Subhashitam – PUC First Year – Lesson 9

Subhashitams  – PUC First Year – Lesson 9  –  सूक्तिकुसुमानि

  1. अलब्धं ईहेद्धर्मेण लब्धं यत्नेनपालयेत् । पालितं वर्धयेन्नित्यं वृद्धं पात्रेषु निक्षिपेत् ।
    [ अलब्धं धर्मेण ईहेत् | लब्धं यत्नेन पालयेत् । पालितं नित्यं वर्धयेत् | वृद्धं पात्रेषु निक्षिपेत् । ]
    The wealth that has not yet been obtained, should be procured through proper means. The wealth that has been obtained, should be carefully preserved. The wealth that has been safeguarded, should be increased consistently. The wealth thus increased, should be placed in the right container, i.e., it has to be spent for the worthy people.
  2. तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता। एतानि तुसतां गेहे नोच्छिद्यन्ते कदाचन।
    [ तृणानि भूमिः उदकम् (एतानि त्रीणि, अपि) च चतुर्थी सूनृता वाक्, एतानि तु सतां गेहे कदाचन न उच्छिद्यन्ते |]
    At any point of time, in the house of good men these four will not cease to exist (i.e., these four will always be available).  They are the mat made of grass (for the guest to sit), the ground (for the guest to lie down), water (and some food for the guest to drink and eat), and good pleasing words (to make the guest feel very comfortable).
  1. गिरिर्महान्गिरेरब्धिर्महानब्धेर्नभो महत् | नभसोऽपि महद्ब्रह्मा ततोप्याशा गरीयसी |
    [ गिरिः महान् | गिरेः अब्धिः (महान्) | अब्धेः नभः महत् | नभसः अपि महत् ब्रह्मा | ततः अपि गरीयसी आशा | ]
    The mountain is huge. The ocean is more immense than the mountain. The sky is vaster than the ocean. The Brahma is more enormous than the sky. The desire is greater than Brahma.
  1. चलन्तिगिरयः कामं युगान्तपवनाहताः | कृच्छ्रेऽपि न चलत्येव धीराणं निश्चलं मनः ||
    [ युगान्तपवनाहताः गिरयः कामं चलन्ति | (किन्तु) धीराणं निश्चलं मनः कृच्छ्रे अपि न चलत्येव |  ]
    Even the mountains will definitely tremble, when they are stuck (आहत) by the strong wind (पवन) blowing at the end (अन्त) of the Yuga (युग). But even in utter distress, the firm minds of the strong men will not oscillate. (They will never lose their integrity).
  2. आहारार्थं कर्म कुर्यादनिन्द्यं कुर्यादाहारं प्राणसन्धारणार्थम्
    प्राणाः सन्धार्याः तत्त्वविज्ञानहेतोस्तत्त्वं विज्ञेयं येन भूयो न जन्म
    [ आहारार्थम् अनिन्द्यं कर्म कुर्यात् | प्राणसन्धारणार्थम् आहारं कुर्यात् | तत्त्वविज्ञानहेतोः प्राणाः सन्धार्याः | येन जन्म भूयः न (भवति) (तथा) तत्त्वं विज्ञेयम् | ]
    For the sake of eating (i.e., for a livelihood), let the work that is not forbidden be taken up. For the sake of sustaining the vital energy of life, let food be consumed. The life should be sustained for the sake of learning the knowledge of the Tattva. This knowledge should be realized in such a way that one will cease to have further births and attain moksha.
  1. सर्पाः पिबन्तिपवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजा बलिनो भवन्ति ।
    कन्दैः फलैर्मुनिवरा क्षपयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥
    [ सर्पाः पवनं पिबन्ति (तथापि) ते न दुर्बलाः | च शुष्कैः तृणैः वनगजाः बलिनः भवन्ति । कन्दैः फलैः मुनिवराः कालं क्षपयन्ति | पुरुषस्य सन्तोषः एव परं निधानम् | ]
    The snakes drink (i.e., live by consuming) only air. Yet they are not weak. The forest elephants survive only on the dried grass and yet they are valorous. The great sages exhaust their time by eating tubers and fruits. A person’s happiness is the ultimate treasure. (Irrespective of what one gets, the individual’s happiness only matters).
  2. पापान्निवारयतियोजयते हिताय गुह्यं च गूहति गुणान् प्रकटीकरोति ।
    आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः ॥

    [ इदं सन्मित्रलक्षणम् – पापात् निवारयति, हिताय योजयते, गुह्यं गूहति च, गुणान् प्रकटीकरोति, आपद्गतं न जहाति च, काले ददाति – (इति) सन्तः प्रवदन्ति | ]
    The characteristics of a good friend — One who prevents the friend from committing any wrong deed, binds the friend to beneficial activities, maintains the secrecy, brings to light the good qualities of the friend, does not abandon when the friend is facing any danger, gives timely help and advice. So say the wise men.
  3. दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रीतिस्साधुजने नयो नृपजने विद्वज्जने चार्जवं |
    शौर्यं शत्रुजने क्षमा गुरुजने
    नारीजने पूज्यता ये चैवंपुरुषाः कलासु कुशलाः तेष्वेव लोकस्थितिः||
    [ स्वजने दाक्षिण्यं, परिजने दया, दुर्जने सदा शाठ्यं, साधुजने प्रीतिः, नृपजने नयः, विद्वज्जने आर्जवं च, शत्रुजने शौर्यं, गुरुजने क्षमा, नारीजने पूज्यता, एवं ये च पुरुषाः कलासु कुशलाः लोकस्थितिः तेषु एव (स्थिता) | ]
    One should be kind towards one’s own people. One should have compassion towards the servants. One should show severity towards wicked people. One should show affection towards the noble people, diplomacy towards the ruling officials or the king’s men, eagerness (to acquire more wisdom) when meeting knowledgeable people. Courage should be demonstrated before the enemies. Forbearance should be shown towards the teachers. Respect should be demonstrated towards the ladies.  The state of the world depends only on such men who are well versed in the arts and demonstrate the above qualities.
  4. विद्या नामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
    विद्या बन्धुजनो विदेशगमने विद्या प
    रा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥
    [ विद्या नाम नरस्य अधिकं रूपम्, प्रच्छन्नगुप्तं धनम्, विद्या भोगकरी, यशः सुखकरी, विद्या गुरूणां गुरुः, विदेशगमने विद्या बन्धुजनः, विद्या परा देवता, राजसु विद्या पूज्यते, धनं तु हि, (अतः) विद्याविहीनः पशुः (इव विद्यते) | ]
    Vidya or Knowledge refers to the enhanced beauty of men. It is the secret treasure of men. It causes enjoyment. It gives fame and comforts. It is the teacher of all teachers. It is the relative when you go abroad. It is the supreme god. It is respected even by the kings and wealth does not get that respect. So, the one without knowledge is considered as an animal.
  5. शक्योवारयितुं जलेनहुतभुक् छत्रेण सूर्यातपो नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ ।
    व्याधिर्भेषजसंग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥

    [ हुतभुक् जलेन वारयितुं शक्यः, सूर्यातपः छत्रेण, समदः नागेन्द्रः निशिताङ्कुशेन, गोगर्दभौ दण्डेन, व्याधिः भेषजसंग्रहैः च, विषं विविधैः मन्त्रप्रयोगैः, सर्वस्य शास्त्रविहितम् औषधम् अस्ति, मूर्खस्य औषधं न अस्ति | ]
    It is possible to put out the fire with water. The sun’s heat can be dodged by using an umbrella.  The intoxicated elephant can be controlled by the sharp (निशित) hook (अङ्कुश). Cattle and donkeys are tamed by the stick. The diseases are avoided by the collection of medicines. The poison can be taken out by the various chants (mantras). There are remedies prescribed in the scriptures for all problems. But there is no drug to cure the stupidity of an idiot.

References:

 

Advertisements

Sarva-deva-kruta-lakshmi-stotram

सर्वदेवकृतलक्ष्मीस्तोत्रम्
Sarva-deva-kruta-lakshmi-stotram

क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे।
शुद्धसत्वस्वरूपेच कोपादिपरिवर्जिते॥

क्षमस्व भगवति अम्ब क्षमा+शीले परात्+परे शुद्ध+सत्व+स्वरूपे च कोप+आदि+परि+वर्जिते

  • हे भगवति [ प्रथमाविभक्तौ भगवती ]
  • हे अम्ब [ प्रथमाविभक्तौ अम्बा ]
  • हे क्षमाशीले [ प्रथमाविभक्तौ क्षमाशीला ]
  • हे परात्परे
  • (त्वम् अस्मान्) क्षमस्व
  • हे शुद्धसत्वस्वरूपे
  • हे कोपादिपरिवर्जिते

उपमे सर्वसाध्वीनां देवीनां देवपूजिते।
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्॥

उपमे सर्व+साध्वीनाम् देवीनाम् देव+पूजिते त्वया विना जगत्+सर्वम् मृत+तुल्यम् च निष्फलम्

  • हे उपमे
    • कासां उपमा ? देवीनाम्
      • कीदृशीनां देवीनाम् ? सर्वसाध्वीनाम् [ साध्वी = साधुशीला ]
    • हे देवपूजिते
    • मृततुल्यम् अस्ति
      • किं मृततुल्यम् अस्ति ? जगत्सर्वम्
      • कया विना मृततुल्यम् अस्ति ? त्वया विना
      • पुनः कथं च भवति ? निष्फलम् च

सर्वसम्पत्स्वरूपात्वं सर्वेषां सर्वरूपिणी।
रासेश्वर्यधिदेवीत्वं त्वत्कलाः सर्वयोषितः॥

सर्व+सम्पत्+स्वरूपा त्वम् सर्वेषाम् सर्व+रूपिणी रास+ईश्वरि अधि+देवीत्वम् त्वत्कलाः सर्वयोषितः

  • त्वम् (असि)
    • त्वं कीदृशा असि ? सर्वसम्पत्स्वरूपा
    • पुनः त्वं कीदृशा असि ? सर्वरूपिणी
      • केषां सर्वरूपिणी ? सर्वेषाम्
    • पुनः त्वं का असि ? रासेश्वरी
    • पुनः त्वं का असि ? अधिदेवी
  • त्वत्कलाः (सन्ति)
    • कथंभूताः त्वत्कलाः ? सर्वयोषितः [ योषिता = महिला ]

कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका।
स्वर्गेच स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले॥

कैलासे पार्वती त्वम् च क्षीरोधे सिन्धु+कन्यका स्वर्गे च स्वर्गलक्ष्मीः त्वम् मर्त्य+लक्ष्मीः च भूतले

पाठभेदः – कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धुकन्यका । महालक्ष्मीश्च स्वर्गेत्वं  मर्त्यलक्ष्मीश्च भूतले॥

  • त्वम् असि
    • त्वं का असि ? पार्वती
      • कुत्र ? कैलासे
    • पुनः त्वं का असि ? सिन्धुकन्यका
      • कुत्र ? क्षीरोधे
    • पुनः त्वं का असि ? स्वर्गलक्ष्मीः / महालक्ष्मीः
      • कुत्र ? स्वर्गे
    • पुनः त्वं का असि ? मर्त्यलक्ष्मीः
      • कुत्र ? भूतले

वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती।
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्मलोकतः॥

वैकुण्ठे च महालक्ष्मीः देव+देवी सरस्वती गङ्गा च तुलसी त्वम् च सावित्री ब्रह्म+लोकतः

  • त्वम् असि
    • त्वं का असि ? महालक्ष्मीः
      • कुत्र ? वैकुण्ठे
    • पुनः त्वं का असि ? सरस्वती
      • कीदृशी सरस्वती ? देवदेवी
    • पुनश्च त्वं का असि ? गङ्गा
    • पुनश्च त्वं का असि ? तुलसी
    • पुनश्च त्वं का असि ? सावित्री
      • कुतः / कुत्र ? ब्रह्मलोकतः

कृष्णप्राणाधिदेवीत्वं गोलोके राधिका स्वयम्।
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने॥

कृष्ण+प्राण+अधि+देवी त्वम् गो+लोके राधिका स्वयम् रासे रास+ईश्वरी त्वम् च बृन्दा बृन्दावने वने

  • त्वम् असि
    • त्वं का असि ? कृष्णप्राणाधिदेवी
    • पुनः त्वं स्वयं का असि ? स्वयं राधिका
      • कुत्र राधिका असि ? गोलोके
    • पुनः त्वं का असि ? रासेश्वरी
      • कुत्र रासेश्वरी असि ? रासे
    • पुनः त्वं का असि ? बृन्दा
      • कुत्र बृन्दा असि ? वने
        • कस्मिन् वने ? बृन्दावने

कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने।
विरजा चम्पकवने शतशृङ्गेच सुन्दरी॥

कृष्ण+प्रिया त्वम् भाण्डीरे चन्द्रा चन्दन+कानने विरजा चम्पक+वने शत+शृङ्गे च सुन्दरी

  • त्वम् असि
    • त्वं का असि ? कृष्णप्रिया
      • कुत्र ? भाण्डीरे
    • पुनः त्वं का असि ? चन्द्रा
      • कुत्र ? चन्दनकानने
    • पुनः त्वं का असि ? विरजा
      • कुत्र ? चम्पकवने
    • पुनः त्वं का असि ? सुन्दरी
      • कुत्र ? शतशृङ्गे

पद्मावती पद्मवने मालती मालतीवने।
कुन्ददन्ती कुन्दवने सुशीला केतकीवने॥

पद्मावती पद्म+वने मालती मालती+वने कुन्द+दन्ती कुन्दवने सुशीला केतकी+वने॥

  • त्वम् असि
    • त्वं का असि ? पद्मावती
      • कुत्र ? पद्मवने
    • पुनः त्वं का असि ? मालती
      • कुत्र ? मालतीवने
    • पुनः त्वं का असि ? कुन्ददन्ती
      • कुत्र ? कुन्दवने
    • पुनः त्वं का असि ? सुशीला
      • कुत्र ? केतकीवने [தாழம்பூ]

कदम्बमाला त्वं देवी कदम्बकाननेपिच।
राजलक्ष्मीः राजगेहे गृहलक्ष्मीर्गृहे गृहे॥

कदम्ब+माला त्वम् देवी कदम्ब+कानने अपि च राजलक्ष्मीः राज+गेहे गृहलक्ष्मीः गृहे गृहे

  • त्वम् असि
    • त्वं का असि ? देवी
    • पुनः त्वं का असि ? कदम्बमाला
      • कुत्र ? कदम्बकानने
    • पुनः त्वं का असि ? राजलक्ष्मीः
      • कुत्र ? राजगेहे
    • पुनः त्वं का असि ? गृहलक्ष्मीः
      • कुत्र ? गृहे गृहे (प्रतिगृहे)

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा।
रूरूदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः॥१०

इति उक्त्वा देवताः सर्वाः मुनयः मनवः तथा रूरूदुः नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः

  • रूरूदुः
    • के रूरूदुः ? सर्वाः
      • के सर्वाः ? देवताः
        • पुनः के सर्वाः ? मुनयः
        • पुनः के सर्वाः ? मनवः
      • कथंभूताः सर्वाः ? नम्रवदनाः
        • पुनः कथंभूताः सर्वाः ? शुष्ककण्ठोष्ठतालुकाः
      • किं कृत्वा रुरुदुः ? उक्त्वा
        • किम् उक्त्वा ? .. इति

इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्॥११

इति लक्ष्मी+स्तवम् पुण्यम् सर्वदेवैः कृतम् शुभम् यः पठेत् प्रातः उत्थाय सः वै सर्वम् लभेत् ध्रुवम्

  • यः वाक्यांशः
    • पठेत्
      • किं पठेत् ? .. इति लक्ष्मीस्तवम्
        • कीदृशं लक्ष्मीस्तवम् ? पुण्यम्
        • पुनः कीदृशं लक्ष्मीस्तवम् ? कृतम्
          • कथं कृतम् ? शुभम्
          • कैः कृतम् ? सर्वदेवैः
        • कः पठेत् ? यः
        • किं कृत्वा पठेत् ? उत्थाय
          • कदा उत्थाय ? प्रातः
        • सः वाक्यांशः
          • लभेत् वै [ वै = हि ]
            • कथं लभेत् ? ध्रुवम्
            • कः लभेत् ? सः
            • किं लभेत् ? सर्वम्

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्।
सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥१२

पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम्।
अभार्यः लभते भार्याम् विनीताम् सुसुताम् सतीम् सुशीलाम् सुन्दरीम् रम्याम् अति+सु+प्रिय+वादिनीम् पुत्र+पौत्र+वतीम् शुद्धाम् कुलजाम् कोमलाम् वराम्

  • लभते
    • कः लभते ? अभार्यः
      • किं लभते ? भार्याम्
        • कीदृशीं भार्याम् ? विनीताम्
        • पुनः कीदृशीं भार्याम् ? सुसुताम्
        • पुनः कीदृशीं भार्याम् ? सतीम्
        • पुनः कीदृशीं भार्याम् ? सुशीलाम्
        • पुनः कीदृशीं भार्याम् ? सुन्दरीम्
        • पुनः कीदृशीं भार्याम् ? रम्याम्
        • पुनः कीदृशीं भार्याम् ? अतिसुप्रियवादिनीम्
        • पुनः कीदृशीं भार्याम् ? पुत्रपौत्रवतीम्
        • पुनः कीदृशीं भार्याम् ? शुद्धाम्
        • पुनः कीदृशीं भार्याम् ? कुलजाम्
        • पुनः कीदृशीं भार्याम् ? कोमलाम्
        • पुनः कीदृशीं भार्याम् ? वराम्

अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्॥१३

परमैश्वर्ययुक्तञ्च विद्यावन्तं यशस्विनम्।
भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभेते श्रियम्॥१४

अपुत्रः लभते पुत्रम् वैष्णवम् चिरजीविनम् परम्+ऐश्वर्य+युक्तम् च विद्या+वन्तम् यशस्विनम् भ्रष्टराज्यः लभेत् राज्यम् भ्रष्टश्रीः लभेते श्रियम्

  • लभते
    • कः लभते ? अपुत्रः
    • कं लभते ? पुत्रम्
      • कीदृशं पुत्रम् ? वैष्णवम्
      • पुनः कीदृशं पुत्रम् ? चिरजीविनम्
      • पुनः कीदृशं पुत्रम् ? परमैश्वर्ययुक्तम्
      • पुनः कीदृशं पुत्रम् ? विद्यावन्तम्
      • पुनः कीदृशं पुत्रम् ? यशस्विनम्
    • लभते
      • कः लभते ? भ्रष्टराज्यः
      • किं लभते ? राज्यम्
    • लभते
      • कः लभते ? भ्रष्टश्रीः
      • किं लभते ? श्रियम्

हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत्।
कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्॥१५

हत+बन्धुः लभेत् बन्धुम् धनभ्रष्टः धनम् लभेत् कीर्ति+हीनः लभेत् किर्तिम् प्रतिष्ठाः च लभेत् ध्रुवम्

  • लभेत्
    • कः लभेत् ? हतबन्धुः
    • किं लभत् ? बन्धुम्
  • लभेत्
    • कः लभेत् ? धनभ्रष्टः
    • किं लभेत्? धनम्
  • लभेत्
    • कः लभेत् ? कीर्तिहीनः
    • किं लभेत् ? किर्तिम्
    • पुनः किं लभेत् ? प्रतिष्ठाः च [ प्रतिष्ठा = प्रसिद्धता ]
    • कथं लभेत् ? ध्रुवम्

सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम्।
हर्षानन्दकरं शाश्वद्धर्ममोक्षसुहृत्पदम्॥१६

सर्व+मङ्गलदम् स्तोत्रम् शोक+सन्ताप+नाशनम् हर्ष+आनन्द+करम् शाश्वत्+धर्म+मोक्ष+सुहृत्+पदम्॥

  • स्तोत्रम् (एतद् सर्वदेवकृतल्क्स्मीस्तोत्रम् अस्ति)
    • कीदृशम् अस्ति ? सर्वमङ्गलदम्
    • कीदृशम् अस्ति ? शोकसन्तापनाशनम्
    • कीदृशम् अस्ति ? हर्षानन्दकरम्
    • कीदृशम् अस्ति ? शाश्वद्धर्ममोक्षसुहृत्पदम्

॥ इति सर्वदेवकृतलक्ष्मीस्तोत्रं सम्पूर्णम् ॥

इति सर्व+देव+कृत+लक्ष्मी+स्तोत्रम् सम्पूर्णम्

References: