RaghuveeraGadyam #10 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ; 

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

 

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Detailed notes are available for this session (Introduction to Ayodhyakandam 2) @

https://nivedita2015.wordpress.com/raghuveeragadyam/#session10

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

 

RaghuveeraGadyam #9 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ; 

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

 

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Detailed notes are available for this session (Introduction to Ayodhyakandam) @

https://nivedita2015.wordpress.com/raghuveeragadyam/#session09

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

 

RaghuveeraGadyam #8 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ; 

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Detailed notes are available for this session (ParashuraamaGarvaBhangah) @

https://nivedita2015.wordpress.com/raghuveeragadyam/#session08

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

 

RaghuveeraGadyam #7 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ; 

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #7

  • कुशिकसुतकथितविदितनवविविधकथ ।
  • मैथिलनगरसुलोचनालोचनचकोरचन्द्र ।
  • खण्डपरशुकोदण्डप्रकाण्डखण्डनशौण्डभुजदण्ड ।
  • चण्डकरकिरण-मण्डलबोधितपुण्डरीकवनरुचिलुण्टाकलोचन ।
  • मोचितजनकहृदयशङ्कातङ्क ।
  • परिहृतनिखिलनरपतिवरणजनकदुहितृकुचतटविहरणसमुचितकरतल ।

कुशिक-सुत-कथित-विदित-नव-विविध-कथ ।

[प्रतिपदार्थः]
कुशिकसुतः = विश्वामित्रः / कौशिकः / गाधिजः ।

कथित = उक्त । विदित =  ज्ञात ।

नव = नूतन/नव्य/ सङ्ख्या (९) । विविध = अनेक ।

कथा = उदन्तः/ वृत्तान्तः ।

कुशिक-सुत-कथित-विदित-नव-विविध-कथ ।

विशेषः वाल्मीकिरामायणम् 1.23.22
कथाभिरभिरामाभिरभिरामौ नृपात्मजौ।
रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः॥

कुशिक-सुत-कथित-विदित-नव-विविध-कथ ।

[तात्पर्यम्]
मार्गे श्रमपरिहारार्थं विश्वामित्रः रामलक्ष्मणाभ्यां विविधकथाः श्रावयति । एवं विविधकथाः ज्ञाताः येन सः, श्रीरामः ।

मैथिल-नगर-सुलोचना-लोचन-चकोर-चन्द्र ।

[प्रतिपदार्थः]
मैथिलः = मिथिलासम्बद्धः, जनकः ।

नगरम् = पुरी ।

सुलोचना = शोभने लोचने यस्याः सा ।

लोचनम् = नयनम् । चकोरः = पक्षिविशेषः ।

चन्द्रः = सुधांशुः ।

मैथिल-नगर-सुलोचना-लोचन-चकोर-चन्द्र ।

[तात्पर्यम्]
मिथिलानगर्याः महिलानां नयनानि एव चकोराः । तादृशानां चकोराणां चन्द्र इव वर्तते, सर्वाङ्गसुन्दरः श्रीरामः ।

मैथिल-नगर-सुलोचना-लोचन-चकोर-चन्द्र ।

  • श्रीरामः
    • रूपम्
    • नाम
    • कथा

मैथिल-नगर-सुलोचना-लोचन-चकोर-चन्द्र ।

विशेषः रामायणमाहात्म्यम्
नास्ति गङ्‍गासमं तीर्थं नास्ति मातृसमो गुरुः ।
नास्ति विष्णुसमो देवः नास्ति रामायणात् परम् ॥ ५.२१ ॥
नास्ति वेदसमं शास्त्रं नास्ति शान्तिसमं सुखम् ।
नास्ति सूर्यसमं ज्योतिः नास्ति रामायणात् परम् ॥ ५.२२ ॥
नास्ति क्षमासमं सारं नास्ति कीर्तिसमं धनम् ।
नास्ति ज्ञानसमो लाभो नास्ति रामायणात् परम् ॥ ५.२३ ॥

मैथिल-नगर-सुलोचना-लोचन-चकोर-चन्द्र ।

विशेषः – श्रीमद्भगवद्गीता15.12

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥

खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डन-शौण्ड-भुजदण्ड ।

[प्रतिपदार्थः]
खण्डपरशुः = शम्भुः । कोदण्डः = धनुर्विशेषः ।

प्रकाण्ड = श्रेष्ठ । खण्डन = भञ्जन ।
शौण्ड = समर्थ ।

भुजदण्डः = दण्डः इव भुजः यस्य सः ।

खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डन-शौण्ड-भुजदण्ड ।

[तात्पर्यम्]
भगवतः शिवस्य धनुर्भञ्जने समर्थः । तत्तादृशधनोः भञ्जनार्थम् अपेक्षितभुजबलं यस्य तादृशः श्रीरामः ।

चण्डकर-किरण-मण्डल-बोधित-पुण्डरीक-वन-रुचि-लुण्टाक-लोचन ।

[प्रतिपदार्थः]
चण्डकर-किरणः = अतिशयेन उष्णः रश्मिः ।

मण्डलम् = बिम्बम् । बोधित = विकसित ।

पुण्डरीकम् = रक्ताम्बुजम् । वनम् = समूहः ।

रुचिः = सुषमा, परमसौन्दर्यम् ।

लुण्टाक = चौर / अपहरण । लोचनम् = नेत्रम्  ।

चण्डकर-किरण-मण्डल-बोधित-पुण्डरीक-वन-रुचि-लुण्टाक-लोचन ।

[तात्पर्यम्]
रामस्य नयनसौन्दर्यं वर्ण्यते अत्र । तस्य नयनद्वयं सूर्यस्य प्रचण्ड-किरणैः विकसित-रक्तवर्ण-पद्म-समूहस्य सुन्दरताम् अतिशेते ।

मोचित-जनक-हृदय-शङ्कातङ्क ।

[प्रतिपदार्थः]
मोचित = मुक्त ।

जनकहृदयम् = जनकस्य हृदयम् ।

शङ्का = संशयः ।

आतङ्कः = भयः ।

मोचित-जनक-हृदय-शङ्कातङ्क ।

[तात्पर्यम्]
जनकस्य हृदये शिवधनुं कोऽपि उत्थापयितुम् अर्हति वा न‌ वा, मत्कन्यायाः विवाहः सम्भवेत् वा न वा इति शङ्कातः समुत्पन्नभयात् जनकं मोचितवान्  श्रीरामः ।

परिहृत-निखिल-नरपति-वरण-जनक-दुहितृ-कुचतट-विहरण-समुचित-करतल ।

[प्रतिपदार्थः]
परिहृत = परिगृहीत / वर्जित । निखिल = समस्त ।

नरपतिः = राजा । वरणम् = प्रार्थना ।

जनकदुहिता = जनकस्य पुत्री । कुचतटम् = स्तनभागः ।

विहरणम् = मर्दनादि लीला ।

समुचित = योग्य । करतलः = हस्तस्य तलः ।

परिहृत-निखिल-नरपति-वरण-जनक-दुहितृ-कुचतट-विहरण-समुचित-करतल ।

[तात्पर्यम्]
यथा समस्तानां राज्ञाम् इच्छा परिहृता भवेत् तथा जनकदुहितुः सीतायाः स्तनतटे विहरणलीलार्थं योग्यकरयुक्तः श्रीरामः ।

खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डन-शौण्ड-भुजदण्ड ।

विशेषः – चाटुश्लोकः

यः सज्जं प्रकुरुते स एव जनकजामाता ।

यः सज्जं न कुरुते सोऽपि जनकजामाता ॥

खण्डपरशु-कोदण्ड-प्रकाण्ड-खण्डन-शौण्ड-भुजदण्ड । …
मोचित-जनक-हृदय-शङ्कातङ्क । …

विशेषः – भरद्वाजरामायणम्

दोर्दण्डद्वितयेन कण्डपरशोः कोदण्डमारोपयन्

कुर्वाणस्य विदेहनृपतिं तीर्णप्रतिज्ञाभरम् ।

सानन्दं कुशिकात्मजेन सुदृशां वृन्देन कौतूहलात्

सव्रीडं प्रिययाऽवलोकितमुखः रामोऽस्तु नः श्रेयसे ॥

 

References

https://sa.wikisource.org/wiki/रघुवीरगद्यम् 

Click to access Raghu%20veera%20Gadhyam.pdf

 

 

 

RaghuveeraGadyam #6 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #6

जड-किरण-शकल-धर-जटिल-नट-पति-
मकुट-तट-नटन-पटु-विबुध-सरिद्-
अति-बहुल-मधु-गलन-ललित-पद-नलिन-
रज-उपमृदित-निज-वृजिन-जहदुपल-
तनुरुचिर-परम-मुनि-वर-युवति-नुत ।

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-बृन्द-वन्दित ।

विशेषः – वाल्मीकिरामायणम् – 1.48.29, 30
तथा शप्त्वा स वै शक्रमहल्यामपि शप्तवान् । इह वर्षसहस्राणि बहूनि त्वं निवसिष्यसि॥
वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी । अदृश्या सर्वभूतानाम् आश्रमेऽस्मिन्वसिष्यसि ॥

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-बृन्द-वन्दित ।

विशेषः – वाल्मीकिरामायणम् – 1.48.31, 32
यदा त्वेतद्वनं घोरं रामो दशरथात्मज: ।आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥
तस्यातिथ्येन दुर्वुत्ते लोभमोहविवर्जिता ।मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥

जड-किरण-शकल-धर-जटिल-नट-पति-मकुट-तट-नटन-पटु-विबुध-सरित्-

[प्रतिपदार्थः] जड-किरणः = शीतलाः किरणाः यस्य सः, चन्द्रः। शकलः = भागः / खण्डः । जड-किरण-शकल-धरः = चन्द्रचूडः महेश्वरः । जटिल-नटपतिः = जटाधरः, नृत्यकृतां पतिः, शम्भुः । मकुट-तट = किरीट-स्थानम् (अर्थात् मूर्धनि) । नटन-पटु = नटन-नैपुण्यं यस्याः अस्ति, सा गङ्गा । विबुध-सरित् = देवानां जलाशयः ।

जड-किरण-शकल-धर-जटिल-नट-पति-मकुट-तट-नटन-पटु-विबुध-सरित्-

[तात्पर्यम्] गङ्गायाः प्रादुभावः सत्यलोके भगवतः हरेः पादात् जातः । ततः सा महेश्वरस्य जटाजूटं प्रविष्टवती । संसर्गजाः दोषगुणाः भवन्ति इति कारणात् शम्भोः नटननैपुण्यं साधितवती किमिति भावः । तादृशी गङ्गा भगवतः रामस्य पादपङ्कजस्य मधुरिववर्तते इति अग्रे कथयति ।

अति-बहुल-मधु-गलन-ललित-पद-नलिन-

[प्रतिपदार्थः] अतिबहुल = अत्यन्तं बाहुल्यं यस्याः सा । मधुः = मकरन्दः । गलन = धारा रूपेण प्रवाहः । ललित = मनोज्ञा । पदनलिन = पदकमलम् ।

अति-बहुल-मधु-गलन-ललित-पद-नलिन-

[तात्पर्यम्] महेश्वरस्य जताजूटे विद्यमानं पवित्रगङ्गाजलम् एव मकरन्दरूपेण यस्य पादपङ्कजे स्रवति तादृशः रामः ।

रज-उपमृदित-निज-वृजिन-जहदुपल-तनुरुचिर-परम-मुनि-वर-युवति-नुत ।

[प्रतिपदार्थः] रजः = रेणुः । उपमृदित = अपनोदित, अपसारित, प्रक्षालित । निज-वृजिन = स्वस्य पापं / दुरितम् । जहद् = त्यक्त । उपलः = शिला । तनुरुचिर = मनोहरं वपुः यस्याः सा । परम-मुनि-वर-युवति = गौतमस्य पत्नी अहल्या । नुतः = तया सेवितः ।

रज-उपमृदित-निज-वृजिन-जहदुपल-तनुरुचिर-परम-मुनि-वर-युवति-नुत ।

[तात्पर्यम्] रामस्य पदधूलिना स्वपापम् अपसार्य, शिलारूपं त्यक्त्वा, मनोहरं वपुः प्राप्य, गौतमस्य पत्नी अहल्या रामं सेवितवती ।

References

https://sa.wikisource.org/wiki/रघुवीरगद्यम् 

Click to access Raghu%20veera%20Gadhyam.pdf

 

 

 

RaghuveeraGadyam #5 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #5

कौमार-केलि-गोपायित-कौशिकाध्वर ।

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

तनुतर-विशिख-विताडन-विघटित-विशरारु-शरारु-ताटका-ताटकेय ।

कौमार-केलि-गोपायित-कौशिकाध्वर ।

[प्रतिपदार्थः] कौमारम् = कुमारस्य (बालस्य) भावः कौमार्यम् । केलिः = क्रीडा । गोपायित = रक्षित । कौशिकः = विश्वामित्रः । अध्वरः = यागः ।

कौमार-केलि-गोपायित-कौशिकाध्वर ।

[तात्पर्यम्] खरदूषणादि भीकरराक्षसान् अपि लीलया (बालक्रीडावत्) सन्दृत्य ऋषेः विश्वामित्रस्य यागरक्षणं कृतवान् ।

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

[प्रतिपदार्थः] रणम् = युद्धम् । अध्वरः = यज्ञः । धुर्य = धुरन्धर । भव्य = क्षेमकर । दिव्य = स्वर्गसम्बद्ध । अस्त्रवृन्दः = अस्त्राणां गणः । वन्दित = सेवित / प्रार्थित ।

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

[तात्पर्यम्] रणम् इति अध्वरे प्रयुज्यमाणानि अस्त्राणि । एतानि धुरन्धराणि (स्वकर्मसु कुशलानि), क्षेमकराणि, दिव्यानि । तादृशास्त्राणां वृन्देन वन्दितः।

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

विशेषः वाल्मीकिरामायणम् 2.27.22

तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ।
जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ॥

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

विशेषः वाल्मीकिरामायणम् 2.27.25

ऊचुश्च मुदितास्सर्वे रामं प्राञ्जलयस्तदा ।
इमे स्म परमोदाराः किङ्करास्तव राघव ॥

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

विशेषः

  • बला
    • न बाधा क्षुत्पिपासाभ्यां यत: सा कथिता बला
  • अतिबला
    • यतः परस्य स्खालित्यं दृड्मनःकायकर्मणाम्

रणाध्वर-धुर्य-भव्य-दिव्यास्त्र-वृन्द-वन्दित ।

विशेषः वाल्मीकिरामायणम् 5.22.20
असन्देशात्तु रामस्य तपसश्चानुपालनात् ।
न त्वां कुर्मि दशग्रीव भस्म भर्मार्ह तेजसा ॥

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

[प्रतिपदार्थः] प्रणतजनः = शरणागताः भक्तजनाः । विमतः = शत्रुः । विमथनम् = निर्मूलनम् । दुर्ललित = परम उग्रः । दोः = बुजः । ललित = सुकोमल ।

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

[तात्पर्यम्] शिष्टरक्षणार्थं तेषां शत्रूणां संहारप्रसङ्गे अत्यन्तम् उग्रः । सुकोमलबाहुसंयुक्तः ।

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित।

विशेषः – अमरकोशः – २.६.६८९

भुजबाहू प्रवेष्टो दोः स्यात् कफोणिस्तु कूर्परः ।

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

विशेषः – श्रेमद्भगवद्गीता – ४.८

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

विशेषः वाल्मीकिरामायणम् 6.59.137
ततो रामो महातेजा रावणेन कृतव्रणम् ।
दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥

प्रणत-जन-विमत-विमथन-दुर्ललित-दोर्ललित ।

विशेषः वाल्मीकिरामायणम् 6.59.138
तस्याभिसंक्रम्य रथं सचक्रं
साश्वध्वजच्छत्रमहापताकम् ।
ससारथिं साशनिशूलखड्गं रामः
प्रचिच्छेद शितैः शराग्रैः॥

तनुतर-विशिख-विताडन-विघटित-विशरारु-शरारु-ताटका-ताटकेय ।

[प्रतिपदार्थः] तनुतर = अत्यन्तलघु । विशिखः = बाणः । विताडन = आघात । विधटित = पातित । विशरारुः = ऋषयः, विगताः शरारवः / शत्रवः येषाम् । शरारुः = शत्रुजनः । ताटकाताटकेयाः = ताटका च तत्पुत्रादि राक्षसाः ।

तनुतर-विशिख-विताडन-विघटित-विशरारु-शरारु-ताटका-ताटकेय ।

[तात्पर्यम्] लघुतरबाणैः ताटकातत्पुत्रादि राक्षसानां विश्वमित्रादि साधुपीडकानां संहारं कृतवान् ।

References

https://sa.wikisource.org/wiki/रघुवीरगद्यम् 

Click to access Raghu%20veera%20Gadhyam.pdf

Click to access Raghu%20veera%20Gadhyam.pdf

 

 

 

RaghuveeraGadyam #4 – Sri Vedanta Deshika

श्रीवेदान्तदेशिकेन विरचितम् रघुवीरगद्यम् ;

Raghuveeragadyam by Srimad Vedaantadeshika ;

on the Life & Leela of Sri Raama ;

प्रस्तोत्री – श्रीमती  सुजाता रमेशः 

Presented by Smt. Sujatha Ramesh

Sanskrit Lecture Series on Literary Works – संस्कृते संस्कृतग्रन्थपरिचयः

Detailed notes at https://nivedita2015.wordpress.com/RaghuveeraGadyam

Paintings Copyrights @krishnafortoday.com and Sri. Keshav. For prints of the paintings, please visit krishnafortoday.com

नमस्क्रिया-श्लोकः

श्रीमान्वेङ्कटनाथार्यः   कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे   सन्निधत्तां सदा हृदि ॥

मङ्गलश्लोकः

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय  वेदान्तगुरवे नमः॥

Session #4

देवासुर-समर-समय-समुदित-निखिल-निर्जर-निर्धारित-निरवधिक-माहात्म्य ।

[तात्पर्यम्] देवासुराणां समरसमये राक्षसैः उत्पीडिताः देवा सर्वे “एकः हरिरेव अस्मद्रक्षकः” इति यथा निर्णयं कुर्युः तादृश असीममहिमावान् ।

दशवदन-दमित-दैवत-परिषदभ्यर्थित-दाशरथिभाव ।

[तात्पर्यम्] दशवदनेन रावणेन पीडितदेवगणैः सम्प्रार्थितः दशरथपुत्रः ।

दिनकर-कुल-कमल-दिवाकर ।

[तात्पर्यम्] सूर्यवंशरूपकमलस्य उद्बोधने समर्थः भास्करः ।

दिविषदधिपति-रण-सहचरण-चतुर-दशरथ-चरम-ऋण-विमोचन ।

[तात्पर्यम्] युद्धेषु देवेन्द्रमपि सहकर्तुं समर्थस्य दशरथस्य पितॄणविमोचकः ।

कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।

[तात्पर्यम्] सर्वजगत्कारणस्य यस्य जन्मप्राप्त्यादि आविर्भावकारणम् अनपेक्षितं सः कौसल्यायाः पुत्ररूपेण जनिं प्राप्य तया रक्षितः (अथवा तस्याः पुत्रप्राप्तिरूपव्याजेन जगति समायातः)

कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।

विशेषः – वाल्मीकिरामायणम् – 2.1.8
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः ।
अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः ॥

कोसलसुता-कुमारभाव-कञ्चुकित-कारणाकार ।

विशेषः – वाल्मीकिरामायणम् – 2.1.8 –
गोविन्दराजस्य टीका मानुषे लोके यत्र देवा अपि मनुष्यगन्धमसहमानाश्छर्दनपूर्वकं कुत्सयन्तो योजनादुपरि स्थित्वा हविराददते तेपि यस्य मनुष्यस्थानीयाः सोऽस्मिन् मानुषे लोके जातः, हन्त किमिदं सौलभ्यमिति भावः ।

References

https://sa.wikisource.org/wiki/रघुवीरगद्यम्