Bhagavad Gita – Chapter 15

श्रीमद्भगवद्गीता – पञ्चदशोऽध्यायः – पुरुषोत्तमयोगः –

श्रीभगवानुवाच-

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ १ ॥

पदच्छेदः

ऊर्ध्वमूलम् अधःशाखम् अश्वत्थं प्राहुः अव्ययम् छन्दांसि यस्य पर्णानि यः तं वेद सः वेदवित् ॥ १ ॥

अन्वयः 

यस्य छन्दांसि पर्णानि (तादृशम्) अश्वत्थम् ऊर्ध्वमूलम् अधःशाखम् अव्ययं प्राहुः । यः तं वेद सः वेदवित् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = प्राहुः [ प्र + ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
    • कर्म-वाक्यांश:
      • “यस्य” वाक्यांश:
        • क्रियापदम् = (भवन्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = छन्दांसि [ स. नपुं. प्र. बहु. ]
        • कर्तृपदम् = पर्णानि [ अ. नपुं. प्र. बहु. ]
        • सम्बन्ध-पदम् = यस्य [ यद् द. पुं. ष. एक. ]
      • “तम्” वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = अव्ययम् [ अ. पुं. द्वि. एक. ]
        • कर्मपदम् = अश्वत्थम् [ अ. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = तम् [ तद् द. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = ऊर्ध्वमूलम् [ अ. पुं. द्वि. एक. ]
        • कर्मविशेषणम् = अधःशाखम् [ अ. पुं. द्वि. एक. ]
      • सम्योजकपदम् = इति [ अव्ययम् ]
    • द्वितीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = वेद [ विद् “विद ज्ञाने” पर. लट्. प्रपु. एक. ]
        • कर्मपदम् = तम् [ तद् द. पुं. द्वि. एक. ]
        • कर्तृपदम् = यः [ यद् द. पुं. प्र. एक. ]
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = वेदवित् [ त. पुं. प्र. एक. ]
        • कर्तृपदम् = सः [ तद् द. पुं. प्र. एक. ]

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः ।

अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

पदच्छेदः 

अधः च ऊर्ध्वं प्रसृताः तस्य शाखाः गुणप्रवृद्धाः विषयप्रवालाः अधः च मूलानि अनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके ॥ २ ॥

अन्वयः

तस्य गुणप्रवृद्धाः विषयप्रवालाः शाखाः अधः ऊर्ध्वं च प्रसृताः । मनुष्यलोके अनुसन्ततानि कर्मानुबन्धीनि मूलानि अधः च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (सन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = प्रसृताः
      • स्थानवाचकपदम् = अधः
      • स्थानवाचकपदम् = ऊर्ध्वम्
      • सम्योजकपदम् = च
    • वाक्यांश:
      • कर्तृपदम् = शाखाः
      • सम्बन्ध-पदम् = तस्य
    • कर्तृविशेषणम् = गुणप्रवृद्धाः
    • कर्तृविशेषणम् = विषयप्रवालाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = (सन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = अनुसन्ततानि
      • स्थानवाचकपदम् = अधः
    • कर्तृपदम् = मूलानि
    • वाक्यांश:
      • कर्तृविशेषणम् = कर्मानुबन्धीनि
      • अधिकरणपदम् = मनुष्यलोके

न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठः ।

अश्वत्थमेनं सुविरूढमूलमसङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः ।

तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

पदच्छेदः

न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठः अश्वत्थम् एनं सुविरूढमूलम् असङ्गशस्त्रेण दृढेन छित्त्वा ॥ ३ ॥

ततः पदं तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः तम् एव च आद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥

अन्वयः

अस्य रूपम् इह न उपलभ्यते तथा न अन्तः न च आदिः न च सम्प्रतिष्ठः । सुविरूढमूलम् एनम् अश्वत्थं दृढेन असशस्त्रेण छित्त्वा, ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यं पुरुषं प्रपद्ये इति मत्वा यस्मिन् गताः भूयः न निवर्तन्ति तत् पदं परिमार्गितव्यम् ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपलभ्यते
    • प्रतिषेधपदम् = न
    • स्थानवाचकपदम् = इह
    • वाक्यांश:
      • कर्मपदम् = रूपम्
      • सम्बन्ध-पदम् = अस्य
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = अन्तः
      • सम्योजकपदम् = तथा
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = आदिः
      • सम्योजकपदम् = च
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = सम्प्रतिष्ठः
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = छित्त्वा
        • करणवाचकपदम् = असशस्त्रेण
        • करणविशेषणम् = दृढेन
        • कर्मपदम् = अश्वत्थम्
        • कर्मविशेषणम् = सुविरूढमूलम्
        • कर्मविशेषणम् = एनम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = मत्वा
        • कर्म-वाक्यम्
          • “यतः” वाक्यांश:
            • क्रियापदम् = (अस्ति)
            • कर्तृ-विशेषण-सूचक-पदम् = प्रसृता
            • कर्तृपदम् = प्रवृत्तिः
            • कर्तृविशेषणम् = पुराणी
            • अपादानपदम् = यतः
          • “तम्” वाक्यांश:
            • क्रियापदम् = प्रपद्ये
            • कर्मपदम् = पुरुषम्
            • कर्मविशेषणम् = आद्यम्
            • कर्मविशेषणम् = तम्
            • अवधारणम् = एव
            • सम्योजकपदम् = च
            • कर्तृपदम् = (अहम्)
          • सम्योजकपदम् = इति
        • “यस्मिन्” वाक्यांश:
          • क्रियापदम् = निवर्तन्ति
          • प्रतिषेधपदम् = न
          • क्रियाविशेषणम् = भूयः
          • वाक्यांश:
            • कर्तृपदम् = गताः
            • अधिकरणपदम् = यस्मिन्
          • “तत्” वाक्यांश:
            • क्रियापदम् = (भवति)
            • कर्तृ-विशेषण-सूचक-पदम् = परिमार्गितव्यम्
            • कर्तृपदम् = पदम्
            • कर्तृविशेषणम् = तत्

निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः पदमव्ययं तत् ॥ ५ ॥

पदच्छेदः 

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः द्वन्द्वैः विमुक्ताः सुखदुःखसञ्ज्ञैः गच्छन्ति अमूढाः पदमव्ययं तत् ॥ ५ ॥

अन्वयः 

निर्मानमोहाः जितसङ्गदोषाः अध्यात्मनित्याः विनिवृत्तकामाः सुखदुःखसञ्ज्ञैः द्वन्द्वैः विमुक्ताः अमूढाः तत् अव्ययं पदं गच्छन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = अव्ययम्
    • कर्मविशेषणम् = तत्
    • कर्तृपदम् = अमूढाः
    • कर्तृविशेषणम् = निर्मानमोहाः
    • कर्तृविशेषणम् = जितसङ्गदोषाः
    • कर्तृविशेषणम् = अध्यात्मनित्याः
    • कर्तृविशेषणम् = विनिवृत्तकामाः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= विमुक्ताः
      • (कर्मणि) कर्तृपदम् = सुखदुःखसञ्ज्ञैः
      • (कर्मणि) कर्तृविशेषणम् = द्वन्द्वैः

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ ६ ॥

पदच्छेदः 

न तत् भासयते सूर्यः न शशाङ्कः न पावकः यत् गत्वा न निवर्तन्ते तत् धाम परमं मम ॥ ५ ॥

अन्वयः

सूर्यः तत् न भासयते, न शशाङ्कः,  न पावकः | यत् गत्वा न निवर्तन्ते तत् मम परमं धाम ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = भासयते
    • प्रतिषेधपदम् = न
    • कर्मपदम् = तत्
    • कर्तृविशेषणम् = सूर्यः
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = शशाङ्कः
    • समुच्चय-वाक्यम्
      • प्रतिषेधपदम् = न
      • कर्तृपदम् = पावकः
    • द्वितीयवाक्यम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = निवर्तन्ते
        • प्रतिषेधपदम् = न
        • क्त्वान्त-वाक्यांश:
          • क्त्वान्तपदम् = गत्वा
          • कर्मपदम् = यत्
        • “तत्” वाक्यांश:
          • क्रियापदम् = (अस्ति)
          • वाक्यांश:
            • कर्मविशेषण-सूचक-पदम् = धाम
            • कर्मविशेषणम् = परमम्
            • सम्बन्ध-पदम् = मम
          • कर्मपदम् = तत्

ममैवांशो जीवलोके जीवभूतः सनातनः ॥

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

पदच्छेदः

मम एव आंशः जीवलोके जीवभूतः सनातनः मनःषष्ठानि इन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥

अन्वयः

जीवलोके मम सनातनः अंशः एव जीवभूतः । (सः) प्रकृतिस्थानि मनःषष्ठानि इन्द्रियाणि कर्षति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = जीवभूतः
    • वाक्यांश:
      • कर्तृपदम् = अंशः
      • कर्तृविशेषणम् = सनातनः
      • सम्बन्ध-पदम् = मम
      • अवधारणम् = एव
    • अधिकरणपदम् = जीवलोके
  • द्वितीयवाक्यम्
    • क्रियापदम् = कर्षति
    • कर्मपदम् = इन्द्रियाणि
    • कर्मविशेषणम् = प्रकृतिस्थानि
    • कर्मविशेषणम् = मनःषष्ठानि
    • कर्तृपदम् = (सः)

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः ।

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥ ८ ॥

पदच्छेदः

शरीरं यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् ॥ ८ ॥

अन्वयः

ईश्वरः यत् शरीरम् अवाप्नोति, यत् च अपि उत्क्रामति वायुः आशयात् गन्धान् इव एतानि गृहीत्वा संयाति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = अवाप्नोति
      • कर्मपदम् = शरीरम्
      • कर्मविशेषणम् = यत्
    • “यत्” वाक्यांश:
      • क्रियापदम् = उत्क्रामति
      • कर्मपदम् = यत्
      • सम्योजकपदम् = च
      • सम्योजकपदम् = अपि
    • “एतानि” वाक्यांश:
      • क्रियापदम् = संयाति
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = गृहीत्वा
        • कर्मपदम् = एतानि
        • वाक्यांश:
          • कर्मपदम् = गन्धान्
          • अपादानपदम् = आशयात्
          • कर्तृपदम् = वायुः
          • सम्योजकपदम् = इव
        • कर्तृपदम् = ईश्वरः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।

अधिष्ठाय मनश्चायं विषयानुपसेवते ॥ ९ ॥

पदच्छेदः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणम् एव च अधिष्ठाय मनः च अयं विषयान् उपसेवते ॥ ९ ॥

अन्वयः

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणं च मनः च अधिष्ठाय अयम् एव विषयान् उपसेवते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = उपसेवते
    • कर्मपदम् = विषयान्
    • कर्तृपदम् = अयम्
    • अवधारणम् = एव
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अधिष्ठाय
      • कर्मपदम् = श्रोत्रम्
      • कर्मपदम् = चक्षुः
      • कर्मपदम् = स्पर्शनम्
      • कर्मपदम् = रसनम्
      • कर्मपदम् = घ्राणम्
      • कर्मपदम् = मनः
      • सम्योजकपदम् = च

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

पदच्छेदः

उत्क्रामन्तं स्थितं वा अपि भुञ्जानं वा गुणान्वितम् विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ॥ १० ॥

अन्वयः

विमूढाः उत्क्रामन्तं स्थितं वा अपि भुञ्जानं गुणान्वितं वा न अनुपश्यन्ति, ज्ञानचक्षुषः पश्यन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = अनुपश्यन्ति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = उत्क्रामन्तम्
    • कर्मपदम् = स्थितम्
    • वाक्यांश:
      • कर्मपदम् = भुञ्जानम्
      • कर्मविशेषणम् = गुणान्वितम्
    • अवधारणम् = अपि
    • सम्योजकपदम् = वा
    • समुच्चय-वाक्यम्
      • क्रियापदम् = पश्यन्ति
      • कर्तृपदम् = ज्ञानचक्षुषः

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ॥ ११ ॥

पदच्छेदः

यतन्तः योगिनः च एनं पश्यन्ति आत्मनि अवस्थितम् यतन्तः अपि अकृतात्मानः न एनं पश्यन्ति अचेतसः ॥ ११ ॥

अन्वयः

यतन्तः योगिनः च एनम् आत्मनि अवस्थितं पश्यन्ति । यतन्तः अपि अकृतात्मानः अचेतसः एनं न पश्यन्ति ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यन्ति
    • कर्मपदम् = एनम्
    • वाक्यांश:
      • कर्मविशेषणम् = अवस्थितम्
      • अधिकरणपदम् = आत्मनि
    • कर्तृपदम् = योगिनः
    • कर्तृविशेषणम् = यतन्तः
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • क्रियापदम् = पश्यन्ति
    • प्रतिषेधपदम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = अचेतसः
    • कर्तृविशेषणम् = अकृतात्मानः
    • वाक्यांश:
      • कर्तृविशेषणम् = यतन्तः
      • अवधारणम् = अपि

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥

पदच्छेदः

यदा आदित्यगतं तेजः जगद्भासयते अखिलम् यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् ॥ १२ ॥

अन्वयः

यत् आदित्यगतं तेजः, अखिलं जगत् भासयते, यत् चन्द्रमसि, यत् च अग्नौ, तत् तेजः मामकं (इति) विद्धि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्तृपदम् = (त्वम्)
    • कर्म-वाक्यम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = भासयते
        • कर्मपदम् = जगत्
        • कर्मविशेषणम् = अखिलम्
        • कर्तृपदम् = तेजः
        • कर्तृविशेषणम् = यत्
        • कर्तृविशेषणम् = आदित्यगतम्
      • “यत्” वाक्यांश:
        • क्रियापदम् = (भासयते)
        • कर्तृपदम् = यत्
        • अधिकरणपदम् = चन्द्रमसि
      • “यत्” वाक्यांश:
        • क्रियापदम् = (भासयते)
        • कर्तृपदम् = यत्
        • अधिकरणपदम् = अग्नौ
        • सम्योजकपदम् = च
      • “तत्” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = मामकम्
        • कर्तृपदम् = तेजः
        • कर्तृविशेषणम् = तत्
      • सम्योजकपदम् = (इति)

गामाविश्य च भूतानि धारयाम्यहमोजसा ।

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १३ ॥

पदच्छेदः

गाम् आविश्य च भूतानि धारयामि अहम् ओजसा पुष्णामि च औषधीः सर्वाः सोमः भूत्वा रसात्मकः ॥ १३ ॥

अन्वयः

अहं गाम् आविश्य च ओजसा भूतानि धारयामि । रसात्मकः सोमः भूत्वा सर्वाः औषधीः च पुष्णामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = धारयामि
    • कर्मपदम् = भूतानि
    • करणवाचकपदम् = ओजसा
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = आविश्य
      • कर्मपदम् = गाम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = पुष्णामि
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृपदम् = सोमः
      • कर्तृविशेषणम् = रसात्मकः
    • कर्मपदम् = औषधीः
    • कर्मविशेषणम् = सर्वाः
    • कर्तृपदम् = अहम्

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥ १४ ॥

पदच्छेदः

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः पचामि अन्नं चतुर्विधम् ॥ १४ ॥

अन्वयः

अहं वैश्वानरः भूत्वा प्राणिनां देहम् आश्रितः प्राणापानसमायुक्तः चतुर्विधम् अन्नं पचामि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = पचामि
    • कर्मपदम् = अन्नम्
    • कर्मविशेषणम् = चतुर्विधम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृपदम् = वैश्वानरः
    • कर्तृपदम् = अहम्
    • वाक्यांश:
      • कर्तृविशेषणम् = आश्रितः
      • कर्मपदम् = देहम्
      • सम्बन्ध-पदम् = प्राणिनाम्

सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।

वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

पदच्छेदः

सर्वस्य च अहं हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनं च वेदैः च सर्वैः अहम् एव वेद्यः वेदान्तकृत् वेदवित् एव च अहम् ॥ १५ ॥

अन्वयः

अहं सर्वस्य हृदि सन्निविष्टः च । मत्तः एव स्मृतिः ज्ञानम् अपोहनं च । अहम् एव सर्वैः वेदैः वेद्यः च । अहम् एव वेदान्तकृत् वेदवित् च ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्मि)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = सन्निविष्टः
      • अधिकरणपदम् = हृदि
      • सम्बन्ध-पदम् = सर्वस्य
    • कर्तृपदम् = अहम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृपदम् = स्मृतिः
    • कर्तृपदम् = ज्ञानम्
    • कर्तृपदम् = अपोहनम्
    • सम्योजकपदम् = च
    • वाक्यांश:
      • अपादानपदम् = मत्तः
      • अवधारणम् = एव
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = वेद्यः
      • करणवाचकपदम् = वेदैः
      • करणविशेषणम् = सर्वैः
      • सम्योजकपदम् = च
      • कर्तृपदम् = अहम्
      • अवधारणम् = एव
    • चतुर्थवाक्यम्
      • क्रियापदम् = (अस्मि)
      • कर्तृ-विशेषण-सूचक-पदम् = वेदान्तकृत्
      • कर्तृ-विशेषण-सूचक-पदम् = वेदवित्
      • सम्योजकपदम् = च
      • कर्तृपदम् = अहम्
      • अवधारणम् = एव

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ १६ ॥

पदच्छेदः

द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते ॥ १६ ॥

अन्वयः

लोके क्षरः च अक्षरः एव च इमौ पुरुषौ द्वौ । सर्वाणि भूतानि क्षरः (इति) उच्यते । कूटस्थः अक्षरः (इति) उच्यते ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्थः)
    • कर्तृविशेषणम् = पुरुषौ
    • कर्तृविशेषणम् = द्वौ
    • कर्तृविशेषणम् = इमौ
    • वाक्यांश:
      • कर्तृपदम् = क्षरः
      • कर्तृपदम् = अक्षरः
      • अवधारणम् = एव
      • सम्योजकपदम् = च
    • अधिकरणपदम् = लोके
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = क्षरः
      • कर्तृपदम् = भूतानि
      • कर्तृविशेषणम् = सर्वाणि
      • सम्योजकपदम् = (इति)
    • तृतीयवाक्यम्
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = अक्षरः
        • कर्तृपदम् = कूटस्थः
        • सम्योजकपदम् = (इति)

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १७ ॥

पदच्छेदः

उत्तमः पुरुषः तु अन्यः परमात्मा इति उदाहृतः यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः ॥

अन्वयः

उत्तमः पुरुषः तु अन्यः । परमात्मा इति उदाहृतः । यः लोकत्रयम् आविश्य बिभर्ति अव्ययः ।

पदपरिचयः

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अन्यः
    • वाक्यांश:
      • कर्तृपदम् = उत्तमः
      • कर्तृविशेषणम् = पुरुषः
    • अवधारणम् = तु
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = उदाहृतः
    • कर्म-वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = परमात्मा
      • कर्तृपदम् = (सः)
      • सम्योजकपदम् = (इति)
    • तृतीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = बिभर्ति
        • कर्तृपदम् = यः
        • ल्यबन्त-वाक्यांश:
          • ल्यबन्तपदम् = आविश्य
          • कर्मपदम् = लोकत्रयम्
        • (सः) वाक्यांश:
          • क्रियापदम् = (भवति)
          • कर्तृ-विशेषण-सूचक-पदम् = अव्ययः
          • कर्तृपदम् = (सः)

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १८ ॥

पदच्छेदः

यस्मात् क्षरम् अतीतः अहम् क्षरात् अपि च उत्तमः अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥

अन्वयः

यस्मात् अहं क्षरम् अतीतः अक्षरात् अपि च उत्तमः अतः लोके वेदे च पुरुषोत्तमः (इति) प्रथितः अस्मि ।

पदपरिचयः

  • प्रथमवाक्यम्
    • “यस्मात्” वाक्यांश:
      • क्रियापदम् = (अस्मि)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अतीतः
        • कर्मपदम् = क्षरम्
      • कर्तृपदम् = अहम्
      • समुच्चय-वाक्यम्
        • क्रियापदम् = (अस्मि)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = उत्तमः
          • अपादानपदम् = अक्षरात्
          • अवधारणम् = अपि
        • सम्योजकपदम् = च
        • कर्तृपदम् = (अहम्)
      • सम्योजकपदम् = यस्मात्
    • “अतः” वाक्यांश:
      • क्रियापदम् = अस्मि
      • कर्तृपदम् = (अहम्)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रथितः
      • कर्म-वाक्यम्
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = पुरुषोत्तमः
        • कर्तृपदम् = (सः)
        • अधिकरणपदम् = लोके
        • अधिकरणपदम् = वेदे
        • सम्योजकपदम् = च
        • सम्योजकपदम् = (इति)

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।

स सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥

पदच्छेदः

यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् सः सर्ववित् भजति मां सर्वभावेन भारत ॥

अन्वयः

भारत ! यः असम्मूढः पुरुषोत्तमं मां जानाति सः सर्ववित् सर्वभावेन भजति ।

पदपरिचयः

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = जानाति
      • कर्मपदम् = माम्
      • कर्मविशेषणम् = पुरुषोत्तमम्
      • कर्तृपदम् = असम्मूढः
      • कर्तृविशेषणम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = भजति
      • करणवाचकपदम् = सर्वभावेन
      • कर्तृपदम् = सर्ववित्
      • कर्तृविशेषणम् = सः

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।

एतद् बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ २० ॥

पदच्छेदः

इति गुह्यतमं शास्त्रम् इदम् उक्तं मयानघ एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत ॥ २० ॥

अन्वयः

अनघ ! इति मया इदं गुह्यतमं शास्त्रम् उक्तम् । भारत ! एतत् बुद्ध्वा बुद्धिमान् कृतकृत्यः च स्यात् ।

पदपरिचयः

  • सम्बोधनपदम् = अनघ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • (कर्मणि) क्रिया-गर्भ-कर्तृपदम्= उक्तम्
    • (कर्मणि) कर्मपदम् = शास्त्रम्
    • (कर्मणि) कर्मविशेषणम् = इदम्
    • (कर्मणि) कर्मविशेषणम् = गुह्यतमम्
    • (कर्मणि) कर्तृपदम् = मया
    • सम्योजकपदम् = इति
  • सम्बोधनपदम् = भारत!
    • क्रियापदम् = स्यात्
    • कर्तृ-विशेषण-सूचक-पदम् = बुद्धिमान्
    • कर्तृ-विशेषण-सूचक-पदम् = कृतकृत्यः
    • सम्योजकपदम् = च
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = बुद्ध्वा
      • कर्मपदम् = एतत्
    • कर्तृपदम् = (कश्चन)

References –

  1. 30 Jan 2016 दिनाङ्के नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6ph पुरुषोत्तमयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwas, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Kaavya Prakaasha – Dr. Vanitha Ramaswamy, Lecture Series – #1

काव्यप्रकाशः – Kaavya Prakaasha

Notes from Dr. Vanitha Ramaswamy’s classes

काव्यप्रकाशः – मम्मटः  – Class #1 on  30-Dec-2015

Kaavya Prakaasha is a work on Sanskrit Literature by Mammatta Bhatta. As the name suggests, it throws some light on the aspects of Kaavya or Poetry. He was present during 12th century. Note:  Dhvanyaloka was written during 10th century.

Mammatta’s contribution in his Kaavya Prakaasha:

He consolidated the theories. He recognized the importance of the various aspects. The words have to be put in the right form so that the meaning can be arrived at. शब्दार्थसहितौ काव्यम् | (भामहः शब्दार्थसहितौ काव्यम् इति काव्यस्य लक्षणम् उक्तवान् । ) Mammata agreed that words, their meaning, Alamkaara, Guna, Reethi, Dhvani, etc., are all important. Ultimately रसो वै सः | रसः = आनन्दः | The ultimate goal is Sat, Chit, Ananda. Ananda is achieved through Rasa.  Rasa leads to bliss or Ananda. There are different causes like Alamkara, Guna, Reethi. Sometimes, if the theme itself is very good, the other aspects are not required and the kaavya still brings happiness.

काव्यलक्षणं तु ..

  1. कवेः कर्म काव्यम् – राजशेखरः |
  2. उक्ति विशेषः काव्यं – विश्वनाथः |
  3. रमणीयार्थप्रतिपादकशब्द: काव्यम् – जगन्नाथः (रसगङ्गादारः) |
  4. तददोषौ शब्दार्थौ सगुणौ अनलंकृती पुनः क्वापि इति – मम्मटः |

Mammata defines Kaavya as the one without dosha or blemishes, i.e., साधु शब्दः without any grammatical mistakes, having proper meanings of the words, having gunas (among the ten gunas defined by Dandhi) , with or without alamkaara (which was considered important  by Bhaama).

Author Lakshana Grantha Soul Highlight Time
Bharata Muni Naatya Shaastra Rasa काव्यस्य आत्मा रस: |
इति वृत्तम् तुकाव्यस्य शरीरम् |
500 BC
Bhaama Kaavyaalamkaara Alamkara काव्यस्य आत्मा अलंकार: | 7th AD
Dhandi Kaavyaadharsha, Kaavyadarpanaa 10 Gunas दश गुणा: एव काव्यस्य आत्मा |  
Vaamana Kaavyaalankaara Sutra Vrutti Reeti रीतिरात्मा काव्यस्य |
(Anupraasaa – the way it is expressed – Reeti)
8th AD
Anandavardhana Dhvanyaaloka Dhvani काव्यस्य आत्मा ध्वनि: | 10th AD
Kuntaka Vakrookti Jivitam (crooked speech) Vakrotti काव्यस्य आत्मावक्रोत्ति: |  
Vishwanatha Saahitya Dharpana   उक्ति विशेषः काव्यं  
Mammata Kaavya Prakaasha   तददोषौ शब्दार्थौ सगुणौ अनलंकृती पुनः क्वापि इति 12th  AD
Jagannatha Pandita Rasa Gangadhaaraa   रमणीयार्थप्रतिपादकशब्द: काव्यम् 18th AD 

काव्यप्रकाशः – प्रथम उल्लासः

काव्यप्रकाशः/प्रथमः उल्लासः – Wikisource

Kaavya Prayojanam

काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ।। 2 ।।

The poetry brings refinement in one’s behavior which results in fame. Poetry earns money influenced and inspired by poetry. Poetry provides the knowledge of the worldly affairs. Shiva = mangala. Shiva-itara = not mangala. Poetry crushes the inauspicious things. Poetry gives immediate aesthetic pleasure. All these advices are given in the words of the sweet heart.

(Video) Sankshepa Ramayanam – Shloka 1

रामायणम्

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌ । नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्‌ ॥

पदच्छेदः

तप:स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्‌ नारदं परिपप्रच्छ वाल्मीकिः मुनिपुङ्गवम्‌ ।

अन्वयः

तपस्वी वाल्मीकि: तप:स्वाध्यायनिरतं वाग्विदां वरं मुनिपुङ्गवं नारदं परिपप्रच्छ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = परिपप्रच्छ [ परि + प्रच्छ “प्रच्छ ज्ञीप्सायाम्” पर. लिट्. प्रपु. एक. ]
    • कर्मपदम् = नारदम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = मुनिपुङ्गवम् [ अ. पुं. द्वि. एक. ]
    • वाक्यांश:
      • कर्मविशेषणम् = वरम् [ अ. पुं. द्वि. एक. ]
      • सम्बन्ध-पदम् = वाग्विदाम् [ त. पुं. ष. बहु. ]
    • कर्मविशेषणम् = तप:स्वाध्यायनिरतम् [ अ. पुं. द्वि. एक. ]
    • कर्तृपदम् = वाल्मीकि: [ इ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = तपस्वी [ न. पुं. प्र. एक. ]

व्याकरणांशाः

  • सन्धि:
    • वाल्मीकिर्मुनिपुङ्गवम्‌ = वाल्मीकिः मुनिपुङ्गवम्‌ – विसर्ग सन्धि:, रेफादेश: |
  • समासः
    • तपःस्वाध्यायनिरतम्
      • तपःस्वाध्यायौ = तपश्च स्वाध्यायश्च – इतरेतर द्वन्द्वः |
      • तपःस्वाध्यायनिरतम् = तपःस्वाध्याययोः निरतः, तम् – सप्तमी तत्पुरुषः |
    • मुनिपुङ्गवः
      • पुमान् च असौ गौः च इति पुङ्गवः – कर्मदारयः |
      • मुनिषु पुङ्गवः मुनिपुङ्गवः, तम् – सप्तमी तत्पुरुषः |
    • कृदन्तः
      • वाग्विदाम् – वाचं वेत्ति इति वाग्विद् , तेषां । [ वाक् + वित् + क्विप् प्रत्यय ]
    • तद्दितान्तः
      • तपस्वी
        • तपस्वी = तपस् + विनि प्रत्ययः | तपः अस्य अस्मिन् वा अस्ति इति |
        • 5-2-121 अस्मायामेधास्रजो विनिः | काशिका — असन्तात् प्रातिपदिकात्, माया मेधा स्रजित्येतेभ्यश्च विनिः प्रत्ययो भवति मत्वर्थे। मतुप् सर्वत्र समुच्चीयते एव। असन्तात् तावत् यशस्वी, पयस्वी। मायावी। मेधावी। स्रग्वी। मायाशब्दाद् व्रीह्यादिषु पाठातिनिठनौ अपि भवतः। मायी, मायिकः।

तात्पर्यम्

तपस्वी महर्षिः वाल्मीकिः वर्तनीयमादिषु वेदाध्ययनाध्यापनादिषु च सततं तत्परं  ज्ञानिनां  वरिष्ठं मुनिषु श्रेष्ठं देवर्षिं नारदं पृष्टवान् |

सन्दर्भाः 

  1. Jan 24, 2016 दिनांके आनन्दमहोदयेन पाठितः श्लोकः
  2. https://www.youtube.com/watch?v=FciTYvwDroM – Sankshepa Ramayanam – Class 1 – Anand V – Jan 24, 2016
  3. http://sanskrit.uohyd.ac.in/scl/sankshepa_ramayanam/ramayana-interface/index.html

 

Notes:

Sankshepa Ramayanam is not a different work from Valmiki Ramayanam. It is the first sarga or chapter of Valmiki Ramayanam. Listing certain good qualities, Valmiki asks his guru, Narada,  if there is a man with such good qualities. Narada says that Rama is such a person.

Bhagavad Gita – Chapter 2

श्रीमद्भगवद्गीता – द्वितीयोध्याय: – सांख्ययोगः

(Some updates are pending)

सञ्जय उवाच

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् ।

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ॥ १ ॥

पदच्छेदः

तम्, तथा, कृपया, आविष्टम्, अश्रुपूर्णाकुलेक्षणम् । विषीदन्तम्, इदम्, वाक्यम्, उवाच, मधुसूदनः ॥

अन्वयः

मधुसूदनः तथा कृपया आविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं तम् इदं वाक्यम् उवाच ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उवाच
    • कर्मपदम् = वाक्यम्
    • कर्मविशेषणम् = इदम्
    • वाक्यांश:
      • (सम्प्रदान-विशेषण-सूचकः) कर्मविशेषण-वाक्यांश:
        • (सम्प्रदान-विशेषण-सूचकम्) क्रिया-गर्भ-कर्मपदम्= आविष्टम्
        • क्रियाविशेषणम् = तथा
        • (कर्मणि) कर्मपदम् = कृपया
      • (सम्प्रदान-विशेषण-सूचकम्) कर्मविशेषणम् = अश्रुपूर्णाकुलेक्षणम्
      • (सम्प्रदान-विशेषण-सूचकम्) कर्मविशेषणम् = विषीदन्तम्
      • (सम्प्रदान-सूचकम्) कर्मपदम् = तम्
    • कर्तृपदम् = मधुसूदनः

श्रीभगवानुवाच –

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

पदच्छेदः

कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥

अन्वयः

अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= समुपस्थितम्
      • कर्मपदम् = त्वा
    • कर्मपदम् = कश्मलम्
    • कर्मविशेषणम् = इदम्
    • कर्मविशेषणम् = अनार्यजुष्टम्
    • कर्मविशेषणम् = अस्वर्ग्यम्
    • कर्मविशेषणम् = अकीर्तिकरम्
    • अधिकरणपदम् = विषमे

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥

पदच्छेदः

क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥

अन्वयः

पार्थ ! क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = गमः
    • क्रियाविशेषण-सूचक-पदम् = स्म
    • क्रियाविशेषणम् = मा
    • कर्मपदम् = क्लैब्यम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = एतत्
    • अधिकरणपदम् = त्वयि
  • सम्बोधनपदम् = परन्तप!
  • तृतीयवाक्यम्
    • क्रियापदम् = उत्तिष्ठ
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = हृदयदौर्बल्यम्
      • कर्मविशेषणम् = क्षुद्रम्
    • कर्तृपदम् = (त्वम्)

अर्जुन उवाच-

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

पदच्छेदः

कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन । इषुभिः, प्रतियोत्स्यामि, पूजार्हौ, अरिसूदन ॥

अन्वयः

मधुसूदन ! अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मं द्रोणं च प्रतियोत्स्यामि ? अरिसूदन !

पदपरिचय:

  • सम्बोधनपदम् = मधुसूदन!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रतियोत्स्यामि
    • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
    • अधिकरणपदम् = सङ्ख्ये
    • करणवाचकपदम् = इषुभिः
    • कर्मविशेषणम् = पूजार्हौ
    • वाक्यांश:
      • कर्मपदम् = भीष्मम्
      • कर्मपदम् = द्रोणम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = अहम्
  • सम्बोधनपदम् = अरिसूदन

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।

हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

पदच्छेदः

गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, भैक्ष्यम्, अपि, इह, लोके । हत्वा, अर्थकामान्, तु , गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥

अन्वयः

महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् इह लोके श्रेयः (स्यात्) । गुरून् हत्वा इह एव रुधिरप्रदिग्धान् अर्थकामान् भोगान् (अहं) भुञ्जीय (वा) ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्यात्)
    • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः
    • अधिकरणपदम् = लोके
    • अधिकरण-विशेषणम् = इह
    • कर्तृपदम् = भैक्ष्यम्
    • तुमुनन्तपदम् = भोक्तुम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = अहत्वा
      • कर्मपदम् = गुरून्
      • कर्मविशेषणम् = महानुभावान्
    • द्वितीयवाक्यम्
      • प्रश्नवाचक-क्रियाविशेषणम् = (वा)
      • क्रियापदम् = भुञ्जीय
      • कर्मपदम् = भोगान्
      • कर्मविशेषणम् = अर्थकामान्
      • कर्मविशेषणम् = रुधिरप्रदिग्धान्
      • अधिकरणपदम् = इह
      • अधिकरण-विशेषणम् = एव
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = गुरून्
      • कर्तृपदम् = (अहम्)

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।

यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

पदच्छेदः

न, च, एतत्, विद्मः, कतरत्, नः, गरीयः, यत्, वा, जयेम, यदि, वा, नः, जयेयुः । यान्, एव, हत्वा, न, जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥

अन्वयः

यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः । (तस्मात्) यद् वा जयेम यदि वा नो जयेयुः (अनयोः) कतरत् नः गरीयः (इति) एतत् न विद्मः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यान्” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= जिजीविषामः
      • क्रियाविशेषणम् = न
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हत्वा
        • कर्मपदम् = यान्
      • “ते” वाक्यांश:
        • कर्तृ-विशेषण-सूचक-वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= अवस्थिताः
          • अधिकरणपदम् = प्रमुखे
        • कर्तृपदम् = धार्तराष्ट्राः
        • कर्तृविशेषणम् = ते
        • कर्तृ-विशेषण-सूचक-पदम् = एव
      • द्वितीयवाक्यम्
        • क्रियापदम् = विद्मः
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = (वयम्)
        • वाक्यांश:
          • कर्मपदम् = गरीयः
          • सम्बन्ध-पदम् = नः
          • प्रश्नवाचक-कर्मविशेषणम् = कतरत्
        • कर्म-वाक्यांश:
          • प्रश्नवाचक-क्रियाविशेषणम् = वा
          • क्रियापदम् = जयेम
          • सम्योजकपदम् = यद्
        • कर्म-वाक्यांश:
          • प्रश्नवाचक-क्रियाविशेषणम् = वा
          • क्रियापदम् = जयेयुः
          • कर्मपदम् = नः
        • सम्योजकपदम् = (इति)

कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७ ॥

पदच्छेदः

कार्पण्यदोषोपहतस्वभावः, पृच्छामि, त्वाम्, धर्मसम्मूढचेताः । यत्, श्रेयः, स्यात्, निश्चितम्, ब्रूहि, तत्, मे, शिष्यः, ते, अहम्, शाधि, माम्, त्वाम्, प्रपन्नम्॥

अन्वयः

कार्पण्यदोषोपहतस्वभावः धर्मसम्मूढचेताः त्वां पृच्छामि । यत् निश्चितं श्रेयः स्यात् तत् मे ब्रूहि । अहं ते शिष्यः । त्वां प्रपन्नं मां शाधि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पृच्छामि
    • सम्प्रदान- सूचक-कर्मपदम् = त्वाम्
    • कर्तृपदम् = (अहम्)
    • कर्तृविशेषणम् = कार्पण्यदोषोपहतस्वभावः
    • कर्तृविशेषणम् = धर्मसम्मूढचेताः
  • द्वितीयवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • क्रियाविशेषणम् = निश्चितम्
      • कर्तृ-विशेषण-सूचक-पदम् = श्रेयः
      • कर्तृपदम् = यत्
    • “तत्” वाक्यांश:
      • क्रियापदम् = ब्रूहि
      • कर्मपदम् = तत्
      • सम्प्रदानपदम् = मे
      • कर्तृपदम् = (त्वम्)
    • तृतीयवाक्यम्
      • क्रियापदम् = (अस्मि)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = शिष्यः
        • सम्बन्ध-पदम् = ते
      • कर्तृपदम् = अहम्
    • चतुर्थवाक्यम्
      • क्रियापदम् = शाधि
      • कर्मपदम् = माम्
      • वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= प्रपन्नम्
        • कर्मपदम् = त्वाम्
      • कर्तृपदम् = (त्वम्)

नहि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् ।

अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् ॥ ८ ॥

पदच्छेदः

न, हि, प्रपश्यामि, मम, अपनुद्यात्, यत्, शोकम्, उच्छोषणम्, इन्द्रियाणाम् । अवाप्य, भूमौ, असपत्नम्, ऋद्धम्, राज्यम्, सुराणाम्, अपि, च, आधिपत्यम् ॥

अन्वयः

भूमौ असपत्नम् ऋद्धं महत् राज्यं सुराणाम् आधिपत्यं च अवाप्य अपि (स्थितस्य) मम यत् इन्द्रियाणाम् उच्छोषणं शोकम् अपनुद्यात् (तत्कर्म) नहि प्रपश्यामि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = अपनुद्यात्
      • कर्मपदम् = शोकम्
      • कर्मविशेषण-वाक्यांश:
        • कर्मपदम् = उच्छोषणम्
        • सम्बन्ध-पदम् = इन्द्रियाणाम्
      • कर्तृपदम् = यत्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = अवाप्य
        • कर्म-वाक्यांश:
          • कर्मपदम् = राज्यम्
          • कर्मविशेषणम् = महत्
          • कर्मविशेषणम् = ऋद्धम्
          • कर्मविशेषणम् = असपत्नम्
          • अधिकरणपदम् = भूमौ
        • कर्म-वाक्यांश:
          • कर्मपदम् = आधिपत्यम्
          • सम्बन्ध-पदम् = सुराणाम्
          • सम्योजकपदम् = च
        • “(तत्)” वाक्यांश:
          • क्रियापदम् = प्रपश्यामि
          • क्रियाविशेषणम् = न
          • क्रियाविशेषणम् = हि
          • कर्तृपदम् = (अहम्)

सञ्जय उवाच-

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप ।

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ॥ ९ ॥

अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य नवमः श्लोकः ।

पदच्छेदः

एवम्, उक्त्वा, हृषीकेशम्, गुडाकेशः, परन्तप । न, योत्स्ये, इति, गोविन्दम्, उक्त्वा, तूष्णीम्, बभूव, ह ॥

अन्वयः

परन्तप ! हृषीकेशम् एवम् उक्त्वा गुडाकेशः न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीं बभूव ।

पदपरिचय:

  • सम्बोधनपदम् = परन्तप!
  • प्रथमवाक्यम्
    • क्रियापदम् = बभूव
    • क्रियाविशेषणम् = तूष्णीम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उक्त्वा
      • क्रियाविशेषणम् = एवम्
      • सम्प्रदान-सूचक-कर्मपदम् = हृषीकेशम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उक्त्वा
      • कर्म-वाक्यम्
        • क्रियापदम् = योत्स्ये
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = (अहम्)
        • सम्योजकपदम् = इति
      • सम्प्रदान-सूचक-कर्मपदम् = गोविन्दम्
    • कर्तृपदम् = गुडाकेशः

तमुवाच हृषीकेशः प्रहसन्निव भारत ।

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥ १० ॥

पदच्छेदः

तम्, उवाच, हृषीकेशः, प्रहसन्, इव, भारत । सेनयोः, उभयोः, मध्ये, विषीदन्तम्, इदम्, वचः ॥

अन्वयः

भारत ! हृषीकेशः प्रहसन् इव उभयोः सेनयोः मध्ये विषीदन्तं तम् इदं वचः उवाच ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = उवाच
    • कर्मपदम् = वचः
    • कर्मविशेषणम् = इदम्
    • सम्प्रदान-सूचक-कर्मपदम् = तम्
    • सम्प्रदानविशेषण-सूचक-कर्मविशेषणम् = विषीदन्तम्
    • वाक्यांश:
      • अधिकरणपदम् = मध्ये
      • सम्बन्ध-पदम् = सेनयोः
      • सम्बन्ध-विशेषण-पदम् = उभयोः
    • वाक्यांश:
      • कर्तृविशेषणम् = प्रहसन्
      • सम्योजकपदम् = इव
    • कर्तृपदम् = हृषीकेशः

श्रीभगवानुवाच-

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ ११ ॥

पदच्छेदः

अशोच्यान्, अन्वशोचः, त्वम्, प्रज्ञावादान्, च, भाषसे । गतासून्, अगतासून्, च, न, अनुशोचन्ति, पण्डिताः ॥

अन्वयः

त्वम् अशोच्यान् अन्वशोचः । प्रज्ञावादान् च भाषसे । पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अन्वशोचः
      • कर्मपदम् = अशोच्यान्
    • कर्तृपदम् = त्वम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = भाषसे
    • कर्मपदम् = प्रज्ञावादान्
    • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = अनुशोचन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = गतासून्
    • कर्मपदम् = अगतासून्
    • सम्योजकपदम् = च
    • कर्तृपदम् = पण्डिताः

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।

न चैव न भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥

पदच्छेदः

न, तु, एव, अहम्, जातु, न, आसम्, न, त्वम्, न, इमे, जनाधिपाः । न, च, एव, न, भविष्यामः, सर्वे, वयम् , अतः, परम् ॥

अन्वयः

अहं जातु न आसम् (इति) न तु एव | त्वम् (न आसीः इति) न | इमे जनाधिपाः (न आसन् इति) न | अतः परं वयं सर्वे न च एव भविष्यामः (इति) न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = तु
    • क्रियाविशेषणम् = एव
    • कर्म-वाक्यम्
      • क्रियापदम् = आसम्
      • क्रियाविशेषणम् = न
      • कालवाचकपदम् = जातु
      • कर्तृपदम् = अहम्
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • क्रियाविशेषणम् = न
      • कर्म-वाक्यम्
        • क्रियापदम् = (आसीः)
        • क्रियाविशेषणम् = (न)
        • कर्तृपदम् = त्वम्
        • सम्योजकपदम् = (इति)
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • कर्म-वाक्यम्
          • क्रियापदम् = (आसन्)
          • क्रियाविशेषणम् = (न)
          • कर्तृपदम् = जनाधिपाः
          • कर्तृविशेषणम् = इमे
          • सम्योजकपदम् = (इति)
        • चतुर्थवाक्यम्
          • क्रियापदम् = (भवति)
          • क्रियाविशेषणम् = न
          • कर्म-वाक्यम्
            • क्रियापदम् = भविष्यामः
            • क्रियाविशेषणम् = न
            • क्रियाविशेषणम् = एव
            • क्रियाविशेषणम् = च
            • कर्तृपदम् = सर्वे
            • कर्तृविशेषणम् = वयम्
            • कालवाचक-वाक्यांश:
              • कालवाचकपदम् = परम्
              • अपादानपदम् = अतः
            • सम्योजकपदम् = (इति)

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

पदच्छेदः

देहिनः, अस्मिन्, यथा, देहे, कौमारम्, यौवनम्, जरा । तथा, देहान्तरप्राप्तिः, धीरः, तत्र, न, मुह्यति ॥

अन्वयः

देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा (च) तथा देहान्तरप्राप्तिः । तत्र धीरः न मुह्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = कौमारम्
      • कर्तृपदम् = यौवनम्
      • कर्तृपदम् = जरा
      • सम्योजकपदम् = (च)
      • वाक्यांश:
        • अधिकरणपदम् = देहे
        • अधिकरण-विशेषणम् = अस्मिन्
        • सम्बन्ध-पदम् = देहिनः
      • सम्योजकपदम् = यथा
    • “तथा” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = देहान्तरप्राप्तिः
      • सम्योजकपदम् = तथा
    • द्वितीयवाक्यम्
      • क्रियापदम् = मुह्यति
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = धीरः
      • स्थानवाचकपदम् = तत्र

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥

पदच्छेदः

मात्रास्पर्शाः, तु, कौन्तेय, शीतोष्णसुखदुःखदाः । आगमापायिनः, अनित्याः, तान्, तितिक्षस्व, भारत ॥

अन्वयः

कौन्तेय ! मात्रास्पर्शाः तु शीतोष्णसुखदुःखदाः आगमापायिनः अनित्याः । भारत ! तान् तितिक्षस्व ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = शीतोष्णसुखदुःखदाः
    • कर्तृ-विशेषण-सूचक-पदम् = आगमापायिनः
    • कर्तृ-विशेषण-सूचक-पदम् = अनित्याः
    • कर्तृपदम् = मात्रास्पर्शाः
    • कर्तृ-विशेषण-सूचक-पदम् = तु
  • सम्बोधनपदम् = भारत
  • द्वितीयवाक्यम्
    • क्रियापदम् = तितिक्षस्व
    • कर्मपदम् = तान्
    • कर्तृपदम् = (त्वम्)

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ॥ १५ ॥

पदच्छेदः

यम्, हि, न, व्यथयन्ति, एते, पुरुषम्, पुरुषर्षभ । समदुःखसुखम्, धीरम्, सः, अमृतत्वाय, कल्पते ॥

अन्वयः

पुरुषर्षभ ! एते यं समदुःखसुखं धीरं पुरुषं न व्यथयन्ति सः अमृतत्वाय कल्पते ।

पदपरिचय:

  • सम्बोधनपदम् = पुरुषर्षभ
  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = व्यथयन्ति
      • क्रियाविशेषणम् = न
      • कर्मपदम् = पुरुषम्
      • कर्मविशेषणम् = समदुःखसुखम्
      • कर्मविशेषणम् = धीरम्
      • कर्मविशेषणम् = यम्
      • कर्तृपदम् = एते
    • “सः” वाक्यांश:
      • क्रियापदम् = कल्पते
      • सम्प्रदानपदम् = अमृतत्वाय
      • कर्तृपदम् = सः

नासतो विद्यते भावो नाभावो विद्यते सतः ।

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ १६ ॥

पदच्छेदः

न, असतः, विद्यते, भावः, न, अभावः, विद्यते, सतः । उभयोः, अपि, दृष्टः, अन्तः, तु, अनयोः, तत्त्वदर्शिभिः ॥

अन्वयः

असतः भावः न विद्यते, सतः अभावः न विद्यते । अनयोः उभयोः (सदसतोः) अपि अन्तः तत्त्वदर्शिभिः दृष्टः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = भावः
    • सम्बन्ध-पदम् = असतः
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = अभावः
    • सम्बन्ध-पदम् = सतः
  • तृतीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम् = दृष्टः
    • वाक्यांश:
      • (कर्मणि) कर्मपदम् = अन्तः
      • सम्बन्ध-पदम् = अनयोः
      • सम्बन्ध-विशेषण-पदम् = उभयोः
      • सम्बन्ध-विशेषण-पदम् = अपि
    • (कर्मणि) कर्तृपदम् = तत्त्वदर्शिभिः

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७ ॥

पदच्छेदः

अविनाशि, तु, तत्, विद्धि, येन, सर्वम्, इदम्, ततम् । विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति ॥

अन्वयः

येन इदं सर्वं ततं तत् तु अविनाशि विद्धि । अस्य अव्ययस्य विनाशं कर्तुं कश्चित् अपि न अर्हति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्धि
    • कर्म-वाक्यम्
      • “येन” वाक्यांश:
        • क्रिया-गर्भ-कर्मपदम्= ततम्
        • कर्मपदम् = सर्वम्
        • कर्मविशेषणम् = इदम्
        • कर्तृपदम् = येन
      • “तत्” वाक्यांश:
        • क्रियापदम् = (अस्ति)
        • कर्तृ-विशेषण-सूचक-पदम् = अविनाशि
        • कर्तृपदम् = तत्
        • कर्तृ-विशेषण-सूचक-पदम् = तु
      • सम्योजकपदम् = (इति)
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = अर्हति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = कश्चित्
    • वाक्यांश:
      • तुमुनन्तपदम् = कर्तुम्
      • कर्मपदम् = विनाशम्
      • सम्बन्ध-पदम् = अव्ययस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥

पदच्छेदः

अन्तवन्तः, इमे, देहाः, नित्यस्य, उक्ताः, शरीरिणः । अनाशिनः, अप्रमेयस्य, तस्मात्, युध्यस्व, भारत ॥

अन्वयः

अनाशिनः अप्रमेयस्य नित्यस्य च शरीरिणः इमे देहाः अन्तवन्तः उक्ताः । भारत ! तस्मात् युध्यस्व ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= उक्ताः
    • कर्म-वाक्यम्
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = अन्तवन्तः
      • वाक्यांश:
        • कर्तृपदम् = देहाः
        • कर्तृ-विशेषण-वाक्यांश: इमे
        • सम्बन्ध-पदम् = शरीरिणः
        • सम्बन्ध-विशेषण-पदम् = अनाशिनः
        • सम्बन्ध-विशेषण-पदम् = अप्रमेयस्य
        • सम्बन्ध-विशेषण-पदम् = नित्यस्य
        • सम्योजकपदम् = च
      • सम्योजकपदम् = (इति)
    • सम्बोधनपदम् = भारत!
    • द्वितीयवाक्यम्
      • क्रियापदम् = युध्यस्व
      • सम्योजकपदम् = तस्मात्
      • कर्तृपदम् = (त्वम्)

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥ १९ ॥

पदच्छेदः

यः, एनम्, वेत्ति, हन्तारम्, यः, च, एनम्, मन्यते, हतम् । उभौ, तौ, न, विजानीतः, न, अयम्, हन्ति, न, हन्यते ॥

अन्वयः

यः एनं हन्तारं वेत्ति, यः च एनं हतं मन्यते तौ उभौ न विजानीतः । (यतः) अयं न हन्ति, न हन्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वेत्ति,
      • कर्मविशेषण-सूचक-पदम् = हन्तारम्
      • कर्मपदम् = यः
      • कर्तृपदम् = यः
    • “यः” वाक्यांश:
      • क्रियापदम् = मन्यते
      • कर्मविशेषण-सूचक-पदम् = हतम्
      • कर्मपदम् = एनम्
      • कर्तृपदम् = यः
      • सम्योजकपदम् = च
    • “च” वाक्यांश:
      • क्रियापदम् = विजानीतः
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = उभौ
      • कर्तृविशेषणम् = तौ
    • द्वितीयवाक्यम्
      • वाक्यांश:
        • क्रियापदम् = हन्ति,
        • क्रियाविशेषणम् = न
      • वाक्यांश:
        • क्रियापदम् = हन्यते
        • क्रियाविशेषणम् = न
      • कर्तृपदम् = अयम्

न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः ।

अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ २० ॥

पदच्छेदः

न, जायते, म्रियते, वा, कदाचित्, नायम्, भूत्वा, भविता, वा, न, भूयः । अजः, नित्यः, शाश्वतः, अयम्, पुराणः, न, हन्यते, हन्यमाने, शरीरे ॥

अन्वयः

अयं कदाचित् न जायते न वा म्रियते । अयं भूत्वा भूयः भविता वा न । अयम् अजः नित्यः शाश्वतः पुराणः शरीरे हन्यमाने अपि न च हन्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = जायते
      • क्रियाविशेषणम् = न
    • वाक्यांश:
      • क्रियापदम् = म्रियते
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = वा
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = भूयः
    • कर्तृ-विशेषण-सूचक-पदम् = भविता
    • सम्योजकपदम् = वा
    • क्त्वान्तपदम् = भूत्वा
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = हन्यते
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = च
    • कालवाचक-वाक्यांश:
      • ज्ञापक-क्रियापदम् = हन्यमाने
      • क्रिया-आश्रय-कर्मपदम् = शरीरे
      • सतिसप्तमि-पदम् = (सति)
    • कर्तृपदम् = अयम्
    • कर्तृविशेषणम् = अजः
    • कर्तृविशेषणम् = नित्यः
    • कर्तृविशेषणम् = शाश्वतः
    • कर्तृविशेषणम् = पुराणः

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥ २१ ॥

पदच्छेदः

वेद, अविनाशिनम्, नित्यम्, यः, एनम्, अजम्, अव्ययम् । कथम्, सः, पुरुषः, पार्थ, कम्, घातयति, हन्ति, कम् ॥

अन्वयः

पार्थ, यः एनम् अविनाशिनं नित्यम् अजम् अव्ययं च वेद सः पुरुषः कं कथं घातयति ? कं हन्ति ?

पदपरिचय:

  • सम्बोधनपदम् = पार्थ
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = वेद
      • कर्मपदम् = एनम्
      • कर्मविशेषण-सूचक-पदम् = अविनाशिनम्
      • कर्मविशेषण-सूचक-पदम् = नित्यम्
      • कर्मविशेषण-सूचक-पदम् = अजम्
      • कर्मविशेषण-सूचक-पदम् = अव्ययम्
      • सम्योजकपदम् = च
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • वाक्यांश:
        • क्रियापदम् = घातयति
        • प्रश्नवाचक-क्रियाविशेषणम् = कथम्
        • प्रश्नवाचक-कर्म-पदम् = कम्
      • वाक्यांश:
        • क्रियापदम् = हन्ति
        • प्रश्नवाचक-कर्म-पदम् = कम्
      • कर्तृपदम् = सः
      • कर्तृविशेषणम् = पुरुषः

वासांसि जीर्णानि यथा विहाय नवानि गृण्हाति नरोऽपराणि ।

तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही ॥ २२ ॥

पदच्छेदः

वासांसि, जीर्णानि, यथा, विहाय, नवानि, गृण्हाति, नरः, अपराणि । तथा, शरीराणि, विहाय, जीर्णानि, अन्यानि, संयाति, नवानि, देही ॥

अन्वयः

नरः जीर्णानि वासांसि विहाय अपराणि नवानि यथा गृण्हाति तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = गृण्हाति
      • क्रियाविशेषणम् = यथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = वासांसि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अपराणि
      • कर्तृपदम् = नरः
    • “तथा” वाक्यांश:
      • क्रियापदम् = संयाति
      • क्रियाविशेषणम् = तथा
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = शरीराणि
        • कर्मविशेषणम् = जीर्णानि
      • कर्मपदम् = नवानि
      • कर्मविशेषणम् = अन्यानि
      • कर्तृपदम् = देही

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

पदच्छेदः

न एनम्, छिन्दन्ति, शस्त्राणि, न, एनम्, दहति, पावकः । न, च, एनम्, क्लेदयन्ति, आपः, न, शोषयति, मारुतः ॥

अन्वयः

शस्त्राणि एनं न छिन्दन्ति । पावकः एनं न दहति । आपः एनं न क्लेदयन्ति । मारुतः च न शोषयति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = छिन्दन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = शस्त्राणि
  • द्वितीयवाक्यम्
    • क्रियापदम् = दहति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = पावकः
  • तृतीयवाक्यम्
    • क्रियापदम् = क्लेदयन्ति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = आपः
  • चतुर्थवाक्यम्
    • क्रियापदम् = शोषयति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = एनम्
    • कर्तृपदम् = मारुतः
    • सम्योजकपदम् = च

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च ।

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ २४ ॥

पदच्छेदः

अच्छेद्यः, अयम्, अदाह्यः, अयम्, अक्लेद्यः, अशोष्यः, एव, च । नित्यः, सर्वगतः, स्थाणुः, अचलः, अयम्, सनातनः ॥

अन्वयः

अयम् अच्छेद्यः । अयम् अदाह्यः । अयम् अक्लेद्यः अशोष्यः एव च । अयं नित्यः सर्वगतः स्थाणुः अचलः सनातनः (च) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अच्छेद्यः
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अदाह्यः
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अक्लेद्यः
    • कर्तृ-विशेषण-सूचक-पदम् = अशोष्यः
    • कर्तृ-विशेषण-सूचक-पदम् = एव
    • सम्योजकपदम् = च
    • कर्तृपदम् = अयम्
  • चतुर्थवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = नित्यः
    • कर्तृ-विशेषण-सूचक-पदम् = सर्वगतः
    • कर्तृ-विशेषण-सूचक-पदम् = स्थाणुः
    • कर्तृ-विशेषण-सूचक-पदम् = अचलः
    • कर्तृ-विशेषण-सूचक-पदम् = सनातनः
    • सम्योजकपदम् = (च)
    • कर्तृपदम् = अयम्

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

पदच्छेदः

अव्यक्तः, अयम्, अचिन्त्यः, अयम्, अविकार्यः, अयम्, उच्यते । तस्मात्, एवम्, विदित्वा, एनम्, न, अनुशोचितुम्, अर्हसि ॥

अन्वयः

अयम् अव्यक्तः । अयम् अचिन्त्यः । अयम् अविकार्यः उच्यते । तस्मात् एवम् एनं देहिनं विदित्वा अनुशोचितुं न अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तः
    • कर्तृपदम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अचिन्त्यः
    • कर्तृपदम् = अयम्
  • तृतीयवाक्यम्
    • क्रियापदम् = उच्यते
    • कर्मविशेषण-सूचक-पदम् = अविकार्यः
    • कर्मपदम् = अयम्
  • चतुर्थवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = अनुशोचितुम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = विदित्वा
      • क्रियाविशेषणम् = एवम्
      • कर्मपदम् = एनम्
      • कर्मविशेषणम् = देहिनम्
    • कर्तृपदम् = (त्वम्)

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ॥ २६ ॥

पदच्छेदः

अथ, च, एनम्, नित्यजातम्, नित्यम्, वा, मन्यसे, मृतम् । तथा, अपि, त्वम्, महाबाहो, न, एवम्, शोचितुम्, अर्हसि ॥

अन्वयः

महाबाहो ! अथ च एनं नित्यजातं नित्यं वा मृतं मन्यसे तथापि त्वम् एवं शोचितुं न अर्हसि ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • “अथ” वाक्यांश:
      • क्रियापदम् = मन्यसे
      • कर्म-वाक्यांश:
        • कर्मपदम् = एनम्
        • कर्मविशेषणम् = नित्यजातम्
        • वाक्यांश:
          • कर्मविशेषणम् = मृतम्
          • कालवाचकपदम् = नित्यम्
          • सम्योजकपदम् = वा
        • कर्तृपदम् = (त्वम्)
        • सम्योजकपदम् = अथ
        • सम्योजकपदम् = च
      • “तथापि” वाक्यांश:
        • क्रियापदम् = अर्हसि
        • क्रियाविशेषणम् = न
        • कर्मपदम् = एवम्
        • कर्मविशेषणम् = शोचितुम्
        • कर्तृपदम् = त्वम्
        • सम्योजकपदम् = तथापि

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

पदच्छेदः

जातस्य, हि, ध्रुवः, मृत्युः, ध्रुवम्, जन्म, मृतस्य च । तस्मात्, अपरिहार्ये, अर्थे, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः

जातस्य हि मृत्युः ध्रुवः । मृतस्य च जन्म ध्रुवम् । तस्मात् अपरिहार्ये अर्थे त्वं शोचितुं न अर्हसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = ध्रुवः
    • वाक्यांश:
      • कर्तृपदम् = मृत्युः
      • सम्बन्ध-पदम् = जातस्य
      • सम्बन्ध-विशेषण-पदम् = हि
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = ध्रुवम्
      • वाक्यांश:
        • कर्तृपदम् = जन्म
        • सम्बन्ध-पदम् = मृतस्य
        • सम्योजकपदम् = च
      • तृतीयवाक्यम्
        • क्रियापदम् = अर्हसि
        • क्रियाविशेषणम् = न
        • तुमुनन्तपदम् = शोचितुम्
        • कर्तृपदम् = त्वम्
        • अधिकरणपदम् = अर्थे
        • अधिकरण-विशेषणम् = अपरिहार्ये
        • कारणवाचकपदम् = तस्मात्

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।

अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

पदच्छेदः

अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत । अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना ॥

अन्वयः

भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव । तत्र का परिदेवना ?

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तादीनि
    • कर्तृ-विशेषण-सूचक-पदम् = व्यक्तमध्यानि
    • कर्तृ-विशेषण-सूचक-पदम् = अव्यक्तनिधनानि
    • कर्तृ-विशेषण-सूचक-पदम् = एव
    • कर्तृपदम् = भूतानि
  • द्वितीयवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृपदम् = परिदेवना
    • प्रश्नवाचक-कर्तृपदम् = का
    • स्थानवाचकपदम् = तत्र

आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।

आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥ २९ ॥

पदच्छेदः

आश्चर्यवत्, पश्यति, कश्चित्, एनम्, आश्चर्यवत्, वदति, तथा, एव, च, अन्यः । आश्चर्यवत्, च, एनम्, अन्यः, शृणोति, श्रुत्वा, अपि, एनम्, वेद, न, च, एव, कश्चित् ॥

अन्वयः

कश्चित् एनम् आश्चर्यवत् पश्यति | तथा एव अन्यः च आश्चर्यवत् वदति | अन्यः च एनम् आश्चर्यवत् शृणोति । कश्चित् एनं श्रुत्वा अपि न च एव वेद ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = पश्यति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • कर्मपदम् = एनम्
    • कर्तृपदम् = कश्चित्
  • द्वितीयवाक्यम्
    • क्रियापदम् = वदति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • क्रियाविशेषणम् = तथा
    • क्रियाविशेषणम् = एव
    • कर्तृपदम् = अन्यः
    • सम्योजकपदम् = च
  • तृतीयवाक्यम्
    • क्रियापदम् = शृणोति
    • क्रियाविशेषणम् = आश्चर्यवत्
    • कर्मपदम् = एनम्
    • कर्तृपदम् = अन्यः
    • सम्योजकपदम् = च
  • चतुर्थवाक्यम्
    • क्रियापदम् = वेद
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = एव
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = श्रुत्वा
      • क्रियाविशेषणम् = अपि
      • कर्मपदम् = एनम्
    • कर्तृपदम् = कश्चित्
    • सम्योजकपदम् = च

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥ ३० ॥

पदच्छेदः

देही, नित्यम्, अवध्यः, अयम्, देहे, सर्वस्य, भारत । तस्मात्, सर्वाणि, भूतानि, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः

भारत ! अयं देही सर्वस्य देहे नित्यम् अवध्यः । तस्मात् सर्वाणि भूतानि त्वं शोचितुं न अर्हसि ।

पदपरिचय:

  • सम्बोधनपदम् = भारत!
  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= अवध्यः
    • कालवाचकपदम् = नित्यम्
    • वाक्यांश:
      • अधिकरणपदम् = देहे
      • सम्बन्ध-पदम् = सर्वस्य
    • कर्तृपदम् = देही
    • कर्तृविशेषणम् = अयम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = शोचितुम्
    • कर्मपदम् = भूतानि
    • कर्मविशेषणम् = भूतानि
    • कर्तृपदम् = त्वम्
    • कारणवाचकपदम् = तस्मात्

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ॥ ३१ ॥

पदच्छेदः

स्वधर्मम्, अपि, च, अवेक्ष्य, न, विकम्पितुम्, अर्हसि । धर्म्यात्, हि, युद्धात्, श्रेयः, अन्यत्, क्षत्रियस्य, न, विद्यते ॥

अन्वयः

स्वधर्मं च अवेक्ष्य अपि विकम्पितुं न अर्हसि । क्षत्रियस्य हि धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अर्हसि
    • क्रियाविशेषणम् = न
    • तुमुनन्तपदम् = विकम्पितुम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अवेक्ष्य
      • क्रियाविशेषणम् = अपि
      • कर्मपदम् = स्वधर्मम्
      • सम्योजकपदम् = च
    • कर्तृपदम् = (त्वम्)
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = श्रेयः
      • सम्बन्ध-पदम् = क्षत्रियस्य
      • सम्बन्ध-विशेषण-पदम् = हि
    • वाक्यांश:
      • कर्तृविशेषणम् = अन्यत्
      • अपादानपदम् = युद्धात्
      • अपादानविशेषणम् = धर्म्यात्

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् ।

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥ ३२ ॥

पदच्छेदः

यदृच्छया, च, उपपन्नम्, स्वर्गद्वारम्, अपावृतम् । सुखिनः, क्षत्रियाः, पार्थ, लभन्ते, युद्धम्, ईदृशम् ॥

अन्वयः

पार्थ ! यदृच्छया उपपन्नम् अपावृतं च स्वर्गद्वारम् ईदृशं युद्धं सुखिनः क्षत्रियाः लभन्ते ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = लभन्ते
    • कर्मपदम् = युद्धम्
    • कर्मविशेषणम् = ईदृशम्
    • वाक्यांश:
      • कर्मविशेषणम् = उपपन्नम्
      • करणवाचकपदम् = यदृच्छया
    • वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= अपावृतम्
      • कर्मपदम् = स्वर्गद्वारम्
    • सम्योजकपदम् = च
    • कर्तृपदम् = क्षत्रियाः
    • कर्तृविशेषणम् = सुखिनः

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि ।

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥ ३३ ॥

पदच्छेदः

अथ, चेत्, त्वम्, इमम्, धर्म्यम्, संग्रामम्, न, करिष्यसि । ततः, स्वधर्मम्, कीर्तिम्, च, हित्वा, पापम्, अवाप्स्यसि ॥

अन्वयः

अथ चेत् त्वम् इमं धर्म्यं संग्रामं न करिष्यसि ततः स्वधर्मं कीर्तिं च हित्वा पापम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “चेत्” वाक्यांश:
      • क्रियापदम् = करिष्यसि
      • क्रियाविशेषणम् = न
      • कर्मपदम् = संग्रामम्
      • कर्मविशेषणम् = धर्म्यम्
      • कर्मविशेषणम् = इमम्
      • कर्तृपदम् = त्वम्
      • सम्योजकपदम् = अथ
      • सम्योजकपदम् = चेत्
    • “ततः” वाक्यांश:
      • क्रियापदम् = अवाप्स्यसि
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = हित्वा
        • कर्मपदम् = स्वधर्मम्
        • कर्मपदम् = कीर्तिम्
        • सम्योजकपदम् = च
      • कर्मपदम् = पापम्
      • कर्तृपदम् = त्वम्

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ ३४ ॥

पदच्छेदः

अकीर्तिम्, च, अपि, भूतानि, कथयिष्यन्ति, ते, अव्ययाम् । सम्भावितस्य, च, अकीर्तिः, मरणात्, अतिरिच्यते ॥

अन्वयः

भूतानि च ते अव्ययाम् अकीर्तिं च अपि कथयिष्यन्ति । सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = कथयिष्यन्ति
    • वाक्यांश:
      • कर्मपदम् = अव्ययाम्
      • कर्मपदम् = अकीर्तिम्
      • सम्योजकपदम् = च
      • सम्बन्ध-पदम् = ते
    • कर्तृपदम् = भूतानि
    • सम्योजकपदम् = च
  • द्वितीयवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = अतिरिच्यते
      • अपादानपदम् = मरणात्
    • वाक्यांश:
      • कर्तृपदम् = अकीर्तिः
      • सम्बन्ध-पदम् = सम्भावितस्य
      • सम्योजकपदम् = च

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ।

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥ ३५ ॥

पदच्छेदः

भयात्, रणात्, उपरतम्, मंस्यन्ते, त्वाम्, महारथाः । येषाम्, च, त्वम्, बहुमतः, भूत्वा, यास्यसि, लाघवम् ॥

अन्वयः

येषां त्वं बहुमतः भूत्वा लाघवं यास्यसि (तादृशाः) महारथाः च त्वां भयात् रणात् उपरतं मंस्यन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येषाम्” वाक्यांश:
      • क्रियापदम् = यास्यसि
      • कर्मपदम् = लाघवम्
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = भूत्वा
        • कर्तृ-विशेषण-सूचक-पदम् = बहुमतः
        • सम्बन्ध-पदम् = येषाम्
      • कर्तृपदम् = त्वम्
    • “(तादृशाः)” वाक्यांश:
      • क्रियापदम् = मंस्यन्ते
      • कर्मपदम् = त्वाम्
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = उपरतम्
        • अपादानपदम् = रणात्
        • कारणवाचकपदम् = भयात्
      • कर्तृपदम् = महारथाः
      • कर्तृविशेषणम् = (तादृशाः)
      • सम्योजकपदम् = च

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ।

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६ ॥

पदच्छेदः

अवाच्यवादान्, च, बहून्, वदिष्यन्ति, तव, अहिताः । निन्दन्तः, तव, सामर्थ्यम्, ततः, दुःखतरम्, नु, किम् ॥

अन्वयः

तव अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् वदिष्यन्ति । ततः दुःखतरं नु किम् ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = वदिष्यन्ति
    • कर्मपदम् = अवाच्यवादान्
    • कर्मविशेषणम् = बहून्
    • वाक्यांश:
      • कर्तृपदम् = अहिताः
      • सम्बन्ध-पदम् = तव
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= निन्दन्तः
      • कर्मपदम् = सामर्थ्यम्
      • सम्बन्ध-पदम् = तव
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • कर्मपदम् = दुःखतरम्
        • अपादानपदम् = ततः
      • वाक्यांश:
        • प्रश्नवाचक-कर्म-पदम् = किम्
        • सम्योजकपदम् = नु

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ॥ ३७ ॥

पदच्छेदः

हतः, वा, प्राप्स्यसि, स्वर्गम्, जित्वा, वा, भोक्ष्यसे, महीम् । तस्मात्, उत्तिष्ठ, कौन्तेय, युद्धाय कृतनिश्चयः ॥

अन्वयः

कौन्तेय ! हतः वा स्वर्गं प्राप्स्यसि । जित्वा वा महीं भोक्ष्यसे । तस्मात् युद्धाय कृतनिश्चयः उत्तिष्ठ ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्राप्स्यसि
    • कर्मपदम् = स्वर्गम्
    • कर्तृपदम् = (त्वम्)
    • कर्तृविशेषणम् = हतः
    • सम्योजकपदम् = वा
  • द्वितीयवाक्यम्
    • क्रियापदम् = भोक्ष्यसे
    • कर्मपदम् = महीम्
    • कर्तृपदम् = (त्वम्)
    • क्त्वान्तपदम् = जित्वा
    • सम्योजकपदम् = वा
  • तृतीयवाक्यम्
    • क्रियापदम् = उत्तिष्ठ
    • कर्तृपदम् = (त्वम्)
    • वाक्यांश:
      • कर्तृविशेषणम् = कृतनिश्चयः
      • सम्प्रदानपदम् = युद्धाय
    • अपादानपदम् = तस्मात्

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥ ३८ ॥

पदच्छेदः

सुखदुःखे, समे, कृत्वा, लाभालाभौ जयाजयौ । ततः, युद्धाय, युज्यस्व, न, एवम्, पापम्, अवाप्स्यसि ॥

अन्वयः

सुखदुःखे लाभालाभौ जयाजयौ समे कृत्वा ततः युद्धाय युज्यस्व । एवं (कृतं चेत्) पापं न अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युज्यस्व
    • सम्प्रदानपदम् = युद्धाय
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • कर्मविशेषण-सूचक-पदम् = समे
      • कर्मपदम् = सुखदुःखे
      • कर्मपदम् = लाभालाभौ
      • कर्मपदम् = जयाजयौ
    • सम्योजकपदम् = ततः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अवाप्स्यसि
    • क्रियाविशेषणम् = न
    • कर्मपदम् = पापम्
    • सम्योजकपदम् = एवम्
    • कर्तृपदम् = (त्वम्)

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥ ३९ ॥

पदच्छेदः

एषा, ते, अभिहिता, साङ्ख्ये, बुद्धिः, योगे, तु, इमाम्, शृणु । बुद्ध्या, युक्तः, यया, पार्थ, कर्मबन्धम्, प्रहास्यसि ॥

अन्वयः

पार्थ ! एषा बुद्धिः ते साङ्ख्ये अभिहिता । योगे इमां शृणु, यया बुद्ध्या युक्तः कर्मबन्धं प्रहास्यसि ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अभिहिता
      • सम्प्रदानपदम् = ते
      • अधिकरणपदम् = साङ्ख्ये
    • कर्तृपदम् = एषा
    • कर्तृविशेषणम् = बुद्धिः
  • द्वितीयवाक्यम्
    • “यया” वाक्यांश:
      • क्रियापदम् = प्रहास्यसि
      • कर्मपदम् = कर्मबन्धम्
      • कर्तृपदम् = (त्वम्)
      • वाक्यांश:
        • कर्तृविशेषणम् = युक्तः
        • करणवाचकपदम् = बुद्ध्या
        • करणविशेषणम् = यया
      • “इमाम्” वाक्यांश:
        • क्रियापदम् = शृणु
        • कर्मपदम् = इमाम्
        • अधिकरणपदम् = योगे
        • कर्तृपदम् = (त्वम्)

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥ ४० ॥

पदच्छेदः

न, इह, अभिक्रमनाशः, अस्ति, प्रत्यवायः, न, विद्यते । स्वल्पम्, अपि, अस्य, धर्मस्य, त्रायते, महतः, भयात् ॥

अन्वयः

इह अभिक्रमनाशः न अस्ति । प्रत्यवायः न विद्यते । अस्य धर्मस्य स्वल्पम् अपि महतः भयात् त्रायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = अभिक्रमनाशः
    • स्थानवाचकपदम् = इह
  • द्वितीयवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = प्रत्यवायः
  • तृतीयवाक्यम्
    • क्रियापदम् = त्रायते
    • अपादानपदम् = भयात्
    • अपादानविशेषणम् = महतः
    • वाक्यांश:
      • कर्मपदम् = स्वल्पम्
      • कर्मविशेषण-सूचक-पदम् = अपि
      • सम्बन्ध-पदम् = धर्मस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन ।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥ ४१ ॥

पदच्छेदः

व्यवसायात्मिका, बुद्धिः, एका, इह, कुरुनन्दन । बहुशाखाः, हि, अनन्ताः, च, बुद्धयः, अव्यवसायिनाम् ॥

अन्वयः

कुरुनन्दन ! इह व्यवसायात्मिका बुद्धिः एका । अव्यवसायिनां च बुद्धयः बहुशाखाः अनन्ताः हि ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुनन्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = एका
    • कर्तृपदम् = बुद्धिः
    • कर्तृविशेषणम् = व्यवसायात्मिका
    • स्थानवाचकपदम् = इह
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = बहुशाखाः
    • कर्तृ-विशेषण-सूचक-पदम् = अनन्ताः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
    • वाक्यांश:
      • कर्तृपदम् = बुद्धयः
      • सम्बन्ध-पदम् = अव्यवसायिनाम्
    • सम्योजकपदम् = च

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः॥ ४२ ॥

पदच्छेदः

याम्, इमाम्, पुष्पिताम्, वाचम्, प्रवदन्ति, अविपश्चितः । वेदवादरताः, पार्थ, न, अन्यत्, अस्ति, इति, वादिनः ॥

अन्वयः

पार्थ! अविपश्चितः याम् इमां पुष्पितां वाचं प्रवदन्ति वेदवादरताः अन्यत् न अस्ति इति वादिनः ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रवदन्ति
    • कर्मपदम् = वाचम्
    • कर्मविशेषणम् = पुष्पिताम्
    • कर्मविशेषणम् = इमाम्
    • कर्तृपदम् = अविपश्चितः
  • द्वितीयवाक्यम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= वादिनः
      • वाक्यांश:
        • क्रियापदम् = अस्ति
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = अन्यत्
        • सम्योजकपदम् = इति
      • कर्तृपदम् = वेदवादरताः

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति॥ ४३ ॥

पदच्छेदः

कामात्मानः, स्वर्गपराः, जन्मकर्मफलप्रदाम् । क्रियाविशेष, बहुलाम्, भोग, ऐश्वर्य, गतिम् ॥

अन्वयः

कामात्मानः स्वर्गपराः जन्मकर्मफलप्रदां भोगैश्वर्यगतिं प्रति क्रियाविशेषबहुलाम् (वाचम् प्रवदन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (प्रवदन्ति)
    • कर्मपदम् = (वाचम्)
    • कर्मविशेषणम् = जन्मकर्मफलप्रदाम्
    • वाक्यांश:
      • कर्मविशेषणम् = भोगैश्वर्यगतिम्
      • सम्योजकपदम् = प्रति
    • कर्मविशेषणम् = क्रियाविशेषबहुलाम्
    • कर्तृपदम् = स्वर्गपराः
    • कर्तृविशेषणम् = कामात्मानः

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् ।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥ ४४ ॥

पदच्छेदः

भोगैश्वर्यप्रसक्तानाम्, तया, अपहृतचेतसाम् । व्यवसायात्मिका, बुद्धिः, समाधौ, न, विधीयते ॥

अन्वयः

तया अपहृतचेतसां भोगैश्वर्यप्रसक्तानां बुद्धिः व्यवसायात्मिका समाधौ न विधीयते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियाविशेषणम् = विधीयते
    • क्रियाविशेषणम् = न
    • अधिकरणपदम् = समाधौ
    • वाक्यांश:
      • कर्तृपदम् = बुद्धिः
      • कर्तृविशेषणम् = व्यवसायात्मिका
      • सम्बन्ध-पदम् = भोगैश्वर्यप्रसक्तानाम्
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-सम्बन्ध-पदम् = अपहृतचेतसाम्
        • (कर्मणि) कर्तृपदम् = तया

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ ४५ ॥

पदच्छेदः

त्रैगुण्यविषयाः, वेदाः, निस्त्रैगुण्यः, भव, अर्जुन । निर्द्वन्द्वः, नित्यसत्त्वस्थः, निर्योगक्षेमः, आत्मवान् ॥

अन्वयः

अर्जुन ! वेदाः त्रैगुण्यविषयाः । निस्त्रैगुण्यः निर्द्वन्द्वः नित्यसत्त्वस्थः निर्योगक्षेमः आत्मवान् भव ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = त्रैगुण्यविषयाः
    • कर्तृपदम् = वेदाः
  • द्वितीयवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = निस्त्रैगुण्यः
    • कर्तृ-विशेषण-सूचक-पदम् = निर्द्वन्द्वः
    • कर्तृ-विशेषण-सूचक-पदम् = नित्यसत्त्वस्थः
    • कर्तृ-विशेषण-सूचक-पदम् = निर्योगक्षेमः
    • कर्तृ-विशेषण-सूचक-पदम् = आत्मवान्
    • कर्तृपदम् = (त्वम्)

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ ४६ ॥

पदच्छेदः

यावान्, अर्थः, उदपाने, सर्वतः, सम्प्लुतोदके । तावान्, सर्वेषु, वेदेषु, ब्राह्मणस्य, विजानतः ॥

अन्वयः

यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके (सति) तावान् सर्वेषु वेदेषु विजानतः ब्राह्मणस्य (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यावान्” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = अर्थः
      • कर्तृविशेषणम् = यावान्
      • कालवाचक-वाक्यांश:
        • ज्ञापक-क्रियापदम् = सम्प्लुतोदके
        • क्रियाविशेषणम् = सर्वतः
        • क्रिया-आश्रय-कर्तृपदम् = उदपाने
        • सतिसप्तमि-पदम् = (सति)
      • “तावान्” वाक्यांश:
        • क्रियापदम् = (भवति)
        • सम्बन्ध-पदम् = ब्राह्मणस्य
        • सम्बन्ध-विशेषण-पदम् = विजानतः
        • अधिकरणपदम् = वेदेषु
        • अधिकरण-विशेषणम् = सर्वेषु
        • कर्तृपदम् = तावान्

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ४७ ॥

पदच्छेदः

कर्मणि, एव, अधिकारः, ते, मा, फलेषु, कदाचन । मा, कर्मफलहेतुः, भूः, मा, ते, सङ्गः, अस्तु, अकर्मणि ॥

अन्वयः

कर्मणि एव ते अधिकारः । फलेषु कदाचन मा (भूत्) । कर्मफलहेतुः मा भूः । अकर्मणि मा ते सङ्गः अस्तु ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • अधिकरणपदम् = कर्मणि
      • अधिकरण-विशेषणम् = एव
    • वाक्यांश:
      • कर्तृपदम् = अधिकारः
      • सम्बन्ध-पदम् = ते
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भूत्)
      • क्रियाविशेषणम् = मा
      • अधिकरणपदम् = फलेषु
      • कालवाचकपदम् = कदाचन
      • वाक्यांश:
        • कर्तृपदम् = (अधिकारः)
        • सम्बन्ध-पदम् = (ते)
      • तृतीयवाक्यम्
        • क्रियापदम् = भूः
        • क्रियाविशेषणम् = मा
        • कर्तृ-विशेषण-सूचक-पदम् = कर्मफलहेतुः
        • कर्तृपदम् = (त्वम्)
      • चतुर्थवाक्यम्
        • क्रियापदम् = अस्तु
        • क्रियाविशेषणम् = मा
        • अधिकरणपदम् = अकर्मणि
        • वाक्यांश:
          • कर्तृपदम् = सङ्गः

सम्बन्ध-पदम् = ते

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥

पदच्छेदः

योगस्थः, कुरु, कर्माणि, सङ्गं, त्यक्वा, धनञ्जय । सिद्ध्यसिद्ध्योः, समः, भूत्वा, समत्वम्, योगः, उच्यते ॥

अन्वयः

धनञ्जय ! सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समः भूत्वा योगस्थः कर्माणि कुरु । समत्वं योगः उच्यते ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = कुरु
    • कर्मपदम् = कर्माणि
    • कर्तृ-विशेषण-सूचक-पदम् = योगस्थः
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = सङ्गम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृ-विशेषण-सूचक-पदम् = समः
      • अधिकरणपदम् = सिद्ध्यसिद्ध्योः
    • कर्तृपदम् = (कर्मणि)
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = योगः
    • (कर्मणि) कर्मपदम् = समत्वम्

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

पदच्छेदः

दूरेण, हि, अवरं, कर्म, बुद्धियोगात्, धनञ्जय । बुद्धौ, शरणम्, अन्विच्छ, कृपणाः, फलहेतवः ॥

अन्वयः

धनञ्जय ! बुद्धियोगात् हि कर्म दूरेण अवरम् । बुद्धौ शरणम् अन्विच्छ । फलहेतवः कृपणाः ।

पदपरिचय:

  • सम्बोधनपदम् = धनञ्जय!
  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अवरम्
        • कर्तृ-विशेषण-सूचक-पदम् = दूरेण
      • अपादानपदम् = बुद्धियोगात्
      • अपादानविशेषणम् = हि
    • कर्तृपदम् = कर्म
  • द्वितीयवाक्यम्
    • क्रियापदम् = अन्विच्छ
    • कर्मपदम् = शरणम्
    • अधिकरणपदम् = बुद्धौ
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • कर्तृ-विशेषण-सूचक-पदम् = कृपणाः
    • कर्तृपदम् = फलहेतवः

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥

पदच्छेदः

बुद्धियुक्तः, जहाति, इह, उभे, सुकृतदुष्कृते । तस्मात्, योगाय, युज्यस्व, योगः, कर्मसु, कौशलम् ॥

अन्वयः

बुद्धियुक्तः सुकृतदुष्कृते उभे इह जहाति । तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = जहाति
    • अधिकरणपदम् = इह
    • कर्मपदम् = उभे
    • कर्मविशेषणम् = सुकृतदुष्कृते
    • कर्तृपदम् = बुद्धियुक्तः
  • द्वितीयवाक्यम्
    • क्रियापदम् = युज्यस्व
    • सम्प्रदानपदम् = योगाय
    • कारणवाचकपदम् = तस्मात्
    • कर्तृपदम् = (त्वम्)
  • तृतीयवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • वाक्यांश:
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = कौशलम्
      • अधिकरणपदम् = कर्मसु
    • (कर्मणि) कर्मपदम् = योगः

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥ ५१ ॥

पदच्छेदः

कर्मजम्, बुद्धियुक्ताः, हि, फलम्, त्यक्त्वा, मनीषिणः । जन्मबन्धविनिर्मुक्ताः, पदम्, गच्छन्ति, अनामयम् ॥

अन्वयः

बुद्धियुक्ताः हि मनीषिणः कर्मजं फलं त्यक्त्वा जन्मबन्धविनिर्मुक्ताः अनामयं पदं गच्छन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = पदम्
    • कर्मविशेषणम् = अनामयम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • कर्मपदम् = फलम्
      • कर्मविशेषणम् = कर्मजम्
    • कर्तृपदम् = मनीषिणः
    • वाक्यांश:
      • कर्तृविशेषणम् = बुद्धियुक्ताः
      • कर्तृ-विशेषण-सूचक-पदम् = हि
    • कर्तृविशेषणम् = जन्मबन्धविनिर्मुक्ताः

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

पदच्छेदः

यदा, ते, मोहकलिलम्, बुद्धिः, व्यतितरिष्यति । तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥

अन्वयः

यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = व्यतितरिष्यति
      • कर्मपदम् = मोहकलिलम्
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • सम्बन्ध-पदम् = ते
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = गन्तासि
      • वाक्यांश:
        • कर्मपदम् = निर्वेदम्
        • सम्बन्ध-पदम् = श्रोतव्यस्य
        • सम्बन्ध-पदम् = श्रुतस्य
        • सम्योजकपदम् = च
      • कर्तृपदम् = (त्वम्)
      • कालवाचकपदम् = तदा

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला ।

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥ ५३ ॥

पदच्छेदः

श्रुतिविप्रतिपन्ना, ते, यदा, स्थास्यति, निश्चला ॥ समाधौ, अचला, बुद्धिः, तदा, योगम्, अवाप्स्यसि ॥

अन्वयः

यदा ते श्रुतिविप्रतिपन्ना बुद्धिः निश्चला समाधौ च अचला स्थास्यति, तदा योगम् अवाप्स्यसि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = स्थास्यति
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = अचला
        • कर्तृ-विशेषण-सूचक-पदम् = निश्चला
        • सम्योजकपदम् = च
        • अधिकरणपदम् = समाधौ
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • कर्तृविशेषणम् = श्रुतिविप्रतिपन्ना
        • सम्बन्ध-पदम् = ते
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = अवाप्स्यसि
      • कर्मपदम् = योगम्
      • कर्तृपदम् = (त्वम्)
      • कालवाचकपदम् = तदा

अर्जुन उवाच

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥ ५४ ॥

पदच्छेदः

स्थितप्रज्ञस्य, का, भाषा, समाधिस्थस्य, केशव । स्थितधीः, किम्, प्रभाषेत, किम्, आसीत, व्रजेत, किम् ॥

अन्वयः

केशव ! समाधिस्थस्य स्थितप्रज्ञस्य का भाषा ? स्थितधीः किं प्रभाषेत ? किम् आसीत ? किं व्रजेत ?

पदपरिचय:

  • सम्बोधनपदम् = केशव!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • प्रश्नवाचक-कर्तृपदम् = का
    • वाक्यांश:
      • कर्तृपदम् = भाषा?
      • सम्बन्ध-पदम् = स्थितप्रज्ञस्य
      • सम्बन्ध-विशेषण-पदम् = समाधिस्थस्य
    • द्वितीयवाक्यम्
      • क्रियापदम् = प्रभाषेत?
      • प्रश्नवाचक-कर्म-पदम् = किम्
      • कर्तृपदम् = स्थितधीः
    • तृतीयवाक्यम्
      • क्रियापदम् = आसीत?
      • प्रश्नवाचक-कर्म-पदम् = किम्
    • चतुर्थवाक्यम्
      • क्रियापदम् = व्रजेत
      • प्रश्नवाचक-कर्म-पदम् = किम्

श्रीभगवानुवाच-

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् ।

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ॥ ५५ ॥

पदच्छेदः

प्रजहाति, यदा, कामान्, सर्वान्, पार्थ, मनोगतान् । आत्मनि, एव, आत्मना, तुष्टः, स्थितप्रज्ञः, तदा, उच्यते ॥

अन्वयः

पार्थ ! यदा सर्वान् कामान् मनोगतान् प्रजहाति आत्मना एव आत्मनि तुष्टः तदा स्थितप्रज्ञः उच्यते ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = प्रजहाति
      • कर्मपदम् = कामान्
      • कर्मविशेषणम् = सर्वान्
      • कर्मविशेषणम् = मनोगतान्
      • वाक्यांश:
        • कर्तृपदम् = तुष्टः
        • करणवाचकपदम् = आत्मना
        • करणविशेषणम् = एव
        • अधिकरणपदम् = आत्मनि
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मपदम् = स्थितप्रज्ञः
      • कालवाचकपदम् = तदा

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ ५६ ॥

पदच्छेदः

दुःखेषु, अनुद्विग्नमनाः, सुखेषु, विगतस्पृहः । वीतरागभयक्रोधः, स्थितधीः, मुनिः, उच्यते ॥

अन्वयः

दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः मुनिः स्थितधीः उच्यते ।

पदपरिचय:

  • (कर्मणि) क्रियापदम् = उच्यते
  • (कर्मणि) कर्मविशेषण-सूचक-पदम् = स्थितधीः
  • कर्मपदम् = मुनिः
  • वाक्यांश:
    • (कर्मणि) कर्मविशेषणम् = अनुद्विग्नमनाः
    • अधिकरणपदम् = दुःखेषु
  • वाक्यांश:
    • (कर्मणि) कर्मविशेषणम् = विगतस्पृहः
    • अधिकरणपदम् = सुखेषु
  • (कर्मणि) कर्मविशेषणम् = वीतरागभयक्रोधः

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

पदच्छेदः

यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • वाक्यांश:
        • विष्यवाचकपदम् = अभिनन्दति
        • विष्यवाचकपदम् = न
      • वाक्यांश:
        • विष्यवाचकपदम् = द्वेष्टि
        • विष्यवाचकपदम् = न
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्राप्य
        • कर्मपदम् = तत्
        • कर्मविशेषणम् = शुभाशुभम्
      • वाक्यांश:
        • कर्तृविशेषणम् = अनभिस्नेहः
        • विष्यवाचकपदम् = सर्वत्र
      • कर्तृपदम् = यः
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥

पदच्छेदः

यदा, संहरते, च, अयम्, कूर्मः, अङ्गानि, इव, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

यदा अयं कूर्मः अङ्गानि इव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः संहरते तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • विष्यवाचकपदम् = संहरते
      • विष्यवाचकपदम् = सर्वशः
      • वाक्यांश:
        • कर्मपदम् = अङ्गानि
        • कर्तृपदम् = कूर्मः
        • सम्योजकपदम् = इव
      • कर्मपदम् = इन्द्रियाणि
      • अपादानपदम् = इन्द्रियार्थेभ्यः
      • कर्तृपदम् = अयम्
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

विषया विनिवर्तन्ते निराहारस्य देहिनः ।

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥ ५९ ॥

पदच्छेदः

विषयाः, विनिवर्तन्ते, निराहारस्य, देहिनः । रसवर्जम्, रसः, अपि, अस्य, परम्, दृष्ट्वा, निवर्तते ॥

अन्वयः

निराहारस्य देहिनः विषयाः रसवर्जं विनिवर्तन्ते (किन्तु) अस्य रसः अपि परं दृष्ट्वा (स्थितस्य) निवर्तते।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = विनिवर्तन्ते
    • विष्यवाचकपदम् = रसवर्जम्
    • वाक्यांश:
      • कर्तृपदम् = विषयाः
      • सम्बन्ध-पदम् = देहिनः
      • सम्बन्ध-विशेषण-पदम् = निराहारस्य
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = निवर्तते
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = दृष्ट्वा
        • कर्मपदम् = परम्
      • कर्तृपदम् = रसः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः ।

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥ ६० ॥

पदच्छेदः

यततः, हि, अपि, कौन्तेय, पुरुषस्य, विपश्चितः । इन्द्रियाणि, प्रमाथीनि, हरन्ति, प्रसभम्, मनः ॥

अन्वयः

कौन्तेय ! यततः हि अपि विपश्चितः पुरुषस्य मनः प्रमाथीनि इन्द्रियाणि प्रसभं हरन्ति ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय!
  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = हरन्ति
    • विष्यवाचकपदम् = प्रसभम्
    • कर्तृपदम् = इन्द्रियाणि
    • कर्तृविशेषणम् = प्रमाथीनि
    • वाक्यांश:
      • कर्मपदम् = मनः
      • सम्बन्ध-पदम् = पुरुषस्य
      • सम्बन्ध-विशेषण-पदम् = विपश्चितः
      • वाक्यांश:
        • सम्बन्ध-विशेषण-पदम् = यततः
        • सम्बन्ध-विशेषण-पदम् = हि

सम्बन्ध-विशेषण-पदम् = अपि

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥ ६१ ॥

पदच्छेदः

तानि, सर्वाणि, संयम्य, युक्तः, आसीत, मत्परः । वशे, हि, यस्य, इन्द्रियाणि, तस्य, प्रज्ञा, प्रतिष्ठिताः ॥

अन्वयः

तानि सर्वाणि संयम्य युक्तः मत्परः आसीत । यस्य वशे इन्द्रियाणि (सन्ति) तस्य प्रज्ञा प्रतिष्ठिताः (भवति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = आसीत
    • कर्तृ-विशेषण-सूचक-पदम् = मत्परः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संयम्य
      • कर्मपदम् = सर्वाणि
      • कर्मविशेषणम् = तानि
    • कर्तृपदम् = युक्तः
  • द्वितीयवाक्यम्
    • “यस्य” वाक्यांश:
      • विष्यवाचकपदम् = (सन्ति)
      • कर्मपदम् = इन्द्रियाणि
      • वाक्यांश:
        • अधिकरणपदम् = वशे
        • सम्बन्ध-पदम् = यस्य
      • “तस्य” वाक्यांश:
        • विष्यवाचकपदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
        • वाक्यांश:
          • कर्तृपदम् = प्रज्ञा
          • सम्बन्ध-पदम् = तस्य

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ॥

सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥ ६२ ॥

पदच्छेदः

ध्यायतः, विषयान्, पुंसः, सङ्गः, तेषु, उपजायते ॥ सङ्गात्, सञ्जायते, कामः, कामात्, क्रोधः, अभिजायते ॥

अन्वयः

(यान्) विषयान् ध्यायतः पुंसः (अस्ति), तेषु सङ्गः उपजायते, सङ्गात् कामः सञ्जायते, कामात् क्रोधः अभिजायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = उपजायते
    • वाक्यांश:
      • कर्तृपदम् = सङ्गः
      • सम्बन्ध-पदम् = पुंसः
      • वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-विशेषण-पदम् = ध्यायतः
        • कर्मपदम् = विषयान्
      • अधिकरणपदम् = तेषु
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = सञ्जायते
      • कर्तृपदम् = कामः
      • अपादानपदम् = सङ्गात्
    • तृतीयवाक्यम्
      • विष्यवाचकपदम् = अभिजायते
      • कर्तृपदम् = क्रोधः
      • अपादानपदम् = कामात्

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥

पदच्छेदः

क्रोधात्, भवति, सम्मोहः, सम्मोहात्, स्मृतिविभ्रमः । स्मृतिभ्रंशात्, बुद्धिनाशः, बुद्धिनाशात्, प्रणश्यति ॥

अन्वयः

क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, स्मृतिभ्रंशात् बुद्धिनाशः, बुद्धिनाशात् प्रणश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = भवति,
    • कर्तृपदम् = सम्मोहः
    • अपादानपदम् = क्रोधात्
  • द्वितीयवाक्यम्
    • विष्यवाचकपदम् = (भवति)
    • कर्तृपदम् = स्मृतिविभ्रमः
    • अपादानपदम् = सम्मोहात्
  • तृतीयवाक्यम्
    • विष्यवाचकपदम् = (भवति)
    • कर्तृपदम् = बुद्धिनाशः
    • अपादानपदम् = स्मृतिभ्रंशात्
  • चतुर्थवाक्यम्
    • विष्यवाचकपदम् = प्रणश्यति
    • अपादानपदम् = बुद्धिनाशात्

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४ ॥

पदच्छेदः

रागद्वेषवियुक्तैः, तु, विषयान्, इन्द्रियैः, चरन् । आत्मवश्यैः, विधेयात्मा, प्रसादम्, अधिगच्छति ॥

अन्वयः

विधेयात्मा तु रागद्वेषवियुक्तैः इन्द्रियैः आत्मवश्यैः विषयान् चरन् प्रसादम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = अधिगच्छति
    • कर्मपदम् = प्रसादम्
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= चरन्
      • कर्मपदम् = विषयान्
      • करणवाचकपदम् = इन्द्रियैः
      • करणविशेषणम् = आत्मवश्यैः
      • करणविशेषणम् = रागद्वेषवियुक्तैः
    • वाक्यांश:
      • कर्तृपदम् = विधेयात्मा
      • कर्तृ-विशेषण-सूचक-पदम् = तु

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ ६५ ॥

पदच्छेदः

प्रसादे, सर्वदुःखानाम्, हानिः, अस्य, उपजायते । प्रसन्नचेतसः, हि, आशु, बुद्धिः, पर्यवतिष्ठते ॥

अन्वयः

प्रसादे (सति) अस्य सर्वदुःखानां हानिः उपजायते । प्रसन्नचेतसः हि बुद्धिः आशु पर्यवतिष्ठते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = उपजायते
    • वाक्यांश:
      • कर्मपदम् = हानिः
      • वाक्यांश:
        • सम्बन्ध-पदम् = सर्वदुःखानाम्
        • सम्बन्ध-पदम् = अस्य
      • कालवाचकपदम् = प्रसादे
    • द्वितीयवाक्यम्
      • विष्यवाचकपदम् = पर्यवतिष्ठते
      • विष्यवाचकपदम् = आशु
      • वाक्यांश:
        • कर्तृपदम् = बुद्धिः
        • सम्बन्ध-पदम् = प्रसन्नचेतसः
        • सम्बन्ध-विशेषण-पदम् = हि

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ ६६ ॥

पदच्छेदः

न, अस्ति, बुद्धिः, अयुक्तस्य, न, च, अयुक्तस्य, भावना । न, च, अभावयतः, शान्तिः, अशान्तस्य, कुतः, सुखम् ॥

अन्वयः

अयुक्तस्य बुद्धिः न अस्ति । अयुक्तस्य च भावना न । अभावयतः च शान्तिः न । अशान्तस्य कुतः सुखम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • विष्यवाचकपदम् = अस्ति
    • विष्यवाचकपदम् = न
    • कर्तृपदम् = बुद्धिः
    • सम्बन्ध-पदम् = अयुक्तस्य
  • द्वितीयवाक्यम्
    • विष्यवाचकपदम् = (अस्ति)
    • विष्यवाचकपदम् = न
    • वाक्यांश:
      • कर्तृपदम् = भावना
      • सम्बन्ध-पदम् = अयुक्तस्य
      • सम्योजकपदम् = च
    • तृतीयवाक्यम्
      • विष्यवाचकपदम् = (भवति)
      • विष्यवाचकपदम् = न
      • वाक्यांश:
        • कर्तृपदम् = शान्तिः
        • सम्बन्ध-पदम् = अभावयतः
        • सम्योजकपदम् = च
      • चतुर्थवाक्यम्
        • विष्यवाचकपदम् = (भवति)
        • प्रश्नवाचक-क्रियाविशेषणम् = कुतः
        • वाक्यांश:
          • कर्तृपदम् = सुखम्
          • सम्बन्ध-पदम् = अशान्तस्य

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥ ६७ ॥

पदच्छेदः

इन्द्रियाणाम्, हि, चरताम्, यत्, मनः, अनुविधीयते । तत्, अस्य, हरति, प्रज्ञाम्, वायुः, नावम्, इव, अम्भसि ॥

अन्वयः

चरतां हि इन्द्रियाणां यत् मनः अनुविधीयते, तत् अस्य प्रज्ञां वायुः अम्भसि नावम् इव हरति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • वाक्यांश:
        • विष्यवाचकपदम् = अनुविधीयते
        • सम्बन्ध-पदम् = इन्द्रियाणाम्
        • सम्बन्ध-विशेषण-पदम् = चरताम्
        • सम्बन्ध-विशेषण-पदम् = हि
      • कर्मपदम् = मनः
      • कर्मविशेषणम् = यत्
    • “तत्” वाक्यांश:
      • विष्यवाचकपदम् = हरति
      • वाक्यांश:
        • कर्मपदम् = प्रज्ञाम्
        • सम्बन्ध-पदम् = अस्य
      • वाक्यांश:
        • कर्मपदम् = नावम्
        • अधिकरणपदम् = अम्भसि
        • कर्तृपदम् = वायुः
        • सम्योजकपदम् = इव

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ६८ ॥

पदच्छेदः

तस्मात्, यस्य, महाबाहो, निगृहीतानि, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

महाबाहो ! तस्मात् यस्य इन्द्रियाणि इन्द्रियार्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • “यस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • विष्यवाचकपदम् = सर्वशः
      • कर्तृ-विशेषण-सूचक-पदम् = निगृहीतानि
      • वाक्यांश:
        • कर्मपदम् = इन्द्रियाणि
        • सम्बन्ध-पदम् = यस्य
      • अपादानपदम् = इन्द्रियार्थेभ्यः
      • कारणवाचकपदम् = तस्मात्
    • “तस्य” वाक्यांश:
      • विष्यवाचकपदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = प्रतिष्ठिता
      • वाक्यांश:
        • कर्तृपदम् = प्रज्ञा
        • सम्बन्ध-पदम् = तस्य

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥

पदच्छेदः

या, निशा, सर्वभूतानाम्, तस्याम्, जागर्ति, संयमी । यस्याम्, जाग्रति, भूतानि, सा, निशा, पश्यतः, मुनेः ॥

अन्वयः

सर्वभूतानां या निशा तस्यां संयमी जागर्ति, यस्यां भूतानि जाग्रति सा पश्यतः मुनेः निशा ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “या” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृपदम् = निशा
      • कर्तृविशेषणम् = या
      • सम्बन्ध-पदम् = सर्वभूतानाम्
    • “तस्याम्” वाक्यांश:
      • क्रियापदम् = जागर्ति
      • कर्तृपदम् = संयमी
      • अधिकरणपदम् = तस्याम्
    • द्वितीयवाक्यम्
      • “यस्याम्” वाक्यांश:
        • क्रियापदम् = जाग्रति
        • कर्तृपदम् = भूतानि
        • अधिकरणपदम् = यस्याम्
      • “सा” वाक्यांश:
        • विष्यवाचकपदम् = (भवति)
        • वाक्यांश:
          • कर्तृ-विशेषण-सूचक-पदम् = निशा
          • सम्बन्ध-पदम् = मुनेः
          • सम्बन्ध-विशेषण-पदम् = पश्यतः
        • कर्तृपदम् = सा

आपूर्यमाणमचलप्रतिं समुद्रमापः प्रविशन्ति यद्वत् ।

तद्वत् कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी ॥ ७० ॥

पदच्छेदः

आपूर्यमाणम्, अचलप्रतिम्, समुद्रम्, आपः, प्रविशन्ति, यद्वत् । तद्वत्, कामाः, यम्, प्रविशन्ति, सर्वे, सः, शान्तिम्, आप्नोति, न, कामकामी ॥

अन्वयः

आपः आपूर्यमाणम् अचलप्रतिं समुद्रम् यद्वत् प्रविशन्ति तद्वत् सर्वे कामाः यं प्रविशन्ति सः शान्तिम् आप्नोति, कामकामी न ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यद्वत्” वाक्यांश:
      • क्रियापदम् = प्रविशन्ति
      • विष्यवाचकपदम् = यद्वत्
      • कर्मपदम् = समुद्रम्
      • कर्मविशेषणम् = आपूर्यमाणम्
      • कर्मविशेषणम् = अचलप्रतिम्
      • कर्तृपदम् = आपः
    • “तद्वत्” वाक्यांश:
      • “यम्” वाक्यांश:
        • क्रियापदम् = प्रविशन्ति
        • कर्मपदम् = यम्
        • कर्तृपदम् = कामाः
        • कर्तृविशेषणम् = सर्वे
      • “सः” वाक्यांश:
        • क्रियापदम् = आप्नोति
        • कर्मपदम् = शान्तिम्
        • कर्तृपदम् = सः
      • द्वितीयवाक्यम्
        • क्रियापदम् = (आप्नोति)
        • विष्यवाचकपदम् = न
        • कर्मपदम् = (शान्तिम्)
        • कर्तृपदम् = कामकामी

विहाय कामान्यः सर्वान्पुमांश्चलति निःस्पृहः ।

निर्ममो निरहारः स शान्तिमधिगच्छति ॥ ७१ ॥

पदच्छेदः

विहाय, कामान्, यः, सर्वान्, पुमान्, चलति, निःस्पृहः । निर्ममः, निरहारः, सः, शान्तिम्, अधिगच्छति ॥

अन्वयः

यः पुमान् सर्वान् कामान् विहाय निःस्पृहः निर्ममः निरहारः चलति सः शान्तिम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = चलति
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = विहाय
        • कर्मपदम् = कामान्
        • कर्मविशेषणम् = सर्वान्
        • कर्मविशेषणम् = पुमान्
      • कर्तृपदम् = यः
      • कर्तृविशेषणम् = निःस्पृहः
      • कर्तृविशेषणम् = निर्ममः
      • कर्तृविशेषणम् = निरहारः
    • “सः” वाक्यांश:
      • क्रियापदम् = अधिगच्छति
      • कर्मपदम् = शान्तिम्
      • कर्तृपदम् = सः

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॥ ७२ ॥

पदच्छेदः

एषा, ब्राह्मी, स्थितिः, पार्थ, न, एनाम्, प्राप्य, विमुह्यति । स्थित्वा, अस्याम्, अन्तकाले, अपि, ब्रह्मनिर्वाणम्, ऋच्छति ॥

अन्वयः

पार्थ ! एषा ब्राह्मी स्थितिः । एनां प्राप्य न विमुह्यति । अन्तकाले अपि अस्यां स्थित्वा ब्रह्मनिर्वाणम् ऋच्छति ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-वाक्यांश:
      • कर्तृपदम् = स्थितिः
      • कर्तृविशेषणम् = ब्राह्मी
      • कर्तृपदम् = एषा
    • द्वितीयवाक्यम्
      • क्रियापदम् = विमुह्यति
      • विष्यवाचकपदम् = न
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = प्राप्य
        • कर्मपदम् = एनाम्
      • तृतीयवाक्यम्
        • क्रियापदम् = ऋच्छति
        • कर्मपदम् = ब्रह्मनिर्वाणम्
        • क्त्वान्त-वाक्यांश:
          • क्त्वान्तपदम् = स्थित्वा
          • अधिकरणपदम् = अस्याम्
        • वाक्यांश:
          • कालवाचकपदम् = अन्तकाले
          • कालवाचकपद-विशेषणम् = अपि

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/7au  सांख्ययोगः
  3. gita-grammar.blogspot.in
  4. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  5. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  6. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  8. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Bhagavad Gita – Chapter 3 – Shloka 10-43

कर्म ब्रह्मोद्भवं Please ignore this post and refer this updated page —  https://nivedita2015.wordpress.com/chapter-3-bhagavad-gita/

श्लोक: १०

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ॥ १० ॥

पदच्छेदः

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः अनेन प्रसविष्यध्वम् एष वः अस्तु इष्टकामधुक् ॥ १० ॥

अन्वयः

प्रजापतिः पुरा सहयज्ञाः प्रजाः सृष्ट्वा उवाच । अनेन (यज्ञेन) प्रसविष्यध्वम् । एषः वः इष्टकामधुक् अस्तु ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = उवाच [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लिट्. प्रपु. एक. ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = सृष्ट्वा [ अव्ययम् ]
      • कर्म = प्रजाः [ आ. स्त्री. द्वि. बहु. ]
      • कर्मविशेषणम् = सहयज्ञाः [ आ. स्त्री. द्वि. बहु. ]
    • कालवाचकम् = पुरा [ अव्ययम् ]
    • कर्ता = प्रजापतिः [ इ. पुं. प्र. एक. ]
    • कर्मवाक्यम्
      • क्रिया = प्रसविष्यध्वम्  [ प्र + सू “षूङ् प्राणिगर्भविमोचने” आ. लोट्. मपु. एक. ] (प्रसूध्वम् | अत्र प्रसविष्यध्वम्  इति आर्षप्रयोगः)
      • करणम् = अनेन [ इदम् म. पुं. तृ. एक. ]
      • करणविशेषणम् = (यज्ञेन)
      • कर्ता = (यूयम्)
    • कर्मवाक्यम्
      • क्रिया = अस्तु [ अस् अस भुविपर. लोट्. प्रपु. एक. ]
      • वाक्यांश:
        • कर्तृविधेयविशेषणम्  = इष्टकामधुक्  [ इष्टकामधुह्  ]
        • सम्बन्धिः = वः (युष्माकम्) [ युष्मद् द. त्रि. ष. बहु. ]
      • कर्ता = एषः [ एतद् द. पुं. प्र. एक. ]
  • सन्धि:
  • पुरोवाच = पुरा वाच – गुणसन्धिः |
  • एष वः = एषः वः – विसर्गसन्धिः (लोपः) |
  • वोऽस्तु = वः अस्तु – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण:, पूर्वरूपं च ।
  • अस्त्विष्टकामधुक् = अस्तु इष्टकामधुक् – यण्सन्धि: |
  • समास:
    • सहयज्ञाः = यज्ञेन सह वर्तन्ते – बहुव्रीहिः |
    • प्रजापतिः = प्रजानां पतिः – षष्ठीतत्पुरुषः |
    • इष्टकामधुक्
      • इष्टाश्च ते कामाश्च इष्टकामाः – कर्मधारयः |
      • इष्टकामान् दोग्धि – कर्तरि क्चिप् उपपदसमासश्च |
  • कृदन्त:
    • सृष्ट्वा = सृज् “सृज विसर्गे” + क्त्वा प्रत्यय: |

तात्पर्यम्

सृष्टिकर्ता कल्पादौ वर्णोचितकर्मणा सह प्रजाः सृष्ट्वा अनेन कर्मणा भवन्तः वृद्धिं प्राप्नुवन्तु, इदं कर्म भवताम् अभीष्टदायकं भवतु इत्यवदत् ।

श्लोक: ११

देवान्भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥ ११ ॥

पदच्छेदः

देवान् भावयत अनेन ते देवाः भावयन्तु वः परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ ॥ ११ ॥

अन्वयः

अनेन (यज्ञेन) देवान् भावयत । ते देवाः वः भावयन्तु । (एवम्) परस्परं भावयन्तः परं श्रेयः अवाप्स्यथ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = भावयत [ भू “भू सत्तायाम्” + णिच्, पर. लोट्. मपु. बहु. ]
    • णिजन्तप्रयोज्यकर्तृसूचककर्म = देवान् [ अ. पुं. द्वि. बहु. ]
    • णिजन्तप्रयोजककर्ता = (यूयम्)
    • करणम् = अनेन [ इदम् म. पुं. तृ. एक. ]
    • करणविशेषणम् = (यज्ञेन)
  • द्वितीयवाक्यम्
    • क्रिया = भावयन्तु [ भू “भू सत्तायाम्” + णिच्, पर. लोट्. प्रपु. बहु. ]
    • णिजन्तप्रयोज्यकर्तृसूचककर्म = वः (युष्मान्) [ युष्मद् द. त्रि. द्वि. बहु. ]
    • णिजन्तप्रयोजककर्ता = ते [ तद् द. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = देवाः [ अ. पुं. प्र. बहु. ]
  • तृतीयवाक्यम्
    • क्रिया = अवाप्स्यथ [ अव + आप् “आप्ऌ व्याप्तै” पर. लृट्. मपु. बहु. ]
    • कर्म = श्रेयः [ श्रेयस् स. नपुं. द्वि. एक. ] (श्रेयः श्रेयसी श्रेयांसि)
    • कर्मविशेषणम् = परम् [ अ. नपुं. द्वि. एक. ]
    • वाक्यांश:
      • क्रियागर्भकर्ता = भावयन्तः [ त. पुं. प्र. बहु. ]
      • क्रियाविशेषणम् = परस्परम् [ अव्ययम् ]
      • क्रियाविशेषणम् = (एवम्)
  • सन्धिः
    • भावयतानेन = भावयत अनेन – सवर्णदीर्घसन्धि: ।
    • देवा भावयन्तु = देवाः भावयन्तु – विसर्गसन्धि: (लोपः) |
  • कृदन्तः
    • भावयन्तः = भू  “भू सत्तायाम्” + णिच् + शतृ प्रत्ययः  |

श्लोक: १२

इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥ १२ ॥

पदच्छेदः

इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञभाविताः तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेन एव सः ॥ १२ ॥

अन्वयः

यज्ञभाविताः देवाः वः इष्टान् भोगान् हि दास्यन्ते । तैः दत्तान् एभ्यः अप्रदाय यः भुङ्क्ते सः स्तेनः एव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = दास्यन्ते [ दा “डुदाञ् दाने” (उभय) आ. लृट्. प्रपु. बहु. ]
    • कर्म = भोगान् [ अ. पुं. द्वि. बहु. ]
    • कर्मविशेषणम् = इष्टान् [ अ. पुं. द्वि. बहु. ]
    • अवधारणम् = हि [ अव्ययम् ]
    • सम्प्रदानम् = वः (युष्मभ्यम्) [ युष्मद् द. त्रि. च. बहु. ]
    • कर्ता = देवाः [ अ. पुं. प्र. बहु. ]
    • कर्तृविशेषणम् = यज्ञभाविताः [ अ. पुं. प्र. बहु. ]
  • द्वितीयवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया = भुङ्क्ते [ भुङ्क् “भुज पालनाभ्यवहारयो:” (Note: पालने पर.) आ. लट्. प्रपु. एक. ]
      • वाक्यांश:
        • प्राक्कालिकक्रिया = अप्रदाय [ अव्ययम् ]
        • सम्प्रदानम् = एभ्यः [ इदम् म. पुं. च. बहु. ]
      • वाक्यांश:
        • (कर्मणि) क्रियागर्भकर्म= दत्तान् [ अ. पुं. द्वि. बहु. ]
        • (कर्मणि) कर्ता = तैः [ तद् द. पुं. तृ. बहु. ]
      • कर्ता = यः [ यद् द. पुं. प्र. एक. ]
    • “सः” वाक्यांश:
      • क्रिया = (अस्ति)
      • कर्तृविधेयविशेषणम् = स्तेनः [ अ. पुं. प्र. एक. ]
      • अवधारणम् = एव [ अव्ययम् ]
      • कर्ता = सः [ तद् द. पुं. प्र. एक. ]
    • सन्धिः
      • वो देवाः = वः देवाः – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
      • देवा दास्यन्ते = देवाः दास्यन्ते – विसर्गसन्धि: (लोपः) |
      • तैर्दत्तान् = तैः दत्तान् – विसर्गसन्धि: (सकार:) रेफ: |
      • अप्रदायैभ्यः = अप्रदाय एभ्यः – वृद्धिसन्धिः |
      • अप्रदायैभ्यो यः = अप्रदायैभ्यः यः – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
      • यो भुङ्क्ते = यः भुङ्क्ते – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण: |
      • स्तेन एव = स्तेनः एव – विसर्गसन्धि: (लोपः) |
    • समासः
      • यज्ञभाविताः = यज्ञेन भाविताः – तृतीयातत्पुरुषः |
      • अप्रदाय = न प्रदाय – नञ्तत्पुरुषः |
    • कृदन्तः
      • इष्टान् = इष् “इषु इच्छायाम्” + क्त (कर्मणि), तान् |
      • दत्तान् = दा “डुदाञ् दाने” + क्त (कर्मणि), तान् |
      • प्रदाय = प्र + दा “डुदाञ् दाने” + ल्यप् |

श्लोक: १३

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥ १३ ॥

पदच्छेदः

यज्ञशिष्टाशिनः सन्तः मुच्यन्ते सर्वकिल्बिषैः भुञ्जते ते तु अघं पापाः ये पचन्ति आत्मकारणात् ॥ १३ ॥

अन्वयः

यज्ञशिष्टाशिनः सन्तः सर्वकिल्बिषैः मुच्यन्ते । ये पापाः आत्मकारणात् पचन्ति ते तु अघं भुञ्जते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रिया = मुच्यन्ते [ मुच् “मुचॢ मोक्षणे” (उभय) आ. कर्मणि लट्. प्रपु. बहु. ]
    • (कर्मणि) कर्म = सन्तः [ त. पुं. प्र. बहु. ]
    • (कर्मणि) कर्मविशेषणम् = यज्ञशिष्टाशिनः [ न. पुं. प्र. बहु. ]
    • (कर्मणि) कर्ता = सर्वकिल्बिषैः [ अ. पुं. तृ. बहु. ]
  • द्वितीयवाक्यम्
    • “ये” वाक्यांश:
      • क्रिया = पचन्ति [ पच् “डुपचष् पाके” पर. लट्. प्रपु. बहु. ]
      • हेतुवाचकम् = आत्मकारणात् [ अ. नपुं. प. एक. ]
      • कर्ता = पापाः [ अ. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = ये [ यद् द. पुं. प्र. बहु. ]
      • समुच्चयम् = च [ अव्ययम् ]
    • “ते” वाक्यांश:
      • क्रिया = भुञ्जते [ भुज्“भुज् पालनाभ्यवहारयोः” उभय आ. लट्. प्रपु. एक. ]
      • कर्म = अघम् [ अ. नपुं. द्वि. एक. ]
      • कर्ता = ते [ तद् द. पुं. प्र. एक. ]
      • अवधारणम् = तु [ अव्ययम् ]
    • सन्धिः
      • सन्तो मुच्यन्ते = सन्तः मुच्यन्ते – विसर्गसन्धिः सकारः रेफः, उकारः, गुणः |
      • त्वघम् = तु अघम् – यण्सन्धि: |
      • पापा ये = पापाः ये – विसर्गसन्धिः लोपः |
      • पचन्त्यात्मकारणात् = पचन्ति आत्मकारणात् – यण्सन्धि: |
    • समासः
      • यज्ञशिष्टाशिनः
        • यज्ञस्य शिष्टम् यज्ञशिष्टम् – षष्ठीतत्पुरुषः |
        • यज्ञशिष्टम् अशितुं शीलं येषां तेयज्ञशिष्टाशिनः – कर्तरि णिनि उपपदतत्पुरुषः |
      • आत्मकारणात् = आत्मा एव कारणम् , तस्मात् – कर्मधारयः |
    • कृदन्तः
      • सन्तः = अस् “अस भुवि” + शतृ |

श्लोकः १४

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥

पदच्छेदः

अन्नात् भवन्ति भूतानि पर्जन्यात् अन्नसम्भवः यज्ञात् भवति पर्जन्यः यज्ञः कर्मसमुद्भवः ॥ १४ ॥

अन्वयः

अन्नात् भूतानि भवन्ति । पर्जन्यात् अन्नसम्भवः (भवति) । पर्जन्यः यज्ञात् भवति । यज्ञः कर्मसमुद्भवः भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = भवन्ति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. बहु. ]
    • अपादानम् = अन्नात् [ अ. नपुं. प. एक. ]
    • कर्ता = भूतानि [ अ. नपुं. प्र. बहु. ]
  • द्वितीयवाक्यम्
    • क्रिया = (भवति)
    • अपादानम् = पर्जन्यात् [ अ. पुं. प. एक. ]
    • कर्ता = अन्नसम्भवः [ अ. पुं. प्र. एक. ]
  • तृतीयवाक्यम्
    • क्रिया = भवति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. एक. ]
    • अपादानम् = यज्ञात् [ अ. पुं. प. एक. ]
    • कर्ता = पर्जन्यः [ अ. पुं. प्र. एक. ]
  • चतुर्थवाक्यम्
    • क्रिया = भवति [ भू “भू सत्तायाम्”, पर. लट्. प्रपु. एक. ]
    • कर्तृविधेयविशेषणम्  = कर्मसमुवः [ अ. पुं. प्र. एक. ]
    • कर्ता = यज्ञः [ अ. पुं. प्र. एक. ]
  • सन्धिः       
    • अन्नाद्भवन्ति = अन्नात् + भवन्ति – जश्त्वसन्धिः |
    • पर्जन्यो यज्ञः = पर्जन्यः + यज्ञः – विसर्गसन्धिः, सकारः, रेफः, उकारः, गुणः |
  • समासः
    • अन्नसम्भवः = अन्नस्य सम्भवः – षष्ठीतत्पुरुषः |
    • कर्मसमुद्भवः = कर्म समुद्भवं यस्य सः – बहुव्रीहिः |
  • कृदन्तः
    • समुद्भवः  = सम् + उत् + भू “भू सत्तायाम्” + अप् (भावे) |

श्लोकः १५

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम्
 ॥ १५ ॥

पदच्छेदः

कर्म ब्रह्मोद्भवं विद्धि ब्रह्म अक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥ १५ ॥

अन्वयः

कर्म ब्रह्मोद्भवं विद्धि । ब्रह्म अक्षरसमुद्भवं (विद्धि) । तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्ता = (त्वम्)
    • कर्मविधेयविशेषणम् = ब्रह्मोद्भवम् [ अ. नपुं. द्वि. एक. ]
    • कर्म = कर्म [ कर्मन् न. नपुं. द्वि. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = (विद्धि)
    • कर्ता = (त्वम्)
    • कर्मविधेयविशेषणम्  = अक्षरसमुद्भवम् [ अ. नपुं. द्वि. एक. ]
    • कर्म = ब्रह्म [ ब्रह्मन् न. नपुं. द्वि. एक. ]
  • तृतीयवाक्यम्
    • वाक्यांश:
      • कर्तृविधेयविशेषणम्  = प्रतिष्ठितम् [ अ. नपुं. प्र. एक. ]
      • अधिकरणम् = यज्ञे [ अ. पुं. स. एक. ]
      • कालवाचकम् = नित्यम् [ अव्ययम् ]
    • कर्ता = ब्रह्म [ ब्रह्मन् न. नपुं. प्र. एक. ]
    • कर्तृविशेषणम् = सर्वगतम् [ अ. नपुं. प्र. एक. ]
    • हेतुवाचकम् = तस्मात् [ तद् द. पुं. प. एक. ]
  • सन्धिः
    • ब्रह्माक्षरसमुद्भवम् = ब्रह्म अक्षरसमुद्भवम्, सवर्णदीर्घसन्धि: ।
  • समासः
    • ब्रह्मोद्भवम् = ब्रह्म उद्भवं यस्य तत् – बहुव्रीहिः |
    • अक्षरसमुद्भवम् = अक्षरं समुद्भवं यस्य तत्  – बहुव्रीहिः |
    • सर्वगतम् = सर्वं गतम् – द्वितीयातत्पुरुषः |
  • कृदन्तः
    • प्रतिष्ठितम् = प्र + स्था “ष्ठा गतिनिवृत्तौ” + क्त |
    • गतम् = गम् “गम्ऌ गतौ” + क्त प्रत्ययः |
    • उद्भवम् =उद् + भू “भू सत्तायाम्” + अच् (कर्तरि) | उध्भवतीति उद्भवम् |

श्लोकः १६

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥ १६ ॥

पदच्छेदः

एवं प्रवर्तितं चक्रं न अनुवर्तयति इह यः अघायुः इन्द्रियारामः मोघं पार्थ सः जीवति ॥ १६ ॥

अन्वयः

पार्थ ! यः एवं प्रवर्तितं चक्रं इह न अनुवर्तयति अघायुः इन्द्रियारामः सः मोघं जीवति ।

पदपरिचय:

  • सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया = अनुवर्तयति [ अनु + वृत् “वृतु वर्तने” + णिच्, (Note: वृत् is आत्मनेपदी | णिच् will make it उभयपदी) अत्र पर. लट्. प्रपु. एक. ]
      • प्रतिषेधम् = न [ अव्ययम् ]
      • स्थानवाचकम् = इह [ अव्ययम् ]
      • णिजन्तप्रयोज्यकर्तृसूचककर्म = चक्रम् [ अ. नपुं. प्र. एक. ]
      • वाक्यांश:
        • क्रियागर्भकर्मविशेषणम् = प्रवर्तितम् [ अ. पुं. द्वि. एक. ]
        • क्रियाविशेषणम् = एवम् [ अव्ययम् ]
      • णिजन्तप्रयोजककर्ता = यः [ द. पुं. प्र. एक. ]
    • “सः” वाक्यांश:
      • क्रिया = जीवति [ जीव् “जीव प्राणधारणे” पर. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = मोघम् [ अव्ययम् ]
      • कर्ता = सः [ तद् द. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = इन्द्रियारामः [ अ. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = अघायुः [ उ. पुं. प्र. एक. ]
  • सन्धिः
    • नानुवर्तयति = न अनुवर्तयति – सवर्णदीर्घसन्धि: ।
    • अनुवर्तयतीह = अनुवर्तयति इह – सवर्णदीर्घसन्धि: ।
    • अघायुरिन्द्रियारामः = अघायुः  इन्द्रियारामः- विसर्गसन्धि: सकार: रेफ: |
    • इन्द्रियारामो मोघम् = इन्द्रियारामः मोघम् – विसर्गसन्धि: उकार:, गुण: ।
    • स जीवति = सः जीवति – विसर्गसन्धि: लोपः |
  • समासः
    •  अघायुः = अघम् आयुः यस्य सः – बहुव्रीहिः |
    • इन्द्रियारामः = इन्द्रियैः आरामः – तृतीयातत्पुरुषः |
  • कृदन्त:
    • प्रवर्तितम् = प्र + वृत् “वृतु वर्तने” + णिच्  + क्त प्रत्ययः (कर्मणि) |
    • आरामः = आङ् + रम् “रम क्रीडायाम्” + घञ् (कर्तरि) | (Note: घञ् प्रत्ययः conveys the sense in Bhaave Prayogah – Eg. त्यज् + घञ् = त्यागः).

श्लोकः १७

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥

पदच्छेदः

यः तु आत्मारतिः एव स्यात् आत्मतृप्तः च मानवः आत्मनि एव च सन्तुष्टः तस्य कार्यं न विद्यते ॥ १७ ॥

अन्वयः

यः तु मानवः आत्मरतिः एव आत्मतृप्तः आत्मन्येव सन्तुष्टः च स्यात् तस्य कार्यं न विद्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया = स्यात् [ अस् “अस भुवि” पर. विधिलिङ्ग. प्रपु. एक. ]
      • वाक्यांश:
        • कर्तृविधेयविशेषणम्  = आत्मरतिः [ इ. पुं. प्र. एक. ]
        • अवधारणम् = एव [ अव्ययम् ]
      • कर्तृविधेयविशेषणम्  = आत्मतृप्तः [ अ. पुं. प्र. एक. ]
      • वाक्यांश:
        • क्रियागर्भकर्तृविधेयविशेषणम् = सन्तुष्टः [ अ. पुं. प्र. एक. ]
        • अधिकरणम् = आत्मनि [ न. पुं. स. एक. ]
        • अवधारणम् = एव [ अव्ययम् ]
      • समुच्चयम् = च [ अव्ययम् ]
      • कर्ता = यः [ द. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = मानवः [ अ. पुं. प्र. एक. ]
    • “तस्य” वाक्यांश:
      • क्रिया = विद्यते [ विद् “विद सत्तायाम्” आ. लट्. प्रपु. एक. ]
      • प्रतिषेधम् = न [ अव्ययम् ]
      • वाक्यांश:
        • कर्ता = कार्यम् [ अ. नपुं. प्र. एक. ]
        • सम्बन्धिः = तस्य [ द. पुं. ष. एक. ]
  • सन्धिः
  • यस्तु = यः तु – विसर्गः सकारः |
  • त्वात्मरतिः = तु आत्मरतिः – यण् सन्धिः |
  • आत्मरतिरेव = आत्मरतिः एव – विसर्गः रेफः |
  • स्यादात्मतृप्तः = स्यात् आत्मतृप्तः – जश्त्वसन्धिः |
  • आत्मतृप्तश्च = आत्मातृप्तः च – विसर्गः सकारः, श्चुत्वसन्धिः |
  • आत्मन्येव = आत्मनि एव – यण् सन्धिः |
  • समासः
    • आत्मरतिः = आत्मनि रतिः यस्य सः – बहुव्रीहिः |
    • आत्मतृप्तः = आत्मना तृप्तः – तृतीयातत्पुरुषः |
  • कृदन्तः
    • तृप्तः = तृप् “तृप तृप्तौ” + क्त (कर्तरि) |
    • सन्तुष्टः = सम् + तुष् “तुष प्रीतौ“+ क्त (कर्तरि) |
  • तद्धितान्तः
    • मानवः = मनु + अण् (अपत्यार्थे) | मनोः अपत्यं पुमान् |

श्लोकः १८

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥

पदच्छेदः

न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन न च अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः ॥ १८ ॥

अन्वयः

इह तस्य कृतेन अकृतेन कश्चन अर्थः न (अस्ति) एव । अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः न (अस्ति)।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = (अस्ति)
    • प्रतिषेधम् = न [ अव्ययम् ]
    • अवधारणम् = एव [ अव्ययम् ]
    • कर्ता = अर्थः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = कश्चन [ अव्ययम् ]
    • वाक्यांश:
      • करणम् = कृतेन [ अ. पुं. तृ. एक. ]
      • करणम् = अकृतेन [ अ. पुं. तृ. एक. ]
      • सम्बन्धिः = तस्य [ अ. पुं.  ष. एक. ]
      • समुच्चयम् = च [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रिया = (अस्ति)
    • प्रतिषेधम् = न [ अव्ययम् ]
    • वाक्यांश:
      • कर्तृविधेयविशेषणम्  = अर्थव्यपाश्रयः [ अ. पुं. प्र. एक. ]
      • सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
    • वाक्यांश:
      • कर्ता = कश्चित् [ अव्ययम् ]
      • निर्धारणम् = सर्वभूतेषु [ अ. नपुं. स. एक. ]
  • सन्धिः
  • नैव = न एव – वृद्धिः |
  • कृतेनार्थः = कृतेन अर्थः – सवर्णदीर्घः |
  • अर्थो न = अर्थः न – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः ।
  • नाकृतेनेह = न अकृतेन – सवर्णदीर्घः |
  • अकृतेनेह = अकृतेन इह – गुणः |
  • चास्य = च अस्य – सवर्णदीर्घः |
  • कश्चिदर्थव्यपाश्रयः = कश्चित् अर्थव्यपाश्रयः – जश्त्वसन्धिः |
  • समासः
    • अकृतेन = न कृतम्, तेन – नञ्तत्पुरुषः |
    • अर्थव्यपाश्रयः = अर्थाय व्यपाश्रयः – चतुर्थीतत्पुरुषः |
    • सर्वभूतेषु = साराणि च तानि भूतानि च, तेषु – कर्मधारयः |
  • कृदन्तः
    • कृतेन = कृ “डुकृञ् करणे” + क्त (कर्मणि) कृतः, तेन |

श्लोकः १९

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥ १९ ॥

पदच्छेदः

तस्मात् असक्तः सततं कार्यं कर्म समाचर असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः ॥ १९ ॥

अन्वयः

तस्मात् असक्तः सततं कार्यं कर्म समाचर । असक्तः हि कर्म आचरन् पूरुषः परम् आप्नोति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = समाचर [ सम् + आङ् + चर् “चर गतिभक्षणयोः” पर. लोट्. मपु. एक. ]
    • कर्म = कर्म [ अ. नपुं. द्वि. एक. ]
    • कर्मविशेषणम् = कार्यम् [ अ. नपुं. द्वि. एक. ]
    • कालवाचकम् = सततम् [ अव्ययम् ]
    • कर्ता = (त्वम्)
    • कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
    • हेतुवाचकम् = तस्मात् [ तद् द. नपुं. प. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = आप्नोति [ आप्  “आप्लृ व्याप्तौ”  पर. लट्. प्रपु. एक. ]
    • कर्म = परम् [ अ. पुं. द्वि. एक. ]
    • कर्ता = पूरुषः [ अ. पुं. प्र. एक. ]
    • वाक्यांश:
      • क्रियागर्भकर्तृविशेषणम् = आचरन् [ त. पुं. प्र. एक. ]
      • कर्म = कर्म [ अ. नपुं. द्वि. एक. ]
    • वाक्यांश:
      • कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
      • अवधारणम् = हि [ अव्ययम् ]
  • सन्धिः
  • तस्मादसक्तः = तस्मात् असक्तः – जश्त्वसन्धिः |
  • असक्तो हि = असक्तः हि – विसर्गसन्धिः उकारः, गुणः ।
  • ह्याचरन् = हि आचरन् – यण् सन्धिः |
  • समासः
    • असक्तः = न सक्तः – नञ्तत्पुरुषः |
  • कृदन्तः
    • सक्तः = सञ्ज्  “षञ्ज सङ्गे” + क्तः |
    • आचरन् = आङ् + चर “चर गतिभक्षणयो:” + शतृ |

श्लोकः २०

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥ २० ॥

पदच्छेदः

कर्मणा एव हि संसिद्धिम् आस्थिताः जनकादयः लोकसङ्ग्रहम् एव अपि सम्पश्यन् कर्तुमर्हसि ॥ २० ॥

अन्वयः

जनकादयः कर्मणा एव हि संसिद्धिम् आस्थिताः । लोकसङ्ग्रहम् अपि सम्पश्यन् (कर्म) कर्तुम् अर्हसि एव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियागर्भकर्तृविधेयविशेषणम् = आस्थिताः [ अ. पुं. प्र. बहु. ]
      • अवधारणम् = हि [ अव्ययम् ]
      • कर्म = संसिद्धिम् [ इ. स्त्री. द्वि. एक. ]
      • हेतुवाचकम् = कर्मणा [ कर्मन् न. नपुं. तृ. एक. ]
      • अवधारणम् = एव [ अव्ययम् ]
    • कर्ता = जनकादयः [ जनकादि इ. पुं. प्र. बहु. ]
  • द्वितीयवाक्यम्
    • क्रिया = अर्हसि [ अर्ह “अर्ह पूजायाम्” पर. लट्. मपु. एक. ]
    • अवधारणम् = एव [ अव्ययम् ]
    • वाक्यांश:
      • उद्देष्यक्रिया = कर्तुम् [ अव्ययम् ]
      • कर्म = (कर्म)
    • कर्ता = (त्वम्)
    • वाक्यांश:
      • क्रियागर्भकर्तृविशेषणम् = सम्पश्यन् [ सम्पश्यत् त. पुं. प्र. एक. ]
      • कर्म = लोकसङ्ग्रहम् [ अ. पुं. द्वि. एक. ]
      • समुच्चयम् = अपि [ अव्ययम् ]
  • सन्धिः
    • कर्मणैव = कर्मणा एव – वृद्धिः |
    • आस्थिता जनकादयः = आस्थिताः जनकादयः – विसर्गः लोपः |
    • एवापि = एव अपि – सवर्णदीर्घः |
  • समासः
    • लोकसंग्रहम् = लोकस्य सङ्ग्रहः – षष्ठीतत्पुरुषः |
    • जनकादयः = जनकः आदिः येषां ते – बहुव्रीहिः |
  • कृदन्तः
    • संसिद्धिम् = सम् + सिध् “षिधु संराद्धौ” +क्तिन् (भावे) | (Note: The affix क्तिन् is used when a word in the feminine gender denoting a ‘mere action’ denoted by the root is to be expressed).
    • आस्थिताः = आ + स्था “ष्ठा गतिनिवृत्तौ” + क्त |
    • सङ्ग्रहम् = सम् + ग्रह् “ग्रह उपादाने” + अच् (भावे ), सङ्ग्रहः | तम् |
    • सम् + दृश् “दृशिर् प्रेक्षणे” + शतृ |
    • कर्तुम् = कृ “डुकृञ् करणे” + तुमुन् |

श्लोकः २१

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

पदच्छेदः

यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ॥ २१ ॥

अन्वयः

श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव आचरति । सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रिया = आचरति [ आङ् + चर् “चर गतौ” पर. लट्. प्रपु. एक. ]
      • कर्म = यत् [ त. नपुं. द्वि. एक. ]
      • कर्ता = श्रेष्ठः [ अ. पुं. प्र. एक. ]
    • “तत्” वाक्यांश:
      • क्रिया = (आचरति)
      • कर्म = तत् [ द. नपुं. द्वि. एक. ]
      • अवधारणम् = एव [ अव्ययम् ]
      • कर्ता = जनः [ अ. पुं. प्र. एक. ]
      • कर्तृविशेषणम्  = इतरः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • “यत्” वाक्यांश:
      • क्रिया = कुरुते [ कृ “डुकृञ् करणे” उभय. अत्र आ. लट्. प्रपु. एक. ]
      • कर्म = प्रमाणम् [ अ. पुं. द्वि. एक. ]
      • कर्मविशेषणम् = यत् [ द. नपुं. द्वि. एक. ]
      • कर्ता = सः [ द. पुं. प्र. एक. ]
    • “तत्” वाक्यांश:
      • क्रिया = अनुवर्तते [ अनु + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
      • कर्म = तत् [ द. नपुं. द्वि. एक. ]
      • कर्ता = लोकः [ अ. पुं. प्र. एक. ]
  • सन्धिः
  • यद्यदाचरति = यत् यत् आचरति – जश्त्वः |
  • श्रेष्ठस्तत् = श्रेष्ठः तत् – विसर्गः सकारः |
  • तदेव = तत् एव – जश्त्वः |
  • एवेतरः = एव इतरः – गुणः |
  • स यत्प्रमाणम् = सः यत्प्रमाणम् – विसर्गः लोपः |
  • इतरो जनः = इतरः जनः – विसर्गः उकारः गुणः |
  • लोकस्तत् = लोकः तत् – विसर्गः सकारः |
  • तदनुवर्तते = तत् अनुवर्तते – जश्त्वः |
  • कृदन्तः
    • प्रमाणम् = प्र + मा + ल्युट् (करणे) (Note: The verb form is used as the object. गम् धातोः ल्युट् रूपं गमनम् ) प्रमीयते ज्ञायते अनेन इति प्रमाणम् |
    • श्रेष्ठः = प्रशस्य + इष्ठन् (अतिशये) | ( श्र इति आदेशः )

श्लोकः २२

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥ २२ ॥

पदच्छेदः

न मे पार्थ अस्ति कर्तव्यं त्रिषु लोकेषु किञ्चन न अनवाप्तम् अवाप्तव्यं वर्ते एव च कर्मणि ॥ २२ ॥

अन्वयः

पार्थ ! त्रिषु लोकेषु मे किञ्चन कर्तव्यं न अस्ति । अनवाप्तम् अवाप्तव्यं च न अस्ति । (तथापि) कर्मणि एव (अहं) वर्ते ।

पदपरिचय:

  • सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • क्रिया = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • वाक्यांश:
      • कर्ता = कर्तव्यम् [ अ. नपुं. प्र. एक. ]
      • सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
    • कर्तृविशेषणम् = किञ्चन [ अव्ययम् ]
    • अधिकरणम् = लोकेषु [ अ. पुं. स. बहु. ]
    • अधिकरणविशेषणम् = त्रिषु [ अ. पुं. स. बहु. ]
  • द्वितीयवाक्यम्
    • क्रिया = (अस्ति)
    • प्रतिषेधम् = न [ अव्ययम् ]
    • समुच्चयम् = च [ अव्ययम् ]
    • कर्ता = अनवाप्तम् [ अ. नपुं. प्र. एक. ]
    • कर्तृविशेषणम् = अवाप्तव्यम् [ अ. नपुं. प्र. एक. ]
  • तृतीयवाक्यम्
    • क्रिया = वर्ते [ वृत् “वृतु वर्तने” आ. लट्. उपु. एक. ]
    • अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
    • अवधारणम् = एव [ अव्ययम् ]
    • संयोजकम् = (तथापि)
    • कर्ता = (अहम्)
  • सन्धिः
  • पार्थास्ति = पार्थ अस्ति – सवर्णदीर्घः |
  • नानवाप्तम् = न अनवाप्तम् – सवर्णदीर्घः |
  • वर्त एव = वर्ते एव – अयादेशः, यकारलोपः प्रकृतिभावश्च |
  • समासः
    • अनवाप्तम् = न अवाप्तम् – नञ्तत्पुरुषः |
  • कृदन्तः
    • कर्तव्यम् = कृ “डुकृञ् करणे” + तव्यत् (कर्मणि ) |
    • अवाप्तम् = अव + आप् “आप्ऌ व्याप्तौ” + क्त (कर्मणि) |
    • अवाप्तव्यम् = अव + आप् “आप्ऌ व्याप्तौ” + तव्यत् (कर्मणि ) |

श्लोकः २३

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

पदच्छेदः

यदि हि अहं न वर्तेयं जातु कर्मणि अतन्द्रितः मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥ २३ ॥

अन्वयः

पार्थ ! यदि अहं कर्मणि जातु अतन्द्रितः न वर्तेयम् (तर्हि) सर्वशः मनुष्याः मम वर्त्म अनुवर्तन्ते ।

पदपरिचय:

  • सम्बोधनम् = पार्थ! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • “यदि” वाक्यांश:
      • क्रिया = वर्तेयम् [  वृत् “वृतु वर्तने” आ. विधिलिङ्. उपु. एक. ]
        (उपु. वर्तेय वर्तेवहि वर्तेमहि) अत्र आर्षः |
      • प्रतिषेधम् = न [ अव्ययम् ]
      • वाक्यांश:
        • कर्तृविशेषणम् = अतन्द्रितः [ अ. पुं. प्र. एक. ]
        • अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
        • कालवाचकम् = जातु [ अव्ययम् ]
      • कर्ता = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
      • संयोजकम् = यदि [ अव्ययम् ]
    • (तर्हि) वाक्यांश:
      • क्रिया = अनुवर्तन्ते [ अनु + वृत् “वृतु वर्तने” आ. लट्. प्रपु. एक. ]
      • क्रियाविशेषणम् = सर्वशः [ अव्ययम् ]
      • वाक्यांश:
        • कर्म = वर्त्म [ न. नपुं. प्र. एक. ]
        • सम्बन्धिः = मम [ अस्मद् द. त्रि. ष. एक. ]
        • कर्ता = मनुष्याः [ अ. पुं. प्र. बहु. ]
  • सन्धिः
    • ह्यहम् = हि अहम् – यण् सन्धिः |
    • कर्मण्यतन्द्रितः = कर्मणि अतन्द्रितः – यण् सन्धिः |
    • वर्त्मानुवर्तन्ते = वर्त्म अनुवर्तन्ते – सवर्णदीर्घः |
  • समासः
    • अतन्द्रितः = न तन्द्रितः – नञ्तत्पुरुषः |
  • तद्धितान्तः
    • तन्द्रितः = तन्द्रा + इतच् | (तन्द्रा अस्य सञ्जाता) (Note: The affix इतच्comes in the sense of ‘that whereof this is observed’ after the word in the Nominative 1st-Case in construction. In this case, the person in whom तन्द्रा or जाड्यम् is observed)
    • सर्वशः = सर्व + शस् (स्वार्थे)

श्लोकः २४

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
ङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ॥ २४ ॥

पदच्छेदः

उत्सीदेयुः इमे लोकाः न कुर्यां कर्म चेत् अहम् सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः ॥ २४ ॥

अन्वयः

अहं कर्म न कुर्यां चेत् (तर्हि) इमे लोकाः उत्सीदेयुः । सङ्करस्य च कर्ता स्याम् । इमाः प्रजाः उपहन्याम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “चेत्” वाक्यांश:
      • क्रिया = कुर्याम् [ कृ “डुकृञ् करणे” उभय. अत्र पर. विधिलिङ्. उपु. एक. ]
      • प्रतिषेधम् = न [ अव्ययम् ]
      • कर्म = कर्म [ न. नपुं. द्वि. एक. ]
      • कर्ता = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
      • संयोजकम् = चेत् [ अव्ययम् ]
    • (तर्हि) वाक्यांश:
      • क्रिया = उत्सीदेयुः [  उत् + सद् “षद्लृ  विशरणगत्यवसादनेषु” पर. विधिलिङ्. प्रपु. बहु. ]
      • कर्ता = लोकाः [ अ. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = इमे [ इदम् म. पुं. प्र. एक. ] (प्र. अयम् इमौ इमे )
  • द्वितीयवाक्यम्
    • क्रिया = स्याम् [ अस् “अस भुवि” पर. विधिलिङ्ग. उपु. एक. ]
    • वाक्यांश:
      • कर्ता = कर्ता [ ऋ. पुं. प्र. एक. ]
      • सम्बन्धिः = सङ्करस्य [ अ. पुं. ष. एक. ]
    • कर्ता = (अहम्)
    • समुच्चयम् = च [ अव्ययम् ]
  • तृतीयवाक्यम्
    • क्रिया = उपहन्याम् [ उप + हन् “हन हिंसागत्यो:” पर. विधिलिङ्. उपु. एक. ]
    • कर्म = प्रजाः [ आ. स्त्री. द्वि. बहु. ]
    • कर्मविशेषणम् = इमाः [ म. स्त्री. द्वि. बहु. ] ( प्र. इयम् इमे इमाः )
    • कर्ता = (अहम्)
  • सन्धिः
  • उत्सीदेयुरिमे = उत्सीदेयुः इमे – विसर्गः रेफः |
  • लोका न = लोकाः न – विसर्गः लोपः |
  • चेदहम् = चेत् अहम् – जश्त्वः |
  • कृदन्तः
    • सङ्करस्य = सम् + कृ “डुकृञ् करणे” + अच् (भावे) सङ्करः, तस्य |
    • कर्ता = कृ “डुकृञ् करणे” + तृच् (कर्तरि) |

श्लोकः २५

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथासक्तः चिकिर्षुर्लोकसङ्ग्रहम् ॥ २५ ॥

पदच्छेदः

सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत कुर्यात् विद्वान् तथा असक्तः चिकिर्षुः लोकसङ्ग्रहम् ॥ २५ ॥

अन्वयः

भारत ! अविद्वांसः कर्मणि सक्ताः यथा कुर्वन्ति तथा विद्वान् असक्तः लोकसङ्ग्रहं चिकीर्षुः (कर्म) कुर्यात् ।

पदपरिचय:

  • सम्बोधनम् = भारत [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रिया = कुर्वन्ति [ कृ “डुकृञ् करणे” उभय. अत्र पर. लट्. प्रपु. बहु. ]
      • कर्म = (कर्म)
      • कर्ता = अविद्वांसः [ स. पुं. प्र. बहु. ]
      • वाक्यांश:
        • क्रियागर्भकर्तृविशेषणम् = सक्ताः [ अ. पुं. प्र. बहु. ]
        • अधिकरणम् = कर्मणि [ न. नपुं. स. एक. ]
      • संयोजकम् = यथा [ अव्ययम् ]
    • “तथा” वाक्यांश:
      • क्रिया = कुर्यात् [ कृ “डुकृञ् करणे” उभय. अत्र पर. विधिलिङ्. प्रपु. एक. ]
      • कर्म = (कर्म)
      • कर्ता = विद्वान् [ विद्वस् स. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = असक्तः [ अ. पुं. प्र. एक. ]
      • वाक्यांश:
        • क्रियागर्भकर्तृविशेषणम् = चिकीर्षुः [ उ. पुं. प्र. एक. ]
        • कर्म = लोकसङ्ग्रहम् [ अ. पुं. द्वि. एक. ]
      • संयोजकम् = तथा [ अव्ययम् ]
  • सन्धिः
    • कर्मण्यविद्वांसः = कर्मणि अविद्वांसः – यण् सन्धिः |
    • अविद्वांसो यथा = अविद्वांसः यथा – विसर्गः उकारः, गुणः |
    • कुर्याद्विद्वान् = कुर्यात् विद्वान् – जश्त्वः |
    • विद्वांस्तथा = विद्वान् तथा – रुत्वम्, अनुस्वारागमः, विसर्गः सत्वं च |
    • तथासक्तः = तथा असक्तः – सवर्णदीर्घः |
    • चिकिर्षुर्लोकसङ्ग्रहम् = चिकिर्षुः लोकसङ्ग्रहम् – विसर्गः रेफः |
  • समासः
    • लोकसङ्ग्रहः  = लोकस्य सङ्ग्रहः – षष्ठीतत्पुरुषः, तम् ।
  • कृदन्तः
    • विद्वान् = विद् + शतृ (कर्तरि) |
    • सक्तः = सञ्ज् “षञ्ज सङ्गे” + क्त प्रत्यय: (कर्तरि) ।
  • सन्नन्तः
    • चिकीर्षुः = कृ “डुकृञ् करणे” + सन् + उ (कर्तरि) | कर्तुम् इच्छुः |

श्लोकः २६

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥ २६ ॥

पदच्छेदः

न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् जोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् ॥ २६ ॥

अन्वयः

(विद्वान्) कर्मसङ्गिनाम् अज्ञानां बुद्धिभेदं न जनयेत् । युक्तः (कर्म) समाचरन् विद्वान् सर्वकर्माणि जोषयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = जनयेत् [जन् “जनी प्रादुर्भावे” + णिच्, आत्. विधिलिङ्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • वाक्यांश:
      • णिजन्तप्रयोज्यकर्तृसूचककर्म = बुद्धिभेदम् [ अ. पुं. द्वि. एक. ]
      • सम्बन्धिः = अज्ञानाम् [ अ. नपुं. ष. बहु. ]
      • सम्बन्धिविशेषणम् = कर्मसङ्गिनाम् [ न. पुं. ष. बहु. ]
    • णिजन्तप्रयोजककर्ता = (विद्वान्)
  • द्वितीयवाक्यम्
    • क्रिया = जोषयेत् [ जुष् “जुषी प्रीतिसेवनयोः” + णिच्, उभय (अत्र) पर. विधिलिङ्. प्रपु. एक. ]
    • णिजन्तप्रयोज्यकर्तृसूचककर्म = सर्वकर्माणि [ अ. नपुं. द्वि. बहु. ]
    • णिजन्तप्रयोजककर्ता = विद्वान् [ विद्वस् स. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = युक्तः [ अ. पुं. प्र. एक. ]
    • वाक्यांश:
      • क्रियागर्भकर्तृविशेषणम् = समाचरन् [ त. पुं. प्र. एक. ]
      • कर्म = (कर्म)
  • सन्धिः
  • जनयेदज्ञानाम् = जनयेत् अज्ञानाम् – जश्त्वः |
  • समासः
    • बुद्धिभेदम् = बुद्धेः भेदः, तम् – षष्ठीतत्पुरुषः |
    • कर्मसङ्गिनाम्
      • कर्मसङ्गः = कर्मणि सङ्गः – सप्तमीतत्पुरुषः |
      • कर्मसङ्गिनः = कर्मसङ्गः एषाम् एषु वा अस्तीति (मतुबर्थे इनिपर्ययः), तेषाम् |
    • अज्ञानाम् – जानन्ति इति ज्ञाः | न ज्ञाः अज्ञाः, तेषाम् – नञ्बहुव्रीहिः |
    • सर्वकर्माणि – सर्वाणि कर्माणि – कर्मधारयः |
  • कृदन्तः
    • युक्तः = युज् “युजिर् योगे” + क्त (कर्तरि) |
    • समाचरन् = सम् + आङ् + चर् + शतृ (कर्तरि) |

श्लोकः २७

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ २७॥

पदच्छेदः

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ॥ २७ ॥

अन्वयः

कर्माणि प्रकृतेः गुणैः सर्वशः क्रियमाणानि (भवन्ति)| अहङ्कारविमूढात्मा कर्ता अहम् इति मन्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = (भवन्ति)
    • वाक्यांश:
      • क्रियागर्भकर्तृविधेयविशेषणम् = क्रियमाणानि [ अ. नपुं. प्र. बहु. ]
      • क्रियाविशेषणम् = सर्वशः [ अव्ययम् ]
      • वाक्यांश:
        • करणम् = गुणैः [ अ. पुं. तृ. बहु. ]
        • सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
    • कर्ता = कर्माणि [ न. नपुं. प्र. बहु. ]
  • द्वितीयवाक्यम्
    • क्रिया = मन्यते [ मन् “मन ज्ञाने”, आ. लट्. प्रपु. एक. ]
    • कर्मवाक्यम्
      • क्रिया = (अस्मि)
      • कर्तृविधेयविशेषणम् = अहम् [ अस्मद् द. त्रि. प्र. एक. ]
      • कर्ता = कर्ता [ ऋ. पुं. प्र. एक. ]
      • संयोजकम् = इति [ अव्ययम् ]
    • कर्ता = अहङ्कारविमूढात्मा [ न. पुं. प्र. एक. ]
  • सन्धिः
    •  कर्ताहम् = कर्ता अहम् – सवर्णदीर्घः |
  • समासः
    • अहङ्कारविमूढात्मा
      • अहङ्कारविमूढः = अहङ्कारेन विमूढः – तृतीयातत्पुरुषः |
      • अहङ्कारविमूढात्मा = अहङ्कारविमूढः आत्मा यस्य सः – बहुव्रीहिः |
  • कृदन्तः
    • प्रकृतेः = प्र + कृ “डुकृञ् करणे” + क्तिन्  (कर्तरि) प्रकृतिः, तस्याः
    • क्रियमाणानि = कृ “डुकृञ् करणे” + शानच् (कर्मणि)
  • तद्धितान्तः
    • सर्वशः = सर्व + शस् (प्रकारार्थे) |

श्लोकः २८

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥ २८ ॥

पदच्छेदः

तत्त्ववित् तु महाबाहो गुणकर्मविभागयोः गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ॥ २८ ॥

अन्वयः

महाबाहो ! गुणकर्मविभागयोः तत्त्ववित् तु गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते ।

पदपरिचय:

  • सम्बोधनम् = महाबाहो! [ उ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • क्रिया = सज्जते [ सज्ज “षस्ज् गतौ” उभय. अत्र आ. लट्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = मत्वा [ अव्ययम् ]
      • कर्म-वाक्यम्
        • क्रिया = वर्तन्ते [ वृत् “वृतु वर्तने” आ. लट्. प्रपु. बहु. ]
        • कर्ता = गुणाः [ अ. पुं. प्र. बहु. ]
        • अधिकरणम् = गुणेषु [ अ. पुं. स. बहु. ]
        • संयोजकम् = इति [ अव्ययम् ]
      • वाक्यांश:
        • कर्ता = तत्त्ववित् [ द. पुं. प्र. एक. ]
        • अवधारणम् = तु [ अव्ययम् ]
        • सम्बन्धिः = गुणकर्मविभागयोः [ अ. पुं. ष. द्वि. ]
  • सन्धिः
  • गुणा गुणेषु = गुणाः गुणेषु – विसर्गः लोपः |
  • वर्तन्त इति = वर्तन्ते इति – यान्तावान्तादेशः, यलोपः |
  • समासः
    • गुणकर्मविभागयोः
      • गुणकर्मणी = गुणः च कर्म च – द्वन्द्वः |
      • गुणकर्मविभागः = गुणकर्मणोः विभागः – षष्ठीतत्पुरुषः | तयोः |
    • तत्त्ववित् = तत्त्वं वेत्ति इति – कर्तरि क्विप् उपपदसमासश्च |
  • कृदन्तः
    • मत्वा = मन् “मन ज्ञाने” + क्त्वा

श्लोकः २९

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु ।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ॥ २९ ॥

पदच्छेदः

प्रकृतेः गुणसम्मूढाः सज्जन्ते गुणकर्मसु तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् ॥ २९ ॥

अन्वयः

प्रकृतेः गुणसम्मूढाः गुणकर्मसु सज्जन्ते । अकृत्स्नविदः मन्दान् तान् कृत्स्नवित् न विचालयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = सज्जन्ते [ सज्ज “षस्ज् गतौ” उभय. अत्र आ. लट्. प्रपु. बहु. ]
    • अधिकरणम् = गुणकर्मसु [ न. नपुं. स. बहु. ]
    • वाक्यांश:
      • कर्ता = गुणसम्मूढाः [ अ. पुं. प्र. बहु. ]
      • सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = विचालयेत् [ वि + चल् “चल कम्पने” + णिञ् पर. विधिलिङ्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • णिजन्तप्रयोजककर्ता = कृत्स्नवित् [ द. पुं. प्र. एक. ]
    • वाक्यांश:
      • णिजन्तप्रयोज्यकर्तृसूचककर्म = तान् [ द. पुं. द्वि. बहु. ]
      • कर्मविशेषणम् = अकृत्स्नविदः [ द. पुं. द्वि. बहु. ]
      • कर्मविशेषणम् = मन्दान् [ अ. पुं. द्वि. बहु. ]
  • सन्धिः
  • प्रकृतेर्गुणसम्मूढाः = प्रकृतेः गुणसम्मूढाः – विसर्गः रेफः |
  • अकृत्स्नविदो मन्दान् = अकृत्स्नविदः मन्दान् – विसर्गः उकारः, गुणः |
  • कृत्स्नविन्न = कृत्स्नवित् न – परसवर्णः |
  • समासः
    • गुणसम्मूढाः = गुणैः सम्मूढाः – तृतीयातत्पुरुषः |
    • गुणकर्मसु
      • गुणानां कर्माणि गुणकर्माणि – षष्ठीतत्पुरुषः । तेषु |
      • गुणाः कर्माणि च गुणकर्माणि – द्वन्द्वः  ।  तेषु |
    • अकृत्स्नवित्
      • कृत्स्नं वेत्ति कृत्स्नवित् – कर्तरि क्विप् उपपदसमासश्च ।
      • न कृस्त्नवित् – नञ्तत्पुरुषः |
  • कृदन्तः
    • प्रकृतिः = प्र + कृ “डुकृञ् करणे” + क्तिन्  (कर्तरि) |
    • सम्मूढाः = सम् + मुह् “मुह वैचित्त्ये” + क्त | (कर्तरि)

श्लोकः ३०

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

पदच्छेदः

मयि सर्वाणि कर्माणि सन्न्यस्य अध्यात्मचेतसा निराशीः निर्ममः भूत्वा युध्यस्व विगतज्वरः ॥ ३० ॥

अन्वयः

अध्यात्मचेतसा सर्वाणि कर्माणि मयि सन्न्यस्य निराशीः निर्ममः विगतज्वरः भूत्वा युध्यस्व ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = युध्यस्व [ युज् “युजिर् योगे” आ. लोट्. मपु. एक. ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = सन्न्यस्य [ अव्ययम् ]
      • अधिकरणम् = मयि [ अस्मद् द. त्रि. स. एक. ]
    • कर्म = कर्माणि [ न. नपुं. द्वि. बहु. ]
    • कर्मविशेषणम् = सर्वाणि [ अ. नपुं. द्वि. बहु. ]
    • करणम् = अध्यात्मचेतसा [ स. नपुं. तृ. एक. ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = भूत्वा [ अव्ययम् ]
      • कर्तृविधेयविशेषणम्  = विगतज्वरः [ अ. पुं. प्र. एक. ]
      • कर्तृविधेयविशेषणम्  = निर्ममः [ अ. पुं. प्र. एक. ]
      • कर्तृविधेयविशेषणम्  = निराशीः [ स. पुं. प्र. एक. ]
      • कर्ता = (त्वम्)
  • सन्धिः
  • संन्यस्याध्यात्मचेतसा = संन्यस्य अध्यात्मचेतसा – सवर्णदीर्घः |
  • निराशीर्निर्ममः = निराशीः निर्ममः – विसर्गः रेफः |
  • निर्ममो भूत्वा = निर्ममः भूत्वा – विसर्गः उकारः, गुणः |
  • समासः
    • अध्यात्मचेतसा
      • आत्मनि इति अध्यात्मम् – अव्ययीभावः |
      • अध्यात्मनि चेतः अध्यात्मचेतः – सप्तमीतत्पुरुषः | तेन |
    • वेगतज्वरः = विगतः ज्वरः यस्मात् सः – बहुव्रीहिः |
    • निराशीः = निर्गता आशीः यस्मात् सः – बहुव्रीहिः |
  • कृदन्तः
    • सन्न्यस्य =  सम् + नि + अस् “अस भुवि” + ल्यप्
    • भूत्वा = भू “भू सत्तायाम्” + क्त्वा

श्लोकः ३१

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ ३१ ॥

पदच्छेदः

ये मे मतम् इदं नित्यम् अनुतिष्ठन्ति मानवाः श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः ॥ ३१ ॥

अन्वयः

ये मानवाः मे इदं मतं नित्यम् अनुतिष्ठन्ति, अनसूयन्तः श्रद्धावन्तः ते अपि कर्मभिः मुच्यन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रिया = अनुतिष्ठन्ति [ अनु + स्था “ष्ठा गतिनिवृत्तौ” पर. लट्. प्रपु. बहु. ]
      • क्रियाविशेषणम् = नित्यम् [ अव्ययम् ]
      • वाक्यांश:
        • कर्म = मतम् [ अ. नपुं. द्वि. एक. ]
        • कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
        • सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
      • कर्ता = ये [ द. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = मानवाः [ अ. पुं. प्र. बहु. ]
    • “ते” वाक्यांश:
      • क्रिया = मुच्यन्ते [ मुच् “मुचॢ मोक्षणे” (उभय) आ. कर्मणि लट्. प्रपु. बहु. ]
      • (कर्मणि) कर्म = ते [ तद् द. पुं. प्र. बहु. ]
      • अवधारणम् = अपि [ अव्ययम् ]
      • (कर्मणि) कर्मविशेषणम् = अनसूयन्तः [ त. पुं. प्र. बहु. ]
      • (कर्मणि) कर्मविशेषणम् = श्रद्धावन्तः [ त. पुं. प्र. बहु. ]
      • (कर्मणि) कर्ता = कर्मभिः [ न. नपुं. तृ. बहु. ]
  • सन्धिः
    • श्रद्धावन्तोऽनसूयन्तः = श्रद्धावन्तः अनसूयन्तः – विसर्गसन्धि: उकार:, गुण:, पूर्वरूपं च ।
    • अनसूयन्तो मुच्यन्ते = अनसूयन्तः मुच्यन्ते – विसर्गसन्धि: उकार:, गुण: |
    • तेऽपि = ते अपि  – पूर्वरूपम् ।
  • समासः
    • अनसूयन्तः =  न असूयन्तः – नञ्तत्पुरुषः |
  • कृदन्तः
    • असूयन्तः = असूय + शतृ (कर्तरि) | Note: The dhatu असूय is derived from असु “असु उपतापे” + यक् प्रत्यय by 3|1|27 कण्ड्वादिभ्यो यक्. Such dhatus are called आतिदेशिकधातव: | In this particular case the meaning remains unchanged.
  • तद्धितान्तः
    • श्रद्धावन्तः = श्रद्धा + मतुप् | श्रद्धा एषाम् एषु वा अस्ति |

श्लोकः ३२

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥

पदच्छेदः

ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् सर्वज्ञानविमूढान् तान् विद्धि नष्टान् अचेतसः ॥ ३२ ॥

अन्वयः

ये तु अभ्यसूयन्तः मे एतत् मतं न अनुतिष्ठन्ति सर्वज्ञानविमूढान् अचेतसः तान् नष्टान् विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रिया = अनुतिष्ठन्ति [ अनु + स्था “ष्ठा गतिनिवृत्तौ” पर. लट्. प्रपु. बहु. ]
      • प्रतिषेधम् = न [ अव्ययम् ]
      • वाक्यांश:
        • कर्म = मतम् [ अ. नपुं. द्वि. एक. ]
        • कर्मविशेषणम् = एतत् [ द. नपुं. द्वि. एक. ]
        • सम्बन्धिः = मे (मम) [ अस्मद् द. त्रि. ष. एक. ]
      • कर्ता = अभ्यसूयन्तः [ त. पुं. प्र. बहु. ]
      • कर्तृविशेषणम् = ये [ द. पुं. प्र. बहु. ]
      • कर्तृविधेयविशेषणम्  = तु [ अव्ययम् ]
    • “तान्” वाक्यांश:
      • क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
      • कर्मविधेयविशेषणम् = नष्टान् [ अ. पुं. द्वि. बहु. ]
      • कर्म = तान् [ द. पुं. द्वि. बहु. ]
      • कर्मविशेषणम् = सर्वज्ञानविमूढान् [ अ. पुं. द्वि. बहु. ]
      • कर्मविशेषणम् = अचेतसः [ स. पुं. द्वि. बहु. ]
      • कर्ता = (त्वम्)
  • सन्धिः
  • त्वेतत् = तु एतत् – यण् सन्धिः |
  • एतदभ्यसूयन्तः= एतत् अभ्यसूयन्तः – जश्त्वः
  • अभ्यसूयन्तो न = अभ्यसूयन्तः न – विसर्गः उकारः, गुणः |
  • नानुतिष्ठन्ति = न अनुतिष्ठन्ति – सवर्णदीर्घः |
  • सर्वज्ञानविमूढांस्तान् = सर्वज्ञानविमूढान् तान् – रुत्वम्, अनुस्वारागमः, विसर्गः सत्वं च |
  • समासः
    • सर्वज्ञानविमूढान्
      • सर्वाणि ज्ञानानि सर्वज्ञानानि – कर्मधारयः |
      • सर्वज्ञानेषु विमूढाः – सप्तमीतत्पुरुषः | तान् |
    • अचेतसः = नास्ति चेतः येषां ते – बहुव्रीहिः |
  • कृदन्तः
    • अभ्यसूयन्तः = अभि + असू + शतृ (कर्तरि) |
    • नष्टान् = नश् “णश् अदर्शने“ + क्त (कर्तरि) नष्टः | तान् |

श्लोकः ३३

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

पदच्छेदः

सदृशं चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥

अन्वयः

ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशं चेष्टते । भूतानि प्रकृतिं यान्ति । निग्रहः किं करिष्यति ?

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = चेष्टते [ चेष्ट “चेष्ट चेष्टायाम्” आ. लट्. प्रपु. एक. ]
    • वाक्यांश:
      • क्रियाविशेषणम् = सदृशम् [अव्ययम् ]
      • सम्बन्धिः = प्रकृतेः [ इ. स्त्री. ष. एक. ]
      • सम्बन्धिपदसम्बन्धिः = स्वस्याः [ स्वा आ. स्त्री. ष. एक. ] (Note: प्रथमा         — स्वा स्वे स्वाः | षष्ठी — स्वस्याः स्वयोः स्वासाम्)
    • कर्ता = ज्ञानवान् [ त. पुं. प्र. एक. ]
    • अवधारणम् = अपि [ अव्ययम् ]
  • द्वितीयवाक्यम्
    • क्रिया = यान्ति [ या “या प्रापणे” पर. लट्. प्रपु. बहु. ]
    • कर्म = प्रकृतिम् [ इ. स्त्री. द्वि. एक. ]
    • कर्ता = भूतानि [ अ. नपुं. प्र. बहु. ]
  • तृतीयवाक्यम्
    • क्रिया = करिष्यति [ कृ “डुकृञ् करणे” उभय. अत्र पर. लृट्. प्रपु. एक. ]
    • प्रश्नवाचककर्म = किम् [ म. नपुं. द्वि. एक. ]
    • कर्ता = निग्रहः [ अ. पुं. प्र. एक. ]
  • सन्धिः
    • प्रकृतेर्ज्ञानवान् = प्रकृतेः ज्ञानवान् – विसर्गः रेफः |
  • तद्धितः
    • ज्ञानवान् = ज्ञान + मतुप् | ज्ञानम् अस्य अस्मिन् वा अस्ति |

श्लोकः ३४

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ॥ ३४ ॥

पदच्छेदः

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ तयोः न वशमागच्छेत् तौ हि अस्य परिपन्थिनौ ॥ ३४ ॥

अन्वयः

इन्द्रियस्य इन्द्रियस्य अर्थे रागद्वेषौ व्यवस्थितौ । तयोः वशं न आगच्छेत् । तौ हि अस्य परिपन्थिनौ ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = (स्तः)
    • वाक्यांश:
      • क्रियागर्भकर्तृविधेयविशेषणम् = व्यवस्थितौ [ अ. पुं. प्र. द्वि. ]
      • वाक्यांश:
        • अधिकरणम् = अर्थे [ अ. पुं. स. एक. ]
        • सम्बन्धिः = इन्द्रियस्य इन्द्रियस्य (सर्वेषामपि इन्द्रियाणाम् इत्यर्थः ) [ अ. नपुं. ष. एक. ]
    • कर्ता = रागद्वेषौ [ अ. पुं. प्र. द्वि. ]
  • द्वितीयवाक्यम्
    • क्रिया = आगच्छेत् [ आङ् + गम् “गम्ऌ गतौ” पर. लोट्. प्रपु. एक. ]
    • प्रतिषेधम् = न [ अव्ययम् ]
    • वाक्यांश:
      • कर्म = वशम् [ अ. पुं. द्वि. एक. ]
      • सम्बन्धिः = तयोः [ द. पुं. ष. द्वि. ]
    • कर्ता = (सः)
  • तृतीयवाक्यम्
    • क्रिया = (स्तः)
    • वाक्यांश:
      • कर्तृविधेयविशेषणम्  = परिपन्थिनौ [ अ. पुं. प्र. द्वि. ]
      • सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
    • कर्ता = तौ [ द. पुं. प्र. द्वि. ]
    • अवधारणम् = हि [ अव्ययम् ]
  • सन्धिः
  • इन्द्रियस्येन्द्रियस्य = इन्द्रियस्य इन्द्रियस्य – गुणः |
  • इन्द्रियस्यार्थे = इन्द्रियस्य अर्थे – सवर्णदीर्घः |
  • तयोर्न = तयोः न – विसर्गः रेफः |
  • ह्यस्य = हि अस्य – यण् सन्धिः |
  • समासः
    • रागद्वेषौ = रागश्च द्वेषश्च – द्वन्द्वः |
  • कृदन्तः
    • व्यवस्थितौ = वि + अव + स्था “ष्ठा गतिनिवृत्तौ” + क्त (कर्तरि) |

श्लोकः ३५

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥ ३५ ॥

पदच्छेदः

श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेयः परधर्मः भयावहः ॥ ३५ ॥

अन्वयः

स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः श्रेयान् । स्वधर्मे निधनं श्रेयः । परधर्मः भयावहः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = (भवति)
    • कर्तृविधेयविशेषणम्  = श्रेयान् [ श्रेयस् स. पुं. प्र. एक ] (श्रेयान् श्रेयांसौ श्रेयांसः)
    • कर्ता = स्वधर्मः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = विगुणः [ अ. पुं. प्र. एक. ]
    • अपादानम् = परधर्मात् [ अ. पुं. प. एक. ]
    • अपादानविशेषणम् = स्वनुष्ठितात् [ अ. पुं. प. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = (भवति)
    • कर्तृविधेयविशेषणम्  = श्रेयः [ श्रेयस् स. नपुं. प्र. एक ] (श्रेयः श्रेयसी श्रेयांसि)
    • वाक्यांश:
      • कर्ता = निधनम् [ अ. नपुं. प्र. एक. ]
      • अधिकरणम् = स्वधर्मे [ अ. पुं. स. एक. ]
  • तृतीयवाक्यम्
    • क्रिया = (भवति)
    • कर्तृविधेयविशेषणम्  = भयावहः [ अ. पुं. प्र. एक. ]
    • कर्ता = परधर्मः [ अ. पुं. प्र. एक. ]
  • सन्धिः
  • स्वधर्मो विगुणः = स्वधर्मः विगुणः – विसर्गः उकारः, गुणः |
  • परधर्मो भयावहः = परधर्मः भयावहः – विसर्गः उकारः, गुणः |
  • तद्धितान्तः
    • श्रेयान् = प्रशस् / वृद्ध + इयसून् (श्र इति आदेशः ) |

श्लोकः ३६

अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥

पदच्छेदः

अथ केन प्रयुक्तः अयं पापं चरति पूरुषः अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः ॥ ३६ ॥

अन्वयः

वार्ष्णेय ! अथ केन प्रयुक्तः अनिच्छन् अपि बलात् नियोजितः इव अयं पूरुषः पापं चरति ?

पदपरिचय:

  • सम्बोधनम् = वार्ष्णेय! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • क्रिया = चरति [ चर “चर गतिभक्षणयो:” पर. लट्. प्रपु. एक. ]
    • कर्म = पापम् [ अ. नपुं. द्वि. एक. ]
    • कर्ता = पूरुषः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = अयम् [ इदम् म. पुं. प्र. एक. ]
    • वाक्यांश:
      • क्रियागर्भकर्तृविशेषणम् = नियोजितः [ अ. पुं. प्र. एक. ]
      • हेतुवाचकम् = बलात् [ अ. नपुं. प. एक. ]
      • उपमावाचकम् = इव [ अव्ययम् ]
    • वाक्यांश:
      • कर्तृविशेषणम् = अनिच्छन् [ त. पुं. प्र. एक. ]
      • अवधारणम् = अपि [ अव्ययम् ]
    • वाक्यांश:
      • (कर्मणि) कृयागर्भकर्तृविशेषणम्  = प्रयुक्तः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) प्रश्नवाचककर्ता = केन [ किम् म. नपुं. तृ. एक. ]
    • संयोजकम् = अथ [ अव्ययम् ]
  • सन्धिः
    • प्रयुक्तोऽयम् = प्रयुक्तः अयम् – विसर्गसन्धि: (सकार:) रेफ:, उकार:, गुण:, पूर्वरूपं च ।
    • अनिच्छन्नपि = अनिच्छन् अपि – ङमुडागमसन्धिः |
    • बलादिव = बलात् इव – जश्त्वः |
  • कृदन्तः
    • प्रयुक्तः = प्र + युज् “युजिर् योगे” + क्त (कर्मणि) |
    • इच्छन् = इष् “इषु इच्छायाम्” + शतृ (कर्तरि ) |
    • नियोजितः = नि + युज् “युजिर् योगे” + क्त (कर्मणि) |
  • तद्धितान्तः
    • वार्ष्णेय = वृष्णि + ञ्यङ् (अपत्यार्थे ), तत्सम्बुद्धौ |

श्लोकः ३७

श्रीभगवानुवाच
काम एष क्रोध एष रजोगुणसमुवः ।

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥

पदच्छेदः

कामः एषः क्रोधः एषः रजोगुणसमुवः महाशनः महापाप्मा विद्धि एनम् इह वैरिणम् ॥ ३७ ॥

अन्वयः

एषः कामः एषः क्रोधः रजोगुणसमुवः महाशनः महापाप्मा च अस्ति । (अतः) इह एनं वैरिणं विद्धि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = (अस्ति)
    • कर्ता = कामः [ अ. पुं. प्र. एक. ]
    • कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
    • समुच्चयवाक्याम्
      • क्रिया = (अस्ति)
      • कर्तृविधेयविशेषणम्  = महाशनः [ अ. पुं. प्र. एक. ]
      • कर्तृविधेयविशेषणम्  = महापाप्मा [ न. पुं. प्र. एक. ]
      • समुच्चयम् = च [ अव्ययम् ]
      • कर्ता = क्रोधः [ अ. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
      • कर्तृविशेषणम्  = रजोगुणसमुवः [ अ. पुं. प्र. एक. ]
  • द्वितीयवाक्यम्
    • क्रिया = विद्धि [ विद् “विद ज्ञाने”, पर. लोट्. मपु. एक. ]
    • कर्मविधेयविशेषणम् = वैरिणम् [ अ. पुं. द्वि. एक. ]
    • कर्म = एनम् (इमम्) [ इदम् म. पुं. द्वि. एक. ]
    • स्थानवाचकपदम् = इह [ अव्ययम् ]
    • कर्ता = (त्वम्)
  • सन्धिः
  • काम एषः = कामः एषः – विसर्गः लोपः |
  • एष क्रोधः = एषः क्रोधः – विसर्गः लोपः |
  • क्रोध एषः = क्रोधः एषः – विसर्गः लोपः |
  • एष रजोगुणसमुवः = एषः रजोगुणसमुवः – विसर्गः लोपः |
  • महाशनो महापाप्मा = महाशनः महापाप्मा – विसर्गः उकारः, गुणः |
  • विद्ध्येनम् = विद्धि एनम् – यण् सन्धिः |
  • समासः
    • रजोगुणसमुवः = रजोगुणात् समुद्भवः – पञ्चमीतत्पुरुषः |
    • रजोगुणसमुवः
      • रजोगुणः = रजः च तद्गुणः च – कर्मधारयः |
      • रजोगुणसमुद्भवः = रजोगुणः समुद्भवः यस्य सः– बहुव्रीहिः |
    • महाशनः = महत् अशनं यस्य सः – बहुव्रीहिः |
    • महापाप्मा = महत् पाप्म यस्मिन् सः – बहुव्रीहिः |
  • तद्धितान्तः
    • वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति |

श्लोकः ३८

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च ।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ॥ ३८ ॥

पदच्छेदः

धूमेन आव्रियते वह्निः यथादर्शः मलेन च यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् ॥ ३८ ॥

अन्वयः

यथा धूमेन वह्निः आव्रियते, यथा मलेन आदर्शः, यथा उल्बेन च गर्भः तथा इदं (ज्ञानम्) तेन आवृतम् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • (कर्मणि) क्रिया = आव्रियते [ आङ् + वृ “वृञ् आवरणे“ उभय अत्र आत्. कर्मणि लट्. प्रपु. एक. ]
      • (कर्मणि) कर्म = वह्निः [ इ. पुं. प्र. एक. ]
      • (कर्मणि) कर्ता = धूमेन [ अ. पुं. तृ. एक. ]
      • संयोजकम् = यथा [ अव्ययम् ]
    • “यथा” वाक्यांश:
      • (कर्मणि) क्रिया = (आव्रियते)
      • (कर्मणि) कर्म = आदर्शः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) कर्ता = मलेन [ अ. नपुं. तृ. एक. ]
      • संयोजकम् = यथा [ अव्ययम् ]
    • “यथा” वाक्यांश:
      • (कर्मणि) क्रिया = (आव्रियते)
      • (कर्मणि) कर्म = गर्भः [ अ. पुं. प्र. एक. ]
      • (कर्मणि) कर्ता = उल्बेन [ अ. नपुं. तृ. एक. ]
      • समुच्चयम् = च [ अव्ययम् ]
      • संयोजकम् = यथा [ अव्ययम् ]
    • “तथा” वाक्यांश:
      • (कर्मणि) क्रियागर्भकर्म = आवृतम् [ अ. नपुं. द्वि. एक. ]
      • (कर्मणि) कर्म = (ज्ञानम्)
      • (कर्मणि) कर्मविशेषणम् = इदम् [ म. नपुं. द्वि. एक. ]
      • (कर्मणि) कर्ता = तेन [ तद् द. पुं. तृ. एक. ]
      • संयोजकम् = तथा [ अव्ययम् ]
  • सन्धिः
  • धूमेनाव्रियते = धूमेन आव्रियते – सवर्णदीर्घः |
  • वह्निर्यथा = वह्निः यथा – विसर्गः रेफः |
  • यथादर्शः = यथा आदर्शः – सवर्णदीर्घः |
  • यथादर्शो मलेन = यथादर्शः मलेन – विसर्गः उकारः, गुणः |
  • यथोल्बेन = यथा उल्बेन – गुणः |
  • उल्बेनावृतः = उल्बेन आवृतः – सवर्णदीर्घः |
  • आवृतो गर्भः = आवृतः गर्भः – विसर्गः उकारः, गुणः |
  • गर्भस्तथा = गर्भः तथा – विसर्गः सकारः |
  • तेनेदम् = तेन इदम् – गुणः |
  • कृदन्तः
    • आवृतम् = आङ् + वृ “वृञ् आवरणे“+क्त (कर्मणि) |

श्लोकः ३९

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥ ३९ ॥

पदच्छेदः

आवृतं ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेण अनलेन च ॥ ३९ ॥

अन्वयः

कौन्तेय ! ज्ञानिनः नित्यवैरिणा कामरूपेण दुष्पूरेण अनलेन च एतेन ज्ञानम् आवृतम् ।

पदपरिचय:

  • सम्बोधनम् = कौन्तेय! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • (कर्मणि) क्रियागर्भकर्म= आवृतम् [ अ. नपुं. प्र. एक. ]
    • (कर्मणि) कर्म = ज्ञानम् [ अ. नपुं. प्र. एक. ]
    • (कर्मणि) कर्ता = एतेन [ एतद् द. पुं. तृ. एक. ]
    • (कर्मणि) कर्तृविशेषणम् = कामरूपेण [ अ. पुं. तृ. एक. ]
    • वाक्यांश:
      • (कर्मणि) कर्तृविशेषणम् = नित्यवैरिणा [ न. पुं. तृ. एक. ]
      • सम्बन्धिः = ज्ञानिनः [ न. पुं. ष. एक. ]
    • वाक्यांश:
      •  (कर्मणि) कर्तृविशेषणम् = अनलेन [ अ. पुं. तृ. एक. ]
      • (कर्मणि) कर्तृविशेषणविशेषणम् = दुष्पूरेण [ अ. पुं. तृ. एक. ]
    • समुच्चयम् = च [ अव्ययम् ]
  • सन्धिः
    • ज्ञानिनो नित्यवैरिणा = ज्ञानिनः नित्यवैरिणा – विसर्गः उकारः, गुणः |
    • दुष्पूरेणानलेन = दुष्पूरेण अनलेन – सवर्णदीर्घः |
  • समासः
    • नित्यवैरिणा = नित्यं वैरी – सुप् समासः |
    • कामरूपेण = कामेन रूपाणि यस्य सः – बहुव्रीहिः | तेन |
  • तद्धितान्तः
    • ज्ञानी = ज्ञान + इनि (मतुबर्थे) ज्ञानं अस्य अस्मिन् वा अस्ति |
    • वैरी = वैर + इनि (मतुबर्थे) वैरम् अस्य अस्मिन् वा अस्ति |

श्लोकः ४०

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥

पदच्छेदः

इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानमुच्यते एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् ॥ ४० ॥

अन्वयः

इन्द्रियाणि, मनः, बुद्धिः (च) अस्य अधिष्ठानम् उच्यते । एषः (कामः) एतैः ज्ञानम् आवृत्य देहिनं विमोहयति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = उच्यते [ वच “वच परिभाषणे” पर. कर्मणि लट्. प्रपु. एक. ]
    • कर्मवाक्यम्
      • क्रिया = (अस्ति)
      • वाक्यांश:
        • कर्तृविधेयविशेषणम्  = अधिष्ठानम् [ अ. नपुं. प्र. एक. ]
        • सम्बन्धिः = अस्य [ इदम् म. पुं. ष. एक. ]
      • कर्ता = इन्द्रियाणि [ अ. नपुं. प्र. बहु. ]
      • कर्ता = मनः [ स. नपुं. प्र. एक. ]
      • कर्ता = बुद्धिः [ इ. स्त्री. प्र. एक. ]
      • संयोजकम् = (च)
    • द्वितीयवाक्यम्
      • क्रिया = विमोहयति [ वि + मुह् “मुह वैचित्त्ये” + णिच् पर. लट्. प्रपु. एक. ]
      • णिजन्तप्रयोज्यकर्तृसूचककर्म = देहिनम् [ न. पुं. द्वि. एक. ]
      • वाक्यांश:
        • प्राक्कालिकक्रिया = आवृत्य [ अव्ययम् ]
        • कर्म = ज्ञानम् [ अ. नपुं. द्वि. एक. ]
        • करणम् = एतैः [ एतद् द. पुं. तृ. बहु. ]
      • णिजन्तप्रयोजककर्ता = (कामः)
      • कर्तृविशेषणम् = एषः [ एतद् द. पुं. प्र. एक. ]
  • सन्धिः
    • मनो बुद्धिः = मनः बुद्धिः – विसर्गः उकारः, गुणः |
    • बुद्धिरस्य = बुद्धिः अस्य – विसर्गः रेफः |
    • एतैर्विमोहयति  = एतैः विमोहयति – विसर्गः रेफः |
    • विमोहयत्येषः = विमोहयति एषः – यण् सन्धिः |
    • एष ज्ञानम् = एषः ज्ञानम्  – विसर्गः लोपः |
  • कृदन्तः
    • अधिष्ठानम् = अधि + स्था “ष्ठा गतिनिवृत्तौ” + ल्युट् (अधिकरणे )
    • आवृत्य = आङ् + वृत् “वृतु वर्तने” + ल्यप् |

श्लोकः ४१

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

पदच्छेदः

तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ पाप्मानं प्रजहि हि एनं ज्ञानविज्ञाननाशनम् ॥ ४१ ॥

अन्वयः

भरतर्षभ ! तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य ज्ञानविज्ञाननाशनं पाप्मानम् एनं प्रजहि हि ।

पदपरिचय:

  • सम्बोधनम् = भरतर्षभ! [ अ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • क्रिया = प्रजहि [ प्र + हन् “हन हिंसागत्योः” पर. लोट्. मपु. एक. ]
    • अवधारणम् = हि [ अव्ययम् ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = नियम्य [ अव्ययम् ]
      • कर्म = इन्द्रियाणि [ अ. नपुं. द्वि. बहु. ]
      • कालवाचकम् = आदौ [ इ. पुं. स. एक. ]
    • कर्म = एनम् (इमम्) [ इदम् म. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = ज्ञानविज्ञाननाशनम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = पाप्मानम् [ पाप्मन् न. पुं. द्वि. एक. ]
    • हेतुवाचकम् = तस्मात् [ तद् द. नपुं. प. एक. ]
    • कर्ता = त्वम् [ युष्मद् द. त्रि. प्र. एक. ]
  • सन्धिः
    • इन्द्रियाण्यादौ = इन्द्रियाणि आदौ – यण् सन्धिः |
    • ह्येनम् = हि एनम् – यण् सन्धिः |
  • समासः
    • भरतर्षभः = भरतः ऋषभः इव – उपमितसमासः (कर्मधारयः) |
    • ज्ञानविज्ञाननाशनम्
      • ज्ञानविज्ञाने = ज्ञानं च विज्ञानं च – द्वन्द्वः |
      • ज्ञानविज्ञानयोः नाशनम् – षष्ठीतत्पुरुषः | तत् |
    • ज्ञानविज्ञाननाशनम्
      • ज्ञानविज्ञाने = ज्ञानं च विज्ञानं च – द्वन्द्वः |
      • नाशकरः  = नाशं करोति इति– उपपदतत्पुरुषः ।
      • ज्ञानविज्ञाननाशनः  = ज्ञानविज्ञानयोः नाशकरः – षष्ठीतत्पुरुषः | तत् |
  • कृदन्तः
    • नियम्य = नि + यम् “यम उपरमे” + ल्यप् |

श्लोकः ४२

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥

पदच्छेदः

इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परं मनः मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः ॥ ४२ ॥

अन्वयः

इन्द्रियाणि पराणि आहुः । इन्द्रियेभ्यः परं मनः, मनसः परा बुद्धिः, यः बुद्धेः परतः सः (आत्मा) अस्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया = आहुः (ब्रुवान्ति) [ ब्रू “ब्रूञ् व्यक्तायां वाचि” पर. लट्. प्रपु. बहु. ]
    • कर्मविधेयविशेषणम् = पराणि [ अ. नपुं. द्वि. बहु. ]
    • कर्म = इन्द्रियाणि [ अ. नपुं. द्वि. बहु. ]
    • संयोजकम् = (इति)
  • द्वितीयवाक्यम्
    • क्रिया = (भवति)
    • कर्तृविधेयविशेषणम्  = मनः [ स. नपुं. प्र. एक. ]
    • वाक्यांश:
      • कर्ता = परम् [ अ. पुं. प्र. एक. ]
      • निर्धारणम् = इन्द्रियेभ्यः [ अ. नपुं. प. बहु. ]
  • तृतीयवाक्यम्
    • क्रिया = (भवति)
    • कर्तृविधेयविशेषणम्  = बुद्धिः [ इ. स्त्री. प्र. एक. ]
    • वाक्यांश:
      • कर्ता = परा [ आ. स्त्री. प्र. एक. ]
      • निर्धारणम् = मनसः [ स. नपुं. प. एक. ]
  • चतुर्थवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया = (अस्ति)
      • वाक्यांश:
        • कर्तृविधेयविशेषणम्  = परतः [ अव्ययम् ]
        • निर्धारणम् = बुद्धेः [ इ. स्त्री. प. एक. ]
        • अवधारणम् = तु [ अव्ययम् ]
      • कर्ता = यः [ यद् द. पुं. प्र. एक. ]
    • “सः” वाक्यांश:
      • क्रिया = अस्ति [ अस् “अस भुवि” पर. लट्. प्रपु. एक. ]
      • कर्ता = सः [ तद् द. पुं. प्र. एक. ]
      • कर्तृविशेषणम् = (आत्मा)
  • सन्धिः
    • पराण्याहुः = पराणि आहुः – यण् सन्धिः |
    • आहुरिन्द्रियेभ्यः = आहुः इन्द्रियेभ्यः – विसर्गः रेफः |
    • मनसस्तु = मनसः तु – विसर्गः सकारः |
    • बुद्धिर्यः = बुद्धिः यः – विसर्गः रेफः |
    • यो बुद्धेः = यः बुद्धेः – विसर्गः उकारः, गुणः |
    • परतस्तु = परतः तु – विसर्गः सकारः |
  • तद्धितान्तः
    • परतः = पर + तसिः (प्रथमाविभक्त्यन्तात् स्वार्थे तसिः )

श्लोकः ४३

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

पदच्छेदः

एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ४३ ॥

अन्वयः

महाबाहो ! एवं बुद्धेः परं बुद्ध्वा आत्मना आत्मानं संस्तभ्य कामरूपं दुरासदं शत्रुं जहि ।

पदपरिचय:

  • सम्बोधनम् = महाबाहो! [ उ. पुं. संप्र. एक. ]
  • प्रथमवाक्यम्
    • क्रिया = जहि [ हन् “हन हिंसागत्योः” पर. लोट्. मपु. एक. ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = बुद्ध्वा [ अव्ययम् ]
      • क्रियाविशेषणम् = एवम् [ अव्ययम् ]
      • वाक्यांश:
        • कर्म = परम् [ अ. नपुं. द्वि. एक. ]
        • निर्धारणम् = बुद्धेः [ इ. स्त्री. प. एक. ]
    • वाक्यांश:
      • प्राक्कालिकक्रिया = संस्तभ्य [ अव्ययम् ]
      • कर्म = आत्मानम् [ न. पुं. द्वि. एक. ]
      • करणम् = आत्मना [ न. पुं. तृ. एक. ]
    • कर्म = शत्रुम् [ उ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = दुरासदम् [ अ. पुं. द्वि. एक. ]
    • कर्मविशेषणम् = कामरूपम् [ अ. पुं. द्वि. एक. ]
    • कर्ता = (त्वम्)
  • सन्धिः
    • संस्तभ्यात्मानम् = संस्तभ्य आत्मानम् – सवर्णदीर्घः |
  • समासः
    • कामरूपम् = कामः रूपं यस्य सः कामरूपः – बहुव्रीहिः | तम् ।
    • दुरासदम्  = दुःखेन आसदः (आसादनं प्राप्तिः) यस्य सः दुरासदः  – बहुव्रीहिः | तम् |
  • कृदन्तः
    • संस्तभ्य = सम् + स्तम्भ् “स्तम्भु प्रतिघाते” + ल्यप् |
    • बुद्ध्वा = बुध् “बुध अवगमने” + क्त्वा |

References –

  1. Gita Praveshah – dviteeyabhaaga Part- 1 by Samskrita Bharati [ Sanskrit ]
  2. Gita Sopanam (I and II) and Praveshah (I) by Samskrita Bharati [ Sanskrit ]
  3. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [ Sanskrit ]
  4. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [ Sanskrit ]
  5. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [ Sanskrit ]
  6. http://gita-grammar.blogspot.in/ Sow. Medha Michika’s blog with Grammatical aspects
  7. https://sa.wikipedia.org/s/6j8  कर्मयोगः
  8. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site
  9. Samskrita Bharati USA- Bhagavat Gita class-Dr.K.N.Padmakumar -Chapter 3-Sloka 1 https://youtu.be/SSdwGffICxU
  10. https://dhaatusingeetaa.wordpress.com/
  11. sanskritdocuments.org

Sandhi Exercise – Multiple Sandhis in a single shloka (Yasminnidam)

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं
योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयंभुवम् ।

Try to identify the sandhis in this shloka. Then cross-check your answers with the ones given below.

यस्मिन् इदं यतः च इदं येन इदं यः इदं स्वयं
यः अस्मात् परस्मात् च परः तं प्रपद्ये स्वयंभुवम् ।

  1. यस्मिन्निदं = यस्मिन् इदं – ङमुडागमसन्धिः |
  2. यतश्च = यतः च – विसर्गस्य सकारादेशः | श्चुत्वसन्धिः |
    परस्तं = परः तं –  विसर्गस्य सकारादेशः |
  3. यस्मिन्निदं यतश्चेदम् = यस्मिन्निदम् यतश्चेदम् – अनुस्वारसन्धिः |
    यतश्चेदं, येनेदं, इदं, स्वयं, परस्तं – अनुस्वारसन्धयः |
  4. चेदं = च इदं – गुणसन्धिः |
  5. य इदं = यः इदं – विसर्गस्य लोपः |
  6. यो अस्मात् = यः अस्मात् – विसर्ग सन्धिः, उकारादेशः |
  7. योऽस्मात् = यो अस्मात् – पूर्वरूपसन्धिः |
  8. परस्माच्च = परस्मात् च – श्चुत्वसन्धिः |

Bhagavad Gita – Chapter 6

श्रीमद्भगवद्गीता – षष्ठोध्यायः – आत्मसंयमयोगः

(Some updates are pending)

श्रीभगवानुवाच

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥

पदच्छेदः

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः सः सन्न्यासी च योगी च न निरग्निः न च अक्रियः ॥

अन्वयः

यः कर्मफलम् अनाश्रितः कार्यं कर्म करोति सः सन्न्यासी च योगी च (भवति) । निरग्निः न, अक्रियः च न भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = करोति
      • कर्मपदम् = कर्म
      • कर्मविशेषणम् = कार्यम्
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= अनाश्रितः
        • कर्मपदम् = कर्मफलम्
      • “सः” वाक्यांश:
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = सन्न्यासी
        • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • सम्योजकपदम् = च
        • कर्तृपदम् = सः
      • द्वितीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • कर्तृपदम् = निरग्निः
      • तृतीयवाक्यम्
        • क्रियापदम् = (भवति)
        • क्रियाविशेषणम् = न
        • सम्योजकपदम् = च
        • कर्तृपदम् = अक्रियः

यं सन्न्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।

न ह्यसंन्यस्तसल्पो योगी भवति कश्चन ॥ २ ॥

पदच्छेदः

यं सन्न्यासम् इति प्राहुः योगं तं विद्धि पाण्डव न हि असंन्यस्तसल्पः योगी भवति कश्चन ॥

अन्वयः

पाण्डव ! यं सन्न्यासम् इति प्राहुः तं योगं विद्धि । असंन्यस्तसल्पः हि कश्चन योगी न भवति ।

पदपरिचय:

  • सम्बोधनपदम् = पाण्डव!
  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = प्राहुः
      • कर्म-वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = सन्न्यासम्
        • कर्मविशेषण-सूचक-पदम् = यम्
        • सम्योजकपदम् = इति
      • “तम्” वाक्यांश:
        • क्रियापदम् = विद्धि
        • कर्मविशेषण-सूचक-पदम् = योगम्
        • कर्मपदम् = तम्
        • कर्तृपदम् = (त्वम्)
      • द्वितीयवाक्यम्
        • क्रियापदम् = भवति
        • क्रियाविशेषणम् = न
        • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • कर्तृपदम् = कश्चन
        • कर्तृविशेषणम् = असंन्यस्तसल्पः
        • कर्तृ-विशेषण-सूचक-पदम् = हि

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।

योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३ ॥

पदच्छेदः

आरुरुक्षोः मुनेः योगं कर्म कारणम् उच्यते योगारूढस्य तस्य एव शमः कारणम् उच्यते ॥

अन्वयः

योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते । योगारूढस्य तस्य एव (कर्मसन्न्यासे) शमः कारणम् उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = कारणम्
    • वाक्यांश:
      • (कर्मणि) कर्तृपदम् = कर्म
      • सम्बन्ध-पदम् = मुनेः
      • वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-विशेषण-पदम् = आरुरुक्षोः
        • कर्मपदम् = योगम्
      • द्वितीयवाक्यम्
        • (कर्मणि) क्रियापदम् = उच्यते
        • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = कारणम्
        • वाक्यांश:
          • (कर्मणि) कर्तृपदम् = शमः
          • सम्बन्ध-पदम् = योगारूढस्य
          • सम्बन्ध-विशेषण-पदम् = तस्य
          • सम्बन्ध-विशेषण-सूचक-पदम् = एव

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसल्पसन्न्यासी योगारूढस्तदोच्यते ॥ ४ ॥

पदच्छेदः

यदा हि न इन्द्रियार्थेषु न कर्मसु अनुषज्जते सर्वसल्पसन्न्यासी योगारूढः तदा उच्यते ॥

अन्वयः

यदा हि इन्द्रियार्थेषु न अनुषज्जते, कर्मसु (अपि) न, तदा सर्वसल्पसन्न्यासी योगारूढः उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = अनुषज्जते
      • क्रियाविशेषणम् = न
      • अधिकरणपदम् = इन्द्रियार्थेषु
      • कालवाचकपदम् = यदा
      • सम्योजकपदम् = हि
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
    • “यदा” वाक्यांश:
      • क्रियापदम् = अनुषज्जते
      • क्रियाविशेषणम् = न
      • अधिकरणपदम् = कर्मसु
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • क्रियापदम् = उच्यते
      • कर्तृ-विशेषण-सूचक-पदम् = योगारूढः
      • कर्तृपदम् = सर्वसल्पसन्न्यासी
      • कालवाचकपदम् = तदा

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५ ॥

पदच्छेदः

उद्धरेत् आत्मना आत्मानं न आत्मानम् अवसादयेत् आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः ॥

अन्वयः

आत्मानम् आत्मना उद्धरेत् । आत्मानं न अवसादयेत् । आत्मा एव हि आत्मनः बन्धुः । आत्मा एव आत्मनः रिपुः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उद्धरेत्
    • करणवाचकपदम् = आत्मना
    • कर्मपदम् = आत्मानम्
  • द्वितीयवाक्यम्
    • क्रियापदम् = अवसादयेत्
    • क्रियाविशेषणम् = न
    • णिजन्त: – प्रयोज्यकर्ता = आत्मानम्
    • णिजन्त: – प्रयोजककर्ता = आत्मना
  • तृतीयवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = बन्धुः
      • सम्बन्ध-पदम् = आत्मनः
    • कर्तृपदम् = आत्मा
    • कर्तृ-विशेषण-सूचक-पदम् = एव
  • चतुर्थवाक्यम्
    • क्रियापदम् = (भवति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = रिपुः
      • सम्बन्ध-पदम् = आत्मनः
    • कर्तृपदम् = आत्मा
    • कर्तृ-विशेषण-सूचक-पदम् = एव

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥

पदच्छेदः

बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् ॥

अन्वयः

येन आत्मना आत्मा एव जितः तस्य आत्मनः आत्मा बन्धुः । अनात्मनः तु आत्मा एव शत्रुवत् शत्रुत्वे वर्तेत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येन” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= जितः
      • कर्मपदम् = आत्मा
      • कर्मविशेषण-वाक्यांश: एव
      • करणवाचकपदम् = आत्मना
      • कर्तृपदम् = येन
    • “तस्य” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= बन्धुः
      • कर्मपदम् = आत्मा
      • सम्बन्ध-पदम् = तस्य
      • सम्बन्ध-विशेषण-पदम् = आत्मनः
    • द्वितीयवाक्यम्
      • क्रियापदम् = वर्तेत
      • अधिकरणपदम् = शत्रुत्वे
      • वाक्यांश:
        • कर्तृपदम् = आत्मा
        • सम्बन्ध-पदम् = अनात्मनः
      • कर्तृ-विशेषण-सूचक-पदम् = तु
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • कर्तृविशेषणम् = शत्रुवत्

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥

पदच्छेदः

जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥

अन्वयः

शीतोष्णसुखदुःखेषु तथा मानापमानयोः प्रशान्तस्य जितात्मनः परमात्मा समाहितः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= समाहितः
    • कर्तृपदम् = परमात्मा
    • सम्बन्ध-पदम् = जितात्मनः
    • सम्बन्ध-विशेषण-पदम् = प्रशान्तस्य
    • अधिकरणपदम् = शीतोष्णसुखदुःखेषु
    • अधिकरणपदम् = मानापमानयोः
    • अधिकरण-विशेषणम् = तथा

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः ।

युक्तइत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥ ८ ॥

पदच्छेदः

ज्ञानविज्ञानतृप्तात्मा कूटस्थः विजितेन्द्रियः युक्तः इति उच्यते योगी समलोष्टाश्मकाञ्चनः ॥

अन्वयः

ज्ञानविज्ञानतृप्तात्मा कूटस्थः समलोष्टाश्मकाञ्चनः विजितेन्द्रियः युक्तः योगी इति उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = उच्यते
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = योगी
    • (कर्मणि) कर्मपदम् = युक्तः
    • (कर्मणि) कर्मविशेषणम् = ज्ञानविज्ञानतृप्तात्मा
    • (कर्मणि) कर्मविशेषणम् = कूटस्थः
    • (कर्मणि) कर्मविशेषणम् = समलोष्टाश्मकाञ्चनः
    • (कर्मणि) कर्मविशेषणम् = विजितेन्द्रियः
    • सम्योजकपदम् = इति

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥

पदच्छेदः

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु अपि च पापेषु समबुद्धिः विशिष्यते ॥

अन्वयः

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु साधुषु पापेषु अपि च समबुद्धिः विशिष्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विशिष्यते
    • कर्तृपदम् = समबुद्धिः
    • अधिकरणपदम् = सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु
    • अधिकरणपदम् = साधुषु
    • अधिकरणपदम् = पापेषु
    • अधिकरण-विशेषणम् = अपि
    • सम्योजकपदम् = च

योगी युञ्जीत सततमात्मानं रहसि स्थितः ।

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥ १० ॥

पदच्छेदः

योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकी यतचित्तात्मा निराशीः अपरिग्रहः ॥

अन्वयः

यतचित्तात्मा निराशीः अपरिग्रहः एकाकी योगी रहसि स्थितः सततम् आत्मानं युञ्जीत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युञ्जीत
    • कर्मपदम् = आत्मानम्
    • कालवाचकपदम् = सततम्
    • कर्तृपदम् = योगी
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितः
      • अधिकरणपदम् = रहसि
    • कर्तृविशेषणम् = यतचित्तात्मा
    • कर्तृविशेषणम् = निराशीः
    • कर्तृविशेषणम् = अपरिग्रहः
    • कर्तृविशेषणम् = एकाकी

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ।

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ ११ ॥

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ॥ १२ ॥

पदच्छेदः

शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ॥ तत्र एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्य आसने युञ्ज्यात् योगम् आत्मविशुद्धये ॥

अन्वयः

यतचित्तेन्द्रियक्रियः शुचौ देशे स्थिरं नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् आत्मनः आसनं प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रं कृत्वा आत्मविशुद्धये योगं युञ्ज्यात् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = युञ्ज्यात्
    • कर्मपदम् = योगम्
    • अधिकरणपदम् = आत्मविशुद्धये
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्रतिष्ठाप्य
      • वाक्यांश:
        • कर्मपदम् = आसनम्
        • सम्बन्ध-पदम् = आत्मनः
      • कर्मविशेषणम् = स्थिरम्
      • कर्मविशेषणम् = नात्युच्छ्रितम्
      • कर्मविशेषणम् = नातिनीचम्
      • कर्मविशेषणम् = चैलाजिनकुशोत्तरम्
      • अधिकरणपदम् = देशे
      • अधिकरण-विशेषणम् = शुचौ
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = उपविश्य
      • अधिकरणपदम् = तत्र
      • अधिकरण-विशेषणम् = आसने
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • क्रिया-गर्भ-कर्मपदम्= एकाग्रम्
      • सम्बन्ध-पदम् = मनः
    • कर्तृपदम् = यतचित्तेन्द्रियक्रियः

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥ १३ ॥

प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः ।

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥ १४ ॥

पदच्छेदः

समं कायशिरोग्रीवं धारयन् अचलं स्थिरः सम्प्रेक्ष्य नासिकाग्रं स्वं दिशः च अनवलोकयन् ॥ प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः मनः संयम्य मच्चित्तः युक्तः आसीत मत्परः ॥

अन्वयः

कायशिरोग्रीवं समम् अचलं धारयन् स्थिरः भूत्वा स्वं नासिकाग्रं सम्प्रेक्ष्य दिशः च अनवलोकयन् प्रशान्तात्मा विगतभीः ब्रह्मचारिव्रते स्थितः सन् मनः संयम्य मच्चित्तः मत्परः युक्तः आसीत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आसीत
    • कर्तृपदम् = युक्तः
    • कर्तृविशेषणम् = मच्चित्तः
    • कर्तृविशेषणम् = मत्परः
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= धारयन्
      • क्रियाविशेषणम् = अचलम्
      • क्रियाविशेषणम् = समम्
      • कर्मपदम् = कायशिरोग्रीवम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = भूत्वा
      • कर्तृ-विशेषण-सूचक-पदम् = स्थिरः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = सम्प्रेक्ष्य
      • कर्मपदम् = नासिकाग्रम्
      • कर्मविशेषणम् = स्वम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= अनवलोकयन्
      • कर्मपदम् = दिशः
      • सम्योजकपदम् = च
    • कर्तृविशेषणम् = प्रशान्तात्मा
    • कर्तृविशेषणम् = अनवलोकयन्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितः
      • अधिकरणपदम् = ब्रह्मचारिव्रते
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = संयम्य
      • कर्मपदम् = मनः

युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ॥ १५ ॥

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी नियतमानसः शान्तिं निर्वाणपरमां मत्संस्थाम् अधिगच्छति ॥

अन्वयः

नियतमानसः योगी एवं सदा आत्मानं युञ्जन् निर्वाणपरमां मत्संस्थां शान्तिम् अधिगच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = शान्तिम्
    • कर्मविशेषणम् = निर्वाणपरमाम्
    • कर्मविशेषणम् = मत्संस्थाम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= युञ्जन्
      • क्रियाविशेषणम् = एवम्
      • कर्मपदम् = आत्मानम्
      • कालवाचकपदम् = सदा
    • कर्तृपदम् = योगी
    • कर्तृविशेषणम् = नियतमानसः

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६ ॥

पदच्छेदः

नात्यश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः न च अतिस्वप्नशीलस्य जाग्रतः न एव च अर्जुन ॥

अन्वयः

अर्जुन  ! अत्यश्नतः तु योगः न अस्ति । एकान्तम् अनश्नतः च न । अतिस्वप्नशीलस्य च न । जाग्रतः च न एव ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन
  • प्रथमवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = योगः
    • सम्बन्ध-पदम् = अत्यश्नतः
    • सम्बन्ध-विशेषण-पदम् = तु
  • द्वितीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = च
    • कर्तृपदम् = योगः
    • क्रिया-गर्भ-सम्बन्ध-पदम् = अनश्नतः
    • क्रियाविशेषणम् = एकान्तम्
  • तृतीयवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • सम्बन्ध-पदम् = अतिस्वप्नशीलस्य
    • सम्योजकपदम् = च
    • कर्तृपदम् = योगः
  • चतुर्थवाक्यम्
    • क्रियापदम् = अस्ति
    • क्रियाविशेषणम् = न
    • सम्बन्ध-पदम् = जाग्रतः
    • सम्बन्ध-विशेषण-पदम् = एव
    • सम्योजकपदम् = च

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ १७ ॥

पदच्छेदः

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगः भवति दुःखहा ॥

अन्वयः

युक्ताहारविहारस्य कर्मसु युक्तचेष्टस्य युक्तस्वप्नावबोधस्य योगः दुःखहा भवति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • कर्तृ-विशेषण-सूचक-पदम् = दुःखहा
    • कर्तृपदम् = योगः
    • सम्बन्ध-पदम् = युक्ताहारविहारस्य
    • सम्बन्ध-पदम् = युक्तस्वप्नावबोधस्य
    • वाक्यांश:
      • क्रिया-गर्भ-सम्बन्ध-पदम् = युक्तचेष्टस्य
      • अधिकरणपदम् = कर्मसु

यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥ १८ ॥

पदच्छेदः

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते निःस्पृहः सर्वकामेभ्यः युक्तः इति उच्यते तदा ॥

अन्वयः

यदा विनियतं चित्तम् आत्मनि एव अवतिष्ठते सर्वकामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यदा” वाक्यांश:
      • क्रियापदम् = अवतिष्ठते
      • अधिकरणपदम् = आत्मनि
      • अधिकरण-विशेषणम् = एव
      • कर्मपदम् = चित्तम्
      • कर्मविशेषणम् = विनियतम्
      • कालवाचकपदम् = यदा
    • “तदा” वाक्यांश:
      • (कर्मणि) क्रियापदम् = उच्यते
      • (कर्मणि) कर्मविशेषण-सूचक-पदम् = युक्तः
      • वाक्यांश:
        • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= निःस्पृहः
        • अपादानपदम् = सर्वकामेभ्यः
      • सम्योजकपदम् = इति

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९ ॥

पदच्छेदः

यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता योगिनः यतचित्तस्य युञ्जतः योगम् आत्मनः ॥

अन्वयः

यथा निवातस्थः दीपः न इङ्गते सा उपमा आत्मनः योगं युञ्जतः यतचित्तस्य योगिनः स्मृता ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यथा” वाक्यांश:
      • क्रियापदम् = इङ्गते
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = यथा
      • कर्तृपदम् = दीपः
      • कर्तृविशेषणम् = निवातस्थः
    • “सा” वाक्यांश:
      • क्रियापदम् = (अस्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = स्मृता
      • अधिकरणपदम् = (विषये)
      • सम्बन्ध-पदम् = योगिनः
      • सम्बन्ध-विशेषण-पदम् = यतचित्तस्य
      • सम्बन्ध-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-सम्बन्ध-पदम् = युञ्जतः
        • वाक्यांश:
          • कर्मपदम् = योगम्
          • सम्बन्ध-पदम् = आत्मनः
        • कर्तृपदम् = उपमा
        • कर्तृविशेषणम् = सा

यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥ २० ॥

पदच्छेदः

यत्र उपरमते चित्तं निरुद्धं योगसेवया यत्र च एव आत्मना आत्मानं पश्यन् न आत्मनि तुष्यति ॥

अन्वयः

यत्र योगसेवया निरुद्धं चित्तम् उपरमते, यत्र च एव आत्मना आत्मानं पश्यन् आत्मनि तुष्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • वाक्यांश: यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = उपरमते
      • कर्मपदम् = चित्तम्
      • कर्मविशेषणम् = निरुद्धम्
      • करणवाचकपदम् = योगसेवया
      • स्थानवाचकपदम् = यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = तुष्यति
      • अधिकरणपदम् = आत्मनि
      • कर्तृपदम् = (सः)
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= पश्यन्
        • कर्मपदम् = आत्मानम्
        • करणवाचकपदम् = आत्मना
      • अधिकरणपदम् = यत्र
      • अधिकरण-विशेषणम् = एव
      • सम्योजकपदम् = च

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥ २१ ॥

पदच्छेदः

सुखम् आत्यन्तिकं यत् तत् बुद्धिग्राह्यम् अतीन्द्रियम् वेत्ति यत्र न च एव अयं स्थितः चलति तत्त्वतः ॥

अन्वयः

यत्र यत् तत् बुद्धिग्राह्यम् अतीन्द्रियम् आत्यन्तिकं सुखं वेत्ति, यत्र च स्थितः अयं तत्त्वतः न एव चलति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्र” वाक्यांश:
      • क्रियापदम् = वेत्ति
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = यत्
      • कर्मविशेषणम् = बुद्धिग्राह्यम्
      • कर्मविशेषणम् = अतीन्द्रियम्
      • कर्मविशेषणम् = आत्यन्तिकम्
      • कर्मविशेषणम् = तत्
      • कर्तृपदम् = (त्वम्)
      • स्थानवाचकपदम् = यत्र
    • “यत्र” वाक्यांश:
      • क्रियापदम् = चलति
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = एव
      • क्रियाविशेषणम् = तत्त्वतः
      • कर्तृपदम् = अयम्
      • कर्तृविशेषणम् = स्थितः
      • स्थानवाचकपदम् = यत्र
      • सम्योजकपदम् = च

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥ २२ ॥

पदच्छेदः

यं लब्ध्वा च अपरं लाभं मन्यते न अधिकं ततः यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते ॥

अन्वयः

यं च लब्ध्वा ततः अधिकम् अपरं लाभं न मन्यते, यस्मिन् स्थितः गुरुणा दुःखेन अपि न विचाल्यते (तं योगसंज्ञितं विद्यात् ।)

पदपरिचय:

  • प्रथमवाक्यम्
    • “यम्” वाक्यांश:
      • क्रियापदम् = मन्यते
      • क्रियाविशेषणम् = न
      • कर्मपदम् = लाभम्
      • कर्मविशेषणम् = अपरम्
      • वाक्यांश:
        • कर्मविशेषणम् = अधिकम्
        • अपादानपदम् = ततः
      • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = लब्ध्वा
      • कर्मपदम् = यम्
      • सम्योजकपदम् = च
    • “यस्मिन्” वाक्यांश:
      • क्रियापदम् = विचाल्यते
      • क्रियाविशेषणम् = न
      • करणवाचकपदम् = दुःखेन
      • करणविशेषणम् = अपि
      • करणविशेषणम् = गुरुणा
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= स्थितः
        • अधिकरणपदम् = यस्मिन्
      • (तम्) वाक्यांश:
        • क्रियापदम् = (विद्यात्)
        • कर्मपदम् = (योगसंज्ञितम्)
        • कर्मविशेषणम् = (तम्)

तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् ।

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ॥ २३ ॥

पदच्छेदः

तं विद्यात् दुःखसंयोगवियोगं योगसंज्ञितम् सः निश्चयेन योक्तव्यः योगः अनिर्विण्णचेतसा ॥

अन्वयः

तं दुःखसंयोगवियोगं योगसंज्ञितं विद्यात् । सः योगः अनिर्विण्णचेतसा निश्चयेन योक्तव्यः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यात्
    • कर्मपदम् = योगसंज्ञितम्
    • कर्मविशेषणम् = दुःखसंयोगवियोगम्
    • कर्मविशेषणम् = तम्
  • द्वितीयवाक्यम्
    • क्रिया-गर्भ-कर्मपदम्= योक्तव्यः
    • कर्मपदम् = योगः
    • कर्मविशेषणम् = सः
    • करणवाचकपदम् = निश्चयेन
    • कर्तृपदम् = अनिर्विण्णचेतसा

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया ।

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ २५ ॥

पदच्छेदः

सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः मनसा एव इन्द्रियग्रामं विनियम्य समन्ततः ॥ शनैः शनैः उपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्थं मनः कृत्वा न किञ्चित् अपि चिन्तयेत् ॥

अन्वयः

सङ्कल्पप्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा, मनसा एव समन्ततः इन्द्रियग्रामं विनियम्य,धृतिगृहीतया बुद्ध्या शनैः शनैः उपरमेत् । मनः आत्मसंस्थं कृत्वा किञ्चित् अपि न चिन्तयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपरमेत्
    • क्रियाविशेषणम् = शनैः
    • करणवाचकपदम् = बुद्ध्या
    • करणविशेषणम् = धृतिगृहीतया
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्त्वा
      • क्रियाविशेषणम् = अशेषतः
      • कर्मपदम् = कामान्
      • कर्मविशेषणम् = सर्वान्
      • कर्मविशेषणम् = सङ्कल्पप्रभवान्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = विनियम्य
      • क्रियाविशेषणम् = समन्ततः
      • ल्यबन्त-वाक्यांश: इन्द्रियग्रामम्
      • करणवाचकपदम् = मनसा
      • करणविशेषणम् = एव
    • द्वितीयवाक्यम्
      • क्रियापदम् = चिन्तयेत्
      • क्रियाविशेषणम् = न
      • कर्मपदम् = किञ्चित्
      • कर्मविशेषण-सूचक-पदम् = अपि
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = कृत्वा
        • कर्मविशेषण-सूचक-पदम् = आत्मसंस्थम्
        • कर्मपदम् = मनः

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

पदच्छेदः

यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् ॥

अन्वयः

चञ्चलम् अस्थिरं मनः यतः यतः निश्चरति ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यतः” वाक्यांश:
      • क्रियापदम् = निश्चरति
      • अपादानपदम् = यतः
      • कर्तृपदम् = मनः
      • कर्तृविशेषणम् = अस्थिरम्
    • “ततः” वाक्यांश:
      • क्रियापदम् = नयेत्
      • कर्मपदम् = वशम्
      • अधिकरणपदम् = आत्मनि
      • अधिकरण-विशेषणम् = एव
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = नियम्य
        • कर्मपदम् = एतत्
        • अपादानपदम् = ततः

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

पदच्छेदः

प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम् उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् ॥

अन्वयः

प्रशान्तमनसं हि शान्तरजसम् अकल्मषं ब्रह्मभूतम् एनं योगिनम् उत्तमं सुखम् उपैति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = उपैति
    • कर्मपदम् = योगिनम्
    • कर्मविशेषणम् = एनम्
    • कर्मविशेषणम् = प्रशान्तमनसम्
    • कर्मविशेषण-सूचक-पदम् = हि
    • कर्मविशेषणम् = शान्तरजसम्
    • कर्मविशेषणम् = अकल्मषम्
    • कर्मविशेषणम् = ब्रह्मभूतम्
    • कर्तृपदम् = सुखम्
    • कर्तृविशेषणम् = उत्तमम्

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥

पदच्छेदः

युञ्जन् एवं सदा आत्मानं योगी विगतकल्मषः सुखेन ब्रह्मसंस्पर्शम् अत्यन्तं सुखम् अश्नुते ॥

अन्वयः

विगतकल्मषः योगी एवम् आत्मानं सदा युञ्जन् सुखेन अत्यन्तं सुखं ब्रह्मसंस्पर्शम् अश्नुते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अश्नुते
    • कर्मपदम् = ब्रह्मसंस्पर्शम्
    • कर्मविशेषण-वाक्यांश:
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = अत्यन्तम्
    • करणवाचकपदम् = सुखेन
    • कर्तृपदम् = योगी
    • कर्तृविशेषणम् = विगतकल्मषः
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = युञ्जन्
      • क्रियाविशेषणम् = एवम्
      • कालवाचकपदम् = सदा
      • कर्मपदम् = आत्मानम्

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥

पदच्छेदः

सर्वभूतस्थम् आत्मानं सर्वभूतानि च आत्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥

अन्वयः

योगयुक्तात्मा सर्वत्र समदर्शनः आत्मानम् सर्वभूतस्थम् आत्मनि च सर्वभूतानि ईक्षते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = ईक्षते
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सर्वभूतस्थम्
      • कर्मपदम् = आत्मानम्
    • वाक्यांश:
      • कर्मपदम् = सर्वभूतानि
      • अधिकरणपदम् = आत्मनि
      • सम्योजकपदम् = च
    • कर्तृपदम् = योगयुक्तात्मा
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= समदर्शनः
      • अधिकरणपदम् = सर्वत्र

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ३० ॥

पदच्छेदः

यः मां पश्यति सर्वत्र सर्वं च मयि पश्यति तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ॥

अन्वयः

यः मां सर्वत्र पश्यति सर्वं च मयि पश्यति, तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = माम्
      • स्थानवाचकपदम् = सर्वत्र
      • कर्तृपदम् = यः
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = सर्वम्
      • अधिकरणपदम् = मयि
      • सम्योजकपदम् = च
      • कर्तृपदम् = यः
    • “तस्य” वाक्यांश:
      • वाक्यांश:
        • क्रियापदम् = प्रणश्यामि
        • क्रियाविशेषणम् = न
        • सम्बन्ध-पदम् = तस्य
      • कर्तृपदम् = अहम्
    • द्वितीयवाक्यम्
      • वाक्यांश:
        • क्रियापदम् = प्रणश्यति
        • क्रियाविशेषणम् = न
        • सम्बन्ध-पदम् = मे
      • कर्तृपदम् = सः

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ३१ ॥

पदच्छेदः

सर्वभूतस्थितं यः मां भजति एकत्वम् आस्थितः सर्वथा वर्तमानः अपि सः योगी मयि वर्तते ॥

अन्वयः

एकत्वम् आस्थितः यः सर्वभूतस्थितं मां भजति, सः योगी सर्वथा वर्तमानः अपि मयि वर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = भजति
      • कर्मपदम् = माम्
      • कर्मविशेषणम् = सर्वभूतस्थितम्
      • कर्तृपदम् = यः
      • कर्तृ-विशेषण-वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= आस्थितः
        • कर्मपदम् = एकत्वम्
      • “सः” वाक्यांश:
        • क्रियापदम् = वर्तते
        • अधिकरणपदम् = मयि
        • कर्तृपदम् = सः
        • कर्तृविशेषणम् = योगी
        • कर्तृ-विशेषण-वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= वर्तमानः
          • क्रियाविशेषणम् = सर्वथा
          • कर्तृ-विशेषण-सूचक-पदम् = अपि

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ३२ ॥

पदच्छेदः

आत्मौपम्येन सर्वत्र समं पश्यति योः अर्जुन सुखं वा यदि वा दुःखं सः योगी परमः मतः ॥

अन्वयः

अर्जुन ! (तस्मात्) सुखं (भवतु) यदि वा (तस्मात्) दुःखं (तथापि) यः आत्मौपम्येन सर्वत्र समं पश्यति सः परमः योगी मतः ।

पदपरिचय:

  • सम्बोधनपदम् = अर्जुन!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = पश्यति
      • कर्मपदम् = समम्
      • स्थानवाचकपदम् = सर्वत्र
      • करणवाचकपदम् = आत्मौपम्येन
      • कर्तृपदम् = यः
      • कालवाचक-वाक्यांश:
        • क्रियापदम् = (भवतु)
        • कर्तृपदम् = सुखम्
        • कर्तृपदम् = दुःखम्
        • सम्योजकपदम् = यदि
        • सम्योजकपदम् = वा
      • “सः” वाक्यांश:
        • वाक्यांश:
          • क्रिया-गर्भ-कर्तृपदम्= मतः
          • कर्तृ-विशेषण-सूचक-पदम् = परमः
          • कर्तृ-विशेषण-सूचक-पदम् = योगी
        • कर्तृपदम् = सः

अर्जुन उवाच –

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ३३ ॥

पदच्छेदः

य अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन एतस्यहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥

अन्वयः

मधुसूदन ! यः अयं योगः त्वया साम्येन प्रोक्तः मनसः चञ्चलत्वात् एतस्य स्थिरां स्थितिं अहं न पश्यामि ।

पदपरिचय:

  • सम्बोधनपदम् = मधुसूदन!
  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= प्रोक्तः
      • करणवाचकपदम् = साम्येन
      • कर्मपदम् = योगः
      • कर्मविशेषणम् = अयम्
      • कर्मविशेषणम् = यः
      • कर्तृपदम् = त्वया
    • “एतस्य” वाक्यांश:
      • क्रियापदम् = पश्यामि
      • क्रियाविशेषणम् = न
      • वाक्यांश:
        • कर्मपदम् = स्थितिम्
        • कर्मविशेषणम् = स्थिराम्
        • सम्बन्ध-पदम् = एतस्य
      • वाक्यांश:
        • कारणवाचकपदम् = चञ्चलत्वात्
        • सम्बन्ध-पदम् = मनसः
      • कर्तृपदम् = अहम्

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् ।

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥ ३४ ॥

पदच्छेदः

चञ्चलं हि मनः कृष्ण प्रमाथि बलवत् दृढम् तस्य अहं निग्रहं मन्ये वायोः इव सुदुष्करम् ॥

अन्वयः

कृष्ण ! मनः हि चञ्चलं बलवत् दृढं प्रमाथि । अहं तस्य निग्रहं वायोः इव सुदुष्करं मन्ये ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियाविशेषणम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = चञ्चलम्
    • कर्तृ-विशेषण-सूचक-पदम् = बलवत्
    • कर्तृ-विशेषण-सूचक-पदम् = दृढम्
    • कर्तृ-विशेषण-सूचक-पदम् = प्रमाथि
    • कर्तृपदम् = मनः
    • कर्तृ-विशेषण-सूचक-पदम् = हि
  • द्वितीयवाक्यम्
    • क्रियाविशेषणम् = मन्ये
    • वाक्यांश:
      • कर्मपदम् = निग्रहम्
      • सम्बन्ध-पदम् = तस्य
    • वाक्यांश:
      • कर्मविशेषण-सूचक-पदम् = सुदुष्करम्
      • वाक्यांश:
        • कर्मपदम् = निग्रहम्
        • सम्बन्ध-पदम् = वायोः
        • सम्योजकपदम् = इव
      • कर्तृपदम् = अहम्

श्रीभगवान् उवाच –

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥ ३५ ॥

पदच्छेदः

असंशयं महाबाहो मनः दुर्निग्रहं चलम् अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥

अन्वयः

महाबाहो ! असंशयम् मनः दुर्निग्रहं चलम् । कौन्तेय ! अभ्यासेन तु वैराग्येण च गृह्यते ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • क्रियाविशेषणम् = असंशयम्
    • कर्तृ-विशेषण-सूचक-पदम् = चलम्
    • कर्तृ-विशेषण-सूचक-पदम् = दुर्निग्रहम्
    • कर्तृपदम् = मनः
  • सम्बोधनपदम् = कौन्तेय!
  • द्वितीयवाक्यम्
    • (कर्मणि) क्रियापदम् = गृह्यते
    • (कर्मणि) कर्मपदम् = मनः
    • (कर्मणि) कर्तृपदम् = अभ्यासेन
    • (कर्मणि) कर्तृपदम् = वैराग्येण
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = तु
    • सम्योजकपदम् = च

असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥ ३६ ॥

पदच्छेदः

असंयतात्मना योगः दुष्प्रापः इति मे मतिः वश्यात्मना तु यतता शक्यः अवाप्तुम् उपायतः ॥

अन्वयः

असंयतात्मना योगः दुष्प्रापः इति मे मतिः । यतता वश्यात्मना तु उपायतः अवाप्तुं शक्यः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (अस्ति)
    • वाक्यांश:
      • कर्तृपदम् = मतिः
      • सम्बन्ध-पदम् = मे
    • कर्म-वाक्यम्
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= दुष्प्रापः
      • (कर्मणि) कर्मपदम् = योगः
      • (कर्मणि) कर्तृपदम् = असंयतात्मना
      • सम्योजकपदम् = इति
    • द्वितीयवाक्यम्
      • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= शक्यः
      • वाक्यांश:
        • तुमुनन्तपदम् = अवाप्तुम्
        • क्रियाविशेषणम् = उपायतः
      • (कर्मणि) कर्तृपदम् = वश्यात्मना
      • (कर्मणि) कर्तृविशेषणम् = यतता
      • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = तु

अर्जुन उवाच –

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः ।

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥ ३७ ॥

पदच्छेदः

अयतिः श्रद्धया उपेतः योगात् चलितमानसः अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ॥

अन्वयः

कृष्ण ! श्रद्धया उपेतः अयतिः योगात् चलितमानसः योगसंसिद्धिम् अप्राप्य कां गतिं गच्छति ?

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छति
    • कर्मपदम् = गतिम्
    • प्रश्नवाचक-कर्म-पदम् = काम्
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = अप्राप्य
      • कर्मपदम् = योगसंसिद्धिम्
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= चलितमानसः
      • अपादानपदम् = योगात्
    • कर्तृपदम् = अयतिः
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = उपेतः
      • करणवाचकपदम् = श्रद्धया

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति ।

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥ ३८ ॥

पदच्छेदः

कच्चिन् न भयविभ्रष्टः छिन्नाभ्रम् इव नश्यति अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि ॥

अन्वयः

महाबाहो ! उभयविभ्रष्टः अप्रतिः ब्रह्मणः पथि विमूढः छिन्नाभ्रमिव न नश्यति कच्चित् ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो!
  • प्रथमवाक्यम्
    • क्रियापदम् = नश्यति
    • क्रियाविशेषणम् = न
    • प्रश्नवाचक-कर्तृ-पदम् = कच्चित्
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = छिन्नाभ्रम्
      • सम्योजकपदम् = इव
    • वाक्यांश:
      • कर्तृपदम् = विमूढः
      • वाक्यांश:
        • अधिकरणपदम् = पथि
        • सम्बन्ध-पदम् = ब्रह्मणः
      • कर्तृपदम् = उभयविभ्रष्टः

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥ ३९ ॥

पदच्छेदः

एतत् मे संशयं कृष्ण छेत्तुम् अर्हस्य अशेषतः त्वदन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते ॥

अन्वयः

कृष्ण ! एतत् मे संशयम् अशेषतः छेत्तुम् अर्हसि । त्वदन्यः हि अस्य संशयस्य छेत्ता न उपपद्यते ।

पदपरिचय:

  • सम्बोधनपदम् = कृष्ण!
  • प्रथमवाक्यम्
    • वाक्यांश:
      • क्रियापदम् = अर्हसि
      • क्रियाविशेषणम् = अशेषतः
      • तुमुनन्तपदम् = छेत्तुम्
    • वाक्यांश:
      • कर्मपदम् = अशेषतः
      • सम्बन्ध-पदम् = मे
    • कर्मविशेषणम् = एतत्
  • द्वितीयवाक्यम्
    • क्रियापदम् = उपपद्यते
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्तृपदम् = छेत्ता
      • सम्बन्ध-पदम् = संशयस्य
      • सम्बन्ध-विशेषण-पदम् = अस्य
    • वाक्यांश:
      • कर्तृविशेषणम् = त्वदन्यः
      • कर्तृ-विशेषण-सूचक-पदम् = हि

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥

पदच्छेदः

पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते न हि कल्याणकृत् कश्चित् दुर्गतिं तात गच्छति ॥

अन्वयः

पार्थ ! इह तस्य विनाशः न एव विद्यते । अमुत्र न । तात ! कल्याणकृत् कश्चित् दुर्गतिं न गच्छति हि ।

पदपरिचय:

  • सम्बोधनपदम् = पार्थ!
  • प्रथमवाक्यम्
    • क्रियापदम् = विद्यते
    • क्रियाविशेषणम् = न
    • क्रियाविशेषणम् = एव
    • वाक्यांश:
      • कर्तृपदम् = विनाशः
      • सम्बन्ध-पदम् = तस्य
      • अधिकरणपदम् = इह
    • द्वितीयवाक्यम्
      • क्रियापदम् = विद्यते
      • क्रियाविशेषणम् = न
      • वाक्यांश:
        • कर्तृपदम् = विनाशः
        • सम्बन्ध-पदम् = तस्य
      • अधिकरणपदम् = अमुत्र
    • सम्बोधनपदम् = तात!
    • तृतीयवाक्यम्
      • क्रियापदम् = गच्छति
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = हि
      • कर्मपदम् = दुर्गतिम्
      • कर्तृपदम् = कल्याणकृत्
      • कर्तृविशेषणम् = कश्चित्

प्राप्य पुण्यकृताँल्लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

पदच्छेदः

प्राप्य पुण्यकृतान् लोकान् उषित्वा शाश्वतीः समाः शुचीनां श्रीमतां गेहे योगभ्रष्टः अभिजायते ॥

अन्वयः

योगभ्रष्टः पुण्यकृतां लोकान् प्राप्य शाश्वतीः समाः उषित्वा शुचीनां श्रीमतां गेहे अभिजायते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = अभिजायते
    • वाक्यांश:
      • अधिकरणपदम् = गेहे
      • सम्बन्ध-पदम् = श्रीमताम्
      • सम्बन्ध-विशेषण-पदम् = शुचीनाम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = उषित्वा
      • कालवाचकपदम् = समाः
      • कालवाचक-विशेषण-पदम् = शाश्वतीः
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्राप्य
      • वाक्यांश:
        • कर्मपदम् = लोकान्
        • सम्बन्ध-पदम् = पुण्यकृताम्
      • कर्तृपदम् = योगभ्रष्टः

अथवा योगिनामेव कुले भवति धीमताम् ।

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥

पदच्छेदः

अथवा योगिनाम् एव कुले भवति धीमताम् एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् ॥

अन्वयः

अथवा धीमतां योगिनां कुले एव भवति । यत् ईदृशं जन्म एतत् लोके दुर्लभतरम् हि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = भवति
    • वाक्यांश:
      • अधिकरणपदम् = कुले
      • अधिकरण-विशेषणम् = एव
      • सम्बन्ध-पदम् = योगिनाम्
      • सम्बन्ध-विशेषण-पदम् = धीमताम्
    • सम्योजकपदम् = अथवा
    • कर्तृपदम् = जन्म
  • द्वितीयवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = दुर्लभतरम्
    • कर्तृ-विशेषण-सूचक-पदम् = हि
    • अधिकरणपदम् = लोके
    • कर्तृपदम् = जन्म
    • कर्तृविशेषणम् = यत्
    • कर्तृविशेषणम् = ईदृशम्
    • कर्तृविशेषणम् = एतत्

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥

पदच्छेदः

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् यतते च ततः भूयः संसिद्धौ कुरुनन्दन ॥

अन्वयः

कुरुनन्दन ! (सः) तत्र तं पौर्वदेहिकं बुद्धिसंयोगं लभते । ततः च (सः) संसिद्धौ भूयः यतते ।

पदपरिचय:

  • सम्बोधनपदम् = कुरुनन्दन!
  • प्रथमवाक्यम्
    • क्रियापदम् = लभते
    • कर्मपदम् = बुद्धिसंयोगम्
    • कर्मविशेषणम् = तम्
    • कर्मविशेषणम् = पौर्वदेहिकम्
    • अधिकरणपदम् = तत्र
    • कर्तृपदम् = (सः)
  • द्वितीयवाक्यम्
    • क्रियापदम् = यतते
    • क्रियाविशेषणम् = भूयः
    • अधिकरणपदम् = संसिद्धौ
    • अपादानपदम् = ततः
    • सम्योजकपदम् = च
    • कर्तृपदम् = (सः)

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥

दच्छेदः

पूर्वाभ्यासेन तेन एव ह्रियते हि अवशः अपि सः जिज्ञासुः अपि योगस्य शब्दब्रह्म अतिवर्तते ॥

अन्वयः

सः अवशः अपि तेन पूर्वाभ्यासेन एव ह्रियते । योगस्य जिज्ञासुः अपि शब्दब्रह्म अतिवर्तते हि ।

पदपरिचय:

  • प्रथमवाक्यम्
    • (कर्मणि) क्रियापदम् = ह्रियते
    • (कर्मणि) कर्तृपदम् = पूर्वाभ्यासेन
    • (कर्मणि) कर्तृ-विशेषण-सूचक-पदम् = एव
    • (कर्मणि) कर्तृविशेषणम् = तेन
    • (कर्मणि) कर्मपदम् = अवशः
    • (कर्मणि) कर्मविशेषण-सूचक-पदम् = अपि
    • (कर्मणि) कर्मविशेषणम् = सः
  • द्वितीयवाक्यम्
    • क्रियापदम् = अतिवर्तते
    • क्रियाविशेषणम् = हि
    • कर्मपदम् = शब्दब्रह्म
    • वाक्यांश:
      • कर्तृपदम् = जिज्ञासुः
      • कर्तृ-विशेषण-सूचक-पदम् = अपि
      • सम्बन्ध-पदम् = योगस्य

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ४५ ॥

पदच्छेदः

प्रयत्नात् यतमानः तु योगी संशुद्धकिल्बिषः अनेकजन्मसंसिद्धः ततः याति परां गतिम् ॥

अन्वयः

संशुद्धकिल्बिषः प्रयत्नात् यतमानः योगी तु अनेकजन्मसंसिद्धः ततः परां गतिं याति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = याति
    • कर्मपदम् = गतिम्
    • कर्मविशेषणम् = पराम्
    • अपादानपदम् = ततः
    • कर्तृपदम् = योगी
    • कर्तृ-विशेषण-सूचक-पदम् = तु
    • कर्तृविशेषणम् = अनेकजन्मसंसिद्धः
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= यतमानः
      • क्रियाविशेषणम् = प्रयत्नात्
    • कर्तृविशेषणम् = संशुद्धकिल्बिषः

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ४६ ॥

पदच्छेदः

तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन ॥

अन्वयः

योगी तपस्विभ्यः अधिकः मतः । ज्ञानिभ्यः अपि अधिकः । कर्मिभ्यः च अधिकः । अर्जुन ! तस्मात् योगी भव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रिया-गर्भ-कर्तृपदम्= मतः
    • वाक्यांश:
      • कर्तृपदम् = अधिकः
      • अपादानपदम् = तपस्विभ्यः
    • कर्तृपदम् = योगी
  • द्वितीयवाक्यम्
    • कर्तृपदम् = अधिकः
    • अपादानपदम् = ज्ञानिभ्यः
    • अपादानविशेषणम् = अपि
    • कर्तृपदम् = योगी
  • तृतीयवाक्यम्
    • कर्तृपदम् = अधिकः
    • अपादानपदम् = कर्मिभ्यः
    • सम्योजकपदम् = च
    • कर्तृपदम् = योगी
  • सम्बोधनपदम् = अर्जुन!
  • चतुर्थवाक्यम्
    • क्रियापदम् = भव
    • कर्तृ-विशेषण-सूचक-पदम् = योगी
    • कर्तृपदम् = (त्वम्)
    • कारणवाचकपदम् = तस्मात्

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ४७ ॥

पदच्छेदः

योगिनाम् अपि सर्वेषां मद्गतेन अन्तरात्मना श्रद्धावान् भजते यः मां सः मे युक्ततमः मतः ॥

अन्वयः

सर्वेषां योगिनाम् अपि यः श्रद्धावान् मद्गतेन अन्तरात्मना मां भजते सः मे युक्ततमः मतः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = भजते
      • कर्मपदम् = माम्
      • करणवाचकपदम् = अन्तरात्मना
      • करणविशेषणम् = मद्गतेन
      • वाक्यांश:
        • कर्तृपदम् = यः
        • सम्बन्ध-पदम् = योगिनाम्
        • सम्बन्ध-विशेषण-पदम् = सर्वेषाम्
        • सम्बन्ध-विशेषण-पदम् = अपि
      • कर्तृविशेषणम् = श्रद्धावान्
    • “सः” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= मतः
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = युक्ततमः
        • सम्बन्ध-पदम् = मे
      • कर्तृपदम् = सः

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6mt आत्मसंयमयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site

Yogi Ramsuratkumar’s voice – Shloka #2 – Pushpe Gandham

Yogi at darshan hallपुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम् ।
इक्षौ गुडं तथा देहे पश्यात्मानं विवेकतः॥

Here is a shloka that Yogi Ramsuratkumar, Godchild, Tiruvannamalai used to recite. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

https://drive.google.com/open?id=0B_LMgoFM5B7JUTFoQXhPMzR4blE

पदच्छेदः

पुष्पे गन्धं तिले तैलं काष्ठे अग्निं पयसि घृतम् इक्षौ गुडं तथा देहे पश्य आत्मानं विवेकतः |

अन्वयः

(यथा) पुष्पे गन्धं, तिले तैलं, काष्ठे अग्निं, पयसि घृतम्, इक्षौ गुडं (च) (पश्यसि), तथा विवेकतः देहे आत्मानं पश्य |

पदपरिचय:

  • “(यथा)” वाक्यांश:
    • क्रियापदम् = (पश्यसि)
    • क्रियाविशेषणम् = (यथा)
    • वाक्यांश:
      • कर्मपदम् = गन्धम् [ अ. पुं. द्वि. एक. ]
      • अधिकरणपदम् = पुष्पे [ अ. नपुं. स. एक. ]
    • वाक्यांश:
      • कर्मपदम् = तैलम् [ अ. नपुं. द्वि. एक. ]
      • अधिकरणपदम् = तिले [ अ. पुं. स. एक. ]
    • वाक्यांश:
      • कर्मपदम् = अग्निम् [ अ. पुं. द्वि. एक. ]
      • अधिकरणपदम् = काष्ठे [ अ. नपुं. स. एक. ]
    • वाक्यांश:
      • कर्मपदम् = घृतम् [ अ. नपुं. द्वि. एक. ]
      • अधिकरणपदम् = पयसि [ स. नपुं. स. एक. ]
    • वाक्यांश:
      • कर्मपदम् = गुडम् [ अ. पुं. द्वि. एक. ]
      • अधिकरणपदम् = इक्षौ [ उ. पुं. स. एक. ]
    • सम्योजकपदम् = (च)
    • कर्तृपदम् = (त्वम्)
  • “तथा” वाक्यांश:
    • क्रियापदम् = पश्य [ दृश् “दृशिर् प्रेक्षणे” पर. लोट्. मपु. एक. ]
    • कर्मपदम् = आत्मानम् [ न. पुं. द्वि. एक. ]
    • अधिकरणपदम् = देहे [ अ. पुं. स. एक. ]
    • कारणवाचकपदम् = विवेकतः [ अ. पुं. प. एक. ]
    • कर्तृपदम् = (त्वम्)

Puṣpē gandhaṁ tilē tailaṁ kāṣṭhē̕gniṁ payasi ghr̥tam |
Ikṣau guḍaṁ tathā dēhē paśyātmānaṁ vivēkataḥ ||

  • pushpe – in the flowers
  • gandhan – the scent
  • tile – in the seed
  • tailam – oil
  • kaashthe – in the wood
  • agnim – fire
  • payasi – in milk
  • ghrtam – ghee
  • ikshau – in the sugarcane
  • gudan – jaggery
  • tatha – similarly
  • dehe – in the body
  • pashya – see
  • aatmaanam – the soul
  • vivekatah – by means of discrimination

The scent in the flower, the oil in the seed, the fire in the wood, the ghee in the milk, the jaggery in sugarcane, and similarly the soul in body are to be seen by discrimination only. This will not be explicitly evident.

Shloka written by Chanakya.

Bhagavad Gita – Chapter 5

श्रीमद्भगवद्गीता – पञ्चमोध्यायः – कर्मसंन्यासयोगः

(Some updates are pending)

अर्जुन उवाच –

सन्न्यासं कर्मणां कृष्णः पुनर्योगं च शंससि ।

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥ १ ॥

पदच्छेदः

सन्न्यासं कर्मणां कृष्ण पुनः योगं च शंससि यत् श्रेयः एतयोः एकं तत् मे ब्रूहि सुनिश्चितम् ॥ १ ॥

अन्वयः

कृष्ण ! कर्मणां सन्न्यासं पुनः योगं च शंससि । एतयोः यत् श्रेयः तत् सुनिश्चितम् एकं मे ब्रूहि ।

पदपरिचय:

  • प्रथमवाक्यम्

 

श्रीभगवानुवाच –

सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥

पदच्छेदः

सन्न्यासः कर्मयोगः च निःश्रेयसकरौ उभौ तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ॥ २ ॥

अन्वयः

सन्न्यासः कर्मयोगः च उभौ निःश्रेयसकरौ । तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (स्थः)
    • कर्तृपदम् = निःश्रेयसकरौ
    • कर्तृविशेषणम् = उभौ
    • वाक्यांश:
      • कर्तृपदम् = सन्न्यासः
      • कर्तृपदम् = कर्मयोगः
      • सम्योजकपदम् = च
    • द्वितीयवाक्यम्
      • क्रियापदम् = विशिष्यते
      • कर्तृपदम् = कर्मयोगः
      • अपादानपदम् = कर्मसन्न्यासात्
      • सम्बन्ध-पदम् = तयोः
      • सम्बन्ध-विशेषण-सूचक-पदम् = तु

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥

पदच्छेदः

ज्ञेयः सः नित्यसन्न्यासी यः न द्वेष्टि न काङ्क्षति निर्द्वन्द्वः हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ ३ ॥’

अन्वयः

महाबाहो ! यः न द्वेष्टि न काङ्क्षति सः नित्यसन्न्यासी ज्ञेयः । निर्द्वन्द्वः बन्धात् सुखं प्रमुच्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • वाक्यांश:
        • क्रियापदम् = द्वेष्टि
        • क्रियाविशेषणम् = न
      • वाक्यांश:
        • क्रियापदम् = काङ्क्षति
        • क्रियाविशेषणम् = न
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= ज्ञेयः
      • कर्म-वाक्यम्
        • क्रियापदम् = (भवति)
        • कर्तृ-विशेषण-सूचक-पदम् = नित्यसन्न्यासी
        • कर्तृपदम् = सः
        • सम्योजकपदम् = (इति)
      • द्वितीयवाक्यम्
        • क्रियापदम् = प्रमुच्यते
        • क्रियाविशेषणम् = सुखम्
        • अपादानपदम् = बन्धात्
        • कर्तृपदम् = निर्द्वन्द्वः

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥

पदच्छेदः

साङ्ख्ययोगौ पृथक् बालाः प्रवदन्ति न पण्डिताः एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् ॥ ४ ॥

अन्वयः

बालाः साङ्ख्ययोगौ पृथक् प्रवदन्ति, पण्डिताः न । एकम् अपि सम्यक् आस्थितः उभयोः फलं विन्दते ।

पदपरिचय:

  • सम्बोधनपदम् = बालाः
  • प्रथमवाक्यम्
    • क्रियापदम् = प्रवदन्ति
    • कर्म-वाक्यम्
      • क्रियापदम् = (स्थः)
      • क्रियाविशेषणम् = पृथक्
      • कर्तृपदम् = साङ्ख्ययोगौ
      • सम्योजकपदम् = (इति)
    • द्वितीयवाक्यम्
      • क्रियापदम् = प्रवदन्ति,
      • क्रियाविशेषणम् = न
      • कर्तृपदम् = पण्डिताः
    • तृतीयवाक्यम्
      • क्रियापदम् = विन्दते
      • वाक्यांश:
        • कर्मपदम् = फलम्
        • सम्बन्ध-पदम् = उभयोः
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= आस्थितः
        • क्रियाविशेषणम् = सम्यक्
        • कर्मपदम् = एकम्
        • कर्मविशेषण-सूचक-पदम् = अपि

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ५ ॥

पदच्छेदः

यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ ४ ॥

अन्वयः

यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = प्राप्यते
      • कर्मपदम् = स्थानम्
      • कर्मविशेषणम् = यत्
      • करणवाचकपदम् = साङ्ख्यैः
    • “तत्” वाक्यांश:
      • क्रियापदम् = गम्यते
      • करणवाचकपदम् = योगैः
      • करणविशेषणम् = अपि
      • कर्मपदम् = तत्
    • द्वितीयवाक्यम्
      • “यः” वाक्यांश:
        • क्रियापदम् = पश्यति
        • कर्म-वाक्यम्
          • क्रियापदम् = (अस्ति)
          • कर्तृ-विशेषण-सूचक-पदम् = एकम्
          • कर्तृपदम् = साङ्ख्यम्
          • कर्तृपदम् = योगम्
          • सम्योजकपदम् = च
          • सम्योजकपदम् = (इति)
        • कर्तृपदम् = यः
      • “सः” वाक्यांश:
        • क्रियापदम् = पश्यति
        • कर्तृपदम् = सः

सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥

पदच्छेदः

सन्न्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः योगयुक्तः मुनिः ब्रह्म न चिरेण अधिगच्छति ॥ ६ ॥

अन्वयः

महाबाहो ! सन्न्यासः तु अयोगतः आप्तुं दुःखम् । योगयुक्तः मुनिः नचिरेण ब्रह्म अधिगच्छति ।

पदपरिचय:

  • सम्बोधनपदम् = महाबाहो
  • प्रथमवाक्यम्
    • क्रियापदम् = (भवति)
    • कर्तृ-विशेषण-सूचक-पदम् = दुःखम्
    • तुमुनन्तपदम् = आप्तुम्
    • कारणवाचकपदम् = अयोगतः
    • कर्तृपदम् = सन्न्यासः
    • कर्तृविशेषणम् = तु
  • द्वितीयवाक्यम्
    • क्रियापदम् = अधिगच्छति
    • कर्मपदम् = ब्रह्म
    • करणवाचकपदम् = नचिरेण
    • कर्तृपदम् = मुनिः
    • कर्तृविशेषणम् = योगयुक्तः

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥

पदच्छेदः

योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ॥ ६ ॥

अन्वयः

योगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = लिप्यते
    • क्रियाविशेषणम् = न
    • कर्तृपदम् = योगयुक्तः
    • कर्तृविशेषणम् = विशुद्धात्मा
    • कर्तृविशेषणम् = विजितात्मा
    • कर्तृविशेषणम् = जितेन्द्रियः
    • कर्तृविशेषणम् = सर्वभूतात्मभूतात्मा
    • वाक्यांश:
      • कर्तृविशेषणम् = कुर्वन्
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

पदच्छेदः

नैव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् पश्यन् शृण्वन्  स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥ ८ ॥ प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥ ९ ॥

अन्वयः

युक्तः तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि’ इति मन्येत ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = मन्येत
    • कर्म-वाक्यम्
      • क्रियापदम् = करोमि’
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = एव
      • कर्तृपदम् = किञ्चित्
      • सम्योजकपदम् = इति
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= धारयन्
      • कर्म-वाक्यम्
        • क्रियापदम् = वर्तन्ते
        • कर्तृपदम् = इन्द्रियाणि
        • अधिकरणपदम् = इन्द्रियार्थेषु
        • सम्योजकपदम् = इति
      • कर्तृपदम् = युक्तः
      • कर्तृविशेषणम् = तत्त्ववित्
      • कर्तृविशेषणम् = पश्यन्
      • कर्तृविशेषणम् = शृण्वन्
      • कर्तृविशेषणम् = स्पृशन्
      • कर्तृविशेषणम् = जिघ्रन्
      • कर्तृविशेषणम् = अश्नन्
      • कर्तृविशेषणम् = गच्छन्
      • कर्तृविशेषणम् = स्वपन्
      • कर्तृविशेषणम् = श्वसन्
      • कर्तृविशेषणम् = प्रलपन्
      • कर्तृविशेषणम् = विसृजन्
      • कर्तृविशेषणम् = गृह्णन्
      • कर्तृविशेषणम् = उन्मिषन्
      • वाक्यांश:
      • कर्तृविशेषणम् = निमिषन्
      • कर्तृ-विशेषण-सूचक-पदम् = अपि

ब्रह्मण्याधाय कर्माणि सं त्यक्त्वा करोति यः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ १० ॥

पदच्छेदः

ब्रह्मणि आधाय कर्माणि सङ्गं त्यक्त्वा करोति यः लिप्यते न स पापेन पद्मपत्रम् इव अम्भसा ॥ १० ॥

अन्वयः

यः ब्रह्मणि आधाय सङ्गं त्यक्त्वा कर्माणि करोति सः अम्भसा पद्मपत्रम् इव पापेन न लिप्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = करोति
      • कर्मपदम् = कर्माणि
      • क्त्वान्त-वाक्यांश:
        • क्त्वान्तपदम् = त्यक्त्वा
        • कर्मपदम् = सङ्गम्
      • ल्यबन्त-वाक्यांश:
        • ल्यबन्तपदम् = आधाय
        • अधिकरणपदम् = ब्रह्मणि
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = लिप्यते
      • क्रियाविशेषणम् = न
      • करणवाचकपदम् = पापेन
      • वाक्यांश:
        • करणवाचकपदम् = अम्भसा
        • कर्मपदम् = पद्मपत्रम्
        • सम्योजकपदम् = इव
      • कर्तृपदम् = सः

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥

पदच्छेदः

कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वा आत्मशुद्धये ॥ ११ ॥

अन्वयः

योगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति । पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = कुर्वन्ति
    • कर्मपदम् = कर्म
    • सम्प्रदानपदम् = आत्मशुद्धये
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्वा
      • कर्मपदम् = सङ्गम्
    • करणवाचकपदम् = कायेन
    • करणवाचकपदम् = मनसा
    • करणवाचकपदम् = बुद्ध्या
    • वाक्यांश:
      • करणवाचकपदम् = इन्द्रियैः
      • करणविशेषणम् = केवलैः
      • करणविशेषणम् = अपि
    • कर्तृपदम् = योगिनः

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।

अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥

पदच्छेदः

युक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥

अन्वयः

युक्तः कर्मफलं त्यक्वा नैष्ठिकिं शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आप्नोति
    • कर्मपदम् = शान्तिम्
    • कर्मविशेषणम् = नैष्ठिकिम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = त्यक्वा
      • कर्मपदम् = कर्मफलम्
    • कर्तृपदम् = युक्तः
  • द्वितीयवाक्यम्
    • क्रियापदम् = निबध्यते
    • कर्तृ-विशेषण-वाक्यांश:
      • कर्तृपदम् = सक्तः
      • अधिकरणपदम् = फले
      • करणवाचकपदम् = कामकारेण
    • कर्तृपदम् = अयुक्तः

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥

पदच्छेदः

सर्वकर्माणि मनसा सन्न्यस्य आस्ते सुखं वशी नवद्वारे पुरे देही नैव कुर्वन् न कारयन् ॥ १३ ॥

अन्वयः

वशी देही नवद्वारे पुरे सर्वकर्माणि मनसा सन्न्यस्य न एव कुर्वन् न कारयन् सुखम् आस्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आस्ते
    • क्रियाविशेषणम् = सुखम्
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= कुर्वन्
      • क्रियाविशेषणम् = न
      • क्रियाविशेषणम् = एव
    • कर्तृ-विशेषण-वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= कारयन्
      • क्रियाविशेषणम् = न
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = सन्न्यस्य
      • करणवाचकपदम् = मनसा
    • कर्मपदम् = सर्वकर्माणि
    • अधिकरणपदम् = पुरे
    • अधिकरण-विशेषणम् = नवद्वारे
    • कर्तृपदम् = देही
    • कर्तृविशेषणम् = वशी

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

पदच्छेदः

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥

अन्वयः

प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = सृजति
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्मपदम् = कर्तृत्वम्
      • सम्बन्ध-पदम् = लोकस्य
    • कर्तृपदम् = प्रभुः
  • द्वितीयवाक्यम्
    • क्रियापदम् = सृजति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = कर्माणि
    • कर्तृपदम् = प्रभुः
  • तृतीयवाक्यम्
    • क्रियापदम् = सृजति
    • क्रियाविशेषणम् = न
    • कर्मपदम् = कर्मफलसंयोगम्
    • कर्तृपदम् = प्रभुः
  • चतुर्थवाक्यम्
    • क्रियापदम् = प्रवर्तते
    • कर्तृपदम् = स्वभावः
    • कर्तृ-विशेषण-सूचक-पदम् = तु

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

पदच्छेदः

न आदत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥

अन्वयः

विभुः कस्यचित् पापं न आदत्ते । सुकृतं च एव न । ज्ञानम् अज्ञानेन आवृतम् । तेन जन्तवः मुह्यन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = आदत्ते
    • क्रियाविशेषणम् = न
    • वाक्यांश:
      • कर्मपदम् = पापम्
      • सम्बन्ध-पदम् = कस्यचित्
    • कर्तृपदम् = विभुः
  • द्वितीयवाक्यम्
    • क्रियापदम् = (आदत्ते)
    • क्रियाविशेषणम् = न
    • कर्मपदम् = सुकृतम्
    • कर्मविशेषण-सूचक-पदम् = एव
    • सम्योजकपदम् = च
    • कर्तृपदम् = (विभुः)
  • तृतीयवाक्यम्
    • (कर्मणि) क्रिया-गर्भ-कर्मपदम्= आवृतम्
    • (कर्मणि) कर्मपदम् = ज्ञानम्
    • (कर्मणि) कर्तृपदम् = अज्ञानेन
  • चतुर्थवाक्यम्
    • (कर्मणि) क्रियापदम् = मुह्यन्ति
    • (कर्मणि) कर्मपदम् = जन्तवः
    • (कर्मणि) कर्तृपदम् = तेन

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

पदच्छेदः

ज्ञानेन तु तत् अज्ञानं येषां नाशितम् आत्मनः तेषाम् आदित्यवत् ज्ञानं प्रकाशयति तत्परम् ॥ १६ ॥

अन्वयः

आत्मनः ज्ञानेन येषाम् अज्ञानम् नाशितं तेषां तु तत् ज्ञानम् आदित्यवत् परं प्रकाशयति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येषाम्” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= नाशितम्
      • वाक्यांश:
        • कर्मपदम् = अज्ञानम्
        • सम्बन्ध-पदम् = येषाम्
      • वाक्यांश:
        • कर्तृपदम् = ज्ञानेन
        • सम्बन्ध-पदम् = आत्मनः
      • “तत्” वाक्यांश:
        • क्रियापदम् = प्रकाशयति
        • वाक्यांश:
          • णिजन्त: – प्रयोजककर्ता = ज्ञानम्
          • कर्तृविशेषणम् = परम्
          • कर्तृविशेषणम् = आदित्यवत्
        • वाक्यांश:
          • णिजन्त: – प्रयोज्यकर्ता = तत्
          • कर्तृविशेषणम् = परम्

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

पदच्छेदः

तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः गच्छन्ति अपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥

अन्वयः

तद्बुद्धयः तदात्मानः तन्निष्ठाः तत्परायणाः ज्ञाननिर्धूतकल्मषाः अपुनरावृत्तिं गच्छन्ति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = गच्छन्ति
    • कर्मपदम् = अपुनरावृत्तिम्
    • कर्तृपदम् = तद्बुद्धयः
    • कर्तृविशेषणम् = तदात्मानः
    • कर्तृविशेषणम् = तन्निष्ठाः
    • कर्तृविशेषणम् = तत्परायणाः
    • कर्तृविशेषणम् = ज्ञाननिर्धूतकल्मषाः

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

पदच्छेदः

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ १८ ॥

अन्वयः

पण्डिताः विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि शुनि च एव श्वपाके च समदर्शिनः (भवन्ति) ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = (भवन्ति)
    • वाक्यांश:
      • कर्तृ-विशेषण-सूचक-पदम् = समदर्शिनः
      • अधिकरणपदम् = विद्याविनयसम्पन्ने
      • अधिकरणपदम् = ब्राह्मणे
      • अधिकरणपदम् = गवि
      • अधिकरणपदम् = हस्तिनि
      • अधिकरणपदम् = शुनि
      • सम्योजकपदम् = च
      • अधिकरण-विशेषणम् = एव
      • अधिकरणपदम् = श्वपाके
    • कर्तृपदम् = पण्डिताः

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

पदच्छेदः

इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

अन्वयः

येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “येषाम्” वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितम्
      • वाक्यांश:
        • कर्तृपदम् = मनः
        • सम्बन्ध-पदम् = येषाम्
      • अधिकरणपदम् = साम्ये
    • “तैः” वाक्यांश:
      • क्रिया-गर्भ-कर्मपदम्= जितः
      • अधिकरणपदम् = इह
      • अधिकरण-विशेषणम् = एव
      • कर्मपदम् = सर्गः
      • कर्तृपदम् = तैः
    • द्वितीयवाक्यम्
      • क्रियापदम् = (अस्ति)
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = समम्
        • कर्तृविशेषणम् = हि
      • कर्तृपदम् = ब्रह्म
      • कर्तृविशेषणम् = निर्दोषम्
    • तृतीयवाक्यम्
      • क्रिया-गर्भ-कर्तृपदम्= स्थिताः
      • अधिकरणपदम् = ब्रह्मणि
      • कर्तृपदम् = ते
      • कारणवाचकपदम् = तस्मात्

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।

स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

पदच्छेदः

न प्रहृष्येत् प्रियं प्राप्य नोद्विजेत् प्राप्य च अप्रियम् स्थिरबुद्धिः असम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ॥ २० ॥

अन्वयः

ब्रह्मवित् ब्रह्मणि स्थितः स्थिरबुद्धिः असम्मूढः प्रियं प्राप्य न प्रहृष्येत् । अप्रियं प्राप्य च न उद्विजेत् ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = प्रहृष्येत्
    • क्रियाविशेषणम् = न
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्राप्य
      • कर्मपदम् = प्रियम्
    • कर्तृपदम् = असम्मूढः
    • कर्तृविशेषणम् = ब्रह्मवित्
    • वाक्यांश:
      • क्रिया-गर्भ-कर्तृपदम्= स्थितः
      • अधिकरणपदम् = ब्रह्मणि
    • कर्तृविशेषणम् = स्थिरबुद्धिः
  • द्वितीयवाक्यम्
    • क्रियापदम् = उद्विजेत्
    • क्रियाविशेषणम् = न
    • ल्यबन्त-वाक्यांश:
      • ल्यबन्तपदम् = प्राप्य
      • कर्मपदम् = अप्रियम्
    • सम्योजकपदम् = च

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ॥ २१ ॥

पदच्छेदः

बाह्यस्पर्शेषु असक्तात्मा विन्दति आत्मनि यत् सुखम् स ब्रह्मयोगयुक्तात्मा सुखम् अक्षयम् अश्नुते ॥ २१ ॥

अन्वयः

बाह्यस्पर्शेषु असक्तात्मा आत्मनि यत् सुखं विन्दति सः ब्रह्मयोगयुक्तात्मा अक्षयं सुखम् अश्नुते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यत्” वाक्यांश:
      • क्रियापदम् = विन्दति
      • कर्मपदम् = सुखम्
      • कर्मविशेषणम् = यत्
      • अधिकरणपदम् = आत्मनि
      • वाक्यांश:
        • क्रिया-गर्भ-कर्तृपदम्= असक्तात्मा
        • सम्बन्ध-पदम् = बाह्यस्पर्शेषु
      • “सः” वाक्यांश:
        • क्रियापदम् = अश्नुते
        • कर्मपदम् = सुखम्
        • कर्मविशेषणम् = अक्षयम्
        • कर्तृपदम् = सः
        • कर्तृविशेषणम् = ब्रह्मयोगयुक्तात्मा

ये हि संस्पर्शजा भोगाः दुःखयोनय एव ते ।

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

पदच्छेदः

ये हि संस्पर्शजाः भोगाः दुःखयोनयः एव ते आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ २२ ॥

अन्वयः

कौन्तेय ! ये संस्पर्शजाः भोगाः ते आद्यन्तवन्तः दुःखयोनयः एव हि । बुधः तेषु न रमते ।

पदपरिचय:

  • सम्बोधनपदम् = कौन्तेय
  • प्रथमवाक्यम्
    • “ये” वाक्यांश:
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = संस्पर्शजाः
      • कर्तृपदम् = भोगाः
      • कर्तृविशेषणम् = ये
    • “ते” वाक्यांश:
      • क्रियापदम् = (भवन्ति)
      • कर्तृ-विशेषण-सूचक-पदम् = आद्यन्तवन्तः
      • वाक्यांश:
        • कर्तृ-विशेषण-सूचक-पदम् = दुःखयोनयः
        • कर्तृ-विशेषण-सूचक-पदम् = एव
        • कर्तृ-विशेषण-सूचक-पदम् = हि
      • कर्तृपदम् = ते
    • द्वितीयवाक्यम्
      • क्रियापदम् = रमते
      • क्रियाविशेषणम् = न
      • अधिकरणपदम् = तेषु
      • कर्तृपदम् = बुधः

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

पदच्छेदः

शक्नोति इह एव यः सोढुं प्राक्शरीरविमोक्षणात् कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

अन्वयः

यः इह एव शरीरविमोक्षणात् प्राक् कामक्रोधोद्भवं वेगं सोढुं शक्नोति सः नरः युक्तः, सः (एव च) सुखी ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = शक्नोति
      • तुमुनन्तपदम् = सोढुम्
      • कर्मपदम् = वेगम्
      • कर्मविशेषणम् = कामक्रोधोद्भवम्
      • वाक्यांश:
        • कर्मविशेषण-सूचक-पदम् = प्राक्
        • अपादानपदम् = शरीरविमोक्षणात्
      • अधिकरणपदम् = इह
      • अधिकरण-विशेषणम् = एव
      • कर्तृपदम् = यः
    • “सः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = युक्तः
      • कर्तृपदम् = नरः
      • कर्तृविशेषणम् = सः
    • द्वितीयवाक्यम्
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = सुखी
      • सम्योजकपदम् = (च)
      • कर्तृपदम् = सः
      • कर्तृ-विशेषण-सूचक-पदम् = (एव)

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ २४ ॥

पदच्छेदः

यः अन्तः सुखः अन्तरारामः तथा अन्तर्ज्योतिः एव यः स योगी ब्रह्मनिर्वाणं ब्रह्मभूतः अधिगच्छति ॥ २४ ॥

अन्वयः

यः अन्तःसुखः अन्तरारामः तथा यः एव अन्तर्ज्योतिः सः योगी ब्रह्मभूतः ब्रह्मनिर्वाणम् अधिगच्छति।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = अन्तःसुखः
      • कर्तृ-विशेषण-सूचक-पदम् = अन्तरारामः
      • कर्तृपदम् = यः
    • “यः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = अन्तर्ज्योतिः
      • कर्तृपदम् = यः
      • कर्तृ-विशेषण-सूचक-पदम् = एव
    • “सः” वाक्यांश:
      • क्रियापदम् = अधिगच्छति
      • कर्तृपदम् = सः
      • कर्तृविशेषणम् = योगी
      • कर्तृविशेषणम् = ब्रह्मभूतः

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥

पदच्छेदः

लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ २५ ॥’

अन्वयः

क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = लभन्ते
    • कर्मपदम् = ब्रह्मनिर्वाणम्
    • कर्तृपदम् = ऋषयः
    • वाक्यांश:
      • कर्तृविशेषणम् = रताः
      • अधिकरणपदम् = सर्वभूतहिते
    • कर्तृविशेषणम् = यतात्मानः
    • कर्तृविशेषणम् = छिन्नद्वैधाः
    • कर्तृविशेषणम् = क्षीणकल्मषाः

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

पदच्छेदः

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥

अन्वयः

कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = वर्तते
    • क्रियाविशेषणम् = अभितः
    • कर्मपदम् = ब्रह्मनिवाणम्
    • सम्बन्ध-पदम् = यतीनाम्
    • सम्बन्ध-विशेषण-पदम् = कामक्रोधवियुक्तानाम्
    • सम्बन्ध-विशेषण-पदम् = यतचेतसाम्
    • सम्बन्ध-विशेषण-पदम् = विदितात्मनाम्

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

पदच्छेदः

स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः चैव अन्तरे भ्रुवोः प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥ २७ ॥ यतेन्द्रियमनोबुद्धिः मुनिः मोक्षपरायणः विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥ २८ ॥

अन्वयः

यः स्पर्शान् बाह्यान् बहिः चक्षुः च एव भ्रुवोः अन्तरे कृत्वा नासाभ्यन्तरचारिणौ प्राणापानौ समौ कृत्वा यतेन्द्रियमनोबुद्धिः मोक्षपरायणः विगतेच्छाभयक्रोधः मुनिः (वर्तते) सः सदा मुक्तः एव ।

पदपरिचय:

  • प्रथमवाक्यम्
    • “यः” वाक्यांश:
    • क्रियापदम् = (वर्तते)
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • स्थानवाचकपदम् = बहिः
      • कर्मपदम् = स्पर्शान्
      • कर्मविशेषणम् = बाह्यान्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • वाक्यांश:
        • स्थानवाचकपदम् = अन्तरे
        • सम्बन्ध-पदम् = भ्रुवोः
      • सम्योजकपदम् = च
      • सम्योजकपदम् = एव
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = कृत्वा
      • क्रिया-गर्भ-कर्मपदम्= समौ
      • कर्मपदम् = प्राणापानौ
      • कर्मविशेषणम् = नासाभ्यन्तरचारिणौ
    • कर्तृपदम् = यः
    • कर्तृविशेषणम् = यतेन्द्रियमनोबुद्धिः
    • कर्तृविशेषणम् = मोक्षपरायणः
    • कर्तृविशेषणम् = विगतेच्छाभयक्रोधः
    • कर्तृविशेषणम् = मुनिः
    • “सः” वाक्यांश:
      • क्रियापदम् = (भवति)
      • कर्तृ-विशेषण-सूचक-पदम् = मुक्तः
      • कर्तृ-विशेषण-सूचक-पदम् = एव
      • कर्तृपदम् = सः
      • कालवाचकपदम् = सदा

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥ २९ ॥

पदच्छेदः

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिम् ऋच्छति ॥ २९ ॥

अन्वयः

यज्ञतपसां भोक्तारं सर्वलोकमहेश्वरं सर्वभूतानां सुहृदं मां ज्ञात्वा शान्तिम् ऋच्छति ।

पदपरिचय:

  • प्रथमवाक्यम्
    • क्रियापदम् = ऋच्छति
    • कर्मपदम् = शान्तिम्
    • क्त्वान्त-वाक्यांश:
      • क्त्वान्तपदम् = ज्ञात्वा
      • कर्मपदम् = माम्
      • वाक्यांश:
        • कर्मविशेषणम् = सुहृदम्
        • सम्बन्ध-पदम् = सर्वभूतानाम्
      • कर्मविशेषणम् = सर्वलोकमहेश्वरम्
      • वाक्यांश:
        • कर्मविशेषणम् = भोक्तारम्
        • सम्बन्ध-पदम् = यज्ञतपसाम्
      • कर्तृपदम् = सः

References –

  1. नारायणनम्बूदरि महोदयेन गीताशिक्षणकेन्द्रे पाठिता: श्लोका:
  2. https://sa.wikipedia.org/s/6ri कर्मसंन्यासयोगः
  3. Gita Sopanam and Gita Praveshah course books by Samskrita Bharati [Sanskrit]
  4. Geetadhaturupavalih – A collection of all verb-declensions used in Bhagavad Geeta by H.R. Vishwasa, published by Samskrita Bharati [Sanskrit]
  5. Dhaaturoopanandinee – A collection of all ‘lakaras’ of all ‘dhaatus’ with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  6. Krudantaroopanandinee – A collection of nineteen “krudanta” roopas of all “dhaatus” with grammatical notes by Janardana Hedge, published by Samskrita Bharati [Sanskrit]
  7. https://nivedita2015.wordpress.com/2015/11/24/classification-of-words/ — Explanation of the classification of words used with Anvaya in this site