Garuda Gamana Tava Charana – Swami Bharati Tirtha

Verse 1

गरुडगमन तव चरणकमलमिह

मनसि लसतु मम नित्यम् | मनसि लसतु मम नित्यम् ॥

मम तापमपाकुरु देव |  मम पापमपाकुरु देव ॥

garuḍagamana tava caraṇakamalamiha

manasi lasatu mama nityam | manasi lasatu mama nityam ॥

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning :

  • garuḍa-gamana = Oh (God), who travels on Garuda;
  • tava = your; caraṇa-kamalam = lotus feet; lasatu = let (it) shine; nityam = always; iha = here; mama manasi = in my mind;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे गरुडगमन | तव चरणकमलम् इह मम मनसि नित्यं लसतु | मम मनसि नित्यम् लसतु | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 2

  1. जलजनयन विधिनमुचिहरणमुख-

विबुधविनुतपदपद्म | विबुधविनुतपदपद्म

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. jalajanayana vidhinamuciharaṇamukha

vibudhavinutapadapadma | vibudhavinutapadapadma

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

Meaning:

  • jalaja-nayana = O (God), whose eyes are like lotus
  • pada-padma = O (God), who has lotus feet; vinuta = that is worshipped by; vibudha = numerous learned ones ; mukha = starting with; vidhi = Brahma (and); namuci-haraṇa = Indra, the killer of Namuci
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे जलजनयन | हे विधिनमुचिहरणमुखविबुधविनुतपदपद्म | हे विबुधविनुतपदपद्म | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 3

  1. भुजगशयन भव मदनजनक मम

जननमरण-भयहारी | जननमरण-भयहारी

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhujagaśayana bhava madanajanaka mama

jananamaraṇa-bhayahārī | jananamaraṇa-bhayahārī

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning

  • bhujaga-śayana = O (God), whose bed is the serpent;
  • madana-janaka = O (God), the father of Kaama;
  • bhava = Become; mama = my; bhaya-hārī = dispeller of the fear; janana-maraṇa = of life and death;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे भुजगशयन | हे मदनजनक | मम जननमरणभयहारी भव | जननमरणभयहारी (भव) | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 4

  1. शङ्खचक्रधर दुष्टदैत्यहर

सर्वलोक-शरण | सर्वलोक-शरण |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. śaṅkhacakradhara duṣṭadaityahara

sarvaloka-śaraṇa | sarvaloka-śaraṇa

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • śaṅkha-cakra-dhara = O (God), who adorns the conch and the disc;
  • duṣṭa-daitya-hara = O (God), the destroyer of the wicked Asuras;
  • sarva-loka-śaraṇa = O (God), the sole refuge for the entire world;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे शङ्खचक्रधर |  हे दुष्टदैत्यहर | हे सर्वलोकशरण | हे सर्वलोकशरण | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 5

  1. अगणित-गुणगण अशरणशरणद

विदलित-सुररिपुजाल | विदलित-सुररिपुजाल

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. agaṇita-guṇagaṇa aśaraṇaśaraṇada

vidalita-suraripujāla | vidalita-suraripujāla

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • agaṇita-guṇa-gaṇa = O (God), who possesses a collection of innumerable good qualities
  • aśaraṇa-śaraṇada = O (God), who is the giver of protection, to those without any refuge
  • vidalita-sura-ripu-jāla = O (God), who destroyed the collection of Asuras, the enemies of the Devas
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

हे अगणितगुणगण | हे अशरणशरणद |  हे विदलितसुररिपुजाल | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

Verse 6

  1. भक्तवर्यमिह भूरिकरुणया

पाहि भारतीतीर्थम् | पाहि भारतीतीर्थम् |

मम तापमपाकुरु देव | मम पापमपाकुरु देव ॥

  1. bhaktavaryamiha bhūrikaruṇayā

pāhi bhāratītīrtham | pāhi bhāratītīrtham

mama tāpamapākuru deva | mama pāpamapākuru deva ॥

English Meaning:

  • pāhi = You protect; iha = here; bhūri-karuṇayā = with overwhelming compassion; bhāratītīrtham = Sri Bharati Tirtha Swami; bhakta-varyam = who is a principal devotee;
  • deva = O God; apākuru = remove; mama = my; tāpam = sufferings;
  • deva = O God; apākuru = remove; mama = my; pāpam = sins;

अन्वयः

(त्वम्) इह भूरिकरुणया भक्तवर्यं भारतीतीर्थं पाहि | हे देव | मम तापम् अपाकुरु | हे देव | मम पापम् अपाकुरु ॥

References:

 

  1. Dance Video – https://www.youtube.com/watch?v=TVxB1xde5lg
  2. Sanskrit Text –   https://meerasubbarao.wordpress.com/2017/04/26/%E0%A4%97%E0%A4%B0%E0%A5%81%E0%A4%A1%E0%A4%97%E0%A4%AE%E0%A4%A8-%E0%A4%A4%E0%A4%B5-%E0%A4%9A%E0%A4%B0%E0%A4%A3%E0%A4%95%E0%A4%AE%E0%A4%B2%E0%A4%AE%E0%A4%BF%E0%A4%B9-garudagamana-tava-charanakamalami/
  3. English Meaning – http://www.speakingtree.in/blog/maha-vishnu-stotra
Advertisements

Kruti – Neelakandam bhajeham – Deekshitar

Ragam: Kedaragaulai  Author: Muthuswami Deekshitar Talam: Rupakam

Pallavi

नीलकण्डं भजेऽहं सततम् | नीरजासनादिनुतम् ||

Anupallavi

बालकुचाम्बासहितं बालचन्द्रसेवितम् | शीलगुरुगुहपूजितं श्रीकदम्बवननाथम् ||

Charanam

अक्षयरूपाखण्डकावेरी-तीरोत्तर-    अभिमुखं पञ्चमुखं रक्षितभक्तप्रमुखम् |

नक्षत्रेशशेखरं नामरूपविचित्रतर-    दक्षतरम् ईश्वरं केदारगौलप्रियकरम् ||

Madhyama kaala charanam

दक्षिणकाशीपुरं दण्डितकामत्रिपुरम् | दक्षद्वरहरं हरं दयाकरं कमलकरम् ||

—-

pallavi

neelakandam bhajeham satatam | neerajaasanaadinutam ||

anupallavi

baalakuchaambaasahitam baalachandrasevitam | sheelaguruguhapoojitam shreekadambavananaatham ||

charanam

akshayaroopaakhandakaaveree-teerottara-    abhimukham panchamukham rakshitabhaktapramukham |

nakshatreshashekharam naamaroopa-vichitratara    dakshataram eeshvaram kedaaragaulapriyakaram ||

madhyam kaala charanam

dakshinakaasheepuram danditakaamatripuram | dakshadvaraharam haram dayaakaram kamalakaram ||

Kruthi – Gowripate Pashupate

कृतिः –  गौरीपते पशुपते
रागम् – वन्दनधारिणी ; तालम् – आदि ; साहित्यकारः – एस्. मारलिङ्गम्

पल्लवी 

गौरीपते पशुपते कृपानिधे — कैलासपते  मां पाहि जगत्पते |

अनुपल्लवी 
गौरीविनुत शिवशंकर शशिधर  — सकलजीवाधार सच्चिदानन्दकर | (गौरीपते)
चरणम्
भवरोगहरचतुर पञ्चवदनमूर्ते  — भुवनाभरणभूतगणपते सुरपते
कविजनसन्नुत लिङ्गराजविनुत — कामदहन कपालीश्वर भूपते |
मध्यमकालम्
नवमणिविलसितचित्सभापते — नारदादिमुनिजनाधिपते | (गौरीपते)

Kriti – Sujanajeevana Rama – Thyagaraja

प. सुजनजीवन राम सुगुणभूषण राम

अ. भुजगभूषणार्चित बुध जनावनात्मज
वन्दित श्रित चन्दन दश तुरंग मामव (सुजन)

च. चारु नेत्र श्री कळत्र श्रीरम्य गात्र
तारक नाम सु-चरित्र दशरथ पुत्र
तारकाधिपानन धर्म पालक
तारय रघुवर निर्मलत्यागराजसन्नुत (सुजन)

प. सुजनजीवन राम सुगुणभूषण राम

अन्वयः — हे सुजनजीवन | हे राम | हे सुगुणभूषण | हे राम |

भावार्थः —  हे राम | त्वं उत्तमजनानां जीवनम् असि | त्वं उत्तमगुणैः भूषितः असि |

समासाः

  • सुजनजीवन = सुजनानां जीवनं यस्मिन् सः सुजनजीवनः, सम्बोधने सुजनजीवन|
  • सुगुणभूषण = सुगुणाः एव भूषणाः यस्य सः सुगुणभूषणः, सम्बोधने सुगुणभूषण|

अ. भुजगभूषणार्चित बुधजनावनात्मज- 
    वन्दित श्रितचन्दन दशतुरङ्ग मामव (सुजन)

अन्वयः — हे भुजगभूषणार्चित | हे बुधजनावन | हे आत्मजवन्दित | हे श्रितचन्दन | हे दशतुरंग | त्वं माम् अव |

भावार्थः — हे राम | सर्पैः भूषितः शङ्करः त्वाम् अर्चयति | त्वं धीमतां रक्षकः असि | आत्मजः ब्रह्मा तव वन्दनं करोति | ये जनाः त्वयि आश्रयम् इच्छति तेषां मनसि चन्दनः इव त्वं शीतलतां उत्पादयति | त्वं दशतुरङ्गैः युक्तस्य रथस्य स्वामीनः दशरथस्य इक्ष्वाकुवंशे जातः असि | त्वं मां रक्षतु |

समासाः

  • भुजगभूषणार्चित
    • भुजगाः एव भूषणानि यस्य सः, भुजगभूषणः
    • भुजगभूषणेन अर्चितः भुजगभूषणार्चितः, सम्बोधने भुजगभूषणार्चित
  • बुधजनावन
    • बुधाः ते जनाः बुधजनाः
    • बुधजनानां आवनः बुधजनावनः, सम्बोधने बुधजनावन
  • आत्मजवन्दित
    • आत्मना जनितः आत्मजः
    • आत्मजेन वन्दितः आत्मजवन्दितः, सम्बोधने आत्मजवन्दित
  • श्रितचन्दन
    • श्रितानां चन्दनः श्रितचन्दनः, सम्बोधने श्रितचन्दन
  •  दशतुरङ्ग
    • दश तुरङ्गा: यस्मिन् सन्ति इति दशतुरङ्ग: (अत्र रथ:। )
      दशतुरङ्ग: (दशतुरङ्गैः युक्तः रथः) यस्य रथ: सः, दशतुरङ्गः (दशरथः)
      दशतुरङ्गस्य कुले भवः , दशतुरङ्गः  दशतुरङ्ग ,सम्बोधने दशतुरङ्ग

च. चारुनेत्र श्रीकलत्र श्रीरम्यगात्र 
   तारकनाम सुचरित्र दशरथपुत्र 
   तारकाधिपानन धर्मपालक 
   तारय रघुवर निर्मल त्यागराजसन्नुत (सुजन)

अन्वयः — चारुनेत्र श्रीकलत्र श्रीरम्यगात्र तारकनाम सुचरित्र दशरथपुत्र तारकाधिपानन धर्मपालक रघुवर निर्मल त्यागराजसन्नुत | त्वं मां तारय |

भावार्थः — हे राम |तव नेत्रयोः चारुत्वमस्ति | त्वं श्रियः पतिः असि | लक्ष्मीः तव शरीरे रमयते | तव नाम रामनामतारकं भूत्वा भवसागरं तरितुम् अस्माकम् उपायः भवति | तव मुखं तारकाणां अधिपस्य चन्द्रस्य इव अस्ति | त्वं धर्मं पालयति | त्वं रघुवंशराजानां श्रेष्ठः असि | त्वयि दोषः नास्ति | त्वं त्यागराजेन सम्यक् वन्दितः अस्ति | यथा अहम् अस्मिन् भवसागरात् मुक्तः भवामि तथा कुरु |

समासाः

  • चारुनेत्र
    • चारू नेत्रे यस्य सः चारुनेत्रः, सम्बोधने चारुनेत्र
  • श्रीकलत्र
    • श्रीः कलत्रं यस्य सः श्रीकलत्रः, सम्बोधने श्रीकलत्र
  • श्रीरम्यगात्र
    • रम्यं गात्रं यस्य सः रम्यगात्रः
    • श्रियः रम्यगात्रः श्रीरम्यगात्रः, सम्बोधने श्रीरम्यगात्र
  • तारकनाम
    • तारकं नाम यस्य सः तारकनामः, सम्बोधने तारकनाम
  • सुचरित्र
    • सुष्ठु चरित्रं यस्य सः सुचरित्रः, सम्बोधने सुचरित्र
  • दशरथपुत्र
    • दशरतस्य पुत्रः दशरथपुत्रः, सम्बोधने दशरथपुत्र
  • तारकाधिपानन
    • तारकाणां अधिपः तारकाधिपः
    • तारकाधिपस्य आननं यस्य सः तारकाधिपाननः, सम्बोधने तारकाधिपानन
  • धर्मपालक
    • पालनं करोति इति पालकः
    • धर्मस्य पालकः धर्मपालकः, सम्बोधने धर्मपालक
  • रघुवर
    • रघुषु वरः रघुवरः, सम्बोधने रघुवर
  • निर्मल
    • मलं न वर्तते यस्मिन् इति निर्मलः, सम्बोधने निर्मल
  • त्यागराजसन्नुत
    • सम्यक् नुतः सन्नुतः
    • त्यागराजेन सन्नुतः त्यागराजसन्नुतः, सम्बोधने त्यागराजसन्नुत

Reference:

Paripaalayamam Sri Padmanaabha – Swathi Tirunaal kriti

परिपालय माम् इति स्वातितिरुणाल्महाराजस्य एका संस्कृतकृतिः |

पल्लवि

परिपालय मां श्रीपद्मनाभ मुरारे

(हे) श्रीपद्मनाभ | (हे) मुरारे |  (त्वं) मां परिपालय |
त्वं मां रक्षतु इति अर्थः |

अनुपल्लवि

शरणागत-भरणोत्सुक शारद-सोम-समानन विरिञ्चि-सुरेश्वर-सेव्य

(हे) शरणागत-भरणोत्सुक | (हे) शारद-सोम-समानन | (हे) विरिञ्चि-सुरेश्वर-सेव्य | (मां परिपालय) |
  • शरणागत-भरणोत्सुकः
    • भरणं = रक्षणं , पालनपोषणे च ।
    • शरणागतभरणम् = शरणागतानां भरणम् |
    • शरणागत-भरणोत्सुकः = शरणागतभरणम्,  तस्मिन् वा तस्य वा उत्सुकः ।
  • शारदसोमसमाननः
    • शरत् = शरद् ऋतुः  |
    • शारदसोमः  = शरदृतौ सोमः |
    • शारदसोमसमाननः = शारदसोमेन समः आननः यस्य सः |
  • विरिञ्चि-सुरेश्वर-सेव्यः
    • विरिञ्चिः = ब्रह्मा
    • सुरेश्वरः = इन्द्रः
    • विरिञ्चिसुरेश्वरसेव्यः = विरिञ्चिना सुरेश्वरेण च सेव्यः ।

चरणम्

तामरसायतलोचन चारुतनो धरणीधरधर वनधामविराजितदारुणदनुभवघनविपिनदहन

(हे) तामरसायतलोचन | (हे) चारुतनो | (हे) धरणीधरधर | (हे) वनधामविराजित | (हे) दारुणदनुभव-घनविपिनदहन | (मां परिपालय) |
  • तामरसायतलोचनः
    • तामरसम् = कमलम् |
    • आयत = दीर्घ (विशेषणपदम्) |
    • तामरसायतलोचनः = तामरसे इव आयतलोचने यस्य सः |
  • चारुतनुः
    • चारुतनुः = चारु तनुः यस्य सः |
  • धरणीधरधरः
    • धरणीधरः = धरणीं धरति = पर्वतः |
    • धरणीधरधरः  = धरणीधरं धरति  |
  • वनधामविराजितः
    • वनं चासौ धाम च = वनधाम |
    • वनधामविराजितः = वनधाम्नि विराजितः |
  • दारुणदनुभव-घनविपिनदहनः
    • दारुणदनुभवाः = दारुणाः दनुभवाः  = क्रूराः असुराः |
    • घनविपिनम् = घनं चासौ विपिनं च |
    • घनविपिनदहनः  = घनविपिनस्य दहनः |
    • दारुणदनुभव-घनविपिनदहनः = दारुणदनुभवानां घनविपिनदहनः नाशकः |

दानमतङ्गजचारुविलासगते तपनीयवसन मुनिमानसतामरसालय मणिमयमकुटपरिलसित

(हे) दानमतङ्गज-चारु-विलास-गते | (हे) तपनीय-वसन | (हे) मुनि-मानस-तामरसालय | (हे) मणिमय-मकुट-परिलसित |(मां परिपालय) |

  • दानमतङ्गज-चारु-विलास-गतिः
    • दानम् = rut-fluid which flows from an elephant’s temples
    • दानमतङ्गजः = a furious elephant (emitting rut-fluid)  दानसहितमतङ्गजः or दानयुतमतङ्गजः  (मध्यमपदलोपी-समासः)
    • दानमतङ्गजचारुविलासगतिः = दानमतङ्गजस्य इव चारुविलासः गतिः यस्य सः ।
  • तपनीय-वसनः
    • तपनीय-वसनः = तपनीयं वसनं यस्य सः |
  • मुनि-मानस-तामरसालयः
    • मानस-तामरसम् = हृदय-कमलम् |
    • मुनि-मानस-तामरसम् = मुनीनां मानसतामरसम्
    • मुनि-मानस-तामरसालयः = मुनीनां मानसतामरसमेव आलयः यस्य सः ।
  • मणिमय-मकुट-परिलसितः
    • परिलसितः = प्रकाशितः अथवा प्रकाशते इत्यर्थः |
    • मणिमयमकुटपरिलसितः = मणिमयेन मकुटेन परिलसितः |

नीलघनोपमसुन्दरदेहरुचे निखिलामरभयहर शैलसुताधवसन्नुत शमय मम सकलगदमिह

(हे) नीलघनोपमसुन्दरदेहरुचे | (हे) निखिलामरभयहर  | (हे) शैलसुताधवसन्नुत | मम सकल-गदम् इह (त्वं) शमय|
  • नीलघनोपमसुन्दरदेहरुचिः
    • नीलघनः  = नीलः च असौ घनः = नीलमेघः
    • सुन्दरदेहः = सुन्दरः च असौ देहः
    • सुन्दरदेहरुचिः = सुन्दरदेहस्य रुचिः = सुन्दरदेहकान्तिः
    • नीलघनोपमसुन्दरदेहरुचिः = नीलघनस्य उपमा सुन्दरदेहरुचिः यस्य सः ।
  • निखिलामरभयहरः
    • निखिलानाम् समस्तानां अमराणां भयं हरति इति निखिलामरभयहरः ।
  • शैलसुताधवसन्नुतः
    • शैलसुता = पार्वती |
    • शैलसुताधवः = शङ्करः (माधववत्) |
    • शैलसुताधवसन्नुतः  = शैलसुताधवेन सन्नुतः वन्दितः |
  • गदः = रोगः |
  • इह = अत्र |
  • शमय = शम् [शमुँ उपशमे] लोट्लकारः मद्यमपुरुषः, लट्लकारे शामयति | शान्तिं कुरु इति अर्थः |

Thanks to Sri V. Anand for the above explanation.The following transliteration of the lyrics of Swathi Tirunaal and the meaning in English by Sri Damodara Rao Dasu have been copied with thanks from http://www.sangeetasudha.org/othercomposers/swati5.html 

paripAlaya mAm – ritigowLa – rupaka

P pari pAlaya mAm Sri padmanAbha murArE || Oh Sri Padmanabha the enemy of demon Mura, please protect me.
AP SaraNAgata bharaNOtsuka Sarada sOma
samAna virinchi surEswara sEvya ||
You are always eager to save those who seek for protection. Your face is beautiful like autumn moon. Brahma and Indra worship you.
C 1 tAmarasayata lOchana chAru ta
nO dharaNeedhara dhara vana
dhAma virAjita dAruNa
danubhava ghana vipina dahana ||
Oh lord, your eyes are attractive like lotus petals.Your appearence is beautiful. You lifted Mandara mountain and the earth. You are treacherous to demons like the fire for thick forest.
C 2 danamatangaja chAru vilAsa ga
tE tapaneeya vasana muni
mAnasa tAmarasAlaya
maNimaya makuTa pari lasita ||
Your gait is majestic like the walk of king elephant. Your garments shine like gold. You dwell in the hearts of sages. You are magnificient with gem-studded crown.
C 3 neela ghanOpama sundara dEha ru
chE nikhilAmara bhaya hara
SailasutAdhava sannuta
Samaya mama sakala gadamiha ||
Your beautiful body is lustrous like blue clouds. You dispel fears of all celestials. Siva the consort of Parvati, the daughter of Himalayas, worships you. Please assuage me from all afflictions.

(Audio) Dr. S. Ramanathan – A day with Thyagaraja – Discourse

I am deeply indebted to my Veenai teacher Smt. Rajalakshmi, a senior disciple of Dr. S. Ramanathan for sharing this recording of the discourse by Sangeetha Kalanidhi Dr. S. Ramanathan on “A day with Thyagaraja” in Tamil.  Only the first part is currently available. Once I get the second part, I will upload that too.

First song written by Thyagaraja – (note the 4th vibhakti forms of different vowel ending like akaaraanta, ikaaraanta and ukaaraanta).

पल्लवि

नमो   नमो राघवाय अनिशम् नमो   नमो राघवाय

चरणम्

१. सुकनुताय धीनबन्धवे  सकलकोक-दयासिन्दवे |

२. श्रितदुरिततमो बहुरवये सतत पालितात्भूतकवये |

३. निजसेवक-कल्पक-तरवे अजरुत्राद्वमर-सुगुरवे |

४. धिनमानव-गणपतये दानवैन्दकाय सुमतये |

५. आयुरारोग्य-दायिने वायुभोजि-भोगिसायिने |

६. नूतन-नवनीत-भक्षिणे भुतलादि-सर्वसाक्षिणे |

७. वरगज-करगुलित-बाहवे सरसिज-दानवे शुबाहवे |

८. नागराज-पालनाय त्यागराज-सेविताय |

 

Related videos:

A day with Thyagaraja in English by Dr. S. Ramanathan

2. Movie on Thyagarajan — songs sung by Dr. S. Ramanathan

(Audio) Gatamoha – Tyagaraja – Sangeetha Kalaanidhi Dr. S. Ramanathan

On this Ramanavami day (5-Apr-2017) and on the eve of the centenary celebrations of Sangeetha Kalaanidhi Dr. S. Ramanathan, I am extremely happy to share this recordings from the class when Dr. S. Ramanathan Sir taught us the Tyagaraja Kriti – Gatamoha. View the lyrics below in Devanagiri lipi!

Some songs (anuraagamuleni, vanajaakshi varnam, gata moha, tamarum amarum, and sarali varisai) recorded during the class  is shared through the google drive – https://drive.google.com/open?id=0B_LMgoFM5B7JRE56eXVFcEctMjA Though the lessons are at beginner level only, this will indeed be a musical treat as it would bring back the wonderful memories for those who have learnt from him at his residence at T.P. Koil Street, Tiruvallikkeni, Chennai.

पल्लवि

गतमोहाश्रुतपालाद्भुतसीतारमण (गत-मोह आश्रुत-पाल अद्भुत सीता-रमण)

चरणम्

१. भव-सारस-भव-मानस-भवनामर-विनुत   (१. भव-सारस-भव-मानस-भवन अमर-विनुत)

२. भव-तारक-सव-पालन-भवदासर-हरण (२. भव-तारक सव-पालन भवद आसर-हरण)

3. विनताज-गमन-रागव-मुनि-पूजित-चरण (3. विनताज-गमन रागव मुनि-पूजित-चरण)

४. शत-कोटि-चरित-मानव-मत-भेदक-दमन (४. शत-कोटि-चरित-मानव मत-भेदक-दमन)

५. कर-शोभित-चर-पाप-तिमिर-भास्कर-सगुण (५. कर-शोभित-चर पाप-तिमिर-भास्कर सगुण)

६. शरजानन-करुणाकर-वर-वारण-शरण (६. शरज-आनन करुणाकर वर-वारण-शरण)

७. नत-मानस-हित-कर-पालित-त्यागराज (७. नत-मानस-हित-कर पालित-त्यागराज)