: सपुत्रपौत्र: सगण: प्रेत्य स्वर्गे महीयते।।99।।

मूलश्लोकः-100

पठन्‌ द्विजो वागृषभत्वमीयात्‌ स्यात्‌ क्षत्रियो भूमिपतित्वमीयात्‌। वणिग्जन: पण्यफलत्वमीयाज्जनश्च शूद्रोऽपि महत्त्वमीयात्‌।।100।।

श्लोकान्वयः –

द्विज: पठन्‌ वागृषभत्वम्‌ ईयात्‌ स्यात्‌ क्षत्रिय: भूमिपतित्वम्‌ ईयात्‌ वणिग्जन: पण्यफलत्वम्‌ ईयात्‌ शूद्र: जन: च अपि महत्त्वम्‌ ईयात्‌।।100।।

(Video) Sankshepa Ramayanam Class 15 Anand V

मूलश्लोकः-81

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे । राम: सीतामनुप्राप्य परां व्रीडामुपागमत्‌।।81।।

श्लोकान्वयः –

राम: तेन (सेतुना) लङ्कां पुरीं गत्वा आहवे रावणं हत्वा सीताम्‌ अनुप्राप्य परां व्रीडाम्‌ उपागमत्‌।।81।।

मूलश्लोकः-82

तामुवाच ततो राम: परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती।। 82।।

श्लोकान्वयः –

तत: राम: जनसंसदि तां परुषम्‌ उवाच। (तत्‌) अमृष्यमाणा सा सती सीता ज्वलनं विवेश।।82।।

मूलश्लोकः-83-84

ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम्‌ । कर्मणा तेन महता त्रैलोक्यं सचराचरम्‌।।83।। सदेवर्षिगणं तुष्टं राघवस्य महात्मन:। बभौ राम: संप्रहृष्ट: पूजित: सर्वदैवतै:।। 84।।

श्लोकान्वयः –

तत: अग्निवचनात्‌ सीतां विगतकल्मषां ज्ञात्वा राम: (अङ्गीचकार)। महात्मन: राघवस्य तेन महता कर्मणा सचराचरं त्रैलोक्यं तुष्टम्‌। सर्वदैवतै: पूजित: राम: सम्प्रहृष्ट:।।83-84।।

मूलश्लोकः-85

अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्‌ । कृतकृत्यस्तदा रामो विज्वर: प्रमुमोद ह।।85।।

श्लोकान्वयः –

तदा राक्षसेन्द्रं विभीषणं लङ्कायाम्‌ अभषिच्य कृतकृत्यः विज्वर: च राम: प्रमुमोद ह।।85।।

मूलश्लोकः-86

देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्‌ । अयोध्यां प्रस्थितो राम: पुष्पकेण सुहृद्-वृत:।।86।

श्लोकान्वयः –

सुहृद्वृत: राम: देवताभ्य: वरं प्राप्य वानरान्‌ समुत्थाप्य च पुष्पकेण अयोध्यां प्रस्थित:।।86।।

मूलश्लोकः-87

भरद्वाजाश्रमं गत्वाराम: सत्यपराक्रम:। भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत्‌।।87।।

श्लोकान्वयः –

आराम: सत्यपराक्रम: राम: भरद्वाजाश्रमं गत्वा भरतस्य अन्तिके हनूमन्तम्‌ व्यसर्जयत्‌।।87।।

मूलश्लोकः-88

पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा। पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा।।88।।

श्लोकान्वयः –

तदा सुग्रीवसहित: (राम:) तत्‌ पुष्पकं पुन: समारुह्य आख्यायिकाम्‌ जल्पन्‌ तदा नन्दिग्रामं ययौ।।88।।

मूलश्लोकः-89

नन्दिग्रामे जटां हित्वा भ्रातृभि: सहितोऽनघ:। राम: सीतामनुप्राप्य राज्यं पुनरवाप्तवान्‌।।89।।

श्लोकान्वयः –

अनघ: राम: भ्रातृभि: सहित: नन्दिग्रामे जटां हित्वा सीताम्‌ अनुप्राप्य राज्यं पुन: अवाप्तवान्‌।।89।।

मूलश्लोकः-90

प्रहृष्टमुदितो लोकस्तुष्ट: पुष्ट: सुधार्मिक:। निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जित:।। 90।।

श्लोकान्वयः –

लोक: हि (राज्यम्‌ अधिरूढे रामे) प्रहृष्टमुदित: तुष्ट: पुष्ट: सुधार्मिक: निरामय: अरोग: दुर्भिक्षभयवर्जित: च भविष्यति।।90।।

(Video) Sankshepa Ramayanam Class 14 Anand V

मूलश्लोकः-73

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्‌ । ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्‌।।73।।

श्लोकान्वयः –

(हनुमान्‌) रावणपालितां लङ्कां पुरीं समासाद्य तत्र अशोकवनिकां गतां (रामं) ध्यायन्तीं सीतां ददर्श।।73।।

मूलश्लोकः-74

निवेदयित्वाऽभिज्ञानं प्रवृत्तिं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्‌।।74।।

श्लोकान्वयः –

(ततश्च हनुमान्‌) अभिज्ञानं निवेदयित्वा* प्रवृत्तिं च (रामस्य) विनिवेद्य वैदहीं समाश्वास्य च तोरणं मर्दयामास।।74।।

 

 

 

 

 

sdfsdfsdfsd

 

 

 

मूलश्लोकः-75

पञ्च सेनाग्रगान्‌ हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्‌।।75।।

श्लोकान्वयः –

(स: हनुमान्‌) पञ्च सेनाग्रगान्‌ सप्त मन्त्रिसुतान्‌ च हत्वा शूरम्‌ अक्षम्‌ अपि निष्पिष्य ग्रहणं समुपागमत्‌।।75।।

मूलश्लोकः-76

अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद्वरात्‌। मर्षयन्‌ राक्षसान्‌ वीरो यन्त्रिणस्तान्‌ यदृच्छया।।76।।

श्लोकान्वयः –

(बन्धनानन्तरं हनुमान्‌) पैतामहात्‌ वरात्‌ अस्त्रेण आत्मानम्‌ उन्मुक्तं ज्ञात्वा यन्त्रिण: तान्‌ राक्षसान्‌ यदृच्छया मर्षयन्‌ (रावणं प्राप्तवान्‌)।।76।।

मूलश्लोकः-77

ततो दग्ध्वा पुरीं लङ्काम्‌ ऋते सीतां च मैथिलीम्‌। रामाय प्रियमाख्यातुं पुनरायान्‌ महाकपि:।।77।।

श्लोकान्वयः –

तत: महाकपि: मैथिलीं सीताम्‌ ऋते लङ्कां पुरीं दग्ध्वा रामाय प्रियमाख्यातुं पुन: आयात्‌।।77।।

मूलश्लोकः-78

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्‌। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वत:।।78।।

श्लोकान्वयः –

अमेयात्मा स: (महाकपि:) महात्मानम्‌ रामम्‌ अभिगम्य प्रदक्षिणं (च) कृत्वा सीता तत्त्वत: दृष्टा इति न्यवेदयत्‌।।78।।

 

मूलश्लोकः-79

तत: सुग्रीवसहितो गत्वा तीरं महोदधे:। समुद्रं क्षोभयामास शरैरादित्यसन्निभै:।।79।।

श्लोकान्वयः –

तत: सुग्रीवसहित: (राम:) महोदधे: तीरं गत्वा आदित्यसन्निभै: शरै: समुद्रं क्षोभयामास।।79।।

 

मूलश्लोकः-80

दर्शयामास चात्मानं समुद्र: सरितां पति:। समुद्रवचनाच्चैव नलं सेतुमकारयत्‌।।80।।

श्लोकान्वयः –

सरितां पति: समुद्र: आत्मानं दर्शयामास (राम:) समुद्रवचनात्‌ एव च नलं सेतुम्‌ अकारयत्‌।।80।।।

(Video) Sankshepa Ramayanam Class 13 Anand V

मूलश्लोकः-66

बिभेद च पुन: सालान्‌ सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन्‌ प्रत्ययं तदा।। 66।।

श्लोकान्वयः –

तदा प्रत्ययं जनयन्‌ एकेन महेषुणा सप्त सालान्‌ गिरिं रसातलं च पुन: बिभेद।।66।।

मूलश्लोकः-67

तत: प्रीतमनास्ते न विश्वस्त: स: महाकपि:। किष्किन्धां रामसहितो जगाम च गुहां तदा।। 67।।

श्लोकान्वयः –

तत: स महाकपि: तेन प्रीतमना: विश्वस्त: च तदा रामसहित: किष्किधां गुहां जगाम।।67।।

मूलश्लोकः-68

ततोऽगर्जद्धरिवर: सुग्रीवो हेमपिङ्गल:। तेन नादेन महता निर्जगाम हरीश्वर:।। 68।।

श्लोकान्वयः –

तत: हेमपिङ्गल: हरिवर: सुग्रीव: अगर्जत्‌ तेन महता नादेन हरीश्वर: (बाली) निर्जगाम।।68।।

मूलश्लोकः-69

अनुमान्य तदा तारां सुग्रीवेण समागत:। निजघान च तत्रैनं शरेणैकेन राघव:।। 69।।

श्लोकान्वयः –

तदा वाली ताराम्‌ अनुमान्य सुग्रीवेण (योद्धुं) समागत:। राघव: च एनं तत्र एकेन शरेण निजघान।।69।।

मूलश्लोकः-70

तत: सुग्रीववचनाद्धत्वा वालिनमाहवे । सुग्रीवमेव तद्राज्ये राघव: प्रत्यपादयत्‌।।70।।

श्लोकान्वयः –

तत: राघव: सुग्रीववचनात्‌ आहवे वालिनं हत्वा तद्राज्ये सुग्रीवम्‌ एव प्रत्यपादयत्‌।।70।।

मूलश्लोकः-71

स च सर्वान्‌ समानीय वानरान्‌ वानरर्षभ:। दिश: प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्‌।।71।

श्लोकान्वयः –

स: च वानरर्षभ: जनकात्मजां दिदृक्षु: सर्वान्‌ वानरान्‌ समानीय दिश: प्रस्थापयामास।।71।।

मूलश्लोकः-72

ततो गृध्रस्य वचनात्‌ सम्पातेर्हनुमान्‌ बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्‌।।72।।

श्लोकान्वयः –

तत: बली हनुमान्‌ सम्पाते: गृध्रस्य वचनात्‌ शतयोजनविस्तीर्णं लवणार्णवं पुप्लवे।।72।।