Gita Govindam Sarga 7 Anvaya

॥ सप्तमः सर्गः ॥
॥ नागरनारायणः ॥

अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४५ ॥

पदच्छेदः

अत्र अन्तरे च कुलटा-आकुल-वर्त्म-पात-संजात-पातकः इव स्फुट-लाञ्छन-श्रीः
वृन्दावन-अन्तरम् अदीपयत् अंशु-जालैः दिक्-सुन्दरी-वदन-चन्दन-बिन्दुः इन्दुः

अन्वयः

अत्र अन्तरे च कुलटाकुलवर्त्मपातसंजातपातकः इव स्फुटलाञ्छनश्रीः दिक्सुन्दरीवदनचन्दनबिन्दुः इन्दुः अंशुजालैः वृन्दावनान्तरम् अदीपयत् |

पदपरिचयः

  • अदीपयत् [ दीप् “दीपीँ दीप्तौ” + निच्प्रत्ययः | लङ्लकारः, प्रथमपुरुषः, एकवचनम् ]
    • किम् अदीपयत् ? वृन्दावनान्तरम्
    • कैः अदीपयत् ? अंशु-जालैः
    • कः अदीपयत् ? इन्दुः
      • कीदृशः इन्दुः ? दिक्-सुन्दरी-वदन-चन्दन-बिन्दुः [ दिक् – direction, here Eastern Direction]
      • पुनः कीदृशः इन्दुः ? स्फुट-लाञ्छन-श्रीः [ स्फुट – clear; लाञ्छन – stain ; श्रीः – brilliance ]
        • कः इव इन्दुः ? कुलटा-आकुल-वर्त्म-पात-संजात-पातकः इव [ कुलटा – unchaste woman; आकुल – filled with / gathering ; पात – fall;  संजात – caused; ]
      • कदा अदीपयत् ? अन्तरे च [ अन्तरे – meanwhile ]
      • कुत्र अदीपयत् ? अत्र

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४६ ॥

पदच्छेदः

प्रसरति शश-धर-बिम्बे विहित-विलम्बे च माधवे विधुरा
विरचित-विविध-विलापम् सा परितापम् चकार उच्छैः

अन्वयः

शशधरबिम्बे प्रसरति (सति) विहितविलम्बे माधवे (सति) च विधुरा सा परितापं विरचितविविधविलापम् उच्छैः चकार |

पदपरिचयः

  • चकार [ कृ “डुकृञ् करणे” लिट्लकारः, प्र.पु., ए.व. ]
    • कथं चकार ? उच्छैः
    • कं चकार ? विरचित-विविध-विलापम् [ विरचित – made; विलापः – lamentation ]
      • कीदृशं विलापम् ? परितापम्
    • का चकार ? सा
      • का सा ? विधुरा [ विधुर – lovesick, depressed]
    • कदा चकार ? विहित-विलम्बे माधवे (सति)
    • कदा चकार ? शश-धर-बिम्बे प्रसरति (सति) [ प्रसरत् – spread ]

॥ गीतम् १३ ॥

कथितसमयेऽपि हरिरहह न ययौ वनम् । मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं  सखीजनवचनवञ्चिताऽहम् ॥ १ ॥

पदच्छेदः

कथित+समये अपि हरिः अहह न ययौ वनम्
मम विफलम् इदम् अमल+रूपम् अपि यौवनम्
यामि हे कम् इह शरणम्
सखी+जन+वचन+वञ्चिता अहम्
अन्वयः

हरिः कथित+समये अपि वनं न ययौ | अह ह | मम इदम् अमल+रूपं विफलम् | यौवनम् अपि (विफलम्) | हे | इह कं शरणं यामि | अहं सखी+जन+वचन+वञ्चिता (अभवम्) |

पदपरिचयः

  • न ययौ [ या “या प्रापणे” लिट्लकारः, प्रथमपुरुषः, एकवचनम् | नागतवान् |
    प्रथमपुरुषः – ययौ ययतुः ययुः ; मध्यमपुरुषः – ययिथ / ययाथ ययथुः यय; उत्तमपुरुषः – ययौ ययिव ययिम; ]

    • कुत्र / किम् ? वनम्
    • कदा ? कथित+समये अपि
    • कः ? हरिः
  • अह ह !
  • विफलम् (अभवत्) |
    • किम् ? अमल+रूपम्
      • कस्याः रूपम् ? मम
      • कीदृशं रूपम् ? इदम्
    • किम् अपि विफलम् ? यौवनम् अपि
  • हे
  • कं यामि [ या “या प्रापणे” | गच्छामि / अवगच्छामि | लट्लकारः, उत्तमपुरुषः, एकवचनम् ]
    • किम् / कथमिति ? शरणम्
    • कुत्र ? इह
  • (अभवम्)
    • कथंभूता अभवम् ? सखी+जन+वचन+वञ्चिता
    • का ? अहम्

यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥

पदच्छेदः

यत् अनुगमनाय निशि गहनम् अपि शीलितम्
तेन मम हृदयम् इदम् असम+शर+कीलितम्

अन्वयः

यत् अनुगमनाय निशि गहनम् अपि शीलितम् तेन इदं मम हृदयम् असम+शर+कीलितम् |

पदपरिचयः

  • यत् वाक्यांशः
    • शीलितम् (अस्ति) [ शीलितम् – frequented ]
      • किम् ? गहनम् अपि
      • कदा ? निशि
      • किमर्थम् ? अनुगमनाय
        • कस्य अनुगमनाय ? यत् (i.e., यस्य कृष्णस्य)
        • कया ? (मया)
      • तेन वाक्यांशः
        • (अस्ति)
          • कथंभूतम् ? असम+शर+कीलितम् [ असम – unequalled, here madana; कीलितम् – pierced ]
          • किम् ? हृदयम्
            • कस्याः ? मम
            • कीदृशम् ? इदम्
          • केन कारणेन ? तेन (कृष्णेन)

मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ ३ ॥
पदच्छेदः

मम मरणम् एव वरम् अति+वितथ+केतना
किम् इह विषहामि विरह+अनल+चेतना
अन्वयः

मम मरणम् एव वरम् | अतिवितथकेतना विरहानलचेतना अहं इह विषहामि किम् ?
पदपरिचयः

  • (भवति)
    • कथंभूतम् ? वरम्
    • किम् ? मरणम् एव
      • कस्याः ? मम
    • विषहामि किम् ? [ विषहामि – endure | वि + सह् “षहँ मर्षणे” | सहे – आत्मनेपदी | विषहामि – परस्मैपदी, लट्लकारः, उ.पु., ए.व.]
      • का ? अहम्
        • कीदृशा? अति+वितथ+केतना [ वितथ – futility; केतन – abode ]
        • पुनः कीदृशा ? विरह+अनल+चेतना
      • कुत्र ? इह

मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥

पदच्छेदः

माम् अह ह विधुरयति मधुर+मधु+यामिनी
का अपि हरिम् अनुभवति कृत+सुकृत+कामिनी

अन्वयः

अह ह | मधुरमधुयामिनी मां विधुरयति | कृतसुकृतकामिनी का अपि हरिम् अनुभवति |

पदपरिचयः

  • अह ह |
  • विधुरयति [ puts in a miserable condition | विधुरं प्रतिकुलं करोति ]
    • का ? मधुर+मधु+यामिनी
    • काम् ? माम्
  • अनुभवति
    • कम् ? हरिम्
    • का ? का अपि
      • कीदृशा ? कृत+सुकृत+कामिनी

अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥

पदच्छेदः

अह ह कलयामि वलय+आदि+मणि+भूषणम्
हरि+विरह+दहन+वहनेन बहु+दूषणम्

अन्वयः

अह ह | हरिविरहदहनवहनेन बहुदूषणं वलयादिमणिभूषणं कलयामि |

पदपरिचयः

  • अह ह |
  • कलयामि [ कल् “कलँ क्षेपे” | लट्., उ.पु., ए.व. ]
    • का ? अहम्
    • किम् ? वलय+आदि+मणि+भूषणम्
      • कीदृशम् ? बहु+दूषणम्
        • केन दूषणम् ? हरि+विरह+दहन+वहनेन

कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥
पदच्छेदः

कुसुम+सुकुमार+तनुम् अतनु+शर+लीलया
स्रक्+अपि हृदि हन्ति माम् अति+विषम+शीलया
अन्वयः

अतनुशरलीलया अतिविषमशीलया स्रक् अपि कुसुमसुकुमारतनुं मां हृदि हन्ति |
पदपरिचयः

  • हन्ति [ हन् “हनँ हिंसागत्योः” | लट्., प्र.पु., ए.व. ]
    • कुत्र ? हृदि
    • काम् ? माम्
      • कीदृशीम् ? कुसुम+सुकुमार+तनुम्
    • कः ? स्रक्+अपि [ स्रक् – garland ]
    • कया ? अतनु+शर+लीलया [ अतनु – bodiless, here madana ]
      • कीदृशया ? अति+विषम+शीलया [ विषम – poisonous]

अहमिह निवसामि नगणितवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥

पदच्छेदः

अहम् इह निवसामि न+गणित+वेतसा
स्मरति मधुसूदनः माम् अपि न चेतसा
अन्वयः

नगणितवेतसा अहम् इह निवसामि | मधुसूदनः चेतसा अपि माम् न स्मरति |

पदपरिचयः

  • निवसामि
    • का ? अहम्
      • कीदृशा ? न+गणित+वेतसा [ वेतसः – cane; Ignoring the tree that causes excitement ]
    • कुत्र ? इह
  • न स्मरति
    • काम् ? माम्
    • कया अपि ? चेतसा अपि
    • कः ? मधुसूदनः

हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥

पदच्छेदः

हरि+चरण+शरण+जयदेव+कवि+भारती
वसतु हृदि युवतिः इव कोमल+कलावती

अन्वयः

हरिचरणशरणजयदेवकविभारती कोमलकलावती युवतिः इव हृदि वसतु |

पदपरिचयः

  • वसतु [ वस् “वसँ निवासे” प.प., लोट्., प्र.पु., ए.व. ]
    • कुत्र ? हृदि
    • का इव ? युवतिः इव
      • कीदृशी युवतिः ? कोमलकलावती
    • का ? हरिचरणशरणजयदेवकविभारती

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमुभ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥
पदच्छेदः

तत् किम् काम् अपि कामिनीम् अभिसृतः किम् वा कला+केलिभिः

बद्धः बन्धुभिः अन्धकारिणि वन+अभ्यर्णे किम् उद्भ्राम्यति

कान्तः क्लान्त+मनाः मनाक् अपि पथि प्रस्थातुम् एव अक्षमः

सङ्केती+कृत+मञ्जु+वञ्जुल+लता+कुञ्जे अपि यत् न आगतः

अन्वयः

यत् सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जे अपि कान्तः न आगतः, तत् काम् अपि कामिनीम् अभिसृतः किम् |  वा बन्धुभिः (सह) कलाकेलिभिः बद्धः किम् | अन्धकारिणि वनाभ्यर्णे / वनोपान्ते उद्भ्राम्यति किम् | क्लान्तमनाः मनाक् अपि पथि प्रस्थातुम् एव अक्षमः किम् |

पदपरिचयः

  • यत् वाक्यांशः
    • न आगतः
      • कः न आगतः ? कान्तः
      • कुत्र न आगतः ? सङ्केतीकृतमञ्जुवञ्जुललताकुञ्जे अपि
      • तस्य कारणं किम् / यस्मात् कारणात् न आगतः ? यत्
    • तत् वाक्यांशः
      • अभिसृतः किम्
        • काम् अभिसृतः ? काम् अपि कामिनीम्
        • यत् कारणं तत् किम् ? तत्
      • वा बद्धः किम् [ बद्धः = कर्मपदं कर्मणीप्रयोगः ]
        • कैः ? कलाकेलिभिः [ करणपदम् ]
        • कैः बद्धः ? बन्धुभिः [ कर्तृपदं कर्मणीप्रयोगः ]
      • उद्भ्राम्यति किम्
        • कः उद्भ्राम्यति ? (कृष्णः)
        • कुत्र उद्भ्राम्यति ? वनाभ्यर्णे / वनोपान्ते
          • कीदृशे वनाभ्यर्णे / वनोपान्ते ? अन्धकारिणि
        • अक्षमः किम्
          • किं कर्तुम् ? प्रस्थातुम् एव
          • कुत्र ? पथि
          • कियत् ? मनाक् अपि [ किञ्चिदपि ]
          • कः ? (कृष्णः)
            • कथंभूतः ? क्लान्तमनाः [ मनस् शब्दः एकवचने मनाः ]

पाठभेदः

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनाभ्यर्णे किमुद्भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥

अथागतां माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥

पदच्छेदः

अथ आगताम् माधवम् अन्तरेण सखीम् इयम् वीक्ष्य विषादमूकाम्
विशङ्क्माना रमितम् कया अपि जनार्दनम् दृष्टवत् एतत् आह

अन्वयः

अथ माधवम् अन्तरेण आगतां विषादमूकां सखीं वीक्ष्य, विशङ्क्माना इयं कया (सह) अपि रमितं जनार्दनं दृष्टवत् एतत् आह |

पदपरिचयः

  • आह |
    • किम् आह ? एतत्
    • किं कृत्वा आह ? वीक्ष्य
      • कां वीक्ष्य ? सखीम्
        • कथम्भूतां सखीम् ? विषादमूकाम्
        • कीदृशीं सखीम् ? आगताम्
          • केन विना आगताम् ? माधवम् अन्तरेण
        • का आह ? इयम् (राधा)
          • कथम्भूता इयम् ? विशङ्क्माना
        • कथमिव आह ? दृष्टवत् (दृष्टवती इव)
          • कं दृष्टवत् ? जनार्दनम्
            • कथंभूतं जनार्दनम् ? रमितम्
              • कया सह रमितम् ? कया (सह) अपि

॥ गीतम् १४ ॥

स्मरसमरोचितविरचितवेशा । गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥

पदच्छेदः

स्मर+समर+उचित+विरचित+वेशा गलित+कुसुम+भर+विलुलित+केशा
कापि मधुरिपुणा विलसति युवतिः अति+अधिक+गुणा

अन्वयः

स्मरसमरोचितविरचितवेशा गलितकुसुमदरविलुलितकेशा अधिकगुणा कापि युवतिः मधुरिपुणा (सह) विलसति |
पदपरिचयः

  • विलसति
    • का विलसति ? कापि युवतिः
      • कीदृशी युवतिः ? स्मरसमरोचितविरचितवेशा
      • पुनः कीदृशी युवतिः ? गलितकुसुमदरविलुलितकेशा
      • पुनः कथम्भूता युवतिः ? अधिकगुणा
    • केन सह विलसति ? मधुरिपुणा (सह)

हरिपरिरम्भणवलितविकारा । कुचकलशोपरितरलितहारा ॥ २ ॥

पदच्छेदः

हरि+परिरम्भण+वलित+विकारा कुचकलश+उपरि+तरलित+हारा
अन्वयः

हरिपरिरम्भणवलितविकारा कुचकलशोपरितरलितहारा (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |
पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? हरिपरिरम्भणवलितविकारा [ हरेः आलिङ्गनेन (तस्याम्) रचितः कामविकारः]
      • पुनः कीदृशी युवतिः ? कुचकलशोपरितरलितहारा [ तरलितम् = इतस्ततः आन्दोलितम् ]
      • पुनः कथम्भूता युवतिः ? (अधिकगुणा)
    • केन सह विलसति ? (मधुरिपुणा सह)

विचलदलकललिताननचन्द्रा । तदधरपानरभसकृततन्द्रा ॥ ३ ॥

पदच्छेदः

विचलदलकललिताननचन्द्रा तदधरपानरभसकृततन्द्रा
अन्वयः

विचलत्+अलक+ललित+आनन+चन्द्रा तत्+अधर+पान+रभस+कृत+तन्द्रा (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |
पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? विचलदलकललिताननचन्द्रा [ अलकः = चूर्णकुन्तलः = a lock of hair ]
      • पुनः कीदृशी युवतिः ? तदधरपानरभसकृततन्द्रा [ रभसः = आवेशः = fierceness, तन्द्रा = exhaustion ]
      • पुनः कथम्भूता युवतिः ? (अधिकगुणा)
    • केन सह विलसति ? (मधुरिपुणा सह)

चञ्चलकुण्डलदलितकपोला । मुखरितरसनजघनगतिलोला ॥ ४ ॥

पदच्छेदः

चञ्चल+कुण्डल+दलित+कपोला मुखरित+रसन+जघन+गति+लोला

अन्वयः

चञ्चलकुण्डलदलितकपोला मुखरितरसनजघनगतिलोला (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |

पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? चञ्चलकुण्डलदलितकपोला [ दलित = burst / hit ; कपोलः = तनुम् = cheek ]
      • पुनः कीदृशी युवतिः ? मुखरितरसनजघनगतिलोला [ मुखरित.. = शब्दमान..; रसना = मेखला; ; जघनम् = hips; लोल.. = चल.. = कम्पित… ]
      • पुनः कथम्भूता युवतिः ? (अधिकगुणा)
    • केन सह विलसति ? (मधुरिपुणा सह)

दयितविलोकितलज्जितहसिता । बहुविधकूजितरतिरसरसिता ॥ ५ ॥

पदच्छेदः

दयित+विलोकित+लज्जित+हसिता बहुविध+कूजित+रति+रस+रसिता

अन्वयः

दयितविलोकितलज्जितहसिता बहुविधकूजितरतिरसरसिता (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |

पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? दयितविलोकितलज्जितहसिता [ दयित.. = प्रिय.. ; लज्जित.. = लज्जां कृत.. ]
      • पुनः कीदृशी युवतिः ? बहुविधकूजितरतिरसरसिता [ रसित.. = आस्वादित.. ]
      • पुनः कथम्भूता युवतिः ? (अधिकगुणा)
    • केन सह विलसति ? (मधुरिपुणा सह)

विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥

पदच्छेदः

विपुल+पुलक+पृथु+वेपथु+भङ्गा श्वसित+निमीलित+विकसदनङ्गा

अन्वयः

विपुलपुलकपृथुवेपथुभङ्गा श्वसितनिमीलितविकसदनङ्गा (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |

पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? विपुलपुलकपृथुवेपथुभङ्गा [ विपुल.. = बहु.. ; पुलकः = रोमाञ्चनः ; पृथु.. = महत् ; वेपथुः = कम्पः ; भङ्गः = तरङ्गः ]
      • पुनः कीदृशी युवतिः ? श्वसितनिमीलितविकसदनङ्गा [
      • पुनः कथम्भूता युवतिः ? (अधिकगुणा)
    • केन सह विलसति ? (मधुरिपुणा सह)

श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रति रणधीरा ॥ ७ ॥

पदच्छेदः

श्रमजल+कण+भर+सुभग+शरीरा परिपतिता उरसि रति रण+धीरा

अन्वयः

श्रमजलकणभरसुभगशरीरा उरसि परिपतिता रतिरणधीरा  (अधिकगुणा कापि युवतिः मधुरिपुणा विलसति) |

पदपरिचयः

  • (विलसति)
    • का विलसति ? (कापि युवतिः)
      • कीदृशी युवतिः ? श्रमजलकणभरसुभगशरीरा [ श्रमजलम् = स्वेदवारि; सुभग… = सुन्दर…  ]
      • पुनः कथम्भूता युवतिः ? परिपतिता
        • कुत्र परिपतिता ? उरसि
      • पुनः कीदृशी युवतिः ? रतिरणधीरा
    • केन सह विलसति ? (मधुरिपुणा सह)

श्रीजयदेवभणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥

पदच्छेदः

श्रीजयदेवभणितहरिरमितम् कलिकलुषम् जनयतु परिशमितम्

अन्वयः

श्रीजयदेवभणितहरिरमितम् कलिकलुषम् जनयतु परिशमितम् |

पदपरिचयः

  • जनयतु
    • कथंभूतं जनयतु ? परिशमितम्
    • किं परिशमितं जनयतु ? कलिकलुषम् [ कर्मपदम् ]
    • किं जनयतु ? श्रीजयदेवभणितहरिरमितम् [ कर्तृपदम् ]

विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरयं तिरयन्नपि वेदनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥

पदच्छेदः

विरह-पाण्डु-मुरारि-मुख+अम्बुज-द्युतिः अयम् तिरयन् अपि वेदनाम् विधुः अतीव तनोति मनोभुवः सहृत् अये हृदये मदनव्यथाम् |
पाठभेदः

वेदनाम् à चेतसाम्

अन्वयः

अये | मनोभुवः सहृत् विरहपाण्डुमुरारिमुखाम्बुजद्युतिः वेदनाम् तिरयन् अपि अयं विधुः हृदये अतीव मदनव्यथां तनोति |

पदपरिचयः

  • अये |
  • तनोति [ वितारयति ]
    • कां तनोति ? मदनव्यथाम्
      • कथंभूतं मदनव्यथाम् ? अतीव
    • कुत्र तनोति ? हृदये
    • कः तनोति ? अयम्
      • कः अयम् ? विधुः [ चन्द्रः ]
        • कीदृशः विधुः ? विरहपाण्डुमुरारिमुखाम्बुजद्युतिः [ पाण्डु = सित, विवर्ण ]
      • किं कुर्वन् तनोति ? तिरयन् अपि [ निराकुर्वन् अपि ]
        • कां तिरयन् ? वेदनाम्

॥ गीतम् १५ ॥
समुदितमदने रमणीवदने चुम्बनवलिताधरे । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥

पदच्छेदः

समुदित+मदने रमणी+वदने चुम्बन+वलित+अधरे मृग+मद+तिलकम् लिखति स+पुलकम् मृगम् इव रजनी+करे रमते यमुना+पुलिन+वने विजयी मुरारिः अधुना
अन्वयः

अधुना विजयी मुरारिः यमुनापुलिनवने रमते | समुदितमदने चुम्बनवलिताधरे रमणीवदने रजनीकरे मृगम् इव सपुलकं मृगमदतिलकं लिखति |

पदपरिचयः

  • रमते
    • कुत्र रमते ?
    • कः रमते ? मुरारिः
      • कीदृशः मुरारिः ? विजयी
    • कदा रमते ? अधुना
  • लिखति
    • कथं लिखति ? सपुलकम्
    • किं लिखति ? मृगमदतिलकम् [ कस्तूरीकायाः तिलकम् ]
    • किमिव लिखति ? मृगम् इव [ The spots on the moon resembles those of an antelope as well as a hare ]
      • कुत्र मृगम् इव ? रजनीकरे [ चन्द्रे ]
    • कुत्र लिखति ? रमणीवदने
      • कीदृशे रमणीवदने ? चुम्बनवलिताधरे [ सम्मुखीकृत्य संकोचितः अधरः यत्र ]
        • [ In the context of वदनम्, चुम्बनाय वलितः अधरः यस्मिन् ]
        • [ In the context of चन्द्रः, चुम्बनेन वलितः (युक्तः) अधरः यस्मात् ]
      • पुनः कीदृशे चुम्बनवलिताधरे ? समुदितमदने
        • [ In the context of वदनम्, समुदितः मदनः येन | समुदितः सम्यक् उदितः ]
        • [ In the context of चन्द्रः, समुदितः मदनः यस्मात् ]

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥
पदच्छेदः

घन+चय+रुचिरे रचयति चिकुरे तरलित+तरुण+आनने कुरवक+कुसुमम् चपला+सुषमम् रति+पति+मृग+कानने

अन्वयः

(सः) रतिपतिमृगकानने घनचयरुचिरे तरलिततरुणानने (तस्याः) चिकुरे चपलासुषमं कुरबककुसुमं रचयति |

पदपरिचयः

  • रचयति
    • किं रचयति ? कुरबककुसुमम्
      • कीदृशं कुरबककुसुमम् ? चपलासुषमम्
    • कुत्र रचयति ? चिकुरे
      • कस्याः चिकुरे ? (तस्याः)
      • कीदृशे चिकुरे ? तरलिततरुणानने [ तरलित… = चञ्चलित… | तरलितानि तरुणानाम् आननानि येन सः चिकुरः, तस्मिन् ]
      • पुनः कीदृशे चिकुरे ? घनचयरुचिरे [ घनचय… = मेघचय… | रुचिर… = शोभन… ]
    • पुनः कुत्र भूत्वा रचयति ? रतिपतिमृगकानने [ कामः एव मृगः | तस्य वने ]
    • कः रचयति ? (सः)

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥
पदच्छेदः
घटयति सु+घने कुच+युग+गगने मृग+मद+रुचिर+ऊषिते मणि+सरम् अमलम् तारका+पटलम् नख+पद+शशि+भूषिते

अन्वयः

(सः) सुघने नखपदशशिभूषिते मृगमदरुचिरूषिते (तस्याः) कुचयुगगगने तारकपटलम् अमलं मणिसरं घटयति |
पदपरिचयः

  • घटयति
    • किं घटयति ? मणिसरम्
      • कीदृशं मणिसरम् ? अमलम्
      • कथंभूतं मणिसरम् ? तारकपटलम् [ पटलम् = सङ्घः ]
    • कः ? (सः)
    • कुत्र घटयति ? कुचयुगगगने [ कुचयुगम् एव गगनम्, तस्मिन् ]
      • कस्याः कुचयुगगगने ? (तस्याः)
      • कीदृशे कुचयुगगगने ? मृगमदरुचिरूषिते [ मृगमदः = कस्तूरी | रुचिः = कान्तिः | रूषित = उपलेपित ]
      • पुनः कीदृशे कुचयुगगगने ? सुघने
        • In the context of कुचयुगम्, निबिडम्
        • In the context of आकाशम्, शोभनमेघयुक्तम्
      • कथंभूते कुचयुगगगने ? नखपदशशिभूषिते [ पद… = क्षत… | नखापदमेव शशी ]

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥
पदच्छेदः
जित+बिस+शकले मृदु+भुज+युगले कर+तल+नलिनी+दले मरकत+वलयम् मधुकर+निचयम् वितरति हिम+शीतले

अन्वयः

(सः) हिमशीतले करतलनलिनीदले जितबिसशकले (तस्याः) मृदुभुजयुगले मधुकरनिचयं मरकतवलयं वितरति |

पदपरिचयः

  • वितरति
    • किं / कं वितरति ? मरकतवलयम्
      • कथंभूतं मरकतवलयम् ? मधुकरनिचयम् [ निचयः = समूहः ]
    • कुत्र वितरति ? मृदुभुजयुगले
      • कस्याः मृदुभुजयुगले ? (तस्याः)
      • कीदृशे मृदुभुजयुगले ? जितबिसशकले [ बिसम् = stalk of lotus plant; शकलम् = portion ]
      • कथंभूते मृदुभुजयुगले ? करतलनलिनीदले
      • पुनः कथंभूते मृदुभुजयुगले ? हिमशीतले
    • कः ? (सः)

रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ ५ ॥

पदच्छेदः

रति+गृह+जघने विपुल+अपघने मनसिज+कनक+आसने मणिमय+रसनम् तोरण+हसनम् विकिरति कृत+वासने
अन्वयः

रतिगृहजघने कृतवासने मनसिजकनकासने विपुलापघने तोरणहसनं मणिमयरसनं विकिरति |
पदपरिचयः

  • विकिरति [ विक्षिपति ]
    • किं विकिरति ? मणिमयरसनम् [ रसनम् = रशना = girdle = இடையணி / ஒட்டியாணம் ]
      • कस्याः मणिमयरसनम् ? (तस्याः)
      • कीदृशं मणिमयरसनम् ? तोरणहसनम्
    • कुत्र विकिरति ? विपुलापघने [ अपघनः = अङ्गः ]
      • कीदृशे विपुलापघने ? रतिगृहजघने [ जघनम् = कटिः ]
      • पुनः कीदृशे विपुलापघने ? मनसिजकनकासने
      • पुनः कीदृशे विपुलापघने ? कृतवासने [ वासना = उपभोगवाञ्छा | कृता वासना यत्र ]
    • कः विकिरति ? (सः)

चरणकिसलये कमलानिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥

पदच्छेदः

चरण+किसलये कमला+निलये नख+मणि+गण+पूजिते बहिः+अपवरणम् यावक+भरणम् जनयति हृदि योजिते
अन्वयः

हृदि योजिते कमलानिलये नखमणिगणपूजिते चरणकिसलये यावकभरणं बहिरपवरणं जनयति
पदपरिचयः

  • जनयति [ करोति ]
    • किं जनयति ? यावकभरणम् [ यावकः = अलक्तः = लाक्षा ]
      • कथंभूतं यावकभरणम् ? बहिरपवरणम्
    • कुत्र जनयति ? चरणकिसलये
      • कीदृशं चरणकिसलये ? नखमणिगणपूजिते [ नखान् एव मणयः | एषां गणेन अलङ्कृतौ द्वौ चरणौ ]
      • पुनः कीदृशं चरणकिसलये ? कमलानिलये [ कमलानिलयम् = कमलम् | अत्र कमलसदृशम् ]
      • पुनः कीदृशं चरणकिसलये ? योजिते
        • कुत्र योजिते ? हृदि

रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥
पदच्छेदः

रमयति सदृशम् काम् अपि सुभृशम् खलहलधर+सोदरे किम् अफलम् अवसम् चिरम् इह विरसम् वद सखि विटप+उदरे |
पाठभेदः

सदृशम् à सुदृशम्

अन्वयः

सखि | खलहलधरसोदरे सदृशं कामपि सुभृशं रमयति (सति) इह विटपोदरे अफलं विरसं किं चिरम् अवसं वद |
पदपरिचयः

  • हे सखि |
  • वद |
    • का वद ? त्वम्
    • किं वद? किम् अवसम् (अस्ति इति) वद
      • कीदृशम् अवसम् ? चिरम्
      • पुनः कीदृशम् अवसम् ? विरसम्
      • पुनः कीदृशम् अवसम् ? अफलम्
    • कुत्र अवसम् अस्ति ? इह
      • कुत्र इह ? विटपोदरे
    • कदा अवसम् अस्ति किम् ? रमयति (सति)
      • कथं रमयति सति ? सुभृशम् [ भृशम् = नितराम् ]
      • कां रमयति सति ? कामपि
        • कीदृशीं कामपि ? सदृशम्
          • केन सदृशम् ? खलहलधरसोदरे

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥
पदच्छेदः

इह रस+भणने कृत+हरि+गुणने मधु+रिपु+पद+सेवके कलि+युग+चरितम् न वसतु दुरितम् कवि+नृप+जयदेवके

अन्वयः

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके कविनृपजयदेवके कलियुगचरितं दुरितं न वसतु |

पदपरिचयः

  • न वसतु
    • किं ? दुरितम् [ पापम् ]
      • कीदृशं दुरितम् ? कलियुगचरितम् [ चरित… = आचरित… ]
    • कुत्र न वसतु ? इह
      • कुत्र इह ? कविनृपजयदेवके
        • कीदृशे कविनृपजयदेवके ? मधुरिपुपदसेवके
        • पुनः कीदृशे कविनृपजयदेवके ? कृतहरिगुणने
        • पुनः कीदृशे कविनृपजयदेवके ? रसभणने [ यत्र रसस्य कथं भवति तादृशे ]

नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसङ्गमाय दयितस्याकृष्यमाणं गणैरुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥

पदच्छेदः

न आयातः सखि निर्दयः यदि शठः त्वम् दूति किम् दूयसे स्वच्छन्दम् बहु+वल्लभः सः रमते किम् तत्र ते दूषणम् पश्य अद्य प्रिय+सङ्गमाय दयितस्य अकृष्यमाणम् गुणैः उत्कण्ठ+आर्ति+भरात् इव स्फुटत् इदम् चेतः स्वयम् यास्यति

अन्वयः

सखि | निर्दयः शठः सः यदि न आयातः, (हे) दूति,  त्वं किं दूयसे ? बहुवल्लभः सः स्वच्छन्दं रमते, तत्र ते दूषणं किम् ? पश्य अद्य दयितस्य गुणैः अकृष्यमाणम् इदं (मम) चेतः उत्कण्ठार्तिभरात् स्फुटत् इव प्रियसङ्गमाय स्वयं यास्यति |

पदपरिचयः

  • हे सखि
  • हे दूति
  • किं दूयसे ? [ experiencing distress ]
    • का दूयसे ? त्वम्
    • कस्मिन् सन्दर्भे ? यदि न आयातः
      • कः न आयातः ? सः
        • कीदृशः सः ? शठः [ rascal ]
        • पुनः कीदृशः सः ? निर्दयः
      • दूषणं किम् (अस्ति) ?
        • कस्याः दूषणम् ? ते
        • कस्मिन् सन्दर्भे ? … रमते, तत्र
          • कथं रमते ? स्वच्छन्दम् [ by his own wish ]
          • कः रमते ? सः
            • कीदृशः सः ? बहुवल्लभः
          • पश्य
            • का पश्य ? त्वम्
            • किं पश्य ? … यास्यति इति [ will go ]
              • कथं यास्यति ? स्वयम्
              • किमर्थं यास्यति ? प्रियसङ्गमाय
              • किं कुर्वत् इव यास्यति ? स्फुटत् इव [ bursting ]
                • किमर्थं स्फुटत् ? उत्कण्ठार्तिभरात् [ उत्कण्ठ – eagerness ; आर्ति – grief; भर – weight ]
                • किं स्फुटत् ? इदम्
                  • किं इदम् ? चेतः
                    • कस्याः चेतः ? (मम)
                    • कथंभूतं चेतः ? अकृष्यमाणम् [ being attracted ]
                      • कैः अकृष्यमाणम् ? गुणैः
                        • कस्य गुणैः ? दयितस्य [ दयित = beloved ]
                      • कदा यास्यति ? अद्य

॥ गीतम् १६ ॥
अनिलतरलकुवलयनयनेन । तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ १ ॥ [ इति धृवम्]

पदच्छेदः

अनिल+तरल+कुवलय+नयनेन तपति न सा किसलय+शयनेन सखि या रमिता वनमालिना इति धृवम्
अन्वयः

सखि या अनिलतरलकुवलयनयनेन वनमालिना रमिता, सा किसलयशयनेन न तपति इति धृवम्

पदपरिचयः

  • हे सखि
  • धृवम् अस्ति
    • किं धृवम् अस्ति ? न तपति इति
      • केन कारणेन न तपति ? किसलयशयनेन [ किसलयम् = पल्लवः = बिसलम् ]
      • का न तपति ? सा
        • कीदृशी सा ? या रमिता
          • केन रमिता ? वनमालिना
            • कीदृशेन वनमालिना ? अनिलतरलकुवलयनयनेन [ अनिलः = वायु; तरल… = चञ्चल… ; कुवलयम् = कमलम् ]

विकसितसरसिजललितमुखेन । स्फुटति न सा मनसिजविशिखेन ॥ २ ॥
पदच्छेदः

विकसित+सरसिज+ललित+मुखेन स्फुटति न सा मनसिज+विशिखेन
अन्वयः

विकसितसरसिजललितमुखेन (वनमालिना या रमिता), सा मनसिजविशिखेन न स्फुटति |
पदपरिचयः

  • न स्फुटति
    • केन कारणेन न स्फुटति ? मनसिजविशिखेन
      • का न स्फुटति ? सा
        • कीदृशी सा ? या रमिता
          • केन रमिता ? वनमालिना
            • कीदृशेन वनमालिना ? विकसितसरसिजललितमुखेन

अमृतमधुरमृदुतरवचनेन | ज्वलति न सा मलयजपवनेन ॥ ३ ॥
पदच्छेदः

अमृत+मधुर+मृदुतर+वचनेन ज्वलति न सा मलयज+पवनेन
अन्वयः

अमृतमधुरमृदुतरवचनेन (वनमालिना या रमिता), सा मलयजपवनेन न ज्वलति

पदपरिचयः

  • न ज्वलति
    • केन न ज्वलति ? मलयजपवनेन
    • का न ज्वलति ? सा
      • कीदृशी सा ? या रमिता
        • केन रमिता ? वनमालिना
          • कीदृशेन वनमालिना ? अमृतमधुरमृदुतरवचनेन

स्थलजलरुहरुचिकरचरणेन । लुठति न सा हिमकरकिरणेन ॥ ४ ॥
पदच्छेदः

स्थल+जलरुह+रुचि+कर+चरणेन लुठति न सा हिमकरकिरणेन

अन्वयः

स्थलजलरुहरुचिकरचरणेन (वनमालिना या रमिता), सा हिमकरकिरणेन न लुठति |

पदपरिचयः

  • न लुठति [ न व्याकुलयति ]
    • केन न लुठति ? हिमकरकिरणेन [ हिमकरः = चन्द्रः = moon, the maker of coolness ]
    • का न लुठति ? सा
      • कीदृशी सा ? या रमिता
        • केन रमिता ? वनमालिना
          • कीदृशेन वनमालिना ? स्थलजलरुहरुचिकरचरणेन [ स्थल = land; जलरुहः = कमलम् ; रुचिः = कान्तिः ]

सजलजलदसमुदयरुचिरेण । दलति न सा हृदि चिरविरहेण ॥ ५ ॥
पाठभेदः

दहति न सा हृदि विरहदवेन

पदच्छेदः

सजल+जलद+समुदय+रुचिरेण दलति न सा हृदि चिर+विरहेण

अन्वयः

सजलजलदसमुदयरुचिरेण (वनमालिना या रमिता), सा चिरविरहेण हृदि न दलति

पदपरिचयः

  • न दलति [ न स्फुटति ]
    • कुत्र न दलति ? हृदि
    • केन न दलति ? चिरविरहेण
    • का न दलति ? सा
      • कीदृशी सा ? या रमिता
        • केन रमिता ? वनमालिना
          • कीदृशेन वनमालिना ? सजलजलदसमुदयरुचिरेण [ जलदसमुदयः = कमलानां समूहः; (तस्मात्) रुचिरः = सुन्दरः ]

कनकनिकषरुचिशुचिवसनेन । श्वसिति न सा परिजनहसनेन ॥ ६ ॥
पाठभेदः

श्वसति न सा परिजनहसनेन

पदच्छेदः

कनक+निकष+रुचि+शुचि+वसनेन श्वसिति न सा परिजन+हसनेन
अन्वयः

कनकनिकषरुचिशुचिवसनेन (वनमालिना या रमिता), सा परिजनहसनेन न श्वसिति
पदपरिचयः

  • न श्वसिति [ श्वसिति = निःश्वसिति = sighs ]
    • केन न श्वसिति ? परिजनहसनेन
    • का न श्वसिति ? सा
      • कीदृशी सा ? या रमिता
        • केन रमिता ? वनमालिना
          • कीदृशेन वनमालिना ? कनकनिकषरुचिशुचिवसनेन [ निकषः = निकषपाषाणः = स्पर्शमणिः = touchstone ; रुचिः = दीप्तिः ]

सकलभुवनजनवरतरुणेन । वहति न सा रुजमतिकरुणेन ॥ ७ ॥
पदच्छेदः

सकल+भुवन+जन+वर+तरुणेन वहति न सा रुजम् अति+करुणेन

अन्वयः

सकलभुवनजनवरतरुणेन (वनमालिना या रमिता), सा अतिकरुणेन रुजं न वहति

पदपरिचयः

  • न वहति
    • किं न वहति ? रुजम् [ रुजम् = पीडा ]
    • कथं रजं न वहति ? अतिकरुणेन
    • का न वहति ? सा
      • कीदृशी सा ? या रमिता
        • केन रमिता ? वनमालिना
          • कीदृशेन वनमालिना ? सकलभुवनजनवरतरुणेन

श्रीजयदेवभणितवचनेन । प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥

पदच्छेदः

श्रीजयदेवभणितवचनेन प्रविशतु हरिः अपि हृदयम् अनेन

अन्वयः

अनेन श्रीजयदेवभणितवचनेन हरिः अपि हृदयं प्रविशतु |

पदपरिचयः

  • प्रविशतु
    • किं प्रविशतु ? हृदयम्
    • कः प्रविशतु ? हरिः अपि
    • केन कारणेन ? अनेन
      • अनेन केन ? श्रीजयदेवभणितवचनेन [ भणितम् = उक्तम् ]

मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥
पदच्छेदः

मनः+भव+आनन्दन चन्दन+अनिल प्रसीद रे दक्षिण मुञ्च वामताम् क्षणम् जगत्+प्राण निधाय माधवम् पुरः मम प्राण+हरः भविष्यसि
अन्वयः

हे मनोभवानन्दन ! हे चन्दनानिल ! (त्वं) प्रसीद | रे दक्षिण ! वामतां मुञ्च | हे जगत्प्राण ! क्षणं मम पुरः माधवं निधाय प्राणहरः भविष्यसि |
पदपरिचयः

  • हे मनोभवानन्दन !
  • हे चन्दनानिल ! [ चन्दनानिलः = मलयवायुः ]
  • (त्वं) प्रसीद |
  • रे दक्षिण ! [ दक्षिणः = सरलस्वभावः ]
  • मुञ्च
    • कः ? त्वम्
    • किं मुञ्च ? वामताम् [ वामता = प्रतिकूलता ]
  • हे जगत्प्राण !
  • भविष्यसि
    • कः ? त्वम्
    • कथं भविष्यसि ? प्राणहरः
    • किं कृत्वा ? निधाय
      • कं निधाय ? माधवम्
      • कुत्र निधाय ? मम पुरः
      • कियत् कालम् ? क्षणम्

रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥
पदच्छेदः

रिपुः इव सखी+संवासः अयम् शिखी इव हिम+अनिलः विषम् इव सुधा+रश्मिः यस्मिन् दुनोति मनः+गते हृदयम् अदये तस्मिन् एवम् पुनः वलते बलात् कुवलय+दृशाम् वामः कामः निकाम+निरंकुशः

अन्वयः

यस्मिन् गते (सति) अयं सखीसंवासः रिपुः इव मनः दुनोति, हिमानिलः शिखी इव दुनोति, सुधारश्मिः विषम् इव दुनोति | अदये तस्मिन् एवं पुनः हृदयं बलात् वलते | कुवलयदृशां कामः निकामनिरंकुशः वामः (वर्तते) |

पदपरिचयः

  • दुनोति [ पीडयति ]
    • किं दुनोति ? मनः
    • कदा दुनोति ? यस्मिन् गते (सति)
    • कः दुनोति ? अयम्
      • कः अयम् ? सखीसंवासः
      • कः इव सखीसंवासः दुनोति ? रिपुः इव
    • पुनः कः दुनोति ? हिमानिलः
      • कः इव हिमानिलः दुनोति ? शिखी इव [ अग्निः इव ]
    • पुनः कः दुनोति ? सुधारश्मिः [ चन्द्रः ]
      • कः इव सुधारश्मिः दुनोति ? विषम् इव
    • वलते [ उपयाति ]
      • कथं वलते ? एवं पुनः
      • कस्मात् कारणात् वलते ? बलात्
      • किं वलते ? हृदयम्
      • कुत्र वलते ? तस्मिन्
        • कीदृशे तस्मिन् ? अदये
      • (वर्तते)
        • कथंभूतः वर्तते ? वामः [ वामः = प्रतिकूलः ]
        • कः वामः वर्तते ? कामः
          • कासां कामः ? कुवलयदृशाम् [ कमलनेत्राणाम् ]
        • पुनः कथंभूतः वर्तते ? निकामनिरंकुशः [ निकामम् अति अर्थे – अत्यदिकतया; निरङ्कुशः = अनियन्त्रितः ; निकामनिरंकुशः = अतिशयोच्छृङ्खलः where उत्गतः श्रुङ्खलः यस्य सः = one whose anklet is arising i.e., unfettered, unrestrained ]

बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥

पदच्छेदः

बाधाम् विधेहि मलय+अनिल पञ्च+बाण प्राणान् गृहाण गृहम् पुनः न आश्रयिष्ये किम् ते कृतान्त+भगिनि क्षमया तरङ्गैः अङ्गानि सिञ्च मम शाम्यतु देह+दाहः

अन्वयः

(हे) मलयानिल ! (त्वं) बाधां विधेहि | (हे) पञ्चबाण ! (त्वं) प्राणान् गृहाण | अहं पुनः गृहं न आश्रयिष्ये | (हे) कृतान्तभगिनि | ते क्षमया किं (प्रयोजनमस्ति) ? तरङ्गैः अङ्गानि सिञ्च | मम देहदाहः शाम्यतु |

पदपरिचयः

  • (हे) मलयानिल !
  • विधेहि [ जनय ]
    • कः ? (त्वम्)
    • किं विधेहि ? बाधाम् [ मनसः पीडाः ]
  • (हे) पञ्चबाण !
  • गृहाण
    • कः ? (त्वम्)
    • कान् गृहाण ? प्राणान्
  • न आश्रयिष्ये
    • का ? अहम्
    • कुत्र ? पुनः गृहम्
  • (हे) कृतान्तभगिनि [ कृतान्तः = यमः, यमराजस्य भतिनी = यमुना ]
  • किं (प्रयोजनमस्ति) ?
    • कया किम् ? क्षमया
      • कस्याः क्षमया ? ते
    • सिञ्च
      • का सिञ्च ? त्वम्
      • कानि सिञ्च ? अङ्गानि
      • कैः सिञ्च ? तरङ्गैः
    • शाम्यतु
      • कः शाम्यतु ? देहदाहः
        • कस्याः देहदाहः ? मम

प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीताम्बरं
रधायाश्कितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमञ्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः॥  

पाठभेदः

प्रातर्नीलनिचोलमच्युतमुरस्संवीतपीतांशुकं

पदच्छेदः

प्रातः नील+निचोलम् अच्युतम् उरः संवीत+पीत+अम्बरम् रधायाः चकितम् विलोक्य हसति स्वैरम् सखी+मण्डले व्रीडा+चञ्चलम् अञ्चलम् नयनयोः आधाय राध+आनने स्वादु स्मेर मुखः अयम् अस्तु जगत्+आनन्दाय नन्द+आत्मजः

अन्वयः

प्रातः नीलनिचोलम् अच्युतं संवीतपीताम्बरं रधायाः उरः विलोक्य सखीमण्डले स्वैरं चकितं हसति (सति) राधानने व्रीडाचञ्चलं नयनयोः अञ्चलम् आधाय स्वादुस्मेरमुखः अयं नन्दात्मजः जगदानन्दाय अस्तु

पदपरिचयः

  • अस्तु
    • किमर्थम् अस्तु ? जगदानन्दाय
    • कः अस्तु ? अयम्
      • कः अयम् ? नन्दात्मजः
      • कीदृशः अयम् ? स्वादुस्मेरमुखः [ स्वादु.. = मधुर… ; स्मेर.. = हास्य … ]
        • किंकृत्वा स्वादुस्मेरमुखः ? आधाय
          • किम् आधाय ? अञ्चलम् [ प्रान्तम् = end ]
            • कयोः अञ्चलम् ? नयनयोः
              • कुत्र स्थितयोः नयनयोः ? राधानने
            • कथंभूतम् अञ्चलम् ? व्रीडाचञ्चलम् [ व्रीडा = लज्जा ; तेन तरलम् ]
          • कदा आधाय ? सखीमण्डले हसति (सति)
            • कथं हसति (सति) ? स्वैरम् [ स्वेच्छया ]
            • पुनः कथं हसति (सति) ? चकितम् [ चकितं यथा स्यात् तथा ]
            • किंकृत्वा हसति (सति) ? विलोक्य
              • कं विलोक्य ? अच्युतम्
                • कीदृशं अच्युतम् ? नीलनिचोलम् [ निचोलम् = प्रावरणीयम् = outer garment ]
              • पुनः किं विलोक्य ? उरः
                • कस्याः उरः ? रधायाः
                • कीदृशं उरः ? संवीतपीताम्बरम्
              • कदा विलोक्य ? प्रातः

॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

References:

 

 

Advertisements