Valmiki Ramayana – Balakanda – Sarga 3

श्रीमद्वाल्मीकिरामायणम्

बालकाण्डः तृतीयसर्गः (१०-३९)

श्रीमतिः विद्या रमेशः भगिन्या कृतं रामायणपारायनम्

Paaraayanam by Smt. Vidhya Ramesh

Srimad Valmiki Ramayanam

Balakanda, Third Sarga (10-39)

उपोद्घातः

In Valmiki Ramayana, the story of Sri Rama is summarized at multiple occasions. Here, Smt. Vidhya Ramesh gives a short introduction in Sanskrit about such summaries in Ramayana and chants these specific verses.

कूजन्तं राम रामेति मधुरं मधुराक्षरम्‌ । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌ । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्‌ ॥1॥

को न्वस्मिन्‌ साम्प्रतं लोके गुणवान्‌ कश्च वीर्यवान्‌ । धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः॥2॥

इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: । नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ॥8॥

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । यत्क्रौंचमिथुनादेकम् अवधीः काममोहितम् ॥

बालकाण्डः तृतीयसर्गः (१०-३९)

जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् । लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥10॥

नानाचित्राः कथाश्चान्या विश्वामित्रसहायने । जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥11॥

रामरामविवादं च गुणान्दाशरथेस्तथा । तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥12॥

विघातं चाभिषेकस्य रामस्य च विवासनम् । राज्ञश्शोकं विलापं च परलोकस्य चाश्रयम् ॥13॥

प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् । निषादाधिपसंवादं सूतोपावर्तनं तथा ॥14॥

सुमहद्वीर्यम् = सुमहत्-बलम् । क्षान्तिम् = अपराधसहिष्णुताम् ।रामरामविवादम् = श्रीराम-परशुरामयोः विवादम् । विघातम् = विघ्नम् । विवासनम् = वनं प्रति प्रस्थापनम् । परलोकस्य च आश्रयम् = परलोकगमनम्, मरणम् । प्रकृतीनाम् = प्रजानाम् । विषादम् = दुःखम् । विसर्जनम् = अयोध्यां प्रति परावर्तनम् । निषादाधिपसंवादम् = निषादाधिपेन गुहेन सह संवादम् । सूतोपावर्तनम् = सूतस्य सुमन्त्रस्य उपावर्तनम् ।

गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् । भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥15॥

वास्तुकर्म निवेशं च भरतागमनं तथा । प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥16॥

पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् । दण्डकारण्यगमनं विराधस्य वधं तथा ॥17॥

दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् । अनसूयासमाख्यां चाङ्गराग्स्य चार्पणम् ॥18॥

दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥19॥

वधं खरत्रिशिरसोरुत्थानं रावणस्य च । मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥20॥

अभ्यनुज्ञानात् = अनुमतेः कारणात् । वास्तुकर्म = चित्रकूटे पर्णशालायाः निर्माणम् । निवेशम् = अवस्थानम् । प्रसादनम् = भरतद्द्वारा रामस्य तोषणम् । सलिलक्रियाम् = सलिलदानम् । समाख्या = सम्भाषणम् । अङ्गराग्स्य = चन्दनादेः । उत्थानम् = प्रबोधनम् ।

राघवस्य विलापं च गृध्रराजनिबर्हणम् । कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥21॥

शबरीदर्शनं चैव फलमूलाशनं तथा । प्रलापं चैव पम्पायां हनूमद्दर्शनं तथा ॥22॥

ऋष्यमूकस्य गमनं सुग्रीवेण समागमम् । प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥23॥

वालिप्रमथनं चैव सुगीवप्रतिपादनम् । ताराविलापं समयं वर्षरात्रनिवासनम् ॥24॥

कोपं राघवसिंहस्य बलानामुपसंग्रहम् । दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥25॥

ऋष्यमूकस्य गमनम् = ऋष्यमूकस्य प्राप्तिम् । गृध्रराजनिबर्हणम् = गृध्रराजस्य जटायुषः हिंसनम् । समागमम् = मेलनम् । प्रत्ययोत्पादनम् = विश्वासजननम् । विग्रहम् = युद्धम् ।प्रमथनम् = वधम् । प्रतिपादनम् = राज्यस्थापनम् । समयम् = रामसुग्रीवयोः निर्णयम् । वर्षरात्रनिवासनम् = चातुर्मास्यसमये निवासनम् । बलानाम् = सेनानाम् । प्रस्थापनम् = प्रेषणम् । निवेदनम् = वर्णनम्।

अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम् । प्रायोपवेशनं चैव सम्पातेश्चापि दर्शनम् ॥26॥

पर्वतारोहणं चैव सागरस्यापि लङ्घनम् । समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥27॥

राक्षसीतर्जनं चैव च्छायाग्राहस्य दर्शनम् । सिंहिकायाश्च निधनं लङ्कामलयदर्शनम् ॥28॥

रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम् । आपानभूमिगमनम् अवरोधस्य दर्शनम् ॥29॥

दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् । अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥30॥

ऋक्षस्य बिलदर्शनम् = वानरैः ऋक्षनामक-गुहायाः दर्शनम् । प्रायोपवेशनम् = प्राणत्यागाय अनशनताम् । राक्षसीतर्जनम् = राक्षसीरूपधारिण्याः सुरसायाः हनूमतः प्रति भर्त्सनम् । निधनम् = वधम् । लङ्कामलयदर्शनम् = लङ्कायां त्रिकूटपर्वतस्य दर्शनम् । आपानभूमिः मद्यपानभूमिः । अवरोधस्य = अन्तःपुरस्य । पुष्पकस्य= पुष्पकविमानस्य । यानम् = गमनम् ।

अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् । राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम् ॥31॥

मणिप्रदानं सीताया वृक्षभङ्गं तथैव च । राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ॥32॥

ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम् । प्रतिप्लवनमेवाथ मधूनां हरणं तथा ॥33॥

राघवाश्वासनं चैव मणिनिर्यातनं तथा । सङ्गमं च समुद्रेण नलसेतोश्च बन्धनम् ॥34॥

प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् । विभीषणेन संसर्गं वधोपायनिवेदनम् ॥35॥

विद्रवम् = पलायनम् । किङ्कराणाम् = रावणभटानाम् | निबर्हणम् = मारणम् | लङ्कादाहाभिगर्जनम् = लङ्कायाः दहनं हनूमतः अभिगर्जनं च । निर्यातनम् = समर्पणम् | प्रतारम् = सन्तरणम् | वधोपायम् = रावणस्य वधाय विभीषणस्य उपायम् |

कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् । रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥36॥

वीभीषणाभिषेकं च पुष्पकस्य च दर्शनम् । अयोध्यायाश्च गमनं भरद्वाजसमागमम् ॥37॥

प्रेषणं वायुपुत्रस्य भरतेन समागमम् ।

रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् । स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥38॥

अनागतं च यत्किञ्चिद् रामास्य वसुधातले । तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः ॥39॥

निधनम् = मरणम्। निबर्हणम् = मारणम् । अवाप्तिम् = प्राप्तिम् । अरेः = शत्रोः । रामाभिषेकाभ्युदयम् = रामराज्याभिषेकोत्सवम् । सर्वसैन्यविसर्जनम् = सुग्रीवादिसर्वसैन्यानां स्वस्वस्थानं प्रति प्रेषणम् । स्वराष्ट्ररञ्जनम् = प्रजाप्रमोदनम् । विसर्जनम् = प्रेषणम् ।अनागतम् = भविष्यत्कालिकम् । चकार = वर्णयामास ।

उपसंहारः

यावत् स्थास्यन्ति गिरयः सरितश्च महीतले । तावद्रामायणकथा लोकेषु प्रचरिष्यति ॥1.2.36॥

Reference