Chapter 12 – Bhagavad Gita (Video)

Bhagavad Gita – Chapter 12 – Bhakti Yoga – Sri Sriram Mahadevan –  Samskrita Bharathi Chennai – 25-12-2016  Gita Shibhiram

For all shlokas in chapter 12, we have here the Anvaya, taatparyam, padaparichaya, Sandhi, Samaasa and other grammatical aspects.

श्रीमद्भगवद्गीता – द्वादशोऽध्याय: – भक्तियोगः

अर्जुन उवाच –
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥

पदच्छेदः

एवं सततयुक्ताः ये भक्ताः त्वां पर्युपासते ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥

अन्वयः

ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अपि अक्षरम् अव्यक्तं (त्वां पर्युपासते), तेषां के योगवित्तमाः ?

पदपरिचय:

  • “ये” वाक्यांशः
    • क्रियापदम् = पर्युपासते [ परि + उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मपदम् =त्वाम् [ युष्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = भक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = ये [ द. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम् = सततयुक्ताः [ अ. पुं. प्र. बहु. ]
      • क्रियाविशेषणम् = एवम् [ अव्ययम् ]
    • “ये” वाक्यांशः
      • क्रियापदम् = (पर्युपासते)
      • कर्मपदम् = (त्वां)
      • कर्मविशेषणम् = अक्षरम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् = अव्यक्तम् [ अ. पुं. द्वि. एक. ]
      • कर्तृविशेषणम् = ये [ द. पुं. प्र. बहु. ]
      • संयोजकपदम् = च [ अव्ययम् ]
      • संयोजकपदम् = अपि [ अव्ययम् ]
    • “के” वाक्यांशः
      • कर्तृ-विशेषण-सूचक-वाक्यांशः
        • कर्तृपदम् = योगवित्तमाः [ अ. पुं. प्र. बहु. ]
        • सम्बन्ध-पदम् = तेषाम् [ तद् द. पुं. ष. बहु. ]
      • प्रश्नवाचक-कर्तृपदम् = के [ किम् म. पुं. प्र. बहु. ]

सन्धि:

  • सततयुक्ता ये= सततयुक्ताः ये – विसर्गस्य लोपः |
  • भक्तास्त्वाम् =  भक्ताः त्वाम्- विसर्गसन्धि: (सकार: ) |
  • चाप्यक्षरम्
    • चापि = च अपि– सवर्णदीर्घः |
    • अप्यक्षरम् = अपि अक्षरम्– यण् सन्धिः |

समास:

  • सततयुक्ताः= सततं युक्ताः – सुप्समासः |
  • अव्यक्तम् = न व्यक्तम – नञ्तत्पुरुष: ।

कृदन्त:

  • युक्ताः= युज् “युजिर् योगे” + क्त (कर्तरि), ते |
  • भक्ताः= भज् “भज सेवायाम्” + क्तः (कर्तरि), ते |

तद्धितान्त:

  • योगवित्तमाः= योगवित् + तमप्प्रत्ययः – अतिशयार्थे तमप्प्रत्ययः |

तात्पर्यम्

ये भक्ताः सर्वाणि कार्याणि समर्प्य नित्यसमाहिताः विश्वरूपं सर्वज्ञं त्वां सेवन्ते, ये पुनः अविनाशि अतीन्द्रियं निर्विशेषं तत्त्वं पर्युपासते तेषु उभयेषु के भक्ताः अतिशयेन योगविदः

श्रीभगवानुवाच –
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते । 
श्रद्धया परयोपेतास्ते मे युक्ततमा मताः ॥ २ ॥

पदच्छेदः

मयि आवेश्य मनः ये मां नित्ययुक्ताः उपासते श्रद्धया परया उपेताः ते मे युक्ततमाः मताः ॥ २ ॥

अन्वयः

ये मनः मयि आवेश्य नित्ययुक्ताः परया श्रद्धया उपेताः माम् उपासते ते मे युक्ततमाः मताः ।

पदपरिचय:

  • “ये” वाक्यांशः
    • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मपदम् = माम् [ अस्मद् द. त्रि. द्वि. एक. ]
    • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् =नित्ययुक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-वाक्यांशः
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= उपेताः [ अ. पुं. प्र. बहु. ]
      • (कर्मणि) कर्तृपदम् = श्रद्धया [ आ. स्त्री. तृ. एक. ]
      • (कर्मणि) कर्तृविशेषणम् = परया [ आ. स्त्री. तृ. एक. ]
    • ल्यबन्त-वाक्यांशः
      • ल्यबन्तपदम् = आवेश्य [ आ + विश् “विश प्रवेशने” + णिच् (प्रेरणार्थे) + ल्यप्, अव्ययम्, (प्रपु. लट्. प्र-उपसर्गपूर्वकपदम् = प्रविशति)]
      • णिजन्त-प्रयोज्यकर्ता-सूचक-कर्मपदम् = मनः [ स. नपुं. द्वि. एक. ]
      • णिजन्त-प्रयोजककर्ता-सूचक-कर्तृपदम् = (ये)
      • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • “ते” वाक्यांशः
      • कर्तृ-विशेषण-सूचक-वाक्यांशः
        • कर्तृपदम् = मताः [ अ. पुं. प्र. बहु. ]
        • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = युक्ततमाः [ अ. पुं. प्र. बहु. ]
      • कर्तृपदम् = ते [ युष्मद् द. त्रि. ष. एक. ]

सन्धि:

  • मय्यावेश्य = मयि आवेश्य – यण् सन्धिः |
  • मनो ये= मनः ये – विसर्गः उकारः, गुणः |
  • मां नित्ययुक्ताः= माम् नित्ययुक्ताः – अनुस्वारः |
  • नित्ययुक्ताउपासते = नित्ययुक्ताः उपासते – विसर्गस्य लोपः |
  • परयोपेताः= परया उपेताः – गुणः |
  • उपेतास्ते= उपेताः ते – विसर्गः सकार: |
  • युक्ततमा मताः = युक्ततमाःमताः – विसर्गस्य लोपः |

समास:

  • नित्ययुक्ताः= नित्यं युक्ताः, सुप्समासः |

कृदन्त:

  • युक्ताः= युज् “युजिर् योगे” + क्तः (कर्तरि), ते |
  • उपेताः=  उप + इ “इण् गतौ” + क्तः (कर्तरि), ते |

तद्धितान्त:

  • युक्ततमाः =  युक्त + तमप्प्रत्ययः – अतिशयार्थे तमप्प्रत्ययः |

तात्पर्यम्

ये जनाः चित्तं मयि निवेश्य सततसमाहिताः प्रकृष्टया श्रद्धया समन्विताः मां भजन्ते ते जनाः मम योगिश्रेष्ठाः मताः ।

ये त्वक्षरमनिर्देश्यमव्यक्तंपर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥

पदच्छेदः

ये तु अक्षरम् अनिर्देश्यम् अव्यक्तं पर्युपासते सर्वत्रगम् अचिन्त्यं च कूटस्थम् अचलं ध्रुवम् ॥ ३ ॥

सन्नियम्य इन्द्रियग्रामं सर्वत्र समबुद्धयः ते प्राप्नुवन्ति माम् एव सर्वभूतहिते रताः ॥ ४ ॥

अन्वयः

ये तु इन्द्रियग्रामं सन्नियम्य सर्वत्र समबुद्धयः सर्वभूतहिते रताः अनिर्देश्यम् अव्यक्तं सर्वत्रगम् अचिन्त्यं कूटस्थम् अचलं ध्रुवं च अक्षरम् पर्युपासते, ते माम् एव प्राप्नुवन्ति ।

पदपरिचय:

  • “ये” वाक्यांशः
    • क्रियापदम् = पर्युपासते [ परि + उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मपदम् = अक्षरम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = अनिर्देश्यम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = अव्यक्तम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = सर्वत्रगम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = अचिन्त्यम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = कूटस्थम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = अचलम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = ध्रुवम् [ अ. पुं. द्वि. एक. ]
    • संयोजकपदम् = च [ अव्ययम् ]
    • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
    • कर्तृ-विशेषण-वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम्= रताः [ अ. पुं. प्र. बहु. ]
      • विषयवाचकपदम् = सर्वभूतहिते [ अ. पुं. स. एक. ]
    • संयोजकपदम् = तु [ अव्ययम् ]
    • कर्तृ-विशेषण-वाक्यांशः
      • क्रिया-गर्भ-कर्तृपदम्= समबुद्धयः [ इ. पुं. प्र. बहु. ]
      • विषयवाचकपदम् = सर्वत्र [ अव्ययम् ]
    • ल्यबन्त-वाक्यांशः
      • ल्यबन्तपदम् = सन्नियम्य [ सम् + नि + यम् “यम उपरमे” + लयप् प्रत्यय: | अव्ययम् ]
      • कर्मपदम् = इन्द्रियग्रामम् [ अ. पुं. द्वि. एक. ]
    • “ते” वाक्यांशः
      • क्रियापदम् = प्राप्नुवन्ति [ प्र + आप् “आप्ऌ व्याप्तै” पर. लट्. प्रपु. बहु. ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक.]
      • कर्मविशेषण-सूचक-पदम् = एव [ अव्ययम् ]
      • कर्तृपदम् = ते [ तद् द. पुं. प्र. बहु. ]

सन्धि:

  • त्वक्षरम् = तु अक्षरम्– यण् सन्धिः |
  • सन्नियम्येन्द्रियग्रामम् = सन्नियम्य इन्द्रियग्रामम् – गुणः |

समास:

  • अनिर्देश्यम् = न निर्देश्यम् – नञ्तत्पुरुषः|
  • अचिन्त्यम् = न चिन्त्यम् – नञ्तत्पुरुषः|
  • अचलम् = न चलम् – नञ्तत्पुरुषः|
  • इन्द्रियग्रामम् = इन्द्रियाणां ग्रामः, तम् – षष्ठीतत्पुरुषः |
  • समबुद्धयः = समा बुद्धिः येषां ते – बहुव्रीहिः |
  • सर्वभूतहिते
    • सर्वभूतानि = सर्वाणि भूतानि  – कर्मधारयः |
    • सर्वभूतहिते= सर्वभूतानां हितं, तस्मिन् – षष्ठीतत्पुरुषः |

कृदन्त:

  • सन्नियम्य = सम् + नि + यम् “यम उपरमे” + लयप् प्रत्यय: |

निष्पत्तिः

  • सर्वत्र गच्छति इति सर्वत्रगम्  |
  • कूटे तिष्ठति इति कूटस्थम् |

तात्पर्यम्

ये पुरुषाः करणसमुदायं सन्नियम्य सर्वस्मिन् काले समानचित्ताः अनिर्वचनीयम् इन्द्रियाणाम् अगोचरं सर्वव्यापिनम् अप्रमेयं मायाध्यक्षम् अकम्प्यं स्थिरं च परमात्मानं सेवन्ते, सकलप्राणिहिते आसक्ताः ते जनाः माम् एव लभन्ते ।

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥ ५ ॥

पदच्छेदः

क्लेशः अधिकतरः तेषाम् अव्यक्तासक्तचेतसाम् अव्यक्ता हि गतिः दुःखं देहवद्भिः अवाप्यते ॥ ५ ॥

अन्वयः

अव्यक्तासक्तचेतसां तेषां क्लेशः अधिकतरः । देहवद्भिः हि अव्यक्ता गतिः दुःखम् अवाप्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अधिकतरः [ अ. पुं. प्र. एक. ]
    • वाक्यांशः
      • कर्तृपदम् = क्लेशः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = अव्यक्तासक्तचेतसाम् [ अ. पुं. ष. बहु. ]
      • सम्बन्ध-विशेषण-पदम् = तेषाम् [ तद् द. पुं. ष. बहु. ]
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रियापदम् = अवाप्यते [ अव + आप् “आपॢ व्याप्तौ” उभ. कर्मणि लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् =दुःखम् [ अव्ययम् / द्वि. ]
      • (कर्मणि) कर्मपदम् = गतिः [ इ. पुं. प्र. एक. ]
      • (कर्मणि) कर्मविशेषणम् = अव्यक्ता [ ऋ. पुं. प्र. एक. ]
      • (कर्मणि) कर्तृपदम् = देहवद्भिः [ त. पुं. तृ. बहु. ]
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = हि [ अव्ययम् ]

सन्धि:

  • क्लेशोऽधिकतरः = क्लेशः अधिकतरः– विसर्गः उकारः, गुणः, पूर्वरूपसन्धिः |
  • अधिकतरस्तेषाम् = अधिकतरः तेषाम्- विसर्गः सकार: |
  • गतिर्दुःखम् = गतिः दुःखम्– विसर्गः रेफः |
  • देहवद्भिरवाप्यते= देहवद्भिः अवाप्यते – विसर्गः रेफः |

समास:

  • अव्यक्तासक्तचेतसाम्
    • अव्यक्तम् = न व्यक्तम् – नञ्तत्पुरुषः |
    • अव्यक्तासक्तम् = अव्यक्ते आसक्तम् – सप्तमीतत्पुरुषः |
    • अव्यक्तासक्तचेतसाम्= अव्यक्तासक्तं चेतः येषां ते, तेषाम् – बहुव्रीहिः |

तद्धितान्त:

  • अधिकतरः = अतिशयेन अधिकः – द्वयोः अन्यस्मिन् अतिशये तरप् |
  • देहवद्भिः = देहः एषाम् एषु वा अस्तीति, तैः – मतुप्-प्रत्ययः |

तात्पर्यम्

निर्विशेषे ब्रह्मणि येषां मनः प्रवृत्तं तेषाम् अत्यन्तं क्लेशः सम्भवति । येषां देहे ममता वर्तते तेषाम् इदं निर्विशेषं ब्रह्म सर्वथा न प्राप्यते । (क्लेशेन लभ्यते) ।

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥ ७ ॥

पदच्छेदः

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन एव योगेन मां ध्यायन्तः उपासते ॥ ६ ॥

तेषाम् अहं समुद्धर्ता मृत्युसंसारसागरात् भवामि नचिरात् पार्थ मयि आवेशितचेतसाम् ॥ ७ ॥

अन्वयः

पार्थ ! ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन योगेन माम् एव ध्यायन्तः उपासते, अहं नचिरात् मयि आवेशितचेतसां तेषां मृत्युसंसारसागरात् समुद्धर्ता भवामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “ये” वाक्यांशः
      • क्रियापदम् = उपासते [ उप + आस् “आस उपवेशने” आत्म. लट्. प्रपु. बहु. | प्रपु. रूपाणि – आस्ते, आसाते, आसते ]
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= ध्यायन्तः [ त. पुं. प्र. बहु. ]
        • कर्मपदम् = माम् [ अस्मद् द. त्रि. द्वि. एक. ]
        • कर्मविशेषण-सूचक-पदम् = एव [ अव्ययम् ]
        • करणवाचकपदम् = योगेन [ अ. पुं. तृ. एक. ]
        • करणविशेषणम् = अनन्येन [ अ. पुं. तृ. एक. ]
      • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = मत्पराः [ अ. पुं. प्र. बहु. ]
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = सन्न्यस्य [ सम् + नि + अस् “अस भुवि” + ल्यप् प्रत्यय: | अव्ययम् ]
        • कर्मपदम् = कर्माणि [ अ. नपुं. द्वि. बहु. ]
        • कर्मविशेषणम् = सर्वाणि [ अ. नपुं. द्वि. बहु. ]
        • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
      • “तेषाम्” वाक्यांशः
        • क्रियापदम् = भवामि [ भू “भू सत्तायाम्” पर. लट्. उपु. एक. ]
        • क्रियाविशेषणम् = नचिरात् [ अव्ययम् ]
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • कर्तृपदम् = समुद्धर्ता [ ऋ. पुं. प्र. एक. ]
          • सम्बन्ध-पदम् = तेषाम् [ तद् द. पुं. ष. बहु. ]
          • सम्बन्ध-विशेषण-पदम् = आवेशितचेतसाम् [ स. पुं. ष. बहु. ]
          • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
          • अपादानपदम् = मृत्युसंसारसागरात् [ अ. पुं. प. एक. ]
        • कर्तृपदम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]

सन्धि:

  • अनन्येनैव = अनन्येन एव- गुणः |
  • मां ध्यायन्तः = माम्ध्यायन्तः – अनुस्वारसन्धिः |
  • ध्यायन्त उपासते = ध्यायन्तः उपासते – विसर्गस्य लोपः |
  • मय्यावेशितचेतसाम् = मयि आवेशितचेतसाम् – विसर्गः सकारः|

समास:

  • मत्पराः = अहं परः येषां ते – बहुव्रीहिः |
  • अनन्येन= न विद्यते अन्यः यस्मिन् सः, तेन – नञ्तत्पुरुषः |
  • मृत्युसंसारसागरात्
    • संसारसागरः = संसारः एव सागरः – कर्मधारयः |
    • मृत्युसंसारसागरात् = मृत्युयुक्तः संसारसागरः, तस्मात् – मध्यमपदलोपी तत्पुरुषः |
  • नचिरात् =न चिरात् – नञ्तत्पुरुषः |
  • आवेशितचेतसाम्= आवेशितं चेतः यैः ते, तेषाम् – बहुव्रीहिः |

कृदन्त:

  • सन्न्यस्य = सम् + नि + अस् “अस भुवि” + ल्यप् प्रत्यय: |
  • ध्यायन्तः = ध्यै “ध्यै चिन्तायाम्”+ शतृ प्रत्ययः ध्यायन्, ते |

तात्पर्यम्

पार्थ  ! ये जनाः तु सर्वाणि आचरणानि मयि वासुदेवे समर्प्य मन्मनसः अनन्येन समाधिना एव मां चिन्तयन्तः भजन्ते, मयि प्रवेशितचित्तानां तेषां जनानां मरणादियुक्तात् संसारसमुद्रात् अहं शीघ्रम् उद्धारकः भवामि ।

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥ ८ ॥

पदच्छेदः

मयि एव मनः आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अतः ऊर्ध्वं न संशयः ॥ ८ ॥

अन्वयः

मयि एव मनः आधत्स्व । मयि बुद्धिं निवेशय । अतः ऊर्ध्वं मयि एव निवसिष्यसि | न संशयः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आधत्स्व [ आ + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) लोट्. मपु. एक. ]
    • कर्मपदम् = मनः [ स. नपुं. प्र. एक. ]
    • कर्तृपदम् = (त्वम्)
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • अधिकरण-विशेषणम् = एव [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = निवेशय [ नि + विश् “विश प्रवेशने” पर. णिजन्त: लोट्. मपु. एक. ]
    • णिजन्त-प्रयोज्यकर्ता = बुद्धिम् [ इ. पुं. द्वि. एक. ]
    • णिजन्त-प्रयोजककर्ता = (त्वम्)
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = निवसिष्यसि [ नि + वस “वस निवासे” पर. लृट्. मपु. एक. | मपु. रूपाणि – वत्स्यसि, वत्स्यथः, वत्स्यथ | अत्र निवषिष्यसि इति इडागम: आर्ष: ]
    • कालवाचकपदम् = अतः ऊर्ध्वं [ अव्ययम् ]
    • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • अधिकरण-विशेषणम् = एव [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = संशयः [ अ. पुं. प्र. एक. ]

सन्धि:

  • मय्येव = मयि एव – यण् सन्धिः |
  • मन आधत्स्व = मनः आधत्स्व – विसर्गस्य लोपः |
  • बुद्धिं निवेशय = बुद्धिम्निवेशय – अनुस्वारसन्धिः |
  • अत ऊर्ध्वम्= अतः ऊर्ध्वम् – विसर्गस्य लोपः |

तात्पर्यम्

परमात्मनि मयि एव चित्तं स्थापय । मयि एव मतिं योजय । ततः परं मयि एव वसिष्यसि । अत्र सन्देहः न वर्तते ।

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥

पदच्छेदः

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥

अन्वयः

धनञ्जय ! अथ मयि चित्तं स्थिरं समाधातुं न शक्नोषि, ततः अभ्यासयोगेन माम् आप्तुम् इच्छ ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय [ अ. पुं. सम्बो. एक. ]
  • “अथ” वाक्यांशः
    • क्रियापदम् = शक्नोषि [ शक् “शकॢ शक्तौ” पर. लट्. मपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्म-वाक्यांश:
      • तुमुनन्तपदम् = समाधातुम् [ सम् + आ + धा “डुधाञ् धारणपोषणयोः” + तुमुन् | अव्ययम् ]
      • क्रियाविशेषणम् = स्थिरम् [ अव्ययम् ]
      • कर्मपदम् = चित्तम् [ अ. नपुं. द्वि. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • कर्तृपदम् = (त्वम्)
    • संयोजकपदम् = अथ [ अव्ययम् ]
  • “ततः” वाक्यांशः
    • क्रियापदम् = इच्छ [ इच्छ “इष इच्छायाम्” पर. लोट्. मपु. एक. ]
    • कर्म-वाक्यांश:
      • तुमुनन्तपदम् = आप्तुम् [ आप् “आपॢ व्याप्तौ” + तुमुन् | अव्ययम् ]
      • कर्मपदम् = माम् [अस्मद् द. त्रि. द्वि. एक.]
      • करणवाचकपदम् = अभ्यासयोगेन [ अ. पुं. तृ. एक. ]
    • संयोजकपदम् = ततः [ अव्ययम् ]
    • कर्तृपदम् = (त्वम्)

सन्धि:

  • ततो माम् = तत: माम् – विसर्गः उकारः, गुणः |
  • इच्छाप्तुम् = इच्छ आप्तुम् – सवर्णदीर्घः |

समास:

  • अभ्यासयोगेन = अभ्यासः एव योगः, तेन- अवधार्णपूर्वपदकर्मधारयः |

कृदन्त:

  • समाधातुम् =सम् + आ + धा “डुधाञ् धारणपोषणयोः” + तुमुन् |
  • आप्तुम् =आप् “आपॢ व्याप्तौ” + तुमुन् |

तात्पर्यम्

धनञ्जय ! यदि मयि चेतः निश्चलं स्थापयितुं न शक्नोषि तर्हि चित्तस्य पुनः पुनः स्थापनेन मां प्राप्तुं यतस्व ।

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥

पदच्छेदः

अभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥

अन्वयः

(यदि) अभ्यासे अपि असमर्थः असि (तर्हि) मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (यदि) वाक्यांशः
      • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
      • कर्तृ-विशेषण-सूचक-वाक्यांश:
        • कर्तृपदम् = असमर्थः [ अ. पुं. प्र. एक. ]
        • अधिकरणपदम् = अभ्यासे [ अ. पुं. स. एक. ]
        • अधिकरण-विशेषणम् = अपि [ अव्ययम् ]
      • कर्तृपदम् = (त्वम्)
      • संयोजकपदम् = (यदि)
    • (तर्हि) वाक्यांशः
      • क्रियापदम् = भव [ भू “भू सत्तायाम्” पर. लोट्. मपु. एक. ]
      • कर्तृविशेषणम् = मत्कर्मपरमः [ अ. पुं. प्र. एक. ]
      • कर्तृपदम् = (त्वम्)
      • संयोजकपदम् = (तर्हि)

सन्धि:

  • अभ्यासेऽप्यसमर्थोऽसि
    • अभ्यासेऽपि = अभ्यासे अपि – पूर्वरूपसन्धिः|
    • अप्यसमर्थः = अपि असमर्थः – यण् सन्धिः |
    • असमर्थोऽसि= असमर्थः असि – विसर्गः उकारः, गुणः, पूर्वरूपसन्धिः |
  • मत्कर्मपरमो भव = मत्कर्मपरमः भव – विसर्गः उकारः, गुणः|

समास:

  • असमर्थः= न समर्थः – नञ्तत्पुरुषः |
  • मत्कर्मपरमः
    • मत्कर्म= मम कर्म (अस्मत् + कर्म) – षष्ठीतत्पुरुषः |
    • मत्कर्मपरमः = मत्कर्मणि एव परमाणि यस्य सः – बहुव्रीहिः |
  • मदर्थम्= मह्यम् अर्थम् – नित्यसमासः, चतुर्थीतत्पुरुषः |

कृदन्त:

  • कुर्वन् = कृ “डुकृञ् करणे” + शतृ प्रत्ययः |

तात्पर्यम्

अभ्यासयोगे अपि अशक्तः भवसि चेत् सर्वदा मामुद्दिश्य कर्माणि आचर । मदर्थं कर्माणि आचरन् अपि चित्तशुद्धिं लप्स्यसे ।

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

पदच्छेदः

अथ एतत् अपि अशक्तः असि कर्तुं मद्योगम् आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अन्वयः

अथ एतत् अपि कर्तुम् अशक्तः असि, ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु ।

पदपरिचय:

  • “अथ” वाक्यांशः
    • क्रियापदम् = असि [ अस् “अस भुवि” पर. लट्. मपु. एक. ]
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अशक्तः [ अ. पुं. प्र. एक. ]
      • कर्म-वाक्यांश:
        • तुमुनन्तपदम् = कर्तुम् [ कृ “डुकृञ् करणे” + तुमुन् | अव्ययम् ]
        • कर्मपदम् = एतत् [ द. नपुं. द्वि. एक. ]
        • कर्मविशेषण-सूचक-पदम् = अपि [ अव्ययम् ]
      • कर्तृपदम् = (त्वम्)
      • संयोजकपदम् = अथ [ अव्ययम् ]
    • “ततः” वाक्यांशः
      • क्रियापदम् = कुरु [ कृ “डुकृञ् करणे” उभ. (अत्र पर.) लोट्. मपु. एक. ]
      • कर्मपदम् = सर्वकर्मफलत्यागम् [ अ. पुं. द्वि. एक. ]
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम् = आश्रितः [ अ. पुं. प्र. एक. ]
        • कर्मपदम् = मद्योगम् [ अ. पुं. द्वि. एक. ]
      • कर्तृविशेषणम् = यतात्मवान् [ त. पुं. प्र. एक. ]
      • कर्तृपदम् = (त्वम्)
      • संयोजकपदम् = ततः [ अव्ययम् ]

सन्धि:

  • अथैतदप्यशक्तोऽसि
    • अथैतत् = अथ एतत्- सवर्णदीर्घः |
    • एतदपि = एतत् अपि– जश्त्वः |
    • अप्यशक्तः= अपि अशक्तः – यण् सन्धिः |
    • अशक्तोऽसि= अशक्तः असि – विसर्गः उकारः, गुणः, पूर्वरूपसन्धिः |
  • कर्तुं मद्योगम्= कर्तुम् मद्योगम् – अनुस्वारः

समास:

  • अशक्तः = न शक्तः- नञ्तत्पुरुषः |
  • मद्योगम्= मयि योगः यस्य सः, तम् – बहुव्रीहिः |
  • यतात्मा = यतः आत्मा – कर्मधारयः|
  • सर्वकर्मफलत्यागम्
    • सर्वकर्माणि= सर्वम् च तत् कर्म च सर्वकर्म तानि – कर्मधारयः |
    • सर्वकर्मफलम्= सर्वकर्मणां फलम् – षष्ठीतत्पुरुषः |
    • सर्वकर्मफलत्यागम् = सर्वकर्मफलस्य त्यागः, तम् – षष्ठीतत्पुरुषः |

कृदन्त:

  • शक्तः = शक् “शकॢ शक्तौ” + क्त-प्रत्ययः |
  • कर्तुम् = “डुकृञ् करणे” + तुमुन्-प्रत्ययः |
  • योगः = युज् “युजिर् योगे” + घञ्-प्रत्ययः |
  • आश्रितः=  आङ् + श्रि “श्रिञ् सेवायाम्” + क्तः ।
  • त्यागः = त्यज् “त्यज हानौ” + घञ्-प्रत्ययः (भावे) ।

तद्धितान्त:

  • ततः= तद् + तसिल् प्रत्ययः | “पञ्चम्यास्तसिल् ।” ५ । ३ । ७ ।
  • यतात्मवान्= यतः (संयतः) आत्मा (चित्तम्) यतात्मा, अस्य अस्ति इति – (मतुप्-अर्थे) वतुप्-प्रत्ययः |

तात्पर्यम्

यदि विषयाकृष्टचित्तः उपवासव्रतानुष्ठानादीनि कर्माणि अपि आचरितुम् असमर्थः असि तर्हि नियतचित्तः सर्वेषां कर्मणां फलम् अविचारयन् मह्यं समर्पय ।

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥

पदच्छेदः

श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानं विशिष्यते ध्यानात् कर्मफलत्यागः त्यागात् शान्तिः अनन्तरम् ॥ १२ ॥

अन्वयः

अभ्यासात् हि ज्ञानं श्रेयः | ज्ञानात् ध्यानं विशिष्यते । ध्यानात् कर्मफलत्यागः (विशिष्यते) | त्यागात् अनन्तरं शान्तिः (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः [ स. पुं. प्र. एक. ]
    • कर्तृपदम् = ज्ञानम् [ अ. नपुं. प्र. एक. ]
    • अपादानपदम् = अभ्यासात् [ अ. पुं. प. एक. ]
    • अपादानविशेषणम् = हि [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रियापदम् = विशिष्यते [ वि + शिष् “शिष्ऌ विशेषणे” आ. लट्. प्रपु. एक. ]
    • कर्तृपदम् = ध्यानम् [ अ. नपुं. प्र. एक. ]
    • अपादानपदम् = ज्ञानात् [ अ. पुं. प. एक. ]
  • तृतीयवाक्यम्
    • क्रियापदम् = (विशिष्यते)
    • कर्तृपदम् = कर्मफलत्यागः [ अ. पुं. प्र. एक. ]
    • अपादानपदम् = ध्यानात् [ अ. पुं. प. एक. ]
  • चतुर्थवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् =अनन्तरम् [ अव्ययम् ]
    • कर्तृपदम् = शान्तिः [ इ. पुं. प्र. एक. ]
    • कारणवाचकपदम् = त्यागात् [ अ. पुं. प. एक. ]

सन्धि:

  • श्रेयो हि = श्रेयः हि– विसर्गः उकारः, गुणः |
  • अभ्यासाज्ज्ञानात्
  • अभ्यासाद्+ज्ञानात्= अभ्यासात् ज्ञानात् – जश्त्वसन्धिः |
    • अभ्यासाज्+ज्ञानात्= अभ्यासाद्+ज्ञानात् – श्चुत्वसन्धिः ।
    • Note: जश्त्वसन्धिः should be applied before श्चुत्वसन्धिः ।
  • ज्ञानाद् ध्यानम् = ज्ञानात्ध्यानम् – जश्त्वः |
  • ध्यानं विशिष्यते = ध्यानम्विशिष्यते – अनुस्वारः |
  • कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्
    • कर्मफलत्यागस्त्यागात् = कर्मफलत्यागः त्यागात् – विसर्गः सकार: |
    • त्यागाच्छान्तिः
      • त्यागाच्+शान्तिः = त्यागात् शान्तिः – श्चुत्वसन्धिः ।
      • त्यागाच्+छा+न्तिः= त्यागाच्+शान्तिः – छर्त्वसन्धिः |
    • शान्तिरनन्तरम्= शान्तिः अनन्तरम् – विसर्गः रेफः |

समास:

  • कर्मफलत्यागः
    • कर्मफलम् = कर्मणः फलम् – षष्ठीतत्पुरुषः |
    • कर्मफलत्यागः = कर्मफलस्य त्यागः – षष्ठीतत्पुरुषः |

कृदन्त:

  • ज्ञानम् = ज्ञा “ज्ञा अवबोधने” + ल्युट्-प्रत्ययः ।
  • ध्यानम् = ध्यै “ध्यै चिन्तायाम्”+ ल्युट्-प्रत्ययः (भावे) |

तात्पर्यम्

अभ्यासयोगात् विवेकः प्रशस्ततरः । विवेकात् चिन्तनं विशिष्यते । चिन्तनात् अपि कर्मप्रयोजन – परित्यागः विशिष्यते । त्यागात् बन्धनस्य संसारस्य नाशः भवति ।

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ॥ १४ ॥

पदच्छेदः

अद्वेष्टा सर्वभूतानां मैत्रः करुण: एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः यः मद्भक्तः स: मे प्रियः ॥ १४ ॥

अन्वयः

यः सर्वभूतानाम् अद्वेष्टा मैत्रः करुणः एव च निर्ममः निरहङ्कारः समदुःखसुखः क्षमी सततं सन्तुष्टः योगी यतात्मा दृढनिश्चयः मयि अर्पितमनोबुद्धिः, मद्भक्तः सः मे प्रियः ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = अद्वेष्टा [ ऋ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = सर्वभूतानाम् [ अ. पुं. ष. बहु. ]
    • कर्तृ-विशेषण-सूचक-पदम् = मैत्रः [ अ. पुं. प्र. एक. ]
    • वाक्यांशः
      • कर्तृपदम् = करुणः [ अ. पुं. प्र. एक. ]
      • कर्तृ-विशेषण-सूचक-पदम् = एव [ अव्ययम् ]
    • संयोजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = निर्ममः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = निरहङ्कारः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = समदुःखसुखः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = क्षमी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = सन्तुष्टः [ अ. पुं. प्र. एक. ]
      • क्रियाविशेषणम् = सततम् [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-पदम् = योगी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = यतात्मा [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = दृढनिश्चयः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम् = अर्पितमनोबुद्धिः [ इ. पुं. प्र. एक. ]
      • अधिकरणपदम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

सन्धि:

  • निर्ममो निरहङ्कारः = निर्ममः निरहङ्कारः – विसर्गः उकारः, गुणः |
  • मय्यर्पितमनोबुद्धिः = मयि अर्पितमनोबुद्धिः– यण् सन्धिः |
  • अर्पितमनोबुद्धिर्यः = अर्पितमनोबुद्धिः यः – विसर्गः रेफः |
  • यो मद्भक्तः = यःमद्भक्तः – विसर्गः उकारः, गुणः |
  • स मे = सः मे – विसर्गस्य लोपः |

समास:

  • अद्वेष्टा= न द्वेष्टा – नञ्तत्पुरुषः |
  • सर्वभूतानाम्= सर्वाणि च तानि भूतानि, तेषाम् – कर्मधारयः |
  • निर्ममः= निर्गतः ममः यस्मात् सः – बहुव्रीहिः |
  • निरहङ्कारः= निर्गतः अहङ्कारः यस्मात् सः – बहुव्रीहिः |
  • समदुःखसुखः
    • दुःखसुखे= दुःखं च सुखं च – कर्मधारयः |
    • समदुःखसुखः = समे दुःखसुखे यस्य सः – बहुव्रीहिः |
  • यतात्मा= यतः आत्मा यस्य सः – बहुव्रीहिः |
  • दृढनिश्चयः= दृढः निश्चयः यस्य सः – बहुव्रीहिः |
  • अर्पितमनोबुद्धिः
    • मनोबुद्धी= मनः च बुद्धिः च – द्वन्द्वः |
    • अर्पितमनोबुद्धिः= अर्पिते मनोबुद्धी येन सः – बहुव्रीहिः |
  • मद्भक्तः= मम भक्तः – षष्ठीतत्पुरुषः |

कृदन्त:

  • द्वेष्टा= द्विष् “दविष अप्रीतौ” + तृच्-प्रत्ययः |
  • क्षमी = क्षम्“क्षम सहने” + घिनुण्-प्रत्ययः ।
    • “शमीत्यष्टाभ्यो घिनुण्” । ३ । २ । १४१ ।
  • सन्तुष्टः = सम्+ तुष + क्त-प्रत्ययः |

तद्धितान्त:

  • योगी = योग + इनि (मतुबर्थे) । योगः यस्य यस्मिन वा अस्ति इति ।

तात्पर्यम्

यः सर्वजन्तुषु अवैरी, स्निग्धः, दयालुः, ममताशून्यः, अहङ्कारवर्जितः, क्लेशसन्तोषयोः समानः, तितिक्षुः, सदा सन्तृप्तः, समाहितचित्तः, नियतमनस्कः, निश्चलबुद्धिः, मयि निवेशितचित्तवृत्तिः, भक्तः सः पुरुषः मम इष्टः । (सङ्गल्पात्मकं मनः, अध्यवसायात्मिका बुद्धिः)

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥ १५ ॥

पदच्छेदः

यस्मात् न उद्विजते लोक: लोकान् न उद्विजते च यः हर्षामर्षभयोद्वेगैः मुक्तः यः स: च मे प्रियः ॥

अन्वयः

यस्मात् लोकः न उद्विजते, यः च लोकात् न उद्विजते, यः हर्षामर्षभयोद्वेगैः मुक्तः सः च मे प्रियः ।

पदपरिचय:

  • “यस्मात्” वाक्यांशः
    • क्रियापदम् = उद्विजते [ उत् + विजी “ओविजी भयचलनयोः” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = लोकः [ अ. पुं. प्र. एक. ]
    • अपादानपदम् = यस्मात् [ यद् द. पुं. प. एक. ]
  • “यः” वाक्यांशः
    • संयोजकपदम् = च [ अव्ययम् ]
    • क्रियापदम् = उद्विजते [ उत् + विजी “ओविजी भयचलनयोः” आत्. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
    • अपादानपदम् = लोकात् [ अ. पुं. प. एक. ]
  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = मुक्तः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) कर्तृपदम् = हर्षामर्षभयोद्वेगैः [ अ. पुं. तृ. बहु. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = मद्भक्तः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]
    • संयोजकपदम् = च [ अव्ययम् ]

सन्धि:

  • यस्मान्नोद्विजते
    • यस्मान्न= यस्मात् न – अनुनासिकः
    • नोद्विजते = न उद्विजते- गुणः |
  • लोको लोकान्– लोकः लोकान् – विसर्गः उकारः, गुणः |
  • हर्षामर्षभयोद्वेगैर्मुक्तो यः
    • हर्षामर्षभयोद्वेगैर्मुक्तः = हर्षामर्षभयोद्वेगैः मुक्तः– विसर्गः रेफः |
    • मुक्तो यः =मुक्तः यः – विसर्गः उकारः, गुणः |
  • स च = सः च – विसर्गस्य लोपः |

समास:

  • हर्षामर्षभयोद्वेगैः
    • अमर्षः= न मर्षः – नञ्तत्पुरुषः |
    • हर्षामर्षभयोद्वेगैः= हर्षः च अमर्षः च भयं च उद्वेगः च, तैः – द्वन्द्वः |

कृदन्त:

  • मुक्तः = मुच् “मुचॢ मोक्षणे” + क्त-प्रत्ययः (कर्मणि – सकर्मकः) |

तात्पर्यम्

यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूयात्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ॥ १६ ॥

पदच्छेदः

अनपेक्षः शुचिः दक्ष: उदासीनः गतव्यथः सर्वारम्भपरित्यागी यः मद्भक्तः स: मे प्रियः ॥ १६ ॥

अन्वयः

यः अनपेक्षः शुचिः दक्षः उदासीनः गतव्यथः सर्वारम्भपरित्यागी मद्भक्तः सः मे प्रियः ।

पदपरिचय:

  • “यः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अनपेक्षः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = शुचिः [ इ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = दक्षः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = उदासीनः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = गतव्यथः [ अ. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वारम्भपरित्यागी [ न. पुं. प्र. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

सन्धि:

  • शुचिर्दक्षः = शुचिः दक्षः – विसर्गः रेफः |
  • दक्ष उदासीनः =  दक्षः उदासीनः – विसर्गस्य लोपः |
  • उदासीनो गतव्यथः= उदासीनः गतव्यथः – विसर्गः उकारः, गुणः |
  • यो मद्भक्तः = यःमद्भक्तः – विसर्गः उकारः, गुणः |
  • स मे = सः मे – विसर्गस्य लोपः |

समास:

  • अनपेक्षः= अविद्यमानः अपेक्षः यस्य सः – (मध्यमलोपी) नञ्बहुव्रीहिः |
  • गतव्यथः = गता व्यथा यस्य सः – बहुव्रीहिः |
  • सर्वारम्भपरित्यागी
    • सर्वे ते आरम्भाः = सर्वारम्भाः- कर्मधारयः |
    • सर्वारम्भपरित्यागी= सर्वारम्भानां परित्यागी – षष्ठीतत्पुरुषः |
  • मद्भक्तः= मम भक्तः – षष्ठीतत्पुरुषः |

तात्पर्यम्

यः पुरुषः निःस्पृहः शुद्धः चतुरः तटस्थः अपगतभयः सर्वेषां कर्मणां फलं त्यजन् भगवद्भक्तः च वर्तते सः मम अभीष्टः ।

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ॥ १७ ॥

पदच्छेदः

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् यः स: मे प्रियः ॥ १७ ॥

अन्वयः

यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति शुभाशुभपरित्यागी भक्तिमान् सः च मे प्रियः ।

  • “यः” वाक्यांशः
    • क्रियापदम् = हृष्यति [ हृष् “हृष तुष्टौ” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = द्वेष्टि [ द्विष् “द्विष अप्रीतौ” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = शोचति [ शुच् “शुच शोके” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = काङ्क्षति [ काक्षि “काक्षि काङ्क्षायाम्” पर. लट्. प्रपु. एक. ]
    • क्रियाविशेषणम् = न [ अव्ययम् ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “यः” वाक्यांश:
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-पदम् = शुभाशुभपरित्यागी [ न. पुं. प्र. एक. ]
    • कर्तृ-विशेषण-पदम् = भक्तिमान् [ त. पुं. प्र. एक. ]
    • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
  • “सः” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • संयोजकपदम् = च [ अव्ययम् ]
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

सन्धि:

  • यो न = यः न – विसर्गः उकारः, गुणः |
  • स मे = सः मे – विसर्गस्य लोपः |

समास:

  • शुभाशुभपरित्यागी
    • अशुभम्= न शुभम् – नञ्तत्पुरुषः |
    • शुभाशुभे= शुभं च अशुभं च – द्वन्द्वः |
    • शुभाशुभपरित्यागी= शुभाशुभयोः परित्यागी – षष्ठीतत्पुरुषः |

तद्धितान्त:

  • भक्तिमान् = भक्तिः अस्य अस्मिन् वा अस्ति इति – मतुप्-प्रत्ययः |

तात्पर्यम्

यः इष्टप्राप्तौ न मोदते, अनिष्टप्राप्तौ द्वेषं न करोति, प्रियवियोगे दुःखं न अनुभवति, अप्राप्तं न अभिलषति, इष्टानिष्टकर्मत्यागी, भक्तियुक्तः सः मम प्रियः ।

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ॥ १९ ॥

पदच्छेदः

समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

तुल्यनिन्दास्तुतिः मौनी सन्तुष्टः येन केनचित् अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियः नरः ॥ १९ ॥

अन्वयः

शत्रौ च मित्रे च समः तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः तुल्यनिन्दास्तुतिः मौनी येन केनचित् सन्तुष्टः अनिकेतः स्थिरमतिः भक्तिमान् नरः मे प्रियः ।

पदपरिचय:

  • क्रियापदम् = (अस्ति)
  • कर्तृ-विशेषण-सूचक-वाक्यांश:
    • कर्तृपदम् = प्रियः [ अ. पुं. प्र. एक. ]
    • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • कर्तृपदम् = समः [ अ. पुं. प्र. एक. ]
    • अधिकरणपदम् = शत्रौ [ उ. पुं. स. एक. ]
    • अधिकरणपदम् = मित्रे [ अ. पुं. स. एक. ]
    • संयोजकपदम् = च [ अव्ययम् ]
  • कर्तृ-विशेषण-वाक्यांश:
    • कर्तृपदम् = समः [ अ. पुं. प्र. एक. ]
    • अधिकरणपदम् = मानापमानयोः [ अ. पुं. स. द्वि. ]
    • अधिकरणपदम् = शीतोष्णसुखदुःखेषु [ अ. पुं. स. बहु. ]
    • संयोजकपदम् = तथा [ अव्ययम् ]
  • कर्तृविशेषणम् = सङ्गविवर्जितः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = तुल्यनिन्दास्तुतिः [ इ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = मौनी [ न. पुं. प्र. एक. ]
  • कर्तृ-विशेषण-वाक्यांश:
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् =सन्तुष्टः [ अ. पुं. प्र. एक. ]
    • (कर्मणि) कर्तृपदम् = येन [यत् त. पुं. तृ. एक.]
    • (कर्मणि) कर्तृविशेषणम् = केनचित् [ अव्ययम् ]
  • कर्तृविशेषणम् =अनिकेतः [ अ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = स्थिरमतिः [ इ. पुं. प्र. एक. ]
  • कर्तृविशेषणम् = भक्तिमान् [ त. पुं. प्र. एक. ]
  • कर्तृपदम् = नरः [ अ. पुं. प्र. एक. ]

सन्धि:

  • तुल्यनिन्दास्तुतिर्मौनी =  तुल्यनिन्दास्तुतिः मौनी – विसर्गः रेफः |
  • सन्तुष्टो येन = सन्तुष्टःयेन – विसर्गः उकारः, गुणः |
  • स्थिरमतिर्भक्तिमान् = स्थिरमतिः भक्तिमान् – विसर्गः रेफः |
  • प्रियो नरः = प्रियःनरः – विसर्गः उकारः, गुणः |

समास:

  • मानापमानयोः= मानः च अपमानः च मानापमानौ, तयोः – द्वन्द्वः |
  • शीतोष्णसुखदुःखेषु
    • शीतोष्णे= शीतं च उष्णं च – द्वन्द्वः
    • सुखदुःखे= सुखं च दुःखम् च – द्वन्द्वः
    • शीतोष्णसुखदुःखेषु= शीतोष्णे च सुखदुःखे च शीतोष्णसुखदुःखानि, तेषु – द्वन्द्वः |
  • सङ्गविवर्जितः= संगेन विवर्जितः – तृतीयातत्पुरुषः |
  • तुल्यनिन्दास्तुतिः
    • निन्दास्तुती= निन्दा च स्तुतिः च – द्वन्द्वः |
    • तुल्यनिन्दास्तुतिः= तुल्ये निन्दास्तुती यस्य सः – बहुव्रीहिः |
  • अनिकेतः= अविद्यमानः निकेतः यस्य सः – (मध्यमलोपी) नञ्बहुव्रीहिः |
  • स्थिरमतिः= स्थिरा मतिः यस्य सः – षष्ठीतत्पुरुषः |

तात्पर्यम्

अरौ च मित्रे च समानः तथा पूजातिरस्कारयोः शीतोष्णयोः सुखदुःखयोश्च समानः, विषयासक्तिरहितः, दूषणश्लाघनयोः समानः, नियतवाक्, येन केनापि फलेन सन्तृप्तः, अनिवासः, निश्चलमनस्कः भक्तः मम इष्टः ।

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

पदच्छेदः

ये तु धर्म्यामृतम् इदं यथा उक्तं पर्युपासते श्रद्दधानाः मत्परमाः भक्ताः ते अतीव मे प्रियाः ॥ २० ॥

अन्वयः

ये तु भक्ताः श्रद्दधानाः मत्परमाः यथा उक्तम् इदं धर्म्यामृतं पर्युपासते ते मे अतीव प्रियाः ।

  • “ये” वाक्यांश:
    • क्रियापदम् = पर्युपासते [ परि + उप + आस् “आस उपवेशने” आ. लट्. प्रपु. एक. ]
    • कर्मविशेषण-वाक्यांश:
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= उक्तम् [ अ. नपुं. द्वि. एक. ]
      • क्रियाविशेषणम् = यथा [ अव्ययम् ]
    • कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
    • कर्मपदम् = धर्म्यामृतम् [ अ. नपुं. द्वि. एक. ]
    • कर्तृविशेषणम् = भक्ताः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = श्रद्दधानाः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = मत्परमाः [ अ. पुं. प्र. बहु. ]
    • कर्तृपदम् = ये [ यद् द. पुं. प्र. बहु. ]
  • “ते” वाक्यांशः
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= प्रियाः [ अ. पुं. प्र. बहु. ]
      • क्रियाविशेषणम् = अतीव [ अव्ययम् ]
      • सम्बन्ध-पदम् = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृपदम् = ते [ युष्मद् द. त्रि. ष. एक. ]

सन्धि:

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥

ये तु धर्म्यामृतम् इदं यथा उक्तं पर्युपासते श्रद्दधानाः मत्परमाः भक्ताः ते अतीव मे प्रियाः ॥ २० ॥

  • यथोक्तम् = यथा उक्तम् – गुणः |
  • श्रद्दधाना मत्परमाः = श्रद्दधानाः मत्परमाः – विसर्गस्य लोपः |
  • मत्परमा भक्ताः = मत्परमाः भक्ताः – विसर्गस्य लोपः |
  • भक्तास्ते= भक्ताः ते  – विसर्गः सकार:  |
  • तेऽतीव = ते अतीव – पूर्वरूपसन्धिः|

तात्पर्यम्

ये तु भक्तिमन्तः, विश्वासयुक्ताः, मन्निष्ठाः, यथाप्रतिपादितं धर्मयुक्तं सुधासमानम् इदं च आचरन्ति ते पुरुषाः मम अत्यन्तम् अभीष्टाः ।

कृदन्त:

  • श्रद्दधानाः=  श्रत् + धा “डुधाञ् धारणपोषणयोः” उभ. (अत्र आत्.) + शानच्-प्रत्ययः, ते | (i.e., श्रत् + द्धानाः) | (श्रत् is an indeclinable. Under upasarga saMjnaa sutra 1.4.59, there is a vaartika श्रच्छब्दस्य उपसङ्ख्यानम्। It is a prefix used with the root धा; as in श्रद्धा which means to confide, believe, put faith in.

References:

https://sa.wikipedia.org/s/6mz भक्तियोगः

Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]

Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]

Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]

Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]

https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used here.

https://nivedita2015.wordpress.com/2015/12/13/bhagavad-gita-chapter-12-part-1

https://nivedita2015.wordpress.com/2015/12/18/bhagavad-gita-chapter-12-part-2

this site

 

Advertisements