RaghuveeraGadyam

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam ;

Link to Playlist
session
https://www.youtube.com/playlist?list=PLTWf5ZhGT361doGc7fBYHyOjU681ADpP4

by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #1

 

Session #2 – Shloka Jayati

Raghuveeragadyam

by Srimad Vedaantadeshika

on the Life & Leela of Sri Raama

प्रस्तोत्री – श्रीमती  सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

  • जयत्याश्रित-सन्त्रास-ध्वान्त-विध्वंसनोदयः ।
    प्रभावान् सीतया देव्या परमव्योमभास्करः ॥
  • [अन्वयः] आश्रित-सन्त्रास-ध्वान्त-विद्वंसनोदयः प्रभावान् परमव्योमभास्करः सीतया देव्या जयति ।
  • [पदच्छेदः] जयति आश्रित-सन्त्रास-ध्वान्त-विद्वंसन-उदयः प्रभावान् सीतया देव्या परमव्योम-भास्करः ।

प्रतिपदार्थः

  • आश्रित-सन्त्रास-ध्वान्त-विद्वंसनोदयः = शरणागतानां बाधितजनानां तमः नाशयितुं समुत्पन्नः
  • प्रभावान् = प्रभा यस्य अस्तीति (मतुप्)
  • सीतया देव्या = स्वपत्न्या सीतया सह
  • परमव्योमभास्करः = परमपदस्य वैकुण्ठस्य सूर्यः इव
  • जयति = विराजते

[तात्पर्यम्] शरणागतानां बाधितानाम् अन्धकाररूपं तमः सूर्यः इव स्वतेजसा नाशनसमर्थः, तेजोवान्, स्वपत्न्या सीतया सह वैकुण्ठनाथः विराजते ।

विशेषः

  • मङ्गलशब्दः
  • जयति इति मङ्गलशब्देन आरम्भः

अलङ्कारः

  • उपमा – प्रभावान् सीतया देव्या परमव्योमभास्करः
  • सूर्यवंशे जातः रामः सूर्येण सह तुल्यः इति, सीता सूर्यस्य प्रभाशक्तेः तुल्या इति
  • शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।
    अनन्या राघवेणाहं भास्करेण प्रभा यथा ॥ वाल्मीकिरामायणम् 5.21.15 ॥
  • नेयमर्हति चैश्वर्यं रावणान्तःपुरे शुभा ।
    अनन्या हि मया सीता भास्करेण प्रभा यथा ॥ वाल्मीकिरामायणम् 6.118.19॥

षड्काण्डानि

  1. बालकाण्डम्
  2. अयोध्याकाण्डम्
  3. अरण्यकाण्डम्
  4. किष्किन्धाकाण्डम्
  5. सुन्दरकाण्डम्
  6. युद्धकाण्डम्

अग्रे बालकाण्डे

  1. रामावतारनिर्णयः
  2. विश्वामित्राज्ञया राक्षससंहारः
  3. अहल्याशापविमोचनम्
  4. शिवधनुर्भङ्गः
  5. परशुरामगर्वभङ्गः

Session #3 –

Session #4 –

  • देवासुर-समर-समय-समुदित-निखिल-निर्जर-निर्धारित-निरवधिक-माहात्म्य ।
  • [तात्पर्यम्] देवासुराणां समरसमये राक्षसैः उत्पीडिताः देवा सर्वे “एकः हरिरेव अस्मद्रक्षकः” इति यथा निर्णयं कुर्युः तादृश असीममहिमावान् ।
  •  
  • दशवदन-दमित-दैवत-परिषदभ्यर्थित-दाशरथिभाव ।
  • [तात्पर्यम्] दशवदनेन रावणेन पीडितदेवगणैः सम्प्रार्थितः दशरथपुत्रः ।
  •  
  • दिनकर-कुल-कमल-दिवाकर ।
  • [तात्पर्यम्] सूर्यवंशरूपकमलस्य उद्बोधने समर्थः भास्करः ।
  •  
  • दिविषदधिपति-रण-सहचरण-चतुर-दशरथ-चरम-ऋण-
    विमोचन ।
  • [तात्पर्यम्] युद्धेषु देवेन्द्रमपि सहकर्तुं समर्थस्य दशरथस्य पितॄणविमोचकः ।
  •  
  • कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।
  • [तात्पर्यम्] सर्वजगत्कारणस्य यस्य जन्मप्राप्त्यादि आविर्भावकारणम् अनपेक्षितं सः कौसल्यायाः पुत्ररूपेण जनिं प्राप्य तया रक्षितः (अथवा तस्याः पुत्रप्राप्तिरूपव्याजेन जगति समायातः)
  •  
  • कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।

विशेषः वाल्मीकिरामायणम् 2.1.8

स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः ॥

  • कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।

विशेषः वाल्मीकिरामायणम् 2.1.8 – गोविन्दराजस्य टीका

मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाश्छर्दनपूर्वकं कुत्सयन्तो योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सोऽस्मिन् मानुषे लोके जातः, हन्त किमिदं सौलभ्यमिति भावः ।

Session #8

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Shreemad Vedaantadeshika ;

on the Life & Leela of Shree Raama ;

प्रस्तोत्री – श्रीमती सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

#8 – Raama & Parashuraama

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav.
For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

Session #8

शतकोटि-शतगुण-कठिन-परशु-धर-मुनिवर-कर-धृत-दुरवनमतम-निज-धनुराकर्षण-प्रकाशित-पारमेष्ठ्य ।

क्रतुहर-शिखरि-कन्दुक-विहृत्युन्मुख-जगद्-अरुन्तुद-जित-हरि-दन्ति-दन्त-दन्तुर-दशवदन-दमन-कुशल-दशशत-भुज-नृपति-कुल-रुधिर-झर-भरित-पृथुतर-तटाक-तर्पित-पितृक-भृगुपति-सुगति-विहतिकर-नत-परुडिषु-परिघ ।

शतकोटि-शतगुण-कठिन-परशु-धर-मुनिवर-कर-धृत-दुरवनमतम-निज-धनुराकर्षण-प्रकाशित-पारमेष्ठ्य ।

[प्रतिपदार्थः]

शतकोटिः = शतं कोटयः मूलानि अग्राभागाः यस्य सः, महेन्द्रस्य वज्रायुधम् । शतगुण = शतेन अभिहत । कठिन = दृढतर, इन्द्रादीनामपि धर्तुमशक्यम् । परशुधरमुनिवरः = मुनिश्रेष्ठः परशुरामः, यः परशुं धरति । धृतदुरवनमतम = अवनन्तुमशक्य । निजधनुः = स्वस्य धनुः, वैष्णवधनुः । आकर्षण = ग्रहण । प्रकाशित = प्रकटीकृत । पारमेष्ठ्यः = परमोत्कृष्ठस्थाने वर्तते इति, परमेष्ठी, तस्य भावः, पारमेष्ठयम्, तद्यस्य वर्तते, सः ।

[तात्पर्यम्]

वज्रायुधादपि कठिनं परशुं धृतवान् यः मुनिवरः परशुरामः, अन्यैः स्पर्ष्टुमपि अशक्यं तस्य वैष्णवधनुः यदा श्रीरामः गृहीतवान्, तदा श्रीरामे परमात्मभावः लक्षितः । परमात्मभावेन भासमानः श्रीरामः ।

  • भगवतः अवताराः
    • सम्पूर्णावताराः = श्रीरामः श्रीकृष्णः
    • आवेशावताराः = परशुरामः बलरामः

क्रतुहर-शिखरि-कन्दुक-विहृत्युन्मुख-जगद्-अरुन्तुद-जित-हरि-दन्ति-दन्त-दन्तुर-…

[प्रतिपदार्थः]

क्रतुहरः = क्रतुं यज्ञं हरतीति रुद्रः । शिखरी = पर्वतः । कन्दुकः = कन्तुकः, गोलाकारः कश्चन क्रीडनकविशेषः । विहृतिः = क्रीडा । उन्मुख = उद्युक्त । जगत् = लोकः । अरुन्तुद = मर्मपीडाकर । जित = पराजित । हरिः = इन्द्रः । दन्तिदन्तः = गजस्य दन्तः । दन्तुर = निम्नोन्नत, असम । [ शिखरी = शिखरिन् शब्दः, पुल्लिङ्गः । हरिः = यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु इत्यमरः । ]

[तात्पर्यम्]

भगवतः शिवस्य आवासस्थानं कैलासमेव स्वक्रीडासामग्रीं कृत्वा क्रीडोन्मुखः, जगतां मर्मपीडाकरः, पराजितस्य महेन्द्रस्य गजस्य दन्तेन कृतनिम्नोन्मुखावयवः रावणः, …

… दशवदन-दमन-कुशल-दशशत-भुज-नृपति-कुल-रुधिर-झर-भरित-पृथुतर-तटाक-तर्पित-पितृक-भृगुपति- …

[प्रतिपदार्थः]

दशवदनः = रावणः । दमन-कुशलः = निर्बन्धने समर्थः । दशशत-बुजः = सहस्रबाहुः (१०*१००=१०००), कार्तवीर्यार्जुनः । नृपतिकुलम् = राजवंशः । रुधिरम् = रक्तम् । झरः = प्रवाहः । भरित = आपूर्ण । पृथुतर = अतिमहान्त । तटाकः = सरः (समन्तपञ्चकम् इति प्रसिद्धम्) । तर्पित = तोषित । पितृकाः = पितुः सम्बन्धिनः, पूर्वजाः । भृगुपतिः = भृगुवंशोत्पन्नः परशुरामः ।

[तात्पर्यम्]

… तं रावणमपि दमयितुं समर्थं कार्तवीर्यार्जुनं तत्कुलजनितानां राज्ञानां च वधं कृत्वा तेषां रक्तेन प्रकल्पित-विशाल-तटाकेषु स्वपितृणां तर्पणं कृतवान् भृगुपतिः यः परशुरामः …

… सुगति-विहतिकर-नत-परुडिषु-परिघ ।

[प्रतिपदार्थः]

सुगतिः = बहुपुण्यार्जितः दिव्यलोकः । विहतिकरः = प्रतिबन्धनं यः करोति । नत = निम्नगत । पुरुस् (अत्र पुरुष्) = ग्रन्थिः । इषुः = बाणः । परिघः = प्रतिरोधः ।

[इषुपरिघः = इषुः एव परिघः । परुः = परुस् शब्दः, नपुंसकलिङ्गः । प्रायः परुष् शब्दः अपि वर्तते । परुडिषुः = परुष्+इषुः, जश्त्वसन्धिः । ]

[तात्पर्यम्]… तादृशस्य परशुरामस्य तपसा साधितं फलं स्वबाणेन‌ निरुद्धवान् श्रीरामः । अर्थात् परशुरामस्य तेजः बाणेन निवारितः ।

Session #9

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Shreemad Vedaantadeshika ;

on the Life & Leela of Shree Raama ;

प्रस्तोत्री – श्रीमती सुजाता रमेशः

Presented by Smt. Sujatha Ramesh

#9 – Ayodhyaa Kandam 1

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav.
For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः॥

Session #9

षड्काण्डानि

  1. बालकाण्डम्
  2. अयोध्याकाण्डम्
  3. अरण्यकाण्डम्
  4. किष्किन्धाकाण्डम्
  5. सुन्दरकाण्डम्
  6. युद्धकाण्डम्

बालकाण्डे मुख्याः घट्टाः

  1. रामावतारनिर्णयः
  2. विश्वामित्राज्ञया राक्षससंहारः
  3. अहल्याशापविमोचनम्
  4. शिवधनुर्भङ्गः, सीतारामयोः विवाहः
  5. परशुरामगर्वभङ्गः

अयोध्याकाण्डे मुख्याः घट्टाः

  1. पितृवाक्परिपालनाय रामेण कृतवनप्रस्थानम्
  2. मार्गे निषादराजस्य आतिथ्यम्
  3. भरद्वाजाश्रमप्रवेशः
  4. भरतस्य चित्रकूटागमनं, तत्र रामस्य पादुकाभ्यां पट्टाभिषेकः
  5. काकासुरसंहारार्थं कृतब्रह्मास्त्रप्रयोगः, शरणागताय काकाय क्षमाभिक्षानुग्रहः
  • अनृत-भय-मुषित-हृदय-पितृवचन-पालन-प्रतिज्ञावज्ञात-यौवराज्य ।
  • निषाद-राज-सौहृद-सूचित-सौशील्य-सागर ।
  • भरद्वाज-शासनपरिगृहीत-विचित्र-चित्रकूट-गिरि-कटक-तट-रम्यावसथ।
  • अनन्य-शासनीय ।
  • प्रणत-भरत-मकुटतट-सुघटित-पादुकाग्र्याभिषेक-निर्वर्तित-सर्वलोक-योगक्षेम ।
  • पिशित-रुचि-विहित-दुरित-वल-मथन-तनय-बलिभुगनु-गति-सरभसशयन-तृण-शकल-परिपतन-भय-चरित-सकल-सुरमुनि-वर-बहुमत-महास्त्र-सामर्थ्य ।
  • द्रुहिण-हर-वल-मथन-दुरालक्ष्य-शर-लक्ष्य ।

अनृत-भय-मुषित-हृदय-पितृवचन-पालन-प्रतिज्ञावज्ञात-यौवराज्य ।

[प्रतिपदार्थः]

अनृतम् = मिथ्यावचनम् । भयः =  आतङ्कः । मुषित = अपहृत  । हृदय = चित्तयुक्त  । पितृवचनम् = दशरथस्य प्रतिश्रुतिः । पालन = रक्षण । प्रतिज्ञा = दीक्षा । अवज्ञात = तिरस्कृत । यौवराज्यः = युवकस्य भावः यौव्वनं, यौव्वने राज्यभारः यस्य ।

[तात्पर्यम्]

“मम प्रतिश्रुतवचनरक्षणार्थं रामस्य वनगमनमनिवार्यम् । यदि तथा न स्यात्तर्हि मम वचनम् असत्यं स्यात्” इति चित्तक्षोभितस्य पितुः दशरथस्य वाक् यथा मिथ्या न स्यात् तथा तस्यानुपालनेन यौवराज्यात् वञ्चितः रघुरामः ।

विशेषः वाल्मीकिरामायणम् 1.23.22
रामस्तु सीतया सार्धं विजहार बहूनृतून् ।
मनस्स्वी तद्गतस्तस्याः नित्यं हृदि समर्पित:॥

विशेषः वाल्मीकिरामायणम् 2.1.1
गच्छता मातुलकुलं भरतेन तदाऽनघः ।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥

विशेषः वाल्मीकिरामायणम् 2.1.45
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ।
प्राप्तकालेन स धर्मात्मा भक्त्या त्वरितवान् नृपः॥

विशेषः कालिदासस्य रघुवंशम्  – 12.2
तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति ।
कैकेयीशङ्कयीवाह पलितच्छद्मना जरा ॥

विशेषः वाल्मीकिरामायणम् 2.1.36
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ।
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥

विशेषः वाल्मीकिरामायणम् 2.2.17

वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥

विशेषः वाल्मीकिरामायणम् 2.2.22
इच्छामो हि महाबाहुं रघुवीरं महाबलम् ।
गजेन महताऽयान्तं रामं छत्रावृताननम् ॥विशेषः वाल्मीकिरामायणम् 2.2.25
कथं नु मयि धर्मेण पृथिवीमनुशासति ।
भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्॥

Session #10

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Shreemad Vedaantadeshika ;

#10 – Ayodhyaa Kandam 2

अनृत-भय-मुषित-हृदय-पितृवचन-पालन-प्रतिज्ञावज्ञात-यौवराज्य ।

विशेषः वाल्मीकिरामायणम् 2.4.12
राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः ।
अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः ॥

विशेषः वाल्मीकिरामायणम् 2.4.15
न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥

विशेषः वाल्मीकिरामायणम् 2.4.18
अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः ।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥

विशेषः वाल्मीकिरामायणम् 2.4.20
तद्यावदेव मे चेतो न विमुह्यति राघव ।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥

विशेषः वाल्मीकिरामायणम् 2.4.35
अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
भविता श्वोऽभिषेको मे यथा मे शासनं पितुः ॥

विशेषः वाल्मीकिरामायणम् 2.4.39
वत्स राम चिरं जीव हतास्ते परिपन्थिनः ।
ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥

विशेषः वाल्मीकिरामायणम् 2.7.1
ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता ।
प्रासादं चन्द्रसङ्काशम् आरुरोह यदृच्छया ॥

विशेषः भोजचम्पू अयोध्याकाण्डः  ९
यामेवाहुर्निशिचरकुलोन्मूलने मूलहेतुं
यस्याश्चित्तं प्रकृतिकुटिलं गात्रमित्रं बभूव ।
अम्भोजिन्याः शिशिरसरसं कासरीवाच्छमम्भः
कैकेय्याः सा हृदयमदयं मन्थरा निर्ममन्थ ॥

विशेषः कालिदासस्य रघुवंशम्  – 12.4
तस्याभिषेकसंभरं कल्पितं क्रूरनिश्चया ।
दूषयामास कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥

विशेषः कालिदासस्य रघुवंशम्  – 12.5
सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ ।
उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ
विशेषः – कालिदासस्य रघुवंशम्  – 12.6
तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः ।
द्वितीयेन सुतस्यैच्छद्-वैधव्यैकफलां श्रियम् ॥

Session #11

#11 – Ayodhyaa Kandam 3

निषाद-राज-सौहृद-सूचित-सौशील्य-सागर ।

[प्रतिपदार्थः] निषादराजः = निषादानां राजा, गुहः । सौहृदः = स्नेहविशेषः । सूचित = प्रकटीकृत । सौशील्यम् = नीचैः सह संश्लेषः इति गुणः । सागरः = सिन्धुः ।

जन्मना जायते शूद्रः संस्कारात्‌ भवेत् द्विजः ।
वेद पाठात्‌ भवेत्‌ विप्रः ब्रह्म जानातीति ब्राह्मणः ॥

[तात्पर्यम्] लोकव्यवहारेषु स्वस्यापेक्षया नीचान्, क्षुद्रान् वा सामान्यमनुष्या अपि उपेक्षन्ते । किन्तु पुरुषोत्तमः सर्वभूतेषु हितमेव पश्यन् सर्वान् आकर्षति । वनमार्गे गच्छन्तं रामं यदा वनवासिनां प्रभुः गुहः मिलति तदा सूर्यवंशप्रभवोपि सन् तमालिङ्ग्य कुशलं पृच्छति, तस्यैव गृहे उषित्वा अग्रे गच्छति इति सन्निवेशः ‘रघुरामः सौशील्यस्य सागर’ इति निरूपयितुमलम् । एवं गुहातिथ्यस्वीकारेण, तं प्रति स्नेहभावप्रकटनेन सौलभ्यगुण एव सागरायते (सागरवत् अनन्तः) यस्मिन् तादृशः श्रीरामः ।

भरद्वाज-शासन-परिगृहीत-विचित्र-चित्रकूट-गिरि-कटक-तट-रम्यावसथ ।

[प्रतिपदार्थः] भरद्वाजः = तन्नमको मुनिपुङ्गवः । शासनम् = आज्ञा। परिगृहीत = स्वीकृत । विचित्र-चित्र-कूट-गिरिः = आश्चर्यकरः चित्रकूट नाम शृङ्गानां पर्वत-समूहः । कटक-तट = सानुस्थलम् । रम्य = रमणीय । आवसथम् = निवासस्थानम् । आवसथः = तादृशं निवासस्थानं यस्य ।

[तात्पर्यम्] भरद्वाजस्य निर्देशनम् अभ्युपगम्य चित्रकूटाख्यं रमणीयपर्वतप्रदेशमेव स्ववासस्थानं कृतवान् यः, श्रीरामः । अनन्य-शासनीय । [प्रतिपदार्थः] अन्यैः शासितुं शक्यः, अन्यशासनीयः ।न अन्यशासनीयः, अनन्यशासनीयः । [तात्पर्यम्] अन्यैः शासितुं न शक्यः, श्रीरामः ।

प्रणत-भरत-मकुटतट-सुघटित-पादुकाग्र्याभिषेक-निर्वर्तित-सर्वलोक-योगक्षेम ।

विशेषः – वाल्मीकिरामायणम् – 2.57.21

सह रामेण निर्यातो विना राममिहागतः ।
सूतः किन्नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥

विशेषः – वाल्मीकिरामायणम् – 2.57.31

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥

विशेषः – वाल्मीकिरामायणम् – 2.59.3

गुहेन सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून् ।
आशया यदि मां रामः पुन:शब्दापयेदिति ॥

Session #12

विशेषः – वाल्मीकिरामायणम् – 2.58.11
किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमन्त्र वनम् आसाद्य किमुवाच च मैथिली ॥

विशेषः – वाल्मीकिरामायणम् – 2.58.34
जानकी तु महा राज निःश्वसन्ती तपस्विनी ।
भूत-उपहत चित्ता इव विष्ठिता वृष्मृता स्थिता॥

विशेषः – वाल्मीकिरामायणम् – 2.58.35
अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ।
तेन दुःखेन रुदती न एव माम् किंचितब्रवीत्॥

विशेषः – वाल्मीकिरामायणम् – 2.58.31
अहम् तावन् महाराजे पितृत्वम् न उपलक्षये।
भ्राता भर्ता च बन्धुः च पिता च मम राघवः॥

विशेषः – वाल्मीकिरामायणम् – 2.61.11
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यम् च कोशम् च भरतो नोपलक्षयते॥

विशेषः – वाल्मीकिरामायणम् – 2.61.15
एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते ।
भ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥

विशेषः – वाल्मीकिरामायणम् – 2.61.15
न परेणाऽहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ।
एवमेतन्नरव्याघ्रः परलीढं न मन्यते ॥
अनृत-भय-मुषित-हृदय-पितृवचन-पालन-प्रतिज्ञावज्ञात-यौवराज्य ।
विशेषः – भोजचम्पू – अयोध्याकाण्डः ५८
अहं वैश्यस्य शूद्रायां जाततस्मान्नसम्भवेत् ।
ब्रह्महत्येति मामुक्त्वा स्वर्गतो दुर्गतो मुनिः ॥

विशेषः – वाल्मीकिरामायणम् – 2.64.55
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् ।
एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥

विशेषः – वाल्मीकिरामायणम् – 2.63.6
यदाचरति कल्याणि शुभं वा यदि वाऽशुभम् ।
तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥

विशेषः – वाल्मीकिरामायणम् – 2.64.76
हा राघव महाबाहो हा ममाऽयासनाशन ।
हा पितृप्रिय मे नाथ हा ममासि गतः सुत ॥

विशेषः – वाल्मीकिरामायणम् – 2.64.77
हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।
हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥
अनृत-भय-मुषित-हृदय-पितृवचन-पालन-प्रतिज्ञावज्ञात-यौवराज्य ।
विशेषः – कालिदासस्य रघुवंशम् – 12.11
विप्रोषितकुमारं तद्राज्यमस्तमितेश्वरम् ।
रन्ध्रान्वेषणदक्षाणां द्विषामामिषततां ययौ ॥

विशेषः – वाल्मीकिरामायणम् – 2.68.7
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥

विशेषः – वाल्मीकिरामायणम् – 2.68.8
मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम् ।
भवन्तः शंसिषुर्गत्वा राघवाणामितः क्षयम् ॥

विशेषः – वाल्मीकिरामायणम् – 2.70.3
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः ।
त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥

विशेषः – वाल्मीकिरामायणम् – 2.70.7
कच्चित्सुकुशली राजा पिता दशरथो मम ।
कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ॥

विशेषः – वाल्मीकिरामायणम् – 2.70.8
आर्या च धर्मनिरता धर्मज्ञा धर्मवादिनी ।
अरोगा चापि कौसल्या माता रामस्य धीमतः॥

विशेषः – वाल्मीकिरामायणम् – 2.70.9
कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।
शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा॥

विशेषः – वाल्मीकिरामायणम् – 2.70.10
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी।
अरोगा चापि मे माता कैकेयी किमुवाच ह ॥

विशेषः – वाल्मीकिरामायणम् – 2.72.15
या गतिस्सर्वभूतानां तां गतिं ते पिता गतः ।
राजा महत्मा तेजस्वी यायजूकस्सतां गतिः ॥

विशेषः – वाल्मीकिरामायणम् – 2.72.49
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।
याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥

विशेषः – वाल्मीकिरामायणम् – 2.72.50
स स्ववृत्तिं समास्थाय पिता ते तत्तऽथाकरोत्।
रामश्च सह सौमित्रिः प्रेषितस्सह सीतया ॥

विशेषः – वाल्मीकिरामायणम् – 2.73.4
कुलस्य त्वमभावाय कालरात्रिरिवाऽगता ।
अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान् ॥

विशेषः – वाल्मीकिरामायणम् – 2.73.5
मृत्युमापादितो पिता त्वया मे पापदर्शिनि ।
सुखं परिहृतं मोहात्कुलेऽस्मिन्कुलपांसनि॥

विशेषः – वाल्मीकिरामायणम् – 2.79.10
अभिषेचनिकं चैव सर्वमेतदुपस्कृतम् ।
पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति ॥

विशेषः – वाल्मीकिरामायणम् – 2.79.11
तत्रैवं तं नरव्याघ्रमभिषिच्य पुरस्कृतम् ।
आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात् ॥

Session #13

#13 –Bharata meets Raama
भरतस्य चित्रकूटागमनम् – “प्रणत-भरत-…-योगक्षेम” ।

प्रणत-भरत-मकुटतट-सुघटित-पादुकाग्र्याभिषेक-निर्वर्तित-सर्वलोक-योगक्षेम ।

[प्रतिपदार्थः] प्रणत = वनाय प्रस्थितं रामम् अयोध्यां पुनरानयितुं तस्य चरणयोः पतित । भरतः = तन्नाम रामभ्रातः । मकुटतटः = किरीटस्थानम् । सुघटित = संयोजित । पादुकाग्र्याभिषेकः = स्वपादरक्षयोः राजाभिषेकः । निर्वर्तित = संपादित । सर्वलोकः = निखिलस्य जगत् । योगक्षेमः = लाभ-क्षेमाः विहिताः येन सः । [अलब्दस्य लाभो योगः । लब्दस्य परिपालनं क्षेमः ]

[तात्पर्यम्] वनाय प्रस्थितं रामम् अयोध्यां पनरानयितुं तस्य चरणयोः पतितस्य भरतस्य मकुटस्थाने स्वपादुके संस्थाप्य पादुकयोः पट्टाभिषेकं कारितवान् जगतः हितकारी श्रीरामः ।

विशेषः – वाल्मीकिरामायणम् – 2.104.6
स्त्रिया नियुक्तः कैकेय्या मम मात्रा परन्तप । चकार स महत्पापमिदम् आत्मयशोहरम् ॥
विशेषः – वाल्मीकिरामायणम् – 2.104.7
सा राज्यफलमप्राप्य विधवा शोककर्शिता । पतिष्यति महाघोरे निरये जननी मम ॥
विशेषः – वाल्मीकिरामायणम् – 2.104.12
एभिश्च सचिवैस्सार्धं शिरसा याचितो मया । भ्रातु शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥

विशेषः – वाल्मीकिरामायणम् – 2.104.23
त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ॥

विशेषः – वाल्मीकिरामायणम् – 2.104.24
एवं कृत्वा महाराजो विभागं लोकसन्निधौ । व्यादिश्य च महातेजा दिवं दशरथो गतः॥

विशेषः – वाल्मीकिरामायणम् – 2.105.4
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥

विशेषः – वाल्मीकिरामायणम् – 2.105.6
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः । अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥

विशेषः – वाल्मीकिरामायणम् – 2.105.13
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः।भरतस्य वचश्श्रुत्वा रामं प्रत्यनुयाचतः ॥

विशेषः – वाल्मीकिरामायणम् – 2.105.15, 16
नाऽत्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः। इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥
सर्वे क्षयान्ताः निचयाः पतनान्ता समुच्छ्रयाः। संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥

विशेषः – वाल्मीकिरामायणम् – 2.106.8, 13, 19, 23
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् । क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥
अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः। राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥
एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् । येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् । स कथं पालयिष्यामि भूमिं भवति तिष्ठति॥

विशेषः – वाल्मीकिरामायणम् – 2.107.3, 2.107.42
पुरा भ्रातः पिता न स्स मातरं ते समुद्वहन् । मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । स त्वयापि सदा मान्यं स वै बन्धु स नः पिता ॥

विशेषः – श्रीपादुकासहस्रम् – 107
रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते
राज्यापवादचकिते भरते तदानीम् ।
आश्वासयेत् क इव कोसलवासिनस्तान्
सीतेव चेत् त्वमपि साहसवृत्तिरासीः॥

विशेषः – श्रीपादुकासहस्रम् – 108
पादावनि प्रभवतो जगतां त्रयाणां
रामादपि त्वमधिका नियतं प्रभावात् ।
नो चेत् कथन्नु भरतस्य तमेव लिप्सोः
प्रत्यायनं परिपणं भवती भवित्री ॥

Session #14

#14 – Ayodhyaa Kandam 6 – Brahmaastra on Kaakaasura
भागः #14 । भरतस्य चित्रकूटागमनम् – “पिशित-रुचि-…-महास्त्र-सामर्थ्य । द्रुहिण-हर-…-शर-लक्ष्य ।” 

पिशित-रुचि-विहित-दुरित-वल-मथन-तनय-बलिभुगनुगति-सरभस-शयन-तृण-शकल-परिपतन-भय-चकित-सकल-सुर-मुनिवर-बहुमत-महास्त्र-सामर्थ्य ।

[प्रतिपदार्थः] पिशितम् = मांसम् । रुचिः = चापलम् । विहितम् = कृतम् । दुरितम् = पापम् । वल-मथन-तनयः = जयन्ताख्यः इन्द्रस्य पुत्रः । बलिभुक् = तर्पणादि बलिं भुङ्क्ते इति बलिभुक्, काकः । अनुगतिः = अनुसारणम् । सरभसम् = सवेगम् । शयनतृणशकलम् = शयनस्थाने ब्रह्मास्त्रेण अभिमन्त्रित-दर्भखण्डम् । परिपतनम् = परितः पतनम् । भयचकितम् = संत्रासजनित सम्भ्रमम् । सकलसुरमुनिवराः = निखिलाः सुरगणाः महर्षयः च । बहुमतम् = बहुमानितम् । महास्त्रसामर्थ्यः = ब्रह्मास्त्र-नैपुण्यं यस्य । पिशित-रुचि-विहित-दुरित-वल-मथन-तनय-बलिभुगनुगति-सरभस-शयन-तृण-शकल-परिपतन-भय-चकित-सकल-सुर-मुनिवर-बहुमत-महास्त्र-सामर्थ्य ।

[तात्पर्यम्] मांसचापलेन जगन्मातुः वक्षस्थले एव प्रहारं कृतवतः इन्द्रपुत्रस्य काकासुरस्य पृष्टतः शयनावस्थायामेव तृणखण्डेन कृतब्रह्मास्त्रप्रयोगात् संभ्रमितस्य काकस्य भयं, तत्कारणीभूतस्य रघुरामस्य अस्त्रसामर्थ्यं दृष्ट्वा ‘किमद्भुतमिदम्’ इति देवमुनिजनगणैः बहुमानितः श्रीरामः ।

द्रुहिण-हर-वल-मथन-दुरालक्ष्य-शर-लक्ष्य ।

[प्रतिपदार्थः] द्रुहिणः = विरोधिनिरसनः ब्रह्मा (दृह जिघांसायम्) । हरः = प्रलयकाले सर्वं हरतीति, शिवः । वलमथनः = वलम् असुरं मथ्नाति इति, इन्द्रः । दुरालक्ष्यम् = दुःखेनापि आलक्षितुम् अशक्यम् । शरः = बाणः । लक्ष्यः = शरण्यं यस्य सः ।

[तात्पर्यम्] समरेषु सर्वे ब्रह्म-रुद्र-इद्रादि देवाः अपि स्थातुं न शक्ताः तत्तादृश-लोकत्रयनायकः श्रीरामः ।

विशेषः वाल्मीकिरामायणम् – 5.38.39
मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।
कस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते ॥

विशेषः वाल्मीकिरामायणम् – 2.119.22
….

वनं सभार्यः प्रविवेश राघवः

सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥

Session #15

दण्डका-तपोवन-जङ्गम-पारिजात।

[प्रतिपदार्थः]

दण्डका-तपोवनम् = दण्डका नामतपोवनम् । जङ्गमः = सञ्चरणशीलः । पारिजातः = पारिजातः इति सुरद्रुमः ।

[तात्पर्यम्]

पारिजातवृक्षः देवलोके एकत्र तिष्ठति । पारिजातः इति सुरद्रुमः इव दैवत्वेन दण्डकारण्ये सञ्चरति, श्रीरामः ।

विराध-हरिण-शार्दूल ।

[प्रतिपदार्थः]

विराधः = विराधनामकः राक्षसः । हरिणः = मृगः । शार्दूलः = व्याघ्रः ।

[तात्पर्यम्]

विराधः इति राक्षसरूपमृगं प्रति संहर्तृरूपव्याघ्रः श्रीरामः ।

विलुलित-बहुफल-मख-कलम-रजनिचर-मृग-मृगयारम्भ-संभृत-चीरभृद्-अनुरोध ।

[प्रतिपदार्थः] विलुलितम् = नाशितम् । बहुफलः = बहूनि फलानि यस्य सः ।   मखः = यज्ञः । कलमः = वृक्षः । रजनिचर-मृगाः = राक्षसाः एव मृगाः । मृगया = आखेटनम् । आरम्भः = समारम्भः । संभृतम् = सम्पादितम् । चीर-भृत् = वल्कलं यः धरति, महर्षिः । अनुरोधः = प्रार्थना ।

[तात्पर्यम्]

दण्डकारण्यवासिनां वल्कलधारीणां महर्षीणां वाक्यं परिपालयन्, बहुफलप्रदायिनः यज्ञरूपद्रुमस्य नाशयितॄणां राक्षसरूपमृगाणां संहारस्य समारम्भं साधितवान् श्रीरामः ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – शूर्पणखापरिभवः

विशेषः वाल्मीकिरामायणम् 3.17.9

राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ।
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता ॥

विशेषः वाल्मीकिरामायणम् 3.17.1 0, 3.17.11, 3.17.12

सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥
प्रीतिरूपं विरूपा सा सुस्वरं भैरवस्वरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥
न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना । शरीरजसमाविष्टा राक्षसी वाक्यमब्रवीत् ॥

विशेषः वाल्मीकिरामायणम् 3.17.13, 3.17.15, 3.17.16

जटी तापसरूपेण सभार्यश्शरचापधृत् ।आगतस्त्वमिमं देशं कथं राक्षससेवितम् ॥

किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ।अनृतं न हि रामस्य कदाचिदपि सम्मतम् ॥

विशेषेणाऽश्रमस्थस्य समीपे स्त्रीजनस्य च । आसीद्धशरथो नाम राजा त्रिदशविक्रमः॥

विशेषः वाल्मीकिरामायणम् 3.17.18, 3.17.19

नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः ॥
धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः । त्वां तु वेदितुमिच्छामि कस्य त्वं कासि कस्य वा ॥

न हि तावन्मनोज्ञाङ्गी राक्षसी प्रतिभासि मे ।

विशेषः वाल्मीकिरामायणम् 3.17.23, 3.17.24

रावणो नाम मे भ्राता बलीयान्राक्षसेश्वरः । वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥

प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥

विशेषः वाल्मीकिरामायणम् 3.17.25, 3.17.26

तानहं समतिक्रान्ता राम त्वा पूर्वदर्शनात् ॥
समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम् । अहं प्रभावसम्पन्ना स्वच्छन्दबलगामिनी ॥
चिराय भव मे भर्ता सीतया किं करिष्यसि ।

विशेषः वाल्मीकिरामायणम् 3.17.27,  .17.28, 3.17.29

विकृता च विरूपा च न चेयं सदृशी तव ॥अहमेवानुरूपा ते भार्या रूपेण पश्य माम् ।
इमां विरूपामसतीं करालां निर्णतोदरीम् ॥अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ।
ततः पर्वतशृङ्गाणि वनानि विविधानि च ॥पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि ।

विशेषः वाल्मीकिरामायणम् 3.18.2, 3.18.3

कृतदारोऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता ॥

अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ॥

विशेषः वाल्मीकिरामायणम् 3.18.8, 3.18.9

एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततश्शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत् ॥

कथं दासस्य मे दासी भार्या भवितुमिच्छसि । सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि ॥

विशेषः वाल्मीकिरामायणम् 3.18.16, 3.18.17

अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् । त्वया सह चरिष्यामि निस्सपत्ना यथासुखम् ॥

इत्युक्त्वा मृगशाबाक्षीमलातसदृशेक्षणा । अभ्यधावत्सुसङ्कृद्धा महोल्कां रोहिणीमिव ॥

विशेषः वाल्मीकिरामायणम् 3.18.18, 3.18.19, 3.18.20, 3.18.21

तां मृत्युपाशप्रतिमामापतन्तीं महाबलः । निगृह्य रामः कुपित स्ततो लक्ष्मणमब्रवीत् ॥

क्रूरैरनार्यै स्सौमित्रे परिहासः कथञ्चन । न कार्यः पश्यवैदेहीं कथञ्चित्सौम्य जीवतीम् ॥

इमां विरूपामसतीमतिमत्तां महोदरीम् । राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ॥

विशेषः वाल्मीकिरामायणम् 3.18.14

इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पार्श्वतः। उद्धृत्य खङ्गं चिच्छेद कर्णनासं महाबलः॥

Session #16

त्रिशिरश्शिरस्त्रितय-तिमिर-निरास-वासरकर ।

[प्रतिपदार्थः]

  • त्रिशिरः = त्रिशिरः इति नामकः राक्षसः ।
  • शिरस्त्रितयम्  = उत्तमाङ्गत्रयं (त्रीणि शिरांसि) ।
  • तिमिरम् = अन्धकारः । निरासः = निवारणम् / निराकरणम् ।
  • वासरकरः = भास्करः / वासरं (कालपरिमाणं) करोतीति ।

[तात्पर्यम्]

त्रिशिरः नामकराक्षसस्य शिरत्रयरूपान्धकारस्य नाशयिता सूर्यः श्रीरामः ।

दूषण-जलनिधि-शोषण-तोषित-ऋषिगण-घोषित-विजय-घोषण ।

[प्रतिपदार्थः]

  • दूषणः = दूषणनामकः राक्षसः ।
  • जलनिधिः = समुद्रः । शोषणः = सन्तापयिता ।
  • तोषितः = सन्तोषितः । ऋषिगणः = ऋषीणां समूहः ।
  • घोषितः = उच्चस्वरेण प्रकाशितः । विजयघोषणः = विजयभेरी ।

[तात्पर्यम्]

दूषण-नामक-राक्षस-समुद्रस्य उच्छोषणेन (तस्य हननेन) सन्तुष्टैः ऋषिगणैः नादिता विजयभेरी श्रीरामः ।

खरतर-खर-तरु-खण्डन-चण्ड-पवन ।

[प्रतिपदार्थः]

  • खरतरः = अत्यन्तक्रूरः ।
  • खरः = खरः इत्याख्यः जनस्थानवासी राक्षसाधिपः ।
  • तरुः = विटपी / वृक्षः । खण्डनम् = छेदनम् ।
  • चण्डः = क्रूरः । पवनः = मारुतः / वायुः ।

[तात्पर्यम्]

क्रूरतरः खरनामकः राक्षसवृक्षोत्पाटने (तस्य नाशने) समर्थः प्रचाण्डः वायुः श्रीरामः ।

द्विसप्त-रक्षःसहस्र-नलवन-विलोलन-महाकलभ ।

[प्रतिपदार्थः]

  • द्विसप्त-रक्षस्सहस्रम् = चतुर्दश-सहस्रराक्षसाः ।
  • नल-वनम् = पोटगलानां, यष्ट्याकार-तृणविशेषाणां नलानां वनम् ।
  • विलोलनम् = विशेषतो मर्दनम् ।
  • महाकलभः = त्रिंषड्वर्षीयः गजश्रेष्ठः ।

[तात्पर्यम्]

चतुर्दशसहस्र-राक्षसरूप-नलवनस्य नाशयिता महान् गजः श्रीरामः ।

असहाय-शूर । अनपाय-साहस ।

[प्रतिपदार्थः]

  • असहायः = न विद्यते सहचरः यस्य सः ।
  • शूरः = वीरः ।
  • अनपायम् = अव्याहतम् ।
  • साहसम् = सहसा बलेन क्रियमाणं कार्यम् ।

[तात्पर्यम्]

श्रीरामः अद्वितीयशूरः अव्याहतसाहसः ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – खरसैन्यहननम्

विशेषः वाल्मीकिरामायणम् 3.19.14, 3.19.15, 3.19.17

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥

फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ ।पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥

तरुणी रूपसम्पन्ना सर्वाभरणभूषिता । दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥

विशेषः वाल्मीकिरामायणम् 3.31.18, 3.31.19, 3.31.20

नैव देवा महात्मानो नात्र कार्या विचारणा । शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥
सर्पाः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान्।येन येन च गच्छन्ति राक्षसा भयकर्शिताः॥
तेन तेन स्म पश्यन्ति राममेवाग्रतः स्थितम् ।इत्थं विनाशितं तेन जनस्थानं तवानघ ॥

विशेषः वाल्मीकिरामायणम् 3.31.23, 3.31.24, 3.31.25, 3.31.26

असाध्यः कुपितो रामो विक्रमेण महायशाः । आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः ॥

सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम् ॥

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥

संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः । शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥

विशेषः वाल्मीकिरामायणम् 3.31.23

असाध्यः कुपितो रामो विक्रमेण महायशाः । आपगायास्सुपूर्णाया वेगं परिहरेच्छरैः ॥

विशेषः वाल्मीकिरामायणम् 3.31.23

सतारग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु सीदन्तीं श्रीमानभ्युद्धरेन्महीम् ॥

विशेषः वाल्मीकिरामायणम् 3.31.25

भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः । वेगं वापि समुद्रस्य वायुं वा विधमेच्छरैः ॥

विशेषः वाल्मीकिरामायणम् 3.31.26

संहृत्य वा पुनर्लोकान्विक्रमेण महायशाः। शक्तस्सपुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥

Session #17

महित-महामृध-दर्शन-मुदित-मैथिली-दृढतर-परिरम्भण-विभव-विरोपित-विकट-वीरव्रण।

[प्रतिपदार्थः] महितम् = लोकपूजितम् । महामृधम् = प्रचण्डं युद्धम् । दर्शनम् = प्रेक्षणम् । मुदिता = सन्तुष्टा । ।मैथिली = सीता । दृढतरपरिरम्भणम् = गाढालिङ्गनम् । विभवः = प्रभावः । विरोपिताः = चिकित्सिताः । विकटाः = विशालाः । वीरव्रणानि = वक्षःस्थालादिषु दृश्यमाणानि बाणक्षतानि ।

[तात्पर्यम्]

एवं शिष्टरक्षणाय दुष्टशिक्षणाय कृतं लोकपूजितं युद्धम् अवलोकितवत्या सीतया कृतगाढालिङ्गनप्रभावेन चिकित्सितानि (विशालबाहुषु युद्धकारणात् सञ्जातानि) वीरव्रणानि यस्य सः, वीरराघवः ।

श्रीमद्रामायणे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् 2.30.3

किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः । राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – खरसैन्यहननम्
विशेषः वाल्मीकिरामायणम् 3.30.39

तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् । बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – अकम्पनस्य सन्देशः
विशेषः वाल्मीकिरामायणम् 3.31.1

त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – अकम्पनस्य सन्देशः
विशेषः वाल्मीकिरामायणम् 3.31.29, 3.31.30, 3.31.31

भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा समविभक्ताङ्गी स्त्रीरत्नं रत्नभूषिता ॥

नैव देवी न गन्धर्वी नाप्सरा नापि दानवी । तुल्या सीमन्तिनी तस्या मानुषीषु कुतो भवेत् ॥

तस्यापहर भार्यांत्वं प्रमथ्य तु महावने । सीतया रहितः कामी रामो हास्यति जीवितम् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – अकम्पनस्य सन्देशः
विशेषः वाल्मीकिरामायणम् 3.31.42, 3.31.43, 3.31.49, 3.31.50

आख्याता केन सीता सा मित्ररूपेण शत्रुणा । त्वया राक्षसशार्दूल को न नन्दति नन्दितः ॥

सीतामिहानयस्वेति को ब्रवीति ब्रवीहि मे । रक्षोलोकस्य सर्वस्य कश्शृङ्गं छेत्तुमिच्छति ॥

प्रसीद लङ्केश्वर राक्षसेन्द्र लङ्कां प्रसन्नो भव साधु गच्छ।त्वं स्वेषु दारेषु रमस्व नित्यं रामस्सभार्यो रमतां वनेषु॥

एवमुक्तो दशग्रीवो मारीचेन स रावणः । न्यवर्तत पुरीं लङ्कां विवेश च गृहोत्तमम् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – शूर्पणखायाः निन्दनम्
विशेषः वाल्मीकिरामायणम् 3.33.3, 3.33.4

सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम् । लुब्धं न बहुमन्यन्ते श्मशानाग्निमिव प्रजाः ॥

स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः । स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – मारीचशापः
विशेषः वाल्मीकिरामायणम् 3.38.29, 3.39.17, 3.39.18, 3.39.19

शरजालपरिक्षिप्तामग्निज्वालासमावृताम् । प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वं न संशयः ॥

रकारादीनि नामानि रामत्रस्तस्य रावण । रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे ॥

अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् । बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ॥

रणे रामेण युद्ध्यस्व क्षमां वा कुरु राक्षस । न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – मारीचस्य उपदेशः
विशेषः वाल्मीकिरामायणम् 3.40.1

मारीचेन तु तद्वाक्यं क्षमं युक्तं च निशाचरः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – सीतापहरणोपायः
विशेषः हनुमन्नाटकम् 24

रामादपि च मर्तव्यं मर्तव्यं रावणादपि । उभयोर्यदि मर्तव्यं वरं रामो न रावणः ॥

Session #18

https://www.youtube.com/watch?v=oEvK4IhqqT0
अरण्यकाण्डे मुख्यः घट्टः – मारीचवधः

मारीच-माया-मृग-चर्म-परिकर्मित-निर्भर-दर्भास्तरण ।

[प्रतिपदार्थः] मारीचः = मारीच-नामकः राक्षसः । माया-मृगः = मायया प्राप्तं हरिणरूपम् । चर्म = त्वक् । परिकर्मितम् = अलङ्कृतम् । निर्भरम् = परिपूर्णम् । दर्भास्तरण = कुशमयम् आसनम् । मारीच-माया-मृग-चर्म-परिकर्मित-निर्भर-दर्भास्तरण ।

[तात्पर्यम्]

मारीचेन मायया अनुप्रविष्टमृगचर्मेण अलङ्कृतं कुशमयम् आसनं यस्य सः श्रीरामः ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – सीतापहरणम्

विशेषः वाल्मीकिरामायणम् – 3.42.30

तस्मिन्नेव ततः काले वैदेही शुभलोचना ॥
कुसुमावचयव्यग्रा पादपानभ्यवर्तत ।

विशेषः वाल्मीकिरामायणम् – 3.42.32, 3.42.34, 3.42.35

अनर्हाऽरण्यवासस्य सा तं रत्नमयं मृगम्॥ मुक्तामणि विचित्राङ्गं ददर्श परमाङ्गना ।

स च तां रामदयितां पश्यन्मायामयो मृगः॥विचचार पुनश्चित्रं दीपयन्निव तद्वनम् ।
अदृष्टपूर्वं तं दृष्ट्वा नानारत्नमयं मृगम् ॥ विस्मयं परमं सीता जगाम जनकात्मजा ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – सीतापहरणम्

विशेषः वाल्मीकिरामायणम् – 3.43.10

आर्यपुत्र अभिरामो असौ मृगो हरति मे मनः ।
आनय एनम् महाबाहो क्रीडार्थम् नः भविष्यति ॥

विशेषः वाल्मीकिरामायणम् – 3.43.7

मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव ।
जगत्यां जगतीनाथ मायैषा हि न संशयः ॥

विशेषः वाल्मीकिरामायणम् – 3.44.14

सन्धाय सुदृढे चापे विकृष्य बलवद्बली ।
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ॥

विशेषः वाल्मीकिरामायणम् – 3.44.15

शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ।
मारीचस्यैव हृदयं बिभेदाशनिसन्निभः ॥

विशेषः हनुमन्नाटकम्11 मः अङ्कः

अङ्केकृत्वोत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हन्तुर्-
दत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गशेषं निधाय ॥

विशेषः वाल्मीकिरामायणम् – 3.45.6

इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ।
लोभान्मम कृते नूनं नानुगच्छसि राघवम् ॥

विशेषः वाल्मीकिरामायणम् – 3.45.24

सुदुष्टस्त्वं वने राममेकमेको ऽनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥

विशेषः वाल्मीकिरामायणम् – 3.45.32

धिक् त्वामद्य प्रणश्य त्वं यन्मामैवं विशङ्कसे ।
स्त्रीत्वं दुष्टं स्वभावेन गुरुवाक्ये व्यवस्थितम् ॥

विशेषः वाल्मीकिरामायणम् – 3.45.40

ततस्तु सीतामभिवाद्य लक्ष्मणः
कृताञ्जलिः किञ्चिदभिप्रणम्य च ।
अन्वीक्षमाणो बहुशश्च मैथिलीं
जगाम रामस्य समीपमात्मवान् ॥

विशेषः वाल्मीकिरामायणम् – 3.50.20

वृद्धोऽहं त्वं युवा धन्वी सशरः कवची रथी॥
तथाप्यादाय वैदेहीं कुशली न गमिष्यसि ।

विशेषः वाल्मीकिरामायणम् – 3.50.27

तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण ॥
युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ।

विक्रम-यशो-लाभ-विक्रीत-जीवित-गृध्रराजदेह-दिधक्षा-लक्षितभक्तजन-दाक्षिण्य ।

[प्रतिपदार्थः] विक्रम-यशो-लाभः = विक्रमेण प्राप्तस्य कीर्तेः लाभः । विक्रीत-जीवितः = प्रदत्तं जीवनं येन सः । गृध्रराजः = जटायुः । देहः = शरीरः । दिधक्षा = दग्धुम् इच्छा । लक्षितम् = प्रदर्शितम् । भक्तजनदाक्षिण्यः = भक्तजनविषये औदार्यम् ।

[तात्पर्यम्]

स्वजीवनत्यागेन प्राप्तयशसः जटायोः शरीरदाहनेन स्वभक्तजनेभ्यो प्रदर्शितौदार्यभावः श्रीरामः ।श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – जटायुमोक्षः

विशेषः श्रीपरमार्थस्तुतिः

अवधीर्य चतुर्विधं पुमर्थं
भवदर्थे विनियुक्तजीवितः सन् ।
लभते भवतः फलानि जन्तुः
निखिलान्यत्र निदर्शनं जटायुः ॥

Session #19

#19Kabandha, Shabaree
कबन्धशापविमोचनं शबरीमोक्षः च

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – कबन्धशापविमोचनम्
विशेषः वाल्मीकिरामायणम् 3.71.19, 27,  30,  31,  32

अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ ॥ मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना ।
दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम् ॥ यस्तां ज्ञास्यति तं वक्ष्ये दग्धस्स्वं रूपमास्थितः ।
किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः ॥ तावन्मामवटे क्षिप्त्वा दह राम यथाविधि ।
दग्धस्त्वयाहमवटे न्यायेन रघुनन्धन ॥ वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ।
तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव ॥ कल्पयिष्यति ते प्रीतस्साहाय्यं लघुविक्रमः ।

कल्पित-विबुधभाव-कबन्धाभिनन्दित ।

[प्रतिपदार्थः]

कल्पितः = सम्पादितः ।  विबुधभावः = विबुधस्य (देवस्य) भावः, दैवत्वम् । कबन्धः = तन्नमको राक्षसः । अभिनन्दितः = प्रकीर्तितः । कल्पित-विबुधभाव-कबन्धाभिनन्दित ।

[तात्पर्यम्]

(रामलक्ष्मणाभ्यां कृतबाहुकर्तनेन) प्राप्तदैवभावेन कबन्धेन प्रकीर्तितः रघुनन्दनः ।

अवन्ध्य-महिम-मुनिजन-भजन-मुषित-हृदय-कलुष-शबरी-मोक्षसाक्षिभूत

[प्रतिपदार्थः]

अवन्ध्याः = अनिष्फलाः, सफलाः । महिमाः = प्रभावयुक्ताः ।  मुनि-जन-भजनम् = मुनिजनानां महर्षीणाम् उपासनम् । मुषितम् = अपहृतम् । हृदयकलुषम् = अन्तरङ्गमालिन्यम् ।शबरी = तन्नाम्नी तापसी । मोक्षः = अपवर्गः । साक्षिभूतः = साक्षात् द्रष्टा । अवन्ध्य-महिम-मुनिजन-भजन-मुषित-हृदय-कलुष-शबरी-मोक्षसाक्षिभूत ।

[तात्पर्यम्]

कार्यसिद्धौ अनन्तमहिमयुक्तानां महर्षीणां गुरुजनानां उपासनेन अपहृतं हृदयमालिन्यं यस्याः सा शबरी । शबर्याः मोक्षप्राप्तिं साक्षात् दृष्टवान् यः सः श्रीरामः ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – जटायुमोक्षः
विशेषः श्री अतिमानुषस्तवः – १९
(श्रीकूरनाथ-श्रीवत्सचिह्नमिश्रैः विरचितम्)
अक्षुण्णयोगपथम् अग्र्यहतं जटायुं
तिर्यञ्चमेव बत मोक्षपथे नियोक्तुम् ।
शक्नोषि वेत्सि च यदा स तदा कथं त्वं
देवीमवाप्तुमनलं व्यथितो विचिन्वन् ॥

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – शबरीमोक्षः
विशेषः वाल्मीकिरामायणम् 3.74.7, 8, 9, 10
पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि । तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ॥
कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः। कच्चित्ते नियतः क्रोध आहारश्च तपोधने ॥
कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् । कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥
रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता । शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥
श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – शबरीमोक्षः

विशेषः वाल्मीकिरामायणम् 3.74.32, 33, 34, 35
इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनाम्बरा । तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ॥
अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने । ज्वलत्पावकसङ्काशा स्वर्गमेव जगाम सा ॥
दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना । दिव्याम्बरधरा तत्र बभूव प्रियदर्शना ॥
विराजयन्ती तं देशं विद्युत्सौदामिनी यथा । यत्र ते सुकृतात्मानो विहरन्ति महर्षयः ॥
तत्पुण्यं शबरी स्थानं जगामात्मसमाधिना ।

श्रीमद्रामायणे अरण्यकाण्डे मुख्यः घट्टः – शबरीमोक्षः
विशेषः लक्ष्मीनारायणसंहिता ७२, पाद्मपुराणम्२७०
फलानि च सुपक्वानि मूलानि मधुराणि च
स्वयमास्वाद्य माधुर्यं परीक्ष्य परिभक्ष्य च ।
पश्चान्निवेदयामास शबरी प्राणदायिने
बदर्यादिप्रपक्वानि भक्षयामासतुश्च तौ ॥
….
फलान्यास्वाद्य काकुत्स्थः तस्यै मुक्तिं परां ददौ ॥

Session #20

https://youtu.be/WFmWeDKB8os
Raghuveeragadyam
of Srimad Vedaantadeshika
#20 – Hanumaan and Sugreeva
Presented by Smt. Sujatha Ramesh
प्रस्तोत्री – श्रीमती  सुजाता रमेशः। भागः #20
हनूमतः परिचयः सुग्रीवस्य सख्यञ्च

षड्काण्डानि

  1. बालकाण्डम्
  2. अयोध्याकाण्डम्
  3. अरण्यकाण्डम्
  4. किष्किन्धाकाण्डम्
  5. सुन्दरकाण्डम्
  6. युद्धकाण्डम्

किष्किन्धाकाण्डे मुख्याः घट्टाः

  • हनूमतः परिचयः
  • सुग्रीवस्य सख्यम्
  • सुग्रीवाय रामेण कृतं स्वसामर्थ्यनिरूपणम्
  • वालिवधः

किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमतः परिचयः

प्रभञ्जन-तनय-भावुक-भाषित-रञ्जित-हृदय ।

किष्किन्धाकाण्डे मुख्यः घट्टः – सुग्रीवस्य सख्यम्

तरणिसुत-शरणागति-परतन्त्रीकृत-स्वातन्त्र्य ।

किष्किन्धाकाण्डे मुख्यः घट्टः – सुग्रीवाय कृतं स्वसामर्थ्य-निरूपणम्

दृढ-घटित-कैलास-कोटि-विकट-दुन्दुभि-कङ्काल-कूट-दूर-विक्षेप-दक्षदक्षिणेतर-पादाङ्गुष्ठ-दर-चलन-विश्वस्त-सुहृदाशय ।

किष्किन्धाकाण्डे मुख्यः घट्टः – सुग्रीवाय कृतं स्वसामर्थ्य-निरूपणम्

अतिपृथुल-बहु-विटपि-गिरि-धरणि-विवर-युगपदुदय-विवृत- चित्रपुङ्ग-वैचित्र्य ।

किष्किन्धाकाण्डे मुख्यः घट्टः – वालिवधः

विपुल-भुज-शैल-मूल-निबिड-निपीडित-रावण-रणरणक-जनक-चतुरुदधि-विहरण-चतुर-कपि-कुल-पति-हृदय-विशाल-शिलातल-दारण-दारुण-शिलीमुख ।

——

प्रभञ्जन-तनय-भावुक-भाषित-रञ्जित-हृदय ।

[प्रतिपदार्थः] प्रभञ्जनतनयः = वायु-सूनुः, हनूमान् (नभस्वद्वात-पवन-पवमान-प्रभञ्जनाः इत्यमरः) । भावुकाः = क्षेमङ्कराः । भाषिताः = व्याहाराः, वचनानि (व्याहार-उक्तिर्लपितं-भाषितम् इत्यमरः)। रञ्जतम् = आनन्दरसरूषितम् । हृदयः = तादृशं हृदयं यस्य सः । प्रभञ्जन-तनय-भावुक-भाषित-रञ्जित-हृदय ।

[तात्पर्यम्]  हनूमतः वाग्झरिना आनन्दितं मनः यस्य सः श्रीरामः।

तरणिसुत-शरणागति-परतन्त्री-कृत-स्वातन्त्र्य ।

[प्रतिपदार्थः] तरणिसुतः = सूर्यपुत्रः सुग्रीवः । शरणागतिः = शरणवरणम् । परतन्त्रीकृतम् = परायत्तीकृतम् । स्वातन्त्र्यम् = स्वतन्त्रत्वम् ।

[तात्पर्यम्] सूर्यपुत्रस्य सुग्रीवस्य शरणम् आकाङ्क्ष्य यः स्वातन्त्र्यं स्वस्य परायत्तीकृतवान्, सः श्रीरामः ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताविरहप्रसङ्गः
विशेषः वाल्मीकिरामायणम् 4.4.1
स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
रामस्सौमित्रि सहितो विललापाकुलेन्द्रियः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमत्समागमः
विशेषः वाल्मीकिरामायणम् 4.3.2 – 4.3.6
कपिरूपं परित्यज्य हनुमान्मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥
ततश्च हनुमान् वाचा श्लक्ष्णया सुमनोज्ञया । विनीतवदुपागम्य राघवौ प्रणिपत्य च ॥
आबभाषे तदा वीरौ यथावत्प्रशशंस च । सम्पूज्य विधिवद्वीरौ हनुमान्मारुतात्मजः ॥
उवाच कामतो वाक्यं मृदु सत्यपराक्रमौ । राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ॥
देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ । त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमत्समागमः
विशेषः वाल्मीकिरामायणम् 4.3.19 – 4.3.23
एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः ॥ सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः ।
वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।
राज्ञा वानरमुख्यानां हनुमान्नाम वानरः ॥ युवाभ्यां सह धर्मात्मा सुग्रीवस्सख्यमिच्छति ।
तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ॥ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया ।
ऋष्यमूकादिह प्राप्तं कामगं कामरूपिणम् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमतः वाग्वैभवसङ्कीर्तनम्
विशेषः वाल्मीकिरामायणम् 4.3.28 – 4.3.32
नानृग्वेदविनीतस्य नायजुर्वेद्धारिणः । नासामवेदविदुषश्शक्यमेवं विभाषितुम् ॥
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् । बहु व्याहरताऽनेन न किञ्चिदपशब्दितम् ॥
न मुखे नेत्रयोर्वापि ललाटे च भ्रुवोस्तथा । अन्येष्वपि च गात्रेषु दोषस्संविदितः क्वचित् ॥
अविस्तरमसन्दिग्धमविलम्बितमद्रुतम् । उरस्थं कण्ठगं वाक्यं वर्तते मध्यमे स्वरे ॥
संस्कारक्रमसम्पन्नामद्रुतामविलम्बिताम् । उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमतः वैभवसङ्कीर्तनम्
विशेषः वाल्मीकिरामायणम् 4.3.33 – 4.3.35
(हनूमतः कार्यसिद्धिः स्वामिपरायणत्वं च)
अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया । कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥
एवं विधो यस्य दूतो न भवेत्पार्थिवस्य तु ।सिद्ध्यन्ति हि कथं तस्य कार्याणां गतियोऽनघ॥
एवं गुणगणैर्युक्ता यस्य स्युः कार्यसाधकाः।तस्य सिध्यन्ति सर्वाऽर्था दूतवाक्यप्रचोदिताः॥

Session #21

Raghuveeragadyam
of Srimad Vedaantadeshika
#21 – Rama proving his strength
Presented by Smt. Sujatha Ramesh
प्रस्तोत्री – श्रीमती  सुजाता रमेशः। भागः #21
सुग्रीवाय रामेण कृतं स्वसामर्थ्यनिरूपणम्

दृढ-घटित-कैलास-कोटि-विकट-दुन्दुभि-कङ्काल-कूट-दूर-विक्षेप-दक्षदक्षिणेतर-पादाङ्गुष्ठ-दर-चलन-विश्वस्त-सुहृदाशय ।

[प्रतिपदार्थः] दृढम् = स्थूलं बलवत् च यत् । घटितम् = संहितम् ।

कैलासम्  = रजताचलः । कोटिः = शृङ्गाणि (इव) । विकटम् = विशालम् ।

दुन्दुभिः = तन्नाम्नो महिषरूपधारिणः । कङ्कालकूटः = शरीरस्य अस्थिराशिः ।

दूरविक्षेपः = संपूर्णदशयोजनदूरनिरसनम् । दक्षः = समर्थः ।

दक्षिणेतरपादाङ्गुष्ठः = सव्यचरणाङ्गुष्ठः । दरचलनम् = स्पन्दनम् ।

विश्वस्तः = विस्रब्धः । सुहृदाशयः = मित्रस्य अभिप्रायः ।

[तात्पर्यम्] स्थूल-बलसमुपेतं, कैलासपर्वतशृङ्गोपमं विशालं यत् दुदुभिनामराक्षसस्य अस्थिराशेः (पूर्वं वालिना हतः दुन्दुभिः) स्ववामपादाङ्गुष्ठेन संपूर्ण दशयोजनदूरनिरसनेन  सुहृदः (सुग्रीवस्य) हृदयं विस्माययितवान्  यः, श्रीरामः ।

अतिपृथुल-बहु-विटपि-गिरि-धरणि-विवर-युगपदुदय-विवृत- चित्रपुङ्ग-वैचित्र्य ।

[प्रतिपदार्थः] अतिपृथुलाः = नितान्तं विपुलाः ।
बहुविटपयः = अनेकवृक्षसंपन्नाः । गिरि-विवराणि = पर्वत-रन्ध्राणि ।
धरणि-विवराणि = भूमेः गर्ताः । युगपत् = समकाले । उदयः = प्रवृत्तम् ।
विवृताः = प्रकाशिताः । चित्रपुङ्गाः = आश्चर्यावहाः बाणाः ।
वैचित्र्यः = विचित्रस्य भावः वैचित्र्यम्, वैचित्र्यं यस्य सः वैचित्र्यः ।

[तात्पर्यम्] अत्यन्तनिबिडवनोपेतानां पर्वतानां रन्ध्रेषु, भूमेः गर्तेषु च
क्षणाभ्यन्तरे प्रवेष्टुम् अश्चर्यजनकाः विचित्राः बाणाः यस्य सः, कोदण्डपाणिः ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – लक्ष्मणस्य खेदः
विशेषः वाल्मीकिरामायणम् 4.4.18 – 4.4.21 सुग्रीवं प्रति रामस्य शरणागतिः,  लक्ष्मणस्य खेदः

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः । लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥

पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः । तस्य पुत्रश्शरण्यश्च सुग्रीवं शरणं गतः ॥

सर्वलोकस्य धर्मात्मा शरण्यश्शरणं पुरा । गुरुर्मे राघवस्सोऽयं सुग्रीवं शरणं गतः ॥

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः । स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमतः प्रतिवचनम्
विशेषः वाल्मीकिरामायणम् 4.4.26 4.4.28

ईदृशा बुद्धिसम्पन्ना जितक्रोधा जितेन्द्रियाः । द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥

स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना । हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः । सुग्रीवस्सह चास्माभिस्सीतायाः परिमार्गणे ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – लक्ष्मणस्य निगमनम्
विशेषः वाल्मीकिरामायणम् 4.4.31

कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ।
कृत्यवांत्सोऽपि सम्प्राप्तः कृतकृत्योऽसि राघव ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – हनूमतः प्रतिवचनम्
विशेषः वाल्मीकिरामायणम् 4.4.34

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुञ्जरः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामपरिचयः
विशेषः वाल्मीकिरामायणम् 4.5.2 – 4.5.4, 4.5.8, 4.5.14 [हनूमता सुग्रीवाय कृतः रामपरिचयः ]

अयं रामो महाप्राज्ञस्सम्प्राप्तो दृढविक्रमः । लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः ॥

इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः । धर्मे निगदितश्चैव पितुर्निर्देशपारगः ॥

तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः । रावणेन हृता भार्या स त्वां शरणमागतः ॥

श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः । भयं चराघवाद्घोरं प्रजहौ विगतज्वरः ॥

हृद्यं सौहृदमालम्ब्यपर्यष्वजत पीडितम् । ततो हनूमान्सन्त्यज्य भिक्षुरूपमरिन्दमः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामसुग्रीवयोर्सख्यम्

विशेषः वाल्मीकिरामायणम् 4.5.15 – 4.5.17

काष्ठयोस्स्वेन रूपेण जनयामास पावकम् । दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम् ॥

तयोर्मध्येऽथ सुप्रीतो निदधे सुसमाहितः । ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम् ॥

सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ । ततस्सुप्रीतमनसौ तावुभौ हरिराघवौ ॥
अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सुग्रीवेण कृतः भागवतापचारः

विशेषः वाल्मीकिरामायणम् 4.5.19 – 4.5.20

ततस्सुपर्णबहुलां छित्वा शाखां सुपुष्पिताम् ॥
सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः ।

लक्ष्मणायाथ संहृष्टो हनूमान् प्लवगर्षभः ॥
शाखां चन्दनवृक्षस्य ददौ परमपुष्पिताम् ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः

विशेषः वाल्मीकिरामायणम् सुग्रीवाय अभयप्रदानम् 4.5.24, 26 – 27

वालिना निकृतो भ्रात्रा कृतवैरश्च राघव । वालिनो मे महाभाग भयार्तस्याभयं कुरु ॥

प्रत्यभाषत काकुत्स्थ: सुग्रीवं प्रहसन्निव । उपकारफलं मित्रं विदितं मे महाकपे ॥

वालिनं तं वधिष्यामि तव भार्यापहारिणम् । अमोघास्सूर्यसङ्काशा ममैते निशिताश्शराः॥

विशेषः वाल्मीकिरामायणम् सुग्रीवस्य प्रतिज्ञा 4.6.5 – 4.6.8
भार्यावियोगजं दुःखं न चिरात्त्वं विमोक्ष्यसे । अहं तामानयिष्यामि नष्टां वेदश्रुतीमिव ॥

रसातले वा वर्तन्तीं वर्तन्ती वा नभस्थले । अहमानीय दास्यामि तव भार्यामरिन्दम ॥

इदं तथ्यं मम वचस्त्वमवेहि च राघव । न शक्या सा जरयितुं सेन्द्रैस्सुरासुरैः ॥
तव भार्या महाबाहो भक्ष्यं विषकृतं यथा । त्यज शोकं महाबाहो तां कान्तामानयामि ते ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताया आभरणप्रदानम्
विशेषः वाल्मीकिरामायणम् 4.6.9 – 4.6.12

अनुमानात्तु जानामि मैथिली सा न संशयः ।
ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा ॥
क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम् ।
स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा ॥
आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम् ।
उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥
तान्यस्माभिगृहीतानि निहितानि च राघव ।
आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताया आभरणप्रदानम्
विशेषः वाल्मीकिरामायणम् 4.6.15 – 4.6.17, 4.6.20

उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च ।
इदं पश्येति रामाय दर्शयामास वानरः ॥

ततो गृहीत्वा वासस्तुश्शुभान्याभरणानि च ।
अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥

सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।
हा प्रियेति रुदन्धैर्यमुत्सृज्य न्यपतत्क्षितौ ॥

पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ।
उत्तरीयमिदं भूमौ शरीराद्भूषणानि च ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताया आभरणप्रदानम्
विशेषः वाल्मीकिरामायणम् 4.6.22, 4.6.24 – 25

नाहं जानामि केयूरे नाहं जानामि कुण्डले ॥
नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ।

ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया ।
रक्षसा रौद्ररूपेण मम प्राणैः प्रिया प्रिया ॥

क्व वा वसति तद्रक्षो महद्व्यसनदं मम ।
यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताया आभरणप्रदानम्
विशेषः वाल्मीकिरामायणम् 4.7.2, 3, 6, 7

न जाने निलयं तस्य सर्वथा पापरक्षसः ।
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥

सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम ।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥

मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत् ।
नाहमेवं हि शोचामि न च धैर्यं परित्यजे ॥

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।
महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – सीताया आभरणप्रदानम्
विशेषः वाल्मीकिरामायणम् 4.7.2, 3, 6, 7

न जाने निलयं तस्य सर्वथा पापरक्षसः ।
सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम् ॥

सत्यं ते प्रतिजानामि त्यज शोकमरिन्दम ।
करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ॥

मयाऽपि व्यसनं प्राप्तं भार्याविरहजं महत् ।
नाहमेवं हि शोचामि न च धैर्यं परित्यजे ॥

नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ।
महात्मा च विनीतश्च किं पुनर्धृतिमान्भवान् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् सुग्रीवस्य संशयः 4.11.78 – 4.11.83

उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल । त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥

किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः । अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥

न खल्वहं त्वां तुलये नावमन्ये न भीषये । कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥

कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः । सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥

तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः । स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥

यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर । प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् दुन्दुभेरस्थिप्रक्षेपः4.11.84, 85

एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः । राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ॥
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् । असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् दुन्दुभेरस्थिप्रक्षेपः 4.11.87, 88

आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ॥ लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव ।
परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ॥ क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् अवशिष्टसंशयः4.11.90, 92, 93

स एव संशयस्तात तव तस्य च यद्बले ॥ सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले ।
इमं हि सालं सहित स्त्वया शरो । न संशयोऽत्रास्ति विदारयिष्यति ॥
अलं विमर्शेन मम प्रियं ध्रुवं । कुरुष्व राजात्मज शापितो मया ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् सालवृक्षभेदनम्4.12.1 – 4.12.4

एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम् । प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम् ॥
स गृहीत्वा धनुर्घोरं शरमेकं च मानदः । सालमुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन्दिशः ॥
स विसृष्टो बलवता बाणस्स्वर्णपरिष्कृतः । भित्त्वा सालान् गिरिप्रस्थं सप्त भूमिं विवेश ह ॥
प्रविष्टश्च मुहूर्तेन धरां भित्त्वा महाजवः । निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः
विशेषः वाल्मीकिरामायणम् छिन्नसंशयः सुग्रीवः4.12.5, 6, 10

तान्दृष्ट्वा सप्त निर्भिन्नान्सालान्वानरपुङ्गवः । रामस्य शरवेगेन विस्मयं परमं गतः ॥
स मूर्ध्ना न्यपतदभ्मौ प्रलम्बीकृतभूषणः । सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः ॥
अद्य मे विगतश्शोकः प्रीतिरद्य परा मम । सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम् ॥

Session #22

विपुल-भुज-शैल-मूल-निबिड-निपीडित-रावण-रणरणक-जनक-चतुरुदधि-विहरण-चतुर-कपि-कुल-पति-हृदय-विशाल-शिलातल-दारण-दारुण-शिलीमुख ।

[प्रतिपदार्थः] विपुलभुजशैलः = शैलसदृशौ विशालभुजौ, पर्वतोपमम् अत्यन्तकठिनं भुजद्वयं यस्य । मूलनिबिडम् = अधो भागे कक्षे निबिडं यथा भवति तथा । निपीडितः = सङ्घट्टनेन हिंसितः ।
रावणः = विश्रवस्तनयः राक्षसपतिः । रणरणकजनकम् = उद्वेगापादकं (भयक्षोभकारी) । चतुरुदधिविहरणम् = चतुस्सागरचरणम् । चतुरः = दक्षः । कपिकुलपतिः = सकलशाखामृगनायकः । हृदयम् = भुजान्तरमेव । विशालशिलातलः = अतिविपुलशिलाप्रदेशः । दारणम् = भेदनम् ।
दारुणः = क्रूरः । शिलीमुखः = बाणः यस्य सः ।

[तात्पर्यम्] विश्रवस्तनयं राक्षसपतिं स्वयं रावणस्य स्वस्य भुजसंधौ निपीड्य तं हिंसितस्य, चतुस्सागरविहरणे दक्षस्य कपीनां कुलपतेः वालिनः विशालशिलोपमं हृदयभागविदारणसमर्थक्रूरबाणः यस्य सः, वालिघातक इक्ष्वाकुकुलनन्दनः, श्रीरामः ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः शक्तिः
विशेषः वाल्मीकिरामायणम् 4.11.4, 4.11.5

समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।
क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥

अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।
ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – मायावीवालिनोः संग्रामः
विशेषः वाल्मीकिरामायणम् 4.9.4, 4.9.13, 4.9.15, 4.9.17, 4.9.18

मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः । तेन तस्य महद्वैरं स्त्रीकृतं विश्श्रुतं पुरा ॥

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः । यावत्तत्र प्रविश्याहं निहन्मि सहसा रिपुम् ॥

तस्य प्रविष्टस्य बिलं साग्रस्संवत्सरो गतः । स्थितस्य मम बिलद्वारि स कालो व्यत्यवर्तत ॥

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिस्सृतम् । सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः । निरस्तस्य च सङ्ग्रामे क्रोशतोनिस्स्वनो गुरोः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामस्य भ्रान्तिः
विशेषः वाल्मीकिरामायणम् 4.12.20, 4.12.26, 4.12.27

यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः ।
ततो न कृतवान्बुद्धिं मोक्तुमन्तकरं शरम् ॥

आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम् ।
वैरिणा घातयित्वा च किमिदानीं त्वया कृतम् ॥

तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः ।
वालिनं न निहन्मीति ततो नाहमितो व्रजे ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामस्य भ्रान्तिः
विशेषः वाल्मीकिरामायणम् 4.12.30, 4.12.31

अलङ्कारेण वेषेण प्रमाणेन गतेन च ।
त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥

स्वरेण वर्चसा चैव प्रेक्षितेन च वानर ।
विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामस्य भ्रान्तेः परिष्कारः
विशेषः वाल्मीकिरामायणम् 4.12.34, 4.12.35, 4.12.36, 4.12.39

त्वयि वीरे विपन्ने हि अज्ञानाल्लाघवान्मया । मौढ्यं च मम बाल्यं च ख्यापितं स्यात्कपीश्वर ॥

दत्ताभयवधो नाम पातकं महदुच्यते । अहं च लक्ष्मणश्चैव सीता च वरवर्णिनी ॥
त्वदधीना वयं सर्वे वनेऽस्मिन् शरणं भवान् । तस्माद्युध्यस्व भूयस्त्वं मा मा शङ्केश्च वानर ॥

गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम् । कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिवधस्य शकुनम्
विशेषः वाल्मीकिरामायणम् 4.12.41

स तया शुशुभे श्रीमान् लतया कण्ठसक्तया ।
मालयेव बलाकानां ससन्ध्य इव तोयदः ॥

शोभसे हि अधिकं वीर लतया कण्ठसक्तया
विपरीतैवाकाशे सूर्यो नक्षत्रमालया ॥ (प्रक्षिप्तम् स्यात्)

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालितारयोः संवादः
विशेषः वाल्मीकिरामायणम् 4.15.14, 4.15.16, 4.15.17

प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः । अपरीक्षितवीर्येण सुग्रीवस्सहनैष्यति ॥

अङ्गदस्तु कुमारोऽयं वनान्तमुपनिर्गतः । प्रवृत्तिस्तेन कथिता चारैराप्तैर्निवेदिता ॥

अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ । इक्ष्वाकूणां कुले जातौ प्रथितौ रामलक्ष्मणौ ॥
सुग्रीवप्रियकामार्थं प्राप्तौ तत्र दुरासदौ ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – ताराकृतरामसङ्कीर्तनम्
विशेषः वाल्मीकिरामायणम् 4.15.19, 4.15.20, 4.15.21

निवासवृक्षः साधूनामापन्नानां परा गतिः । आर्तानां संश्रयश्चैव यशसश्चैकभाजनम् ॥

ज्ञानविज्ञानसम्पन्नो निदेशे निरतः पितुः । धातूनामिव शैलेन्द्रो गुणानामाकरो महान् ॥

तत्क्षमं न विरोधस्ते सह तेन महात्मना । दुर्जयेनाप्रमेयेन रामेण रणकर्मसु ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिने ताराया उद्बोधनम्
विशेषः वाल्मीकिरामायणम् 4.15.23, 4.15.24, 4.15.30

यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय । विग्रहं मा कृथा वीर भ्रात्रा राजन्बलीयसा ॥

अहं हि ते क्षमं मन्ये तेन रामेण सौहृदम् । सुग्रीवेण च सम्प्रीतिं वैरमुत्सृज्य दूरतः ॥

प्रसीद पथ्यं शृणु जल्पितं हि मे न रोष मेवानुविधातुमर्हसि ।

क्षमो हि ते कोसलराजसूनुना न विग्रहश्शक्रसमानतेजसा ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – रामे वालिनः विश्वासः
विशेषः वाल्मीकिरामायणम् 4.16.5, 4.16.6

न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥
निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।
सौहृदं दर्शितं तारे मयि भक्ति: कृता त्वया ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः वधः
विशेषः वाल्मीकिरामायणम् 4.16.33, 4.16.36, 4.16.39

ततो धनुषि सन्धाय शरमाशीविषोपमम् ।
पुरयामास तच्चापं कालचक्रमिवान्तकः ॥

ततस्तेन महातेजा वीयौटत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥

अथोक्षितश्शोणिततोयविस्रवैस्सुपुष्पिताशोक इवानिलोद्धतः ।
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः॥

Session #23

Raghuveeragadyam
of Srimad Vedaantadeshika
#23 – Justifying Vaali’s Killing
Presented by Smt. Sujatha Ramesh
प्रस्तोत्री – श्रीमती  सुजाता रमेशः। भागः #23
वालिनः अभियोगः, तत्समाधानं च

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालि-रावण-सख्यम्
विशेषः वाल्मीकिरामायणम् उत्तरकाण्ड 7.034.041

दाराः पुत्राः पुरं राष्ट्रं भोगाच्छादनभाजनम् ।

सर्वमेवाविभक्तं नौ भविष्यति हरीश्वर ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः अभियोगः
विशेषः वाल्मीकिरामायणम् 4.17.45, 4.17.22

उदासीनेषु योऽस्मासु विक्रमऽस्ते प्रकाशितः ।

अपकारिषु ते राजन्नहि पश्यामि विक्रमम् ॥

नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥

विषये वा पुरे वा ते यदा पापं करोम्यहम् ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – महावीरस्य समाधानम्
विशेषः वाल्मीकिरामायणम् 4.18.6, 4.18.7, 4.18.9

इक्ष्वाकूणामियं भूमिस्सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥

तां पालयति धर्मात्मा भरतस्सत्यवानृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥

तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः अभियोगः
विशेषः वाल्मीकिरामायणम् 4.17.29

वयं वनचरा राम मृगा मूलफलाशना: ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वर ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – महावीरस्य समाधानम्
विशेषः वाल्मीकिरामायणम् 4.18.19, 4.18.20

अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥

तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।
भ्रातृभार्यावमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः अभियोगः
विशेषः वाल्मीकिरामायणम् 4.17.15

पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः ।
यदहं युद्धसंरब्धश्शरेणोरसि ताडित: ॥

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – महावीरस्य समाधानम्
विशेषः वाल्मीकिरामायणम् 4.18.39, 4.18.40, 4.18.41

प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान् ॥
प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥

यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ॥
अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – वालिनः अभियोगः
विशेषः वाल्मीकिरामायणम् 4.17.30, 4.17.38, 4.17.39

भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च ।
अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥

पञ्च पञ्च नखा भक्ष्या ब्रह्मक्षत्रेण राघव ॥
शल्यक श्श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।

चर्म चास्थि च मे राजन् नस्पृशन्ति मनीषिणः ॥
अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – महावीरस्य समाधानम्
विशेषः वाल्मीकिरामायणम् 4.18.12, 4.18.11, 4.18.21

त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः ।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥

ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥

न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ।

श्रीमद्रामायणे किष्किन्धाकाण्डे मुख्यः घट्टः – महावीरस्य समाधानम्
विशेषः वाल्मीकिरामायणम् 4.18.15

सूक्ष्मः परमदुरजेयस्सतां धर्मः प्लवङ्गम ।
हृदिस्थस्सर्वभूतानामात्मा वेद शुभाशुभम् ॥

वालिनः परोक्ष-निग्रहण-कारणानि

  • वालिनिग्रहणस्य प्रयोजनानि
    • दुष्टशिक्षणम्
    • शिष्टरक्षणम्
    • धर्मसंस्थापनम्
  • वालिनिग्रहणस्य कारणानि
    • वालिना कृत इक्ष्वाकूणां सार्वभौमत्वधिक्कारः
    • कूटनीतिः
    • समयाभावः

Session #24?

References

https://sa.wikisource.org/wiki/रघुवीरगद्यम् 

SRI RAGHUVEERA GADYAM BY VEDANTA DESIKA

https://www.valmiki.iitk.ac.in/content?language=dv&field_kanda_tid=2&field_sarga_value=1&field_sloka_value=7&scgr=1&etgr=1&choose=1