(Video) #32 – Kalidasa’s Raghuvamsham – 2nd Sarga – Smt. Vidhya – Shloka 40 – 41

स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान्दर्शितशिष्यभक्तिः ।
शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद्यशः शस्त्रभृतां क्षिणोति ।। २.४० ।।
इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य ।
प्रत्याहतास्त्रो गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार ।। २.४१ ।।

रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै

(Raghuvamsha Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh2/ This page contains the detailed notes of the shlokas covered in the sessions.

(Video) #23 – #31 – Kalidasa’s Raghuvamsham – 2nd Sarga – Smt. Vidhya – Shloka 32 – 39

बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णम् आगस्कृतम् अस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्रौषधिरुद्धवीर्यः ।। २.३२ ।।

मार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्
विस्माययन्विस्मित
मात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ।। २.३३ ।।

अलं महीपाल तव श्रमेण प्रयुक्तप्यस्त्रमितो वृथा स्यात्
न पादपोन्मूलनशक्ति रंहः शिलोच्चये मू
र्च्छति मारुतस्य ।। २.३४ ।।

कैलासगौरं वृअं आरुरुक्षोः पादार्पणानुग्रहपूतपृष्टं ।
अवेहि मां किंकरं अष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ।। २.३५ ।।

अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन ।
यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ।। २.३६ ।।

कण्डूयमानेन कटं कदाचिद्वन्यद्विपेनोन्मथिता त्वगस्य ।
अथैन
द्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः ।। २.३७ ।।

तदाप्रभृत्येव वनद्विपानां त्रासार्थम् अस्मिन्नहम् अदिकुक्षौ ।
व्यापारितः शूलभृता विधाय सिंहत्व
म् अङ्कागतसत्त्ववृत्ति ।। २.३८ ।।

तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण ।
उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ।। २.३९ ।।

रघुवंशमहाकाव्यम् – द्वितीयः सर्गः – श्रीमती. विद्या रमेशः – संस्कृतभारती, चेन्नै

(Raghuvamsha Maha Kavyam – Second Sarga – Online weekly classes being conducted by Smt. Vidhya Ramesh, Samskrita Bharati, Chennai).

https://nivedita2015.wordpress.com/sanskrit-sessions/video-kalidasas-raghuvamsham-second-sarga-vidhya-ramesh2/ This page contains the detailed notes of the shlokas covered in the sessions.

(Video) Naaraayaneeyam #8 – Narayana Namboodiri

नम्राणां सन्निधत्से सततमपि पुरस्तैरनभ्यर्थितान-
प्यर्थान्
कामानजस्रं वितरसि परमानन्दसान्द्रां गतिं च ।
इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम् ॥८॥

मेल्पत्तूर-नारायण-भट्टतिरि-महोदयस्य श्रीमन्नारायणीयम् – श्री. नारायणनम्बूदिरि, संस्कृतभारती, बेङ्गलुरु
(Melpathur Narayana Bhattathiri’s Sriman Naaraayaneeyam – First Dashakam explained by Sri Narayana Namboodiri, Samskrita Bharati, Bangalore).
https://nivedita2015.wordpress.com/sanskrit-sessions/srimannarayaneeyam/ This page will contain the detailed notes of all the shlokas (to be) covered in these sessions.

(Video) Naaraayaneeyam #7 – Narayana Namboodiri

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-
मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नोचेज्जीवाः कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥७॥