Neethi Shastram – #22 (Last) (Subhashitam) 211-222

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #211 to #222.

Link to all the posts – https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 211

भोजनं विप्रसङ्कीर्णं मन्दिरम्  बन्धुसंयुतम् । 
शयनं सुतसङ्कीर्णं देहि मे मधुसूदन ॥

भोजनं विप्रसङ्कीर्णं बन्धुसंकीर्णमन्दिरम् ।  शयनं सुतसङ्कीर्णं देहि मे मधुसूदन ॥ – पाठान्तरम्

भोजनम् विप्रसङ्कीर्णम् मन्दिरम् बन्धुसंयुतम् शयनम् सुतसङ्कीर्णं देहि मे मधुसूदन ।

(हे) मधुसूदन !  विप्रसङ्कीर्णं भोजनं (च),  बन्धुसंयुतं मन्दिरं (च), सुतसङ्कीर्णं शयनं (च), मे देहि ।

O Madhusoodana (मधुसूदन) ! Give (देहि – दा) me (मे – अहम्) these – Food (भोजन) that is consumed amidst the congregation of Brahmins (विप्र-सङ्कीर्ण), a house (मन्दिर) that has relatives (बन्धु-संयुत) and a bed room (शयन) filled with kids (सुत-सङ्कीर्ण). A person having these three is considered to be very fortunate. 

Shloka 212

गणेशः स्तौति मार्जारं स्ववाहस्याभिरक्षणे ।
महानपि प्रसङ्गेन नीचं सेवितुमर्हति  ॥

गणेशः स्तौति मार्जारं स्ववाहस्याभिरक्षणे ।  महानपि प्रसङ्गेन नीचं सेवितुमिच्छति ॥ – पाठान्तरम्

गणेशः स्तौति मार्जारम् स्ववाहस्य अभिरक्षणे महान् अपि प्रसङ्गेन नीचम् सेवितुम् अर्हति । 

गणेशः स्ववाहस्य अभिरक्षणे मार्जारं स्तौति । महान् अपि प्रसङ्गेन नीचं सेवितुम् अर्हति । 

Ganesha (गणेश) prays (स्तौति – स्तु) a cat (मार्जार) for the safety (अभिरक्षण) of his vehicle, i.e., the mouse (स्व-वाह).  Even (अपि) Great men (महान् – महत्) could end up (अर्हति – अर्ह्) honoring (सेवितुम्) an inferior person (नीच) due to the circumstances (प्रसङ्ग).   

Shloka 213

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते ।
अन्तःसागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥

सन्तप्तायसि संस्थितस्य पयसो नामापि न श्रूयते मुक्ताकारतया तदेव नलिनीपत्रस्थितं दृश्यते ।

स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ – पाठान्तरम्

सन्तप्तायसि संस्थितस्य पयसः नाम अपि न श्रूयते मुक्ताकारतया तत् एव नलिनीपत्रस्थितम् दृश्यते अन्तःसागरशुक्तिमध्यपतितम् तत्  मौक्तिकम् जायते प्रायेण अधममध्यमोत्तमगुणः संसर्गतः जायते ।

सन्तप्तायसि संस्थितस्य पयसः नाम अपि न श्रूयते । नलिनीपत्रस्थितं तत् एव मुक्ताकारतया दृश्यते । अन्तःसागरशुक्तिमध्यपतितं तत्  मौक्तिकं जायते । प्रायेण अधममध्यमोत्तमगुणः संसर्गतः जायते ।

Even (अपि) the name (नाम) is not (न) heard (श्रूयते-श्रू) of the drop of water (पयस्) that is on (संस्थित) a hot iron plate (सन्तप्तायस्), as it looses its existence completely. The very same (एव) thing (तद्) (water droplet) is seen (दृश्यते-दृश्) to have taken the shape of a pearl (मुक्त-आकारता)  when dropped on a lotus leaf (नलिनी-पत्र-स्थित). But, even in the middle of the ocean, that (तद्) drop of water that falls into the oyster inside the ocean (अन्तः-सागर-शुक्ति-मध्य-पतित) becomes (जायते-जा) a real pearl (मौक्तिक). Perhaps (प्रायेण), a person becomes (जायते-जा) endowed with wretched, average or extra-ordinary qualities (अधम-मध्यम-उत्तम-गुण), by the company (संसर्गतः) he keeps.

Shloka 214

प्रारभ्यते न खलु विघ्नभयेन नीचैः 
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नै: पुनः पुनरपि प्रतिहन्यमानाः 
प्रारभ्य च उत्तमजनाः न परित्यजन्ति ॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः 
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः ।
विघ्नै: पुनः पुनरपि प्रतिहन्यमानाः 
प्रारभ्य च उत्तमजनाः न परित्यजन्ति ॥ – पाठान्तरम्

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्ननिहताः विरमन्ति मध्याः विघ्नै: पुनः पुनः अपि प्रतिहन्यमानाः प्रारभ्य च उत्तमजनाः न परित्यजन्ति ।
 
नीचैः विघ्नभयेन न खलु प्रारभ्यते । मध्याः प्रारभ्य विघ्ननिहताः विरमन्ति । प्रारभ्य पुनः पुनः अपि विघ्नै: प्रतिहन्यमानाः च उत्तमजनाः न परित्यजन्ति ।

Work does not even  (न खलु) get started (प्रारभ्यते-प्र+आरभ्) by the common people (नीच) due to the fear to face difficulties in the way (विघ्न-भय). Having started the work (प्रारभ्य ), the Mediocre people (मध्य) cease to do it (विरमन्ति-वि+रम्) when they become hit by difficulties (विघ्न-निहत). Having started (प्रारभ्य), in spite of even repeatedly (पुनः पुनः अपि) being impacted (प्रतिहन्यमान) by difficulties (विघ्न), the Good people (उत्तम-जन) do not (न) leave it (परित्यजन्ति-परि+त्यज्).  

Shloka 215

अधमा धनमिच्छन्ति धनं मानं च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि परमं धनम् ॥

पदच्छेद:
अधमाः धनम् इच्छन्ति धनम् मानम् च मध्यमाः उत्तमाः मानम् इच्छन्ति मानः हि परमम् धनम्

अन्वय:
अधमाः धनम् इच्छन्ति । मध्यमाः धनं मानं च इच्छन्ति । उत्तमाः मानम् इच्छन्ति । मानः हि परमं धनम् ।

The inferior people (अधम) wish (इच्छन्ति – इष्) for wealth (धन). The middle level of people (मध्यम)  wish (इष्) for material possession (धन) and respect (मान). Great men (उत्तम) want (इष्) respect (मान) (and not money). The highest (परम) wealth (धन) is only (हि) prestige (मान).

Shloka 216

मात्रा समो नास्ति शरीरपोषणे भार्यासमो नास्ति शरीरतोषणे ।

विद्यासमो नास्ति शरीरभूषणे चिन्तासमो नास्ति शरीरशोषणे ॥

मात्रा समः नास्ति शरीरपोषणे भार्यासमः नास्ति शरीरतोषणे । विद्यासमः नास्ति शरीरभूषणे चिन्तासमः नास्ति शरीरशोषणे ॥

शरीरपोषणे मात्रा समः (कोऽपि) न अस्ति । शरीरतोषणे भार्यासमः (कोऽपि) न अस्ति । शरीरभूषणे विद्यासमः (कोऽपि) न अस्ति । शरीरशोषणे चिन्तासमः (कोऽपि) न अस्ति । 

In nourishing the body (शरीर-पोषण), no one (न) exists (अस्ति-अस्) equivalent (सम) of a mother (मातृ) । In delighting the body (शरीर-तोषण), no one (न) exists (अस्ति-अस्) equivalent of a wife (भार्यासम) । In decorating the body (शरीर-भूषण), nothing (न) exists (अस्ति-अस्) like that of knowledge (विद्यासम) । In draining the body (शरीर-शोषण), nothing (न) exists (अस्ति-अस्) like that of knowledge (चिन्तासम) ।

Shloka 217

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत् ॥ 

वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः अपि अकार्यशतं कृत्वा भर्तव्याः मनुः अब्रवीत् ।

वृद्धौ मातापितरौ च, साध्वी भार्या च,  शिशुः सुतः च, अकार्यशतं कृत्वा अपि भर्तव्याः (इति) मनुः अब्रवीत् ।

Aged (वृद्ध) parents (मातापितृ), chaste (साध्वी) wife (भार्या), and infant (शिशु) child (सुत) are to be protected (भर्तव्याः), even (अपि) by doing (कृत्वा) hundred wrong deeds (अकार्य-शतम्). Thus say (अब्रवीत् –  ब्रू) Manu (मनु).  

Shloka 218

खर्वाटो दिवसेश्वरस्य किरणैस्सन्तापितो मस्तके 
गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः 
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥

खर्वाटः दिवसेश्वरस्य किरणैः सन्तापितः मस्तके गच्छन् देशम् अनातपं द्रुतगतिः तालस्य मूलं गतः । 
तत्र अपि अस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायः गच्छति यत्र दैवहतकः तत्र  एव यान्ति आपदः ॥

दिवसेश्वरस्य किरणैः मस्तके सन्तापितः खर्वाटः अनातपं देशं द्रुतगतिः गच्छन् तालस्य मूलं गतः । तत्र अपि सशब्दं पतता महाफलेन अस्य शिरः भग्नं (जातम्) ।  प्रायः यत्र दैवहतकः गच्छति तत्र एव आपदः यान्ति । 

A bald man (खर्वाट) scorched (सन्तापित) in the head (मस्तक) due to the Sun’s (दिवसेश्वर) rays (किरण), in search of a place (देश) of shade (अनातप) rushing (गच्छत्) hurriedly (द्रुतगतिः), reached (गत) the base (मूल) of a palm tree (ताल). Even (अपि) there (तत्र), due to the falling (पतत्) of a huge palm fruit (महा-फल) , his (अस्य-इदम्) head (शिरस्) became fractured (भग्न) with a huge noise (सशब्द)!  Perils (आपद्) probably (प्रायः) go (यान्ति-या) verily (एव) wherever (यत्र तत्र) those cursed by destiny (दैव-हतक) go (गच्छति-गम्).

Shloka 219

किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते ।
नग्नक्षपणके देशे रजकः किं करिष्यति ॥

किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते नग्नक्षपणके देशे रजकः किं करिष्यति ।

यत्र श्रोता न विद्यते, (तत्र) वक्तारः किं करिष्यन्ति ? नग्नक्षपणके देशे रजकः किं करिष्यति ?

Where (यत्र) there is no (न विद्यते – विद्) listener (श्रोतृ), what (किम्) will the orators (वक्तृ) do (करिष्यन्ति – कृ) ? In a country (देश) of naked mendicants (नग्न-क्षपणक) , what (किम्) will a washer-man (रजक) do (कृ) ?

Shloka 220

तृष्णे कॄष्णेऽपि ते शक्तिर्दृष्टा मर्त्येषु का कथा ।
त्रैलोक्यव्यापि यद्रूपं तद्रूपं वामनीकृतम् ॥

तृष्णे कॄष्णे अपि ते शक्तिः  दृष्टा मर्त्येषु का कथा  त्रैलोक्यव्यापि यद् रूपं तद् रूपं वामनीकृतम् ।

(हे) तृष्णे ! कॄष्णे अपि  ते शक्तिः  दृष्टा । मर्त्येषु का कथा । यद् रूपं त्रैलोक्यव्यापि तद् रूपं वामनीकृतम् ।

O Goddess of Thirst (तृष्णा) ! Your (ते – युष्मद्) power (शक्ति) was seen (दृष्टा) even (अपि) in Krishna (कृष्ण). What (का) to say  (कथा) of mere mortals (कर्त्य) ? Whichever (यद्) form (रूप) was pervading the three worlds (त्रैलोक्य-व्यापि), that (तद्) form (रूप) was made into a dwarf (वामनी-कृत).

Shloka 221

मनस्य एकं वचस्य एकं कर्मणि एकं महात्मनाम् ।
मनस्यान्यत्  वचस्यान्यत् कर्मण्यन्यत् दुरात्मनाम्॥

मनस्य एकं वचस्य एकं कर्मणि एकं महात्मनाम्  मनस्य अन्यत्  वचस्य अन्यत् कर्मणि अन्यत् दुरात्मनाम् ।

महात्मनां मनस्य एकं, वचस्य एकं, कर्मणि एकं (भवति) । दुरात्मनां (तु) मनस्य अन्यत्, वचस्य अन्यत्, कर्मणि अन्यत् (भवति) ।

The noble men’s (महात्मन्) thought (मनस्) is one (एक), word (वचस्) is same (एक) and action (कर्मन्) is same (एक). i.e., they are in complete harmony. For the ill-natured people (दुरात्मन्), thought (मनस्) will be different (अन्यत्), words (वचस्) will be different (अन्यत्) and their actions (कर्मन्) will be different (अन्यत्). 

Shloka 222

प्राचीनग्रन्थमध्यस्थैः सद्वाक्यैः समयोचितैः ।
नीतिशास्त्रमिदं  प्रोक्तं जीयात् आचन्द्रतारकम् ॥

प्राचीनग्रन्थमध्यस्थैः सद्वाक्यैः समयोचितैः नीतिशास्त्रम् इदम्  प्रोक्तम् जीयात् आचन्द्रतारकम् ।

प्राचीनग्रन्थमध्यस्थैः समयोचितैः सद्वाक्यैः  इदं  प्रोक्तं नीतिशास्त्रम् आचन्द्रतारकं जीयात् ।

May this (इदम्) Neethi Shaashtram, the treatise on Ethics (नीतिशास्त्र), that which has been told (प्रोक्त) with the words of wisdom (सद्-वाक्य) , that are present within the ancient texts (प्राचीन-ग्रन्थ-मध्य-स्थ) , that are appropriate even for the current times (समय-उचित) , it win (जीयात् – जी) as long as the Moon and stars exists (आ-चन्द्र-तारकम्) , i.e., May this work continue to be well regarded till eternity.     

—– * ——

Neethi Shastram – #21 (Subhashitam) 201-210

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #201 to #210.

Link to all the posts – https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 201

अनवसरे यत् पठितं सुभाषितमपि भवति हासाय । रहसि प्रौढवधूनां रतिसमये वेदपाठ इव​ ॥

अनवसरे च यदुक्तं सुभाषितं तच्च भवति हास्याय  –  पाठान्तरम्  ।

अनवसरे यत् पठितम् सुभाषितम् अपि भवति हासाय रहसि प्रौढवधूनाम् रतिसमये वेदपाठः इव​

अनवसरे यत् पठितं सुभाषितम् अपि, रहसि प्रौढवधूनां रतिसमये वेदपाठः इव​ हासाय भवति

That which (यद्) is read (पठित), even if (अपि) it is the wise sayings or Shubhashitams (सुभाषित), becomes (भवति-भू) a joke, i.e., for the sake of fun (हास), when done at an inappropriate time (अनवसर),  like (इव) the lessons on Vedas (वेद-पाठ) taught at the time of making love (रति-समय) in secrecy (रहस्) with one’s bold and grown-up wife (प्रौढ-वधू).

Shloka 202

युक्तियुक्तं वचो ग्राह्यं बालादपि शुकादपि अयुक्तमपि न ग्राह्यं साक्षादपि बृहस्पतेः ॥

युक्तियुक्तं वचः ग्राह्यं बालात् अपि शुकात् अपि अयुक्तम् अपि न ग्राह्यं साक्षात् अपि बृहस्पतेः

बालात् अपि शुकात् अपि (वा) युक्तियुक्तं वचः ग्राह्यं (भवति) अपि (च) साक्षात् बृहस्पतेः अपि अयुक्तं (वचः) न ग्राह्यं (भवति) 

The advice (वचस्), which is endowed with reasoning (युक्ति-युक्त), should be accepted (ग्राह्य) even (अपि) if it is from a child (बाल) or a parrot (शुक). Absurd (अयुक्त) suggestions should not (न) be taken (ग्राह्य) even (अपि) if it is directly (साक्षात्) from Bruhaspati (बृहस्पति), the Guru of the Devas.

Shloka 203

धान्यानि कीर्णानि यथा पृथिव्यां संमार्जनी सञ्चिनुते वृथैव
मूढस्तथा सञ्चिनुते धनानि दाता च भोक्ता च परोऽस्ति तस्य ॥

धान्यानि कीर्णानि यथा पृथिव्यां संमार्जनी सञ्चिनुते वृथा एव मूढः तथा सञ्चिनुते धनानि दाता च भोक्ता च परः अस्ति तस्य

यथा संमार्जनी प्रुथिव्यां कीर्णानि धान्यानि वृथा एव सञ्चिनुते, तथा मूढः धनानि (वृथा एव) सञ्चिनुते तस्य (धनस्य) दाता च भोक्ता च परः अस्ति 

Just as the broomstick (संमार्जनी) gathers (सञ्चिनुते सम्+चि) the grains (धान्य) scattered (कीर्ण) on the ground (पृथिवी), just in vain (वृथा एव), i.e., without any benefit for itself, the foolish person (मूढ) accumulates (सम्+चि) the wealth (धन) without any benefit for himself. The giver (दातृ) and the enjoyer (भोक्तृ) of that (तद्) wealth is (अस्) going to be a different person (पर). The miser will not get to enjoy the wealth.

Shloka 204

व्यापारान्तरमुत्सज्य वीक्षमाणो वधूमुखम् । यो गृहष्वेव निद्राति दरिद्राति स दुर्मतिः ॥

व्यापारान्तरम् उत्सज्य वीक्षमाणः वधूमुखम्  यः गृहषु एव निद्राति दरिद्राति सः दुर्मतिः ।

यः व्यापारान्तरम् उत्सज्य वधूमुखं वीक्षमाणः गृहषु एव निद्राति, दुर्मतिः सः दरिद्राति ।

One (यद्) who sleeps (निद्राति) all the time at home (गृह) itself (एव), looking (वीक्षमाण) at the face of his young wife (वधू-मुख), giving up (उत्सज्य) the trade balance (व्यापारान्तर), i.e., not taking care of the business, that (तद्) foolish person (दुर्मति) brings in poverty (दरिद्राति).

Shloka 205

दीपच्छाया नरच्छाया हन्ति पुण्यं पुरातनम् साचेद्वेदविदस्छाया हन्ति पापं पुरातनम्

दीपच्छाया नरच्छाया हन्ति पुण्यं पुरातनम् साचेत् वेदविदः छाया हन्ति पापं पुरातनम्

दीपच्छाया नरच्छाया (च) पुरातनं पुण्यं हन्ति । साचेत् वेदविदः छाया पुरातनं पापं हन्ति ।

The shadow of the light (दीपच्छाया) from the lamp and the shadow of people (नरच्छाया) will destroy (हन्ति-हन्)  all the benefits of good deeds (पुण्य) done in the past (पुरातन), if one crosses those shadows. While that is so (सा चेत्),  the shadow (छाया) of a Vedic Scholar (वेदविद्)  destroys (हन्ति-हन्)  all the bad deeds (पाप) done in the past (पुरातन).

Shloka 206

नारायणेति शब्दोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके मूढाः पतन्तीति किमद्भुतम् ॥

नारायणः इति शब्दः अस्ति वाक् अस्ति वशवर्तिनी तथा अपि नरके मूढाः पतन्ति इति किम् अद्भुतम् ।

नारायणः इति शब्दः अस्ति । वाक् वशवर्तिनी अस्ति । तथा अपि मूढाः नरके पतन्ति इति किम् अद्भुतम् ।

There exists (अस्ति) the word (शब्द) referred as (इति) Naaraayana (नारायण). One’s power to speak (वाक्) existgs (अस्ति) within one’s control  (वशवर्तिन्). Yet (तथा अपि) the foolish people (मूढ) fall (पतन्ति – पत्) into Hell (नरक). How (किम्) surprising (अद्भुत) is this (इति).

Shloka 207

तृणादपि लघुस्तूलः तूलादपि च याचकः । वायुना किं न नीतोऽसौ मामयं याचयेदिति ॥ 

तृणात् अपि लघुः तूलः तूलात् अपि च याचकः  वायुना किम् न नीतः असौ माम् अयम् याचयेत् इति ।

तृणात् अपि तूलः लघुः । तूलात् अपि च याचकः । असौ वायुना किं (किमर्थं) न नीतः ? (वायुः वदति) अयं मां याचयेत् इति (मया न नीतः) ।

Compared to a blade of grass (तृण), cotton (तूल) is lighter (लघु). Compared to even (अपि च) cotton (तूल), the beggar who requests for some help (याचक) is more insignificant. If so, why is it that किं (किमर्थं) such a person (अदस्) is not (न) dragged (नीत) by the wind (वायु) ? The Wind God says that “I don’t drag him along with me fearing that (इति) he (इदम्) might beg (याच्) from me (अस्मद्) also”.

Shloka 208

दुर्जनः सज्जनात् पूर्वं पूज्यतां तेन किं सताम् । पूर्वं प्रक्षालितः पाद आननादधिकः किमु ॥ 

दुर्जनः सज्जनात् पूर्वम् पूज्यताम् तेन किम् सताम् पूर्वम् प्रक्षालितः पादः आननात् अधिकः किमु ।

दुर्जनः सज्जनात् पूर्वं पूज्यताम् । तेन सतां किम् ।  पूर्वं प्रक्षालितः पादः आननात् अधिकः किमु ।

Let the bad people (दुर्जन) be revered (पूज्) even before (पूर्वम्) the good people (सज्जन) । How does it matter to the good people (सत्) ? Does (किमु) the feet (पाद) that is washed (प्रक्षालित) first (पूर्वम्) become more important (अधिक) than the face (आनन) ।

Shloka 209

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥

उपकारिषु यः साधुः साधुत्वे तस्य कः गुणः अपकारिषु यः साधुः सः साधुः सद्भिः उच्यते ।

यः उपकारिषु साधुः तस्य साधुत्वे कः गुणः ।  यः अपकारिषु साधुः सः साधुः (इति) सद्भिः उच्यते ।

What (किम्) greatness (गुण) is there in his (तद्) goodness (साधुत्व) of one who (यद्) is good (साधु) to those who helped him (उपकारिन्) ?  The wise men (सत्) say (वच्) that one who (यद्) is good (साधु) to those who did bad things to him (अपकारिन्), that person (तद्) is to be considered as being really good (साधु).   

Shloka 210

श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते । एकेन हीनः काणस्स्यात् द्वाभ्यामन्धः प्रकीर्तितः ॥

श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते एकेन हीनः काणः स्यात् द्वाभ्याम् अन्धः प्रकीर्तितः ।

श्रुतिस्मृती तु विप्राणां द्वे चक्षुषी विनिर्मिते । एकेन हीनः काणः स्यात् । द्वाभ्याम् (हीनः) अन्धः प्रकीर्तितः ।

श्रुतिस्मृती तु विप्राणां द्वे चक्षुषी विनिर्मिते । एकेन हीनः काणः स्यात् । द्वाभ्याम् (हीनः) अन्धः प्रकीर्तितः ।

The Vedas and the Smritis (श्रुति-स्मृति) are verily (तु) laid out (विनिर्मित) as the two (द्वे) eyes (चक्षुस्) of Brahmins (विप्र). A person who is devoid (हीन) of one (एक) is considered (अस्) to be a one-eyed person (काण). A person devoid (हीन) of both (द्वि) is considered (प्रकीर्तित) to be a blind man (अन्ध) ।

Neethi Shastram – #20 (Subhashitam) 191-200

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #191 to #200.

Link to all the posts – https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 191

भूतां करणसंयुक्ताम् असतां वाक् अनुव्रजेत् । भवित्री तु क्रिया सर्वा सतां वाचमनुव्रजेत् ॥

भूताम् करणसंयुक्ताम् असताम् वाक् अनुव्रजेत् भवित्री तु क्रिया सर्वा सताम् वाचम् अनुव्रजेत् ।

असतां वाक् करणसंयुक्तां भूताम् अनुव्रजेत् । सर्वा भवित्री क्रिया तु सतां वाचम् अनुव्रजेत् ।

The speech (वाच्) of those who are not wise men (असत्) follow (अनु+व्रज्)  (i.e., it is about) the past events (भूता)  that are entertaining to the senses (करणसंयुक्ता). Whereas (तु) all (सर्वा) future (भवित्री) actions (क्रिया) follow (अनु+व्रज्) the words (वाच्) of the great men (सत्). 

Shloka 192

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्‍टमूर्खजनचित्तमाराधयेत् ॥

लभेत सिकतासु तैलम् अपि यत्नतः पीडयन् पिबेत् च मृगतृष्णिकासु सलिलं पिपासार्दितः कदाचित् अपि पर्यटन् शशविषाणम् आसादयेत् न तु प्रतिनिविष्‍टमूर्खजनचित्तम् आराधयेत् ।

सिकतासु यत्नतः पीडयन् तैलम् अपि लभेत । पिबेत् च मृगतृष्णिकासु सलिलं पिपासार्दितः । कदाचित् पर्यटन् शशविषाणम् अपि आसादयेत् ।  प्रतिनिविष्‍टमूर्खजनचित्तम् न तु आराधयेत् ।

Oil (तैल) might be obtained (लभ्) even (अपि) from sand (सिकता) on account of the untiring effort (यत्न) of squeezing it (पीडयत्). A man troubled by thirst (पिपासार्दित) might get to drink (पिब्) water (सलिल) from a mirage (मृगतृष्णिका). At some point of time (कदाचित्), a wandering person (पर्यटन्) might even find (आ-साद्) the hare’s horn (शश-विषाण). The mind (चित्त) of an obstinate (प्रतिनिविष्‍ट) foolish person (मूर्खजन) cannot be satisfied (आ-राध्). 

Shloka 193

आपदाम् आपतन्तीनां हितोऽपि आयाति हेतुताम् ।
मातृजङ्घा हि वत्सस्य स्तम्भी भवति बन्धने

आपदाम् आपतन्तीनां हितः अपि आयाति हेतुताम् मातृजङ्घा हि वत्सस्य स्तम्भी भवति बन्धने ।

आपतन्तीनां हितः अपि आपदां हेतुताम् आयाति (यथा) मातृजङ्घा हि वत्सस्य बन्धने स्तम्भी भवति ।

Even (अपि) the well-wishers (हित) of those on whom calamities befall (आपतन्ती) bring (आयाति-आ+या) the cause (हेतुता) of misfortune (आपद्).  An example of this is – For tying (बन्धन) the calf (वत्स), its mother’s leg (मातृ-जङ्घा) itself (हि) becomes (भवति-भू) the pole (स्तम्भी) ।

Shloka 194

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं सेवते
सूर्यो भ्राम्यति नित्यमेव गगने, तस्मै नमः कर्मणे ॥

*रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः – पाठान्तरम् ।

ब्रह्मा येन कुलालवत् नियमितः ब्रह्माण्ड-भाण्डोदरे विष्णुः येन दशावतारगहने क्षिप्तः महासङ्कटे रुद्रः येन कपालपाणि-पुटके भिक्षाटनं सेवते सूर्यः भ्राम्यति नित्यम् एव गगने, तस्मै नमः कर्मणे ।

येन ब्रह्मा कुलालवत् ब्रह्माण्ड-भाण्डोदरे नियमितः , येन विष्णुः महासङ्कटे दशावतारगहने क्षिप्तः, येन रुद्रः कपालपाणि-पुटके भिक्षाटनं सेवते, येन सूर्यः नित्यम् एव गगने भ्राम्यति, तस्मै कर्मणे नमः ।

One by whom (येन-यद्) Brahma (ब्रह्मन्) has been appointed (नियमित) as a creator like the potter (कुलालवत्) in the cosmic arena (ब्रह्माण्ड-भाण्डोदर) , one by whom (यद्) Vishnu (विष्णु) was cast (क्षिप्त) into the depths of the ten avataras (दशावतार-गहन) during the extremely miserable situations (महासङ्कट), one by whom (यद्) Shiva (रुद्र) performs (सेवते-सेव्) roaming about for begging (भिक्षाटन) with a begging bowl in the hands (कपाल-पाणि-पुटक), one by whom (यद्) Surya (सूर्य) indeed (एव) everyday (नित्यम्) in the sky (गगन) revolves (भ्राम्यति-भ्रम्), Salutation (नमस्)  to that (तद्) Karma or the Karmic force (कर्मन्).

Shloka 195

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो
नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥

शशी दिवसधूसरः गलितयौवना कामिनी सरः विगतवारिजम् मुखम् अनक्षरम् स्वाकृतेः प्रभुः धनपरायणः सततदुर्गतिः सज्जनः नृपाङ्गणगतः खलः मनसि सप्त शल्यानि मे ।

दिवसधूसरः शशी, गलितयौवना कामिनी, विगतवारिजं सरः, स्वाकृतेः अनक्षरं मुखं, धनपरायणः प्रभुः, सततदुर्गतिः सज्जनः, नृपाङ्गणगतः खलः, मे मनसि सप्त शल्यानि ।

The seven (सप्त) thorns (शल्य) in my (मे-अस्मद्) mind (मनस्) (i.e., things that break my heart) are the moon (शशी) that turns pale during the day (दिवस-धूसर), the beloved woman (कामिनी) who has lost her youthfulness (गलित-यौवना), a lake (सरस्) devoid of lotuses (विगत-वारिज), a good looking person’s (स्वाकृति) unscholarly (अनक्षर)  speech (मुख) (i.e., blabbering) , a powerful Lord (प्रभु) who is engrossed in accumulating wealth (धन-परायण) , a noble person (सज्जन) who is in eternal poverty (सतत-दुर्गति), an evil person (खल) who has gone to (or who is in) the king’s court (नृपाङ्गण-गत). 

Shloka 196

आकारेणैव चतुराः तर्कयन्ति परेङ्गितम् ।
गर्भस्थं केतकीपत्रमामोदेनेव षट्पदाः ॥

आकारेण एव चतुराः तर्कयन्ति परेङ्गितम्  गर्भस्थं केतकीपत्रं आमोदेन एव षट्पदाः ।

चतुराः परेङ्गितम् आकारेण एव तर्कयन्ति (यथा) षट्पदाः गर्भस्थं केतकीपत्रम् आमोदेन एव (जानन्ति) ।

Clever people (चतुर) infer (तर्कयन्ति-तर्क्) the intention of the other person (पर-इङ्गित) looking at their appearance (आकार) itself (एव). The six-legged Bee (षट्पद) finds out the fragrant leaf of Ketaka or Ketakee or Fragrant Screw Pine தாழை (केतकी-पत्र), that is yet to come out and remains in its place of origin (गर्भ-स्थ), just by the smell (आमोद) itself (एव).

Shloka 197

राजसेवा मनुष्याणाम् असिधारावलेहनम् ।
पञ्चाननपरिष्वङ्गो व्यालीवदनचुम्बनम् ॥
राजसेवा मनुष्याणाम् असिधार-अवलेहनम् पञ्चा परिष्वङ्गः व्यालीवदनचुम्बनम् ।
मनुष्याणां राजसेवा असिधारावलेहनम् पञ्चाननपरिष्वङ्गः व्यालीवदनचुम्बनम् ।

For people (मनुष्य), the Service to the King (राज-सेवा) is like (i.e., it is as risky as) licking the tip of the knife (असिधार-अवलेहन), embracing the five headed snake (पञ्चानन-परिष्वङ्ग) and kissing the face of the female snake (व्याली-वदन-चुम्बन).

Shloka 198

अगाधहृदया भूपाः कूपा इव दुरासदाः ।
घटका गुणिनो नो चेत् कथं लभ्येत जीवनम् ॥

अगाधहृदयाः भूपाः कूपा इव दुरासदाः घटकाः गुणिनः नो चेत् कथम् लभ्येत जीवनम् ।

भूपाः कूपा इव अगाधहृदयाः दुरासदाः । घटकाः गुणिनः नो चेत् कथं लभ्येत जीवनम् ।

The Kings (भूप) are like (इव) the deep wells (कूप). They are deep-hearted (अगाध-हृदय) and difficult to approach (दुरासद). The royal servants (घटक) have to be good-natured (गुणिन्).  Else (नो चेत्) how (कथम्)  can they gain (लभ्येत-लभ्) their livelihood (जीवन).  This also means the pots (घटक) have to be tied with a rope (गुणिन्). Else how (कथम्) can the water (जीवन) be obtained (लभ्येत-लभ्). 

Shloka 199

एका भार्या प्रकृतिचपलाऽचञ्चला च द्वितीया
एकः पुत्रस्त्रिभुवनजयी मन्मथो दुर्निरीक्ष्यः ।

शेषश्शय्या ह्युदधिशयनं वाहनं पन्नगारि
स्मारं स्मारं स्वगृहचरितं दारुरूपो मुरारिः ॥

एका भार्या प्रकृतिरचलाचञ्चला च द्वितीया – पाठान्तरम् ।
एकः पुत्रो बहुजनसुतो मन्मथोदुर्निवारः – पाठान्तरम् ।

एका भार्या प्रकृतिचपला अचञ्चला च द्वितीया एकः पुत्रः त्रिभुवनजयी मन्मथः दुर्निरीक्ष्यः शेषश्शय्या ह्युदधिशयनं वाहनं पन्नगारि स्मारं स्मारं स्वगृहचरितं दारुरूपः मुरारिः ।

एका भार्या प्रकृतिचपला । द्वितीया अचञ्चला च ।  एकः पुत्रः त्रिभुवनजयी मन्मथः दुर्निरीक्ष्यः । शेषश्शय्या । ह्युदधिशयनम् । वाहनम्  पन्नगारि ।  मुरारिः स्वगृहचरितं स्मारं स्मारं दारुरूपः (अभवत्) ।

One (एका) wife (भार्या) Lakshmi is wavering by nature (प्रकृति-चपला).  And (च) the second one (द्वितीया) Bhoomaa Devi is immobile (अचञ्चला). One (एक) son (पुत्र) Manmatha (मन्मथ), who wins over the three world (त्रिभुवन-जयी) cannot be easily seen (दुर्निरीक्ष्य). Aadishesha, the snake is his bed (शेषश्शय्या).  He sleeps on the ocean (ह्युदधि-शयन).  His vehicle (वाहन) is Garuda, the enemy of Snakes (पन्नग-अरि). On repeatedly thinking (स्मार, स्मार) about the story or plight of his house (स्व-गृह-चरित), Lord Vishnu, Muraari (मुरारि) took the form of wood (दारु-रूप) at Puri Jagannath Temple. 

Shloka 200

अत्तुं वाञ्छति वाहनं गणपतेः भूषा भुजङ्गः क्रुधा
तं वाहोऽयि षडाननस्य ललनावाहोऽपि नागाननम् ।
गौरी जह्नुसुतामसूयति कलानाथं ललाटानलो
निर्विण्णः स पपौ कुटुम्बकलहादीशोऽपि हालाहलम् ॥

अत्तुं वाञ्छति वाहनं गणपतेराखुं क्षुधार्त्तः फणी – पाठान्तरम् ।
तं च क्रौञ्चरिपोः शिखी च गिरिजासिंहोऽपि नागाननम् – पाठान्तरम् ।
गौरी जन्हुसुतामसूयति कलानाथं कपालाननो – पाठान्तरम् ।

अत्तुं वाञ्छति वाहनं गणपतेः भूषा भुजङ्गः क्रुधा तं वाहः अयि षडाननस्य ललनावाहः अपि नागाननम् गौरी जह्नुसुताम् असूयति कलानाथं ललाटानलः निर्विण्णः सः पपौ कुटुम्बकलहात् ईशः अपि हालाहलम् ।

क्रुधा भूषा भुजङ्गः गणपतेः वाहनं अत्तुं वाञ्छति । षडाननस्य वाहः अयि अपि तं अत्तुं वाञ्छति । ललनावाहः नागाननम् अत्तुं वाञ्छति । गौरी जह्नुसुताम् असूयति । कलानाथं ललाटानलः असूयति । निर्विण्णः सः ईशः अपि कुटुम्बकलहात् हालाहलं पपौ ।

The angry (क्रुधा) ornament (भूषा) of Shivaa, the serpent (भुजङ्ग) wants (वाञ्छति – वाञ्छ्) to eat (अत्तुम्) the mouse, the vehicle (वाहन) of Ganapati (गणपति). Shanmukha’s (षडानन) vehicle (वाह), the peacock (अयि) also (अपि) wants (वाञ्छति – वाञ्छ्) to eat (अत्तुम्) it, the serpent (तद्). The Lion, the vehicle of his consort, Parvathi (ललना-वाह) wants (वाञ्छति – वाञ्छ्) to eat (अत्तुम्) the elephant-faced Ganesha (नागानन). Gowri (गौरी) feels envious (असूयति) of Ganga, the daughter of Rishi Jahnu (जह्नु-सुता). The third eye, which is the fire on the forehead (ललाट-अनल) feels envious of the moon, the lord of the 15 parts (कलानाथ). Due to this quarrel in his family (कुटुम्ब-कलह) that (सः-तद्) disappointed (निर्विण्ण) Shiva himself (ईश) (अपि) drank (पपौ-पा) the poison (हालाहल).

Neethi Shastram – #19 (Subhashitam)

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #181 to #190.

Link to all the posts –https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 181

समम् अब्राह्मणे दानं सहस्रं ब्राह्मणब्रुवे ।
अयुतं श्रोत्रिये दानम् अनन्तं वेदपारगे ॥

समम् अब्राह्मणे दानम् सहस्रम् ब्राह्मणब्रुवे अयुतम् श्रोत्रिये दानम् अनन्तम् वेदपारगे ।

अब्राह्मणे दानं समम् । ब्राह्मणब्रुवे सहस्रम् । श्रोत्रिये दानम् अयुतम् । वेदपारगे अनन्तम् ।

The charity (दान) done to a person who is not a Brahmana (अब्राह्मण)  yields normal (सम) benefit. The charity (दान) done to a person who is a name-sake Brahmana (ब्राह्मण-ब्रुव) yields thousand times (सहस्र) benefit.  The charity (दान) done to a Brahmana who has learnt the Vedas (श्रोत्रिय) yields ten-thousand times (अयुत) benefit.  The benefit of doing charity (दान) to a Brahmana who has understood the essence of the Vedas (वेद-पारग) is endless (अनन्त). 

Shloka 182

येषां त्रयी वाग्विधेया तेषां वाचा समीरितम् ।
अलभ्यमपि लभ्यं स्यात् इति त्रय्यनुशासनम्

येषाम् त्रयी वाग्विधेया तेषाम् वाचा समीरितम् अलभ्यम् अपि लभ्यम् स्यात् इति त्रय्यनुशासनम्।

येषां त्रयी वाग्विधेया तेषां वाचा समीरितम् अलभ्यम् अपि लभ्यं स्यात् इति त्रयी-अनुशासनम् ।

Those (यद्) for whom the Vedas (त्रयी) are known by heart (वाग्-विधेया), by their (तद्) words (वाक्), that which is uttered (समीरित),  even (अपि) if that thing is not obtainable (अलभ्य), it would become (स्यात्-अस्) obtainable (लभ्य). This (इति) is the ordinance of the Vedas (त्रयी-अनुशासन).

Shloka 183

ब्राह्मणा यानि भाषन्ते मन्यन्ते तानि देवताः ।
सर्वदेवमया विप्रा न तद्वचनमन्यथा ॥

ब्राह्मणाः यानि भाषन्ते मन्यन्ते तानि देवताः सर्वदेवमयः विप्रः न तद्-वचनम् अन्यथा ।

ब्राह्मणाः यानि भाषन्ते, देवताः तानि मन्यन्ते । विप्रः सर्वदेवमयः । तद्वचनम् अन्यथा न  ।

Those (यानि-यद्) words that the Brahmins (ब्राह्मण) say (भाषन्ते-भास), the Divine Beings (देवता) regard (मन्यन्ते-मन्) those (तानि-तद्) words to be true. The wise Brahmin (विप्र) is filled completely with all the Vedas (सर्व-देव-मय). Their words (तद्-वचन) can not (न) be otherwise (अन्यथा).

Shloka 184

उपचारः कर्तव्यो यावत् अनुत्पन्न-सौहृदाः पुरुषाः । उत्पन्न-सौहृदानाम् उपचारः कैतवं भवति ॥ 

उपचारः कर्तव्यः यावत् अनुत्पन्न-सौहृदाः पुरुषाः  उत्पन्न-सौहृदानाम् उपचारः कैतवं भवति ।

यावत् पुरुषाः अनुत्पन्न-सौहृदाः (तावत्) उपचारः कर्तव्यः । उत्पन्न-सौहृदानाम् उपचारः कैतवं भवति ।

The Reverential polite behaviour (उपचार) should be carried out (कर्तव्य) as long as (यावत्)  those people (पुरुष) are those towards whom affection has not risen (अनुत्पन्न-सौहृद). The reverence (उपचार) of those towards whom affection has risen (उत्पन्न-सौहृद) becomes (भवति-भू) hypocrisy (कैतव).

Shloka 185

अन्धे तमसि वार्थक्ये कर्दमाम्बुपदेषु च ।
विश्वामित्राऽहिपशुषु दण्डं शतगुणं भवेत्

अन्धे तमसि वार्थक्ये कर्दम-अम्बु-पदेषु च विश्व-अमित्र-अहि-पशुषु दण्डं शतगुणं भवेत् ।

अन्धे तमसि वार्थक्ये कर्दम-अम्बु-पदेषु विश्वामित्र-अहि-पशुषु च दण्डं शतगुणं भवेत् ।

While one is blind (अन्ध) or in the dark (तमस्) or during old age (वार्थक्य) or while in the paths that are filled with filthy water (कर्दम-अम्बु-पद)  and (च) in the presence of the universal enemies like snake and wild animals (विश्वामित्र-अहि-पशु) the stick (दण्ड) ought to become (भवेत्-भू) hundred times (शत-गुण) more useful. 

Shloka 186

वाङ्माधुर्यात् सर्वलोकप्रियत्वम् वाक्पारुष्यात् सर्वलोकाप्रियत्वम्
को वा लोके कोकिलस्य उपकारः को वा लोके गर्दभस्यापकारः

वाक्-माधुर्यात् सर्व-लोक-प्रियत्वम् वाक्-पारुष्यात् सर्व-लोक-अप्रियत्वम् कः वा लोके कोकिलस्य उपकारः कः वा लोके गर्दभस्य अपकारः । 

वाङ्माधुर्यात् सर्वलोकप्रियत्वम् । वाक्पारुष्यात् सर्वलोकाप्रियत्वम् । कः वा लोके कोकिलस्य उपकारः ।  कः वा लोके गर्दभस्य अपकारः । 

The affection of everyone in the world (सर्व-लोक-प्रियत्व) is obtained through sweet speech (वाक्-माधुर्य). The aversion of everyone in the world (सर्व-लोक-अप्रियत्व) is gained through harsh words (वाक्-पारुष्य). In this world (लोक), why else (कः वा – किम् वा) there is felicitation (उपकार) for the Cuckoo (कोकिल) ? In this world (लोक), why else (कः वा – किम् वा) there is disdain (अपकार) for the donkey (गर्दभ) ? (It is due to the way they sound). 

Shloka 187

अहो सुसदृशी वृत्तिः मद्दलस्य खलस्य च ।
यावत् मुखगतं पिण्डं तावत् मधुरभाषणम् ॥

अहो सुसदृशी वृत्तिः मद्दलस्य खलस्य च यावत् मुखगतम् पिण्डम् तावत् मधुरभाषणम्

अहो मद्दलस्य खलस्य च सुसदृशी वृत्तिः । यावत् मुखगतं पिण्डं तावत् मधुरभाषणम्

O (अहो) ! The actions (वृत्ति) of the Mrudanga and (च) the wicked person (खल) has so much resemblance (सुसदृशी).  As long as (यावत्) the food (for the wicked person) or Semolina (for the Mrudanga) (पिण्ड) has been provided to the mouth (of the wicked person) or the sides (of the Mrudanga) (मुखगत) only till then (तावत्) the words or the sound will be pleasant (मधुर-भाषणम्).  

Shloka 188

हीनाश्रयो न कर्तव्यः कर्तव्यो महदाश्रयः ।
ईशाश्रयात् महानागः पप्रच्छ गरुडं सुखम् ॥

हीन-आश्रयः न कर्तव्यः कर्तव्यः महत्-आश्रयः ईश-आश्रयात् महानागः पप्रच्छ गरुडं सुखम् ।

हीनाश्रयः न कर्तव्यः । महदाश्रयः कर्तव्यः  ।  महानागः  ईशाश्रयात् गरुडं सुखम् पप्रच्छ ।

Seeking the refuge of a weak person (हीनाश्रय) ought not (न) to be done (कर्तव्य). Seeking the refuge of great people (महदाश्रय) ought to be done (कर्तव्य). The great snake (महानाग) due to the refuge provided by Shiva (ईशाश्रय), enquired (पप्रच्छ – प्रछ्) Garuda (गरुड) about its wellbeing (सुख). 

Shloka 189

आपदर्थं धनं रक्षेत् श्रीमताम् आपदः कुतः ।
सा चेदपगता लक्ष्मी सञ्चितन्तु विनश्यति ॥

आपत्-अर्थम् धनम् रक्षेत् श्रीमताम् आपदः कुतः सा चेत् अपगता लक्ष्मी सञ्चितम् तु विनश्यति ।

आपत्-अर्थं धनं रक्षेत् । श्रीमताम् आपदः कुतः । सा लक्ष्मी अपगता चेत् सञ्चितं तु विनश्यति ।

The wealth (धन) has to be saved (रक्षेत् – रक्ष्) for the difficult circumstance (आपत्-अर्थम्). For the wealthy person (श्रीमत्) , where (कुतः) are the difficult situations (आपद्) ? If (चेत्) that (सा-तद्) Lakshmi or wealth (लक्ष्मी) is gone (अपगता), that which has been accumulated (सञ्चित), definitely (तु) gets destroyed (विनश्यति – वि+नश्). 

Shloka 190

गुरुं गां दैवतं तीर्थं घृतं मधु चतुष्पथम् ।
प्रदक्षिणं प्रकुर्वीत प्रज्ञातांश्च वनस्पतीन्

गुरुम्  गाम् दैवतम् तीर्थम् घृतम् मधु चतुष्पथम् प्रकुर्वीत प्रज्ञातान् च वनस्पतीन् ।

गुरुं गां दैवतं तीर्थं घृतं मधु चतुष्पथं प्रज्ञातान् वनस्पतीन् च प्रदक्षिणं प्रकुर्वीत ।

Circumambulation (प्रदक्षिण) ought to be done (प्रकुर्वीत) when one comes across one’s Guru (गुरु) or a Cow (गो) or Divine Beings (दैवत) or holy place (तीर्थ), or Ghee (घृत) or Honey (मधु) or road junctions (चतुष्पथ) and (च) the well-known (प्रज्ञात) trees (वनस्पति).  

Neethi Shastram – #18 (Subhashitam) – 171 to 180

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #171 to #180. 

Link to all the posts – https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 171

यत्र विद्यागमो नास्ति यत्र नास्ति धनागमः ।
यत्र चात्मसुखं नास्ति न तत्र दिवसं वसेत् ॥

यत्र विद्यागमः न अस्ति यत्र न अस्ति धनागमः यत्र च आत्मसुखम् न अस्ति न तत्र दिवसम् वसेत् ।

यत्र विद्या-आगमः न अस्ति, यत्र धन-आगमः न अस्ति, यत्र आत्म-सुखं च न अस्ति, तत्र दिवसं न वसेत् ।

Where (यत्र) there is no (न अस्ति-अस्) inflow of knowledge (विद्या-आगम), where (यत्र) there is no (न अस्ति) inflow of wealth, where there is no (scope) (न अस्ति) for one’s own happiness (आत्म-सुख), don’t (न) stay (वसेत् – वस्) even for a day (दिवसम्) in such a place (तत्र).

Shloka 172

असारभूते संसारे सारमेतत् चतुष्टयम् ।
काशीवासः सतां सङ्गो गङ्गा च विष्णुपूजनम् ॥

असारभूते संसारे सारम् एतत् चतुष्टयम् काशीवासः सताम् सङ्गः  गङ्गा च विष्णुपूजनम् ।

काशीवासः सतां सङ्गः  गङ्गा विष्णुपूजनं च  एतत् चतुष्टयम् असारभूते संसारे सारम् ।

In this essence-less (असारभूत) worldly life (संसार), these (एतद्) four (चतुष्टय) are the essence (सार) – residing in Kashi (काशी-वास), the company (सङ्ग) of the good men (सत्) , River Ganga (गङ्गा) and the worship of Vishnu (विष्णु-पूजन).

Shloka 173

चत्वारो वित्तदायादा धर्माग्निनृपतस्कराः ।
ज्येष्टपुत्रावमानेन त्रयः कुप्यन्ति सोदराः ॥

चत्वारः वित्त-दायादाः धर्म-अग्नि-नृप-तस्कराः ज्येष्टपुत्र-अवमानेन त्रयः कुप्यन्ति सोदराः ।

धर्म-अग्नि-नृप-तस्कराः चत्वारः वित्तदायादाः । ज्येष्टपुत्रावमानेन त्रयः सोदराः कुप्यन्ति ।

There are four (चत्वार) siblings of wealth (वित्त-दायाद)  namely Dharma, Fire, Ruler and Thief (धर्म-अग्नि-नृप-तस्कर). The other three (त्रि) brothers (सोदर) become angry (कुप्यन्ति-कुप्), by disrespect shown towards the first son, i.e., Dharma (ज्येष्ट-पुत्र-अवमान). If Dharma is not followed, the wealth will be taken away by some natural calamity or by the ruler or by a thief.

Shloka 174

ज्योतिषं व्यावहारञ्च प्रायश्चित्तं चिकित्सकम् ।
विना शास्त्रेण यो ब्रुयात् तम् आहुः ब्रह्मघातकम् ॥

ज्योतिषम् व्यावहारम् च प्रायश्चित्तम् चिकित्सकम् विना शास्त्रेण यः ब्रुयात् तम् आहुः ब्रह्म-घातकम् ।

यः विना शास्त्रेण ज्योतिषं व्यावहारं प्रायश्चित्तं चिकित्सकं च ब्रुयात् तं ब्रह्मघातकम् आहुः ।

Without (विना) proper study of the scriptures (शास्त्र), one who (यद्) tells (i.e., provides advice) (ब्रुयात्-ब्रु) related to astrology (ज्योतिष), judicial procedures (व्यावहार), atonement (प्रायश्चित्त) or medical treatment (चिकित्सक), it is told that he (तद्) is said (आहुः-ब्रू) to be a Brahmahatti (ब्रह्म-घातक), one who performed the gravest sin of killing a Brahmana.

Shloka 175

यत् मनीषिपदाम्भोजरजःकणपवित्रितम् ।
तदेव भवनं नो चेत् भकारः तत्र लुप्यते ॥

यत् मनीषि-पद-अम्भोज-रजः-कण-पवित्रितम् तद् एव भवनम् नो चेत् भकारः तत्र लुप्यते ।

यत् मनीषि-पद-अम्भोज-रजः-कण-पवित्रितं तद् एव भवनम् । नो चेत् भकारः तत्र लुप्यते ।

Only (एव) that (तद्) which (यद्) is purified by the dust particles of the lotus feet of a wise man (मनीषि-पद-अम्भोज-रजः-कण-पवित्रित) is a house (भवन). Else (नो चेत्)  the letter Bha (भकार) is lost (लुप्यते-लुप्) in it (तत्र) and Bhavanam becomes vanam, i.e., forest.

Shloka 176

दातारं कृपणं मन्ये सर्वमादाय गच्छति ।
अदाता पुरुषस्त्यागी सर्वं दत्वा एव गच्छति ॥

दातारम् कृपणम् मन्ये सर्वम् आदाय गच्छति अदाता पुरुषः त्यागी सर्वम् दत्वा एव गच्छति ।

दातारं कृपणं मन्ये (यतः) सर्वम् आदाय गच्छति । अदाता पुरुषः त्यागी । सर्वं दत्वा एव गच्छति ।

The donor (दातृ)  is considered (मन्ये-मन्) a miser (कृपण) as he leaves (गच्छति-गम्) after taking away (आदाय) everything (सर्व) (in terms of the fruits of the good deeds). The person (पुरुष) who does not give (अदातृ)  is considered to be a liberal person (त्यागी) as he leaves (गच्छति-गम्) only (एव) after giving (दत्वा) everything (सर्व) (i.e., he can not take anything with him and all the worldly possessions are for others to enjoy).

Shloka 177

स्त्रिय एव कलौ मृत्युः विघाता कल्पितो गृहे ।
नारीसामान्यमेतद् तु क्वचित् साध्वी प्रकल्प्यते ॥

स्त्रियः एव कलौ मृत्युः विघाता कल्पितः गृहे नारीसामान्यम् एतद् तु क्वचित् साध्वी प्रकल्प्यते ।

कलौ गृहे स्त्रियः एव विघाता कल्पितः मृत्युः । एतद् तु नारीसामान्यम् ।  क्वचित् साध्वी (अपि) प्रकल्प्यते ।

In this Kali Yuga (कलि), the woman (स्त्री) in the house (गृह) is only (एव) the God of Death (मृत्यु) created (कल्पित) by Brahmaa (विघातृ). This one is (एतद् तु) just a general opinion about women (नारी-सामान्य). Some (क्वचित्) virtuous woman (साध्वी) also gets created (प्रकल्प्यते-प्र+कल्प्) .

Shloka 178

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्य भवन्ति योग्यायोग्याश्च ॥

अश्वः शस्त्रम् शास्त्रम् वीणा वाणी नरः च नारी च पुरुष-विशेषं प्राप्य भवन्ति योग्य-अयोग्याः च ।

अश्वः शस्त्रं शास्त्रं वीणा वाणी नरः नारी च पुरुषविशेषं प्राप्य योग्यायोग्याः भवन्ति ।

Horse (अश्व), weapon (शस्त्र), scripture (शास्त्र), Veena (वीणा), speech (वाणी), man (नर), and (च) woman (नारी) – all these become fit or useless (योग्य-अयोग्य) upon obtaining (प्राप्य) (the company of) the specific individual (पुरुष-विशेष). Based on the quality of the person who deals with it, these things and people are considered worthy or worthless.

Shloka 179

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः ।
वक्ता दशसहस्त्रेषु दाता भवति वा न वा ॥

शतेषु जायते शूरः सहस्त्रेषु च पण्डितः वक्ता दशसहस्त्रेषु दाता भवति वा न वा ।

शतेषु शूरः जायते । सहस्त्रेषु च पण्डितः (जायते) । दशसहस्त्रेषु वक्ता (जायते) । दाता भवति वा न वा ।

A warrior (शूर) is born (जायते-जा) among a hundred (शत). And (च) a wise man (पण्डित) is born out of a thousand (सहस्त्र). A good speaker (वक्तृ) is born out of a ten thousand (दश-सहस्त्र). A generous person (दातृ) might (वा) be there (भवति) or may not (न वा) be there. It is so rare to find a generous donor.

Shloka 180

कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यति ।
उद्धरेत् सप्तगोत्राणी कुलमेकोत्तरशतम् ॥

कुक्षौ तिष्ठति यस्य अन्नं वेद-अभ्यासेन जीर्यति उद्धरेत् सप्त-गोत्राणी कुलम् एक-उत्तर-शतम् ।

यस्य अन्नं कुक्षौ तिष्ठति, वेदाभ्यासेन जीर्यति, (सः) सप्तगोत्राणी एकोत्तरशतं कुलम् उद्धरेत् ।

One whose (यद्) food (अन्न) resides (तिष्ठति-स्था) in the stomach (कुक्षि) and gets digested (जीर्यति-जॄ) due to the study of the Vedas (वेद-अभ्यास), such a person uplifts the seven clans (सप्त-गोत्र) and the hundred and one (एक-उत्तर-शत) lineages (कुल). Feeding a Vaidika Brahmin brings good fortune for numerous generations.

Neethi Shastram – #17 (Subhashitam)

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil. This post covers Subhashitams numbered #160 to #170.

Link to all the posts – https://nivedita2015.wordpress.com/category/shlokas/subhashitam/neethi-shastram/

Link to the first post –
https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

Shloka 160

जाड्यं ह्रीमति गण्यते व्रतरते दम्भश्शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनी ।
तेजस्विनि अवलिप्तता मुखरिता वक्तव्यशक्तिस्थिरे
तत् को नाम गुणो भवेत् सुगुणिनां यो दुर्जनैः नाङ्कितः ॥

जाड्यम्, ह्रीमति, गण्यते, व्रतरते, दम्भः, शुचौ, कैतवम्, शूरे, निर्घृणता, मुनौ, विमतिता, दैन्यम्, प्रियालापिनी, तेजस्विनि, अवलिप्तता, मुखरिता, वक्तव्यशक्तिस्थिरे, तत्, कः, , नाम, गुणः, भवेत्, सुगुणिनाम्, यः, दुर्जनैः, न, अङ्कितः ।

ह्रीमति जाड्यं, व्रतरते दम्भः, शुचौ कैतवं, शूरे निर्घृणता, मुनौ विमतिता, प्रियालापिनी दैन्यं, तेजस्विनि अवलिप्तता, वक्तव्यशक्तिस्थिरे मुखरिता गण्यते । तत् कः नाम सुगुणिनां गुणः भवेत्, यः दुर्जनैः न अङ्कितः ।

In a reserved person (ह्रीमत्), dullness (जाड्य) is considered (गण्). In one who is engrossed in austerities (व्रतरत), hypocrisy (दम्भ) is ascribed. In a pure person (शुचि), deceit (कैतव) is regarded. In a brave man (शूर), cruelty (निर्घृणता) is noted. In saint (मुनि), lack of intelligence (विमतिता) is regarded. In a person who converses with love (प्रिय-आलापिन्), poorness (दैन्य) is considered. In an energetic person (तेजस्विन्), arrogance (अवलिप्तता) is regarded. In whom the power of the words is firm (वक्तव्य-शक्ति-स्थिर), loudness (मुखरिता) is considered. Therefore (तत्), which (किं नाम) quality (गुण) is there of the good-natured people (सुगुणिन्) that is (यत्) not (न) branded (अङ्कित) by the wicked people (दुर्जन).

Note: तेजस्विनि was mentioned as तेजस्विनौ ।

Shloka 161

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं बलेन महिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥

लोभः, चेत्, अगुणेन, किम्, पिशुनता, यदि, अस्ति, किम्, पातकैः, सत्यम्, चेत्, तपसा, च, किम्, शुचिमनः, यदि, अस्ति, तीर्थेन, किम्, सौजन्यम्, यदि, किम्, बलेन, महिमा, यदि, अस्ति, किम्, मण्डनैः, सद्विद्या, यदि, किम्, धनैः, अपयशः, यदि, अस्ति, किम्, मृत्युना ।

लोभः चेत् अगुणेन किं (प्रयोजनम्)? यदि पिशुनता अस्ति पातकैः किम् ? सत्यं चेत् तपसा च किम् ? यदि शुचिमनः अस्ति तीर्थेन किम् ? यदि सौजन्यं बलेन किम् ? यदि महिमा अस्ति मण्डनैः किम् ? यदि सद्विद्या धनैः किम् ? यदि अपयशः अस्ति मृत्युना किम् ?

If (चेत्) greed (लोभ) what (किम्) is the use of other bad qualities (अगुण)? There is no need as Greed itself will do all the damage. If (यदि) malice (पिशुनता) is there (अस्), what (किम्) is the use of crime (पातक)? If (चेत्) truth (सत्य) is there, also (च), what (किम्) is the need for other austerities (तपस्) ? If (यदि) one is (अस्) pure at heart (शुचि-मनस्) what (किम्) is it with holy places (तीर्थ) ? If (यदि) courteous (सौजन्य), what (किम्) is the need for strength (बल)? If (यदि) greatness (महिमा) is present (अस्), what (किम्) is the use of other embellishments (मण्डन)? If (यदि) good knowledge (सद्-विद्या) what (किम्) is the need for wealth (धन)? If (यदि) disgrace (अपयश) is present (अस्), why (किम्) death (मृत्यु)?

Note: In some version, बलेन महिमा is given as गुणैः सुमहिमा

Shloka 162

एते सत्पुरुषाः परार्थघटकाः स्वार्थान्‌ परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥

एते, सत्पुरुषाः, परार्थघटकाः, स्वार्थान्‌, परित्यज्य, ये, सामान्याः, तु, परार्थम्, उद्यमभृतः, स्वार्थाविरोधेन, ये, ते, अमी, मानुषराक्षसाः, परहितम्, स्वार्थाय, निघ्नन्ति, ये, ये, तु, घ्नन्ति, निरर्थकम्, परहितम्, ते, के, न, जानीमहे ।

ये स्वार्थान्‌ परित्यज्य परार्थघटकाः एते सत्पुरुषाः । ये स्वार्थाविरोधेन परार्थम् उद्यमभृतः ते तु सामान्याः । ये स्वार्थाय परहितं निघ्नन्ति अमी मानुषराक्षसाः । ये तु निरर्थकं परहितं घ्नन्ति ते के न जानीमहे ।

Those who (यत्) having given up (परि-त्यज्) their own needs (स्वार्थ), are engaged in other’s needs (परार्थ-घटक), these people (एतद्) are good men (सत्पुरुष) । Those who (यत्) bear the exertion i.e., toil (उद्यम-भृत्) for others (परार्थ), where it is not against their own good (स्वार्थ-अविरोध), those (तद्) are verily (तु) the ordinary people (सामान्य) । Those who (यत्) for their benefit (स्वार्थ) destroy (नि-हन्) the welfare of others (पर-हित), these (अदस्) are Raakshasaas in human form (मानुष-राक्षस) । But (तु) those who (यत्), for no reason (निरर्थक), destroy (नि-हन्) the welfare of others (पर-हित), we don’t (न) know (ज्ञा) who (किम्) they (तद्) are. There is no word to describe them.

Shloka 163

पद्माकरं दिनकरो विकचीकरोति
चन्द्रो विकासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरोSपि जलं ददाति
सन्तः स्वयं परहिते सुकृताभियोगाः ॥

पद्माकरम्, दिनकरः, विकचीकरोति, चन्द्रः, विकासयति, कैरवचक्रवालम्, नाभ्यर्थितः, जलधरः, अपि, जलम्, ददाति, सन्तः, स्वयम्, परहिते, सुकृताभियोगाः ।

दिनकरः पद्माकरं विकचीकरोति । चन्द्रः कैरवचक्रवालं विकासयति । नाभ्यर्थितः जलधरः अपि जलं ददाति । सन्तः स्वयं परहिते सुकृताभियोगाः ।

The sun (दिनकर) causes the lotus (पद्माकर) to bloom (विकची-कृ) । The moon चन्द्रः causes the lily (कैरवचक्रवाल) to bloom (विकास) । Though (अपि) it has not (न) been requested (अभि-अर्थित), the clouds (जलधर) give (दा) water (जल) । Good People(सत्) on their own (स्वयम्) are constantly engaged in good activities (सुकृत-अभियोग) for the welfare of others (परहित) ।

Shloka 164

शशिदिवाकरयोः ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् ।
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥

शशिदिवाकरयोः, ग्रहपीडनम्, गजभुजङ्गमयोः, अपि, बन्धनम्, मतिमताम्, च, विलोक्य, दरिद्रताम्, विधिः, अहो, बलवान्, इति, मे, मतिः ।

शशिदिवाकरयोः ग्रहपीडनं, गजभुजङ्गमयोः अपि बन्धनम्, मतिमतां च दरिद्रतां विलोक्य अहो विधिः बलवान् इति मे मतिः ।

Seeing (वि-लोक्) the eclipses or the seizure by the grahas (ग्रह-पीडन) of the moon and the sun (शशि-दिवाकर), the capturing (बन्धन) of even (अपि) elephants and snakes (गज-भुजङ्गम), and (च) the poverty (दरिद्रता) of Intellectuals (मतिमत्) my (अस्मद्) conclusion (मति) is this (इति) – Alas (अहो)! Fate (विधि) is powerful (बलवत्) !

Note: शशिदिवाकरयोः ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनम् was given as गजभुजङ्गविहङ्गमबन्धनं शशिदिवाकरयोः ग्रहपीडनम् where विहङ्गम refers to birds।

Shloka 165

नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा I
भाग्यानि पूर्वतपसा खलु सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥

न, एव, आकृतिः, फलति, न, एव, कुलम्, न, शीलम्, विद्या, अपि, न, एव, न, च, यत्नकृता, अपि, सेवा, भाग्यानि, पूर्वतपसा, खलु, सञ्चितानि, काले, फलन्ति, पुरुषस्य, यथा, इव, वृक्षाः ।

आकृतिः न फलति एव । कुलं न एव । शीलं न । विद्या अपि न एव । यत्नकृता सेवा अपि न च । पूर्वतपसा खलु पुरुषस्य सञ्चितानि भाग्यानि यथा काले वृक्षाः इव फलन्ति ।

The form (आकृति) indeed (एव) does not (न) fructify (फल्) । Even (एव) the heredity (कुल) does not (न). The character (शील) does not (न). Even (अपि) knowledge (विद्या) does not (न) definitely (एव) fructify. Even (अपि) the service (सेवा) performed with effort (यत्नकृता) does not (न) also (च). Like how (यथा) in time (काल) the trees (वृक्ष) fructifies (फल्) like that (इव) due to the earlier performed austerities (पूर्वतपस्) indeed (खलु) the men’s (पुरुष) accrued (सं-चि) fortunes (भाग्य) yields results (फल्).

Shloka 166

त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।
कुरु पुण्यमहोरात्रं स्मर सर्वेश्वरं सदा ॥

त्यज, दुर्जनसंसर्गम्, भज, साधुसमागमम्, कुरु, पुण्यम्, अहोरात्रम्, स्मर, सर्वेश्वरम्, सदा ।

दुर्जनसंसर्गं त्यज । साधुसमागमं भज । अहोरात्रं पुण्यं कुरु । सदा सर्वेश्वरं स्मर ।

Leave (त्यज्) the association of the bad people (दुर्जन-संसर्ग). Revere (भज्) the company of good people (साधु-समागम). Day and night (अहोरात्रम् perform (कृ) virtuous deeds (पुण्य). Always (सदा) remember (स्मृ) the Supreme Lord (सर्वेश्वर).

Shloka 167

मुखं प्रसन्नं विमला च दृष्टिः कथानुरागो मधुरा च वाणी ।
स्नेहोऽधिकः सम्भ्रमदर्शनञ्च सदानुरक्तस्य जनस्य लक्षणम् ॥

मुखम्, प्रसन्नम्, विमला, च, दृष्टिः, कथानुरागः, मधुरा, च, वाणी, स्नेहः, अधिकः, सम्भ्रमदर्शनम्, च, सदानुरक्तस्य, जनस्य, लक्षणम् ।

प्रसन्नं मुखं, विमला दृष्टिः च, कथानुरागः, मधुरा वाणी च, अधिकः स्नेहः, सम्भ्रमदर्शनम् च सदा अनुरक्तस्य जनस्य लक्षणम् ।

Happy (प्रसन्न) face (मुख), and (च) spotless (विमला) gaze (दृष्टि), Interest in conversation (कथा-अनुराग), and (च) sweet (मधुरा) speech (वाणी), excessive (अधिक) affection (स्नेह), and (च) eagerness to see (सम्भ्रम-दर्शन) are the characteristics (लक्षण) of the ever (सदा) attached (अनुरक्त) person (जन).

Shloka 168

अतुष्टिदानं कृतपूर्वनाशनम् अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृतिः विरक्तभावस्य जनस्य लक्षणम् ॥

अतुष्टिदानम्, कृतपूर्वनाशनम्, अमाननम्, दुश्चरितानुकीर्तनम्, कथाप्रसङ्गेन, च, नामविस्मृतिः, विरक्तभावस्य, जनस्य, लक्षणम् ।

अतुष्टिदानं कृतपूर्वनाशनम् अमाननं दुश्चरितानुकीर्तनं कथाप्रसङ्गेन नामविस्मृतिः च (इति एतद् सर्वं) विरक्तभावस्य जनस्य लक्षणम् ।

Giving charity with dissatisfaction (अतुष्टि-दान), losing what was done earlier i.e., being ungrateful, (कृतपूर्व-नाशन), being disrespectful (अमानन), praising bad behaviour (दुश्चरित-अनुकीर्तन), and (च) forgetting the name (नाम-विस्मृति) even while conversing (कथा-प्रसङ्ग) are the characteristics (लक्षण) of a person (जन) who has the feeling of disinterestedness (विरक्त-भाव).

Note: कथाप्रसङ्गेन is mentioned as यथाप्रसङ्गेन

Shloka 169

गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ।
अलुब्धैर्दानशीलैश्च सप्तभिः धार्यते मही ॥

गोभिः, विप्रैः, च, वेदैः, च, सतीभिः, सत्यवादिभिः, अलुब्धैः, दानशीलैः, च, सप्तभिः, धार्यते, मही ।

गोभिः विप्रैः च वेदैः च सतीभिः सत्यवादिभिः अलुब्धैः दानशीलैः च सप्तभिः धार्यते मही ।

The earth (मही) is held (धृ) by these seven (सप्तभि) namely cows (गो), Brahmins (विप्र), Vedas (वेद), virtuous women (सती), those who speak only the truth (सत्यवादि), people without greed (अलुब्ध), and (च) liberally disposed people (दान-शील).

Shloka 170

अस्थिरं जीवितं लोके यौवनं धनमस्थिरम् ।
अस्थिरं पुत्रदाराश्च धर्मकीर्तिद्वयं स्थिरम् ॥

अस्थिरम्, जीवितम्, लोके, यौवनम्, धनम्, अस्थिरम्, अस्थिरम्, पुत्रदाराः, च, धर्मकीर्तिद्वयं, स्थिरम् ।

लोके जीवितं यौवनं धनं पुत्रदाराः च अस्थिरम् । धर्मकीर्तिद्वयं स्थिरम् ।

In this world (लोक), life span (जीवित) is ephemeral (अस्थिर). So is youthfulness (यौवन) and wealth (धन). And (च) the family with wife and children (पुत्र-दारा) is also ephemeral (अस्थिर). Dharma and reputation are the two (धर्म-कीर्ति-द्वय) that ever remains stable (स्थिर).

Note: पुत्रदाराश्च was mentioned as दारपुत्रादि

 

Random Sanskrit Verses

अपि स्वर्णमयी लङ्का न मे लक्ष्मण रोचते। जननी जन्मभूमिश्च स्वर्गादपि गरीयसी
(श्रीरामः  वदति | हनुमन्नाटकम् by unknown author)
स होवाच 
न वा अरे पत्युः कामाय पतिः प्रियो भवत्य् आत्मनस्तु कामाय पतिः प्रियो भवति । ...
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्य् आत्मनस्तु कामाय सर्वं प्रियं भवति । (
मन्त्र ५ [II.iv.5] - https://sa.wikisource.org/wiki/बृहदारण्यक_उपनिषद्_2p 
न त्वहं कामये राज्यं न स्वर्गं नापुनर्भवम् । कामये दुःखतप्तानां प्राणिनामार्तिनाशनम् ॥ 
(राजा रंतिदेवः वदति |महाभारतम्) 

*****

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति

अनेकशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः ।  
यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्बुमध्यात् ।।
समानार्थकम् पद्यम् —
अनन्तपारं किल शब्दशास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः। 
सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुमध्यात्।। (पञ्चतन्त्रम्)

असङ्कल्पितमेवेह यदकस्मात् प्रवर्तते |
निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् || २-२२-२४ (वा.रा.)
अन्वयः – आरब्दम् आरब्भं निवर्त्य, असङ्कल्पितम् एव इह अकस्मात् यत् प्रवर्तते,  तत् दैवस्य कर्म 
ननु | 

मोदकैः ताडय
*More details given below

खादन् न गच्छामि,हसन् न जल्पे
गतं न शोचामि, कृतं न मन्ये ।
द्वाभ्यां तृतीयो न भवामि राजन्
किं कारणं भोज भवामि मूर्ख ?
*More details given below

काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम्  
वरदः संशयापन्नो वक्षःस्थलमवैक्षत |
*More details given below

गायन्ति देवा: किल गीतकानि धन्‍यास्‍तु ते भारतभूमिभागे
स्‍वर्गापवर्गास्‍पदमार्गभूते भवन्‍तु भूया: पुरुषा: सुरत्‍वात् ।।

वाच्यतां समयोsतीत: स्पष्टमग्रे भविष्यति
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते?
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता
त्रय: शिष्यगुणाह्येते  मुर्खाचार्यस्य भाग्यजा:    

More details for some shlokas….

अनेकशास्त्रं बहु वेदितव्यम्
अल्पश्च कालो बहवश्च विघ्नाः ।  
यत्सारभूतं तदुपासितव्यं
हंसो यथा क्षीरमिवाम्बुमध्यात् ।।

पदविभागः
अनेकशास्त्रम्, बहु, वेदितव्यम्, अल्पः, च, कालः, बहवः, च, विघ्नाः, यत्, सारभूतम्, तत्, उपासितव्यम्, हंसः, यथा, क्षीरम्, इव अम्बुमध्यात् ।
अन्वयः।
अनेकशास्त्रम् । बहु वेदितव्यम् । कालश्च अल्पः । विघ्नाः च बहवः । यत् सारभूतं तत् उपासितव्यम्, यथा अम्बुमध्यात् क्षीरम् इव ।
अन्वयार्थः
अनेकशास्त्रं = शास्त्राणि सन्ति बहूनि, बहु = अधिकम्, वेदितव्यं = ज्ञातव्यम् । कालः च = समयः च, अल्पः = न अधिकः, विघ्नाः बहवः = विघ्नकारकाः अंशाः अधिकाः, यत् सारभूतं = यत् सारयुक्तं भवति, तत् उपासितव्यम् = तदेव सेवनीयम् । यथा, हंसः = हंसपक्षी, अम्बुमध्यात् = जलमध्यात्, क्षीरम् इव = क्षीरं स्वीकरोति तथा ।
तात्पर्यम्
जातेन मनुष्येण बहूनां शास्त्राणां विषये यावत् शक्यते तावत् अध्येतव्यम् । तद्विषये विलम्बः न करणीयः । यतः कालः बहु अल्पः। अपि च सत्कार्याणां विघ्नाः अपि बहवः भवन्ति । यथा केनचित् कविना उक्तं – ‘क्षणशः विद्यां साधयेत्’ इति, तथैव कृत्वा शास्त्राध्ययनसमये अपि सारभूतम्, अतिप्रधानम् एव ज्ञातुम् अधिकः प्रयत्नः करणीयः । जलेन मिश्रितं क्षीरम् एकस्मिन् पात्रे अस्ति चेदपि हंसः यथा क्षीरमेव स्वीकरोति, तथा अध्ययनसमये अनुपयुक्तः अप्रधानः वा भागः परित्यक्तव्यः।
-*-

एकदा एकः राजा पत्न्या सह स्वभवनस्य तरणकुण्डे क्रीडनासीत् | तदा राज्ञ्या प्रीत्या “मोदकैः ताडय” इत्युक्तम् | राजा राज्ञ्यै मोदकानि अपेक्षते इति विचिन्त्य तानि आनयत् | वस्तुतः राज्ञ्याः आकाङ्क्षा “उदकैः मा ताडय” इत्येवासीत् |
-*-

एकदा भोजराजस्य राज्ञी स्वस्याः सख्या सह वार्तालापे मग्ना आसीत् | राजा तत्र गत्वा स्वस्य अभिप्रायम् उक्तवान् | राज्ञी राजानं “हे मूर्खराज” इति आहूतवती  |किमर्थं राज्ञ्या तथा उक्तमिति राज्ञा न ज्ञातम्  | सः राज्यसभां गत्वा कालिदासं दृष्ट्वा “हे मूर्ख” इति अवदत्| तस्मिन् समये कालिदासः इमं श्लोकं अवदत् |
खादन् न गच्छामि,हसन् न जल्पे
गतं न शोचामि, कृतं न मन्ये ।
द्वाभ्यां तृतीयो न भवामि राजन्
किं कारणं भोज भवामि मूर्ख ?
तदानीमेव तेन कृतः दोषः कः इति राजा ज्ञातवान् | 
-*-

काञ्चित् काञ्चनगौराङ्गी वीक्ष्य साक्षादिव श्रियम् वरदः संशयापन्नो वक्षःस्थलमवैक्षत |
Extract from my class notes — H.V. Nagaraja Rao Sir’s class on Dhyvanyaaloka!
In Dhvani, the suggested meaning is one which is not explicitly stated, yet it is understood by the Sahrudayaas. In Chitra Meemaamsaa, Appaiya Deekshita quotes this example अन्वयः — साक्षात् श्रियम् इव काञ्चित् काञ्चनगौराङ्गी वीक्ष्य संशयापन्नः वरदः वक्षःस्थलम् अवैक्षत | In Kanchi, there is Varadaraaja Swamy Temple. In the Vasanthostava, Varadaraajaa himself came to play with the devotees. At that time, he notices a woman. She is काञ्चन–गौराङ्गी i.e., she has a golden yellowish body; साक्षात् श्रियम् इव – She resembled Goddess Lakshmi Herself. वरद: संशयम् आपन्न: – Lord Varada was confused and he looked at his heart वक्षःस्थलम् अवैक्षत. The poet has not stated why he looked at his heart. His heart is the seat of Lakshmi as she is vakshassthala vaasini. Some readers will assume that Varada wants to check if Lakshmi has left that place and has come here in person. Another reader interprets it this way – Since Lakshmi has the arrogance that she is only the most beautiful woman, Varada wants to see her reaction when this lady with golden complexion is in front of him. A third person says that Varada looked at his heart to compare Lakshmi with the lady. Thus the suggested meaning is different and it cannot be classified as any other earlier defined entity. The great poets have included this Dhvani in their poems. The readers enjoy this suggestion which is different from the other alamkaaras.
-*-

Nilakanthadikshita, who lived in 16th century, was a great poet and also a well versed scholar. He wrote a satirical work, Kalividambanam. In this work, he wonderfully depicts the characteristics of some pseudo teachers and students.
वाच्यतां समयोsतीत: स्पष्टमग्रे भविष्यति
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते?
 “Read quickly. There is no time. If you don’t understand now it will be understood to you in course of time” Thus teach some teachers. They can teach every subject and find no difficulty in teaching any subject because they will not explain any thing.  It is their methodology of teaching.
अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता
त्रय: शिष्यगुणाह्येते  मुर्खाचार्यस्य भाग्यजा:    
Of the good fortune, the teacher of the above kind gets a student who has no other go except accepting him to be his teacher as there is no any other teacher in and around; over politeness and who is satisfied  with the wrong knowledge he possesses. Such disciples are available to pseudo teachers by their good fortune alone. Source: http://saraswatam.blogspot.com/2015/09/the-pseudo-student-of-pseudo-teacher.html 
-*-

औडवः पञ्चभिः प्रोक्तः स्वरैः षड्भिस्तु षाडवः ।

सम्पूर्णा सप्तभिः प्रोक्ता रागजातिस्त्रिधा मता” ॥ इति सङ्गीतरत्नाकरः ॥

सम्पूर्णा = All 7 musical notes; षाडवः = 6 notes; औडवः =  5 notes; स्वरान्तरा = 4 notes

“वान्ति यान्त्युडवोऽत्रेति व्योमोक्तमुडवं बुधैः । पञ्चमं तच्च भूतेषु पञ्चसंख्या तदुद्भवा ॥ ओडवी सास्ति येषाञ्च स्वरास्ते त्वोडवा मताः । ते संजाता यत्र गीते तदौडवितमुच्यते ॥ तत्सम्बन्धादौडवञ्च पञ्चस्वरमिद विदुः”

Because the stars (udava) travel, the space is called (udavam). It is the fifth element among the five basic elements. So it is used synonymous with number five. The collection of five swaras is called Odavee. The song or raga related to Odavee is called Audavam. 

[My guess – Not validated: As there is antara or gap between the swaras, the ragams with 4 swaras are called Swaraantara].

Importance of Mathematics

यथा शिखा मयूराणां , नागानां मणयो यथा ।
तद् वेदांगशास्त्राणां , गणितं मूर्ध्नि वर्तते ॥ — वेदाङ्गज्योतिषम् (लगधस्य) – shloka #35

On finding fault with others and ignoring one’s own faults

सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।
स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ – शिशुपालवध

असाधवः सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः स्वगुणोच्चगिरः परवर्णग्रहणेषु मुनिव्रताः ।

असाधवः Wicked people are सहजान्धदृशः naturally blind to स्वदुर्नये their own mistakes. परदोषेक्षणदिव्यचक्षुषः But they have divine (i.e., microscopic) eyes when it comes to finding faults with others. स्वगुणोच्चगिरः They shout on top of their voices when they are talking about their qualities. मुनिव्रताः However, they take to mouna vratam – adherence of silence, परवर्णग्रहणेषु in describing other people’s virtues. – Shishupalavadham – शिशुपालवधम् 

 

 

Subhashitam – PUC First Year – Lesson 9

Subhashitams  – PUC First Year – Lesson 9  –  सूक्तिकुसुमानि

  1. अलब्धं ईहेद्धर्मेण लब्धं यत्नेनपालयेत् । पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ।
    [ अलब्धं धर्मेण ईहेत् | लब्धं यत्नेन पालयेत् । पालितं नित्यं वर्धयेत् | वृद्धं पात्रेषु निक्षिपेत् । ]
    The wealth that has not yet been obtained, should be procured through proper means. The wealth that has been obtained, should be carefully preserved. The wealth that has been safeguarded, should be increased consistently. The wealth thus increased, should be placed in the right container, i.e., it has to be spent for the worthy people.
  2. तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। एतानि तुसतां गेहे नोच्छिद्यन्ते कदाचन।
    [ तृणानि भूमिः उदकम् (एतानि त्रीणि, अपि) च चतुर्थी सूनृता वाक्, एतानि तु सतां गेहे कदाचन न उच्छिद्यन्ते |]
    At any point of time, in the house of good men these four will not cease to exist (i.e., these four will always be available).  They are the mat made of grass (for the guest to sit), the ground (for the guest to lie down), water (and some food for the guest to drink and eat), and good pleasing words (to make the guest feel very comfortable).
  1. गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत् | नभसोऽपि महद्ब्रह्मा ततोप्याशा गरीयसी |
    [ गिरिः महान् | गिरेः अब्धिः (महान्) | अब्धेः नभः महत् | नभसः अपि महत् ब्रह्मा | ततः अपि गरीयसी आशा | ]
    The mountain is huge. The ocean is more immense than the mountain. The sky is vaster than the ocean. The Brahma is more enormous than the sky. The desire is greater than Brahma.
  1. चलन्तिगिरयः कामं युगान्तपवनाहताः | कृच्छ्रेऽपि न चलत्येव धीराणं निश्चलं मनः ||
    [ युगान्तपवनाहताः गिरयः कामं चलन्ति | (किन्तु) धीराणं निश्चलं मनः कृच्छ्रे अपि न चलत्येव |  ]
    Even the mountains will definitely tremble, when they are stuck (आहत) by the strong wind (पवन) blowing at the end (अन्त) of the Yuga (युग). But even in utter distress, the firm minds of the strong men will not oscillate. (They will never lose their integrity).
  2. आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यादाहारं प्राणसन्धारणार्थम्
    प्राणाः सन्धार्याः तत्त्वविज्ञानहेतोस्तत्त्वं विज्ञेयं येन भूयो न जन्म
    [ आहारार्थम् अनिन्द्यं कर्म कुर्यात् | प्राणसन्धारणार्थम् आहारं कुर्यात् | तत्त्वविज्ञानहेतोः प्राणाः सन्धार्याः | येन जन्म भूयः न (भवति) (तथा) तत्त्वं विज्ञेयम् | ]
    For the sake of eating (i.e., for a livelihood), let the work that is not forbidden be taken up. For the sake of sustaining the vital energy of life, let food be consumed. The life should be sustained for the sake of learning the knowledge of the Tattva. This knowledge should be realized in such a way that one will cease to have further births and attain moksha.
  1. सर्पाः पिबन्तिपवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
    कन्दैः फलैर्मुनिवरा क्षपयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥
    [ सर्पाः पवनं पिबन्ति (तथापि) ते न दुर्बलाः | च शुष्कैः तृणैः वनगजाः बलिनः भवन्ति । कन्दैः फलैः मुनिवराः कालं क्षपयन्ति | पुरुषस्य सन्तोषः एव परं निधानम् | ]
    The snakes drink (i.e., live by consuming) only air. Yet they are not weak. The forest elephants survive only on the dried grass and yet they are valorous. The great sages exhaust their time by eating tubers and fruits. A person’s happiness is the ultimate treasure. (Irrespective of what one gets, the individual’s happiness only matters).
  2. पापान्निवारयतियोजयते हिताय गुह्यं च गूहति गुणान् प्रकटीकरोति ।
    आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥

    [ इदं सन्मित्रलक्षणम् – पापात् निवारयति, हिताय योजयते, गुह्यं गूहति च, गुणान् प्रकटीकरोति, आपद्गतं न जहाति च, काले ददाति – (इति) सन्तः प्रवदन्ति | ]
    The characteristics of a good friend — One who prevents the friend from committing any wrong deed, binds the friend to beneficial activities, maintains the secrecy, brings to light the good qualities of the friend, does not abandon when the friend is facing any danger, gives timely help and advice. So say the wise men.
  3. दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिस्साधुजने नयो नृपजने विद्वज्जने चार्जवं |
    शौर्यं शत्रुजने क्षमा गुरुजने
    नारीजने पूज्यता ये चैवंपुरुषाः कलासु कुशलाः तेष्वेव लोकस्थितिः||
    [ स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वज्जने आर्जवं च, शत्रुजने शौर्यं, गुरुजने क्षमा, नारीजने पूज्यता, एवं ये च पुरुषाः कलासु कुशलाः लोकस्थितिः तेषु एव (स्थिता) | ]
    One should be kind towards one’s own people. One should have compassion towards the servants. One should show severity towards wicked people. One should show affection towards the noble people, diplomacy towards the ruling officials or the king’s men, eagerness (to acquire more wisdom) when meeting knowledgeable people. Courage should be demonstrated before the enemies. Forbearance should be shown towards the teachers. Respect should be demonstrated towards the ladies.  The state of the world depends only on such men who are well versed in the arts and demonstrate the above qualities.
  4. विद्या नामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
    विद्या बन्धुजनो विदेशगमने विद्या प
    रा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥
    [ विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्, विद्या भोगकरी, यशः सुखकरी, विद्या गुरूणां गुरुः, विदेशगमने विद्या बन्धुजनः, विद्या परा देवता, राजसु विद्या पूज्यते, धनं तु हि, (अतः) विद्याविहीनः पशुः (इव विद्यते) | ]
    Vidya or Knowledge refers to the enhanced beauty of men. It is the secret treasure of men. It causes enjoyment. It gives fame and comforts. It is the teacher of all teachers. It is the relative when you go abroad. It is the supreme god. It is respected even by the kings and wealth does not get that respect. So, the one without knowledge is considered as an animal.
  5. शक्योवारयितुं जलेनहुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
    व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥

    [ हुतभुक् जलेन वारयितुं शक्यः, सूर्यातपः छत्रेण, समदः नागेन्द्रः निशिताङ्कुशेन, गोगर्दभौ दण्डेन, व्याधिः भेषजसंग्रहैः च, विषं विविधैः मन्त्रप्रयोगैः, सर्वस्य शास्त्रविहितम् औषधम् अस्ति, मूर्खस्य औषधं न अस्ति | ]
    It is possible to put out the fire with water. The sun’s heat can be dodged by using an umbrella.  The intoxicated elephant can be controlled by the sharp (निशित) hook (अङ्कुश). Cattle and donkeys are tamed by the stick. The diseases are avoided by the collection of medicines. The poison can be taken out by the various chants (mantras). There are remedies prescribed in the scriptures for all problems. But there is no drug to cure the stupidity of an idiot.

References:

 

Neethi Shastram – #15, #16 (Subhashitam)

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil.

Link to the first post – https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

१४५. यद्यत्परवशं कर्म तत्तद्यत्नेन

यद्यत्परवशं कर्म तत्तद्यत्नेन वर्जयेत् |

यद्यदात्मवशन्तु स्यात्तत्तत्सेवेत यत्नत: ||

यत् यत् पर+वशं कर्म, तत् तत् यत्नेन वर्जयेत् |  यत् यत् आत्म+वशन्तु स्यात्, तत् तत् यत्नत: सेवेत |

Whichever tasks are dependent on others, put effort to avoid those tasks. Whichever tasks are dependent only on self, put effort to complete those tasks.

१४६. सर्वं परवशं दु:खम्

सर्वं परवशं दु:खं सर्वमात्मवशं सुखम् |

एतद्विद्यात्समासेन लक्षणं सुखदु:खयो: ||

सर्वं पर+वशं दु:खं | सर्वम् आत्म+वशं सुखम् | एतत् सुखदु:खयो: लक्षणं समासेन विद्यात् ||

Whatever is in other’s possession causes sorrow. Whatever is in one’s own possession causes happiness. This is the right understanding (linked with knowledge) of the nature of sorrow and happiness.

१४७. अद्रोहेण च भूतानाम्

अद्रोहेण च भूतानामल्पद्रोहेण वा पुन: |
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ||

विप्र: या वृत्ति: भूतानाम् अल्प+द्रोहेण वा, अनापदि अ+द्रोहेण वा, तां समास्थाय पुन: च जीवेत् |

The wise Brahmin should take to the profession that causes no harm to the living beings. During unavoidable dangerous circumstances, he should act in such a way that only the least harm is caused to other living beings.

१४८. ऋतानृताभ्यां जीवेद्वा

ऋतानृताभ्यां जीवेद्वामृतेन प्रमृतेन वा |

सत्यानृतेन वा विप्रो न श्ववृत्या कदाचन ||

विप्र: ऋत+अनृताभ्यां वा जीवेत् | मृतेन प्रमृतेन वा जीवेत् | सत्यानृतेन वा जीवेत् | कदाचन श्ववृत्या न जीवेत् |

The wise Brahmin could live on alms or any wealth obtained by luck. He could live by begging or by doing farming. He could do honest business. But he should never work for someone as a laborer.

१४९. ऋतमुञ्चशीलं ज्ञेयममृतम्

ऋतमुञ्चशीलं ज्ञेयममृतं स्यादयाचितम्
मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् |
सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते
सेवा श्ववृत्तिराख्याता तस्मात्तां परिवर्जयेत् ||

उञ्चशीलं ऋतं ज्ञेयम् | अयाचितम् अमृतं स्यात् | याचितं भैक्षं तु मृतं | कर्षणं स्मृतम् प्रमृतं | वाणिज्यं तु सत्यानृतं | तेन च एव अपि जीव्यते | सेवा श्ववृत्ति: आख्याता | तस्मात् तां परिवर्जयेत् |

Living on those grains that were collected from where they have fallen (or collecting it door-to-door) is called Rutam. That which is got by not begging is Amrutam or nectar. Living on food obtained by begging is Mrutam or death. Living on the food obtained by farming is Pramrutam. Vaanijyam or trade includes truth and falsehood. It is alright even to live by doing trade.  Gaining a livelihood by doing menial service is known to be that of the work of a dog. So it is to be totally avoided.

१५०. विप्राणां ज्ञानत: श्रैष्ठ्यम्

विप्राणां ज्ञानत: श्रैष्ठ्यं क्षत्रियाणां तु वीर्यत: |

वैश्यानां धान्यधनत: शूद्राणामेव जन्मत: ||

विप्राणां ज्ञानत: श्रैष्ठ्यम् | क्षत्रियाणां तु वीर्यत: श्रैष्ठ्यम् | वैश्यानां धान्य+धनत: श्रैष्ठ्यम् | शूद्राणां एव जन्मत: श्रैष्ठ्यम् |

Among the Brahmins, the most knowledgeable person is considered to be great. Among the Kshatriyas, the courageous one is considered to be great. Among the Vaishyaas, the richest one is considered as great. Among the Sudraas, the eldest one is considered as great.

१५१. वित्तं बन्धु: वय: कर्म

वित्तं बन्धु: वय: कर्म विद्या भवति पञ्चमी |

एतानि मान्यस्थानानि गरीयो यत् यत् उत्तरम् ||

वित्तं बन्धु: वय: कर्म विद्या – एतानि पञ्चमी मान्य+स्थानानि भवति | यत् यत् उत्तरम् (तत्) गरीय: |

Wealth, relatives, age, work and knowledge – these five are to be respected. In that order, that which comes later is greater.

१५२. विद्या नाम नरस्य रूपमधिकम्

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु: |

विद्या बन्धुजनो विदेशगमने विद्या परा देवता

विद्या राजसु पूज्यते न हि धनं विद्या विहीन: पशु: ||

विद्या नाम – नरस्य रूपमधिकम् | प्रच्छन्नगुप्तं धनम् | विद्या भोगकरी यश:+सुखकरी | विद्या गुरूणां गुरु: | विदेशगमने विद्या बन्धुजन: | विद्या परा देवता | राजसु विद्या पूज्यते | धनम् न हि (तत् सर्वं ददाति) | विद्या विहीन: पशु: |

Vidyaa or Knowledge is the man’s extended form. It is the hidden secret wealth. Knowledge gives enjoyment, glory and comforts. Knowledge is the preceptor among the preceptors. While going to a different country, Knowledge acts as a family member. Knowledge is the supreme god. In the presence of the kings, Vidya is adored. Money does not do all these. One who is devoid of knowledge is to be considered as an animal only.

१५३. क्षान्ति: चेत् कवचेन किम्

क्षान्ति: चेत् कवचेन किं किमरिभि: क्रोधोऽस्तिचेद्देहिनाम्

ज्ञातिश्चेदनलेन किं यदि सुहृत् दिव्यौषधै: किं फलम् |

किं सर्पैर्यदि दुर्जना: किमु धनैर्विद्याऽनवद्यायदि

व्रीडाचेत् किमु भूषणै: सुकविता यद्यस्तिराज्येन किम् ||

देहिनाम् क्षान्ति: चेत् कवचेन किं फलम् ? क्रोध: अस्तिचेत् अरिभि: किम् ? ज्ञाति: चेत् अनलेन किम् ? यदि सुहृत् दिव्यौषधै: किं फलम् ? यदि दुर्जना: सर्पै: किं फलम् ? यदि अनवद्या विद्या धनै: किमु ? व्रीडा चेत् भूषणै: किमु ? सु+कविता यदि अस्ति, राज्येन किम् ?

What is the need of the armor if a person has patience? What is the need of any enemy if the person has anger? If there is a paternal relative where is the need for fire? If there is a friend where is the need for divine medicines? If there are vicious persons where is the need for serpents? If there is faultless scholarship where is the need for money?  If there is shyness where is the need for ornaments? If there is good poetry where is the need for a kingdom?

१५४. दाक्षिण्यं स्वजने दया

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने

प्रीति: साधुजने नयो नृपजने विद्वज्जने चार्जवम् |

शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता

ये चैवं पुरुषा: कलासु कुशाला: तेष्वेव लोकस्थिति: ||

स्वजने दाक्षिण्यं, परिजने दया, दुर्जने  सदा शाठ्यं, साधुजने प्रीति:, नृपजने नय:, विद्वत्+जने च आर्जवं,  शत्रुजने शौर्यं, गुरुजने क्षमा, कान्ताजने धृष्टता च – ये पुरुषा: एवं कलासु कुशाला:,  तेषु एव लोकस्थिति: |

The well-being of the world depends on those men who have expertise in these skills  – being generous towards their relatives, being kind to strangers, being harsh or cruel to the wicked people , loving to the good people ,  shrewd in their dealings with the kings and others in power, honest with the learned persons, courageous with enemies, and humble with elders, and bold-minded (i.e., stern) with the wife.

१५५. जाड्यं धियो हरति

जाड्यं धियो हरति सिञ्चति वाचि सत्यं

मानोन्नतिं दिशति पापं अपाकरोति |

चेत: प्रसादयति दिक्षु तनोति कीर्तिम्

सत्सङ्गति: कथय किं न करोति पुंसाम् ||

सत्सङ्गति: धिय: जाड्यं हरति | वाचि सत्यं सिञ्चति | मान: उन्नतिं दिशति | पापं अपाकरोति | चेत: प्रसादयति | दिक्षु कीर्तिं तनोति | सत्सङ्गति: पुंसाम् किं न करोति (इति) कथय |

The company of good men destroys the ignorance of the intellect. It fills the words with the truth. It uplifts the prestige. It invalidates the sins. It brightens the mind. It spreads the glory in all directions. Tell what the company of good men doesn’t do to men!

१५६. दौर्मन्त्र्यात् नृपति: विनश्यति

दौर्मन्त्र्यात् नृपति: विनश्यति यति: संगात्सुतो लालनात्

विप्रोऽनध्ययनात् कुलं कुतनयात् शीलं खल उपासनात् |

ह्री: मद्यात् अनवेक्षनादपि कृषि: स्नेह: प्रवासाश्रयात्

मैत्री च अप्रणयात् समृद्धि: अनयात् त्यागात् प्रमादात् धनम् ||

दौर्मन्त्र्यात् नृपति: विनश्यति | यति: संगात् |  सुत: लालनात्  | विप्र: अनध्ययनात् | कुलं कु+तनयात् | शीलं खल+उपासनात् | ह्री: मद्यात् | अनवेक्षनात् अपि कृषि: | स्नेह: प्रवास+आश्रयात् | मैत्री अप्रणयात् | समृद्धि: अनयात् | प्रमादात् त्यागात् धनम् च विनश्यति |

The king perishes through the wrong advices of his crafty ministers. Bad company spoils the Sanyaasi (if he is drawn towards lust for carnal desires). Pampering spoils the son. Non-adherence to his studies and rituals ruins the Brahmin. The heredity is destroyed by a bad son. The character is lost by serving wicked person. Shyness is lost when one drinks liquor. Farming is lost due to inattention. Love is lost when one stays in a distant land. Friendship ceases to exist when there is lack of affection. Wealth is lost by unjust policies. Money is lost when it is given in charity without proper care.

१५७. दानं योगो नाशस्तिस्र:

दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य |

यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ||

दानं भोग: नाश: (इति) वित्तस्य तिस्र: गतय: भवन्ति | य: न ददाति, य: न भुङ्क्ते, तस्य तृतीया गति: भवति |

There are three paths for money namely charity, enjoyment and loss. For the person who neither gives in charity nor enjoys, money will take the third path of annihilation.

१५८. यस्यास्तिवित्तं स नर:

यस्यास्तिवित्तं स नर: कुलीन: स पण्डितश्श्रुतवान् विधिज्ञ: |

स एव वक्ता स च दर्शनीय: सर्वे गुणा: काञ्चनं आश्रयन्ति ||

यस्य अस्ति वित्तं स: नर: कुलीन: | स: पण्डित:, श्रुतवान्, विधिज्ञ: | स: एव वक्ता | स: च दर्शनीय: | सर्वे गुणा: काञ्चनं आश्रयन्ति |

One who has money, that man is (considered as to be) born in a good family ( i.e., a cultured person). He is educated, well-read, knower of do’s and don’ts. He is only the best speaker. He is to be seen. All good qualities seek refuge in wealth.

१५९. दुर्जन: परिहर्तव्य:

दुर्जन: परिहर्तव्य: विद्यालंकृतोऽपिसन् |

मणिना भूषित: सर्प: किमसौ न भयङ्कर: ||

विद्या+अलंकृत: अपि सन् दुर्जन: परिहर्तव्य: | मणिना भूषित: सर्प: असौ भयङ्कर: न किम् ?

Even if they are endowed with knowledge and other popularity, bad people are to be avoided. Even if it is decorated with a gem, isn’t the snake always feared?

 

Neethi Shastram – #14 (Subhashitam)

Here is an extract from the collection of 222 Subhashitams under the heading Neethi Shastra from the hand written notes of Sri. Skanda Narayanan. Sri Skanda Narayanan has also written down the word-to-word meaning in Tamil.

Link to the first post – https://nivedita2015.wordpress.com/2015/10/09/neethi-shastram-1-subhashitam/

१३६. वैरिणं नोपसेवेत

वैरिणं नोपसेवेत सहायं चैव वैरिण: |

अधार्मिकं तस्करं च परस्यैव च योषितम् ||

वैरिणं, वैरिण: सहायं च एव, अधार्मिकं, तस्करं च, परस्य योषितं च न उपसेवेत एव ||

Don’t approach the enemy, enemy’s friend, wrong-doers, thieves, and other person’s wife.

१३७. क्षत्रियं पन्नगं चैव

क्षत्रियं पन्नगं चैव ब्राह्मणं च बहुश्रुतम् |

न अवमन्येत वै भूष्णु: कृशं वापि कदाचन ||

क्षत्रियं, पन्नगं च एव, बहुश्रुतम् ब्राह्मणं च, भूष्णु: कृशं वापि कदाचन न अवमन्येत वै |

One who wants to prosperity in life should never show disrespect towards the king, the snake, well-learned Brahmin, even when one is in an unfavorable circumstance.

१३८. सत्यं ब्रूयात् प्रियं ब्रूयात्

सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् |

प्रियं च नानृतं ब्रूयात् एष धर्म: सनातन: ||

भद्रं भद्रमिति ब्रूयात् भद्रमित्येव वा वदेत् ||

सत्यं ब्रूयात् | प्रेयं ब्रूयात् | अप्रियं सत्यं न ब्रूयात् | प्रियं न+अनृतं च ब्रूयात् | भद्रं भद्रम् इति ब्रूयात् | भद्रम् एव इति वा वदेत् | एष: धर्म: सनातन: |

Speak the truth. Speak lovingly. Don’t speak harsh words even if they are the truth. Don’t speak untruth that is pleasing. Repeatedly say “Bhadram” which means good, auspicious, and prosperous. Or tell “It is Bhadram only” indicating that there is only goodness and everything is for the good.

१३९. शुष्कवैरं विवादं च

शुष्कवैरं विवादं च न कुर्यात् केनचित्सह |

परिहासेऽपि अनौचित्यं स्वप्नेऽपि अन्यवधुरतिम् ||

शुष्क+वैरं च विवादं च केनचित् सह न कुर्यात् | परिहासे अपि अनौचित्यं न कुर्यात् | स्वप्ने अपि अन्य+वधु+रतिं न कुर्यात् |

Don’t have useless hostility or argument with anyone. Don’t do anything that is inappropriate, even for fun. Even in the dreams, do not have feelings for another person’s wife.

१४०. हीनाङ्गान् अतिरिक्ताङ्गान्

हीनाङ्गान् अतिरिक्ताङ्गान् विद्याहीनान् वयोधिकान् |

रूपद्रव्यविहीनांश्च जातिहीनांश्च न क्षिपेत् ||

हीन+अङ्गान्, अतिरिक्त+अङ्गान्, विद्या+हीनान्, वयोधिकान्, रूप+द्रव्य+विहीनान् च, जाति+हीनान् च न क्षिपेत् |

Don’t reject handicapped people, people with disproportionate organs, illiterates, aged people, people without beauty or property, and people belonging to lower castes.

१४१. श्रद्धधान: शुभां विद्याम्

श्रद्धधान: शुभां विद्यामाददीतावरादपि |

अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ||

अवरात् अपि श्रध्दधान: शुभां विद्याम् आददीत | परं धर्मं अन्त्यात् अपि (आददीत) | दुष्कुलात् अपि स्त्री+रत्नम् (आददीत) |

Those with genuine interest should receive good knowledge even from people in lower level. Receive the supreme dharma even from the Chandala, belonging to the lowest caste. Accept the jewel among women as your wife even if her lineage is not.

१४२. विषाद्प्यमृतं ग्राह्यम्

विषाद्प्यमृतं ग्राह्यं बालादपि सुभाषितम् |

अमित्रादपि सद्वृत्तममेद्यादपि काञ्चनम् ||

विषात् अपि अमृतं ग्राह्यम् | बालात् अपि सुभाषितम् | अमित्रात् अपि सत्+वृत्तम् | अमेद्यात् अपि काञ्चनम् |

Obtain nectar even from poison. Accept wise words even from youngsters. Learn good character even from enemy. Extract gold even from dirty things.

१४३. स्त्रियो रत्नान्यथो विद्या

स्त्रियो रत्नान्यथो विद्या धर्म: शौचं सुभाषितम् |

विविधानि च शिल्पानि समादेयानि सर्वत: ||

स्त्रिय:, रत्नानि, अथो, विद्या, धर्म:, शौचं, सुभाषितम्, विविधानि शिल्पानि च, सर्वत:  समादेयानि |

Women, gems, in the same way, knowledge, dharma, cleanliness, wise sayings, and different sculptural skills are to be accepted from everywhere. (Don’t reject them even if their source is not great).

१४४. हीनजातिस्त्रियं मोहादुद्वहन्त:

हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातय:  |

कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ||

द्विजातय: हीन+जाति+स्त्रियं मोहात् उद्वहन्त: ससन्तानानि कुलानि शूद्रताम् एव आशु नयन्ति |

The entire lineage of successors along with his children, of a brahmin marries a woman of lower caste due to desire, will soon acquire the lowly nature. [ शुचा द्रवन्ति इति शूद्र: | ]